#Article 1: भगवद्गीता (2768 words)


गीतोपदेशः
भगवता गीता भगवद्गीता। एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते।  अत्र उपदेशकः श्रोता अर्जुनः। वैदिकसनातनवर्णाश्रमधर्मावलम्विनां हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता। गीतायाम् अष्टादश अध्यायाः सन्ति। अस्याः मोक्षशास्त्रम् ,ब्रह्मविद्या गीतोपनिषत्, इत्यादिनि नामानि अपि सन्ति। प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते। कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः।

श्रीमदभगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम्। वेदवत् त्रिकाण्डात्मकत्वात्,समस्तवेदार्थ सारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च। प्रसिद्धिश्चैतादृश्येव –

वासुदेव-पार्थयोः संवादरूपायाः गीताया अवसाने अर्जुन उवाच— नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत। स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव। अनेन मोहनाशः जातः यत् तदेव प्रश्नप्रतिवचनेन प्राप्तं सर्वशास्त्रार्थज्ञान  फलमेतदिति निश्चितं दर्शितं भवति। यतो ज्ञानान्मोहनाश आत्मस्मृतिलाभश्चेति। तथा च श्रुतावनात्मविच्छोचामीत्युपन्यस्यात्मज्ञानेन सर्वग्रन्थिविप्रमोक्ष उक्तः भिद्यते हृदयद्रन्थिस्तत्र को मोहः कः शोकः एकत्वमनुपश्यतः इति च मन्त्रवर्णः। एतस्याः गीतायाः शास्त्रत्वे भगवतः स्ववचनमेव प्रमाणम्-

अत्र शंकरभगवत्पादाः – इत्येतद् गुह्यतमं गोप्यतममत्यन्तरहस्यमित्येतत्। किं तच्छास्त्रम्।

तच्छास्त्रम्। यद्यपि गीताख्यं समस्तं शास्त्रमुच्यते तथाप्यमेवाध्याय इह शास्त्रमित्युच्यते स्तुत्यर्थं प्रकरणात्। सर्वो हि गीताशास्रार्थोयऽस्मिन्नाध्याये समासेनोक्तो न केवलं सर्वश्च वेदार्थ इह परिसमाप्तो यस्तं वेद स वेदवित् वेदैश्च सर्वैरहमेव वेद्यः इति चोक्तम्। इदमुक्तं मया हेऽनघापाप। एतच्छास्रं यथादर्शितार्थं बुदध्वा बुद्धिमान् स्यात् भवेन्नान्यथा। कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन स कृतकृत्यो विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत्कर्तव्यं तत्सर्वं भगवत्तत्वविदिते कृतं भवेदित्यर्थः। न चान्यथा कर्त्तव्यं परिसमाप्यते कस्यचिदित्यभिप्रायः। सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते। इति चोक्तम्।
	

इति च मानवं वचनम्। यत् एतत्प्रमार्थतत्त्वं मत्तः श्रुतवानसि ततः कृतार्थस्त्वं भारतेति”। भाष्यस्योपोद्धाते तदिदं गीतशास्त्रं समस्तवेदार्थ-सारस्ंग्रहभूतं दुर्विज्ञेयार्थं तदर्थाविष्करणायानेकै विवृतपदार्थवाक्यार्थ-न्यायमत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमुपलभ्याहं विवेकतोऽर्थ निर्धारणार्थं संक्षेपतो विवरणं करिष्यामि। आचार्याः अस्याः शास्त्रत्वे न विप्रतिपद्यन्ते। आचार्यान्तराणामत्र सम्मतिरेव-

तच्चोक्तं-

पुराणं भागवतं चेति सम्भिन्नः शास्त्रपुङ्गवः- इति नारायणाष्टाक्षरकल्पे॥

ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं स चकार ह।

यस्मिन् दशर्थाः सर्वत्र न ज्ञेयाः सर्व जंतुभिः ॥६॥

परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं च यत् –इति स्कान्दे। तत्र च वासुदेवार्जुन संवादरुपां सर्वभारतार्थसंग्रहां भारतपारिजातमधुभूतां गीतामुपनिवबंध। 

तच्चोक्तं-  ॥ भारतं सर्वशास्रेषु भारते गीतिका वरा॥ 

विष्णो सहस्त्रनामापि ज्ञेयं पाठयं च् तद्वयम् “ इति महाकौर्म्ये ”॥ 

मलनिर्मोचनं पुंसां जलस्नानं दिने दिने।

सकृद्गीताम्भसि स्नानं संसारमलनाशनम्॥

अकृत्यमपि कुर्वाणो भुञ्जानोऽपि यथा तथा।

कदाचिन्नारकं दुःखं गीताध्यायी न पश्यति।

वेदोदघिप्रमथितं वासुदेव समुदधृतम्।

सन्तः पिवन्ति सततं गीतामृतरसायनम् ॥

एकं शास्रं देवकीपुत्रगीतमेकोदेवो देवकीपुत्र एव। 

एको मन्त्रो तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा॥

गीतैव तत्त्वहितायोर्यथावच्छासनात् शास्त्रम। उपनिषत्समाधिना सिद्धव्यवहारनिरुढेः स्रीलिङ्गनिर्देशः। एतेन शास्त्रान्तरादस्य शास्त्रस्याधिक्यं व्यञ्जितम्। स्वयं च महाभारते महर्षिणोक्तम् –“अत्रोपनिषदं पुण्यं कृष्णद्वैपायनोऽब्रवीत्” (म० भा०, आ० प०, १४. २७९) इति उक्तं चाभियुक्तैः –“ यस्मिन् प्रसादसुमुखे कवयोऽपि ये ते शास्राण्यशासुरिहतन्महिमाश्रयाणि। कृष्णेन तेन यदिह स्वयमेवगीतं शास्त्रस्य तस्य सदृशं किमिवास्ति शास्त्रम्।

यद्यपि गीताशास्रे शास्त्रपदं श्रुत्यर्थे प्रयुक्तम् –तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ तथापि शास्त्रत्वन्त्वस्याः स्मृतित्वेऽपि न विरुध्यते। प्राय आचार्या स्मृतिनाम्ना गीताश्लोकानुद्धरन्तो दृश्यन्ते वेदार्थसंग्राहकत्त्वान्नास्या श्रुतित्वम। वेदा एव श्रुति पदाभिलाप्या इति गीतायाः स्मृतित्वं शास्त्रत्वं च भगवदुक्तत्वादागमशास्त्रवत्। वर्णाश्रमधर्मप्रतिपादकत्वाच्च मन्वादिवत्। गीताशास्त्रेऽपि वेदवत् प्रवृत्तिनिवृत्तिलक्षणं धर्मद्वयमपि प्रतिपादितम्। तत्रापि भक्ति-ज्ञान-कर्मयोगानामेकत्र समन्वयेनाखिललोककलयाणपरत्व सुलभत्वञ्चाधिगम्यते।

अनुबन्धचतुष्टयवत् शास्त्रमेतदिति विज्ञापितं भवति, सर्वेषामधिकारित्वबोधनात्। शास्त्रस्यास्य सम्बन्धाभिधेयप्रयोजनानि-मोक्ष इति निः श्रेयसप्रयोजनवत्। किं च पुरुषार्थान्तराणामविरोधेन परमप्रयोदनस्यैव मुख्य्त्वात्। स च मोक्षः परमार्थ स्वरुपबोधात् गीताशास्त्रप्रतिपादितात्। परमार्थः परमात्मा, तत्परमात्मस्वरुपावबोधस्यास्य च शास्त्रस्य साध्यसाधनलक्षणः सम्बन्धः इति अधिकारि-प्रयोजनसम्बन्धाभिधेयविशिष्टं गीताशास्त्रम। अत्र शंकरभवगत्पादाः –

इमं द्विप्रकारं धर्म निः श्रेयसम्प्रयोजनं परमार्थतत्त्वञ्च वासुदेवाख्यं परब्रह्मभिधेयं विशेषतः अभिव्यञ्जयत् विशिष्टप्रयोजनसंबन्धाभिधेयवत् गीताशास्त्रम्। यतः तदर्थविज्ञानेन समस्तपुरुषार्थसिद्धिः।

एवं सकलपुरुषार्थसिद्धये सर्वेषां श्रेयोऽर्थिनां गीताशास्त्रस्य पठनं श्रवणं पाठनं तात्पर्यबोधं विनाऽपि कल्पते इति गीतोक्तं प्रमाणम्। ननु ज्ञानकाण्डात्मिका उपनिषदः यासां सारसंग्रहभूता गीता-

इति कथं समस्तवेदार्थसारसंग्रहात्मिकेति। किञ्च त्रिगुणात्मकत्वात् त्रैगुण्यविषया वेदा निस्त्रैगुण्योभवार्जुन इति चेन्न, काण्डत्रयात्मिकायाः गीतायाः भगवदुक्तत्वादभक्तियोगे कर्मज्ञानयोः समन्वितत्वाच्च। :यावानर्थ उदपाने सर्वतः सम्प्लुतोदके।

इति सार्थक्यं द्विविधधर्मोपदेशस्येति सर्वशास्त्रो पजीव्यत्वेन गीताया सर्वातिशायि महात्म्यम्। उपनिषदस्तावद्रहस्यविद्यात्वेन प्रसिद्धाः गीताशास्त्रं तु गुह्यतममिति तत्रैवावधृतत्वात्। अतः कृतकृत्यता चरितार्थता समग्रस्य जीवनस्य तदा यदा हि गीताशास्त्रमनुसृत्य यथोक्त कर्मयोगमाश्रित्य ज्ञानयोगेन सह भगवद्भक्तियोगेन जीवनस्य परमपुरुषार्थः साधितो भवेत्।

 
पूर्वोक्तदिशा विचार्यमाणे श्रीमदभगवद्गीतायाः शास्त्रत्वं महत्त्वञ्चोपनिषद्दभ्योऽप्यधिकतरं विद्यते इति वक्तुं शक्यते। गुह्यात्गुह्यतरं ततोऽपि गुह्यतमं शास्त्रमिति प्रमाणितं भवति समेषामाचार्याणां वचनैः। यथा गूढार्थदीपिकायामेव-

अतिगम्भीरस्य गीताशास्त्रस्याशेषतः पर्यालोचनक्लेशनिर्वृत्तये कृपया स्वयमेव तस्य सारं संक्षिप्य कथयति –  सर्वगुह्यतममिति । पूर्वं हि गुह्यात् – कर्मयोगाद् गुह्यतरं ज्ञानमाख्यातम्, अधुना तु कर्मयोगात्त-फलभूतज्ञानाच्च सर्वस्मादतिशयेन गुह्यं रहस्यं गुह्यतमं परमम् सर्वतः प्रकृष्टं मे मम वचः – वाक्यं भूय-तत्र तत्रोक्तमपि त्वदनुग्रहार्थ पुनर्वक्ष्यमाणं श्रृणु। अपि च स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः 

	
अत्र मधुसूदनाचार्यः-

यः पूर्वौक्तैः कर्मभिः शुद्धान्तः करणः, सोऽवश्यं भगवदेकशरणो, भगवदेकशरणतापर्यन्तत्वादन्तः करणशुद्धेः। एतादृशश्चेद ब्राह्मणः संन्यासप्रतिबन्धरहितः सर्वकर्माणि संन्यस्यतु नाम, संसारविमोक्षस्तु तस्य भगवदेकशरणस्य भगवत्प्रसादादेव। एतादृशश्चेत्क्षत्रियादिः, संन्यासाधिकारी, स करोतु नाम कर्माणि, किंतु मदव्यपाश्रयः अहं भगवान् वासुदेव एव व्यपाश्रयः शरणं यस्य, स मदेकशरणो मय्यर्पितसर्वात्मभावः संन्यासाधिकारात् सर्वकर्माणिसर्वाणि कर्माणि वर्णाश्रमधर्मरुपाणि लौकिकानि, प्रतिषिद्धानि वा सदा कुर्वाणो मत्प्रसादात् परमेश्वरस्यानुग्रहादवाप्नोति हिरण्यगर्भवन्मद्विज्ञानोत्पत्या शाश्वतं नित्यं पदं वैष्णवमव्ययम्-परिणामित्यर्थः। एतादृशो भगवदेकशरणः करोत्येव न प्रतिषिद्धानि कर्माणि, यदि कुर्यात् तथाऽपिमत्प्रसादात्प्रत्यवायानुत्पत्या मद्विज्ञानेन मोक्षभागभवतीति भगवदेकशरणतास्तुत्यर्थं‘सर्वकर्माणि सर्वदा कुर्वाणोऽपी’ त्यनूद्यते।

यस्मान्मदेकशरणतामात्रं मोक्षसाधनम्, न कर्मानुष्ठानम्, कर्मसंन्यासो वा। तस्मात् क्षत्रियस्त्वम्- चेतसा विवेकबुद्धया सर्वकर्माणि-दृष्टादृष्टार्थानि मयीश्वरे संन्यस्य-“यत्करोषियदश्नासी” त्युक्तन्यायेन समर्प्यमत्परः अहं भगवान् वासुदेव एव परः प्रियतमो यस्य स मत्परः सन् बिद्धि योगम्-पूर्वोक्तसमत्वबुद्धिलक्षणं योगं बन्धहेतोरपि कर्मणो मोक्ष-हेतुत्वं सम्पादकमुपाश्रित्य- अनन्यशरणतया स्वीकृत्य मच्चित्तः मयि भगवति वासुदेव एव चित्तं यस्य,न राजनि, कामिन्यादौ वा, सः मच्चित्तः सततं भव।
	
तदेवं प्रमाणितं वेदितव्यं यद् भगवद्गीता कर्मैव पूजा इत्युपदिशति। सर्वेषां मानवानां स्वभानानुकूलं कर्म एव भगवदाराधनरुपेण ग्राह्यमिति हि सिद्धान्तः। जीवननिर्वाहायावश्यकं कर्म सहजं स्वभावनियतं च – नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।

ततः कर्मजन्यशुद्धयभावे बहिर्मुखः – इति यस्मात् क्षणमपि कालं जातु कदाचित्कश्चिदप्यजितेन्द्रियोऽकर्मकृत्सन्न तिष्ठति, अपितु लौकिकवैदिक कर्मानुष्ठानव्यग्र एव तिष्ठति। तस्माद शुद्धचित्तस्य संन्यासो न सम्भवतीत्यर्थः कस्मात् पुनरविद्वान्कर्माण्यकुर्वाणो न तिष्ठति। हि यस्मात् सर्वः प्राणी चित्तशुद्धिरहितोऽवशोऽस्वतन्त्रएव सन् प्रकृतितो जातैरभिव्यक्तै कार्याकारेण सत्त्वरजस्तमोभिःस्वभावप्रभवैर्वा रागद्वेषादिभिर्गुणैः कर्म लैकिकं वैदिकं वा कार्यते। अतः कर्माण्यकुर्वाणो न कश्चिदपि तिष्ठतीत्यर्थः। यतः स्वभाविका गुणाश्चालकाः अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्मसंन्यासो न संभवतीति न संन्यासनिबन्धना ज्ञाननिष्ठा संभवतीत्यर्थः॥ यथाकथंचिदौत्सुक्यमात्रेण कृतसंन्यासस्त्वशुद्धचित्तस्तत्फलभाङ् न भवति। यतः- यो हि विमूढात्मा रागद्वेषादि दूषितान्तः करण औत्सुक्यमात्रेण कर्मेन्द्रयाणि वाक्पाण्यादीनि संयम्य निगृह्य, बहिरिन्द्रियैः कर्माण्यकुर्वन्निति यावत्। मनसा रागादि प्रेरितेन्द्रियार्थाञ्छब्दादीन नत्वात्मतत्त्वं स्मरन्नास्ते कृतसंन्यासोऽहमित्याभिमानेन कर्मशून्यस्तिष्ठति स मिथ्याचारः सत्त्वशुद्धयभावेन फलायोग्यत्वात्पापाचार उच्चते त्वं पदार्थविवेकाय संन्यासः सर्वकर्मणाम्। श्रुत्येह विहितो यस्मात्तत्यागी पतितो भवेत्। इत्यादि धर्म शास्त्रेणा। अत उपपन्नं न च संन्यसनादेवांशुद्धान्तः करणः सिद्धिं समधिगच्छतीति। औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निष्कामकर्माण्येव यथाशास्त्रंकुर्यात्। यस्मात् तु शब्दोऽशुद्धान्तः करण संन्यासिव्यतिरेकार्थः। इन्द्रियाणि ज्ञानेन्द्रियाणि श्रोत्रादीनि मनसा सह नियम्य पापहेतु शब्दादिविषयासक्तेर्निवर्त्य, मनसा विवेकयुक्तेन नियम्येति वा, कर्मेन्द्रियैर्वाक्पाण्यादिभि कर्मयोगं शुद्धिहेतुतया विहितं कर्मारभते करोत्यसक्तः फलाभिलाषशून्यः सन यो विवेकी स इतरस्मानमिथ्याचाराद्विशिष्यते। परिश्रमसाम्येऽपि फलातिशयभाक्त्वेन श्रेष्ठो भवति। हे अर्जुन, आश्चर्यमिदं पश्य यदेकं कर्मेन्द्रियाणि निगृयज्ञानेन्द्रियाणि व्यापारयन् परमपुरुषार्थ् भगभवतीति यस्मादेवं तस्मान्मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियै-त्वं प्रागननुतिष्ठत शुद्धिहेतुकर्मा नियतं विध्युददेशे फलसम्बन्धशुन्यतया नियतनिमित्तेन कर्म श्रौतं स्मार्तं च नित्यमिति प्रसिद्धं कुरु कुर्विति मध्यमपुरुषप्रयोगेणैव त्वमिति लब्धे त्वमिति पदमर्थान्तरे संक्रमितम्। कस्मादशुद्धान्तः करणेन कर्मैव कर्त्तव्यम् हि यस्मात् अकर्मणोऽकरणात्कर्मैअ ज्यायः प्रशस्यतरम्। न केवलं कर्माभावे तवानतः करणशुद्धिरेव नद्धयेत किन्तु अकर्मणो युद्धादिकर्मर्हितस्य ते तव शरीरयात्रा शरीरस्थितिरपि न प्रकर्षेण क्षात्रवृत्तिकृतत्व लक्षणेन सिध्येत्। तथा च प्रागुक्तम्। अपि चेत्यन्तः करण शुद्धि समुच्चयार्थः “ कर्मणा बध्यते जन्तुः” इति स्मृतेः। सर्वं कर्मबान्धात्मकत्वान्मुमुक्षुणा न कर्तव्यमिति मत्वा तस्योत्तरमाह-यज्ञः परमेश्वरः यज्ञो वै विष्णुः” इति श्रुतेः। तदाराधनार्थं यत्कर्म क्रियते तद्यज्ञार्थं तस्मात्कर्मणोऽन्यत्र कर्मणि प्रवृत्तोऽयं लोकःअ कर्माधिकारी कर्मबन्धनः कर्मणाबध्यते नत्वीश्वराराधनार्थेन। अतस्तदर्थं यज्ञार्थं कर्म हे कौन्तेय, त्वं कर्मण्यधिकृतो मुक्तसंगः सन्समाचर सम्यक् श्रद्धादिपुरः सरमाचर॥

मानवसमाजस्य श्रेयस्कामेन भगवता वासुदेवेन सनातन वैदिकधर्मद्वयमुपदिशता नानाप्रपञ्चपूर्णे जीवने सार्वजनीनाः समस्याः शास्त्रीयरीत्या समाहिताः। न केवलमर्जुनायापितु सर्वेभ्यः, नकेवलं युद्धविषयेऽपि तु सम्पूर्णजीवनस्य येऽपि कार्याकार्ये तदव्यवस्थार्थं शास्त्रमेव प्रमाणीकृतम्। सरलया भाषया, नादमधुरया, रसात्मिकया पदावल्या, सत्तर्कप्रतिष्ठितया, प्रतिपत्तिबन्ध्यादि दोष रहितया, छ्न्दोमय्या पदसंहत्या सहजौजस्विन्या शैल्या भ्रान्तिशून्यया रुचिपूर्णया भारत्या शिष्टसंस्कृत भाषया सुबोधिन्या सकलार्थबोधनसमर्थया स्वाभाविक्या छन्दोनिबद्धप्रणाल्या कठिनतरं विषयजातं गम्भीरदार्शनिकैविवादास्पदं सतप्रतिपाद्यविषयमपि सुबोधगम्यं सुलभं करोति विराजते चास्याः गीतायाः सर्वविध माहात्म्यं प्रासंगिकता चाद्यत्वेऽपि यथापूर्वम्।

भगवदगीता सर्वैरेव स्वकीयगुणविशेषैः सम्यकतया प्रतिष्ठिता वैदिकपरम्परायाः सम्प्रदायकृत्सु प्रमुखाचार्येषु भाष्यकारेषु टिकाकारेषु तत्तच्छास्त्रकारेषु च। सा हि वेदान्तप्रस्थानत्रयीनध्ये परिगणिता व्याख्यातृभीश्च व्याख्याता स्वस्वसम्प्रदायसिद्धान्तानुसारेण। तथापि न कृतोपसंहाराऽस्याअर्थगभीरा प्रभूतप्रभावा वाग्धारा। न केवलं भारतेऽपि तु विश्वस्मिन् जगतीतले भाषान्तरेष्वपि विद्वद्वर्यैव्याख्याताऽनूदिता प्रचारिता प्रसारिताऽधिताऽध्यापिता च। नाविदितं कस्यापि प्रबुद्धजनस्यैतस्याः सर्वोत्त्कृष्टं महत्त्वमुपयोगित्वं च। प्राचीनैराचार्यैराधुनिकैश्च विद्वदभिः समानभेव सम्मानिताऽभिनन्दिता परः शतैः प्राचीनैः साम्प्रदायिकैराचार्यैर्यथा स्वपक्षेनीता, व्याख्याता, सादरं परिशीलिता, तथैवं ततोऽप्यधिकतरमद्यतनी मानवता भगवद्गीतोपदेशसापेक्षेति प्रवृत्तिः प्रसृताऽवलोक्यते। अतः विदुषाम्-संख्येयत्वात्, अल्पज्ञत्वाच्चास्माभिरत्र केषाञ्चिदेवाचार्यप्रवराणां नामोल्लेखः संक्षिप्तश्च परिचयोऽत्र दिग्दर्शनत्वेन क्रियते।

सर्वप्रथमं श्रीशंकरभगवत्पादाचार्यप्रणीतं भाष्यं ज्येष्ठं पुरोजन्मतया गुणैश्च इति प्रसिद्धम्। एतदभाष्यावलोकनेन विज्ञायते यत् भाष्यान्तरं वृत्त्यन्तरञ्चासीत् पुरा। शांकरभाष्यं तु आनन्दगिरिव्याख्यायुतम्। ततस्तु शांकरसम्प्रदायस्याद्वैतमतानुगामिभिः बहुभिराचार्यैः टीकोपटीकाः विरचिताः। तत्रैव मधुसूदनसरस्वतीयतिवरोऽपि प्रवेशनार्हतीति।

अद्वैतमतेनैता व्याख्याः सर्वा एव् भगवद्गीताया आनुगुण्यं तथा नैव वहन्ति यथाऽन्ये वैष्णवसम्प्रदायाचार्या इति विदुषां विनिर्णयः। मधुसूदनाचार्यास्तु अद्वैतानुसारि व्याख्यानं कुर्वाणाऽपि भगवतधर्मानुसारिणीं व्याख्यां प्रस्तुवन्ति। अद्वैतव्याख्याखण्डनपरा व्याख्याः प्रमुख वैष्णवाचार्यादरीदृश्यन्ते। तत्र प्रमुखाः रामानुजाचार्याः, विशिष्टाद्वैतवेदान्तसम्प्रदाअयप्रतिष्ठापकाः स्वसिद्धान्तानुसारं भागवतधर्ममेव गीतोक्तं याथातथ्येन व्याख्याव्याजेन स्थापयाम्बभूवुः। ततः ताप्तर्यचन्द्रिका श्रीवेङ्कटनाथप्रणीताऽपि वैष्णवधर्मोदबोधिनी।
	
द्वैतवेदान्तनुसारिणी व्याख्या मध्वाचार्यैः आनन्दतीर्थापराभिधैरर्थगभीरा दुरवगम्या च। तस्या दुरुहार्थावद्योतिनि “ प्रमेयदीपिका” जयतिर्थविरचिता विराजते।

वेङ्कटनाथकृता व्याख्या “ ब्रह्मानन्दगिर्याख्यान नामिका माध्व मतं रामानुजमतं मधुसूदनमतञ्च निराकर्तुमुत्सहते।

बल्लभसम्प्रदानुसारिव्याख्या तु तत्त्वदीपिका” बल्लभलाल्लोल्लासिता, “ अमृततरङिगणी” पुरुषोत्तमजीप्रणीतेति टीकाद्वयं विराजते।

सम्पूर्णमहाभारतटीकाकर्तुः नीलकण्ठस्य भावदीपाख्यटीकाऽपि महदुपकारिणी। सापि अद्वैतमतानुसारिणीति।

यामुनमुनिप्रणीतो गीतार्थसंग्रहः सर्वथा भागवतमतं निर्वहति।

पैशाचभाष्यमपि केनापि शापवशात् गीताश्रवणापराधकुपितस्य भगवतः अवाप्तपिशाच भावेन हनूमताऽन्येनार्वाचीनेन हनूमन्नाम्ना वा विदुषा कृतम्।

एतदतिरिक्ता अपि सामञ्जस्येन दर्शनशास्त्रीयविषयप्रतिपादनपराः व्याख्या उपलभ्यन्ते। तथाहि श्रीधरीयसुबोधिनी” प्रायोऽद्वैतमतं प्रतिपादयति। यत्र कुत्रापि शंकरमताद्भिद्यते च। अपरा टीका “ भाष्योत्कर्षदीपिका खलु सर्वतोभावेन शांकरभाष्यार्थमेवाविष्करोति, स्वतन्त्रव्याख्यां च प्रस्तौति निराकरोति च सामान्यतः नीलकण्ठीयव्याख्यां, श्रीधरीव्याख्यां अभिनवगुप्तव्याख्यां च, विशेषतस्तु मधुसूदनसरस्वतीस्वमिकृतां गूढार्थदीपिकां निरस्य “ भाष्यविरुद्धमेतदि” ति स्वस्वानादरं प्रकटयति। श्रीमदभिनवगुप्तपादाचार्याणामन्या लधुकायाऽपि निर्भिन्नार्थिका शैवमतोपस्थापिका चेति प्रतीयते।

एतदुक्तं भवति समस्तटीकानां सम्यगेवेक्षणेनेति यत् सर्वा अपि यास्सन्तीति टिकात्वेन भाष्यत्वेन प्रसिद्धास्ता सर्वा अपि नैकैकशः स्वातन्त्रयेण सम्भूय वा भागवादाशयं गीतावचननिगूढं प्रकाशयितुं पर्याप्ता इति। यतो हि पराचीनानां नवीनानां व्याख्यानानामावश्यकता मनुभवन्त आचार्या आधुनिका विद्वांसोऽपि स्वमतोपन्यासे स्वतन्त्राः सन्तोऽपि गीतोक्तिमनुरुन्धन्तोऽपि स्वपक्षस्थापने प्राचुर्येण प्रमाणमुपनस्यान्तोऽपि वैदिक परम्परा पद्धतिं न जहति। महच्चित्रमिदं यत्सर्वेषां मतोद्वलकानि वचनानि समुपलभ्यन्ते। स्वस्वमतोपस्थाने परमतप्रत्याख्यानं वा समाना प्रवृत्तिः सर्वेषाम्। वस्तुगत्या भगवदाशय प्रकाशनपरा निष्पक्ष वेदोदित सिद्धान्त प्रतिपादनपरा व्याख्यातारः विरला एव। भगवद्गीताया उपदेशबलेन भगवान् वासुदेवः रहस्यजातं सुबोधभाषया समन्वयपद्धत्या प्रकाशितवन्तः यतः सम्प्रदायानां पृथक् पृथकपरम्पराः राशीकृत्यैकत्र सम्प्रदाये वैदिकसम्प्रदाये शाश्वतात्मवादे सामञ्जस्येन संकलय्य न केवलमेकनिष्ठता मानीता भगवताऽपितु सर्वोपादेयतां सर्वजीवनोपयोगयोग्यतां प्रयोगार्हतां च प्रापिताः। तत्र प्राचीनाः प्रस्थानभेदाः वेद- सांख्ययोगपाञ्चरात्रपाशुपतप्रभृतयः वैदिकापरम्परायामेकीभवन्ति  पूर्णतां प्राप्नुवन्ति एतां समन्वययात्मिकां दृष्टिं भगवतोऽनालोच्यानाश्रित्य को नाम व्याख्याता भगवदाशयं प्रकाशयितुं प्रभवेत्। सर्वथा भागवतमतमात्रप्रतिपादनपरायण एव तथा कर्तुं क्षमा याननुगृहणाति भगवान।

	

एतामनन्तरोदित दृष्टिमवलम्ब्यालोच्यमाने सर्वा अपि शास्त्रीयाः टीकाः प्रामाण्यं भजन्त एव, किन्तु न पूर्णतया सामस्त्येन् वा। दार्शनिकविषये भवतु नाम भेदो मतमतान्तरं विलसतु नाम, तथापिधर्मसम्मतजीवनं यापयितुं, पुरुषार्थसिद्धयं दर्शनानामुपयोगं कर्तुम, आत्मोन्नतये परमपुरुषार्थावाप्तये, विश्वासं द्रढयितुं, परमार्थसत्तायामसंभावनाविपरीतभावनामपाकर्तुं भगवदाराधनामात्मोपासनां सफलां कर्तुं दार्शनिकमतभेदाः कथमपि साहाय्यं नाचरन्ति। कर्मनिष्ठा-ज्ञाननिष्ठा-भक्तिनिष्ठाः गीतोक्तदिशैव तत्र साधनत्वेनसमर्थाः भवन्ति। एवं विधो भगवतो वासुदेवस्य विष्कृष्टोऽभिप्रायो भवितुमर्हति।
	
आधुनिकास्तु केचित् कर्मनिष्ठाप्रधानां व्याख्यां कुर्वन्ति, केचित्तु ज्ञाननिष्ठाप्रधानां, केचिच्च पुनः भक्तिनिष्ठाप्रधानामेव। तिलककृत गीतारहस्यं” सुप्रसिद्धं महदुपकारि च। गांधीविरचिता टीकापि सामाजिकं महत्त्वमावहति। मतमेतदन्येऽप्याधुनिकाः आधुनिकदृष्टया पुष्णन्ति। सन्ति च विद्वांसो बहवोऽरविन्द्रप्रभृतयो येऽखण्डयोगप्रतिपादकाः सन्ति वैदिकात्मब्रह्मैक्यप्रतिपादनपरायणा अपि गीतोक्तिमाश्रित्य यथेष्टं दर्शनान्तरं प्रख्यापयन्ति। स्वतन्त्रदर्शनप्रतिपादनपरत्वात्तेषां तु न काऽप्यनुपपत्तिः।
	
पूर्वापरसकलटीकासु प्रयुक्तां पद्धतिं तदनुरोधेनार्थाविष्करणाय स्वस्वम्प्रदायविशेषानुरोधेन च सिद्धान्तजातं पर्यालोच्यास्माकं मतेनेदं वक्तुं पार्यते यत् यतिवरो मधुसूदनसरस्वतीमहाभागो प्रशास्यतरो व्याख्याता। यतो हि भगावदगीतायाः या समन्वयात्मिकादृष्टिः स तामेवावलम्बते संगृहणाति च सर्वान् स्वोत्प्रेक्षाबलेन व्याख्याति स्वातन्त्रयेण। अतोऽधिकांशतः श्रद्धेयो व्याख्यातेति निष्पक्षपाततो वक्तुमुचितम्।

यः उपनिषदां आत्मविचारः साङ्ख्यानां ज्ञनविचारः तथा सृष्टिक्रमः, उपासनाविवरणम् भगवद्विचाराः एतत् सर्वमपि बोधयति स एव भगवद्गीता। येभ्यः वेदाध्ययनाधिकारः नास्ति तेभ्यः अपि वेदान्तस्य तथा धर्मस्य सारं पाठयति एषा भगवद्गीता। व्यासरचितं  महाभारतमेव गीतायाः स्रोतः। भगवद्गीतयाः प्रस्थानत्रये द्वितीयं स्थानं दत्तं वर्तते। परमज्ञानं, परिशुद्धभक्तिः, निष्कामकर्मणः एतेषां त्रयाणामपि मोक्षसाधकत्वं वर्तते इति भगवद्गीता अभिपैति। गीतायाः उपरि अचार्यत्रयाणां भाष्यं वर्तते। आधुनिकाः अपि बालगङ्गाधरतिलकः, मदनमोहनमालवीयः,महात्मा गान्धिः, अरविन्द घोष इत्यादयः गीतायाः माहात्म्यं मुक्तकण्ठेन श्लाघितवन्तः। गीतायाः उपरि एतेषां व्याख्यानं अपि उपलभ्यते। एतस्याः काव्यशैली, आध्यात्मिकाकर्षणात् जगति सर्वेपि प्रभाविताः अभूवन् इति कारणादेव सर्वासु भाषासु अद्य अनूदिता वर्तते। त्रयाः आचार्याः तेषां सिद्धान्तानुसारं गीतायाः भाष्यं रचितवन्तः।

श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन अर्जुनाय ये उपदेशाः प्रदत्ताः, तेषां दिशा सुस्पष्टाऽस्ति। तत्र आचारमीमांसा विशेषेण प्रतिपादिता लक्ष्यते। श्रीमद्भगवद्गीता योगशास्त्रमप्यस्ति। अत्र योगशब्दः आचारव्यवहारयोरर्थे प्रयुक्तोऽस्ति। प्रत्येकम् अध्यायस्य पुष्पिकायां “ ब्रह्मविद्यायां योगशास्त्रे” इत्युल्लेखेन विज्ञायते यद्गीतायाः मुख्यं प्रतिपाद्यं ब्रह्मविद्यायां प्रतिष्ठितस्य व्यवहारस्य प्रतिपादनमस्ति।

अध्यात्मविवेचनमपि श्रीमद्भगवद्गीतायां सरलं स्प्ष्टञ्चास्ति। अध्यात्मक्षेत्रस्य सर्वेषां सिद्धान्तानां समन्वयं कृत्वा एकस्य निश्चितस्य सिद्धान्तस्य स्थापनायाः कार्यं कठिनं भवति, अतो भगवता शङ्करपादेन कथितम् –“ तदिदं गीताशास्त्रं समस्तवेदार्थसारसंग्रहभूतं दुर्विज्ञेयम्”। श्रीमद्भगवद्गीतायां यानि दार्शनिकतत्त्वानि विवेचितानि, तान्येवं प्रकारेणोल्लेखनीयानि सन्ति।

श्रीमद्भगवद्गीतायां ब्रह्मणः सगुण- निर्गुण-स्वरुपयोरभिन्नतायाः प्रतिपादनं कृतम् । गीताया अधोलिखितश्लोक एतदर्थम् उदाहर्त्तुं शक्यते –

गीतोक्तम्तानुसारेण ब्रह्मैव इन्द्रियवृत्तिभिः लैकिकविषयाणाम् उपलब्धौ समर्थं भवति। अन्तरिन्द्रियाणां बहिरिन्द्रियाणां च व्यापारैः प्रतिभासितम् अपि दृश्यते। अथ च तत् स्वयं सर्वेन्द्रियेभ्यो विहीनं, सर्वविधदेहादिसम्बन्धेभ्यो रहितञ्च वर्तते। तत् अखिलं जगत् आदधाति तत्र निर्गुणमस्ति तथापि गुणानां भोक्ताऽस्ति। सत्त्वादिगुणानां परिणामभूतानां शब्दस्पर्शरुपादिविषयाणाम् उपभोक्ताऽपि भवति। तत् सत् अस्ति असच्चाप्यस्ति। उभयोः परेऽस्ति। तद् भूतानां बहिरन्तश्च विद्यते। तच्चरम् अचरं दूरस्थम् अन्तिकस्थं चास्ति।

ब्रह्मणः सन्दर्भे उक्तप्रतिपादने विरोधो नास्ति, यतोहि देश –काल- निमित्तादिभिः उपाधिभिः रहितं तत् सर्वेषां विरोधानाम् अन्तोऽस्ति। इदमेव विचारशास्त्रस्य गूढसिद्धान्तोऽस्ति। ब्रह्मैव जगतः उत्पत्तिर्लयश्चास्ति। तदेव सर्वेषु प्राणिशरीरेषु तिष्ठति। गीतायां ब्रह्मणि तयोर्भावयोः सत्ता प्रतिपादिताऽस्ति अर्थात् ब्रह्मणो द्वौ भावौ स्तः- अपरभावः परभावश्च। अंशमात्रेण ब्रह्म योगमायया युक्तं भवति। तेनैवांशेन च तद् जगति अभिव्यक्तं भवति। ब्रह्म केवलं जगन्मात्रं नास्ति। तत्तुजगद् अतिक्रम्यापि वर्तते। तथापि जगतः प्रत्येकस्मिन् पदार्थे प्राणिनि च तस्यांश एव भासते।

श्रीमद्भगवद्गीतायाम् ईश्वरस्य प्रकृतिद्वयं वर्णितम् अस्ति। गीतोक्तानुसारेणा जडा प्रकृतिः चेतनः पुरुषश्चेति तत्त्वद्वयं सांख्यशास्त्रे अभिमतम्स्ति किन्तु तयोरतिरिक्तं परमतत्त्वमेव सर्वव्यापकम् अव्यक्तम् अमृतं चास्ति, येन चराचरमिदं जगत् उत्पद्यते। प्रकृतिपुरुषौ तु तस्यैव परमतत्त्वस्य व्यापकस्य ब्रह्मणो वा विभूतिमात्रस्वरुपौ भवतः। परमतत्त्वस्यैव आयत्ता प्रकृतिर्द्विधा वर्तते-अपरा प्रकृतिः, परा प्रकृतिश्चेति। अपरा प्रकृतिरेव क्षेत्रनाम्ना अथवा क्षरपुरुषसंज्ञया व्यवह्रियते। एवमेव परा प्रकृतिरपि क्षेत्रज्ञनाम्ना अथवा अक्षरपुरुष- संज्ञया विज्ञायते।

परा प्रकृतिः जीवरुपा विद्यते, किन्तु अपरा प्रकृतिः जीवेतर-पदार्थरुपा वर्तते। सर्वेषां भौतिकपदार्थानां ग्रहणं क्षरपुरुषरुपेण कृतम्। अपरा –प्रकृतेरष्टौ भेदा गीतायां प्रतिपादिताः पृथ्वी, जलं, तेजः, वायुः आकाशः, मनः बुद्धिः अहङ्कारश्च। क्षेत्रस्य चतुर्विंशतिभेदानां प्रतिपादनमपि गीतायां विहितम् तद्यथा –पञ्चमहाभूतानि, अहङ्कारः, बुद्धिः, अव्यक्तप्रकृतिः, पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, मनः पञ्च तन्मात्राश्चेति। एषां चतुर्विंशतितत्त्वानामन्तर्भाव एव अपराख्यायां प्रकृतौ भवति। इच्छा –द्वेष- सुख-दुःखसंघात चेतना –धृति –प्रभृतयस्तु क्षेत्रविकारा विद्यन्ते।

जीवः चैतन्यात्मकोऽस्ति, अतः परमेश्वरस्य पराप्रकृतिरुपाः उत्कृष्टा विभूतिश्च वर्तते। जीव एव क्षेत्रज्ञोऽस्ति कृतकर्मणां फलभोगाय भोगायतनमिदं शरीरं क्षेत्रं भवति। क्षेत्रस्य ज्ञाता क्षेत्रज्ञ आत्माऽस्ति। क्षेत्रज्ञस्य आत्मनो वर्णनं गीतायां विस्तरेण विहितम्। आत्मा षड्विकारेभ्यो रहितोऽस्ति। स न कदापि उत्पद्यते, न म्रियते स सत्तात्मकोऽनुभूयते। तस्य कदाप्यभावो न भवति।

जीवशरीरस्थोऽपि आत्मा अजन्मा, नित्यः, शाश्वतः, पुरातनश्च वर्तते। पुरातनोऽपि स नूतन एवास्ति। विनाशशीले प्राणिशरीरे विद्यमानस्यापि तस्य विनाशो न भवति। आत्मा स्वयं जीवशरीरस्य वरणं करोति, अस्योल्लेखः गीतायां निम्नप्रकारेण कृतम् –

आत्मा स्वयं अविकारी अस्ति किन्तु जीवशरीरं विकाररुपं विद्यते। यदा जीवः प्रारब्धकर्मणां फलभोगं कृत्वा निवर्तते तदा अन्यशरीरस्य प्राप्त्यर्थं आत्मानं प्रेरयति। फलतः आत्मा पूर्वशरीरं परित्यज्य अपरं जीवशरीरं गृह्णाति। एवञ्चेदम् आत्मा सर्वव्यापी, स्थिरः अचलः, सनातनश्चास्ति।
 
जीव आत्मना सम्पृक्तो भवति, अतः यथा एक एव आत्मा सर्वेषु शरीररेषु विद्यते तथैव जीवोऽपि एक एव सर्वेषु शरीरेषु विद्यमानोऽस्ति। जीवस्य नानात्वं गीतायां सम्मतं नास्ति। तत्र लिखितम्स्ति –यथा एक एव सूर्यः सम्पूर्णं जगत् प्रकाशयति तथैव क्षेत्रज्ञः एकोऽपि सर्वाणि क्षेत्राणि भासयति। जीवः ईस्वरस्य सनातनः अंशो विद्यते। उक्तं च गीतायाम् –ममैवांशो जीवलोके जीवभूतः सनातनः”।

पुरुषोत्तम्तत्त्वनिरुपणम् (६)ज्ञानयोगः (७) कर्मयोगः (८) ध्यानयोगः (९) भक्तियोगश्च ।

जगतः उत्पत्तिः स्थितिः लयश्चेति त्रयो विकारा ईशरादेव जायन्ते। ईश्वरः सर्वेषां प्राणिनां सनातनम् अविनाशि च बीजमस्ति। यथा बीजाद् वृक्षः उद्भवति, अन्ते च वृक्षो बीजे एव लीनो भवति, तथा इदं जगत् भगवतः उत्पद्यते, अन्ते च भगवत्येव विलीयते। जगतः अवान्तर-आविर्भावस्य कालः ब्रह्मणो दिनमुच्यते, अवान्तर-तिरोभावस्य कालश्च ब्रह्मणो रात्रिः कथ्यते।

गीतोक्तम्तानुसारेण प्रकृतेरध्यक्षः ईश्वरोऽस्ति। ईश्वरस्य अध्यक्षतायां प्रकृतिः जगत् उत्पादयति। उक्तं च –

सर्वेषां चराचराणां प्राणिनां पदार्थानाञ्च उत्पत्तिस्थानं महद ब्रह्मास्ति। स एव जगद्बीजस्य विधाताऽस्ति। प्रकृतिः विश्वस्य मातृस्थानीया वर्तते, ईश्वरः पितृस्थानीयोऽस्ति। एवञ्चेत् प्रकृतेः स्थानं ईश्वरात् न्यूनमस्ति। जगदुत्पत्तिसन्दर्भे गीता सत्कार्यवादस्य समर्थनं करोति –

नासतो विद्यते भावो नाभावो विद्यते सतः

एवं श्रीमद्भगवद्गीतायाः विवेचनानुसारं इदं जगत् मायिकं काल्पनिकं वा नास्ति, अपितु सर्वथा सत्यं वास्तविकञ्च वर्तते।				

अध: भगवद्गीतायाः अध्यायसूची प्रदत्ता वर्तते ।

भगवद्गीतायां नैके साङ्ख्यविचारा: सन्ति। साङ्ख्यदर्शनस्य मुख्यग्रन्थ: साङ्ख्यकारिका। तेन सह भगवद्गीताया: तुलना कृता चेदिमानि साम्यस्थलानि लभ्यन्ते। 

भगवद्गीता साङ्ख्यकारिका च 

गीताविस्तारो भागवतम्’इति उक्ति: प्रसिद्धा। अनया दृष्ट्या उभौ ग्रन्थौ यदा अवलोकितौ, तदा कतिचन साम्यस्थलानि दृष्टानि। तानि दृष्ट्वा उपरितना उक्ति: यथार्था अस्ति इति निश्चय: भवति। एतानि तानि साम्यस्थलानि-

१) मृत्यो: अपरिहार्यत्वम्। भीष्मादिकानां मृत्युविषये शोक: न उचित:’ इति कृष्ण: गीतायां प्रतिपादयति। तदर्थं स: कारणं वदति -         जातस्य हि ध्रुवो मृत्यु:। भ.गी. २.२७  

एतद् एव तथ्यं भागवते एवं प्रतिपादितम् -           मृत्युर्जन्मवतां वीर, देहेन सह जायते। अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुव:॥ भाग

२) कृष्ण: परब्रह्मस्वरूप: । गीतायाम् अर्जुन: श्रीकृष्णस्य स्तुतिं करोति -  

परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।। १०.१२ ,१३ 

भागवते तु कृष्णजन्मन: पूर्वम् एव ब्रह्मदेव: सर्वान् देवान् भविष्यद्वृत्तं ज्ञापयति -   वसुदेवगृहे साक्षाद् भगवान्पुरुष: पर:। जनिष्यते . . .॥ भाग १०.१.२३ 

कृष्णजन्मन: समनन्तरं वसुदेव: कृष्णम् उद्दिश्य वदति -  

विदितोऽसि भवान्साक्षात्पुरुष: प्रकृते: पर:। भाग १०.१.२३

३) दिव्यं जन्म श्रीकृष्ण: अर्जुनाय गीतायां स्वस्य जन्म दिव्यम् अस्ति इति वदति -जन्म कर्म च मे दिव्यम्। भ.गी.४.९ 
 
एतद् दिव्यं जन्म कथं भवति इति वर्णनं भागवते प्राप्यते - देवक्यां देवरूपिण्यां विष्णु: सर्वगुहाशय:। आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कल:। तद्द्भुतं बालकमम्बुजेक्षणम् . . .। भाग १०.३ . ८ ,९ ,११ 

४) सर्वधर्मपरित्याग:

गीतायां भगवान् अर्जुनाय उपदिशति -सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच:।। भ.गी.१८.६६

अत्र सर्वधर्माणां त्याग: विहित:। सर्वधर्मेषु कस्य कस्य अन्तर्भाव: भवति इति भागवतं पठित्वा ज्ञायते।तत्र कृष्ण: उद्धवाय उपदिशति  
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम्। प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च। मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।यदि सर्वात्मभावेन मया स्या: ह्यकुतोभय:। भाग ११.१२.१५ 

५) भक्ति-प्राधान्यम्
गीतायां विश्वरूपदर्शनानन्तरं भगवान् वदति -

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।शक्य एवंविधो द्रष्टुं दृष्टवानसि मां च यथा। भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप॥ भ.गी.११.५३ ,५४ 

अत्र सर्वेषु साधनेषु भक्ते: प्राधान्यम् उक्तम्। किं बहुना वेदादिकानि अन्यानि साधनानि मम प्राप्त्यर्थम् असमर्थानि, भक्ति: एका समर्था इति भगवत: आशय:। तथापि एतस्माद् वचनात् पूर्वं साधनानां तारतम्यविषये अर्जुनस्य प्रश्न: नास्ति। 

भागवते उद्धवमुखेन एष: प्रश्न: साक्षाद् वाचित:। ‘हे कृष्ण, ब्रह्मवादिन: नाना साधनानि वदन्ति। तत्र विकल्प: अस्ति अथवा मुख्यगौणभाव: अस्ति?’ (भाग. ११.१४.१ ) अनन्तरम् एतद् एव उत्तरं भववता दत्तम्-

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव। न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता॥ भक्त्याहमेकया ग्राह्य: श्रद्धयात्मा प्रिय:सताम्। भक्ति:पुनाति मन्निष्ठा श्वपाकानपि सम्भवात्। भाग ११.१४.२१ ,२२ 

६) कृष्णमनस्कता कृष्णप्राप्ति: च। गीतायाम् अन्तत:भगवान् अर्जुनम् उपदिशति - मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे॥ भ.गी.१८.६५

अत्र मन्मना भव इति साधनम् उपदिष्टम्। तस्य फलं मामेवैष्यसि इति कथितम्।भागवते एतस्य साक्षात् निदर्शनं दृश्यते। यदा कृष्ण: न दृष्ट: तदा गोप्य: ह्ताशा: जाता:। ता: स्वगृहं प्रति निवृत्ता:। तदानीं तासां स्थिति: भागवते वर्णिता-

तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिका:। तद्गुणानेव च गायन्त्यो नात्मागाराणि सस्मरु:। भाग १०.३०.४४

स्वगृहं विस्मृतवत्य: गोप्य: पुन: यमुनापुलिनम् आगता:!मन्मना भव तथा मामेवैष्यसि इति एतयो: फल-साधनसम्बन्ध: व्यासेन गोपीवृत्तेन साक्षात् दर्शित:।गीतोक्तसिद्धान्तस्य एतावद् मनोहरम् उदाहरणम् अन्यत्र न स्यात् !

७) भक्तरक्षणव्रतम् 

गीतायां भगवान् अर्जुनाय प्रतिशृणोति - कौंतेय प्रतिजानीहि न मे भक्त: प्रणश्यति।भ.गी.९.१६ 

भागवते एषा प्रतिज्ञा एवम् - तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम्। गोपाये स्वात्मयोगेन इति मे व्रत आहित:। भाग ?

८) भक्तिमार्गे सामग्र्या: गौणत्वम् 

गीतायां श्रीकृष्ण: व्याहरति - पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं। भक्त्युपहृतमश्नामि प्रयतात्मन:।। भ.गी.९.१६

तत्र भागवते श्रीकृष्ण: एतद् एव वचनं दरिद्राय सुदाम्ने श्रावयति -पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मन:।। भाग १०.८१.४

९) नवद्वारं पुरम्

गीतायां देह्स्य कृते अयं शब्दप्रयोग: कृत:-सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्वन्न कारयन्। भ.गी.५. १३ 

एतस्य नवद्वार-पुरस्य विवरण तु गीतायां न लभ्यते। तद् विवरणं भागवते लभ्यते -नवद्वारं पुरम्। अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति। भाग ४. २९. ८ 

एतेषां नवानां द्वाराणां दिग्विभाग: अपि तत्र एव दत्त:- अक्षिणी नासिके आस्यमिति पञ्च पुर: कृता:। दक्षिणा दक्षिण: कर्ण उत्तरा चोत्तर: स्मृत:। पश्चिमे इत्यधोद्वारौ गुदं शिश्नमिहोच्यते। भाग ४. २९. ९




#Article 2: भारतम् (1392 words)


निबन्धोऽयं भारतदेशः इति विषये लिखितः अस्ति, भारतम् इति ग्रन्थविषये महाभारतम् इत्येतत् पश्यतु।

भारतम्, आधिकारिकरूपेण भारतमहाराज्यम्, दक्षिण-जम्बूद्वीपे स्थितं महाराज्यम् वर्तते ।  जनसंख्यादृष्ट्या एषः विश्वे द्वितीये स्थाने विद्यते। विश्वे प्रसिद्धो जनतन्त्रयुत‌: देश: एष:। 

एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः। एषः भूभागः स्वस्य सांस्कृतिकसम्पदया प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्टीण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् ।  बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । 

भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य । सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । भारतीयसंसदे सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।

भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । अस्य नाम्नः उद्गमं प्रति विविधा: पारम्पर्यकथा: प्रचलिता: वर्तन्ते | ऋषभपुत्रेण राजर्षिभरतेन दुष्यन्तपुत्रेण भरतेन च परिपालितस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम्  इत्येका कथा। अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्तीराजा आसीत् तेन प्रशासितायाः भूमेः इदम् नाम आगतम्  इत्यन्या। अथवा विष्णुपुराणे उक्तं यथा....इत्यपि च||
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। 
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥

भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुखातस्य नागरिकता जगति एव अत्यन्तं पुरातनसंस्कृतिः । तदानीन्तनः इतिहासः विवादात्मकः अस्ति । इण्डो-आर्यन्-जनानाम् आगमनसिद्धान्तानुसारम् आर्यन्-जनाः क्रि. पू. २०००-१५००अवधौ मध्यएषियाभागतः आगत्य इदानीन्तनपश्चिमोत्तरभारते अवसन्। स्थानीयेभ्यः द्राविडजनैः सह जातः तेषां सम्पर्कः भारतस्य शास्त्रीयसंस्कृतेः उदयस्य कारणं जातम् इति ऊह्यते।

भौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । अस्य सीमा पश्चिमे पाकीस्थानेन, ईशान्ये  चैना-नेपाल-भूतानदेशैः परिवृता, बर्मा बङ्ला देशौ पूर्वदिशायां स्तः।  श्रीलङ्का, मालाद्वीपः च हिन्दुमहासागरे भारतस्य समीपवर्तिनौ । 

हिमालयात् उत्तरभागे चीनादेशः वर्तते । हिमालयस्य सानुप्रदेशे नेपाल-भूतानराज्यानि सन्ति । भारतस्य पूर्वभागे बाङ्ग्लादेशः बर्मादेशः, बङ्गलोपसागरे स्थितः अण्डमान् -निकोबार द्वीपसमुदायः, पश्चिमसागरे स्थितः लक्षद्वीपश्च भारतस्यैव प्रदेशः । भारतस्य वायव्यभागे पाकिस्थानदेशः अस्ति ।
हिमालयपर्वतश्रेण्यां तिस्त्रः पङ्क्तयः समानान्तरे सन्ति । तन्मध्ये काश्मीर-कुलुप्रभृतयः दर्यः । एताः विशालाः पुष्पफलसमृद्धाश्च । भारत बर्मादेशयोः भारत-बाङ्गलादेशयोः मध्येऽपि पर्वतपङ्क्तयः शोभन्ते । एताः हिमालयाः इव नोन्नताः । सिन्धु गङ्गानद्योः परिसरे विशालाः सन्ति । भारतस्य मध्ये आरावली -विन्ध्य -सात्पुरप्रमुखाः पर्वतश्रेण्यः सन्ति ।

मुद्रास्थानांतरमानस्य भारतीयार्थव्यवस्था विश्वे षष्ठमे स्थाने एवं क्रयशक्त्यनुसारं तृतीये स्थाने अस्ति | भारतीयार्थव्यवस्था कृषिप्रधाना वर्तते।

भारतसर्वकारः, आधिकारिकरूपेण सङ्घीयशासनम् इत्युच्यते, अपि च केन्द्रीयशासनमिति ज्ञायते। इदं शासनं भारतस्य संविधानद्वारा संस्थापितमासीत् । अस्तीदं २९ राज्यानां सप्त सङ्घराज्यक्षेत्राणां च शासकाधिकरणम्, समाहत्य यानि भारतगणतन्त्रमिति उच्यन्ते। अस्य संस्थितिः नवदिल्ली (भारतस्य राजधानी) इत्यत्र अस्ति।

सर्वकारस्यास्य तु तिस्रः शाखाः: कार्यकारिणी, विधायिका न्यायपालिका च। कार्यकारिणीशाखायाः प्रमुखस्तु राष्ट्रपतिः। स तु राज्यस्य प्रमुखः वर्तते। राष्ट्रपतिः स्वकीय-शक्तीन् प्रत्यक्षतया अथवा अधीनाधिकारिणां माध्यमेन प्रयोजयति।[१] संसदः विधायिकाशाखायां तु निम्नं सदनं लोकसभानाम अपि च उच्चं सदनं राज्यसभानाम तथा च राष्ट्रपतिः वर्तन्ते। न्यायपालिकायां च सर्वोच्चन्यायालयः शीर्षस्थः, अपि च 21 उच्चन्यायालयाः, जिल्लास्तरे च नागराः, आपराधिकाः, पारिवारिकाश्च न्यायलयाः बहवः विद्यन्ते। भारतं नाम संसारे बृहत्तमं लोकतन्त्रं वर्तते।

नागरिकानां शासनार्थे मूलभूतानि नागराणि आपराधिकानि वा विधानानि संसदि एव विधिनिर्माणद्वारा स्थाप्यन्ते। कानिचित् एतादृशानि विधानानि सन्ति- सिविल् प्रोसीजर् कोड् इत्येतत्, भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता च। सङ्घीयेऽथ च राज्यीयेषु सर्वकारेषु कार्यकारिणी, विधायिका न्यायपालिका च शाखा वर्तते। ७३तमेन ७४तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता।

सप्तचत्वारिशदधिकनवदशशततमे(१९४७) क्रिस्ताब्दे आगस्ट्मासे पञ्चदशदिनाङ्के आङ्गल्शासनात् मुक्तं भारतं स्वातन्त्र्यम् अलभत ।

जवाहरलालनेहरुम्हाभागः स्वतन्त्रभारतस्य प्रथमः प्रधानमन्त्री अभवत् ।

संविधानरीत्या पञ्चाशदधिकनवदशशत (१९५०) तमे क्रिस्ताब्दे जनवरिमासे षड्विंशतितमे दिनाङ्के भारतं सार्वभौममहाराज्यत्वेन उद्घोषितम् । राजेन्द्रप्रसादमहोदयः अस्य महाराज्यस्य प्रथमः अध्यक्षः आसीत् । तदा भाषाणाम् आधारेण राज्यानां पुनर्विभागः कृतः ।

भारतदेशः प्रजाप्रभुत्वात्मकः । अत्र शासनार्थ संविधानं रचितम् । जगतः सर्वेभ्यः संविधानेभ्यः भारतसंविधानं बृहद्गात्रकम् । संविधानमेव देशस्य वरिष्ठं शासनम् । संविधानरीत्या केन्द्रसर्वकारः, राज्यसर्वकाराश्च सम्भूय देशस्य शासनं कुर्वन्ति । एतदर्थं केन्द्रे लोकसभा, राज्यसभा च राज्येषु विधानसभा विधानपरिषच्च वर्तन्ते । राष्ट्रस्य शासनाधिकारः राष्ट्रपतौ न्यस्तः ।
भारतदेशस्य राजधानी देहलीनगरम् । भारतस्य राष्ट्रध्वजः त्रिवर्णाङ्कितः तत्रोर्ध्वं केसरवर्णः, मध्ये श्वेतः, अधश्च हरितः । श्वेतवर्णभागे नीलम् अशोकचक्रं राजते । सिंहशीर्षमुद्रा राष्ट्र्चिह्नम् । तत्र 'सत्यमेव जयते’ इति ध्येयवाक्यम् उत्कीर्णम् । 'जनगणमन’इति गीतं राष्ट्रगीतम् । राष्ट्रप्राणी व्याघ्रः । राष्ट्रपक्षी च मयूरः ।

भारते गङगा, यमुना, सिन्धू, नर्मदा, गोदावरी,कपिला, गजकर्णिका, ब्रह्मपुत्रा, कावेरी इत्यादयः नद्यः प्रवहन्ति । एताः सर्वाः अपि नद्यः जलेन भूमिं सिञ्चन्ति । अतः सुजला, सुफला, सस्यश्यामला च भारतभूमिः । एतस्मिन् देशे दिलीपः, दशरथः, युधिष्ठिरः इत्यादयः धर्मपरिपालकाः पौराणिकाः राजानः आसन् । अशोकादयः प्रजाहितचिन्तकाः राजानः च अभवन् । एतेषां कीर्तिः अद्यापि जगति समुल्लसति ।

अस्मिन् देशे ऋषयः मुनयश्च आसन् । ऋषयः मन्त्रद्रष्टारः । ते परमज्ञानं प्राप्तवन्तः । वेदेषु तत् ज्ञानं निबद्धम् । अतः अस्माकं देशः वेदभूमिः इति विख्यातः । वाल्मीकिव्यासादयश्च मुनयः इतिहासपुराणादीन् ग्रन्थान् रचितवन्तः ।

भारतं पुण्यभूमिः । अत्र राम-कृष्णादयः अवतारपुरुषाः, शङ्कर-रामानुज-बसवेश्वर-मध्वादयः धर्मोपदेशकाः आचार्याः समभवन् । बुद्ध-महावीरादयः अत्रैव अहिंसातत्त्वम् उपादिशन् । राष्ट्रपिता महात्मागान्धी अहिंसामार्गेणैव स्वातन्त्र्यं प्रापयत । भारते अनेकानि पुण्यक्षेत्राणि विद्यन्ते । तेषु काशी-गोकर्णम्-उडुपि-तिरुपति -श्रृङ्गेरी प्रभृतीनि च प्रसिद्धानि ।

१९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण ।
१९१९ तमवर्षे कविः एषःबेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।

फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् ।
मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तदनन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः भौगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके ।
१९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवाहरलाल नेह्रू यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।

१९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण ।

१९१९ तमवर्षे कविः एषः बेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।

फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् ।

मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तानन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः बहुगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके ।

१९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवहरलालनेहरु यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।

भारतं मतनिरपेक्षं राष्ट्रम् । अत्र अनेकानि मतानि, अनेकाश्च भाषाः सन्ति । मतभेदेन आचारभेदश्च वर्तते । तथापि वयं सर्वे भारतीयाः । अतः सौहार्देन वसामः ।
भारतम् अनेकभाषाणां देशः । अष्टशताधिकाः भाषाः अत्र सन्ति । तत्र संस्कृतभाषा प्राचीनतमा । सा बहुभाषाणां जननी, कासाञ्चन भाषाणां पोषयित्री च अस्ति । संस्कृतवाङ्मये विविधानिं शास्त्राणि, रम्याणि काव्यानि अपूर्वाश्च विज्ञानविषयाः सन्ति । गौतमः, जैमिनिः, पाणिनिः इत्यादयः संस्कृतकवयः प्रसिद्धाः । विज्ञानेऽपि कणादः चरकः वराहमिहिरः, आर्यभटः इत्या प्रख्याताः ।
पुण्यतमा, सर्वसम्पत्समृद्धा भारतभूमिः अस्माकं जन्मभूमिः । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इत्यतः सा वन्दनीया । जयतात् भारतमाता।

भारतम् एशिया महाद्वीपे दक्षिणे एक: स्वतन्त्र: समाजवादी पन्थनिरपेक्ष:लोकतन्त्रगणतन्त्रदेशः अस्ति। एतद् विश्वस्य विशालं लोकतंत्रम्। अस्य जनसंख्या ११० कोटिमिता| भाषा: शताधिकाः। भारतवर्षस्‍य उत्तरदिशि पर्वतराज: हिमालयः अस्‍ति, दक्षिणे  अस्‍ति। भारतस्य उत्तरे नेपाल तिब्बत चीन च देशा: सन्ति। पश्चिमे पाकिस्तानम् अफगानिस्थानम् इत्यादय: देशा: सन्ति। पूर्वे बर्मा एवं दक्षिणे श्रीलङ्का मालदीव इत्यादय: देशा: सन्ति। कुष्ण-द्वीप-निकोबारद्वीपयो; च निकटे इंडोनेशिया थाईलैंड च देशौ स्त:।

भारतस्य राजधानी देहली अस्ति । अन्यमुख्यनगराणि मुम्बयी पुणे कोलकाता बेङ्गलुरु चेन्नै च सन्ति । भारते सप्तविंशति: राज्यानि सन्ति।

पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।
भारतीये संविधाने 22 भाषाः अनुसूचिताः सन्ति।

भारते २९ राज्यानि एवं ७ केन्द्रशासिता:प्रदेशा: च सन्ति।अस्मिन् देशे विविधमतानुयायिनः परस्परं सौहार्देन जीवन्ति।

भारतस्य राष्ट्रियगीतम् जन गण मन गुरुदेव रवीन्द्रनाथ ठाकुरवर्येण लिखितम् । भारतस्य राष्ट्रियं गीतं वन्दे मातरम् बङ्किमचंद्र- चटर्जीवर्येन लिखितम् |




#Article 3: भाषा (1845 words)


भाषा संकेतम् इनकोडम्, डीकोडम् च कृतुम् साधनम् अस्ति। जन्तवः  सङ्गणकाणि च भाषायाः उपयोगम् करोतः। सामान्यतः जन्तुनाम् भाषाः प्राकृत्तिकाः सन्ति। परन्तु संगणकस्य भाषाः कृत्रिमाः एव सन्ति।

कतिचन मानवस्य भाषाः अपि कृत्रिकमाः सन्ति। लोजबानम्, इन्टरलिङ्वा, इडो, इतियादवः उदाहरणानि सन्ति।

संस्कृतम् विश्वस्य प्रथमः विकसितः भाषा अस्ति। संस्कृतात् एव अन्य विकसिताः आर्यभाषाः अजन्मत्, अतः संस्कृतम् भाषानाम् माता अस्ति। संस्कृतम् देवभाषा अपि अस्ति।

भाषा हि जनानां भावाभिव्यक्तये सशक्त साधनम् । अन्यैरपि चेष्टादभिः साधनैर्भावाभिव्यक्तिस्तु सम्भवति किन्तु न तत्र सम्पूर्णता सम्भवति । भाषेवसो शक्तिर्यया मनुष्यः पशुतो भिद्यते तेनैव वाङ्नाम दैवी शक्तिः । भाषा हि - समुदायस्य महान् वानिधिः । उक्तमेव 'तां विश्वरूपाः पशवो वदन्ति' इति । |.. विश्वरूपाः इति समुदायसम्बद्धाः, पशव इति प्राणिन उपलक्षणाज्जनाः, वदन्ति इति सुखेनोच्चारणं कुर्वन्ति । अनेन भाषायाः स्वरूपं व्याख्यातं मवति यथा भाषा नाम सा वाक् या खलु कण्ठताल्वादिभिरुच्चारणस्थानैरुच्चार्यते, या च केनचित्समुदायेन भावस्य स्पष्टाभिव्यक्तये प्रयुज्यते इति । अर्थात् उच्चारणा। वयवेभ्यः समुच्चरितानां सार्थकध्वनिसमूहानां समष्टिरेव भाषा भण्यते ।

अनेन भाषात्वसिद्धये चतुर्णा तत्वानामुपस्थितिरावश्यकी भवति । तानि चेमानि भवन्ति--  

तादृशीं मनुष्यमात्रस्य सम्पद्भताऽनन्यप्राणिलभ्यां भाषा कथमुदैदिति विषये भाषाविदः परस्परं मंतपार्थक्यं जनयन्ति । केचिज्जनैः सम्भूय व्यवहारसौकर्याय भाषोत्पादितेति कथयन्ति किन्तु ते विस्मरन्ति यद्यदा भाषा नैवासीतदा जनाः कथं सम्भूताः कथञ्च ते परस्परं मन्त्रयाञ्चक्रुरिति । तेन मतमिदं नितान्तमेवाग्राह्यम् । केचित्तु भाषामीश्वरोत्पादितां मन्यन्ते तदपि । चिन्त्यमेव येतो यदि भाषेश्वरकृता भवेत्तदा तस्याः विश्वजनीनत्वं भवेत्। । किन्तु तथ्यं तद्विपरीतमेव । प्रतिसमुदायं भाषा भिद्यत एव तत्रापि प्रतिजाति तु भाषा परस्परासम्बद्धत्वेन भिद्यते अपरञ्चेश्वरकृताया भाषायाः कथं परिवर्तनधर्भसम्भवः । भाषा तु नितान्तपरिवर्तनशीला दृश्यते ।

केचिद्भाषां क्रमेण विकसित मन्यन्ते । आदौ मनुष्य एकाकी विचरन्नासीत् । आकस्मिकमैथुनधर्मेण तस्य सङ्ख्या व्यवर्धत । कालान्तरे जीवनसौकर्याय तेन सामूहिक जीवनमारब्धम् । समानशीलाः समानं समुदायमवलम्ब्य स्थातुं प्रवृत्ताः । समूहजीवनेन सहैव परस्परं विचारविनिमयस्यावश्यकतोदगात् । प्रेथमं . तु तच्चेष्टादिभिरभूर्तसाधनैः समपद्यत किन्तु यथा यथा व्यवहारस्य जंटिलताः । वृद्धिमाप्ता तथा तथा चेष्टादिसाधनानि विचारविनिमयाय नितान्तमपर्याप्तानि सञ्जातानि । अपरञ्चान्धकारे चेष्टादीनां न तथोपयोगिता सिध्यति । तेन जनैविचारविनिमयाय ध्वनिप्रयोगः समारब्धः । आदौ ध्वनिरपि अस्पष्टोऽव्यक्तार्थ : श्चासीत् । अधुनाऽपि केऽचित्पर्वतप्रदेशेषु अव्यक्तध्वनिना विचारस्य कश्चिदंशः प्रकटौक्रियते । व्यतीते च काले सम्प्रवृत्ते च जटिलव्यवहारे तेनाऽपि नैव कार्यसमापन समपद्यत । क्रमशस्तादृशेषु ध्वनिषु अर्थसमावेशःसमारब्धः अस्माच्छब्दादयम. वैतद्वस्तु बौद्धव्यमिति सङ्केतनपरम्परा समुदिता । तत्रापि : प्रायः शब्दा असंयुक्ता एकाक्षरिण एवासन् । तान्वयमधुना धातुसंज्ञया व्यवहरामो यथा भू-वा-या-पा इत्यादयः । कालान्तरे बर्धमानव्यवहारापेक्षया शब्दराशेरावश्यकता समजायत । ततश्च तेष्वेव यं कञ्चिदंशं संयोज्य नवा नवाः शब्दाः निमिताः। ततश्चानेन क्रमेण भाषाऽस्तित्वमागता ।-समुदायविशेषेणैव स्वानुकूलमाविष्कृतत्वात्सा प्रतिसमुदाय भिद्यत इति ।

क्रीस्तधर्मग्रन्थों बाइबलमपि तथ्यमेवेदं समर्थयति । तदनुसारेण यदा इतरप्राणिसर्जनेनेश्वरो नैव सन्तुष्ट स्तदाऽन्ते स मनुष्यं सृष्टवान् । तं दृष्ट्वा च स परमप्रीतो बभूव । तमाशिभिः । संबध्यै स स्वसृष्टानां पदार्थानां नामकरणाय तमादिदेशः । मनुष्यो यं येना । ह्वयत्स तस्य नामाऽभूत् । इत्यञ्च भाषा समुदिता। तदा ईश्वरोऽचिन्तयधत्तस्य प्रियंमात्रं मनुष्य एकाकी वर्तते । एकाकी न रमते कोऽपि । तेन से ते निद्रा ददौ । निद्रितस्य शरीरादस्थिमांसंभागमादाय नारीं सृष्टबान्।।। यतः सी नेरशरीरांदंशमादाय सृष्टेति सा नारी नरस्यार्धाङ्गिनी । ततश्च तौ परस्परं ध्वनि साहाय्येनं, संल्लापमारेभतुर्यस्य विकसितं रूपमेव भाषा समजायत । यदाच. मनुष्याः पूर्वतः पश्चिम दिशं प्रति गतास्तदा, जगत्येको एव भाषाऽऽसीद्यञ्च सीमिता शब्दा एवीसनु। क्रमश, आवश्यकतानुसारेण शब्दनिधिवृद्धि प्रापित इति । 

भारतीयपरम्पराऽपि 'दैवी वाचमजनयन्त देवास्तां विश्वरूपाः पशवों वदन्ति इत्याद्युक्त्वा भाषां देवतोत्पदिता कमेण मनुष्यै हीतां मन्यते । ऋषयः खलु शब्ददर्शको अर्थनिरकाश्च। अस्माच्छब्दादयमर्यों बोद्धव्य इति ईश्वरेच्छव शब्दशक्तिरिति देवतायत्ता भाषा एकैवाऽऽसीत् किन्तु यदा सा मनुष्यगृहीता तेषामल्पबुद्धित्वात्साधि २ मिन्ना जाता । भाषोत्पत्ति विकासवादिनः सत्यस्य नैक किन्त तेऽपि न यथार्थमाप्तुं समर्थ है हि एतद्विस्मरन्ति यन्नैमित्तिक ज्ञानं विना न किमपि सिध्यति । यदि स्वतः ज्ञानेन सर्वं सिध्येत्तदा मपदा सर्वोऽपि समुदायः समानेनैव रूपेण क्किसितः स्यात् । I'S ११ उ तत्प्रतिकूलम् । तादशनैमित्तिकज्ञानं तु ईश्वरसिद्धमेव । स्याद्ययार्थं यद्वा तद्वा भाषा  भाषाव्यवहारे विकासवादिमतं सदोपेक्षणीयं सम्भवति । दतव स्यात्किन्तु' तद्विकासस्तु क्रमेणावश्यकतानुसारमेव सञ्जातोऽन्यथा शवतिगतिकर्मा कम्बोजेष्वेव न सीमितो भवेत् । लवनाथं प्राच्येषु. प्रसिद्धो दातिरुदीच्येषु दात्र न भवेत् । महान् हि शब्दस्य प्रयोगविषयः । स हि एकदा कदाचिदपि सिंह, सिद्धो न भवितुर्महति । अयं विकासस्यैव परिणामः ।।

भाषोत्पत्तिविषये भारतीयपरम्परा काचिद्विशिष्टैव विचारणा रक्षति । तदनुसार वाङ्नाम अनादिनिधना नया च या स्वयम्भवा आदौ वेदमयी वाचमजनयन्त तां विश्वः प्रवृत्तयः समुद्भता इति । एवमेव देवाः प्रथमं दैवीं एवेव लोकेषु त्रीणि पशुषविश्वरूपाः पशवो वदन्ति । स वै सृष्टी चतुर्धा व्यभवत् । एतेषु तुरीयमिति। तस्माद्वाह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुयुष्याणामिति । तेन वेदाधारेणैव लौकिकभाषा विकसिताऽअवदिति । वृहस्पतिः प्रथमं वाचं ददर्श । स हि देवतार्थं तामंगृह्णादिति तत्र वेदेषु कथ्यते । वाग्वै प्रथममखण्डाऽऽसीत। तत्र सौकर्यायेन्द्रो मध्यतोऽवक्रम्य कतिप्रत्ययादिविभागेन व्याकरोत् । उक्तमेव -

देवभाषा हि संस्कृतपदेनाभिधीयते इत्याचार्याः । 'संस्कृतं नाम दैवी वागन्वाख्याता मनीषिभिः' इति वचनात् । तस्य संस्कृतामिधानं प्रकृतिप्रत्यादिविभागैः संस्कृतत्वादिति मन्यते । इदमुच्यते यत्प्रथमं भाषा नितान्तमव्याकृताऽखण्डैवाऽऽसीत् ।सा च प्रतिपदपाठेनैबोपदिश्यते स्म । कथ्यते यद्वृहस्पतिरिन्द्राय दिव्यवर्षसहस्रं प्रतिपदोक्तानां शब्दानां पारायणं प्रोवाच' इति । तेन तदध्ययने महान परिश्रमः कालक्षयश्च आवश्यक आसीत् । तेन देवा इमां नो वाचं व्याकुरु'इति इन्द्रं 'प्रार्थयामासुः । इन्द्रश्च तां मध्यतोऽवक्रम्य प्रकृतिप्रत्ययविभागेन व्याकरोदिति । तेनैवेत्थं व्याकृतत्वादस्य संस्कृतमिति नाम सञ्जातमिति । ननु प्रकृतिप्रत्ययविभागस्तु अन्यास्वपि भाषासु भवत्येव । तेन कथं देवभाषैव संस्कृतमिति नाशङ्कितव्यम् । तस्यास्तथाभिधानं सर्वप्रथमत्वेन व्याकृतत्वात् । यद्यप्य भिधानमिद लौकिकसाहित्ये एव दश्यते सम्मवतो भाषावबोधकत्वेन प्रथमभरतनाट्यशास्त्र एव तथाप्यस्य सम्बन्धो वैदिकपदै.सहापि नापलपितुं शक्यः । तदेतत्पर्यवस्यति यद्भाषा प्रथममखण्डाऽव्याकृता चासीत् । तस्य च व्याकृतं साहित्यिक रूपं संस्कृतपदेनाऽप्यभिधीयते । तत्संस्कृतरूपमनुमातुमशक्तैरभिधातृमिरवकीर्णं सत्प्राकृतं सजातम् । यथाऽऽह भर्तृहरिर्वाक्यपदीये -

दैवी वांगवकीर्णेय मशक्त रभिधातृमिः । इति । 

एवमेव नाट्यशास्त्रेऽप्युक्तं -

तेनदेमवधेयं यद्द वभाषाया व्याकृतं स्वरूपं संस्कृतमवकीर्णञ्च स्वरूपं प्राकृतमिति । अनेनैवाशयेनोक्त' भवेत् - 

प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतमिति । अन्यथा व्याकरणनियमबद्धाया भाषायाः परिवर्तनं वा विकारः कथं कल्पितः स्यात् ।' । उक्तमेव वाक्यपदीयस्य स्वोपज्ञवृत्तौ ‘प्रकृतौ भवं प्राकृतं साधूनां शब्दानाम् ।  इति । तेनैव लौकिकसंस्कृतापेक्षया वैदिकभाषया सह प्राकृतभाषायाः । सान्निकट्यमपि एतदेव समर्थयति । यथां वेदे मूर्धन्यषकारस्य टवर्गसंयुक्तव खकारवदुच्चारणं यथा ‘प्रथमो दैव्यो भिषक' श्त्यत्र भिषक्पदे । प्राकृतेऽपि भिख- ।। .: गिति । लौकिकसंस्कृते तु भिषगेव ! यथैव सूर्यस्य वेदे सूज्य इत्युच्चारणं तथैव ।

प्राकृतेऽपि, यदा इत्यस्य वेदे ज्यदा इत्युच्चारणं प्राकृते जदा इति, यमित्यस्य । वेदे ज्यमिति प्राकृते ‘जम्' इत्युच्चारणम् । तथैव वेदे न पदभक्तिः प्राकृतेऽपि तथैव । वेदे प्रतिपालिता स्वरभक्तिः प्राकृतेऽपि तथैव । संस्कृतस्य क्लिष्टत्वं संश्लेषणात्मकत्वञ्ब प्राकृतं नैव गृह्णातिं । लौकिकसंस्कृते अप्रथुक्तानामपि वैदिकशब्दांनों प्राकृते तत्समत्वेन वा तद्विकृतित्वेन प्रयोगश्चेदमेव तथ्यं सूचयति । ' तदित्थं वेदसम्मताऽपि. भाषा कालान्तरेण वर्णागमवर्णलोपवर्णविपर्यय। अर्थसङ्कोचविस्तारपार्थक्यादिभाषाविकारनियमैरवक्रान्ता प्रवर्धमानप्राकृतप्रयोग-समवकीर्णा च पुनर्वैयाकरणैः समयानुकूलं परिष्कृता सती लौकिकसंस्कृतसंज्ञां लेभे । तेनैव पाणिनिस्तां भाषाशब्देन लौकिकशब्देन च गृह्णाति । ‘भाषायां सद' ‘सर्वत्र विभाषा गोः' इत्यादिवाक्यैः ।लोकशब्दश्चोत्र, जनसामान्यवचनपरः । तत्र तत्र वैदिकशब्दानां कृते पृथगेव सूत्राण्यपि रचितानि यानि प्रक्रियाकौमुदीषु वैदिकप्रक्रिया नाम्ना पृथक् सङ्गृहीतानि । 

वैदिकशब्देषु प्राकृतशब्दसम्मिश्रणादेव लौकिकसंस्कृतं समुत्पन्नम् । एवमेब कौकिकसंस्कृतेऽपि प्राकृतप्रभावप्रवेशादेव शाखाः सञ्जाताः । तादृशप्रतिशाखप्रचलितरूपाणि सङ्गृह्य पाणिनिना तस्य परिनिष्ठितं रूपं निरूपितम्। तत्रापि यदनुक्त वा दुरुक्त' वा तद्वतककारेण साधितं 'यवनाल्लिप्याम् । इत्यादिभिर्वातकैः । तच्च महाभाष्यकारेण सर्वं सङ्गृह्य स्थिरीकृतमिति साम्प्रतिको संस्कृतभाषा मुनित्रयप्रसादाप्तेति रहस्यम् । इयमेव देवभाषा सर्वविधभाषा जननी ।तामेव पाश्चात्या विचक्षणी ‘भारोपोय' शब्देनाह्वयन्ति । संज्ञा तु या काऽपि स्याद्भारोपीयो भारतेरानीया, वाऽन्यांपि, मूलतत्वं तु , सैव देववाणी या तामनुकर्तुमशक्त: स्वानुकूल्येन पृथग्रूपेणोच्चार्यते। 'दुहितर्' इति सम्यगुच्चारितुमशक्त : ‘डटर्' इति कथनमात्रेण तस्य मूलरूपं तु नैव विपद्यते । हेमदत्तस्य ‘हेल्मट' इति लक्ष्मीदत्तस्य ‘स्मिथ इति, कामं कश्चिद् ब्रूपात् किन्तु तल्लेखने तु तेऽपि हेमदत्त एव लिखन्ति ।

संस्कृतभाषा केवलं साहित्यिकभाषेवाऽऽसीन्न तु व्यवहारभाषेति केचन निरर्गलं तर्कमप्युपस्थापयन्ति स्ववैचक्षण्यप्रदर्शनाय । किन्तु तथ्यं तद्विपरीतमेव । संस्कृतं हि प्राचीनकाले नितान्तमेव व्यावहारिकी भाषाऽप्यासीदिति बहुविधप्रमाणतो ज्ञायते । प्रथमन्तु तस्य शाखावत्वमेव प्रमाणम् । सामान्यतः परिवर्तशीलत्वमेव जीवितभाषाया भाषितभाषायाश्च लक्षणम् । यदि संस्कृतं हि भाषितभाषा न स्यात्तदा तत्र विकासोऽपि न स्यान्नचार्थविस्तार सोचावधि नैव च शाखाभेदः किन्तु संस्कृते एषां सर्वेषामेव समुपस्थितेः प्राक्काले संस्कृत भाषितभाषा आसीदिति स्पष्टमेव कामं तस्य प्रादेशिकता सीमिता आसीन। वाल्मीकिरामायणाज्ज्ञायते यत्तदा द्विजातयः (त्रयो वर्णाः) संस्कृतां नित दन्ति स्म । तत्समये द्विजातिप्रयुक्त तरजातिप्रयु क्तभाषयोरन्तरमासीत् । . तिप्रयुक्ता भाषा देवभाषेवाऽऽसीत् मनुष्यप्रयुक्ता तु तद्भिन्ना मानुषी सं अशोकवनप्राप्तो हनुमान् विचिन्तयति -

अहं ह्यतितनुश्चैव वानरश्च विशेषतः बाचञ्चोदाहरिष्यामि मानुषीमिह संस्कृताम् ।

यदि बाचं प्रदास्यामि द्विजातिरिव संस्कृताम् रावणं मन्यमाना मां सीता भीता भविष्यति।। इति।

यदि अहं द्विजातिरिव संस्कृतां वाचं ब्रवामित मां रावणं मत्वा भीता भविष्यति । तेनाहं मानुषीमेव किन्त वाचं वच्मीत्यस्याशयः । अनेनैतदपि सिध्यति यत्कामं मा थगेवाऽऽसीत्किन्तु तस्या अपि द्वे रूपे अ रस्तां संस्कृतम मानुषीभाषाभाषिणोऽपि द्विजातिभाषां संस्कृतं सम्यग्जानन्ति व रामायणे ‘बहु, व्याहरताऽनेन न किञ्चिदपशब्दितम्' भाषणे साधुशब्दानामपशब्दानाञ्च प्रयोगस्य प्रचलनं तथैव इत धुशब्दज्ञानं सिध्यति । 'विषयेऽस्मिन् बिश्वनाथाचार्यः कथयति या भाषा सम्भाषणेषु प्रयुज्यते तत्र परिवर्तन स्वाभाविकमेव । वैदिकलौकिकसंस्कृतंयोः । परस्परसादृश्यं विलोक्य लौकिकसंस्कृतं वैदिकसंस्कृतस्यैव रूपान्तरमिति ।। प्रतिभाति । भाषापरिवर्तनेन सह तद्वयाकरणस्यापि परिवर्तनं सुनिश्चितम् । वैदिकलौकिकसंस्कृतव्याकरणयोस्तुलनया द्वयोरप्येतयोभषयोर्भेदज्ञानं भवत्येव इति । स च संस्कृतभाषा पतञ्जलिकालपर्यन्तमपि जनभाषाऽऽसीत् । तदनन्तरं सा शिष्टानामेव भाषात्वेनावशिष्टा। केचन वैदिकी भाषा कदाचित्सम्भाषणे नाऽऽसीत् । सा तु वेदवदनादिरपौरुषेया चेति मंन्यन्ते किन्तु तच्विन्त्यमेव यतो वेदे एंव ‘तां विश्वरूपा पशवो वदन्ति' “तस्माद् ब्राह्मणा उभय वाचं क्दन्ति, या च देवानां या च मनुष्याणामिति इत्यादि कथनात् तस्याः भाषितभाषात्वं सिध्यत्येव । कि यथेमां वाचं कल्याण आवदानि जनेभ्यः; “सङ्गच्छध्वं संवदध्वं” इत्यादिकथनमभाषितभाषायामुपयुज्यते । कदापि नैव ।

यास्कादारभ्य सर्वै एव प्राञ्चो वैयाकरणाः संस्कृत भाषापदेन व्यपदिशन्ति । भाषितत्वमेव भाषाया भाषात्वम् । इराह्वयने अन्तिमः स्वरः। प्लुतो भवति इति भाषितभाषायी लक्षणं विहाय किमन्यत् ? कम्बोजेष्वेवेति । कि संस्थितभाषालक्षणम् ? यदि संस्कृतं न जनभाषा, भवेत्तदा पालिपालिता बौद्धाः किनिमित्तं संस्कृते ग्रन्थाः प्रणयेयुः ? स्वयमेवाश्वघोषः पालि विहाय संस्कृते काव्यं प्रणिनाय । शिलालेखानां नवतिप्रतिशतभागो राजशासनानां तदधिकप्रतिशतभागः संस्कृते एव लिखितो दृश्यते इति परं प्रमाणं संस्कृतस्य भाषितभाषात्वे । अभिनयार्थं प्रणीतेषु नाटकेषु प्रयुक्ता भाषा कथन्नाम भाषितेतरा भवेत् । पाणिनिः संस्कृतशब्दानां प्राच्यौदीच्यदाक्षिणात्यरूपाणि स्मरति । तथा तु तदैव सम्भवति यद्रा सा भाषितावस्थाका भवेत् । एकस्यैव शब्दस्य एकाधिकरूपाण्यपि भाषितत्वमधिकृत्यैवं भवति तव, ते, मम, मे, मो, मा, गवाक् शब्दस्य तु नवाधिकशतरूपाणि च भाषायाः भाषितत्वस्यैव लक्षणम्।। व्याकरणानां बाहुल्यं तत्रापि मतान्तरं यथा 'लोपः शाकल्यस्य’, ‘अवङ् स्फोटायनस्य,' ‘ऋतो भारद्वाजस्य, चेत्यादि अपि भाषाया भाषितत्वस्यैव परिचायकम् । सर्वानतिशय्य सम्प्रसारणं यण्विकल्पश्च भाषाया जीवितत्वस्य परिचायकः । 

यण्विकल्पो यथा त्र्यम्बकं यजामहे, त्रियम्बकं संयमिनं ददर्श' इति ।। सम्प्रसारणं तु इग्यणः सम्प्रसारणम् । तथैव ‘पारम्पर्यादपभ्रशो विगुणेष्वाभिधातृषु' इति 'दैवी वाग्व्यवकीर्णेयमशक्त रभिधातृभिः', इत्यपि च भाषाया भाषितत्वस्यैव सूचकम् । पृषोदरादिव्यवस्थाऽपि भाषाया भाषितत्वं जनयति । न कुतोऽपि सिद्ध प्रयोगमागते च शब्दे, पृषोदरादित्वात्साधुरित्युच्यते । भाषायाः संस्थितत्वे काऽऽवश्यकताऽस्या व्यवस्थायाः । ‘पृषोदरादीनि यथोपदिष्टम् पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्युः इति । वर्णमांत्रभेदेन अर्थान्तरवाचकत्वमपि भाषितभाषाया एव लक्षणम् । संस्कृते तथाविधा बहवः शब्दा दृश्यन्ते यथा गर-गल-ग्रह-ग्लहशब्दाः । सर्वैव नामधातुप्रक्रिया जीवितभाषयामेव सम्भवति व्यवहारसौकर्याय अभाषितभाषायायनुनासिकनिरनुनासिकयोः को भेदः ? गुणे अर्परत्वञ्चोच्चारणसौकर्येणैव भवति । तदेतानि अन्यानि च प्रमाणानि संस्कृतभाषाया भाषितत्वं साधयन्ति । किर्यत्कालपर्यन्तमेषा भाषिताऽऽसीदित्यपरः प्रश्नः । सामान्यतो गौतमबुद्धसमये पालीभाषाया 'भाषितत्वं वौद्धग्रन्थतो ज्ञायते । तेन गौतमस्थितिकाले संस्कृतं हि शिष्टानामेव द्विजातीनां भाषितभाषाऽऽसीदिति स्वीकर्तव्यमेव । सम्भवति प्राचीनकालादेवं जनाः संस्कृतं तु जानन्ति स्म किन्तु व्यवहारे द्विजातयः संस्कृतां वाचमितरे तु मानुषीं वाचं पालीप्रभृति प्रयुञ्जन्ति स्मेति तथ्यविश्लेषणतो ज्ञायते । शनैः शनैः संस्कृतभाषा द्विजातिष्वेव सीमिता सञ्ज़ाता। द्विजातयोऽपि परस्परालापे संस्कृतस्य इतरैः सहाला मनुष्याः प्रयोगं कुवन्ति स्मेति 'तस्माद् ब्राह्मणा उभयीं याचं वदन्ति या च देवानां या च मनुष्याणाम्' इति निरुक्तवचनात् ज्ञायते । 

पाणिनिकाले संस्कृतं नितान्तमेव शिष्टभाषात्वेनावशिष्टाऽऽसीत् । पतञ्जलिकाले भाषाया' मपभ्रंशस्य एतादृशं. बाहुल्यमासीद्यद् द्विजातयोऽपि तत्प्रमावादात्मानं नैव रक्षितुं समर्था आसन् इति ‘एकस्य शब्दस्य बहवोऽपभ्रशाः' इति पतञ्जलिवचनाज्ञायते । तेनैव स द्विजातिष्वपि ब्राह्मणेन नापभषितवै नापम्लेच्छितवै ‘इति. निदशति । पतञ्जल्यनन्तरं तु संस्कृतं केवलं पण्डितभाषैव समजायत । तस्य जनसामागान्यसम्पर्कः प्रायो विच्छिन्न एव । पुनश्च गुप्तकाले भोजसमये च संस्कृतस्य प्रचारस्तु सञ्जातः किन्तु तस्य जनसामान्यसम्पर्कस्तु, नैव पुनरुदितः । सम्प्रति तु पण्डितसमाजेऽपि विरला एवं जनाः संस्कृतमाश्रित्यं संल्लापं कुर्वन्ति । 

साम्प्रतिककाले संस्कृतस्य माहात्म्यं देशभाषासु गीयते संस्कृतस्य ग्रन्था देशभाषानाम्ना प्रकाशिता अपि दृश्यन्ते यथा ‘हिन्दी :: दशरूपकं' वा 'हिन्दो नाट्यशास्त्र'मित्यादि । प्रायः समस्ता एवं संस्कृतग्रन्थाः वेदाश्च देशभाषायामनूदिता अपि दृश्यन्ते । यत्र कुत्र तु देशभाषायाः संस्कृतस्य : पर्यायवाचककत्वमपि सम्मतं दृश्यते । काऽतःपरं विडम्बना संस्कृतस्य । अपरञ्च परीक्षासौकर्यदृष्ट्या पुस्तकानि खण्डीकृत्य . प्रकाश्यन्ते तान्यपि प्रश्नोत्तरसंहितया छिन्नाङ्गान्येव । आधुनिकपण्डितैर्यथामति व्याख्यायन्ते च । ग्रन्थाः तथाकरण क्वचित्तु व्याख्या मूलप्रतिगामिन्यपि दृश्यते । भवतु तावत् । । संस्कृतं हि आर्यजातेः प्राणभूता भाषा । अस्यामेव पूबैजना विचिन्तयन्ति विचारयन्ति स्म । आधुनिकास्तु देशभाषायां विचिन्तयन्ति तदेवानुद्य संस्कृतमाश्रित्यावतारयन्तीति । संस्कृतस्य मौलिकत्वं तु प्रणष्टमेव । संस्कृतस्य मूलवैशिण्टयसंरक्षणाथ पूर्वजनी हि दत्तजीवना असन् किन्तु सम्प्रति न कोऽपि तन्निमित्तं प्रयतत इति कस्य सहृदयस्य न दूयते चेतः । इदं प्रागेवोक्त यद्देवभाषा व्याकृतत्वात्संस्कृतामिधानं लेभे इति । इन्द्रो ह वै प्रथमो व्याकर्ता आसीदित्यपि उक्तमेव । आगामिप्रकरणे व्याकरणपरम्पराविषये किञ्चिद्वक्ष्यते ।

भाषा कुटुम्बे समपूर्वजाणम् भाषा सन्ति। ताषु समगुणाः अस्ति। आर्यभाषाः महिष्ठः भाषाकुटुम्बः अस्ति। तायाम् ४७७ भाषाः, विश्वे ४६% जनाः तयाः वाचक सन्ति।

वयम् भाषाः लिपिभिः लिखामः। सर्वाणाम् भाषानाम् स्वकीयलिपिः नस्ति, अतः तथा भाषः परभाषायाः लिप्याः उपयोगम् करोति वा सा आलिखितम् न भवति। हिंद्याः स्वकीयलिपिः नस्ति, अतः सा संस्कृतस्य देवनागरीलिपिम् उपयोगम् करोति।




#Article 4: पाणिनिः (7871 words)


पाणिनिः  संस्कृतभाषायाः महान् वैय्याकरणः । तेन लिखितः अष्टाध्यायीनामकः व्याकरणग्रन्थः विश्वप्रसिद्धः वर्तते ।

संस्कृतभाषायाः प्राचीनाः वैयाकरणाः नामभिः स्तूयन्ते यथा-

इत्यष्टसु शाब्दिकेषु अष्टम एव पाणिनिः वर्तते । 
स्वतः पूर्वान् वैयाकरणान् पाणिनिः स्वस्य अष्टाध्यायी इत्येतस्मिन् ग्रन्थे अन्यान्यव्याकरणप्रक्रियानिरूपणसूत्रेषु स्मरति, यथा- ऋतो भारद्वाजस्य७/२/६३. लोपः शाकल्यस्य८/३/१९. त्रिप्रभृतिषु शाकटायनस्य८/४/५०. वा सुप्यापिशलेः६/१/९२. इत्यादि ।

पाणिनिः भगवान् व्याकरणशास्त्रस्य केन्द्रविन्दुर्मतः । यद्यपि तत्पूर्वमपि दश पाणिनिस्मृता दश अनपेक्षिताः षोडशेति षड्विंशतिराचार्याः सन्त्येव व्यकिरणशास्त्रप्रवक्तारस्तथाऽपि भगवतः पाणिनेः व्यकरणशास्त्रकेन्द्रविन्दुत्वं विलेंसत्येव तदुपस्थापनप्रावीण्येन । पाणिनिह भगवान् सर्वाणि प्रचलितव्याकरणशास्त्रीणि समालोच्य विशदमपि शब्दप्रयोगविषयमुपसमाहृत्य व्याकरणसूत्राणि प्रणिनायं यत्र निखिलमेव संप्रपञ्चं शब्दानुशासनमात्मसाभूतमस्ति । तस्यः । हि व्याकरणसंहिता अष्टाध्यायी नामा प्रसिद्धाऽस्ति । यद्यपि आपिशलव्याकरणं . पाणिनेरुपजीव्यमासीत् यथा हरदत्तः सङ्कतयति तथापि तस्य मौलिकत्वम'क्षुण्णमविहतञ्चास्त्येव ।

तादशस्य महामुनेः परिचयः सम्यक्तया नैवोपलभ्यत इति सुमहत्कष्ट” दटमं । स हि पाणिन-पाणिनि-पणिपुत्र-दाक्षीपुत्र-शालङ्किशालातुरीय-आहिका
दैरपि अभिधीयते। यथाऽऽह त्रिकाण्डशेषे पुरुषोत्तमः - पाणिनिस्त्वाहिको दाक्षीपुत्रः शालङ्किपाणिनौ । शालोतरीयः - यथा च वैजयन्तीकोशे - ‘शालातुरीयको दाक्षीपुत्रः पाणिनिराहिकः । पाणिनीयशिक्षाया याजुषपाठे - दाक्षीपुत्रः पाणिनेयो येनेदं व्याहृतं भुवि । यथा च यशस्तिलकचम्पूग्रन्थे - पाणिपुत्र इव पदप्रयोगेषु”। तत्र पाणिनः ‘पणिन्' शब्दात् अणि गाथिविदपिकेशिगणिपणूिनश्च' इति । प्रकृत्या सिध्यति । अर्थश्चास्य पणिनः अपत्यमिति । पाणिनिस्तु पणिनोऽपत्य‘मिति पणिन् शब्दाद् बाह्वादियश्च इतीर् । केचित् पणिनोऽपत्य पाणिनस्तस्यापत्य युवेति पाणिनिरिति । अत्र प्रथममेव मतं समीचीन दश्यते । किञ्च प्रकरणेषु पाणिनः पाणिनिश्चोभावेण गोत्ररूपेण स्मृतौ स्तः । यदि द्वितीयमतमवलम्व्यते तदा पाणिन इत्यस्मान्निष्पन्नस्य पाणिनिशब्दस्य गोत्ररूपेण नैवोल्लेखः स्यात् ।

पाणिनेय इति तु ‘पणिन्' शब्दात् ‘शुभ्रादिभ्यश्च' इति अपत्यार्थं ढकि सिध्यति । पाणिपुत्र इति तु पाणिनः पुत्र इति षष्ठीतत्पुरुषे नलोपे सिध्यति । दाक्षीपुत्र इति तु दक्षस्यायत्यं स्त्री दाक्षी तस्याः पुत्र इति ।

दाक्षीपुत्रवचोव्याख्यापटुर्मीमांसकाग्रणीः ।

'शङ्करः शाङ्करी प्रादाद्दाक्षीपुत्राय धीमते ।।

शालङ्किः इति तु पितृव्यपदेशजं नामेति केचित् । अस्य व्युत्पत्तिरपि, बहुधा कल्पिताऽस्ति । पैलादिगणे शालङ्किः पठ्यते तेन शलङ्कुरित्यस्य पाठेसामथ्र्थात् शलङ्कादेशस्तत्मादिम् इति केचित् । शालातुरीय इति शलातुरसम्बद्धत्वात् । शलातुरोऽभिजनोऽस्येति कूदीशलातुर-वर्मती-कुचवाराड्ढक्छण्ढञ्यकः इति छणि सिध्यति । तत्प्रयोगश्च यथा -

आहिक इति तु अहौ (अहिधरे) भक्तिर्यस्येति आहिकः ‘अचित्ताददेशकाला ठक इति ठगिति केचित् । 

पाणिनिह गोत्रनाम पाणिनिः, पिता शलङ्कः माता दाक्षी, विशेषनाम आहिकः,. मातुलो व्याडिः स एव दाक्षिर्दाक्षायणो वा, अनुजस्तु, पिङ्गलः, आचार्यों वर्षांपाध्यायः, मातामहश्व व्यडः, निवासो वाहिकदेशः, शिष्याः कौत्सकात्यायनप्रभृतयः, निधतिथिस्त्रयोदशी, अभिजनश्च शलातुर इति पण्डिता अनुमान्ति ।

पाणिनी वा पाणिनिह गोत्रनामैव । यथोक्त बौधायनश्रोतसूत्रे पैङ्गलायना बैहीनरयः ‘काशकृत्स्नाः पाणिनिर्वाल्मीकिः आपिशलयः-(प्रवराध्याये) तथैव मात्स्ये‘पाणिनिश्चैव त्र्यायाः सर्व एते प्रकीर्तिता, तथा च वायुपुराणे‘बभ्रवः पाणिनश्च व धानजय्यारत्तथैव' एवमेव हरिवंशेऽपि युधिष्ठिरमहाभागो निर्दशति यद्गतानुगतिको वैयाकरणा लक्षणैकचक्षुष - नं तु लक्ष्योन्मुखाः । ते हि यथाकथमपि लक्षणानुसारेण शब्दसाधुत्वद्योतनायै . पयतन्ते । तेन ते भ्रमादेव पाणिनं पाणिनेः पितृत्वेन कल्पयन्ति स्म । पाणिन । पाणिनिस्तु गोत्रसूचकं एव यस्य प्रवर्तकः पणिन् त्वा पणिनः इति । वयमपि तमेवांनुसरामः । स हि वन्द्योऽस्माकम् ।

तस्य पिता शलङ्को वा शलङकुरिति महाभाष्य (नवह्निक) भूमिकायां शिवदत्तमहाभागो निश्चिनोति । शालङ्किह पाणिनेः पितृव्यपदेशजं नामेति । महाभाष्येये शालङ्केर्यून्छात्राः शालङ्का इति प्रतिपादितं दृश्यते। पत्यं शालङ्कायनस्तस्यापत्यं शालङ्कायनिः। कौशिकान्वये शालङ्कायन लेखो दृश्यते । ते हि खलु राजन्यः काशिकायां किन किपदस्यैव पाणिनिना, सह सम्बन्धो वर्तते न वेति न सम्यञ्ज्ञातमस्माभिः। 

तस्य माता दाक्षीति महाभाष्यस्य ‘दाक्षीपुत्रस्य पाणिनेः' शिक्षायाः शङ्करः शाङ्करीं प्रादाद् दाक्षीपुत्राय धीमते', इव ज्ञायते। दाक्षी हिंदक्षस्थापत्य स्त्रीति गोत्रप्रत्ययान्तदाक्षिशब्दस्य स्त्रियां रूपम् । तेन हि पाणिनेर्माता' दक्षकुलोत्पन्नाऽऽसीदिति ज्ञायते । सैव । ‘व्याडया' इत्यप्यभिधीयते ।व्याडिशब्दों हि पाणिनिना क्रौड्यादिगणे पठितत्वात् तस्य स्त्रियां 'क्रौड्यादिभ्यश्च' इति ष्यङि टापि व्याड्याऽपि भवति । तस्य प्रयोगस्तु न कुत्रापि दृष्टः ।

आहिकस्तु तस्य नाक्षत्रनामेति अनुमीयते न तु तथ्यानुसारेण ।

मातुलो व्याडिरिति व्याडेः दाक्षि-दाक्षायणादिनामान्तरबोध्यत्वेनानुमीयते । पाणिनेर्माता हि दाक्षी व्याडिह दाक्षिरिति तयो भगिनीभ्रातृत्वं सम्पद्यत एव । महाभाष्ये व्याडिह दक्षिायणनाम्नोद्धतः यथा-'शोभना खलु दाक्षायुणस्यं. सङ्ग्रहस्यं कृति'। स हि दाक्षिनाम्नाऽपि काशिकायां स्मृतः । दक्षशब्दागोत्रबोधक-इन् प्रत्यये दाक्षिर्भवति तथैव तस्मादिनन्तत्वात्फकि दाक्षायणश्च ।

तस्य हि पिङ्गलाचार्योऽनुजः । कात्यायनीय-ऋक्सर्वानुक्रमण्याः वृत्तिकारः । षड्गुरुशिष्यो वेदार्थदीपिकायां छन्दःशास्त्रस्य प्रवक्तारं पिङ्गलं पाणिन्यनुजे मन्यते । यथोक्त' 'तथा च सूत्र्यते भगवता पिङ्गलेन पाणिन्यनुजेन ‘क्वचिन्नवकाश्चत्वारः इति परिभाषा ।'

तथैव पाणिनीयशिक्षाप्रकाशे उक्तम् -

अथ कालेन वर्षस्य शिष्यवर्गों महानभूत् ।

तत्रैकः पाणिनिर्नाम जडबुद्धितरोऽभवत् ।। इति । 

कथाप्रसङ्गश्चेत्थम् - पाटलीपुत्रे हि वर्षाचार्यस्यानेके शिष्या आसन् । तेषु पाणिनिर्नाम मूढमतिः ' सर्वैस्तिरकृतो गुरुपत्न्युपदेशेन तपस्तप्तु' गोपर्वतं जगाम । यथोक्त स्कन्दे -

गोपर्वतमिति स्थानं शम्भोः प्रख्यापितं पुरा।

यत्र पाणिनिना लेभे वैयाकरणिकाग्रचता।। इति । 

तत्र हि स महेश्वरमाशुतोषं तपसा प्रसाद्य तत्कृपया कृत्स्लं व्याकरण लेभे । यथोक्त पाणिनीयशिक्षायां -

येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः । इति ।

ततश्च लब्धविद्यः स पाटलीपुत्रमागत्य मुखे, सर्व विनिवेद्य के सञ्जातः । अथ च वररुचिनामा तस्य सहाध्यायी ते शास्त्रचर्चा माजुहाव । प्रवृत्ते च शास्त्रार्थे यदा पाणिनिः पराजयद्वारि समुपस्थित भगवता शङ्करेण गगने महान् हुङ्कारः कृतो येन वररुचिर्हतप्रभः स पाणिनिश्च विजयमवाप । ततश्च खिन्नो वररुचिरपि तपस्तप्तुं हिमाल दाराधितः शम्भुः स्वल्पेनैव कालेन । ततश्च लब्धकृत्स्नव्याकरणः स पुनः पाटलीपुत्रमाजगाम । तदा पाणिनिसूत्राणि सम्प्रचलितानि आसन् । वर । तत्रानुक्तदुरुक्तपक्षमवलम्ब्य वातिकानि प्राणिनायेति ।।

दण्ड्याचार्योऽपि अवन्तिसुन्दरीकथायां वर्षोंपवर्षयोः पाटलीपुत्र ऽव वर्णयति किन्तु स पाणिनि नैव स्मरति तत्र । सप्तत्यधिकनन्दस्थितिक भागवतानुसारेण कलिगतपञ्चसहस्रवर्षाण्यभितोऽनुमीयते, अर्थात् विक १९७५ मितवर्षमभितोनन्दकालो मतः । यथोक्त तत्र -

आरम्य भवतो जन्म यावन्नन्दाभिषेचनम् ।

तावद्वर्षसहस्र तु शतं पञ्चदशोत्तरम् । इति । 

भवतो नाम परीक्षितः । कलियुगारम्भश्च यथा -

यस्मिन् कृष्णो दिवं यातस्तस्मादेवापरेऽहनि ।

प्राप्तं कलियुगमिति प्रवदन्ति विचक्षणाः।।

कृष्णो हि भगवान् पञ्चविशोत्तरशतवर्षाणि पृथिव्यां स्थित्वा महाभारतयुद्धात् षट्त्रिंशद्वर्षानन्तरं दिवमारुरोहेति महाभारताज्जायते । परीक्षतो हि - जन्म महाभारतयुद्धाद्दशमे मासि सज्जातमित्यपि तत्रैवोक्तम् । द्रौण्यस्त्रपीडितो हि सः प्रथमं मृत एव जीनं लेभेऽनन्तरञ्च भगवता योगबलेनांज्जीवित इत्यप्ति तत्रैवोक्तम् । ततश्च षट्त्रिंशद्वर्षपर्यन्तं युधिष्ठिरो महीं शशास । कृष्णे चे . दिवमारूढे सोऽपि परीक्षितं राज्ये निवेश्य महाप्रस्थानाय प्रवृत्त इति परीक्षिज्जन्मकलियुगप्रारम्भान्तरांले पञ्चत्रिंशद्वर्षाणामन्तरमासीदिति । नन्दकाले वर्षोंपवर्षयोः स्थितिनिरूपणाय युधिष्ठिरमहाभागः किमर्थं नोद्यत इत्यज्ञातमेवास्माकम् । स हि नन्दकालमपि विक्रमार्कात्पञ्चदशशतवर्षपूर्वमेव कथयति वा षोडशशतबर्षपूर्वमात्रम् । वस्तुतस्तु कलिगत ३०५५ मितवर्षायभितौ नृपविक्रमार्क आसीत्, नन्दश्च कलिगताशीत्यधिकसहस्रवर्षाण्यभितः । तेने ३०५५ सङ्ख्यातः १०८० सङ्ख्यायाः सन्धाने १९७५ सङ्ख्याऽवशिष्यते । तेन हि नन्दस्थितिकालो विक्रमपूर्वाद्वितीयसहस्राब्दीमभितः । 

अपरेतु महेश्वरमेव पाणिनेरु मन्यन्ते । परन्तु न तत्र किञ्चिदपि प्रमाणम् । तेन पाणिनेराचार्यस्य नाम सन्दिग्धमेवेति युधिष्ठिरमहाभागमतम् । वयन्तु वर्षाचार्य पाणिनेराचार्यत्वेन स्वीकरणे न् कामप्यापत्तिमनुभवामः ।, बर्षाचार्यों हि ऐन्द्रव्याकरणस्यानुयायी आसीत् । 'गङ्गाका' इति प्रयोगः सम्भवति पौरन्दरमतमनुसरति स्म। यत एव पाणिनिना ‘आदाचार्याणां इति सूत्रं पठितम्, बहुबचनान्तपदनिर्देशेन गुरुश्च स्मृतः । बहुवचनान्ताचार्यपदेन गुरोः स्मरणपरम्पराऽतिप्राचीना लन्धप्रसरा च दृश्यते । पदमज्जर्यामप्युक्तम् -

आचार्यस्य पाणिनेर्य आचार्यः स इहाचार्यः, गुरुत्वाद्वहुवचनम् । इति ।

एवमेव दीर्धादाचार्याणां इति सूत्रेऽपि स तथैव स्मरति गुरुम् । गुरुमते दीर्घात्परस्य यरो न द्वित्वं पाणिनिमते तु द्वित्वमेव । यथा । दात्र, दात्त्रम् । अनेनाऽपि तेस्य वर्षाचार्यों गुरुरासीदिति वक्तुं शक्यते । तस्य मातामहो व्यड़ इत्यनुमीयते । तथाकल्पने व्याडेस्तस्य मातलत्वकैल्पनैवं प्रमाणम्। प्रायशो वैयाकरणा हि शब्दसिद्धिमेवेच्छन्ति तथ्यमपास्यापि । ते हि व्याडिपदं व्यडपदागोप्रत्यययोगेन सम्पन्नं मन्यन्ते ‘अत इज' [४।१।९५ ) इति सूत्रबलात् । तेनैव व्यडो हि पाणिनेर्मातामह इति कल्पितः । यदि व्याडिपदस्य अन्यथाऽपि सिद्धिः सम्भवति यथा विपूर्वका अडधा. रौणादिके णिप्रत्ययेऽपि व्याडिरेव सिध्यति यथा सादिः, तदा व्यस्य कल्प स्वस्यामेव पर्यवस्यति । तथापि युधिष्ठिरमहाभागसदृशा विचक्षणास्तव ‘र्थथन्त्यंत एवास्माकमप्यभिष्टमेव व्यडो हि पाणिनेर्मातामह इति ।

पाणिनेर्देशविषये पण्डिता नैकमत्यं भजन्ते । केचिद्धि ‘तूदीशल ‘रवर्मतीकूचवाराड्ढक्छण्ढंञ्यकः इति पाणिनीये सूत्रे उल्लि, शलातुरग्राममेव पाणिनेर्जन्मभूमित्वेन गृह्णन्ति । किन्तु तन्न शोध यतः शलातुरात्तु पूर्वसूत्रानुसारेणाभिजनेऽर्थे एव छण्प्रत्ययो भवति न । निवासेऽर्थे। महाभाष्ये अभिजननिवासयोर्भेदं स्पष्टमेव निरू तम् यथा अभिजनो नाम यत्र पूर्वैरूषितं निवासो नाम यत्र सम्प्रत्युच्यत इत्येतेन यदि पाणिनिः शालातुरीयस्तदापि शलातुरस्तस्य पूर्वजवासभूमिरेव । तस्यैव, । तस्य निवासविषये तु न किञ्चिदपि इदमित्थन्तया वक्तुं पा युधिष्ठिरो' महाभागो हि पाणिनीये ‘उदक् च विपाशः' त ‘वाहिकग्रामेभ्यश्च' सूत्रे समाधृत्य पाणिनेर्वाहिकदेशवासिन मनुमाति । किन्तु तथामतेऽपि विप्रतिपत्तयः सम्भवन्ति । पाणिनीयसूत्रेषु त वान्येऽपि ग्रामाः स्मृता दृश्यन्ते येषु कतमः पाणिनेरभिमत इति न शक * तत्वंतो निरूपयितुम् । यथा काश्यादिभ्यष्ठनिठौ।

शीनरेषु मद्रवृज्योंः कन् कच्छादि, मद्रेभ्योऽबू, इत्यादिः । एवञ्च से ग्राम - जनपददेशांश्च स्मरति । यथा ग्रामजनपदैकदेशादठञौ इत्यत्र । ग्रामं जनपदञ्च, नगरात्कुत्सनप्रावीण्यंयोः इत्यत्रं नगर । प्राचां देशे इत्यत्र देशं राष्ट्रवारपाराद्धखौ इत्यत्र राष्ट्र राजन्वान् सौराज्ये इत्यत्र राज्यं राजानञ्च, मो रोजि संमः क्वौ इत्यत्र सम्राज्य, महाराजाड् ढङ् इत्यत्र महाराजम् । एवमेव स प्राच्यौदीच्यदाक्षिणात्यप्रदेशानपि जानाति । तथापि ‘उदक् च विपाशः' इति सूत्रेण तस्य विपाश उत्तरकूलस्थकूपनिमित्तकप्रयोज्यः स्थानीयशब्दानपि जानातीति अवश्यमेव तेन तत्प्रदेशवासिना भाव्यमिति प्रबलस्तर्कः । तत्रापि स ‘रोणी' इति सूत्रं विशेषेण पृथगेमेवे पठति । सम्भवति रोण्या सह तस्य विशेषपक्षपातः । सामान्यसङ्ग्राही गणपाठी 'चाचार्य एकमेव शब्द तथा स्मरतीति तत्र हेतोः सम्भावना न तथा तथ्यहीना ।

केचिद्धि पाणिनि गौडियमप्यामनन्ति किन्तु तच्चिन्त्यमेव यतः स प्राच्यदेशप्रयुक्तशब्देषु स्वकीयामसहमति जनयति 'प्राचा' इति पदोल्लेखेन । तथैव नेपालेषु। पश्चिमाञ्चलक्षेत्रे ‘पणेना' संज्ञकः कश्चिदुग्रामः सम्प्रत्यपि अस्तित्वं भजते । जैनो कथयन्ति यदेतत्परिसरभूमिरेव पाणिनेर्जन्मकर्मभूमिरिति । तदपि चिन्त्येमेव यतो यदि स औदिच्यो भवेत्तदा स काशकृत्स्नमवश्यमेव स्मरेत् । अर्पचे से ।। शब्दानामौदीच्यरूपेषु स्वकीयामसहमति दर्शयति उदीचा' इति पदव्यवहोरण। यदि स स्वयमेवौदीच्यो भवेत्तदा कथं स उदींचां मतं वैकल्पिकत्वेन गृह्णीयात् । तेनाऽस्य शलातूरवाहिकादिप्रदेशभवत्वमपि नैव सिध्यति । यच्चः तेनं विपाश •; उदावतकूपविशेषाणां कृते' 'उदक् च विपाशः' इति सूत्र प्रणीतं तत्तस्य सूक्ष्मे क्षणशक्तेः परिचायकमेव । उक्तमेव तत्र महाभाष्यकारेण ‘महती सूक्ष्मोक्षिका है ... वर्तते सूत्रकारस्य' इति ।

वयन्त्वेतावदेवानुमामो यत्पाणिनेः पूर्वपुरुषाः शलातुरग्रामे प्रतिवसन्ति । * स्म । तेन हि स शलातुरीय इति संज्ञितः । तस्य पिता वा पितामहो वा । शलातुरं त्यक्त्वा केनाऽपि कारणेन काशीं गताः । तत्र व पाणिनिर्जन्म लेभे । ।।। तत्रत्य एव स प्रारम्भिकी. शिक्षामवाप्य शास्त्राध्ययनार्थं पाटलीपुत्रं गतः । । तत्र स वर्षाचार्याच्छास्त्राण्यधीतवान् । पाटलीपुत्रो हि तदानीं विद्यायाः केन्द्रस्थानमासीत् । तत्र सः गौडीयज़नसम्पर्कोणः प्राच्यप्रदेशप्रयुक्तविशिष्टशब्दानां ज्ञानमवाप । शब्दानामौदीच्यरूपं तु तस्य पितृपैतामहमेवाऽऽसीत् । स्वयञ्च मध्यदेशीयत्वास संस्कृतशब्दानां चतुदिक्षु प्रचलितेषु रूपेषु' पारङ्गत आसीदेव। यदा हि तेन माहेश्वराणि सूत्राणि ज्ञातानि तदैव स हि स्वकीयं प्रौढमनुभवं तत्र संयोज्य व्याकरणसंहितां प्रणिनायेति ।

यथा च पाणिनेः जन्मकर्मभूमिविषयेऽस्माकमज्ञता विद्यते तथैव तत्काल' विषयेऽपि । पाणिनिः कदाऽभूदिति विषयमवलम्ब्य सन्त्यनेके ग्रन्थाः प्रणीताः | किन्तु नैकत्रापि विदुषां संवादिता तद्विषये । महाभारतयुद्धकालात्  ( कलेरारम्भादेकपञ्चाशद्वर्षपूर्वम् ) आरभ्य विक्रमपूर्वप्रथमशतकपर्यन्तं पाणिनेः कालोऽनुमितः पौर्वात्यपाश्चात्यविचक्षणैः । तेऽपि स्वमतसमर्थकाय वाह्यमाभ्यन्तरञ्च । साक्ष्य प्रस्तुवन्ति । तेषु हि युधिष्ठिरमहाभागो विक्रमार्गादेकोनत्रिशच्छतमितवर्षपूर्वं सत्यव्रतः २३५० वर्षपूर्वं, गोल्डस्टुकरः ६५० वर्षपूर्व, बेलबेलकरश्च ६५०' वर्षपूर्वं, भाण्डारकरश्न ६५० वर्षपूर्वं, वासुदेवशरणः ४५० वर्षांपूर्वी मैक्डोनलः ४५० वर्ष पूर्वं, मैक्समूलरः ३०० वर्षपूर्वं, वेवरः २५० विक्रमपूर्वं, कीथश्च २५० विक्रमपूर्वं पाणिनिकालमामनन्ति । कतिपयेऽन्ये मौनमाश्रयन्ते, इतरेऽनिर्वाच्यमपि मन्यन्ते । वयन्तु ज्ञानतोऽज्ञानतो वा कथासरित्सागरमेवानुसृत्य पाणिन नन्दसमकालिकमेव मन्यमानाः विष्णुपुराण-श्रीमद्भागवतप्रभृतिग्रेन्थोदितनन्दाभिषेककालमाकलय्य भगवन्तं पाणिनि श्रीमन्नुपविक्रमाकद द्विसहस्रवर्ष पूर्वभवं मन्यामहे । तत्र प्रथभं युधिष्ठिरभीमांसकमतं सङ्क्षेपतः प्रस्तूयते । युधिष्ठिरो हि महाभागः स्वमतपुष्टये सुबहनि अन्तःसाक्ष्ये समाधृतानि प्रमाणानि प्रस्तौति येषां समग्र विवेचनं तु लघुकायेऽस्मिन् ग्रन्थे न सम्भवति । केवलं तेषां सारमेवोपस्थाप्यतेऽत्र ।

१. पाणिनिः नन्दकालस्थितिमानिति कथासरित्सागरे यदुक्त तत्कथाकारस्य भ्रम एव । सम्भवति चैष भ्रमो बौद्धकालिकगोत्रनामव्यवहारासमुत्पन्नः स्यात् । पाणिनिवररुच्योः समकालिकत्वं कदापि न सम्भवति । तत्रापि वृररुचेः कौशाम्बेयत्वं हास्यास्पदं यतः पतञ्जलिह वातिककारं दाक्षिणात्यं मन्यते । 

२. आर्यमञ्जुश्रीमूलकल्पे यदुक्त 'तस्थाऽप्यन्यतमः तख्यः पाणिनिर्नाम माणवः' इति तन्न सूत्रकारपाणिनिपरम् । पाणिनिगोत्रीयः कश्चिन्माणवः स सम्भवति ।

३. बुद्धकालिकमख़लीशब्दस्य संस्कृतरूपं . मस्करिशब्दः पाणिनिना मस्करमस्करिणौवेंजुपरिव्राजकयोः इति सूत्रे साधितत्वात् स् हि बुद्धानन्तरवर्तीति यदुक्त तदपि निराधारमेव । तत्र द्वे तथ्ये विवेचनीये प्रथमं तु मङ्खलीशब्दस्य संस्कृतरूपं मस्करी इति चिन्तनमेव भ्रान्तिमूलकं, अपरञ्च मङ्खलीशब्दस्य बौद्धद्यौतकत्वमपि निरर्थकमेव । मस्करस्तु मस्क ( गतौ ) धातोररच्प्रत्यये सिध्यति तस्यार्थश्च वेणुः मस्करी. तद्वान् परिव्राजको दण्डिसन्यासी । मङ्खलीशब्दस्तु ‘मङि' पदस्यापभ्रंश एव ।।

४. पाणिनिह ‘क्षुद्रमालवात्सेनासंज्ञायाम्' इति गणसूत्रे सिकन्दरपराजयिनीं क्षुद्रमालवसेनां स्मरति । तेन स तदन्तरवर्तीति वेवरमतं चिन्त्यमेव ( यतः क्षुद्रकमालवसेना तु महाभारतयुद्धेऽपि संलग्नाऽऽसीत् । 

५. अष्टाध्याय्यां हि इन्द्रवरु- सूत्र यवनस्योल्लेखों विद्यते । तेन हि पाणिनिः सिकन्दरानन्तरवर्तीति कीथमतमपि चिन्त्यमेव यतः भारतीया हि यवनमादिकालादेव जानन्ति न तु सिकन्दरोपदेशतः । यवना हि भारतीया एव ययातेवयान्यां जातस्य तुर्वसोः सन्तानानि इमे यदात्याज्ञया मूलभूमिमुत्सृज्य पश्चिमोत्तरदिशि प्रस्थितास्तन्नाम्नैव तद्देशोऽपि यूनान इति । ख्यातः । यदोस्तु यादवा जातास्तुर्वसोर्य वनाः स्मृताः इति महाभारते उक्तमेव ।

६. यच्च ‘कुमारः श्रमणादिभिः' इति सूत्रकृतं श्रमणोंल्लेखमादाय श्रमणशब्दं च बौद्धैः सह संयोज्य पाणिनि बुद्धपश्चाद्भवं साधयितुंप्रयतितं तदपि चिन्त्यमेव यतः शतपथब्राह्मणे एवं श्रमणस्योल्लेखो दृश्यते परिव्राट्सामान्येऽर्थे । तैत्तिरीयारण्यकेऽपि शब्दोऽयं प्रयुक्तो दृश्यते । कुमारश्रमणे कुमारस्यार्थोऽपि न माणवकपरोऽपि तु अकृतविवाहबोधनपरः । तेन कुमारश्रमणो हि. ब्रह्मचर्यादेव संन्यस्तः। 

७. राजशेखरस्यानुश्रुतिरप्यप्रामाणिकी. यतः प्रथमं तु स नितान्तमर्वाचीन । । आचार्यः अपरञ्च तस्य पतञ्जलेः पाणिनिसमकालिकत्वकथनञ्च नैवोपयुक्तमिति । 

८. पाणिनिः ‘निर्वाणोऽवाते इति सूत्र प्रयुक्तो निर्वाणशब्दो बातभिन्नकर्तरि सिद्धो यस्याशयः शमन मरणं वा । यथा निर्वाणोऽग्निः । निर्वाणः प्रदीपः- निर्वाणो भिक्षुरिति । यदि पाणिनिबौद्धपश्चाद्वर्ती भवेत्तदा सोऽपि निर्वाणपदं बौद्धप्रसिद्धमोक्ष ऽर्थेएव गृह्णीयात् । यः खलु मंखलीपदस्य संस्कृतरूपं स्मरति (यथोक्त कैश्चिद्वस्तुतस्तु नैव तथा) स कथं निर्वाणपदस्य मोक्षपरकमर्थं न सूचयेत् ।

९. बुद्धकाले 'पालीप्राकृते एव जनभाषात्वेन प्रतिष्ठिते आस्तां संस्कृतं तु शिष्टभाषमात्रमैव किन्तु पाणिनिसमये संस्कृतमेव भाषितभाषा आसीद्यस्य खलु जना भावविनिमयं कुर्वन्ति स्म । पाणिनीयव्याकरणे दैनन्दिनप्रयोशब्दानां सिद्धिरेवास्य प्रथमं प्रमाणं, अंपरञ्च भाषायामपि स्वरव्यवहारस्योल्लेखः प्रमाणम् । भाषायामचो विकल्पेन्नोदात्तत्वं, तथा च भाषाशब्दानामपि स्वरे एव भेदो ययोस्तादृशयोः अन्न यणचं प्रत्यययोः ' पृथक्पृथग्विधानं (उदक् च विपाशः 'इति अञ्, अन्यत्र अण्) यदि पाणिनिकाले भाषायां स्वरस्योपयोगो न स्यात्तदा स किमर्थं अत्रोऽणश्च पृथग्विधानं कुर्वीत । यथोत्तरर्वातभिर्वैयाकरणैर्वेदिकप्रकिया-सम्बद्धसूत्राणि त्यक्तानि तथैव सोऽपि भाषायां स्वरभेदकप्रत्ययव्यवः प्रक्रिय स्थामेव न गृह्णीयात्।

१०. योगप्रमाणे च तदभावेऽदर्शनं स्यात् इति सूत्रं पञ्चांलादि-देशवाचिशब्दानां प्रवृत्तिनिमित्तभूतक्षत्रियाणामभावे तत्तद्देशवाचकत्वं व्यवहार एव सिमायाति इति सङ्घ तयति, तादृशश्च क्षत्रियान्तकारी कालः आर्यसभ्यातायां त्रिवारमागतः परशुरामप्रयाणे महाभारत युद्ध नन्दोदये च। तत्र पाणिनः सङ्केतो नैव प्रथमकालं सूचयति तस्य, स्वयमेवाऽपि महाभारतयुद्धा तु नैव चे, तृतीयकालं. विनाशसमकालमेव तस्य निवास इति सम्बन्धज्ञानाभावसम्भवात्। तेनावश्यं द्वितीयकालमेवः तेन सङ्केतितं भवति यतश्च तस्य प्राचीनत्वं सिद्ध्यति। 

११. शौनको योस्क स्मरति, यास्कः शौनकं कौत्सञ्च स्मरति पाणिनिः शौनकं स्मरति, शौनको ब्याडि स्मरति, व्याडिश्च पाणिनेः संग्रहं करोतीति, शौनक-यास्क-व्याङि-पिङ्गल-पाणिनि-कौत्सादीनां समकालिकत्वमेव सिध्यति । शौनको हि अधिसीयकृष्णस्य राज्यकाले आसीत् । यास्को हि महाभारते स्मृतः । तेनैव हि तेषां महाभारतयुद्धानन्तरर्वातंतृतीयशतकमेव स्थितिकालः सम्भवति । तस्मात्पाणिनेः स्थितिकालो नृपविक्रमाक २९०० मितवर्षपूर्वः इति । 

प्रणम्य तं महाविचक्षणं वयमत्र प्रस्तुमः । अन्येषां मतं तु तेनैव महा-, विचक्षणेन खण्डितत्वात्तत्र नैव किञ्चिद्वक्तव्यमवशिष्टम् । तत्प्रस्तुततथ्येष्वेव यञ्चितिन्तं तदेवोत्रोपस्थाप्यते । तत्र हि कथासरित्सागरोपवणतकथोपरि वयं कृतश्रद्धाः स्मः । वररुचेः कौशम्बेयत्वमतिवादः सम्भवति अथवा सुदीर्घकालव्यवहितत्वान्महाभाष्यकारस्यापि तत्र सम्यग्दृष्टिरलब्धप्रसराऽपि सम्भवति । अथवा सम्भवति कौशाम्व्यां वररुचेर्मातृकुलम् । पाणिनिवररुच्योः समकालिकत्वं न, तथा विप्रतिपत्तिजनकम् । कौटिल्यपाणिन्योः समकालिकत्वमपि न तथाऽसाम्प्रतमुस्मद्विचारे । तद्विषये विष्णुपुराणश्रीमद्भागवतादावपि समुक्तवत्वात्। 

द्वितीयतथ्यं न केऽपि प्रमाणत्वं स्वीकर्वन्ति। तृतीयतथ्ये एतावदेव कथनीयं यत्तथागतबुद्धो गौतमबुद्धश्च नैकव्यक्तित्वबोधकौ । तथागतो हि बुद्धो रामायणकालादपि प्राचीनस्तस्य तत्राप्युल्लेखात्।  गौतमबुद्धस्तु तदपेक्षया नितान्तपश्चाद्वर्ती । तेन यदि बौद्धशब्दः कश्चित्सस्कृत | शास्त्र विशेपतः पाणिनीये व्याकरणे स्वमूलत्वेन संवदतेऽपि न स गौतमबुद्धाव. बोधकः । तेन पाणिनेः प्राचीनत्वं नैव हीयते । चतुर्थतत्वे नतमस्तकाः स्म स्वीकाराय ।  एवमेव पञ्चमपक्षेऽपि । यवना हि भारतीय आर्या एवस्माकं सध्रर्माणः । । राज्यनिष्काशनानन्तरं ते हि खलुः विंर्धामणेः संञ्जात इति । पश्चाच्च काल - वशात्तैः स्वमूलमपि विस्मृतम् । भारतीयास्तु त्रुटितं स्वाङ्ग स्मरन्त्येवे एवमेव षष्ठेऽपि तथ्ये।

सप्तमे हि तथ्थे वयं सश्रद्धं प्रतिब्रूमो यद्राजशेखरस्यानुश्रुतिर्न तथाऽप्रामा| णिकी। तेन त्वेतावदेवोक्त पाटलीपुत्रे वर्षोंपवर्ष-पाणिनि-वररुचि-पतञ्जलि-प्रभृतयो विद्वांसः परीक्षिताः परां ख्यातिञ्च गता इति । ते हि समकालिका, आसन्निति तत्र नैवोक्तम् । तत्पंक्तिश्च यथा - श्रूयते च पाटलीपुत्रे शास्त्रकारपरीक्षा-अत्र वर्षांपवर्षाविह पाणिनिपिङ्गलाविह व्याडिः वररुचिः पतञ्जलिरिह' परीक्षिताः ख्यातिमुपजग्मुः । इति । कामं तेन उपवर्षवष पाणिनिपिङ्गलौ समकालिको स्मृतौ ‘इह' इत्यनेन पृथक्कृतत्वात् ।' तत्तु सर्वेषामभीष्टमेव उपवर्षवष हि भ्रातरौ तथैव पाणिनिपिङ्गलौ च । व्याडिः वररुचिः पतञ्जलिश्च पृथक् पृथगेवोल्लिखिताः पृथक्कालभवाः कामं तेषां स्थितिकालानुसारेण क्रमो निर्दिष्टो भवेदपि । वर्षों हि पाणिनेराचार्यस्तेन तयोरेकसभायामेव परीक्षा कथं कल्पनीया ? ते हि सर्वे स्वस्वकाले परीक्षिता इत्येव राजशेखरस्याशयोऽस्मान्मुखरयति । अपरञ्च राजशेखरस्यार्वाचीनत्वेऽपि प्रामाणिकत्वं तु मद्धध्मः । स हि खलु स्वयमेव स्वविषयस्य भारतीयविश्वकोष एव । अष्टमं तत्वं शिरसा धारयामः । नवम तथ्यं तु हृदये जनावृतेन स्वागतीकुर्मः । 

दशमे तथ्येऽस्माकमेतावदेव वक्तव्यमस्ति यद्यदि तत्सूत्र' तथाविधभाव- । , बोधनपरमपि तादृशः कालस्तु तृतीय एव यतः प्रभृति सर्वक्षत्रिया नितान्तमेव प्रणष्टाः। द्वितीयकाले हि युद्धे क्षत्रियास्तु मारितास्तच्च युद्ध क्षेत्रान्तकृदप्यासीदेव किन्तु तत्र त एव मृता ये खलु युद्धे समागता आसन् । तत्र वीराणामुन्मूलनमभून्नतु क्षत्रियाणामेव । तथामते सति आश्वमेधिकपर्वणि समुपवणतयुद्धस्य मिथ्यात्वापत्तिः । भीष्मस्य 'स्वे स्वे राज्येऽभिषेचय कुमारानु, यत्र च नास्ति कुमारो जातस्तत्र कुमारीमभिषेचय, यश च साऽपि न विद्यते तत्र तवंश्यमभिषेचय' इति वचनादेव तत्र सर्वक्षत्रान्तकल्पनैव निर्मूला भवतिं । महाभारतयुद्धानन्तरमपि । राष्ट्रियराज्यानि पञ्चालादीनि ' सौवीरसिन्धुप्रभृतीनि यथापूर्वमेवासन् । तृतीये हि काले क्षत्रियाः समूलं प्रणष्ट्राः नन्दो हि द्वितीय इव भार्गवः सर्वक्षत्रसंहारं | कृत्वा राष्ट्रियराज्योपहरणञ्च कृतवान् यत आरभ्य शूद्रप्राया भूपाला अभूवन्निति विष्णुपुराणादिषु स्पष्टमेव । विनाशसमकालमेव तन्निवासस्मृतिनँव लुप्यते हि किन्तु यत्र पञ्चालक्षत्रिया हि न सन्ति तस्य तद्योगेनाभिधान निरर्थकमेवेत्याशयेनाऽप्युक्त भवंति तथा।

चरमे हि शौनकस्य पाणिनिपूर्ववर्तित्वं तु प्रसिद्धमेव । महाभारतयुद्धा नन्तरं बहुकालपर्यन्तमेव भारतीयसंस्कृतिः कुष्ठितेव सञ्जाता । तदा दीर्घसत्राणी प्रवृत्तिः स्वाभाविक्येव भवति । संस्कृतभाषाया भाषितभाषात्वं जनसामान्यव्यवहारलपितत्वञ्च नन्दकालपर्यन्तमप्यासीदेव । पालिप्राकृतयोरवस्थितिरपि । वैदिककालादेवाऽऽसीदेव । तेनास्मद्विचारे तु पाणिनेः स्थितिकालो नन्दसमये । एव समीचीनो यः श्रीमन्नृपविक्रमाकद द्विसहस्रवर्षपूर्वमासीत् । पाणिनिह सिंहेन निहत इति पञ्चतन्त्रोद्धृतपद्याज्ज्ञायते । तत्रोक्त--

सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः,

मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् ।

छन्दोज्ञाननिधि जधानी मकरोबेलातटे पिङ्गल-

मज्ञानावृतचेतसामतिरुषां कोऽस्तिरश्च गुणैः॥ इति । 

कथ्यते पाणिनिस्त्रयोदशीतिथौ प्राणान् जहौ । किन्तु कस्यामित्येनिश्चयात्सवस्वेव त्रयोदशीषु वैयाकरणा व्याकरणस्य पठनपाठनादिकर्म नैव कुर्वन्ति। पाणिनिविषये वयमेतदधिकं नैव किञ्चिपि जानीमहे ।

प्रातिशाख्याष्टाध्याय्योः पौर्वापर्यविषयेऽपि पण्डिताः नैकंमत्यं भजन्ते । केचन प्रातिशाख्यानि पाणिनेः पूर्ववर्तीनि मन्यन्ते अपरे तु पश्चद्वितन्यपि। तत्र प्रातिशाख्यानां पाणिनिपूर्ववतत्वसमर्थकानां मतान्यत्र प्रथममुपस्थाप्यन्ते ।

१. प्रातिशाख्येषु अनेकेषां पूर्वीचार्याणां मतानि नामग्राहं स्मृतानि सन्ति किन्तु न तत्रं कुत्राऽपि प्राणिनेरुल्लेखस्तद्विपरीतं पाणिनिस्मृतीनां शोकल्यशाकटायंकाश्यपगालवगार्यादीनां तत्रोल्लेखः । अनेन प्रातिशाख्यानां पाणिनेः पूर्ववतत्वं सिध्यति ।

२. प्रातिशाख्येषु हि षत्वणत्वादीनां प्रतिपदविधानमस्ति यस्यायन महानु श्रमोऽपेक्षितः । किन्तु पाणिनिना 'अपदान्तस्य मूर्धन्यः इत्यधिकारव्यवस्थया ‘इण्कोः' इत्यनुवृत्य कतिपयेषामेव व्यवस्थया षत्वविधान रषाभ्यां नो णः समानपदे', 'इत्यनुवृत्य कतिपयैरेव, सूगैर्णत्ववि मंपिकृतम् । यदि प्रातिशाख्यं हि पाणिनिपश्चाद्वति भवेत्तदा तत्रापि एष वैज्ञानिकविधिरवलम्बितो भवेत् । 

३. एवमेव विसर्जनीयसपादि विधानेऽपि शौनकादिप्रातिशास् .. विधिय॑वहियते पाणिनीयसूत्रषु नियमानुगमनविधिः । तेनापि प्रमा पाणिनेः पूर्ववतत्वं सिध्यति ।

४. शौनकीयप्रातिशाख्यस्य कारिकापद्धतिः पाणिनीयसूत्रपट प्राचीना दृश्यते । यत्रापि सूत्रपद्धतिरवलम्बिता तत्रापि तेषु पनि न्यूनतरैव वैज्ञानिकता । यथा शौनकीयं ‘समानाक्षरे संस्थाने दीर्घमेकमुमे स्त्र इति सूत्र पाणिनना ‘अकः सवर्ण दीर्घः' इत्थनेनैव साधितम् । ॐ दये एकारमकारः स्वरोदयः' इत्थेतत् ‘आद्गुणः' इत्येतेनैव ।

किन्तु केचित्तु तदनादृत्य प्रातिशाख्यं शौनकीयमपि पाणिनेः पश्वादन मन्यन्ते । तदनुसारेण मङ्गलविधानं संज्ञाविधानं च प्रातिशाख्ये पाणिनित व ग्रहीतम् । अपरञ्च शौनको व्याडि स्मरति पाणिनिस्त नेति ।' | तस्त्वनेके सम्भवन्ति तथ्यन्त्वेकमेव । शौनकीयप्रातिशाख्यं हि पाणिनेः पूर्ववर्येव संरचनादृष्ट्या विषयदृष्ट्या च । कानिचित्प्रातिशाख्यान पश्चाद्वतन्यपि तेषु शौनकीयं कात्यायनीयञ्च पाणिनेः पूर्ववतिये पश्चाद्वर्तीन्यपि ।

पतञ्जलिरुश्च रुद्घोषयति:: “प्रमाणभूत, आचार्यों दर्भपवित्रपाणिः शुचावकाशे पर मंहता प्रयत्नेन सूत्राणि प्रणयति स्म । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितं. -पुनरियता सूत्रेण पाणिनीये हि व्याकरणे नैकोऽपि वर्णो निष्प्रयोजनः कुतः सूत्रमिति । । पुनरग्रे कथयति - सामर्थ्ययोगान्न हि किञ्चिदस्मिन् पश्यामि शास्त्रे यदनर्थकं स्यात् । “पाणिनीयं महत् सुविहितम्'

जयादित्यो हि कथयति - महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य ( ४।२।७४ ) । अङ्गनन्दन ( इङ्गलैण्ड ) वास्तव्यो मोनिथर विलियम्स महाशयः कथयति संस्कृतव्याकरणं हि तन्मानवमस्तिष्कप्रतिभाया अद्भूततममुत्पादनं यन्न कोऽपि देशोऽद्यावधि प्रस्तोतुमशकत् । शार्मण्यदेशोद्भवो मोक्षमूलर उद्घोषयति- भारतीयार्याणां व्याकरणान्वययोग्यतो जगति कस्या अपि जातेः व्याकरणं साहित्यापेक्षया समुन्नततरमस्ति ।'

कोलबुकमहोदयः कथयति -

हण्टरमहाशयस्य मते - ‘जगति यानि खलु व्याकरणानि सन्ति, तेषु पाणिनीयं हि व्याकरणमुत्कृण्टतमम् । तस्य वर्णशुद्धता, भाषाया धात्वन्वयसिद्धान्तः प्रयोगविधयश्च अद्वितीया अपूर्वाश्च । इदं हि मानवमस्तिष्कस्य नितान्तमहत्वशाली आविष्कारः। शेरवात्सकी महाशयमते- 

एवमेव गणपाठोऽपि पाणिनेर्महद्वैशिष्टयम् । गणपाठसाहाय्यादेव प्रतिपदपाठभराद्वयाकरणं मुक्त. सल्लधु सुपाठ्यञ्च सञ्जातम् । एकप्रकृतिका शब्दा एकस्मिन् गणे पठ्यन्ते । यथा गर्गादिम्यो यज्, वाह्वादिभ्यश्च, शिवादिभ्योऽण, अर्शआदिभ्योञ्च् गणपाठेऽपि यथासम्भवं तत्प्रकृतिकशब्दाः सङ्गृहीताः भवन्ति । यत्र च तदप्यसम्भवं तत्र आकृतिगणोऽयमिति निर्देशः कृतो भवति । तस्याशयश्च गणोऽयमाकृत्यैव ज्ञातव्य इति । पाणिनीयव्याकरणे सुत्राणां षविधा व्यवस्था कृताऽस्ति । संज्ञा-परिभाषाविधि-नियम-अतिदेश-अधिकारभेदात् । उक्तमेव

संज्ञा च परिभाषा च विधिनयम एव च ।।

अतिंदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ।। 

तत्र संज्ञा तु व्याख्यातैव । परिभाषा तु साक्षाद्विधिशास्त्रत्वात् परिग्राहकशास्त्रमेव । परितो व्यावृत्ता भाषा परिभाषा । कानिचित्परिभाषासूत्राणि यथा विप्रतिषेधे परं कार्यम्, इको गुणवृद्धी, आद्यन्तौ टकितौ, अलोपोऽन्यतरस्याम्, आदेः परस्य, ङिच्च, मिदचोऽन्त्यात्परः, षष्ठी स्थानेऽन्तरतमः, अनेकाले शित्सर्वस्य, स्वरितेनाधिकार इत्यादीनि ।

विधिश्चात्यन्ताप्राप्तौ प्रापकः । तेनं विधिसूशं हि अत्यन्ताप्राप्त्यर्थप्रतिपादकत्वे सति साक्षात्साधुत्वविधायकशास्त्रमेव । यथा इको यणचि, एवोऽयवायावः, आदगुणः, वृद्धिरेचि, इत्यादि । स च द्विविधः आदेशविधिरागमविधिश्च । एकस्य स्थानेऽपरस्य निवेशक आदेशो यथा जसः शी, टाङसिङसामिनात्स्याः, इणो गा लुङि इत्यादि । आगमश्च अपूर्ववर्णविन्यासः । यथा आमिसर्वनाम्नः सुट, सुट् तिथोः, ह्रस्वनद्यापो नुट्, इत्यादि । पुनश्च स नाशनिषेधभेदाद् द्विविधः । नाशो यथा लोपः शाकल्यस्य, निषेधो यथा न धातुलोप आर्धधातुके, न -पदान्ताट्टोरनाम् । । नियमश्च पाक्षिके सति एकपक्षनियामकः । तेन इतरव्यावर्तकशास्त्रमेव नियमसूत्रम् । यथा पतिः समास एव । तथैव सामान्यप्राप्तस्य विशेषावधारणमपि नियमः । यथा ‘कृत्तद्धितसमासाश्च' । अन्यधर्मस्यान्यस्मिन्नारोपणमतिदेशः । तेन सादृश्यग्राहकशास्त्रामेव अतिदेशसूत्रम् । यथा स्थानिवदादेशोऽनल्विधौं । स च कार्यनिमित्तसंज्ञारूपभेदाच्चतुविधः । यथा कर्मवत् कर्मणा तुल्यक्रियः, पुंवत्कर्मधारयः इति । कांर्यातिदेशः, गोतोणित् इति निमित्तादेशः, बहुगणवतुडति सङ्ख्या इति । संझातिदेशः, स्त्रियां च इति रूपातिदेशः । विषयप्रवर्तनमेवाधिकारः । यथोक्तम् -

कार्याकार्यनिमित्तानां पदानां यदुदीरणम् ।

वक्ष्यमाणार्थसंक्षेपादधिकारः स उच्यते । 

यथा अव्ययीभावः, तत्पुरुषः, तद्विताः, इत्यादि । एवञ्च वैशिष्ट्यसम्पन्नं हि पाणिनीयं व्याकरणं सर्वातिशायि सर्वग्राह्यञ्च । पाणिनीयाष्टाध्याय्यां हि अष्टावध्यायाः प्रत्यध्यायञ्चत्वारः पादोश्च प्रतिपादं सूत्राणि चेति । सूत्राणां सङ्ख्या हि ३९९६ उक्ता किन्तु साम्प्रतिके ग्रन्थे तु ३९८३ एव वर्तते । सम्भवति योगविभागमतभेदात्तथा सञ्जातं. स्यात् ।

पाणिनिः कथं शास्त्रोपदेशमकरोदिति विषये पण्डिताः स्वं स्वमनुमानमुच्चरुद्धोषयन्ति । केषाञ्चिन्मते आचार्येण प्रथममेव सूत्राणि पृथक्पृथगुपदिष्टानि ।। केचाञ्चिन्मतेतु स चोपदेशः संहितारूपेणाऽऽसीत् पश्चाच्च वृत्तिकारेण योगो विभक्त इति । अस्य हि नाम शब्दानुशासनम् इत्याचार्यसम्मतम्, अष्टकं वा अष्टाध्यायी, इति तु पश्चान्निदष्टम् । महाभाष्येऽप्युक्तम् अथेति शब्दोऽधिकारार्थे प्रयुज्यते। शब्दानुशासनं नाम, शास्त्रमधिकृतं वेदितव्यम् इति । वाणिनीयग्रन्थो वृत्तिसूत्रपदेनाऽप्यभिधीयते । पाणिनीयसूत्राणां वृत्तिसद्भावात् वार्तिकानां तदभावाच्च तयोवैषम्यबोधनायेदभिति नागेशभट्टो व्याख्याति । भर्तृहर्रािह महाभाष्यदीपिकायां वातकानां कृते भाष्यसूत्रमिति पदं प्रयुक्त । वार्तिकोपरि भाष्यग्रन्थस्यैव भावात्कथनंमिदमत्युक्तमेव । वृत्तिशब्दस्त्वेकतो व्याख्याऽथे। प्रचलितोऽस्ति यथा प्राणिनीयसूत्राणां काशिकावृत्तिः । अपरतश्च, वृत्तिनमः वर्तनं यदधिकृत्य शास्त्र प्रवर्तते । व्याकरणे हि पञ्चवृत्तयः सुप्-ति-कृत्तद्धित-समासभेदात् । तेन वृत्तिसूत्रनाम शास्त्रं प्रवृत्तिबोधकं सूत्रम् ।

केचिदिदं मूलशास्त्रमपि वदन्ति, अपरे अष्टिकामपि । अष्टिका पाणिनीयाष्टाध्यायी इति बालमनोरमायामुक्तम् । महाभाष्यकारस्तु पाणिनीयशास्त्र संहितापाठे रचितं मन्यते । स हि वहुञ योगविभागमप्रामाणिकं मत्वा स्व* सूत्राविच्छेदमपि करोति । उक्तमेव तत्र -

वृद्धिरादैजदेडगुण इको गुणवृद्धी न धातुलोप आर्धधातुके क्ङिति च दीधीवेवीटां हलोनन्तरासंयोगो मुखनासिकावचनोऽनुनासिकस्तुल्यास्यप्रयत्न संवंर्ण नाज्झलावीदेद्विवचनं प्रगृह्यमदसोमाच्छे निपात एकाजनाङोत्सम्बुद्धौ । शाकल्यस्येतावनाषेऽत्र 'ऊँ' इत्यादि । 

संहिता च एक श्रुितिस्वर एव पठिताऽऽसीत् । उक्तमेव-एकश्रुत्या सूत्राणि पठयन्त इति । केचित्तु सस्वरपाठमपि समर्थयन्ति । तत्र महाभाष्यकारो निश्चिनोति - अभेदकां गुणा इत्येव न्याय्यम् । कुत एतत् ? यदिदं अस्थिदधिसक्थ्यक्ष्णामनदात्त इति उदात्तग्रहणं करोति । यदि हि भेदका गुणा स्युरुपात्तमेवोच्चारयेत् ।

एकश्रुतिनिर्देशात्सिद्धम्। केचित्क्वचित् स्वरविशेषसिद्ध्यर्थविशिष्टस्वरयुक्तपाठमपिः मन्यन्ते । नागेशभटूमते तुं सम्पूर्णाष्टाध्यायी आचार्येण एकश्रुत्या पठितेत्यत्र न मानस । क्वचित्कस्यचित्पदस्य एकश्रुत्या पाठो यथा दाण्डिनायनादिसूशे ऐक्ष्वाकेति । एतावदेव भाष्याल्लभ्यते । इति । स पुनः कथयति नन्वेवमपि चतसरि आद्युदात्तनिपातनसामथ्र्थात् : चतस्त्र : इत्यत्र ‘चतुरः शसि' इत्यस्याप्रवृत्तिरिति भाष्योक्तमनुपपन्नम्::किन्तु 'चतुरः शसि’ इत्यस्य भाष्ये 'आद्युदात्तनिपातनं करिष्यते' इत्यत्र कुत-- मित्यस्य स्थाने करिष्यते इति प्रयोगादेव पाठ एकश्रुतिस्वरे आसीदिति स्पष्टमेवेति युधिष्ठिरमीमांसकमतम् ।

अस्माकं मते तु पाणिनीयसंहिता एकश्रुतिस्वरे एवं पठिताऽऽसीदाचार्येण । कामं क्वचित्स्वरविशेषनिर्देशाय सस्वरपाठोऽपि कृतःसम्भवति । इदमपि चिन्तनीयं यत्कामं प्रथमं सूत्राणि संहितापाठे एवं रचितांन्यासनू किन्तु प्रवचनकाले तु आचार्येणैव योगविभागोऽपि कृतः स्यादेवान्यथा व्याख्याऽसम्भवापत्तेः । पाणिनिह भगवान् स्वोपज्ञमकालकव्याकरणं स्वयमुप्यनेकवार प्रांवोचदिति महाभाष्यादिभिर्जायते । तस्य च महान् शिष्यवर्ग आसीद्येषांकृते ओदनस्य' | प्रबन्धोऽपि कृत आसीत् । तेनैव ते ओदनपाणिनीया इत्युक्ताः । एतच्च तदा परम्परैवाऽऽसीत्, यथा च घृतरौढीयाः । एषां हि आद्यपदोदात्तत्वेन व्यङ्गेयुः मप्यर्थ प्रतिजानते पण्डिताः । यथा घृतप्रधानो रौढिस्तस्य छात्रा ये खलु घृतः निमित्तमेव रौढीयं शास्त्र पठन्ति तथैव ओदनुपाणिनीया अपि । परम्परेयम्धुनाऽपि वर्तते । अद्यतनाश्छात्रा अपि ओदनसंस्कृताः । ते हि खलु ओदननिमित्त संस्कृतं पठन्ति ज्ञानार्थ तु इतरभाषाविषयम् । अधिकतरराजकीयसंस्कृतछात्रावासे इदमेव द्रष्टु’ शक्यते । अस्माभिरपि तदनुभूतमेव । स्याद्यद्वा त।। सूत्रकारेण । स्वप्रणीतसूत्राणामनेकधा व्याख्यानं कृतमिति तु ग्रन्थान्तरैज्ञयते। -तथी • व्याख्याने. संहिताया योगविभागः परमावश्यकस्तथैव सूत्राणां वृत्ति-उदाहरण-प्रत्युद्धाहरणादीनामपि तत्रावश्यकता भवति अन्यथा प्रवचनासम्भवात् । तेनैतसिध्यति यत्पाणिनिना संहितापाठस्य प्रथमं योगविभागः कृतः सूत्राणां वृत्तिश्चे व्याख्याता कामं सोऽधुना कालेन लुप्ता वा सैव वृत्तिकारान्तरपरिष्कृता । तेनैव पाणिनीयसंहिताया वृद्धपाठो लघुपाठश्चाधुनाऽपि स्मयेंते । तेन चात्र नेदमवर गन्तव्यं यत्पाणिनीयसंहिता भरतनाट्यशास्त्रवत् विस्तृता संक्षिप्त चाऽऽसीदिति । अत्र तु वृद्धपाठेन सवृत्तिकसोदाहरणप्रत्युदाहणादिपाठो लघुपाठेन केवल सूत्रपाङः एवावगन्तव्यः । संस्कृतसाहित्ये, हि वृद्धलघुशब्दौ सर्वत्रैव प्रयुक्तौ दृश्येतेथा वृद्धहारीतस्मृतिः लघुहारीतस्मृतिः वृद्धमनुस्मृतिः, मनुस्मृतिः, बृद्धयाज्ञवल्क्यस्मृतिः याज्ञवल्क्यस्मृतिः । संम्प्रति तु पाणिनीयशास्त्रस्य काशिकावृत्तिसम्बद्धः प्राच्यपाठ एव बृद्धपाठ इति कथ्यते । तथैव क्षीरबृत्तिसम्बद्ध औदीच्यपाठः कात्यायनबृत्तिसम्बद्धो दाक्षिणात्यपाठश्च लघुपाठ इति । महाभाष्यकारो यः स्वयमौदीच्यः (काश्मीरः) लघुपाठसम्बद्धश्च लिखित-- 'कथन्त्वेतत्सूत्र पठितव्यम् ? किमाकडारादेका संज्ञा, आहोस्वित् प्राक्कडारात्परं कार्यमिति । कुतः पुनरयं सन्देहः उभयथा ह्याचार्येण शिष्याः सूत्र * प्रतिपादिताः केचिदाकडारादेका संज्ञति केचित्प्राक्कडारात्परं कार्यमिति । अनेनैतज्ज्ञायते यद्भाष्यकारसमक्षं सवृत्तिकः संहितापाठ आसीत्पाणिनिकृतः । काशिकायामप्युक्तम् -

शुङ्गाशब्दं स्त्रीलिङ्गमन्ये पठन्ति ततो ढकं प्रत्युदाहरन्ति शौय इति, । द्वयमपि चैतत्प्रमाणमुभयथा सूत्रप्रणयनात् । सत्रं तविकर्ण: शुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ‘इति उदाहरणञ्च शौङ्ग इति । 

काशिकायमेव, पूर्वपाणिनीया अपरपाणिनीया इति पाणिनिशिष्या द्विधा विभक्ता दृश्यन्ते । पूर्वे हि सवृत्तिकसूत्रपाठसम्बद्धा अपरे तु अवृत्तिकसूत्रपाठसम्बद्धा इत्यनुभीयते । महाभाष्यदीपिकाया भर्तृहरिरपि, व्यवस्थामेतां स्मरति - 'उभयथा ह्याचार्येण शिष्याः प्रतिपादिताः केचिद्वाक्यस्य केचिद्वर्णस्य । अस्यायमाशयो यद् ‘इग्यणः सम्प्रसारणम्' इति सूत्रं भगवता पाणिनिना द्विधा व्याख्यातं यथा “यणः स्थाने इक् इति वाक्यस्यैव सम्प्रसारणसंज्ञा, यणः स्थाने भाविन इन्वर्णस्य , सम्प्रसारणसंज्ञति च । तथैव-पाणीनीयं 'तद्धरति' वहत्यावहति भारीद्वशादिभ्यः' इति सूत्रमधिकृत्य कथयति - सूत्रार्थद्वयमपि चैतदाचार्येण शिष्याः प्रतिपादिताः । तदभयमधि ग्राम अनेनैतत्सिध्यति , यत्पाणनीयसूत्राणां स्वीपज्ञवृत्तिश्च जयादित्यसमक्षमप्यासीत् । तेन अष्टास्वध्यायेषु सूत्राणां विभाजनं प्रत्यध्यायं पादनिरूपणञ्चं प्रतिपादं सूत्रनिरूपणञ्च प्रथमं पाणिनिनैव कृतमिति संज्ञायते । योगविभागभ्रमस्तु मूलपाठप्रणाशादेव।

अथ पाणिनीयसंहिता कुत आरब्धा इति विषयेऽपि पण्डिताः स्वस्वप्रतिमा प्राखर्यं नर्तयन्ति । केचिदिमां ‘वृद्धिरादैच्” इति सूत्रादारब्धां मन्यन्ते केचित्तू “अथ शब्दानुशासनम्' इति सूत्रादेव । प्रथमपक्षे कैयटादयोदृश्यन्तेऽपरपक्षे पतञ्जलि-जयादित्य-पुरुषोत्तम-सृष्टिधरं-मेधातिथिजिनेन्द्रबुद्धिप्रभृतयः ।, कैयटमनुसरन्ति मयोजित्प्रभृतयः । पूर्वपक्षधराणां मते हि पाणिनीयं शास्त्रं ‘वृद्धिरादैच्” इति सूत्रादेवारब्धम् तेषां मते अथ शब्दानुशासनं 'इति भाव्यकारवचनम्' तथैव प्रत्याहारसूत्राणि च माहेश्वराण न तु पाणिनीयानि । सम्भवति ‘वृद्धिरादैम्' इति सूत्रभाष्ये ‘माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुक्त इति वचनमेव भ्रमकारणमियि युधिष्ठिरमहाभागकथनं समीचीनमेव । तत्र तु ‘भूवादयो धातवः' इत्यत्र वकारग्रहणं मध्यमङ्गलार्थ, एवमेव ' नोदात्तस्वरितोदयम्' इत्यत्र ‘उदय' शब्दोऽन्त्यमङ्गलार्थमित्यपि । * उक्तम् । यदि 'बृद्धिरादेव' इत्यत्र वृद्धिपदमादिमङ्गलार्थमितिकथने आदिपर्द प्रारम्भार्थबोधक मन्यते तदा कथं सूत्रे मध्यमङ्गलं भवेद्वा सूत्रे अन्त्यमङ्गलार्थञ्च । वस्तुतस्तु ग्रन्थास्यास्य मध्यवर्तसूत्रं तु 'छन्दसि घस्” इति तथैव अन्तिमं सूत्रं 'अ अ' इति । तेनेदं सिध्यति यदैत्र ।

आदिमध्यान्त्यपदानि न तु मुख्यार्थबोधकानि किन्तु सामिप्यादिसम्बन्धेन लक्षणार्थबोधकानि एव । आदिमङ्गलमिति प्रारम्भनिमित्तकमङ्गलमेवं तद्यंत्र . कुत्रापि कृतं स्यात् । पतञ्जलिप्रभृतयस्तु ‘अथ शब्दानुशासनम्' इत्येव प्रारम्भसूत्रं मन्यते तथैव प्रत्याहारसूत्राण्यपि पाणिनीयान्येवं । स हि सूत्रान्तरवद् ‘अथ शब्दानुशासनम् इति सूत्रमपि व्याख्याति । यथा-

अथेति शब्दोऽधिकारार्थः प्रयुज्यते । शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम् । अत्र केनाधिकृतं ? पाणिनिना । ततश्च केन प्रयुज्यते ? तनैव येनाधिकृत- मिति उभयत्र पाणिनेरेव सङ्कतः स्पष्ट एव । काशिकायां भाषावृत्तौ च सूत्रमिदं सूत्रान्तरवद्वयाख्यातमस्ति । भाषाबृत्यर्थविवृतौ श्रीधराचार्यः कथयति - व्याकरणशास्त्रमारभमाणो भगवान् पाणिनिर्मुनिः प्रयोजननामनी व्याचिरूयासुः प्रतिजानीते अथ शब्दानुशासनमिति।

मनुस्मृतेर्भाष्यकृन्मेधातिथिः “पौरूषेयेष्वपि ग्रन्थेषु नैव सर्वेषु प्रयोजनाभिधानमोद्रियते । तथाहि भगवान् पाणिनिरनुक्त्वैव प्रयोजनं ‘अथ शब्दानुशासनम्' इति सूत्रसन्दर्भमारभते । इति स्मरति । अत्रदेमप्यवधेयं यद् ‘हल्’ सूत्रानन्तरं इति प्रत्याहारसूत्राणि' इत्येव दृश्यते अष्टाध्याप्याः अनेकेषु प्राचीनहस्तलेखेषु । ( तेन तत्र ‘माहेश्वराणि' इति पदं संक्षिप्तं संम्भवति पश्चादिति ) युधिष्ठिरमीमांसकस्य मतम् ।

अपरञ्च, तादृशमहत्वमण्डितग्रन्थप्रणेता मुनिश्चिकीर्षितस्य ग्रन्थस्य प्रयोजननामनी एव नैव प्रस्तौतीति युक्त्यसङ्गतमेतत् । अस्मट्टष्टौ तु ‘अथ शब्दानु- । शासनम्' इति प्रथमं पाणिनीयं सूत्रम् । प्रत्याहारसूत्राण्यपि पाणिनीयान्येव । तेन हि महेश्वरात्तु अक्षरसमाम्नायं एंव प्राप्तः । सूत्राणि तु तेनैव प्रणीतानि । तंत्र हि अथ शब्दो मङ्गलार्थे, अनन्तरार्थे, आरम्भार्थे च । अथेति मङ्गलं, जयपनयनानन्तरम्-कृतोपनयनो हि व्याकरणमधीते ‘इति शास्त्रात् । यथा भाष्यकारः पतञ्जलिरेव-पुराकल्पे एतदासीत्, संस्कारोत्तरकालं ब्राह्मणा. रणं, स्माधीयते । अथेति प्रारम्भेऽधिकारे च । दृश्यते हि परम्पराऽन्यत्रापि यथा 'अथातो धर्मजिज्ञासा' इति जैमिनिशास्त्रस्थात्रम अथातो ब्रह्मजिज्ञासा' इति बादरायणशास्त्रप्रारम्भसूत्रम्, अथ योगा इति पातञ्जलशास्त्र', अथातो धर्म व्याख्यास्यामः इति काणादम, अयानुवाकान् वक्ष्यामि ‘इति. कातीयशास्त्र, अथातोऽधिकारः इत्यपि, अथ शब्दानुशासनंमिति पाणिनीयशास्त्रम् ।। ज्ञब्दानुशासनमिति ग्रन्थ ग्रन्थनाम च । व्याकरणं हि शब्दशास्त्रमिति सर्वत्र प्रसिद्धिः तदेतत् शब्दानुशासनं हि ग्रन्थस्य प्रयोजनमपि अत्र शब्दा अनुशास्यन्ते इति शब्दांनामनुशासनं साधुत्वासाधुत्वविवेक इति शब्दानुशासनम् । नाम चास्यः तदेव तथैव श्रुतत्वात् । तथा च 'अइउण्’ प्रभृतीनि प्रत्याहारसूत्रोष्यपि पाणिनीयान्येव । प्राचीनाचार्येषु नन्दिकेश्वर एव एक आचार्यों यः प्रत्याहारसूत्राणि माहेश्वराणि मन्यते । तमेवानुयाति भट्टोजिदीक्षितोऽपि सहानुयायिभिः । किन्तु पतञ्जलिहि भगवान् तानि पाणिनीयान्येव मन्यते । यथोक्त महाभाष्ये ‘हयवरट्” इति प्रत्याहारसूत्रमधिकृत्य -

अत्र ह्याचार्यपदं पाणिनिमेव सङ्कतयतीति नैव द्वैमत्याय भवेत् । निरूक्तस्य व्याख्यातः स्कन्दस्वामी तु स्पष्टमेव , कथयति-नापि: : ‘अइउण्” इति पाणिनीयप्रत्याहारसमाम्नायवत्' इति।

पाणिनिः भगवान् किं पूर्वशास्त्राण्येव संक्षिप्य स्वसंहितामरचयदथवा स्वानुभवेनैव सूत्राणि प्रणिनायेति बिषये पण्डेिता विवदन्ते । केचित्पाणिनीयँ व्याकरणं तत्पूर्ववतव्याकरणग्रन्थानां सारसङ्क्षेपं मन्यन्तेऽपरे तु मौलिको । कुतिम् । प्रकरणेऽस्मिन् वयं तद्विषये संक्षेपेण विचायामः । पतञ्जलिः महाभाष्यकारः पाणिनीयसंहितां मौलिक स्वानुभवनिष्प। न्नाञ्च मन्यते । स हि कथयति -

जयादित्यश्च-‘महती सूक्ष्मेक्षिकां वर्तते सूत्रकारस्य' इति कथनेन तदेव समर्थयति। पाणिनीयशिक्षागतं निम्नाङ्कितं पद्यमपि तदेव समर्थयति- 

'येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।। इति । 

तैत्तिरीयप्रातिशाख्यस्य व्यास्याता गाग्र्यो गोपालयज्वा मूलशास्त्रत्ववर्णपूर्वस्यापि कस्यचित् ‘रोरि' इति लोपः स्मर्यते ।” “तदुक्त मूलशास्त्र - ओमभ्यादाने, अचः प्लुत इति' इत्यादिकथनेन पाणिनीयं हि व्याकरणं मूलशास्त्रपदेन व्यपदिशति । तस्य च मूलशास्त्रशब्दप्रयोगेऽयमेवाशयो यदसौ पाणिनीयं हि शास्त्र' मौलिक शास्त्र मन्यते न तु पूर्वग्रन्थसंक्षेपम् । युधिष्ठिरमहाभागस्य चित्रनं यत्तथाकथनेन स सम्भवतः प्रतिशाख्थं पाणिनीयमूलकं मन्यते । इति वयं श्रद्धातुमसमर्थाः स्मः । यथा सत्स्वपि उत्तानपाद-ध्रुव-उत्कल-वेन। प्रभृतिराजसु स्वगुणप्राकष्यत्पृथु हि वैन्य आदिराज इति स्मर्यंते ( यथा । श्रीमद्भागवते तथैवोक्तम् ) तथैव पाणिनीयं शास्त्रमपि सत्वपि शताधिकेषु पूर्वशास्त्रेषु स्वप्राकष्यन्मूलशास्त्रपदेन व्यपदिश्यत इति किमाश्चर्यम् । केचि। , त्कथयन्ति यत्पाणिनीयं हि शब्दशास्त्रमापिशलव्याकरणस्य नवनिरूपमेवेति ।

पदमञ्जरीकारो हरदत्तस्तेषामग्रणीः । स हि कथयति- ।। । 'कथं पुनरिदमाचार्येण पाणिनिनाऽवगतमेते साधव इति ? आपिशलेन । पूर्वव्याकरणेन । आपिशलिना र्ताह केनावगतम् ? ततः पूर्वव्याकरणेनेति । किन्तु सोऽपि पाणिनेमौलिकतां तु न मूलतः प्रत्याख्याति । अग्रे स एव कथयति -

एतत्तु स्वभाविकमेव यत्काचिदपि ग्रन्थकृत्स्वपूर्ववतभ्यः स्वल्पं वा बहुँ । प्रभावितो भवत्येव । तत्रापि यदि कश्चित्प्राचीनमेवार्थमनुवदति तदा स.' दोषभाग्भवति किन्तु प्राचीन एवार्थोऽपि यदि नूतनत्वेन प्रत्याय्यते तदा ग्रन्थकृतो मौलिकता नैव प्रणश्यति । प्रकृतिप्रत्ययविभागेन शब्दानां साधनमेव । शब्दशास्त्रस्य प्रयोजनम् । यदि पूर्वाचार्यकृतं तादृशं साधनं स्वभाषयोच्यते तदा को दोषः ।

पाणिनिना हि ज्ञात्वैव कतिपयतथ्यानि उपेक्षितान्यपि संन्ति या पूर्वव्याकरणसिद्धत्वेन प्रसिद्धत्वान्तानि नैवोक्तानि उक्तमेव महाभाष्यकृता

'नैकमुदाहरणं योगारम्भं प्रयोजयति' इति - 'नेक प्रयोजनं योगारम्भं प्रयोजयति इति। तेन हि अव्ययीभाव-तत्पुरुष-प्रगृह्य-तद्धित-प्रत्यय-प्रत्याहार-कारक-ससासादीनां व्यवहारस्तु कृतः किन्तु परिभाषा नैव दत्ता । तेन हि ‘औङ आपः, आङि चापः', 'आङो नाऽस्त्रियाम्' इत्यादौ पठितयोः औङ, आङ् चैतयोः परिभाषाऽपि नैव कृता । एवमेव ‘वर्तमाने लट्' इतीत्युक्तः किन्तु कि वर्तमानमिति नैवोक्तम् । एवमेव भूत-भविष्यदादीनां च नैव परिचयो दत्तः । तेन हि । तन्निमित्तं पूर्वव्याकरणमेवाश्रितं स्यात् । तेन हि अनेके प्रचलिततद्धितप्रत्यया अप्यपेक्षिताः । तेनैव तद्धितमूढाः पाणिनीया इति कथ्यते । पाणिनीयव्याकरणे हि सूत्रेष्वेव प्रयुक्ता अपि कतिपयशब्दाः (तेषां सङ्ख्या युधिष्ठिरमहाभागमतेन शतं विद्यते ) पाणिनीयव्याकरणानुसारेण नैव साधिता भवन्ति । यथा जनिकर्तुः प्रकृतिरित्यत्र जनिकर्तुः, तत्प्रयोजको हेतुश्चेत्यत्र तत्प्रयोजकः, पुराणः सर्वनाम, ब्राह्मण इत्यादि । तेषां कृते महाभाष्यकारश्छन्दसं वा सौत्रकार्यं |. मन्यते । एकतः पाणिनिह शप्श्यनोनित्यम्' इति पठति; अपरतश्च जाम्बवतीविजये स्वयमेव ‘पश्यते । इति प्रयुनक्ति । न चापाणिनीयादेव शब्दानामसाधुत्वमेवे भवति। संहस्रशों हि आर्षवाङ्मयप्रयुक्ताः शब्दाः पाणिनीयव्याकरणानुसारेण नैव साधिता भवन्ति न च तेषामसाधुत्वमेव मन्यते । महाभारते प्रयुक्तः पाण्डवेयशब्दः पाणिनीयव्याकरणतो नैव सिध्यति । ते नैवोक्त, संहाभारतटीकाकृतादेव बोधेन । 

न दृष्ट इति वैयासे शब्दे मा संशयं कृथाः । अज्ञ रज्ञातमित्येव पदं न हि न विद्यते । यान्युज्जहार माहेंन्द्राद् व्यासो व्याकरणार्णवात् । पदरत्नानि कि तानि सन्ति पाणिनिगोष्पदे। तथैव सारस्वतमहाभाष्ये समुद्रवद्वयाकरण महेश्वरे तदर्थकुम्मोद्धरणं वृहस्पतौ । तद्भागभागाच्च शतं पुरन्दरे कुशाग्रविन्दुत्पतितं हि पाणिनौ।

इत्थं कतिपयेषामेव नियमानामनवेक्षणादेव पतञ्जलिहि पाणिनीयं हि ब्याकरणं शिष्टपरिज्ञानार्थकमेव मन्यते । यथोक्त महाभाष्ये--

पक्षिमत्स्यमृगान् हन्ति परिपन्थञ्च तिष्ठति वृद्धिरादैजदेङ्गुणः इग्यणः सम्प्रसारणम् तडानावात्मनेपदम् स्वाङ्ग तत्प्रत्यये कृम्वोः । कृत्तद्धितसमासाचे श्राणामासौदनाट्टिठन् । क्रीडोऽनुसम्परिभ्यश्च स्त्रीपुंवच्च पुमान् स्त्रियाः अलोऽन्त्यात्पूर्व उपधा पूर्वसूत्राणि स्वल्पं वा बहु संशोध्य गृहीतानि यथातदस्मै दीयते (नि) युक्तम्। यथा च- 

प्राचीनप्रत्ययानां प्रयोगो यथा--आङि चापः औङ आपः आङो नाऽस्त्रियाम्। प्राचीन संज्ञान प्रयोगो यथा अन्यतरस्याम्, उभयथा इत्यादि । प्राचीनधातूनामपि ग्रंहणं यथा-देनंसोरल्लोपः इत्यत्र आपिशलोक्त स भुवि धातोः । इत्थं पूर्वशब्दानुशासनग्रन्थैः सह नितान्तमेव सम्बद्धमपि पाणिनीयशब्दानुशासनं स्वकीयं मौलिकत्वं च रक्षतीत्यस्य वैशिष्ट्यम् ।

पाणिनीया शिक्षाग्रन्थे त्रयः श्लोकाः पाणिनेः नमस्कारपराः द्श्यन्ते । पाणिनिः वैयाकरणानां प्रातः स्मरणीयः मुनिः । न केवलं वैयाकरणानाम् अपि तु निखिलसंस्कृतविपश्चिताम् एष प्रातर्नमस्यः इत्यत्र न काऽपि संशीतिः । यतः तस्मात् पूर्वतनानाम् ऐन्द्-चान्द्र-आपिशलादीनां व्याकरणशास्त्राणि स्वयमधीत्य तानि असमग्राणि च परिभाव्य 'नवं, समग्रं, विश्वजनीनं च व्याकरणम्’ चिकीर्षुः वाचामधीशं परमेश्वरं तपसा आराधयामास । पाणिनेः तपसा सन्तुष्टः परशिवः ताण्डवं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत् । तस्याः ढक्कायाः शब्दान् पाणिनिः अशृणोत् । अत्रायं श्लोकः - 

एते शिवडमरुसमुत्थाः शब्दा एव माहेश्वरसूत्राणि इति श्रूयन्ते । तदनन्तं पाणिनिः व्याकरणशास्त्रस्य मूलाधारम् अष्टाध्यायीति सूत्रग्रन्थं व्यरचयत् । 

पाणिनिः संस्कृतस्य महावैयाकरणः । यतः तदनन्तरीयाः ये ये वैयाकरणाः अभवन् ते सर्वेऽपि व्याकरणशास्त्रस्य नाना प्रक्रियायाः निरूपणार्थं पाणिनेः अष्टाध्याय्याः विविधाः व्याख्याः निरचिन्वन् ।

पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शालातुरग्रामे अभवत् । अतः तस्य 'शालातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्तानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी ।  अतः एव सः दाक्षीपुत्रः इत्यपि संस्कृतज्ञाः तं प्रीत्या आह्वयन्ति । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । शालङ्किः इत्यपि पाणिनेः पितुः नाम आसीदिति वाराणसेयः विद्वान् श्रीगोपालशास्त्रिमहोदयः प्रशिक्षणसंविधानम् इति पुस्तके व्यलिखत् । अयं कृशाश्वपुत्रस्य देवलनाम्नः पौत्र इति John Garratt महाशयस्य Classical Dictionary of India पुस्तके उल्लिखितमस्ति । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'नलन्द'विश्वविद्यालये शिक्षां प्राप्तवान् । तस्य गुरुः आसीत् उपवर्षाचार्यस्य सहोदरः वर्षोपाध्यायवर्यः ।

केचिदाचार्या हि भगवता पाणिनिना स्वप्रणीतायामष्टाध्याय्यां स्मृतास्तेषां । मतानि च तत्र तत्र निर्दष्टानि । एतादृशा आचार्यास्तु आपिशलि-काश्यपगार्ग्य-गालव-चाक्वर्मण-भारद्वाज-शाकटायन-शाकल्य-सेनक-स्फोटायना इति । दशैव । पाणिनिना तेषामाचार्याणां नामग्रहणं किमर्थं कृतमिति विषये पण्डिताः । स्वं स्वं मतमु पस्थापयन्ति । केचिदाचार्यग्र हणं विभाषार्थमित्यामनन्ति । किन्तु । तावत्येवार्थसिद्धिस्तु वा-विभाषा अन्यतरस्यामित्यादिशब्दद्वाराऽपि सम्मवत्येव । यत्र कुत्र द्वयोर्वा त्रयाणामप्याचार्याणां नामग्रहणं दृश्यते । विकल्पविधिनिमित्तं ।। त्वेकस्यैवाचार्यस्य नामग्रहणमपि पर्याप्तमेव । तेनैतत्पर्यवस्यति यद्यत्र विमाषादिकं । पाणिनेरप्यभीष्टं तत्र वा-विभाषा अन्यतरस्यामित्यादिपेदैरभिव्यक्तमस्ति । यथा ‘वा शरि', सर्वत्र विभाषा गोः' ‘झयो होऽन्यतरस्याम्' इत्यादिषु । किन्तु .. यत्र च पाणिनेरनभिमतमतं किन्तुः आचार्य परम्परातः प्रचलितमस्ति तदुपस्थापनायैव भगवता पूर्वाचार्याणां नामग्रहण कृतं दृश्यते । यथा 'लोपः शाकल्यस्य' इति शाकल्यमते एव यलोपो न तु पाणिनिमते । तथैव गो इत्येतस्य स्फोटायनमत एव अवङादेशो न तु सः पाणिनिसम्मतः । तेन विशिष्टमतोल्लेखनार्थमेवाचार्याणां नाम ग्रहणम् । यत्र च त्र्यधिकाचायणां मतं तत्र आचार्या- णम्' इति पदं, यत्र च साधारणमान्यता तेषां तत्र ‘एकेषां इति पदं, यत्र च ।

न कस्याऽप्यसम्मतिस्तत्र सर्वेषां' इति पदं, तत्रापि शरावतीदक्षिणपूर्ववत-, . प्रदेशस्थानां कृते ‘प्राचां इति पदं, तदुत्तरर्वातप्रदेशस्थानां कृते ‘उदीचां । इति 'पदं व्यवहृतमस्ति । ‘आदाचार्याणां, यजुष्वेकेषाम्, हलि सर्वेषाम्, प्राचां इफः तद्धितः, ‘उदीचामिञ्, अड् गायँगालवयोः, नोदात्तस्वरितोदयमगार्यकाश्यपगालवानाम्' इति । अनेनेदमपि तथ्यं पुर आयति यत्पाणिनिकाले संस्कृतं हि प्रतिप्रदेश, किचिद्भिन्नस्वरूपमासीत् । एकस्यैव शब्दस्य प्रदेशानुसार स्वरूपं भिद्यतेस्म । अर्यकशब्दस्य स्त्रियामौदींच्येषु आर्यका भवति अन्यत्र आर्यिका । तथैव हरिणस्यापत्येऽर्थे औदीच्येषु हारिषेणिर्भवति अन्यत्र हारषेण्य इति । एवञ्च आम्रगुप्त शब्दस्यापत्येऽर्थे आम्रगुप्तायनिरन्यंत्र आम्रगुप्त एव । तत्समये प्राच्यौदीच्यसीमा शरावती विभजतेस्म । सा हि नदी उत्तरपूर्वाभिमुखी । तस्या दक्षिणपूर्वस्यां व्यवस्थितां देशः प्राग्देशः उत्तरपरस्यामुदग्देशः । तौ शरावती विभजते । उक्त यथा-

प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा ।।

विदुषां शब्दसिद्धयर्थं सा नः पातु शरावती ॥ 

तत्रापि भाषाया औदीच्यरूपमेव परिनिष्ठितं मन्यते स्म । यथोक्तम् । शाङ्ख्यायनब्राह्मणे -

'उदञ्च एव यन्ति वाचं शिक्षितुम् ।

यो वै तत आगच्छति तं शुश्रूषन्ते ।। 

इति औदीच्याः खलु परिनिष्क्रुितशब्दविशेषज्ञा प्राच्याः खलु व्यावहारिकशब्दविशेषज्ञाः । प्राञ्चः खलु भाषायां बाहुल्यमिच्छन्तिस्म । एवमेव दाक्षिणात्याः खलु प्रियतद्धिताः । मध्यदेशीयाः खलु समुचितं रूपं प्रयुञ्जन्ति स्म । पाणिनिहि जन्मनौदीच्योऽपि शिक्षया मध्यदेशीयः । तेन हि स प्राच्यमपि रूपं जानाति स्म । तदा हि पाटलीपुत्रं विद्याया केन्द्रमासीत् । प्राच्योदीच्यदाक्षिणात्यमध्यदेशीयश्छात्रास्तत्र विद्याध्ययनार्थमागच्छन्ति स्म । वर्षीपवर्षी हि तदान्तीन्तनप्रसिद्धाचायौं । वर्षों हि पाणिनेर्गुरुः । पाणिनेर्यत्सम्मतं तदेव रूपं मध्यदेशीयमिति अष्टाध्याय्यां प्राचामुदीचाञ्चोल्लेखः । 

तत्र आचार्याणामित्युल्लेखः आदाचार्याणां, दीर्घादाचार्याणां इति द्वयोः सूत्रयोर्वर्तते । तत्र आचार्याणां मते आद्वा भवति । यथा खट्वाका पक्षे इत् खट्विंका, पक्षे अदेव खद्वका । एवमेव दीर्घात्परस्य न द्वित्वमाचार्याणां मते । यथा दात्रम् । पाणिनिमते द्विरेव तेन दात्त्रम् । एवञ्च औदीच्यमतप्रकाशकानि षट् सूत्राणि सन्ति । तानिचेत्थम् उदीचां माङो व्यतिहारे, व्यतिहारेऽर्थे माङः दत्वास्यादुदीचामाचार्याणां मते । 

आरगुदीचाम् — अपत्येऽर्थे गोधाया ढुकः स्थाने आरम् भवति उदीचामाचार्याणां मते । यथा गोधाया अपत्यं गौधारः अन्यमते ठूगेव तेन गोधेरः ।।

उदीचां वृद्धादगोत्रात् - अगोत्राद् वृद्धादपत्ये फिन् स्यादुदीचा मतेन । यथा आम्रगुप्तस्यापत्यमाम्रगुप्तायनिः । अन्यत्र तु इमेव तेन आम्र

गुप्तिः ।

मातरपितरावुदीचाम् - उदीचां मते मातरपितरौ भवति अन्यमते तु मातापितरौ वा पितरौ इति ।

उदीचामातः स्थाने यकपूर्वायाः—

उदीचामिञ् – सेनान्तलक्षणकारिभ्योऽपत्ये इञ् स्यादुदीचा मतेन । हरिषेणस्यापत्यं हारिषेणिः । अन्येषां मते तु ‘सेनान्तलक्षणकारिभ्यश्च' : इति ण्य एव । तेन हारिषेण्यः । एकेषामिति मताववोधकं सूत्रं ‘यजुष्येकेषाम्' एव । युष्मत्तततक्षुःषु परत एकेषां मते यजुषि सस्य षो भवंति। अचभिष्ट्वं अन्येषां मते तु अचभिस्त्व। प्राचामिति निर्देशोऽष्टाध्याय्यां नवसु सूत्रेषु कृतोऽस्ति स चेत्थम् - अलं खल्वो प्रतिषेधयोः प्राचां क्त्वा प्रतिषेधार्थकयोरलं खल्वोरुपपदयोः क्त्वा स्यात्प्राचां मते । अलं रुदित्वा । अन्यमते तु अलं रोदनेन । 

प्राचां ष्फ तद्धितः – यजन्तात् ष्फो वा स्यात् स्त्रियां स च तद्धितः । गार्ग्यस्य स्त्री गार्ग्यायणी, गार्गी । अन्यमते तु गार्गी एव.।

शोणात् प्राचाम्- शोणशब्दात् स्त्रियां डीप स्यात्प्राचां मते । शोणस्य स्त्री शोणी । अन्यमते तु शोणा। प्राचामवृद्धात्फिन् बहुल-अवृद्धात् फिन् वा स्यात् प्राचां मते । यथा ग्लुचुकायनिः । अन्यमते तु ग्लौचुकिः । प्राचामुपादेरडन्तुचौ च- उपशब्दपूर्वात्प्रतिपदिकात्पूर्वविषयेऽडन्तुचौ स्तः प्राचां मते, चाद्यथाप्राप्तमपि । उपङः उपकः अन्यमते उपिल: उपिकः उपियो वा ।।

एकांच्च प्राचाम्- एकशब्दात् इतरत्डतमच्च स्यात्पूर्वविषये प्राचा मते । एकतरः एकतमः अन्यमते कियत्तदोरेवखार्याः प्राचाम्- द्विगोरर्धाच्च । खार्याष्टज्वा प्राचां मते । द्विखार द्विखारि । अन्यमते तु द्विखारि एव ।

गुरोरनृतोऽनन्त्यस्याप्यैकैकस्य प्राचाम् वा प्लुतः प्राचां मते । यथा आयुष्मान् भव दे३वदत्त, देवद३त्त वा देवदत्त३ । अन्यमते तु देवदत्त३ एव । कूषिरजोः प्राचां श्यन् परस्मैपदं च अनयोः कर्मकर्तरि न यक श्यन् परस्मैपदश्च वा । यथा कुष्यति पादः स्वयमेव रज्यति पादः स्वयमेव । अन्यमते तु कुष्यते रज्यते इति ।

सर्वेषामिति निर्देशो, द्वयोः सूत्रयोर्वर्तते यथा-अदः सर्वेषाम् अदः पंरस्यापृक्तसार्बधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । हलि सर्वेषाम् भो भगो अधो अपूर्वस्य यकारस्य अशि परे । शाकल्यमतेन लोपो भवति किन्तु हलि परे तु सर्वेषामेव मतेन भवतोति । भो देवाः । अथाष्टाध्याय्यां नामग्राहं ये ख़ल्वाचार्या निर्दिष्टास्तेषां विषये सङ्क्षेपेणाऽत्र चर्चा क्रियते । तेषां हि उपस्थापनसौविध्याय वयं हि वर्णानुक्रमनुसरामः ।

अपिशलिः व्याकरणाचार्यत्वेनाष्टाध्याय्यां वा सुप्यापिशलेः - इति सूत्रे समुल्लिखितः । स हि महाभाष्ये एवञ्च कृत्वाऽऽपिशलेराचार्यस्य विधिरुपपन्नो भवति-धेनुरनजिकमुत्पादयति इति वचनो स्मृतः । एवञ्च काशिकायां, न्यासे प्रदीपे तन्त्र-प्रदीपे च स स्मृतः । काशिका नुसारेण आपिशलिशब्दस्तद्धितप्रत्ययान्तः । तेन अपिशलस्यापत्यमापिशलिः । एवमेव पाल्यःचेवर्धः। मानावपि । उज्ज्वलदत्तस्तु उणादिवृत्तौ ‘अपिशलिमुँनिविशेषस्तस्यापत्या- पिशलिबाहवादित्वादिन्' इति मन्यते । बाह्वादिगणे तस्य पाठाभावादुज्ज्वल- . दत्तभतमिति केचित् । पाणिनिस्तु आपिशलि क्रौड्यादिगणे पठति । एवमेव राजशेखरः काव्यमीमांसायां शिक्षा आपिशलीयादिका' इति तस्य । शिक्षाग्रन्थमपि स्मरति । एवमेव वाक्यपदीयटीकाकारो वृषमदेवश्च तथेत्याः | पिशलीयशिक्षादर्शनम्' इति पठति ।

अपिशलस्य वा अपिशलेरपि पुत्रत्वेन स्मृत आपिशलिं न केवलं पाणिनिंनाऽपि तु अत्यैरपि तदनुर्वातभिराचार्यैर्वहुधा. स्मृतत्वात्स महान् वैयाकरण आसीदिति ज्ञायते । पदमञ्जरीकारस्तु तं पाणिनेरुपजीव्यमेव मन्यते । तत्रोक्तम् -

शाकटायनव्याकणस्यामोधावृत्तिकारः पाल्यकीतिर्यथा स्मरति अष्टका आपिशलपाणिनीयाः, इति, आपिशलेकरणमपि अष्टास्वध्यायेषु विभक्तमासी दित्यनुमीयते । तस्य शिक्षाग्रंथेऽप्यण्टौ प्रकरणान्येव । ‘काशकृत्स्नं गुरुलाधवं आपिशलं पुष्करणम्, इति वामनवचनात् आपिशलमान्तः करणम्' इति सरस्वतीकण्ठामरणस्य हृदयहारिणीटीकायामुक्तत्वात्। तथैव काशिकायां मात्रोपज्ञोपक्रमच्छाये नपुंसके इति सूत्रवृत्तौ आपिशल्युपज्ञं गुरुलार्धवं इति वचनाच्च आपिशलेव्यकरणस्वरूपविषये नैव निश्चयेने इंदमित्थंन्तया वक्तुं शक्यते किं वैदं पुष्करणं किं वा गुरु लाधवं किंवाऽऽन्तः करणमिति । एतावदेव ज्ञायते यदापिशलेर्याकरणं नितान्तमेव सरलमासीत् । तच्च स्त्रियोऽपि पठन्ति स्मेति महाकाव्यस्य आपिशलमधीते ब्राह्मणी आपिशला ब्राह्मणी इति वचनाज्ज्ञायते ।

युधिष्ठिरमीमांसकेन कतिपयानि आपिशलव्याकरणसम्बद्धसूत्राणि सङ्गृहीतानि सन्ति । तेभ्यश्च तस्य वैयाकरणम तविषये वयं किञ्चिदनु मातुं समर्था भवामः । तेषु हि कानिचिद्यथा-

उमस्योभयोऽद्विवचंनटापोः- उभस्योभयादेशो - द्विवचनटाब्बर्जम् । तेन उभयः उभये तु उभौ एव । टापि उभा ।

विभक्तयन्तं पदम्-ययाऽऽह विद्याभूषणः-अर्थः पदमाहरैन्द्राः विभक्तयन्तं पदम्' आहुरापिशलीयाः, सुप्तिङन्तं पदम् पाणिनीयाः । एवमेव ते विभक्तयन्ताः पदम्', विभक्तयन्तं पदं ज्ञेयम्, मन्यकर्मण्यनादरे उपमाने विभाषा प्राणिषु-पदमजरी, शब्दकौस्तुभे। (विषाषा प्राणिषु इत्यापिशलीयं सूत्रम्) । पाणिनीयं तु मन्यकर्मण्यनादरे विमाषाऽप्राणिषु' इति। मन्यतेः कर्मणि वा चतुर्थी स्यादनादरे प्राणिवर्जमुपमाने प्राणिष्वपि । तृणाय वा तणं भने वृषमं वा वृषभाय मन्यते ।

चिरसाययोर्मश्च प्रगप्रायोरिच्च–(सुयध्ममकरन्दे इदमापिशली सूत्रं मतम्। चिरन्तनं, सायन्तनं, प्रगेतनं, आवेतनम । धेनोरमः- धेनोः समूहेऽर्थेऽन् भवति । धेनवम्, पाणिनिमते शताच्च ठन्यतावग्रन्थे— पाणिनीये त अशते इति । शतिक शत्यम् ।

शब्विकरणे गुणः–तन्त्र प्रदीपे। करोतेमिदेश्च–अनि च विकरणे करोतेः मिदेः। पाणिनीयं तु मिदेर्गुणः इति ‘शिति' इत्यनुवृत्य ।। तुरुस्तु शन्यमः सार्वधातुकासु च्छन्दसि । ञमङणनम्-‘अमङणनाः स्वस्थानी नासिकास्थाश्च इत्यापिशलीयशक्षायां, पाणिनीयशिक्षायां तु ङञणनमाः स्वस्थाननासिकास्थाना। एवमेवापिशलिव्याकरणे काशकृत्स्नव्याकरणवत् 'तदर्हम्' सूत्रस्याभाव उक्तो हेलाराजेन । “आपिशलाः काशकृत्स्नाश्च सूत्रन्मेतनाधीयते इति । तथैव तत्र नाज्झलौं इति पाणिनीयं सूत्रं अपि नैवाऽऽसीद्यतः पाणिनिना विवृतकरणा वा' इति सूत्रेण पक्षान्तरे ऊष्मणामपि विवृतकरणप्रयत्नः स्वीकृतो येनाज्झिः सह तेषां प्राप्तसवर्णसंज्ञाप्रतिषेधाय सूत्रमिदं तत्रावश्यक सञ्जातम् । किन्तु ईषद्विवृतकरणा ऊष्माणः विवृतकरणाः स्वराः इति आपिशले; पृथग्विधानात् न तत्र सवर्णसंज्ञा - न च प्रतिषेधावश्यकता ।

एतदतिरिक्तमपि यत्र यत्र आपिशले—करणसम्बन्धीनि मुतानि समुधुतानि दृश्यन्ते । यथा -

भाषिकसूत्रव्याख्यायामनन्तदेवः - 'यथापिशलिनोक्त-ऋलुवर्णयोर्दीर्धा (न) भवन्तीति । कातन्त्रटीकायां कविराजः - ‘एकवर्णकार्यं विकारः अनेकवर्णकार्यमादेशः इत्यापिशलीयं मतम् । कातन्त्रबृत्तिटीकायां दुर्गाचार्यः । ‘तथा चापिशलीः श्लोकः--

आगमोऽनुपधातेन विकारश्नोपमर्दनात् ।

आदेशस्तु प्रसङ्गेन लोपः सर्वापकर्षणात् । 

भाषावृत्तिव्याख्यायां सृष्टिधरः - तथा चापिशलिः -

दन्तोष्ठ्यत्वाद्वकारस्य वहव्यधवृधां न भष् ।

उदूठौ भवतो यत्र यो वः प्रत्ययसन्धिजः ।।

अन्तः स्थं तं विजानीयाच्छेषो वर्गीयमुच्यते । 

शब्दशक्तिप्रकाशिकायां जगदीशतर्कालङ्कारः - 

सशस्त्वं तृणादीनां मन्यकर्मण्यनुक्तके।

द्वितीयावच्चतुर्थ्याऽपि बोध्यते बाधितं यदि ।। 

इत्यापिशलेर्मतम् । उणादिसूत्रवृत्तौ उज्ज्वदत्तः -

मात्रिकस्य चतुर्भागः पाद इत्यभिधीयते ।।

कातन्त्रवृत्तिपञ्जिकायां त्रिलोचनदासः - तथा चापिशलीयाः पठन्ति - 

सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । 

चतुष्व॑र्थेषु मेधावी आदिशब्दं तु लक्षयेंत।। इति ।

व्याकरणातिरिक्तमपि धातुपाठः, गणांदिसूत्राणि शिक्षा चापिशलिंकृतित्वेन । प्रसिद्धाः सन्ति । एवमेव कोश अक्षरतन्त्र-सामप्रातिशाख्यांनि च । अनेनोपर्युपस्थापितवर्णनेन 'सिध्यति यत्पाणिनेरोपिशेलिना सह नितान्तं साम्यमस्ति वैषम्यं तु मनांगेव । तच्च सम्यं सूत्ररचनाप्रकारे संज्ञा-प्रत्ययप्रत्याहारादिविधिषु च दृश्यते । उभयंत्र सूत्रशैलीरवलम्बिताऽस्ति । उभावेव द्विवचन-विभाषा-गुण-सार्वधातुकादिसंज्ञा अवलम्बत: । केवलं पाणिनिसार्वधातुका इत्येतस्य अकारान्तं रूपं पठेति । यथा -

उभे एव व्याकरणे अष्टास्वध्यायेषु विभक्त । उभयोरेव समानौ धातुगणपाठौ । उभयोरेव. शिक्षासूत्राण्यपि परस्परसंवादीनिं । तेनैव पदमञ्जरीकारी हरदत्तः साधु भणति यदा स कथयति-

पाणिनिः काश्यपाचर्यं 'तृषिमृषिकृषेः काश्यपस्य' इति ‘नोदात्तस्वरितोदयमगार्यकाश्यपगालवानाम्' इति द्वयोः सूत्रयोः स्मरति । तत्रायम्प्रपञ्चो यद् काश्यपस्य मते तृषिमृषिकृषेः सेट् क्त्वा किद्वा भवति । तेन तन्मते तृषित्वा, तषिता इति द्वे रूपे भवतः कित्त्वपक्षे गुणनिषेधात् । पाणिनिमते तु द्वितीय एव पक्षः साधुः । काश्यपो हि वाजसनेयीयप्रातिशाख्येऽपि 'लोपं काश्यपशाकटायन' इति स्मृतः । तञ्च पाणिनिः ऋषित्वेन स्मरति ‘काश्यपकौशिकाभ्यामृषिभ्यां णिनिः' इति सूत्रे। तेन प्रोक्तमित्यर्थे ऋषिवाचककाश्यपकौशिकाम्यां णिनिर्भवति । यथा काश्यपेन प्रोक्तानि काश्यपीनि । तत्र नामग्रहणं कल्पे नियमार्थमिति महाभाष्यकारवचनम् ।

काश्यपि व्याकरणं सम्प्रति नैवोपलभ्यते । स्वयं काश्यपोऽपि त्रिषु स्थानेष्वेव, स्मृतो दृश्यते यत्र द्विवारं पाणिनीयसूत्रयोरुपर्युक्तयोरेकवारञ्च ‘निपातः . स्मृतः' इति यजुःप्रतिशाख्ये च । व्याकरणातिरिक्तमपि कल्पच्छेन्दःशास्त्रायुर्वेदशिल्पालंकारशास्त्रपुराणादिविषयेष्वपि काश्यपस्य प्रणेतृत्वमप्युच्यते । काश्यपस्य स्थितिकालः प्राक्पाणिनीय इत्येव ज्ञायते पाणिनीय सूत्रेतस्योल्लेखात्, किन्तु कियत्प्राचीन इति तु नैवानुमातुमपि शक्यते । युधिष्ठिरमहाभागस्तं विक्रमपूर्वतृतीयसहस्राब्दीमवमन्यते । 

गार्ग्याचार्योऽपि पाणिनिना स्वपूर्ववतवैयाकरणत्वेन स्मृतस्त्रिवार अड्गार्यगालवयोः, ओतो गोर्यस्य नोदान्तस्वरितोदयमगार्यकाश्यपगालवानाम् इति सूत्रेषु । एवमेव स हि ऋक्प्रातिशाख्ये वाजसनेयीयप्रातिशाख्ये च स्मृतोऽनेकवारम् । यथा ऋक्प्रातिसाख्ये-‘व्याडिशाकल्यगार्ग्याः' इति। तथैव वाजसनेनीयप्रातिशाख्ये-‘ख्याते खयौ कशौ गार्यः सख्योक्ख्यमुपख्यवर्जम् । निरुक्त च यास्कस्तं स्मरति-तत्र नामानि सर्वाण्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च न सर्वांणीति गार्ग्यो वैयाकरणानाञ्चके । गाय॑स्य हि गर्गपुत्रत्वं सिध्यति गर्गश्व भरद्वाजपुत्रः । अयं हि यास्केनापि स्मृतत्वात् पाणिनिनाऽपि गालवेन सह तस्य स्मरणात्स हि युधिष्ठिरमहाभागमतेन विक्रमपूर्वषष्ठसहस्राब्दीमभितः स्थितिमानित्यनुमितः । तस्य व्याकरणविषये वयं न किमपि जानीम ऋते पाणिनिप्रोक्तम् । व्याकरणातिरिक्तमपि निरुक्त-सामवेदपदपाठ-शालाक्यतन्त्र-भूवर्णन-तक्षशास्त्रादिविषये ग्रन्था गार्य' प्रणीता इति स्मर्यन्ते ।

गालवं हि वैयाकरणत्वेन पाणिनिश्वतुर्वारं स्मरति अङ्गार्यगालवयोः, इको ह्रस्वोऽयो गालवस्य तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य, नोदात्तस्वरितोदयमगार्यकाश्यपगालवानाम् इति सूत्रेषु । भाषावृत्तौ पुरुषोत्तमदेवः ‘इको यण्भिव्यवधानं व्याडिगालवयोरिति वक्तव्यम्' इति गालवमतं समुद्धरति प्रस्तौति च। देधियत्र दध्यत्रेति रूपद्वयमपि । . गालवस्य न त्वैति ह्ययं ज्ञातमस्ति न च तस्य व्याकरणमेव लम्यते । स हि इको विकल्पेन यण्व्यवधानपक्षधरः । एवश्च च उत्तरपदे परे इगन्तांगस्य ह्रस्वमिच्छति यथा ग्रामणिपुत्रः। यन्तस्य तु न ब्राह्मणीपुत्रः। पाणिनिमते तु अयोऽपि न ह्रस्वः । यथा ग्रामणीपुत्रः । एवमेव गायँगालवयोर्मते रुदश्च । पञ्चम्यः ईटः स्थाने अड् भवति । यथा अरोदत् । पाणिनिमते तु ईडेव । तेन अरोदीत् । तथा च गालवमते तृतीयादिषु भाषितपुंस्कं इगन्तं क्लीवं प्रवृत्तिनिमित्तैक्ये वा पुंवत् टादावचि । यथा अनादये ।

गालवो हि बाभ्रत्यगोत्रः पाञ्चालाभिजनः संहितायाः प्रवक्ता शौनकशिष्यः ब्राह्मणक्रमपाठशिक्षानिरुक्तदैवतकामसूत्र-भूवर्णनः शालाक्यतन्त्रादीनामपि प्रणेता मतः । तस्य हि स्थितिकालो नास्माकं ज्ञातः । युधिष्ठिरमहाभागस्तं हि विक्रमपूर्वतृतीयसहस्राब्दीतोऽपि पूर्ववर्तनं मन्यते । स एव जानातु याथार्थ्यम् के वयन्त्वेतावदेव जानीमो यत्सः पाणिनितो दूरपूर्वकालवर्तीति ।

चक्रवर्मणो हि ‘ई३ चाक़ वर्मणस्य सूत्रे पाणिनिना आपिशलिना कपश्चक्रवर्मणस्य' इंति पञ्चपाद्यौणादिकसूत्रे, भट्टोजिदीक्षितेन शब्दकौस्तुभे, कातन्त्रपरिशिष्टे श्रीपतिदत्तेन ‘हेतौ वा” इति सूत्रबृत्तौ च वैयाकरणत्वेन स्मृतः । काशिकावृत्यनुसारेण स हि चक्रवर्माख्यस्य पुत्रः । चक्रवर्मा हि वायुपुराणानुसारं कश्यपस्य पौत्रः चाक़ वर्मणो हि आपिशलिना औणादिकसूत्रे (३।१४) स्मृतत्वात्तस्य तत्पूर्ववतत्वं तु सिध्यति किन्तु तस्य पूर्वसीमानिर्धारणाय न वयं समर्थाः । युधिष्ठिरो मीमांसकस्तं विक्रमपूर्वसहस्राब्दीममितः । स्थितिमन्तं मन्यते ।

चाक्रवर्मणस्य न किञ्चिदपि सूत्रमद्योपलभ्यते व्याकरणसम्बद्धम् । तेन तस्य व्याकरणसम्बद्धमतविषये वयं स्वल्पमेव जानीमः । पाणिनिरपि तं स्वग्रन्थे एकवारमेव स्मरति ‘ई३ चाक़ वर्मणस्य' इति सूत्रे । तदनुसारेण ई३ प्लुतोऽचि परे अप्लुतवद्वा भवति यथा अग्नी ३इति । तथैव तन्मते औणादिककपन्प्रत्ययस्थाने कपप्रत्ययो मतो यस्य स्वरे एव भेदः । शब्दकौस्तुभे चाक्रवर्मणमतानुसारेण द्वयपदस्य , सर्वनामसंज्ञाभावमधिवक्ति यत्पाणिनिमतेन नैव सिध्यति । शिशुपालबध महाकाव्यकारेणमाघकविना द्वादशसर्गस्य त्रयोदश श्लोके प्रयुक्त द्वयेवा इति पदं चाक़मर्णस्य मतानुसारि इति मन्यते । पाणिनिमते तु द्वयानामेव भवति द्वयशब्दस्य सर्वनामसंज्ञाभावात्तत्र ‘सर्वनाम्नः सुट् । इत्येतस्य नैव प्रवृत्तिर्भवति । तत्र भट्रोजिदीक्षितः पठति - ‘यन्तु कञ्चिदाह चाक्रवर्मणव्याकरणे द्वयपदस्याऽपि सर्वनामताभ्युपगमात् तद्रीत्याऽयं प्रयोग इति, तदपि न मुनित्रयमतेनेदानीं साध्वसाधुविभागः । तस्यैवेदानीन्तनशिष्टैवैदाङ्गतया परिगृहीतत्वात् । दृश्यन्ते हि नियतकालाः स्मृतयः । यथा कलौ पाराशरी स्मृतिरिति। खण्डनमिदं युधिष्ठिरमहाभागो नैव संवदते । स हि ‘यथोत्तरं मुनीनां प्रामाण्यं' इति मतं व्याकरणविरुद्धं मन्यते । तन्मते कुत्रचिन्मतभेदेन रूपद्वयसम्भावनायोमुत्पन्नायां द्वयोरेव प्रयोगः सम्मतः । उक्तमेव स्वयमेव महाभाष्यकारेण इहान्ये वैयाकरणा मृजेरजादौ सङ्क्रमे विभाषा वृद्धिमारभन्ते, तदिहाऽपि साध्यमिति। तेन पाणिनिमते ‘अपित्सार्वधातुकम्' इति ङित्वेन वृद्धिनिषेधात् ‘भृजन्ति' एवं रूपं भवन्ति किन्तु अन्यमते मार्जन्ति इत्यपि भवति । भाष्यकारो हि इतरवैयाकरणसम्मतरूपाणामपि साध्यत्वं मन्यते । वस्तुतस्तु 'नियतकालाः स्मृतयः' इति । धर्मशास्त्रविषयः । देशकालानुसारेण सामाजिकावश्यकताया अपि परिवर्तनीयत्वात्तदनुकूलनाय स्मृतिष्वपि किञ्चित्परिवर्तनं स्वाभाविकमेव भवति । किन्तु व्याकरणे न तथाऽऽपतति । कदाचिद्रूपद्वयसिद्धावपि उभयोरेव प्रयीगे समाजस्य . का हानिः ? अपरञ्च, पाणिनीया हि शब्दनित्यत्ववादिनः ‘सिद्धे शब्दार्थसम्बन्धे “सर्वे सर्वपदादेशी दाक्षिपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्वं नोपपद्यते', इत्यादि वचनात् । तथामते कथं सिद्धस्य शब्दस्यांसाधुत्वं सम्भवति ? अनित्यत्वे हि शब्दे देश-कालोच्चारणानुसारेण विकृतिरनुज्ञाप्यते । तथा सति एकतः शब्दनित्यत्वमतं हि निराकृतं भवति, अपरतश्च विकृतमपि रूपं साधु मन्तव्यम् । उमे एव स्थिती आपद्धेतुके । तथा च तथामते ‘महान् हि शब्दस्य प्रयोगविषयः' इति भाष्यकारवचनमपि दूषितं भवति । तेन नियतकालाः स्मृतयः' इतिवत् ‘यथोत्तरं मुनीनां प्रामाण्यं इत्यपि सदोषमेव । पूर्वसम्मत-रूपास्वीकारे शब्दनित्यत्वहानात् । 

अथ प्रसङ्गाद् द्वेयशव्दस्य सर्वनामसंज्ञाविषये विचार्यते । द्वयशंव्दो हि सङ्ख्या वाचकद्विशव्दान्निष्पद्यते द्वे अवयवे आपेति द्विशब्दात् ‘सद्व्याया अवयवे तयप् इति तयपि तस्य स्थाने 'द्वित्रिभ्यां तयस्यायज्वा सूत्रेण अयजादेशे द्वयशव्दसिद्धिः । अयजोंऽनल्विधित्वात्स्थानिवद्भावेन तंयपः ‘प्रथमचरमतयाल्पार्धकतिषयनेमाश्च' इति सूत्रेण जसि विभाषा सर्वनामसंज्ञा भवत्येव किन्तु यथोत्तरमुनिप्रामाण्यवादिनां मते तु तन्न भवति महाभाष्ये ‘अयच्प्रत्ययान्तरं इति अयचः प्रत्ययान्तरविधानात् । किन्तु महाभाष्ये एव द्वये प्रत्यया विधीयन्ते तिङश्च' कृतश्च इति वचने द्वयपदस्यापि सर्वनामसंज्ञा मतैवान्यथा ‘जशः शिः' इत्यस्य तत्र । कथं प्रबृत्तिः । एकतोऽयच्प्रत्ययस्य तयप आदेशं निषिध्य पृथक्प्रत्ययविधानमपरतश्च द्वयपदस्य सर्वनामव्यवहार इति कथं परस्परविसंवादिकपनं सम्भवति महाभाष्यसदृशग्रन्थे ? तेन हि द्वयशव्दस्य महाभाष्यकारमते सर्वादिवत्सर्वनाम : संज्ञा मतैव । एतन्मतविभेदनिराकरणाय चन्द्रगोमिना प्रथम इति सूत्रे एवं । अयच्प्रत्ययान्तस्याऽपि समावेशः कृतः । तेन स प्रकृतं सूत्र ‘प्रथमचरमतयाल्पार्धकतिपयनेमाश्च' इति पठति । हेमचन्द्रोऽपि अमप्रत्ययं पृथगेव मत्वा तथैव पठति, त्रयशब्दस्य जसि वा सर्वनामसंज्ञा मन्यते च । स हि माघस्य 'व्यथां द्वयेषामपि मेदिनीभृतां, इति पाठेन भाव्यम् । किन्तु यदि तदपपाठस्तदा नास्माकं किञ्चिद्वक्तव्यम् । यदि तु तदेव तस्य रूपत्वेन सम्मतं तदा तु “यथोत्तरमुनिप्रामाण्यमतमात्रेण तस्य दूषणं न शोभनम् । सिद्धरूपासिद्धौ शव्दनित्यत्वहानाद्विकृतशब्दसाधुत्वापत्तेश्च । तेन भट्टोजिदीक्षितस्य मुनित्रयमतेनेदानीं साध्वसाधुविभाग इति मतं चिन्त्यमेव । चाक़ वर्मणविषये इतोऽधिकं न वयं : किञ्चिदयप्नुमातुं समर्थाः प्रमाणाभावात् । 

भारद्वाजश्चान्यतम् पणिनिस्मृतो वैयाकरणः । भारद्वाजोऽयं भरद्वाजपुत्रो वां भारद्वाजगोत्रीयो वा भरद्वाजाभिजनो वेति नैव निश्चेतुं शक्यते । उदीच्या दिशि भरद्वाजो नाम देशविशेषोऽपि स्मृतः–‘आत्रेयाश्च भरद्वाजाः प्रस्थलाश्च कसेरुकाः' इति महाभारतोक्तः। भरद्वाजाभिजनोऽपि भारद्वाजः सम्भवति ।

भारद्वाजो हि पाणिनिना केवलमेकवारमेय स्मृतः ‘ऋतो भारद्वाजस्य' इति सूत्रे । तदनुसारेण ‘अचस्तास्वत्थल्यनिटो नित्यम् ।' इति नियमस्य नियमान्तरव्यवस्थापकसूत्रमिदं तासौ नित्यानिट ऋदन्तादेव थलो नेडिति नियमं करोति ऋदिगभाजन्ता तु भवत्येवेति नियमोऽनेन सिध्यति । तेन “चकर्थ किन्तु भारद्वाजमते जिगयिथ अन्यमते तु जिगेथ ।

अष्टाध्याय्यामेव ‘कृकणपर्णाद्भारद्वाजे' इति सूत्रं भारद्वाजस्योल्लेखः । तत्र भारद्वाजशब्दोऽपि देशवचन एव न गोत्रशब्द इति काशिकायामुक्तम् । तस्य हि व्याकरणसम्बद्धमतं तैत्तिरीयप्रातिशाख्ये मैत्रायणीयप्रातिशाख्ये च समृद्धतं दृश्यते । आद्ये यथा । ‘अनुस्वारेऽण्विति भारद्वाजः । तत्रैव आख्यातानि भारद्वाजदृष्टानीति मतानि । महाभाष्ये भारद्वाजीयवातिकान्यपि स्मर्यन्ते । यदि तेषां पाणिनीयसूत्रानुगतत्वं सिध्यति तदा भारद्वाजस्य पाणिनिपरर्वांतत्वं सिध्यति, सूत्रे एव तस्य पाठान्तस्य पाणिनिपूर्ववतत्वमपि सिद्धमेव । तेन सूत्रस्मृतो भारद्वाजोऽन्य एव वृत्तिकारतद्भिन्नोऽन्य एवेत्यनुमीयते । एतदतिरिक्त भारद्वाज-अर्थशास्त्रे आयुबँदै च ग्रन्थकृत्त्वेन स्मृतस्तस्य मतानि च तत्रतत्रोधृतानि दृश्यन्ते । युधिष्ठिरमहाभागस्तं चक्रवर्मणसमसामयिक मन्यते । वयन्तु तमेव प्रणमामः प्रमाणाभावात् । 

शाकटायनो हि बहुत्र व्याकरणाचार्यत्वेन सादरं स्मृतः । भगवान्पाणिनिस्तं त्रिवारं स्मरति ‘लङ:शाकटायनस्यैव, व्योर्लघुप्रयत्नेतरः शाकटायनस्य 'त्रिप्रभृतिषु शाकटायनस्य' इति सूत्रेषु । तथैव वाजसनेयीयप्रातिशाख्ये ऋक्प्रातिशाख्ये निरुक्त महाभाष्ये काशिकायां चतुरध्याय्यां ऋक्तन्त्रे बृहद्देवतायां, नानार्थर्णवसंक्षेपे शाकटायनः स्मृतोऽस्ति क्वचित्सिद्धान्तित्वेन तु क्वचित्पर्व 'पक्षत्वेन । अर्थतत्क्रमेण विविच्यते ।

पाणिनिः शाकटायनं सिद्धवैयाकरणत्वेन स्मरति । तत्र अन्यमते .आतः परस्य ङित्सम्बन्धिने झेर्जुस् भवति । शाकटायनमते तु आदन्तात्परस्य लो झेर्वा जुस् भवति । यथा-या-अयुः, पाणिनिमते जुसोऽभावात् अयान् इति । तथैव शाकटायनमते पदान्तयोर्वकारयकारयोर्लधूच्चारणौ वयौ भवतोऽशि परे विकल्पेन । यथा भोयच्युत । शाकल्यमते तु तादृशयोर्वययोर्लोप एव भवति अवर्णपूर्वयोः, गार्यमते ओकारात्परयोरपि । पाणिनिमते तु तादृशयोर्यवयोः. पूर्णमेवोच्चारणं भवति लोपश्चन । शाकटायनमते त्र्यादिषु वर्णेषु संयुक्त षु न द्वित्वं भवति यथा इन्द्रः । पाणिनिमते तु भवत्येव द्वित्वं यथा इन्द्रः ।

यास्काचार्येणाऽपि स आचार्यत्वेन स्मृतः । यथोक्तं तत्र नामान्याख्यातज़ानीति शाकटायनो नैरुक्तसमयश्च । महाभाष्येऽप्युक्तम् - 'व्याकरणे शकटस्थ तोकम् वैयाकारणानां शाकटानः काशिकायामुक्तम् - अनुशाकटायनं वैयाकरणाः उपशाकटायनं वैयाकरणाः वैयाकरणेषु शाकटायन एवैतादृशो विपश्चियः सर्वाण्यपि नामानि आख्यातजातानि मन्यते स्म । तद्विवारेऽव्युत्पन्नो नाम नैव कश्चिच्छब्दः । दुर्गाचार्यादयः शाकटायनस्येदं मतं अतिपाण्डित्याभिमानमण्डितमपि मन्यन्ते स्म । यथोक्तं निरुक्ते - 'अथानन्वितेऽप्रादेशिके विकारे पदेभ्यः पदेतरार्धान् संञ्चस्कार शाकटायनः । एतैः कारितं यकारादि चान्तः करणमस्तेः शुद्धश्च सकारादि च', योऽनन्वितेऽर्थे सञ्चस्कार स तेन गह्यः सैषा पुरुषगह न शास्त्रगर्दा । तथैव च महाभाष्ये -

नाम च धातुजमाह निरुक्त व्याकरणे शकटस्यं च तोकम्।  चतुरध्याय्यां चतुर्थाध्याये कौत्सीयपाठे उक्त -

समासावग्रहविग्रहान् पदे यथोवाचे छन्दसि ।

शाकटायनस्तथा प्रवक्ष्यामि चतुष्टयं पंदम् ।।

नानाथर्णवसङ्क्षेपे केशवाचार्यः शाकटायनमादिशाब्दिकत्वेन स्मरति । यथा -

यद्यपि शाकट्टायनस्य व्याकरणं सम्प्रति नोपलभ्यते तथापि तत्र तत्र समुदधृतप्रमाणैज्ञते यद्धितहसर्वाङ्गपूर्ण सटिप्पणञ्चासीत् । तत्र हि वैदिकानां लौकिकानाञ्च पदानामञ्चाख्यानमासीत् । नागेशभट्टो यल्लौकिकपदानामेवान्वाख्यानं शाकटायनीयव्याकरणविषषं मन्यते तच्चिन्यमेव यत् स एव पञ्चपादीमुणादिमपि शाकटायनकृति मन्यते यत्र वैदिकानामपि शब्दानामंन्वाख्यानं कृतमस्ति । अपरञ्च प्रातिशाख्येषु तस्य शतशः स्मरणाच्छाकटायनीये लौकिकशब्दानामेवान्वाख्यानस्य कथनं महंती त्रुटिरेव । सम्भवति जैनशाकटायनंव्याकरणं प्राचीनार्षशाकटायनं मत्वैवैष भ्रम उत्पन्नः स्यात् ।

शाकटायनो हि अनेकैश्च धातुभिरेकमभिधानमनुविहितवान् एकेन चैकमिति दुर्गाचार्यः । स हि सत्यशब्दस्य सिद्धिं ‘इण' (गतौ) तथा ‘अस' (भुवि) धात्वोनिदिशति । यथाऽऽह स्कन्द -

नामपदानामनेकधातुभ्यो व्युत्पत्तिर्नकेवलं . शाकटायननिर्दिष्टा अपितु शाकपूणिप्रभृतिनैरुक्ताचार्या अपि तथा व्युत्पादयन्तिस्म। ब्राह्मणारण्यकग्रन्थेषु च तथाविधा अनेका व्युत्पत्तयो दृश्यन्ते । यथा हृदयमिति-हरन्त्यस्मै स्वाश्चान्ये चेति ‘हु', इत्येकमक्षरं, दमन्त्यस्मै स्वाश्चान्ये चेति द इत्येकमक्षरं, एति स्वर्गलोकं य इति यमित्येकमक्षरम् । भर्ग इति-भ इति भाषयतीमाँल्लोकान्, र इति रञ्जयतीमानि भूतानि, ॥ इति गच्छन्त्यस्मिन्नागच्छन्त्यस्मादिमाः प्रजाः तस्माद्भरणत्वाद्भर्गः । शाकटायनमते शब्दानां त्रिविधत्वम्। यथाऽऽह न्यासकारो जिनेन्द्रबुद्धिः.' तदेवं निरुक्तकारशाकटायनदर्शनेन त्रयी शब्दानां प्रवृत्तिःजातिशब्दाः क्रियांशब्द गुणाशब्दाश्चेति ।

शाकटायनमते न सन्ति यदच्छाशब्दाः । प्रायः सर्वेषामाचार्याणां मते प्रादय उपसर्गाः शाकटायनमते 'अच्छ', 'श्रद्’ अन्तर' एते त्रयोऽप्युपसर्गाः । यथाऽऽह वृहद् देवतायां शौनकः -

अच्छश्रदन्तरित्येतानाचार्यः शाकटायनः ।

उपसर्गान् क्रियायोगान् मेने ते तु त्रयोऽधिकाः ।।

एतदधिकं शाकटायनविषये न किञ्चिदप्यस्माकं मतमस्ति । एतदतिरिक्त शाकटायनस्य दैवतग्रन्थः निरुक्त, कोषः ऋक्तन्त्रं, लघुऋक्तन्त्रं, सामतन्त्रं, पञ्चपादमुणादिसूत्र, श्रद्धकल्पश्चेति शाकटायनप्रणतित्वेन सम्मता ग्रन्थाः । शाकटायनं यास्कस्तत्पूर्ववर्ती शौनकश्च स्मरतीति तौ एव तस्य स्थितिकालस्यावरसीमानौ । तत्स्थितिकालस्य पूर्वसीमा तु अनुमानाधीना एव । तं, हि केचन काण्वशिष्यं मन्यन्तेऽपरे तु काण्वापरभिधानमेव । तथा सति तस्य स्थितिकालो विक्रमपूर्वतृतीयसहस्राब्दीसम सम्भवति । तथैव युधिष्ठिरमहाभागेऽपि निदिशति । वयं तु निर्गतिकासामेव प्रणमामः। 

भगवता पाणिनिना स्वपूर्ववतवैयाकरणत्वेन स्मृतेषु आचार्येष्वन्यतमः । शाकल्यः । स हि पाणिनिसूत्रेषु चतुर्वारं स्मृतो यथा सम्बुद्धौ शाकल्यस्येतावनार्षे, इकोऽसवणे शाकल्यस्य ह्रस्वश्च, लोपः शाकल्यस्य, सर्वत्र शाकल्यस्य इति । तथैव स शौनकेन ऋक्प्रातिशाख्ये तथैव कात्यायनेन वाजसनेयीयप्रातिशाख्ये महाभाष्ये च स्मृतः ।

शाकल्यस्यापि व्याकरणग्रन्थस्तु नैवोपलभ्यते किन्तु ग्रन्थान्तरसहयोगाच्छाकल्यव्याकरणसम्बद्धमतं किञ्चिज्ज्ञायते । पाणिनीयोद्धरणानुसारेण सम्बुद्धिनिमितक ओकारो वा प्रगृह्यो भवति तु द्वितीयमेव रूपं सिध्यति । तथैव असवर्णेऽचि परे इक पदान्ता प्रकृत्या भवन्ति दीर्घस्य ह्रस्वश्च भवति शाकल्यमतेन । यथा कुमारी+अत्र= कुमारि अत्र । पाणिनिमते कुमार्यत्र । एवञ्च अवर्णपूर्वयोः पदान्तयोर्यवयोपो भवति वाऽशि परे । यथा हर इह, हरयिह । पाणिनिमते तु द्वितीयमेव रूपम् । तथैव शाकल्यंमते अचंः परस्य यरः सर्वत्रैव न द्वित्वंम् । इन्द्रः । पाणिनिमते तु इन्न्द्र। एतदपि ज्ञायते, यच्छाकल्यव्याकरणे वैदिककानां लौकिकानाञ्च शब्दानाभन्वाख्यानं कृतमासीत् ।

शाकल्यो हि शाकलाख्यस्य पुत्रः स्मृतः । शाकलशब्दो हि पाणिनिना। गर्गादिगणे पठितः । शाकल्यः शौनकेन ऋक्प्रातिशाख्ये स्मृतत्वात् तस्य शौनकपुर्वकालवंतता तु निश्चितैव । युधिष्ठिरमहाभागस्तं विक्रमपूर्वैकत्रिशच्छतकमभितः। स्थितिमन्तं मन्यते । वयमपि तदेव मद्धध्मः । शाकल्यो हि वेदसंहिताया अपि प्रवक्ता स्मृतः । यथोक्त वायुपुराणे-वेदमित्रस्तु शाकल्यो महात्मा द्विजस्तम्भः । । चकारसहिताः पञ्चबुद्धिमान् पदसत्तमः। :: एवमेव शाकल्यकृतः पदपाठश्च स्मर्यते ग्रन्थेषु । एतदधिकं शाकल्यविषये न किमपि वयं जानीमः ।

सेनकाचार्यः पाणिनिना 'गिरेश्च सेनकस्य' इति सूत्रे स्मृतः ।। गिर्यन्तांदव्ययीभावाट्टज्वा भवति सेनकमतेन, उपगिरम्, उपगिरि । पाणिनिमते द्वितीयमेव रूपं भवति । आचार्योऽयं पाणिनिपूर्ववर्ती इति तु ज्ञातमेव पाणिनीयसूत्रे तस्योल्लेखात् । तदधिकं तद्विषये किमपि न वयं जानीमः । 

भगवान् पाणिनिः स्फोटायनाचार्य 'अवङ् स्फोटायनस्य' सूत्रे स्मृति । एतदतिरिक्तमस्याचार्यस्य न कुत्राप्युल्लेखो दृष्टः । स्फोटायनस्याऽपि व्याकरणं सम्प्रति नैवोपलभ्यते । पाणिनीयसूत्रानुसारेणैव तस्य सिद्धान्तो ज्ञातुं शक्यते । स हि अचि परे गोरवङादेश वाञ्छति, विकल्पेन । गो+अग्र = गवांग्रम् । पाणिनिमते तु सर्वत्र विभाषा । गोः' इति वा प्रकृतिभावेन गो अग्रं पक्षे तु ‘एड: पदान्तादति' इति पूर्वरूपेण * गोऽग्नम्। इन्द्रे, परे तु नित्यमवङादेशो भवति । तेन गो-इन्द्र =गवेन्द्रः ।

स्फोटायनस्य व्युत्पत्तिर्यथा : हरदत्तेन पदमञ्जय निर्दिष्टा स्फोटोऽयनं ।। परायणं यस्य स स्फोटायनः स्फोटप्रतिपादनपरो वैयाकरणाचार्यः । ये त्वौकारं. पठन्ति ते नडादिषु अंश्वादिषु वा पाठ मेन्यन्ते । केचित्तमौदुम्बरायणमपरें तु, कक्षीवानिति संजितमपि । कक्षीवच्छंब्दो हि पाणिनेः, सूत्रानुसारेण  नियत्नासिध्यति ।  

स हि वैमानिकाचार्यत्वेनापि स्मर्यते । 'चित्रिण्येवेति स्फोटायनः' इति मन्त्रसर्वस्वे भारद्वाजेन तथा स्मृतत्वात् । तस्य स्थितिकालविषये वयम किञ्चिज्ज्ञा एव । युधिष्ठिरो हि मीमांसकस्तस्य विक्रमपूर्वत्रिशेच्छतकमभितः स्थिति मन्यते । स हि अस्माकं वन्द्यः । स्फोटसिद्धौ भरतमिश्रः स्फोटवादस्य प्रवर्तकत्वेन औदुम्परायणं स्मरति । स्फोटायनस्यौदुम्बरायणाभिधानं यदि प्रमाणितं भवति तदा तु व्याकरणे स्फोटवादस्य प्रवर्तकत्वेन स्फोटायन एवोत्तिष्ठते । किन्तु तन्निरूपकप्रमाणाभावे तु वर्णसादृश्यमेव तत्रावशिष्यते । 

वस्तुतस्तु व्याकरणे स्फोटवादः शब्दनित्यत्ववादस्यांधारशिला। स्फोटेस्तु, द्रव्यं ध्वनिस्तस्य गुणः । स्फोटायनस्तस्याद्यप्रवर्तक इति तु परस्परोपयुक्तता मादधते । स्यादपि तथा । इत्थं पाणिनिस्मृता दश वैथेाकरणा यथामतिः समुपणिताः। अथांगाभिः प्रकरणे व्याकरणकेन्द्रस्थानन्वेन सम्मतस्य भगवतः पाणिनेविषयें किञ्चिदुच्यते | एतदतिरिक्त व्याकरणे सौनागमतमपि महाभाष्यकारेण सप्तवारं स्मृतम् । यथोक्तम् -  'सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन' इति । सुनोग' प्रवर्ततं मतमिदमन्यत्रापि समुद्धृतं दृश्यते । तदतिरिक्तमपि यास्काचार्येण: उदुम्बरायण औपमन्यव-काठक्य-चर्मशिरस्तैचिकी-शाकपूणिशतबलाक्ष-मौद्गल्य ! स्थौलस्थिविप्रभृतयो व्याकरणसम्प्रदायप्रवर्तकाः स्मृताः सन्ति । तत्रापि शाक पूणिरन्यत्रापि स्भृतो दृश्यते । तेषां विषयेऽनुसन्धानमपेक्षितमस्ति।

पञ्चतन्त्रानुसारेण पाणिनेः मृत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति । 
मृत्युः इति स्थाने मृत्युः इति भवितव्यम्।

अष्टाध्यायी

माहेश्वरसूत्राणि

जाम्बुवतीविजयम् काव्यम्




#Article 5: मनमोहन सिंह (1307 words)


पूर्वम् आङ्ग्लशासितपञ्जाबप्रान्ते गाह इत्यत्र (साम्प्रतं पाकिस्तानमध्ये चतवाल् जनपदे) सिक्खखत्री परिवारे १९३२ तमे वर्षे २६ सप्टेम्बरदिनाङ्के गुरुमुखसिंह -अमृतकौरदम्पत्योः श्री मनमोहनसिंहः जातः .। यदा सः अल्पायुरासीत् तदैव मात्रा वियुक्तः अभवत्। पितामह्या पोषितः ।अतः सः तस्याः अतीव निकटवर्ती आसीत् ।
भारतदेशस्य विभाजनस्य पश्चात् तस्य परिवारः भारते अमृतसरं प्रति स्थानान्तरितः अभवत् । तत्र सः हिन्दुमहाविद्यालये अपठत् । सः चण्डीगढस्थितं पञ्जाबविश्वाविद्यालयं प्रविश्य अर्थशास्त्रमधीतवान्। तथैव क्रमेण १९५२, तथा १९५४ मध्ये स्नातकपदवीं स्नातकोत्तरपदवीं च प्राप्नोत् । तस्य विद्यार्जनकाले सः सदैव सर्वप्रथमः आसीत् । अनन्तरम् अर्थशास्त्रस्य ट्रायपास-अभ्यासक्रमं पठितुं सेण्ट्-जान्-महाविद्यालयं प्राविशत् । १९५५ तः१९५७ वर्षपर्यन्तं कृतस्य विशेषयोग्यतासम्पादनस्य निमित्तम् सः राइट्स् पुरस्कारं प्राप्तवान् । तथैव रेनबरीछात्रवृत्तेः ये कतिपयाः एव प्रतिग्राहकाः(स्वीकर्तारः) आसन् तेषु सः अन्यतमः अभवत् । आक्सफर्डविश्वविद्यालयस्य नफील्ड् महाविद्यालयस्य सः सदस्यः आसीत् । तेन तत्कृते प्रस्तुतस्य शोधप्रबन्धस्य शीर्षकम् एवम् आसीत् -१९५१-६० कालावधौ भारतस्य निर्यातनिष्पादनम् -निर्यातप्रत्याशाः-नीति-विवक्षाः च। (India's export performance, 1951-960, export prospects and policy implications .) । डा. IMD Little (आ एम् डी लिटल्) तस्य प्रबन्धस्य अधीक्षकः आसीत् । अनन्तरम् अयमेव प्रबन्धः 'भारतस्य निर्यातप्रवृत्तयः -स्वसंवार्धितवृद्धये प्रत्याशाः च' इति नाम्ना पुस्तकत्वेन प्रकाशितः ।
१९९७ मध्ये अलबर्टाविश्वविद्यालयेन सः विधिज्ञानविषये गौरवडाक्टरेट्-पदव्या सम्मानितः । जुलै २००५ मध्ये आकसफर्डविश्वविद्यालयः तस्मै व्यवहारविधिज्ञानविषये गौरवडाक्टरेट्-पदव्या सम्मानितः । अक्टोबर २००५ मध्ये केम्ब्रिड्जविश्वविद्यालयेन अपि तस्मै स एव सम्मानः दत्तः।  डा. मनमोहनसिंहछात्रवृत्तिः इति तस्य नाम्ना PhD छत्रवृत्तिम् आरभ्य सेण्ट जान् महाविद्यालयेन सः सम्मानितः । 
२००८ मध्ये सः बनारस् हिन्दुविश्वविद्यालयेन Doctor of Letters इति मानदपदव्या अलङ्कृतः । तस्मिन्नेव वर्षे मद्रासविश्वविद्यालयः अपि तस्मै गौरवPhD पदवीम् अददात् । २०१० मध्ये किङ्ग् सौद् विश्वविद्यालयेन तस्मै मानदPhD पदवी दत्ता । पी.हेच्.डी प्रबन्धकार्यं समाप्य श्रीमनमोहनसिंहः १९६६ -६९ पर्यंतं संयुक्तराष्ट्रसंघस्य वाणिज्यविकाससङ्घटनायाः कृते कायरतः आसीत् ।१९७० दशके सः देहलीविश्वविद्यालये अध्यापनकार्यमकरोत् । पूर्वं केन्द्रीयविदेशवाणिज्यमन्त्रिणा श्रीललितनारायणमिश्रमहोदयेन सह सः विदेशवाणिज्यमन्त्रालये सेवारतः आसीत् । विदेशवाणिज्यमन्त्री श्रीललितनारायणमिश्रा सर्वप्रथमः मन्त्री आसीत् येन मनमोहनसिंहमहोदयस्य अर्थशास्त्रे प्रतिभा अभ्यवज्ञाता । श्रीमिश्रा तं विदेशवाणिज्यमन्त्रालये 'विमर्शदाता’ इति नियुक्तवान् । (पूर्वं श्रीमिश्रा, सान्तियागो, चिली इत्येतयोः स्थानयोः संयुक्तराष्ट्रसङ्घस्य वाणिज्यविकाससङ्घटनायाः सभायां भागं वोढुं विमानेन गच्छन्नासीत् तदा योगयोगेन श्रीमनमोहनसिंहमहोदयस्य मेलनम् अभवत् ।)
१९८२ मध्ये श्री मनमोहनसिंहमहोदयः भारतीयरिझर्ववित्तकोषस्य गवर्नरपदे नियुक्तः । स १९८५ पर्यन्तं तत्पदं धारयामास । ततः १९८५ ते १९८७ पर्यन्तं योजना-आयोगस्य उपाध्यक्षोऽभवत् । १९८७ तः १९९० पर्यन्तं स्विट्झरल्याण्डस्य जिनीवा इत्यत्र यस्य मुख्यालयः आसीत् तस्य दक्षिण-आयोगस्य सः महासचिवः अभूत् । अयम् आयोगः आर्थिकनीति- विषयकचिन्तनस्य स्वतन्त्रः आगरः आसीत् ।

भारतस्य वित्तमन्त्री -१९९१ मध्ये तत्कालीनः प्रधानमन्त्री श्री.पी.वी.नरसिंहरावः श्री मनमोहनसिंहमहोदयं वित्तमन्त्री इति अचिनोत् । तस्मिन्समये भारतस्य धनसम्बन्धि अपूर्यत्वम् अस्माकं स्थूलगृहोत्पादनस्य ८.५ प्रतिशतम् आसीत् तथैव देयादेयसमीकरणे अपि महत् अपूर्णत्वम् आसीत् । प्रचलत्यां लेखागणनायाम् अपूर्णत्वमपि स्थूलगृहोत्पादनस्य ३.५ प्रतिशतस्य समीपम् आसीत् । भारतस्य विदेशमुद्रासञ्चयः अपि एक-अब्जं यू. एस् डालर्समात्रम् आसीत् । सः निधिः केवलं कतिचित् सप्ताहानाम् आयातानां शुल्कपूर्तये मात्रं पर्याप्तम् आसीत् ।
तत्तुलनया अद्य तु स एव निधिः २८३ अब्ज यू एस् डालर्स् अस्ति। भारतस्य पुरतः आर्थिकसङ्कटमस्ति । एवं सति भारतप्रशासनेन अन्तार्राष्ट्रियवित्तकोशात् साहाय्यम् अभियाचितम् । तेन कोशेन आर्थिकसाहाय्यं तु कृतं तथापि भारतस्य आर्थिकनीतिमुद्दिश्य बहवः निर्बन्धाः निविष्टाः तेन । परिणामतः वित्तकोशेन आदिष्टनीत्यनुसारेण अस्माकं यत् सर्वव्यापि अनुज्ञप्तिशासनम्(अनुज्ञप्तिप्रणाली) आसीत् तत् परिहर्तव्यमभवत् । अपि च भारतस्य अर्थव्यव्स्थां प्रशासनाधीनां कर्तुं यः प्रयत्नः आसीत् तस्यापि समाप्तिः आवश्यकी अभवत् । तदनुसृत्य एतावत्पर्यन्तं भारतस्य समाजोन्मुख अर्थव्यवस्थायाः अधिकतमः प्रभावी शिल्पी श्री मनमोहनमनमोहनसिंहमहोदयः शनैः विदेशीनिवेशार्थं व्यवसायक्षेत्रे स्पर्धायै च द्वाराणि उद्घाटितवान् ।
श्रीनरसिंहरावमहोदयः, श्रीसिंहमहोदयश्च तादॄर्शीनां नीतीनां कार्यान्वयनमकुरुतां येन अर्थव्यवस्था निरर्गला अभवत् अस्माकं समाजोन्मुखी अर्थनीतिः धनिकानुकूलया नीत्या परिवर्तिता । एवं च एतावत्पर्यन्तं येन अनुज्ञाप्तिशासनेन वैयक्तिकव्यवसायानां समृद्धिः बाधिता आसीत् सा नष्टा । तौ उभौ विदेशीनिवेशस्य मार्गे ये विघ्नाः आसन् तान्दूरीकृत्य सार्वजनिक-उपक्रमानां निजीकरणस्य क्रमं प्रारब्धवन्तौ (प्रारभताम्)। एतेषु संशोधनेषु सत्सु अपि १९९६ मध्ये रावप्रशासनम् अन्येषु क्षेत्रेषु सम्यक् निष्पादनाभावे पराजितम् । चिरकालीनः केन्द्रीयमन्त्री श्री चिदम्बरं भारतस्य अर्थव्यवस्थां विपणोन्मुखार्थिकनीत्यां परिणमयितुं श्री मनमोहनसिंहः प्रचोदितवान् इति। तं भारतस्य 'डेङ्ग क्झिआओपिङ्ग 'इति प्रशंसया सम्बोधितवान् । १९९३ मध्ये १.८ अर्बुद यू एस् डालर्स् प्रतिभूत्याः अपवादं प्रागेव अपेक्षितुं वित्तमन्त्रालयः असमर्थः अभवत् इति संसदीयान्वेषणसमितेः अभिवेदने वित्तमन्त्रालयस्य भर्त्सना कृता। अतः श्री मनमोहनसिंहमहोदयः वित्तमन्त्रीपदस्य त्यागपत्रं दातुमुद्युक्तः । तथापि प्रधानमन्त्री श्री रावमहोदयः तस्य त्यागपत्रं न स्वीकृतवान् प्रत्युत अभिवेदने येषामुपरि दोषारोपाः आसन् तान् व्याक्तिशः दण्डयितुमभिवचनं ददौ ।

श्री मनमोहनसिंहमहोदयः आदौ १९९१ मध्ये संसदः वरिष्ठसदने राज्यसभायाः कृते निर्वाचितः । २००१, २००७ मध्ये च सः पुनर्निर्वाचितः । १९९८-२००४ पर्यन्तं यदा भारतीयजनतापक्षः सत्तारुढः आसीत् तदा श्री मनमोहनसिंहमहोदयः राज्यसभायां विपक्षस्य नेता आसीत् । १९९९ मध्ये सः लोकसभासदस्यत्वाय दक्षिणदेहलीतः प्रत्याशी आसीत् परं सः जेतुम् असमर्थोऽभूत्। 

आर्थिकनीतिः-

१९९१ मध्ये केन्द्रीयार्थमन्त्रिपदं धारयन् श्री मनमोहनसिंहमहोदयः यत् 'अनुज्ञप्तिशासनं’ भारतस्य मन्दार्थिकप्रगतेः तथा च दशकेभ्यः अर्थव्यवस्थां प्रविष्टस्य भ्रष्ट्राचारस्य कारणमासीत् । तस्मात् आन्तराष्ट्रियवित्तकोशस्य सूचनानुसारं, तस्य मोचनं कृतवान् । विकासस्य वेगं नाटकीयरीत्या वर्धयितुं सः अर्थव्यवस्थाम् अनर्गलामकरोत् । सः भारतीयविपण्याम् आर्थिकवृद्धिं प्रोत्साहयितुं यत्नशीलः आसीत्, एतेषु विषयेषु सः सर्वाधिकं यशः अपि समपादयत् । श्रीमनमोहनसिंहमहोदयः यदा भारतीयार्थव्यवस्था ८-९ प्रतिशतं आर्थिकवृद्धिम् प्राप्नोत् तदा, पूर्ववित्तमन्त्रिणा श्री चिदम्बरम् महोदयेन सह तस्याः साक्षीभूतः अभवत् । भारतेन स्थूलगृहोत्पादनस्य ७ प्रतिशतं प्रमाणेन उच्चस्तरः सम्पादितः । जगति वेगेन वर्धमानासु प्रमुखासु आर्थिकव्यवस्थासु भारतदेशस्य व्यवस्था अन्यतमा।

जागतिकविपणीषु भारतीयवस्तूनां प्रवेशाय तथैव महतः दारिद्य्रात् मोचयितुम् अस्माकं विशाला श्रमिकक्षमतायाः उपयोगः एकः एव मार्गः (स एव अवलम्बनीयः) इति विचिन्त्य श्री मनमोहनसिंहः इदानीं जागतिकीकरणस्य बलवान् समर्थकः अस्ति । वाजपेयी प्रशासनेन प्रारब्धा सुवर्णचतुष्पथयोजना तथैव राष्ट्रियमार्गाणाम् आधुनिकीकरणकार्यक्रमः च सिंहप्रशासनेन प्रवर्तमानौ स्तः । श्री मनमोहनसिंहमहोदयः ब्याङ्किङ्ग(वित्तकोशक्षेत्रे) क्षेत्रे, आर्थिकक्षेत्रे तथैव सार्वजनिक-उपक्रमाणामक्षेत्रे अपि शोधनं कुर्वन्नस्ति । अर्थमन्त्रालयः कृषकान् तेषां ऋणात् मोचयितुं कार्यरतः अस्ति । उद्योगोन्मुखनीतयः कल्पयन् अस्ति । २००५ मध्ये सिंहसर्वकारेण विक्रयणकर- स्थाने मूल्यान्वितकरः प्रवर्तितः । २००७ तथा २००८ वर्षयोः पूर्वार्धे जागतिकमुद्रास्फितिसमस्यायाः परिणामः भारतस्योपरि सञ्जातः। 

२००५ मध्ये प्रधानमन्त्री श्रीमनमोहनसिंहमहोदयः स्वास्थ्यमन्त्रालयः च सम्भूय राष्ट्रियग्रामीणस्वास्थ्य-अभियानम् आरब्धवन्तौ। तेन लक्षशः समाज(समुदाय)सेवकाः कार्यप्रवृत्ताः । जेफ्री साक्स् इति अमेरिकीयेन अर्थशास्त्रज्ञेन अयं ग्रामीणः स्वास्थ्य-उपक्रमः चालितः । २००६ मध्ये सिंहप्रशासनेन अन्य-अनुसूचितजातीनां कृते अखिल-भारत-आयुर्विज्ञान-संस्थायां, भारतीय-तंत्रज्ञान-संस्थासु, भारतीय-व्यवस्थापन-संस्थासु एवं च अन्यासु केन्द्रीय-उच्चशिक्षणसंस्थासु २७% प्रतिशतं आरक्षणस्य प्रस्तावस्य कार्यान्वयनं कृतम् । तेन २००६ मध्ये आरक्षणविरुद्धं निषेधपराणि आन्दोलनानि जातानि, आरक्षणस्य विरोधे निषेधः प्रकटितः। 
श्री मनमोहनसिंहमहोदयः घोषितवान् यत् 'आन्ध्रप्रदेश-बिहार-गुजरात-ओरिसा-पञ्जाब-मध्यप्रदेश-राजास्थान-हिमाचल-प्रदेशेषु अष्ट अतिरिक्ताः भारतीय-तंत्रज्ञान-संस्थाः स्थापयिष्यन्ते इति । तस्य पूर्ववर्तिना श्री अटलबिहारीवाजपेयीमहोदयेन प्रारब्धं सर्वशिक्षा- अभियानकार्यक्रमं सिंहप्रशासनं प्रवर्तमानम् अस्ति । निरक्षरतां दूरीकर्तुं, मध्याह्नभोजनस्य प्रवर्तनं, तस्मिन् संशोधनं, भारते सर्वत्र, विशेषरुपेण ग्रामीणक्षेत्रेषु नूतनानां पाठशालानां स्थापना इत्यादीनां समावेशः अस्मिन् कार्यक्रमे अस्ति।

आतङ्कविरोधि-अधिनियमानां दृढीकरणाय सिंहप्रशासनमेव कारणीभूतम् । तदर्थं पोटा अधिनियमस्य प्रावधानाः UAPA अधिनियमे पुनः समाविश्य संशोधनं कृतम् । टीकाकारणां मतेन एतैः संशोधनैः अयम् अधिनियमः कठोरतरः अभवत् । नोवेमबर २००८ वर्षे मुम्बयीनगरे आतङ्ककवादीनाम् आक्रमणानि अभवन् तदा आतङ्कवादं प्रत्तिरोद्धुं (तेन प्रतियोद्धुं) केन्द्रीयव्यवस्थायाः आवश्यकताम् अवगम्य शीघ्रमेव NIA स्थापितः। अपि च २०००९ मध्ये राष्ट्रियसुरक्षाव्यवस्थां दृढीकर्तुं (वर्धयितुं), इ (इलेक्ट्रानिक) प्रशासनं सुकरं कर्तुं च बहूद्देशीय राष्ट्रिय-अभिज्ञानपत्रस्य कल्पनायाः कार्यान्वयनार्थं फेब्रुवरी २००९ मध्ये अपूर्वस्य भारतीय-अभिज्ञानप्राधिकरणस्य स्थापना कृता (Unique identification Authority of India)। 
एते उपायाः आरक्षकराज्यप्रतिष्ठापनाय साहाय्यकराः अनुकूलाः भवेयुः इति मानवाधिकारसंस्थाभिः सिंहप्रशासनस्य निन्दा कृता ।
पूर्वभारते तथा मध्यभारते ग्रामीण क्षेत्रेषु भयं जनयन्तं नक्सलानाम् आतङ्कं न्य़ूनीकर्तुम् असमर्थमभवदिति सिंहप्रशासनस्य भर्त्सनं कृतम् । सिंहप्रशासनेन तथापि इस्लामी आतङ्कवादीगणस्य निन्दापात्रमभवत्। विद्यार्थिनां भारतीय-इस्लामिक-आन्दोलन- सङ्घटनं प्रति निषेधादेशः विस्तारितः। 
काश्मीरप्रदेशे स्थैर्यं स्थापयितुं सिंहप्रशासनेन महान् पुनर्निर्माणकार्यक्रमः प्रारब्धः । परं यद्यपि आदौ किञ्चित् यशः प्राप्तं तथापि २००९ तः काश्मीरमध्ये राजद्रोहिणाम् आगन्तुकानाम् अनधिकृतप्रवेशः आतङ्कवादश्च वर्धितौ । तथापि उत्तरपूर्वभारते आतङ्कवादं न्यूनीकर्तुं सिंहप्रशासनं सफलीभूतमस्ति ।

एतत् सदैव सर्वश्रुतं यत् श्री मनमोहनसिंहः स्वच्छचारित्र्यवान् उच्चप्रतिभावान् च अस्ति इति । सः मितभाषी इति ज्ञातमेव । भारतस्य विपणीषु उपलभ्यमानेषु भारतस्य सर्वेषु कारयानेषु अतिसामान्यं मारुति ८०० कारयानं सः चालयति इति दृष्ट्वा The Independent इति पत्रिकया श्री मनमोहनसिंहः एवं वर्णितः  अयं जगतः पूज्यतमेषु अन्यतमः नेता अस्ति  तथैव असामान्यतया सभ्यः शालीनः पुरुषः  इति । ख्यातनामः खुशवन्तसिंहः अपि 'जवाहरलालनेहरुमहोदयात् अपि श्रेष्ठतरः’ इति निरुपयन् मनमोहनसिंहमहोदयः अद्यपर्यन्तं भारतस्य श्रेष्ठतमः उत्तमः प्रधानमन्त्री इति तस्य प्रशंसामकरोत् । Absolute Khushwant  The low Down on Life, Death and Most things in -between' इति।स्वस्य पुस्तके श्री खुशवंतसिंहः एकां घटनां वदति 'लोकसभायाः निर्वाचने पराजितः श्री मनमोहनसिंहः ट्याक्सीयानानां कृते यू एस डालर् ४५०० (लक्षद्वयरुप्यकाणि) ऋणं यत् स्वीचकार तत् तत्क्षणमेव सः न्यवर्तयत् । श्री खुशवतसिंहः श्री सिंहमहोदयं शुचिचारित्र्यस्य उत्तमम् उदाहरणम् इति अभिधाय प्रतिपादितवान् यत् 'यदा जनाः शुचित्वविषये वदन्ति तदा अहं यः देशस्य उच्चतमं पदं भूषयन्नस्ति स एव शुचित्वस्य उत्तमम् उदाहरणम् इति कथयामि 'इति । तथापि जून २०११ मध्ये तस्य प्रशासनं प्रति भ्रष्टाचारस्य आरोपानन्तरं तस्य लोकप्रतिमा मलिनीभूता ।

श्री सिंह १९५८ मध्ये गुरुशरणकौरं परिणीतवान् । तयोः तिस्रः अपि पुत्र्यः निजक्षेत्रे स्वस्वचर्यासु यशस्विन्यः सन्ति । श्रीमती उपिन्दरसिंह देहलीविश्वविद्यालये इतिहासस्य प्राध्यापिका अस्ति । सा षट् पुस्तकानि लिखितवती । एतेषु पुस्तकेषु  Ancient Delhi (1999)  A history of Ancient and early Medieval India (2008) अपि समाविष्टे । श्रीमती दमन् सिंह देहली स्थितस्य सेण्ट स्टीफेन् महाविद्यालयस्य, गुजरातमध्ये आणन्द इत्यत्र स्थितस्य ग्रामीणव्यवस्थापनसंस्थायाः च स्नातका अस्ति । 'The last Frontier people and Forests in Mizoram' तथा 'Nine by Nine' इति कादम्बर्याः लेखिका अस्ति सा । श्रीमती अमृता सिंह 'ACLU इत्यत्र अधिवक्त्री अस्ति ।
	सिंहमहोदयस्य बहवः हृदयशस्त्रक्रियाः संजाताः ।तासु जानेवरी २००९ मध्ये जाता चिकित्सा नूतनतमा अस्ति। 
श्री मनमोहनसिंहः तस्य पत्नी च उभावपि कोहलीजातीयौ। तथापि न कोऽपि तस्य नाम्नः प्रयोगं कुरुते ।




#Article 6: रवीन्द्रनाथ ठाकुर (2974 words)


रवीन्द्रनाथ ठाकुर ( ) (, , ) (७ मे १८६१- ७ आगस्ट् १९४१) वङ्गभाषायाः कविः, कथालेखकः, सङ्गीतज्ञः, नाटकरचयिता च सन् सः १९ शतकस्य अन्ते विंशतितमशतकस्य आरम्भे च वङ्गसाहित्यस्य वङ्गसङ्गीतस्य च विनूतनं रूपं प्राददात् । तेन रचितस्य सूक्ष्मसंवेदनयुक्तस्य नवीनस्य उत्कृष्टस्य च गीताञ्जलीकाव्यस्य कृते १९१३ तमेवर्षे नोबेल्-साहित्यप्रशस्तिः प्राप्ता । एतेन सः एशियाखण्डे प्रथमनोबेल्-प्रशस्तिविजेता जातः ।

कल्कत्तायाः पिरालिब्राह्मणकुटुम्बे जातः रवीन्द्रः स्वस्य अष्टमे वयसि पद्यरचनम् आरब्धवान् । स्वस्य षोडशे वयसि सः 'भानुशिङ्घो' (सूर्यसिंहः) इत्येतेन गुप्तनाम्ना प्रथमं महत्त्वपूर्णं पद्यं प्राकाशयत् । १८७७ तमे वर्षे प्रथमां लघुकथां नाटकञ्च अलिखत् । ब्रिटिश्शासनस्य दृढं खण्डनं कुर्वता तेन भारतीयस्वातन्त्र्यान्दोलनस्य प्रोत्साहनं कृतम् । तेन रचिताः कृतयः तेन संस्थापितः विश्वभारतीविश्वविद्यालयश्च जगते तेन दत्तानि प्रमुखानि उपायनानि ।

भारतीयसाम्प्रदायिककठिनसीमातः बहिरागतः रवीन्द्रः वङ्गकलाप्रकाराय नूतनां शोभाम् आनयत् । तेन रचिताः दीर्घकथाः, लघुकथाः, पद्यानि, नृत्यनाटकानि, प्रबन्धाश्च राजनैतिक-सामाजित-व्यक्तिगतविषयान् प्रतिफलन्ति । गीताञ्जली (पद्यानि), गोर (सुन्दरमुखी), घरे बैरे (गृहं प्रपञ्चञ्च) इत्यादयः तस्य प्रसिद्धाः कृतयः । तेन रचितानि पद्यानि, लघुकथाः, दीर्घकथाः च साहित्यमौल्याय, जनभाषाप्रयोगाय, विचारशीलवास्तविकतायाः अभिव्यक्त्यै तत्त्वशास्त्रावलोकनाय च श्लाघार्हाः सन्ति । तेन रचितयोः द्वयोः गीतयोः राष्ट्रमान्यता प्राप्ता अस्ति - जन गण मन भारतस्य राष्ट्रगीतत्वेन, अमर् शोनर् बांला बांदेशस्य राष्ट्रगीतत्वेन अङ्गीकृतमस्ति ।

रवीन्द्रनाथः कल्कत्तानगरस्य जोरसङ्कोभवने जन्म प्राप्नोत् । तस्य पिता देवेन्द्रनाथठाकूरः(१८०७-१९०५), माता शारदादेवी (१८२०-१९०५) । दम्पत्योः जीवत्सु त्रयोदशसु पुत्रेषु अयमेव कनीयान् । ठाकूरकुटुम्बस्य पूर्वजाः आदिधर्मस्य ब्राह्मोसंस्थापकाः । माता अस्य बाल्ये एव दिवङ्गता । पिता सर्वदा प्रवासे भवति स्म इत्यतः बालकः रवीन्द्रः गृहस्य सेवकानां पालनेन एव वर्धितः । भित्तेः अन्तः प्रचलत् शिक्षणम् अनिच्छन् रवीन्द्रः आभवनम् अटति स्म । पनिहटि इत्यादिषु स्थलेषु अटनं ग्रामप्रदेशस्य सरलसुन्दरपरिसरे कालयापनं तस्मै अत्यन्तं रोचते स्म । एकादशे वयसि तस्य उपनयनसंस्कारः सम्पन्नः । तदनन्तरं सः पित्रा सह भारतस्य पर्यटनम् आरब्धवान् । १८७३ तमे वर्षे फेब्रवरीमासस्य १४ दिनाङ्के कल्कत्तातः ताभ्यां प्रस्थितम् । ततः बहून् मासान् यावत् ताभ्यां भारते अटितम् । शान्तिनिकेतननामिकां पैतृकभूमिं दृष्ट्वा अमृतसरे उषितवन्तौ । ततः 'डाल्हौसि'नामकं हिमालयगिरिधाम अगच्छताम् । तत्र रबी-जीवनचरितम्, इतिहासः, खगोलविज्ञानम्, आधुनिकविज्ञानं संस्कृतञ्च अधीतवान् । शास्त्रीयकाव्यानाम् आन्तर्यञ्च तेन अवलोकितं गभीरतया । १८७७ तमे वर्षे अनेकानि प्रमुखकाव्यानि तेन रचितानि । तेषु अन्यतमम् अस्ति मैथिलीशैल्या रचितः दीर्घपद्यसङ्ग्रहः । विद्यापतिनामकः कविः मैथिलीशैल्याः आविष्कर्ता । १७ शतमाने अदृश्यंगताः  कवेः कृतयः  एताः इति विनोदेन वदति स्म रवीन्द्रः ।
भिकारिणि (१८७७, भिक्षुकी - वङ्गभाषायाः प्रथमा लघुकथा)सन्ध्या सङ्गीतनामकं (१८८२) प्रसिद्धं पद्यं, निर्झरेर् स्वप्नभङ्गः इत्यादयः कृतयः तेन १८८२ तमे वर्षे लिखिताः ।

इङ्ग्लेण्ड्देशस्य पूर्वसस्सेक्स्प्रदेशस्य ब्रिघ्टन्नगरे विद्यमानं सार्वजनिकविद्यालयं प्राविशत् १८७८ तमे वर्षे । पितुः अपेक्षानुगुणं न्यायवादिना भवितुं सः लण्डन् युनिवर्सिटि कालेज् मध्ये अध्ययनम् अकरोत् । किन्तु शेक्स्पियर्, रेलिजियो मेडिसि, कोरिलियनस्, आण्टोनि क्लियोपात्र इत्यादीनां परिपूर्णम् अध्ययनं कर्तव्यम् इति धिया सः विद्यालयम् अत्यजत् । १८८० तमे वर्षे पदवीं विनैव वङ्गं प्रत्यागतवान् । १८८२ तमस्य वर्षस्य डिसेम्बर्मासस्य ९ दिनाङ्के तेन मृणालिनीदेवी (१८७२-१९००) परिणीता । जन्म प्राप्तवत्सु पञ्चसु अपत्येषु उभौ प्रौढावस्थातः पूर्वमेव मृतवन्तौ । १८९० तमे वर्षे अधुना बाङ्ग्लादेशे विद्यमाने शिलैदाहे स्थितायाः विशालभूसम्पतेः निर्वहणे आत्मानं न्ययोजयत् । १८९८ तमे वर्षे तस्य पत्नी पुत्राश्च तत्र आगताः । १८९१ - १८९५ - अयं कालः ठाकूरस्य 'साधनावधिः' इति उच्यते । सः अवधिः सर्जनशीलः आसीत् । चतुरशीतिः कथाभिः युक्तः गल्पगुच्छनामकः सङ्ग्रहः, सम्पुटत्रयस्य अर्धांशापेक्षया अधिकाः कथाः च अस्मिन् अवधौ एव लिखिताः । वङ्गजीवनशैल्याः विशेषतया ग्रामजीवनस्य विशालां व्याप्तिं सः उपहासदृष्ट्या भावनात्मकप्रभावेण च चित्रितवान् अस्ति ।

१९०१ तमे वर्षे ठाकूरः शिलैदाहतः शान्तिनिकेतनम् आगतः । तत्र विक्फ्-मन्दिरं नाम आश्रमं समस्थापयत् । अमृतशिलया अलङ्कृतं मन्दिरं तत् । विविधानि सस्यानि, वृक्षाः, उद्यानं, ग्रन्थालयः, प्रयोगशाला च तत्र आसन् । ठाकूरस्य पत्नी पुत्रद्वयं च तत्रैव मरणं प्राप्तवन्तः । १९०५ तमे वर्षे जनवरीमासस्य १९ दिनाङ्के तस्य पिता दिवङ्गतः । तदारभ्य पित्रार्जितं धनं प्रतिमासं प्राप्नोति स्म सः । त्रिपुरस्य महाराजात् किञ्चित् धनं प्राप्नोत् । कुटुम्बस्य आभरणानां विक्रयणात् च धनं प्राप्तम् । पुर्यां समुद्रतीरे विद्यमानात् भवनाच्च धनं प्राप्तम् । तस्य कृतीनां द्वारा च गौरवधनं (रू ९०००) प्राप्नोत् । एतावता देशे विदेशे च विद्यमानाः बहवः बङ्गालीवाचकाः तस्य अभिमानिनः जाताः आसन् । १९०१ तमे वर्षे नैवेद्यकृतिं, १९०६ तमे वर्षे खेयनामिकां कृतिञ्च प्राकाशयत् । अस्मिन् एव अवधौ स्वस्य गीतानि मुक्तछन्दोबद्धानां पद्यानां रूपेण अनूदितुं तेन । साहित्यक्षेत्रस्य नोबेल्प्रशस्तिः प्राप्ता अस्ति इति विषयः तेन नवेम्बर्मासस्य १४ दिनाङ्के ज्ञातः । तेन रचिताः साहित्यकृतयः तत्रत्यः आदर्शवादश्च स्वीडिश् अकाडेम्या बहुमानिता । १९०५ तमे वर्षे ब्रिटीष्चक्राधिपत्येन टाकूरः नैट्बिरुदा सम्मानितः ।

ठाकूरः कृषि-अर्थशास्त्रज्ञः लियोनार्ड् एल्मिर्स्ट् च मिलित्वा शान्तिनिकेतनसमीपे विद्यमाने सुरुल्नामके ग्रामे १९२१ तमे वर्षे ग्रामपुनरुत्थानसंस्थां (ठाकूरः अस्य 'श्रीनिकेतनम्'इति पुनः नामकरणमकरोत्) आरब्धवन्तौ । गान्धेः 'स्वराज्यान्दोलनस्य' प्रोत्साहनरूपेण पर्यायं प्रस्तोतुम् अत्र तेन प्रयासः कृतः । असहायकतया अज्ञानेन च पीडिताः ग्रामाः 'ज्ञानाभिवृद्ध्या' मुक्ताः करणीयाः इति उद्देशेन संस्थायाः सहायाय विद्वज्जनाः, दानिनः, अधिकारिणश्च विविधेभ्यः राष्ट्रेभ्यः तेन नियोजिताः । भारतस्य जातिपद्धतेः अस्पृश्यतायाश्च विषये तेन खण्डनं कृतम् । तद्विषये नाटकं पद्यानि च अरचयत् । यशस्विनः आन्दोलनस्य द्वारा गुरुवायूरदेवालये दलितानां कृते प्रवेशानुमतिः आसादिता ।

अन्ते ठाकूरः साम्प्रदायिकतां सुष्ठु पर्यशीलयत् । १९३४ तमे वर्षे जनवरीमासस्य १५ दिनाङ्के बिहारराज्ये सञ्जातः महान् भूकम्पः दलितानाम् उपरि कृतस्य दुश्शासनस्य दैवदत्तं फलम् इत्येतत् गान्धेः वचनं ठाकूरः दृढम् अखण्डयत् । कल्कत्तायाः स्थानीयदारिद्र्यतायाः विषये बङ्गालस्य समाजार्थिकपरिस्थितेः अवनतेः विषये च ठाकूरः खेदं प्रादर्शयत् । इदं दुःखं शतपङ्क्तियुते पद्ये अभिव्यक्तवान् अस्ति । सत्यजितरेवर्यस्य अपूर् संसार् चलचित्राय इयं पृष्ठभूमिका जाता । ठाकूरेण लिखितैः लेखैः युक्ताः पञ्चदश नूतनाः सम्पुटाः प्रकाशिताः । तेषु पुनश्च (१९३२), शेस् सप्तक् (१९३५), पत्रापुट् (१९३६) च गद्यपद्यात्मक्यः कृतयः । प्रयोगः अयम् अनुवृत्तः । सः गद्यरूपात्मकानि गीतानि, नृत्यनाटकानि च लिखन् नूतनां परम्पराम् आरब्धवान् । चित्राङ्गदा (१९१४) श्याम (१९२९), चण्डालिका (१९३८) इत्यादीनि नृत्यनाटकानि अलिखन् ।  दुय् बोन् (१९३३), मलञ्च (१९३४), चार् अध्याय् (१९३४) कादम्बरीः अलिखत् । जीवनस्य अन्तिमवर्षेषु ठाकूरः विज्ञानविषये आसक्तः सन् विश्वपरिचय् (१९३७) इत्येतं प्रबन्धसङ्ग्रहम् अरचयत् । जीवशास्त्र-भौतशास्त्र-खगोलशास्त्राणाम् अध्ययनस्य प्रभावः तदीयेषु काव्येषु दृश्यन्ते स्म । विज्ञानिनां विषये तेन् लिखितम् । से (१९३७), तीन् सङ्गि (१९४०), गल्पसल्प (१९४१) इत्यादिषु सम्पुटेषु तेन विज्ञानप्रक्रियाः निरूपिताः ।
अन्तिमवर्षचतुष्टयं ठाकूरः दीर्घकालीनवेदनाम् अनुभूतवान् । द्विवारं दीर्घम् अस्वास्थ्यम् अनुभूतम् । १९३७ तमस्य वर्षस्य अन्ते ठाकूरः विसंज्ञः सन् मरणासन्नः जातः । किन्तु तेन स्वास्थ्यं न प्राप्तम् । मृत्युशय्यायां तेन यत् लिखितं तत् उत्कृष्टम् इति परिगण्यते । ठाकूरः १९४१ तमे वर्षे आगस्ट्मासस्य ७ दिनाङ्के जोरसङ्कोभवने मरणं प्राप्नोत् । बेङ्गालीभाषिणां जगद् दुःखसागरे निमग्नं जातम् ।

१८७८-१९३२ इत्येतस्मिन् अवधौ ठाकूरः पञ्चसु खण्डेषु द्वात्रिंशदधिकदेशान् अगच्छत् । भारतीयेतराणां कृते तेषां कार्यपरिकयः राजनैतिकचिन्तनानां बोधनञ्च कष्टसाध्यम् आसीत् । १९०२ तमे वर्षे आत्मना अनूदिताः कृतीः स्वीकृत्य इञ्ग्लेण्ड्देशम् अगच्छत् । तत्र सः धर्मप्रचारकः गान्धि-अनुयायी चार्ल्स् एफ् आण्ड्रिन्, आङ्ग्लो-ऐरिष्-कविः विलियं बट्लर् यीट्स्, एज्रा पौण्ड्, राबर्ट् ब्रिड्जस्, एर्नेस्ट् रैस्, थामस् स्पर्ग मोर् इत्यादीन् प्रभावितान् अकरोत् । एतस्य फलरूपेण यीट्स् गीताञ्जल्याः आङ्ग्लानुवादस्य प्रास्ताविकाम् अलिखत्, आण्ड्रीव्स् शान्तिनिकेतनम् आगत्य सहाकरोत् । १९०२ तमे वर्षे नवेम्बर्मासस्य १० दिनाङ्के ठाकूरः युनैटेड्स्टेट्स् युनैटेड् किङ्ग्डं प्रति च अगच्छत् । तत्र सः आण्ड्रिन्स्-क्रैस्तार्चकसुहृद्भिः सह स्टाफर्ड्शैर्मध्ये विद्यमाने बट्टर्टन्नगरे उषितवान् । १९१६ तमे वर्षे मेमासस्य ३ दिनाङ्कतः १९१७ तमस्य वर्षस्य एप्रिल्मासपर्यन्तं ठाकूरः जपान्-युनैटेड् स्टेट्स्-देशेषु भाषणम् अकरोत् । तत्र सः राष्ट्रियतायाः कल्पनां बहिरङ्गरूपेण अखण्डयत् । 'भारते राष्ट्रियता' इत्येतस्मिन् विषये सः प्रबन्धम् अलिखत् । ततः तिरस्कारः प्रशंसा च प्राप्ता । रोमैन् रोल्याण्ड् प्रभृतयः शान्तिप्रियाः प्रशंसाम् अकुर्वन् ।

भारतं प्रति प्रत्यागमनस्य समनन्तरमेव पेरुवियन्-सर्वकारः 'अस्मद्देशं प्रति आगम्यताम्' इति आह्वानम् अयच्छत् । तदा ठाकूरस्य वयः ६२ वर्षाणि । ततः सः मेक्सिकों प्रति अगच्छत् । तस्य मेलनस्य स्मरणाय ते देशाः शान्तिनिकेतनविद्यालयं प्रति १००,००० डालर्परिमितं धनम् अयच्छन् । ठाकूरः १९२४ तमे वर्षे नवम्बर्मासस्य ६ दिनाङ्के अर्जेण्टैनादेशस्य ब्यूनोस् ऐरेस् अगच्छत् । ततः सप्ताहानन्तरं सः विक्टोरिया ओक्याम्पो इत्येतस्य आशयानुगुणं विल्ला मिराल्रियोम् अगच्छत् । १९२५ तमे वर्षे भारतम् आगच्छत् । १९२६ तमे वर्षे मेमासस्य ३० तमे दिनाङ्के ठाकूरः इटलिदेशस्य नेपल्सम् अगच्छत् । परेद्यवि तेन रोमस्य फ्याषिस्ट्-मनोभावयुक्तेन निरङ्कुशाधिकारिणा बेनिटो मुस्सोलिनिना अमिलत् । १९२६ तमे वर्षे जुलैमासस्य २० तमे दिनाङ्के ठाकूरः मुस्सोलिनिविरुद्धं किञ्चित् अवदत् । तस्य परिणामतः सौहार्दसम्बन्धस्य उत्साहः अपागच्छत् ।

१९२७ तमे वर्षे जुलै १४ दिनाङ्के अनुयायिभ्यां सह ठाकूरः आग्नेय-एशियां प्रति मासचतुष्टयस्य प्रवासम् अकरोत् । तत्र सः बलि, जाव, क्वाललुम्पूर्, मलाक्क, पेनाङ्ग्, सियाम्, सिङ्गापुरञ्च अगच्छत् । 'जात्रि'सङ्कलनं ठाकूरेण लिखितं प्रवासकथनम् । युरोप्-युनैटेड्स्टेट्स्देशयोः प्रवासाय १९३० तमस्य वर्षस्य आदिभागे वङ्गराज्यं पर्यत्यजेत् । तदीयानि वर्णचित्राणि प्यारिस्-लण्डन्नगरयोः यदा प्रदर्श्यमानाः आसन् तदा सः युनैटेड् किङ्ग्डं गतवान् आसीत् ।  तत्र सः बर्मिङ्घह्यामे सुहृदः गृहे उषितवान् । तत्र सः आक्स्फर्ड्विश्वविद्यालयाय 'हिब्बर्ट् लेक्चर्स्'पुस्तकम् अलिखत् । तत् मानवस्य दैवत्वविषयसम्बद्धः अस्ति ।  लण्डन्नगरे जाते वार्षिकक्वेकर्कूटे भाषणम् अकरोत् । तत्र ठाकूरः ब्रिटिष्-भारतीययोः सम्बन्धविषयम् अधिकृत्य 'विरहगर्तस्य भयङ्करमुखम्' इत्येतस्मिन् विषये अवदत् । ततः सः तृतीय-अगाखानेन अमिलत् । १९३० तमस्य वर्षस्य जून्मासात् सेप्टेम्बर्मासं यावत् स्विट्सर्लेण्ड्, डेन्मार्क्, जर्मनिदेशेषु प्रावासं समाप्य सोवियत्सङ्घम् अगच्छत् । अन्ते १९२९ तमस्य वर्षस्य एप्रिल्मासे पर्षियन्योगिनः हफेजस्य चरित्रं जानाति इत्यतः इरान्देशस्य रेज् शाह् पह्लवि ठाकूरस्य कृते आतिथ्यम् अयच्छत् । अस्य व्यापकप्रवासस्य कारणतः ठाकूरः हेन्रि बर्ग्सन्, आल्बर्ट् ऐन्स्टीन्, राबर्ट् प्रोस्ट्, थामस् म्यान्, जार्ज् बर्नण्ड् शा, एच् जि वेल्स्, रोमैन् रोलेण्ड् इत्यादिभिः समकालीनैः सह अमिलत् । ठाकूरेण कृतः पर्शिया-इराक्प्रवासः (१९३२), सिलोन्प्रवासः (१९३३) च मानवस्य प्रत्येकताभिलाषः, राष्ट्रियताविषये तदीयान् अभिप्रायान् क दृढम् अकरोत् ?

काव्ये कृतपरिश्रमः ठाकूरः कादम्बरीः, प्रबन्धान्, लघुकथाः, प्रवासकथाः, नाटकानि, सहस्राधिकानि गीतानि च विरचितवान् अस्ति । गद्यप्रकारे तु ठाकूरस्य लघुकथाः अत्युत्कृष्टाः इति ख्याताः । वङ्गभाषायाः नूतनशैल्याः जनकः इति प्रसिद्धः अस्ति सः । लययुक्तता, आशावादः, गेयगुणैः तस्य साहित्यं जनाकर्षकं जातमस्ति । साधारणजनानां जीवनघटनाः आधारीकृत्य तेन लघुकथाः निर्मिताः सन्ति ।

अष्टकादम्बरीः तथा चतस्रः कथाः रविन्द्रनाथः लिखितवान् आसीत्। चतुरङ्ग, शेशर् कोबित, चार् ओधय् तथा नौकदुबि, घरे बैरे (गृहम् विश्वश्च) आदर्षनायकस्य निखिलस्य  
भारतीयराष्ट्राभिमानम् एवं  भयोत्पादनोत्पत्तेः, स्वदेश्यान्दोलनस्यच सम्बद्धविषयाः घरे बैरे इति स्वरचितकृतौ लभ्यन्ते। अस्यां कादम्बर्यां ठाकुरस्य भावनात्मकसङ्घर्षाभिव्यक्तिः दृश्यते।
हिन्दू-मुस्लींधर्मयोः हिंसाचारः, निखिलाय मारणान्तिकव्रणेन सम्पन्ना भवति।

ठाकूरः अष्ट कादम्बरीः, चतस्रः कथाः अलिखत् ।

ಟ್ರೆಬ್ಲಿಂಕಾ ನಿರ್ನಾಮ ಶಿಬಿರಕ್ಕೆ ಬರುವ ಮೂರು ವಾರಗಳ ಮೊದಲು ಸಂಭವಿಸಿತು. ಆತನ ಪ್ರಮುಖ ಇಂಗ್ಲೀಷ್-ಭಾಷಾ ಆತ್ಮಚರಿತ್ರೆಕಾರ ಬೆಟ್ಟಿ ಜೀನ್ ಲಿಫ್ಟನ್‌ ಅವರ ಪುಸ್ತಕ ದ ಕಿಂಗ್ ಆಫ್ ಚಿಲ್ಡ್ರನ್ ‌‌ನಲ್ಲಿ 'ಒಬ್ಬರು ಯಾವಾಗ ಮತ್ತು ಹೇಗೆ ಸಾಯ ಬಹುದು ಎಂದು ನಿರ್ಧರಿಸ ಬಹುದಾ' ಎಂಬುದನ್ನು ಕಂಡುಹಿಡಿಯಲು ಸಾಧ್ಯವಾಗಬಹುದಾ ಎಂಬ ಅದ್ಭುತ ವಿಷಯವನ್ನು ಡಾ.ಕೋರ್ಸ್‌ಜ್ಯಾಕ್‌ರವರು ಯೋಚಿಸಿದ್ದಾರೆ ಎಂಬುದನ್ನು ತಿಳಿಸಿದ್ದಾರೆ. ಮರಣವನ್ನು ಸ್ವೀಕರಿಸುವ ಹಾದಿಯನ್ನು ಅವರ ಅನಾಥಾಲಯದಲ್ಲಿದ್ದ ಮಕ್ಕಳಿಗಾಗಿ ಹುಡುಕಲು ಪ್ರಯತ್ನಿಸಿರಬಹುದು.

ತಿರುಳಿರುವ ಯೋಚನೆಯನ್ನು ಕೇಂದ್ರೀಕರಿಸಿದ ಸಾಹಿತ್ಯದ ಹರಿವು ಮತ್ತು ಭಾವನಾತ್ಮಕ ಲಯಗಳನ್ನು ಹೊಂದಿದ್ದ ಅವರ ಸಾಧನೆಗಳು ಹಿಂದಿನ ಬಂಗಾಳಿ ನಾಟಕಗಳಿಗಿಂತ ಭಿನ್ನ. ಅವರ ಸಾಧನೆಗಳನ್ನು ಟಾಗೋರ್‌ ಮಾತುಗಳಲ್ಲಿ ಹೇಳುವುದಾದರೆ  ಭಾವನೆಗಳಿಂದ ತುಂಬಿರುವ ಅಭಿನಯವಿಲ್ಲದ ನಾಟಕವನ್ನು ಸುಸಂಬದ್ಧವಾಗಿ ನಡೆಸಲು ಮಾಡಿದ ಪ್ರಯತ್ನ. ೧೮೯೦ರಲ್ಲಿ ಅವರು ವಿಸರ್ಜನ್  (ತ್ಯಾಗ )ವನ್ನು ಬರೆದರು, ಅದು ಅವರ ಅತ್ಯುತ್ತಮ ನಾಟಕ. ಬಂಗಾಳಿ-ಭಾಷೆಯು ಆದಿಕಾಲದಲ್ಲಿ ಸಂಕೀರ್ಣ ಕಥಾವಸ್ತು ಹೊಂದಿದ್ದ ಮತ್ತು ವಿಸ್ತಾರ ಏಕಪಾತ್ರಾಭಿನಯವನ್ನು ನಾಟಕ ಒಳಗೊಂಡಿರುತ್ತಿತ್ತು. ನಂತರದ ಅವರ ನಾಟಕಗಳು ಹೆಚ್ಚು ತತ್ವಶಾಸ್ತ್ರದ ಮತ್ತು ಗೂಡಾರ್ಥದ ವಿಷಯಗಳನ್ನು ಒಳಹೊಕ್ಕು ನೋಡಿದವು; ಇವುಗಳಲ್ಲಿ ಡಾಕ್ ಘರ್ ಕೂಡಾ ಒಂದು.ಟಾಗೋರ್‌ರವರ ಮತ್ತೊಂದು ನಾಟಕ ಚಂಡಾಲಿಕಾ  (ಅಸ್ಪೃಶ್ಯ ಹುಡುಗಿ ). ಅದು ಗೌತಮ ಬುದ್ಧನ ಅನುಯಾಯಿ ಆನಂದನು ಆದಿವಾಸಿ  (ಅಸ್ಪೃಶ್ಯ) ಹುಡುಗಿಯಿಂದ ಹೇಗೆ ನೀರನ್ನು ಕೇಳುತ್ತಾನೆ ಎಂಬುದನ್ನು ವಿವರಿಸುವ ಪುರಾತನ ಬೌದ್ಧ ಕಥೆಯ ನಿರೂಪಣೆಯನ್ನು ಹೊಂದಿದೆ.[168]ಕೊನೆಯದಾಗಿ, ಅವರ ಹೆಚ್ಚು ಜನಪ್ರಿಯ ನಾಟಕಗಳಲ್ಲಿ ಒಂದಾದ ರಕ್ತಕಾರವಿ ಯು (ಕೆಂಪು ಕರವೀರಗಳು ) ದರೋಡೆಕೋರ ರಾಜನು ಅವನ ಪ್ರಜೆಗಳಿಗೆ ಗಣಿ ಅಗೆಯುವ ಕೆಲಸಗಳನ್ನು ಹೇರುತ್ತಾ ತಾನು ಶ್ರೀಮಂತನಾದುದನ್ನು ವಿವರಿಸುತ್ತದೆ.ನಾಯಕಿ ನಂದಿನಿಯು ದಾಸ್ಯಕ್ಕೆ ಗುರಿಮಾಡುವಿಕೆಯ ಈ ಕುರುಹುಗಳನ್ನು ನಾಶಪಡಿಸಲು ಅಂತಿಮವಾಗಿ ಸಾಮಾನ್ಯ ಜನರನ್ನು ಒಟ್ಟಗೂಡಿಸುತ್ತಾಳೆ. ಟಾಗೋರ್‌ರವರ ಇತರ ನಾಟಕಗಳು ಇವು -ಚಿತ್ರಾಂಗದ , ರಾಜ , ಮತ್ತು ಮಾಯರ್ ಖೇಲ .ಟಾಗೋರ್‌ರವರ ನಾಟಕಗಳನ್ನು ಆಧಾರಿತ ನೃತ್ಯ ನಾಟಕಗಳನ್ನು ಸಾಮಾನ್ಯವಾಗಿ ರವೀಂದ್ರ ನೃತ್ಯ ನಾಟ್ಯಗಳು  ಎಂದು ಕರೆಯುತ್ತಾರೆ.

ಅರ್ಧಕ್ಕಿಂತ ಹೆಚ್ಚು ಕಥೆಗಳನ್ನು ಹೊಂದಿರುವ ಮೂರು-ಸಂಪುಟದಲ್ಲಿರುವ, ಎಂಭತ್ತ-ನಾಲ್ಕು ಕಥೆಗಳ ಸಂಗ್ರಹ ಗಲ್ಪಗುಚ್ಛ ವನ್ನು ಬರೆದ ಸಾಧನ ಅವಧಿಯು (೧೮೯೧–೧೮೯೫) ಟಾಗೋರ್‌‌ ಪಾಲಿಗೆ ಸಮೃದ್ಧಿಯ ಕಾಲ.ಅಂತಹ ಕಥೆಗಳು ಸಾಮಾನ್ಯವಾಗಿ ಟಾಗೋರ್‌ ಸುತ್ತಮುತ್ತದ ಪರಿಸ್ಥಿತಿ, ಆಧುನಿಕ ಮತ್ತು ಸಾಂಪ್ರದಾಯಿಕ ಚಿಂತನೆಗಳು ಮತ್ತು ಆಸಕ್ತಿದಾಯಕ  ಪದಬಂಧಗಳ (ಅದರೊಂದಿಗೆ ಟಾಗೋರ್‌ ಅವರ ಬುದ್ಧಿಶಕ್ತಿಯನ್ನು ಪರಿಶೀಲಿಸುತ್ತಿದ್ದರು) ಮೇಲಿನ ಪರ್ಯಾಲೋಚನೆಯನ್ನು ತೋರಿಸುತ್ತವೆ.ಅವರ ಆರಂಭದ ಕಥೆಗಳನ್ನು (ಸಾಧನ  ಅವಧಿಯಲ್ಲಿ ರಚಿಸಿದ) ಟಾಗೋರ್‌ ಚೈತನ್ಯ ಮತ್ತು ಸ್ವಾಭಾವಿಕ ಸಮೃದ್ಧಿಯಿಂದ ವಿಶಿಷ್ಟವಾಗಿ ಸಂಯೋಜಿಸಿದ್ದಾರೆ; ಈ ವೈಶಿಷ್ಟ್ಯಗಳು ಟಾಗೋರ್‌ ಜೀವನವನ್ನು ಅವರ ಕುಟುಂಬದ ವಿಸ್ತಾರ ಆಸ್ತಿಯನ್ನು ನಿರ್ವಹಿಸುತ್ತಿದ್ದ ಸಂದರ್ಭದಲ್ಲಿ, ಪಾತಿಸರ್, ಶಾಜದ್ಪುರ್, ಮತ್ತು ಶಿಲೈದ ಸಾಮಾನ್ಯ ಹಳ್ಳಿಗಳೊಂದಿಗೆ ಆತ್ಮೀಯ ಸಂಬಂಧವನ್ನು ಕಲ್ಪಿಸಿದವು.[170]ಅಲ್ಲಿ ಅವರು ಭಾರತೀಯ ಬಡ ಮತ್ತು ಸಾಮಾನ್ಯ ಜನರ ಜೀವನಗಳನ್ನು ಅವಲೋಕಿಸಿದರು;  ಅವರ ಜೀವನದ ಆಳಕ್ಕಿಳಿದು ಟಾಗೋರ್‌ ಅಳೆಯಲಾರಂಭಿಸಿದರು. ಈ ಕಾಲ ಘಟ್ಟದ ವರೆಗೆ ಭಾರತೀಯ ಸಾಹಿತ್ಯದಲ್ಲಿ ಈ ರೀತಿಯ ಅನುಸಂಧಾನ ಆದದ್ದು ಇದೇ ಮೊದಲು.

ಗೊಲ್ಪೊಗುಚ್ಛೊ  (ಕಥೆಗಳ ಹಂದರ ) ಅನೇಕ ಯಶಸ್ವೀ ಚಲನಚಿತ್ರಗಳಿಗೆ ಮತ್ತು ನಾಟಕಗಳಿಗೆ ವಿಷಯ ವಸ್ತುವನ್ನು ಒದಗಿಸಿದೆ. ಅದು ಬಂಗಾಳಿ ಸಾಹಿತ್ಯದ ಕಲ್ಪಿತ ಕಥನ ಸಾಹಿತ್ಯದಲ್ಲಿ ಹೆಚ್ಚು ಪ್ರಸಿದ್ಧವಾದುದು.ಸತ್ಯಜಿತ್ ರೈರ  ಚಾರುಲತ ಚಿತ್ರವು ಟಾಗೋರ್‌ರ ವಿವಾದಾತ್ಮಕ ಕಥೆ ನಷ್ಟನಿರ್ಹ್  (ಒಡೆದುಹೋದ ಗೂಡು )ಅನ್ನು ಆಧಾರಿಸಿದೆ.ಅತಿಥಿ ಯಲ್ಲಿ (ಇದನ್ನೂ ಸಹ ಚಲನಚಿತ್ರವಾಗಿ ಮಾಡಲಾಗಿದೆ), ಬ್ರಾಹ್ಮಣ ಹುಡುಗ ತಾರಪಾದ ಹಳ್ಳಿಯ ಜಮೀನ್ದಾರನ  ದೋಣಿ ಪ್ರಯಾಣದಲ್ಲಿ ಜೊತೆಗೂಡುತ್ತಾನೆ. ಎಂದಿಗೂ ಎಲ್ಲೆಡೆ ಸುತ್ತಾಟ ಮಾಡುತ್ತಿರಬೇಕು ಎಂಬ ಉದ್ದೇಶದಿಂದ ಮನೆ ಬಟ್ಟು ಓಡಿ ಬಂದಿದ್ದೇನೆ ಎಂದು ಹುಡುಗ ಹೇಳುತ್ತಾನೆ.ಕರುಣೆತೋರಿದ ಜಮೀನ್ದಾರ ನು ಅವನನ್ನು ದತ್ತು ತೆಗೆದುಕೊಳ್ಳುತ್ತಾನೆ ಮತ್ತು ತನ್ನ ಮಗಳನ್ನು ಕೊಟ್ಟು ಮದುವೆ ಮಾಡುತ್ತಾನೆ.ಆದರೆ, ಮದುವೆಯ ಹಿಂದಿನ ರಾತ್ರಿ ತಾರಪದ ಮತ್ತೆ ಓಡಿ ಹೋಗುತ್ತಾನೆ. ಸ್ಟ್ರಿರ್ ಪತ್ರ ವು (ಪತ್ನಿಯಿಂದ ಬಂದ ಪತ್ರ ) ಬಂಗಾಳಿ ಸಾಹಿತ್ಯದ ಆರಂಭದ ದಿಟ್ಟ ಮಹಿಳಾ ಸ್ವಾತಂತ್ರ್ಯದ ಚಿತ್ರಣವನ್ನು ಹೊಂದಿದೆ.ಬಂಗಾಳಿ ಮಧ್ಯಮ ವರ್ಗದ ಪುರುಷ ಪ್ರಧಾನ ಸಾಂಕೇತಿಕ ವ್ಯಕ್ತಿಯ ಪತ್ನಿ, ಮೃಣಾಲ. ಅವಳೇ ನಾಯಕಿ. ಅವಳು ಪ್ರಯಾಣಿಸುತ್ತಿದ್ದಾಗ ಪತ್ರವೊಂದನ್ನು ಬರೆಯುತ್ತಾಳೆ (ಅದು ಸಂಪೂರ್ಣ ಕಥೆಯನ್ನು ಹೇಳುತ್ತದೆ).ಕ್ಷುಲ್ಲಕ ಬಾಳಿನ ಅವಳ ಹೋರಾಟವನ್ನು ಅದು ವಿವರಿಸುತ್ತದೆ.ಅವಳು ಅಮಿಯೊ ಬಚ್ಚೊ  ಎಂಬ ಹೇಳಿಕೆಯೊಂದಿಗೆ, ಪತಿಯ ಮನೆಗೆ ಹಿಂದಿರುಗುವುದಿಲ್ಲ, ಎಂದು ಸಾರುತ್ತಾಳೆ. ನಾನು ಬದುಕುತ್ತೇನೆ ಮತ್ತು ಇಲ್ಲಿಯೇ ಬದುಕುತ್ತೇನೆ... ಎಂದು ಹೇಳುತ್ತಾಳೆ. ಐ ಬಚ್ಲುಮ್ : ಮತ್ತು ನಾನು ಬದುಕಬೇಕು.ಇಲ್ಲಿ ನಾನು ಬದುಕುತ್ತೇನೆ.

ಹಿಂದು ಮದುವೆಯ ಆಚರಣೆ ಮತ್ತು ವಿವಾಹಿತ ಬಂಗಾಳಿ ಮಹಿಳೆಯರ ವಿಷಾದಕರ ಬರಡು ಜೀವನ, ಮಧ್ಯಮ ವರ್ಗದ ಭಾರತೀಯರ ಬೂಟಾಟಿಕೆಯ ಮೇಲೆ ಹೈಮಂತಿ ಯಲ್ಲಿ, ಟಾಗೋರ್‌ ವಾಗ್ದಾಳಿ ನಡೆಸಿದ್ದಾರೆ. ಸೂಕ್ಷ್ಮ ಸ್ವಭಾವದ ಯುವತಿ ಹೈಮಂತಿಯು ಅವಳ ನವಿರು ಸ್ವಭಾವದಿಂದಾಗಿ ಜೀವನವನ್ನು ಹೇಗೆ ತೊರೆಯಬೇಕಾಗುತ್ತದೆ ಎಂಬುದನ್ನು ವಿವರಿಸಿದ್ದಾರೆ.ರಾಮನ ಸಂಶಯದಿಂದಾಗಿ ಪ್ರಾಣತ್ಯಾಗದ ಪರೀಕ್ಷೆಗೊಳಪಟ್ಟ ಸೀತೆಯ ಸ್ಥಿತಿಯನ್ನು ವೈಭವೀಕರಿಸುವ ಹಿಂದು ಸಂಪ್ರದಾಯದ ಮೇಲೆ ಟಾಗೋರ್‌ ನೇರ ಆಕ್ರಮಣ ನಡೆಸುತ್ತಾರೆ.ಹಿಂದು-ಮುಸ್ಲಿಮ್ ಬಿಕ್ಕಟ್ಟುಗಳನ್ನು ಮುಸಲ್ಮಾನಿ ದೀದಿ  ಯಲ್ಲಿ ಟಾಗೋರ್‌ ಪರಾಮರ್ಶಿಸಿದ್ದಾರೆ. ಅದು ಅವರ ಮಾನವೀಯ ಮುಖವನ್ನು ಅನೇಕ ರೂಪದಲ್ಲಿ ಅನಾವರಣಗೊಳಿಸುತ್ತದೆ.ಇನ್ನೊಂದೆಡೆ ಯುವಕನೊಬ್ಬ ತನ್ನ ಸಾಹಿತ್ಯ ಆಕಾಂಕ್ಷೆಗಳನ್ನು ಗುಪ್ತವಾಗಿಡುವುದನ್ನು ವಿವರಿಸುವ ಮೂಲಕ ದರ್ಪಹರಣ್‌  ಟಾಗೋರ್‌ರ ಸ್ವಪ್ರಜ್ಞೆಯನ್ನು ಬಿಂಬಿಸುತ್ತದೆ.ಅವರು ಪತ್ನಿಯನ್ನು ಪ್ರೀತಿಸುತ್ತಿದ್ದರು. ಆದರೆ ಆಕೆಯ ಸ್ವಂತ ಸಾಹಿತ್ಯಕ ಭವಿಷ್ಯವನ್ನು ದಮನಿಸಿದರು. ಇದು ವನಿತೆಯರ ಕ್ಷೇತ್ರವಲ್ಲ ಎಂಬ ಅವರ ತಿಳಿವು ಹೀಗಾಗಲು ಕಾರಣವಾಯಿತು. ತಮ್ಮ ಯೌವನದಲ್ಲಿ ಟಾಗೋರ್‌ ಸ್ತ್ರೀಯರ ಬಗ್ಗೆ ಸಂಕೋಚ ಪ್ರವೃತ್ತಿ ಹೊಂದಿದ್ದರೆಂದು ತೋರುತ್ತದೆ.ತನ್ನ ಪತ್ನಿಯ ಪ್ರಬುದ್ಧ ನಿಲುವುಗಳಿಗಾಗಿ ಪತಿ ಹಪಹಪಿಸುವುದನ್ನು ದರ್ಪಹರಣ್‌    ಬಿಚ್ಚಿಡುತ್ತದೆ. ಇತರ ಟಾಗೋರ್ ಕಥೆಗಳಲ್ಲಿ ಒಂದಾದ ಜಿಬಿಟೊ ಒ ಮ್ರಿಟೊ  ಬಂಗಾಳಿಗರಿಗೆ ಅವರು ಹೆಚ್ಚು ಬಳಸುತ್ತಿದ್ದ ನುಡಿಗಟ್ಟೊಂದನ್ನು ವಿವರಿಸುತ್ತದೆ. ಆ ನುಡಿಗಟ್ಟು ಹೀಗಿದೆ - ಕಾದೊಂಬಿನಿ ಮೊರಿಯ ಪ್ರೊಮಾನ್ ಕೊರಿಲೊ ಶಿ ಮೋರ್ ನೈ  (ಕಾದೊಂಬಿನಿ ಸತ್ತಳು, ಅದರ ಮೂಲಕ ಅವಳಿಲ್ಲ ಎಂಬುದನ್ನು ಸಾಬೀತು ಮಾಡಿದಳು).

ಶಾಸ್ತ್ರೀಯ ಸಾಂಪ್ರದಾಯಿಕತೆಯಿಂದ ವಿನೋದ, ಕಲ್ಪನೆ, ಮತ್ತು ಭಾವಪರವಶತೆಯ ಶೈಲಿಗೆ ಬದಲಾವಣೆಗೊಂಡ ಟಾಗೋರ್‌ರ ಕಾವ್ಯ ೧೫ನೇ ಮತ್ತು ೧೬ನೇ ಶತಮಾನದ [178] ಕವಿಗಳಿಂದ ಹುಟ್ಟಿದ ಪರಂಪರೆಯ ಮುಂದುವರಿಕೆ. ಉಪನಿಷತ್ತುಅನ್ನು ರಚಿಸಿದ ವ್ಯಾಸ ಮುಂತಾದ ಋಷಿ -ಸಾಹಿತಿಗಳು, ಭಕ್ತ-ಸೂಫಿ ಆಧ್ಯಾತ್ಮಿಕಾರ್ಥದ ಕಬೀರ, ಮತ್ತು ರಾಂಪ್ರಸಾದ್ ಮೊದಲಾದವರ ಅಧ್ಯಾತ್ಮ ಜ್ಞಾನದಿಂದ ಟಾಗೋರ್‌ ಪ್ರಭಾವಿತರಾದವರು.[180]ಗ್ರಾಮೀಣ ಬಂಗಾಳದ ಜಾನಪದ ಸಂಗೀತಕ್ಕೆ ಟಾಗೋರ್‌ ಒಡ್ಡಿಕೊಂಡ ನಂತರ ಅವರ ಕಾವ್ಯಕ್ಕೆ ಹೊಸಹೊಸ ಆಯಾಮಗಳು ದೊರೆಯಿತು ಮತ್ತು ಪಕ್ವವಾಯಿತು, ಅದು [181] ಜಾನಪದ ಗಾಯಕರಿಂದ, ವಿಶೇಷವಾಗಿ ಪ್ರಾಚೀನ ಕವಿಗಳು ಲಲನ್|, ಹಾಡಲ್ಪಟ್ಟ ಲಾವಣಿಗಳನ್ನು ಒಳಗೊಂಡಿದೆ.[183][185]ಟಾಗೋರ್‌ರಿಂದ ಪುನಶ್ಯೋಧಿಸಲ್ಪಟ್ಟ ಮತ್ತು ಜನಪ್ರಿಯಗೊಳಿಸಲ್ಪಟ್ಟ ಇವು ೧೯ನೇ ಶತಮಾನದ  ಸ್ತ್ರೋತ್ರಗಳನ್ನು ಹೋಲುತ್ತವೆ. ಅವು ಅಂತರಂಗದ ದೈವತ್ವಕ್ಕೆ ಒತ್ತು ನೀಡುತ್ತವೆ ಮತ್ತು ಧಾರ್ಮಿಕ ಹಾಗೂ ಸಾಮಾಜಿಕ ಸಾಂಪ್ರದಾಯಿಕತೆಯ ವಿರುದ್ಧ ಬಂಡಾಯವೇಳುತ್ತವೆ.ಅವರು ಶಿಲೈದಾಹದಲ್ಲಿದ್ದ ಸಂದರ್ಭದಲ್ಲಿ, ಅವರ ಪದ್ಯಗಳು ಮಾನರ್ ಮಾನುಸ್ ‌ನಿಂದ (ಬೌಲ್ಸ್‌ರ ಹೃದ್ಗತ ಮಾನವ) ಮಾತನಾಡುವ ಮೂಲಕ ಅಥವಾ ಜೀವನ್ ದೇವತಾ  (ಅಂತರ್ಗತ ದೈವ)ದ ಬಗ್ಗೆ ಧ್ಯಾನ ಮಾಡುವ ಮೂಲಕ ಸಾಹಿತ್ಯಕ ಗುಣಮಟ್ಟವನ್ನು ಪಡೆದುಕೊಂಡವು. ಇವು ಈ ರೀತಿಯಾಗಿ, ಪ್ರಕೃತಿ ಮಾತೆಗೆ ಮನವಿ ಮತ್ತು ಮಾನವನ ಅಂತರಂಗದ ಭಾವನಾತ್ಮಕ ನಾಟಕದ ಕೊಂಡಿ ಸೇರಿಸುವ ಮೂಲಕ ದೈವತ್ವದೊಂದಿಗೆ ಸಂಪರ್ಕವನ್ನು ತರಲು ಪ್ರಯತ್ನಿಸಿದವು. ಎಂತಹ ಕಲಾತಂತ್ರಗಳನ್ನು ತಮ್ಮ  ಗೀತೆಗಳಲ್ಲಿ ಟಾಗೋರ್‌ ಬಳಸುತ್ತಿದ್ದರೆಂದರೆ (ಅವು ರಾಧ ಮತ್ತು ಕೃಷ್ಣರ ಪ್ರೇಮ ಪ್ರಸಂಗವನ್ನು ನಿರೂಪಿಸುತ್ತವೆ) ಅವುಗಳನ್ನು ಅವರು ಎಪ್ಪತ್ತು ವರ್ಷಗಳ ಕಾಲ ಪುನಃಪುನಃ ಪರಿಷ್ಕರಣೆಗೆ ಒಳಪಡಿಸುತ್ತಿದ್ದರು.

ಪ್ರಾಯೋಗಿಕ ಸಾಧನೆಗಳ ಮೂಲಕ ಬಂಗಾಳ ಸಾಹಿತ್ಯದಲ್ಲಿನ ಆಧುನಿಕತೆ ಮತ್ತು ವಾಸ್ತವಿಕತೆಯ ಸಂಕಟಸ್ಥಿತಿಗೆ ಟಾಗೋರ್‌ ೧೯೩೦ರಲ್ಲಿ, ಪ್ರತಿಕ್ರಿಯಿಸಿದರು. ಅಂತಹ ಬರಹಗಳಿಗೆ ಉದಾಹರಣೆಗಳೆಂದರೆ - ಆಫ್ರಿಕ  ಮತ್ತು ಕ್ಯಾಮಲಿಯ , ಇವು ನಂತರದ ಅವರ ಪದ್ಯಗಳಲ್ಲಿ ಪ್ರಸಿದ್ಧವಾದವು.ಅವರು ಅಗೊಮ್ಮೆ ಈಗೊಮ್ಮೆ ಶಾಧು ಭಾಷಾ ವನ್ನು (ಸಂಸ್ಕೃತಭೂಯಿಷ್ಟ ಬಂಗಾಳಿ ಪ್ರಾಂತಭಾಷೆ) ಬಳಸಿಕೊಂಡು ಕಾವ್ಯ ರಚಿಸುತ್ತಿದ್ದರು. ನಂತರ ಅವರು ಚೋಲ್ತಿ ಭಾಷಾ ವನ್ನು (ಜನಪ್ರಿಯ ಪ್ರಾಂತ ಭಾಷೆ) ಬಳಸಲು ಪ್ರಾರಂಭಿಸಿದರು.ಮಾನಸಿ , ಸೋನಾರ್ ತೋರಿ  (ಬಂಗಾರದ ದೋಣಿ ), ಬಲಕ  (ಕಾಡು ಬಾತುಗಳು —ವಲಸೆಹೋಗುವ ಆತ್ಮಗಳು ಎಂಬುದಕ್ಕೆ ಇರುವ ರೂಪಕಾಲಂಕಾರ), ಮತ್ತು ಪುರೊಬಿ  ಇವು ರವೀಂದ್ರರ ಇತರ ಗಮನಾರ್ಹ ಬರಹಗಳು. ಜೀವನ ಮತ್ತು ಸಾಧನೆಯ ಕ್ಷಣಿಕ ಗುಣದೊಂದಿಗೆ ಸಂಬಂಧವನ್ನು ಹೊಂದಿದ ಸೋನಾರ್ ತೋರಿಯು ಸುಪ್ರಸಿದ್ಧ ಪದ್ಯ. ಅದೇ ಹೆಸರಿನಿಂದ ಅದು ಮುಂದುವರಿಯುತ್ತದೆ; ಹಾಗೂ ಚಿರಸ್ಮರಣೀಯ ಸೂಕ್ತಿಯೊಂದಿಗೆ ಕೊನೆಗೊಳ್ಳುತ್ತದೆ শূন্য নদীর তীরে রহিনু পড়ি / যাহা ছিল লয়ে গেল সোনার তরী (ಶುನ್ನೊ ನೊಡಿರ್ ಟೈರ್ ರೊಹಿನು ಪೊರಿ / ಜಹ ಚಿಲೊ ಲೊಯ್ ಗೆಲೊ ಶೊನಾರ್ ತೋರಿ—ನಾನು ಸಾಧಿಸಿದ ಎಲ್ಲವೂ ಬಂಗಾರದ ದೋಣಿಯಲ್ಲಿ ಕೊಂಡೊಯ್ಯಲ್ಪಟ್ಟಿದೆ-ನಾನು ಉಳಿದಿದ್ದೇನೆ.). ಅಂತಾರಾಷ್ಟ್ರೀಯವಾಗಿ,  ಗೀತಾಂಜಲಿ ()ಯು ಟಾಗೋರ್‌ರವರ ಸರ್ವಶ್ರೇಷ್ಠ ಸಂಗ್ರಹವಾಗಿದೆ ಹಾಗೂ ಅದು ಅವರಿಗೆ ನೋಬೆಲ್ ಪ್ರಶಸ್ತಿಯನ್ನು ತಂದುಕೊಟ್ಟಿದೆ. ಗೀತಾಂಜಲಿಯ ಹಾಡು VII (গীতাঞ্জলি ೧೨೭):

ಟಾಗೋರ್‌ರವರಿಂದ ಅನುವಾದಿತವಾದ ಮುಕ್ತಕವಿತೆ (ಗೀತಾಂಜಲಿ , ಪದ್ಯ VII):

ಗೀತಾಂಜಲಿ ಯ ಆರನೇ ಪದ್ಯ ಕ್ಲಾಂತಿ (; ಫಟಿಗ್), ಹೀಗಿದೆ:

ಟಾಗೋರ್‍ ಕಾವ್ಯಗಳಿಗೆ ಅನೇಕ ಸಂಗೀತಕಾರರು ಸಂಗೀತ ಸಂಯೋಜನೆ ನೀಡಿದ್ದಾರೆ, ಶಾಸ್ತ್ರೀಯ ಸಂಗೀತಕಾರ ಅರ್ಥೂರ್ ಶೆಫರ್ಡ್‌ರವರ ಅತ್ಯುಚ್ಚ ತಾರ ಸ್ಥಾಯಿಯಲ್ಲಿ ತ್ರಿಸ್ವರ ಮತ್ತು ತಂತಿವಾದ್ಯ ಚತುಷ್ಕ ಹಾಗೂ ಟಾಗೋರ್‌ರ ಕಾವ್ಯ ಗೀತಾಂಜಲಿಯ ಸ್ಟ್ರೀಮ್ ಆಫ್ ಲೈಫ್‌ನ ರೂಪಾಂತರ, ಸಂಗೀತಕಾರ ಗ್ಯಾರಿ ಸ್ಕೈಮ್ಯನಾನ್‌ರವರ ಪ್ರಾಣ್ ಮೊದಲಾದವು ಅವುಗಳಲ್ಲಿ ಪ್ರಮುಖವಾದವುಗಳು. ಅನಂತರದವುಗಳಿಗೆ, ಇಂಟರ್ನೆಟ್ ಪ್ರಖ್ಯಾತಿ ಮಟ್ ಹಾರ್ಡಿಂಗ್‌ನ ೨೦೦೮ ವೈರಲ್ ವೀಡಿಯೊಗೆ ಜತೆಗೂಡಲು ಪಲ್ಬಾಶ ಸಿದ್ದಿಕೀ ಸಂಗೀತ ನೀಡಿದ್ದಾರೆ ಹಾಗೂ ಅವು ಅವರ ಧ್ವನಿಯಿಂದಲೇ ಮೂಡಿಬಂದಿವೆ.

ಟಾಗೋರ್‌ರ ರಾಜಕೀಯ ಚಿಂತನೆ ಕ್ಲಿಷ್ಟಕರ.ಸಾರ್ವಭೌಮತ್ವವನ್ನು ವಿರೋಧಿಸಿದ ಅವರು  ಭಾರತೀಯ ರಾಷ್ಟ್ರೀಯತಾವಾದಿಗಳನ್ನು ಬೆಂಬಲಿಸಿದರು. ಹಿಂದು-ಜರ್ಮನ್ ಗುಪ್ತಕೂಟ ಪ್ರಯೋಗದ ಸಂದರ್ಭದಲ್ಲಿ ಅವರು ಮಂಡಿಸಿದ ರುಜುವಾತುಗಳು ಮತ್ತು ನಂತರದ ವಿವರಣೆಗಳು ಘಾದರೈಟ್ ಗುಪ್ತಕೂಟದ ಬಗ್ಗೆ ಅವರಿಗೆ ಅರಿವಿತ್ತಂಬುದನ್ನು ದೃಢೀಕರಿಸಿವೆ. ಅವರು ಜಪಾನಿನ ಪ್ರಧಾನ ಮಂತ್ರಿ ತೆರೌಚಿ ಮಸಟೇಕ್ ಮತ್ತು ಮಾಜಿ ಪ್ರಧಾನ ಸಚಿವ ಒಕುಮ ಶಿಗೆನೊಬು‌ರವರ ಬೆಂಬಲಕ್ಕಾಗಿ ಪ್ರಯತ್ನಿಸಿದ್ದರು ಎಂದು ಹೇಳಲಾಗಿದೆ. ಆದರೂ ಅವರು ಸ್ವದೇಶಿ ಚಳವಳಿಯನ್ನು ಅವರ ೧೯೨೫ರ ಪ್ರಬಂಧ ದ ಕಲ್ಟ್ ಆಫ್ ದ ಚರಕದಲ್ಲಿ ತೀಕ್ಷ್ಣ ವಿಡಂಬನೆಗೆ ಈಡು ಮಾಡಿದ್ದಾರೆ.ಬ್ರಿಟಿಷ್ ಸಾರ್ವಭೌಮತ್ವವನ್ನು ನಮ್ಮ ಸಾಮಾಜಿಕ ರೋಗದ ರಾಜಕೀಯ ಲಕ್ಷಣಗಳು ಎಂದು ಟೀಕಿಸಿದರು. ಅಂಧ ಕ್ರಾಂತಿಯ ಪ್ರಶ್ನೆಯೇ ಇಲ್ಲ, ಆದರೆ ದೃಢ ಮತ್ತು ಉದ್ದೇಶಪೂರ್ಣ ಶಿಕ್ಷಣದ ಅಗತ್ಯವಿದೆ ಎಂಬುದನ್ನು ಸ್ವೀಕರಿಸಲು ಭಾರತೀಯರನ್ನು ಪ್ರೇರೇಪಿಸಿದರು. ಈ ಮೂಲಕ, ಅವರು ಸ್ವ-ಸಹಾಯ ಮತ್ತು ವೈಚಾರಿಕ ಸಮ್ಋದ್ಧಿ ಜನಸಾಮಾನ್ಯರಲ್ಲಿ ಬೆಳೆಯಲಿ, ಅದೊಂದೇ ಪರ್ಯಾಯ ಮಾರ್ಗ ಎಂದರು.

ಇಂತಹ ಅಭಿಪ್ರಾಯಗಳು ಅನೇಕರನ್ನು ಅನಿವಾರ್ಯವಾಗಿ ಕೆರಳಿಸಿತು. ೧೯೧೬ರಲ್ಲಿ ಅವರು ಸ್ಯಾನ್ ಫ್ರಾನ್ಸಿಸ್ಕೊ ಹೋಟೆಲ್‌ನಲ್ಲಿ ತಂಗಿದ್ದಾಗ ಭಾರತೀಯ ವಲಸಿಗರಿಂದ ಹತ್ಯೆಯಾಗುವುದರಿಂದ ಸ್ವಲ್ಪದರಲ್ಲೇ ಪಾರಾದರು. ಹತ್ಯೆಗೆ ಹೊಂಚು ಹಾಕಿದ್ದ ಕೊಲೆಪಾತಕರು ಜಗಳದಲ್ಲಿ ತೊಡಗಿದ್ದರಿಂದ ಆ ಸಂಚು ವಿಫಲವಾಯಿತು. ಆದರೂ ಟಾಗೋರ್‌ ಭಾರತೀಯ ಸ್ವತಂತ್ರ ಚಳವಳಿಯನ್ನು ಪ್ರತಿಬಿಂಬಿಸುವ ಹಾಡುಗಳನ್ನು ಬರೆದರು ಮತ್ತು ೧೯೧೯ರ ಜಲಿಯನ್‌ವಾಲಾ ಬಾಘ್ ಹತ್ಯಾಕಾಂಡದ ವಿರುದ್ಧದ ಪ್ರತಿಭಟನಾರ್ಥ ಅವರ ನೈಟ್‌ಹುಡ್‌ ಪದವಿಯನ್ನು ಪರಿತ್ಯಜಿಸಿದರು.ಟಾಗೋರ್‌ರ ಹೆಚ್ಚು ರಾಜಕೀಯ ಜವಾಬ್ದಾರಿಯುತ ಕಾರ್ಯಗಳೆಂದರೆ - ಚಿಟ್ಟೊ ಜೇಥ ಭಾಯ್‌ಶುನ್ಯೊ (ಅಂಜಿಕೆಯಿಲ್ಲದ ಮನವಿದ್ದಲ್ಲಿ) ಮತ್ತು ಹೆಚ್ಚಾಗಿ ಗಮನಸೆಳೆದ ಹಾಗೂ ಗಾಂಧಿಯವರಿಂದ ಮೆಚ್ಚುಗೆಗೆ ಪಾತ್ರವಾದ ಎಕ್ಲ ಚಲೊ ರೆ (ನಿನ್ನ ಕರೆಗೆ ಅವರು ಓಗೊಡದಿದ್ದರೆ, ನಡೆ ಒಬ್ಬನೇ ಮುನ್ನಡೆ). ಗಾಂಧಿ-ಟಾಗೋರ್‌ ಅವರದು ಪ್ರಕ್ಷುಬ್ಧ ಸಂಬಂಧ.ಆದರೂ ಅಸ್ಪೃಶ್ಯರಿಗೆ ಪ್ರತ್ಯೇಕ ಮತದಾರ ಸಮುದಾಯ ನಿರ್ಮಾಣವಾಗ ಬೇಕು ಎಂಬ ಗಾಂಧಿ-ಅಂಬೇಡ್ಕರ್ ನಡುವಿನ ಜಗಳವನ್ನು ಪರಿಹರಿಸುವಲ್ಲಿ ಹಾಗೂ ಗಾಂಧಿಯವರ ಆಮರಣ ಉಪವಾಸವನ್ನು ಕೊನೆಗೊಳಿಸುವಲ್ಲಿ ಅವರು ಪ್ರಮುಖ ಪಾತ್ರವಹಿಸಿದರು.

ಒಂದು ಹಕ್ಕಿಯನ್ನು ಪಂಜರದಲ್ಲಿಟ್ಟು, ಅದು ಸಾಯುವವರೆಗೆ ಪುಸ್ತಕದ ಹರಿದ ಪುಟಗಳನ್ನು ಬಲವಂತವಾಗಿ ತಿನ್ನಿಸುವ ಕಥೆ ದ ಪ್ಯಾರೊಟ್ಸ್ ಟ್ರೈನಿಂಗ್‌ನಲ್ಲಿ ಟಾಗೋರ್‌ ಸಾಂಪ್ರದಾಯಕ ಶಾಲಾ ಪದ್ಧತಿಯನ್ನು ಕಟುವಾಗಿ ಟೀಕಿಸಿದ್ದಾರೆ. ಈ ಸಾಧನೆಗಳು ಟಾಗೋರ್‌ರವರು, ೧೯೧೭ರ ಅಕ್ಟೋಬರ್ ೧೧ರಲ್ಲಿ ಹೊಸರೀತಿಯ ವಿಶ್ವಾವಿದ್ಯಾನಿಲಯವನ್ನು ರೂಪಿಸಲು ಕ್ಯಾಲಿಫೋರ್ನಿಯಾದ ಸಂತ ಬಾರ್ಬರಾಕ್ಕೆ ಭೇಟಿ ನೀಡಿದ ಸಂದರ್ಭದಲ್ಲಿ ಕನಸು ಕಂಡರು. [ಅವರ ಆಶ್ರಮ] ಶಾಂತಿನಿಕೇತನವನ್ನು ಭಾರತ ಮತ್ತು ಪ್ರಪಂಚದ ಸಂಪರ್ಕ ಸೇತುವಾಗಿ ಮಾಡಬೇಕು, [ಹಾಗೂ] ರಾಷ್ಟ್ರ ಮತ್ತು ಭೌಗೋಳಿಕ ಸೀಮಾ ರೇಖೆಯ ಮಿತಿಗಳನ್ನು ದಾಟಿ ಮಾನವೀಯತೆ ಶಿಕ್ಷಣದ ವಿಶ್ವಕೇಂದ್ರವಾಗಿ ಮಾಡಬೇಕು ಎಂದು ಅಪೇಕ್ಷಿಸಿದರು. ಅವರು ವಿಶ್ವ-ಭಾರತಿ ಎಂದು ಹೆಸರಿಸಿದ ಶಾಲೆಯ ಅಡಿಪಾಯ ೧೯೧೮ರ ಡಿಸೆಂಬರ್ ೨೨ರಲ್ಲಿ ಹಾಕಲ್ಪಟ್ಟಿತು; ಅದನ್ನು ೧೯೨೧ರ ಡಿಸೆಂಬರ್ ೨೨ರಲ್ಲಿ ಉದ್ಘಾಟಿಸಲಾಯಿತು. ವಿದ್ಯಾರ್ಥಿಗಳಿಗೆ ವೈಯಕ್ತಿಕ ಮಾರ್ಗದರ್ಶನ ನೀಡಲು ಗುರುಗಳ ನ್ನು ನೇಮಕಮಾಡಿಕೊಂಡು ಬ್ರಹ್ಮಚರ್ಯ  ಶೈಕ್ಷಣಿಕ ಸಂಸ್ಥೆಯನ್ನು ಇಲ್ಲಿ ಟಾಗೋರ್‌ ಸ್ಥಾಪಿಸಿದರು. ಶಾಲೆಗಾಗಿ ಮತ್ತು ಶಾಲಾ ಸಿಬ್ಬಂದಿ ವರ್ಗಕ್ಕಾಗಿ ಹಣ ಸಂಗ್ರಹಿಸಲು ಟಾಗೋರ್‌ ತುಂಬಾ ಶ್ರಮಿಸಿದರು. ಅವರ ನೊಬೆಲ್ ಪ್ರಶಸ್ತಿಯ ಹಣವನ್ನೆಲ್ಲಾ ಅದಕ್ಕಾಗಿ ವಿನಿಯೋಗಿಸಿದರು.ಶಾಂತಿನಿಕೇತನದ ಮೇಲ್ವಿಚಾರಣೆ ಮತ್ತು ಮಾರ್ಗದರ್ಶನ ಮಾಡುವಂಥ ಜಬಾಬ್ದಾರಿಗಳಲ್ಲಿ ಟಾಗೋರ್‌ ಸದಾ ಕಾರ್ಯನಿರತರಾಗಿರುವಂತೆ ಮಾಡಿದವು. ಬೆಳಗ್ಗೆ ತರಗತಿಗಳಲ್ಲಿ ಬೋಧಿಸಿದರೆ ಮಧ್ಯಾಹ್ನ ಮತ್ತು ಸಂಜೆ ವಿದ್ಯಾರ್ಥಿಗಳ ಪಠ್ಯ ಪುಸ್ತಕಗಳನ್ನು ಬರೆಯುವುದರಲ್ಲಿ ತಲ್ಲೀನರಾಗಿರುತ್ತಿದ್ದರು.ಶಾಲೆಗಾಗಿ ೧೯೧೯ ಮತ್ತು ೧೯೨೧ರ ನಡುವಿನ ಅವಧಿಯಲ್ಲಿ ಯುರೋಪ್ ಮತ್ತು U.S.ನಲ್ಲಿ ಟಾಗೋರ್‌ ಹಣ ಸಂಗ್ರಹಿಸಿದರು.

ಟಾಗೋರ್‌ ಇಂದಿಗೂ ಎಷ್ಟು ಪ್ರಸ್ತುತ ಎಂಬುದಕ್ಕೆ ಅವರ ಗೌರವಾರ್ಥ ಆಚರಿಸಲಾಗುವ ಹಬ್ಬಗಳೇ ಒಂದು ಮಾನದಂಡ: ಟಾಗೋರ್‌ ಜನ್ಮದಿನೋತ್ಸವ ಕಬಿಪ್ರಾಣಮ್ ; ಅಮೇರಿಕ ಸಂಯುಕ್ತ ಸಂಸ್ಥಾನದ ಇಲ್ಲಿನೋಯಿಸ್‌ನ ಉರ್ಬಾನದಲ್ಲಿ ನಡೆದ ಟಾಗೋರ್ ವಾರ್ಷಿಕೋತ್ಸವ; ರವೀಂದ್ರ ಪಥ ಪರಿಕ್ರಮ  ಯಾತ್ರಾರ್ಥಿಗಳು ಕಲ್ಕತ್ತಾದಿಂದ ಶಾಂತಿನಿಕೇತನಕ್ಕೆ ಹೋಗುವುದು; ಪ್ರಮುಖ ವಾರ್ಷಿಕೋತ್ಸವಗಳಲ್ಲಿ ನಡೆಸಲ್ಪಡುವ ಟಾಗೋರ್‌ರ ಕಾವ್ಯದ ವಿಧ್ಯುಕ್ತ ವಾಚನ; ಹಾಗೂ ಇತ್ಯಾದಿಗಳು. ಭಾಷೆ ಮತ್ತು ಕಲೆಯಿಂದ ಇತಿಹಾಸ ಮತ್ತು ರಾಜಕೀಯದವರೆಗೆ ಅನುರಣಿಸಿದ ಈ ಆಸ್ತಿ ಬಂಗಾಳಿ ಸಂಸ್ಕೃತಿಯಲ್ಲಿ ಸ್ಫುಟವಾಗಿ ಗೋಚರಿಸುತ್ತದೆ.ಅವರೊಬ್ಬ 'ಶಿಖರಪ್ರಾಯ ಪುರುಷ', 'ಬಹುಮುಖಿ ವ್ಯಕ್ತಿತ್ವದ ಇವರ ಚಿಂತನೆ ಇಂದಿಗೂ ಪ್ರಸ್ತುತ' ಎಂದು ನೊಬೆಲ್ ಪ್ರಶಸ್ತಿ ಪುರಸ್ಕೃತ ಅಮರ್ತ್ಯ ಸೇನ್ ಟಾಗೋರ್‌ ಅವರನ್ನು ಮುಕ್ತ ಕಂಠದಿಂದ ಕೊಂಡಾಡಿದ್ದಾರೆ. ಟಾಗೋರ್‌ರ ಬಂಗಾಳಿ-ಭಾಷಾ ಬರಹಗಳನ್ನು—೧೯೩೯  —ಬಂಗಾಳದ ಅಮೂಲ್ಯ ಸಾಂಸ್ಕೃತಿಕ ಸಂಪತ್ತುಗಳಲ್ಲಿ ಒಂದೆಂದು ಪರಿಗಣಿಸಲಾಗಿದೆ. ಭಾರತ ಸೃಷ್ಟಿಸಿದ ಮಹಾ ಕವಿ ಎಂದು ಟಾಗೋರ್‌ ತಮ್ಮನ್ನು ತಾವು ಬಣ್ಣಿಸಿಕೊಂಡಿದ್ದಾರೆ.

ಟಾಗೋರ್‌ ಯುರೋಪ್, ಉತ್ತರ ಅಮೇರಿಕ, ಮತ್ತು ಪೂರ್ವ ಏಷ್ಯಾದ್ಯಂತ ಪ್ರಖ್ಯಾತರು. ಅವರು ಪ್ರಗತಿಶೀಲ ಸಹಶಿಕ್ಷಣ ಸಂಸ್ಥೆ ಡಾರ್ಟಿಂಗ್‌ಟನ್ ಹಾಲ್ ಸ್ಕೂಲ್‌ ಸ್ಥಾಪನೆಯ ಪ್ರಮುಖ ರೂವಾರಿ; ಜಪಾನಿನಲ್ಲಿ ನೋಬೆಲ್ ಪ್ರಶಸ್ತಿ ಪುರಸ್ಕೃತ ಯಶುನಾರಿ ಕವಬತರಂತಹ ಅನೇಕ ವ್ಯಕ್ತಿಗಳ ಮೇಲೆ ತಮ್ಮ ಪ್ರಭಾವ ಬೀರಿದರು. ಬಹುವಾಗಿ ಇಂಗ್ಲೀಷ್, ಡಚ್, ಜರ್ಮನ್, ಸ್ಪ್ಯಾನಿಶ್, ಮತ್ತು ಇತರ ಯುರೋಪಿಯನ್ ಭಾಷೆಗಳಿಗೆ ಅನುವಾದಗೊಂಡಿವೆ. ಜೆಕ್ ದೇಶದ ಇತಿಹಾಸಜ್ಞ ವಿನ್ಸೆಂಕ್ ಲೆಸ್ನಿ, ಫ್ರೆಂಚ್ ನೊಬೆಲ್ ಪ್ರಶಸ್ತಿ ವಿಜೇತ ಆಂಡ್ರೆ ಗೈಡ್, ರಷ್ಯಾದ ಕವಿ ಅನ್ನ ಅಖ್ಮತೋವ, ಮಾಜಿ ಟರ್ಕಿಶ್ ಪ್ರಧಾನ ಮಂತ್ರಿ ಬುಲೆಂಟ್ ಎಸೆವಿಟ್, ಮತ್ತು ಇತರರಿಂದ ಟಾಗೋರ್‌ರ ಬರಹಗಳು ಅನುವಾದಿಸಲ್ಪಟ್ಟಿವೆ.  ಯುನೈಟೆಡ್ ಸ್ಟೇಟ್ಸ್‌ನಲ್ಲಿ ಟಾಗೋರ್‌ ನೀಡಿದ ಉಪನ್ಯಾಸವು ಬಹು ಜನಪ್ರಿಯ (ವಿಶೇಷವಾಗಿ ೧೯೧೬–೧೯೧೭ರ ಅವಧಿಯದ್ದು). ಅಧಿಕ ಸಂಖ್ಯೆಯಲ್ಲಿ ಭಾಗವಹಿಸುತ್ತಿದ್ದ ಶ್ರೋತೃಗಳಿಂದ ಮುಕ್ತ ಪ್ರಶಂಸೆಗೆ ಒಳಗಾದ ಉಪನ್ಯಾಸಗಳಿವು.ಇವರ ಸುತ್ತಲೂ ಎದ್ದ ವಿವಾದಗಳ ಹುತ್ತ ಜಪಾನ್ ಮತ್ತು ಉತ್ತರ ಅಮೇರಿಕಾದಲ್ಲಿ ಅವರ ಜನಪ್ರಿಯತೆ ಕುಗ್ಗಲು ಕಾರಣವಾಯಿತು. ೧೯೨೦ರ ನಂತರದ ವಿದ್ಯಮಾನವಿದು. ಕೊನೆಗೆ ಬಂಗಾಳದ ಆಚೆ ಇವರ ವರ್ಚಸ್ಸಿಗೆ 'ಗ್ರಹಣ' ಹಿಡಿದಂತಾಯಿತು.

ಅನುವಾದಗಳ ಮೂಲಕ ಟಾಗೋರ್‌ ಸ್ಪ್ಯಾನಿಶ್ ಸಾಹಿತ್ಯದ ಮೇಲೆ ಪ್ರಭಾವ ಬೀರಿದರು: ಚಿಲಿ ದೇಶದವರಾದ ಪಬ್ಲೊ ನೆರುಡ ಮತ್ತು ಗಾಬ್ರಿಯೆಲ ಮಿಸ್ಟ್ರಲ್, ಮೆಕ್ಸಿಕನ್ ಬರಹಗಾರ ಒಕ್ಟಾವಿಯೊ ಪಾಜ್, ಮತ್ತು ಸ್ಪೇನ್ ದೇಶದವರಾದ ಜೋಸ್ ಒರ್ಟೆಗ ವೈ ಗ್ಯಾಸೆಟ್, ಜೆನೊಬಿಯ ಕ್ಯಾಂಪ್ರುಬಿ, ಮತ್ತು ಜ್ವಾನ್ ರಾಮನ್ ಜಿಮೆನೆಜ್.೧೯೧೪ ಮತ್ತು ೧೯೨೨ರ ಮಧ್ಯೆ, ಜಿಮೆನೆಜ್-ಕ್ಯಾಂಪ್ರುಬಿ ದಂಪತಿಗಳು ಟಾಗೋರ್‌ರ ಇಪ್ಪತ್ತೆರಡು ಪುಸ್ತಕಗಳನ್ನು ಇಂಗ್ಲಿಷ್‌ನಿಂದ ಸ್ಪ್ಯಾನಿಶ್‌ಗೆ ಅನುವಾದಿಸಿದರು ಮತ್ತು ವ್ಯಾಪಕ ಪರಿಷ್ಕರಣೆಗೆ ಒಳಪಡಿಸಿ ಅದಕ್ಕೆ ಟಾಗೋರ್‌ರ ದ ಕ್ರಿಸೆಂಟ್ ಮೂನ್  ಎಂದು ಹೆಸರಿಸಿದರು. ಈ ಸಂದರ್ಭದಲ್ಲಿ, ಜಿಮೆನೆಜ್‌ರವರು ಪ್ರಮುಖ ಹೊಸಕಲ್ಪನೆ ನೇಕೆಡ್ ಪೋಯೆಟ್ರಿಯನ್ನು (ಸ್ಪ್ಯಾನಿಶ್: «ಪೊಯೆಸಿಯ ದೆಸ್ನುಡ») ಸೃಷ್ಟಿಸಿದರು. ಇದು ಅನ್ವೇಷಣೆಯ ಹೆಗ್ಗುರುತಾಯಿತು. ಪರಿಪೂರ್ಣತೆಗಾಗಿ ನಾವೆಲ್ಲ ಹಪಹಪಿಸುವುದರ ಬಗ್ಗೆ ತುಟಿ ತೆಗೆದು ಆಡಿದ ಮಾತುಗಳೇ ಟಾಗೋರ್‌ರ ಇಷ್ಟೊಂದು ಜನಾದರಣೀಯತೆಗೆ ಕಾರಣ ಎಂದು ಒರ್ಟೆಗ ವೈ ಗ್ಯಾಸೆಟ್ ಬರೆದಿದ್ದಾನೆ.ಬಾಲಿಶ ಕೌತುಕದ ಸುಪ್ತ ಪ್ರಜ್ಞೆಯನ್ನು ಟಾಗೋರ್‌ ಜಾಗೃತಿಗೊಳಿಸುತ್ತಾರೆ ಮತ್ತು ಪೂರ್ವದೇಶದ ಅಧ್ಯಾತ್ಮದ ಬಗ್ಗೆ ಆಳವಾಗಿ ಗಮನಹರಿಸುವ ಓದುಗರನ್ನು ಮೋಡಿಗೊಳಿಸುವ ಎಲ್ಲಾ ರೀತಿಯ ಭಾಷೆಯೊಂದಿಗೆ ಅವರನ್ನು ಆರ್ದ್ರಗೊಳಿಸುತ್ತಾರೆ. ೧೯೨೦ರಲ್ಲಿ ದಾಂತೆ ಅಲಿಘೈರಿ, ಮಿಗ್ವೆಲ್ ದೆ ಸರ್ವಾಂಟೆಸ್, ಜೋಹನ್ ವೋಲ್ಫ್‌ಗಂಗ್ ವನ್ ಗೊಯಥೆ, ಪ್ಲೇಟೊ, ಮತ್ತು ಲಿಯೊ ಟಾಲ‌್‌ಸ್ಟಾಯ್ ಮೊದಲಾದವರ ಸಮಕಾಲೀನದಲ್ಲಿ ಟಾಗೋರ್‌‌ರವರ ಬರವಣಿಗೆಗಳು ಉಚಿತ ಆವೃತ್ತಿಗಳಾಗಿ ಪ್ರಸರಣಗೊಂಡಿದ್ದವು.

ಸಲ್ಲಬೇಕಾದ್ದಕ್ಕಿಂತಲೂ ಮೀರಿದ ಗೌರವಾದರವನ್ನು ಟಾಗೋರ್‌ಗೆ ನೀಡಲಾಯಿತು ಎಂದು ಕೆಲವು ಪಾಶ್ಚಾತ್ಯರು ಪರಿಗಣಿಸಿದ್ದಾರೆ.ಯೀಟ್ಸ್‌ ಹೊರತು ಪಡಿಸಿ ಬೇರೆ ಯಾರಾದರೂ ಅವರ ಕವನಗಳನ್ನು ಇನ್ನೂ ಗಂಭೀರವಾಗಿ ಪರಿಗಣಿಸಬಹುದು ಎಂದು}ಗ್ರಹಮ್ ಗ್ರೀನಿ ಸಂಶಯಿಸುತ್ತಾರೆಟಾಗೋರ್‌ ಬಗ್ಗೆ ಗೌರವಾದರವನ್ನು ಹೊಂದಿದ್ದ ಗತಕಾಲದ ಲ್ಯಾಟಿನ್ ಅಮೇರಿಕನ್‌ನ ಆಧುನಿಕ ಕುರುಹುಗಳು ಕಂಡುಬಂದಿವೆ. ಸಲ್ಮಾನ್ ರುಶ್ದಿಯು ಆತನ ನಿಕರಾಗುವದ ಭೇಟಿ ಸಮಯದಲ್ಲಿ ಸೋಜಿಗಕ್ಕೆ ಒಳಗಾಗಿದ್ದು ಇದಕ್ಕೊಂದು ನಿದರ್ಶನ.




#Article 7: संस्कृतम् (2013 words)


संस्कृतम् () जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृतावाक्, दैवीवाक्, इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।

भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।

व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। पाणिनीयाष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति।

संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी।

इयं भाषा न केवलं भारतस्‍य अपि तु विश्वस्य प्राचीनतमा भाषा इति मन्यते। इयं भाषा तावती समृद्धा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मतेन इयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा आसीत्‌। जना: संस्कृतेन वदन्ति स्म॥

विश्‍वस्‍य आदिम: ग्रन्‍थ: संस्‍कृतभाषायामेवास्‍ति। अन्‍ये च वेदा: यथा , , अथर्ववेदश्‍च संस्‍कृतभाषायामेव सन्‍ति। आयुर्वेद-धनुर्वेद-गन्‍धर्ववेदार्थवेदाख्‍या: चत्‍वार:  अपि संस्‍कृतेन एव विरचिता:॥

सर्वा:  संस्‍कृते उपनिबद्धाः । अन्‍ये ग्रन्‍था: – शिक्षा  निरुक्तम् ज्‍यौतिषम्  व्‍याकरणम् दर्शनम् ,पुराणं काव्‍यं शास्‍त्रं चेत्यादयः ॥

महर्षि-पाणिनिना विरचित: अष्‍टाध्‍यायी इति संस्‍कृतव्‍याकरणग्रन्थ: अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥

सुकुमार:

लिपिः वर्णादीनां बोधकं चिह्नम्।   

संस्‍कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत्‌| कालान्‍तरे एतस्‍य लेखनं  ब्राह्मीलिप्या अभवत्। तदनन्तरम् एतस्य लेखनं देवनागर्या आरब्धम् ।

अन्‍यरूपान्‍तराणि अधोनिर्दिष्टानि सन्‍ति –

असमीयालिपिः बांलालिपिः ओड़ियालिपिः शारदालिपिः तेलुगुलिपिः तामिऴलिपिः  कम्‍बोजलिपिः कन्नडलिपिः नेपाललिपिः मलयाळलिपिः गुजरातीलिपिः इत्यादय: ॥

मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिषु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरी लिपिः एव प्रायः उपयुज्यते।

अक्षराणां समूहः अक्षरमाला इति उच्यते।

संस्कृतभाषायाः लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजागम्।  भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः। निरवत्र एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः स्वरः; तदनर्हं व्यञ्जनम्। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।

अक्षराणि स्वराः व्यञ्जनानि च इति द्विधा विभक्तानि।  स्वराक्षराणां उच्चारणसमये अन्येषां वर्णानां साहाय्य्यं नापेक्षितम्।  स्वयं राजन्ते इति स्वराः। 

संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते – 

ऌकारस्य प्रयोगः अत्यन्तविरळः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोः उच्चारणं स्वराक्षराणां अनन्तरमेव भवति। अनुस्वारविसर्गौ विहाय अन्यानि स्वराक्षराणि भाषाशास्त्रे अच शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोः तु अचि व्यञ्जनेषु च अन्तर्भावः। 

यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णनामेव लिपिभिः विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वात् अक्षराणामेव लिपिसंज्ञितानि चिह्नानि पूर्वैः कल्पितानि।  यूरोपदेशीयास्तु स्व्स्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्यकां लिपिं Sri इति तिस्रृभिर्लिखन्त्याङ्गलेयाः।

अविभाज्य एको नादो वर्णः; केवलो व्यञ्जनसंसृष्टो वा स्वर एकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्ण इत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्ण एव। केवला एव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।

अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभाग उक्त एव।

स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः।  एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।  विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।

उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –

ह्रस्वस्वराः

येषां स्वराणाम् उच्चारणम् एकमात्राकलेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।

दीर्घस्वराः

येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।

प्लुतस्वराः

येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।

दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।  

उदाहरणानि:

व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।

यथा राजे..३श्। [राजेश् इति हिन्दी नाम]

सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविधमस्ति। 

अयमपि भेदः सूत्रकारवचनैरेवोच्यते –

उच्चः स्वर उदात्तः; नीचोऽनुदात्तः; उच्चनीचमिश्रितः स्वरितः।

लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते।   अतोऽनक्ङितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।

अनुस्वारः

अर्ध-मकारसदृशाध्वनिरनुस्वारः।
अं
विसर्गः
अः
विसर्गापरपर्यायो विसर्जनीयः। अर्ध-हकारसदृशाध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।

चन्द्रविन्दु

अर्ध-नकारसदृशाध्वनिरनुस्वारः।अँ

विसर्गादयो न स्वतन्त्रा वर्णाः; नैभि किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।

व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।  

उदाहरणम्: क् + अ = क 

उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधो दत्तवत विभक्तानि 

शुद्ध व्यञ्जनानां लेखने अधः चिह्नं योजनीयं (यथा क्, च्, म्)।

व्यञ्जनेन सह प्रयोगार्त्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।

संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।  

उदा:  

क् + व  = क्व  

क् + य = क्य 

व् + य = व्य 

कार्त्स्न्यं इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि संभूतः।  केषांचन संयुक्ताक्षराणां लेखने भिन्ना रीतिः अस्ति।  

संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेळनं अपि कुत्रचित भवेत 

उदा : कुक्कुरः, तत्त्वम्

वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।

यथोक्तं पाणिनीयशिक्ष्यायाम् – 

एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. उरः, २. कण्ठः, ३. शिरः (मूर्धा), ४. जिह्वामूलम्, ५. दन्ता, ६. नासिका, ७. ओष्ठौ, ५. तालुः।

तद्यथा –

देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र वङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।

संस्कृतभाषाया शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्‍कृतेनैव क्रियमाणाम् अस्ति। अस्‍यां भाषायां न केवलं भारतस्‍य अपि तु निखिलस्‍यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्‍ताः प्रतिष्‍ठापिताः सन्‍ति। इयमेव सा भाषा यत्र ध्‍वनेः लिपेश्‍च सर्वत्रैकरूपता वर्तते। मलयाळम्‌, तेलुगु, कन्नड इति इमाः दाक्षिणात्‍यभाषाः संस्‍कृतेन भृशं प्रभाविताः।

संस्‍कृते एकस्‍य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्‍ति । प्रत्‍येकलकारे प्रथमपुरुष:, मध्‍यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्‍ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।

अस्‍याः भाषायाः वैशिष्‍ट्‍यं नाम दण्डचिह्नम्‌। न वर्तते अत्र अन्‍यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।' एतदेव चिन्हं विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान्‌ अर्थान्‌ प्राप्‍नुमः वयम्‌। उदाहरणार्थं वाक्‍यांशः एकः दीयते। अभ्‍युत्‍थानं
च धर्मस्‍य नैव दृष्‍टं कदाचन इति एतस्‍य वाक्‍यस्‍य द्वौ अर्थौ स्‍त:॥

कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः 
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्याति नूनं कोट्यधिका भविष्यति।
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।

अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असंख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।

उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –

भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्व स्व लक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।

एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।

अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। अनेके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|

संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपोस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम् -
१८तमे शतके आङ्ल् तत्व्अज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक: आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपाभ्यं जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ)	===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ? 
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले  हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:। 
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ)	व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:। 
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् - 
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषते 
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:। 
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते,  न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ ) 
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।

अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
                        इति सञ्जयस्य वचनम् अस्ति।
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।
	राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।

युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। 
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
Evan at the present moment , after a century of English rule and English teaching, I believe that SANSKRIT is more widely understood in India than Latin was in Europe at the time of Dante-(From-India What Can It Teach Us) 
एतदपि वचनमत्र अनुसन्धेयम् - 
Hence every Hindu understands as much of Sanskrit as an Italian of Latin, especially as,in the real Hindustan the script has remained the same:and a smattering of Sanskrit  can be traced down to the circles of servants and the lower classes ,wherefore letter to Benares with only a SANSKRIT address will without difficulty  reach its destination through every postal messenger.-(From Hitory Of SASKRIT Literature-Winternitz.) 

अतः अस्य वादस्य निर्णय: एवमेव यत्- 

संस्‍कृतभाषाया: साहित्‍यमतीव सरसं वर्तते । तथा अस्‍या: व्‍याकरणं नितान्तं व्‍यवस्‍थितम् अस्‍ति। संस्‍कृतसाहित्‍यं वैदिककालादारभ्‍य अद्यावधि सुललितं विराजते । वर्ण्‍यविषयाणां बाहुल्‍यात्‌ अस्‍या: भाषाया: शब्‍दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: यथेष्टं सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।




#Article 8: देशाः (374 words)


अब्खाजिया - अफगानस्थान - अल्बानिया - अल्जीरिया - अंडोरा - अंगोला - अंटीग्वा - अर्जन्टीना - अजर्बैजान

आर्मीनिया - आस्ट्रिया - आस्ट्रेलिया - आयर्लैंड - आइसलैंड 

इन्दोनेशिया - इस्रैल - इटली

ईराक - ईरान - ईजिप्ट- ईथ्योपिया

उरुग्वाय - उजबेकिस्थान

एक्वाडोर - एल-साल्वाडोर - एस्टोनिया - एरिट्रिया

कोट ऐवरी (ऐवरी कोस्ट)

ओमान

कम्बोदिया - केनडा - केमेरून - केप वर्डी - कोलोम्बिया - कोमोरोस - कौंगो - कोस्टा रीका - क्रोएशिया - क्यूबा - केन्द्रीय अफ्रीका गणराज्य - कजाकस्थान - किरिबाटी - किरगिस्थान - कतार - केन्या - कोरिया - कुवैत

ख

ग्रीस (यूनान) - गाबोन - गाम्बिया - ग्रेनाडा - ग्वाटेमाला - गिनी - गिनी-बिसो - गयाना

घाना 

चाड - चिले - चीन - चेक रिपब्लिक

 - जर्मनी - जिबूटी - जमैका - जापान - जार्डन - जाम्बिया - जिम्बाबवे

टोगो - टोंगा - ट्रिनिडाड - टंजानिया- टिमोर - टुनिशिया - टुवालु

डेनमार्क - डोमोनिका - डोमोनिकन रिपब्लिक

तुर्किये - तैवान - ताजिकिस्थान - तुर्कमिनिस्थान

थाइलैंड

दक्षिण कोरिया

नमीबिया - नौरु - नेपाल - नेदरलैंड्स - न्यू-जीलैंड - निकारगुवा - नीजे - नैजीरिया - नार्वे

पाकिस्तान - पलाऊ - पानामा - पपुवा न्यू गिनी - पेरेग्वाय - पोलैंड - पेरु - पुर्तगाल

फिजी - फिन्लैंड - फ्रांस - फिलिपीन्स - फिलिस्तीन

बहामास - बहरैन - बंगलादेश - बार्बाडोस - बेलारूस - बेलीज - बेनिन - बेल्जियम - बोलिविया - बास्निया - बोत्सवाना - ब्रासील - ब्रूनै - बुल्गारिया - बुर्कीना-फासो - बुरुंडी - बर्मा अद्य म्‍यन्मार - ब्रिटेन

भारत - भूटान

मडगास्कर - मलावी - मलयेशिया - मालदीव - माली - माल्टा - मारिटेनिया - मारिशस - - मेसेडोनिया - मार्शल द्वीप - मेक्सिको - मैक्रोनीशिया - मोल्दोवा - मोनाको - मंगोलिया - मोराको - मोजम्बीक - मयन्मार

यमन 

रोमानिया - रूस - रवाण्डा

लाओस - लाट्विया - लेबनान - लेसोथो - लायबीरिया - लिबिया - लिक्टनस्टैन - लिथ्वानिया - लक्सम्बर्ग

वनुवाटु - वेनेज्वेला - वैटिकन - वियेतनाम

श्रीलङ्का

सायप्रस - सेंट किट् - सेंट लूसिया - सेंट विन्सेंट - समोआ - सान मरीनो - सऊदी अरब - सर्बिया - सेनेगल - सेशेल - सियारा-लियोन - सिंगापोर - सोलोमन-द्वीप - स्लोवाकिया - स्लोवीनिया - सोमालिया - सोमालिलैंड - साउथ-अफ्रीका दक्षिण-अफ्रीका - स्पेन - सूडान - स्वाजीलैंड - स्विटजरलैंड - सिरिया - सुरिनाम - स्वीडन - संयुक्त राज्य अमेरिका

हेटी - हांडूरस - हंगरी




#Article 9: जवाहरलाल नेहरू (618 words)


जवाहरलाल नेहरुः (१८८९-१९६४) प्रयागे जात: । 

१९४७तः-१९६४तमवर्षपर्यन्तं स: भारतस्य प्रधानमन्त्री आसीत्‌ ।

सः भारतवर्षस्य सर्वाधिककालपर्यन्तं नेतृत्वं कृतवान् तथा च प्रथमः प्रधानमन्त्री आसीत् ।

तस्य पितुः नाम मोतीलालनेहरुः । मातु: नाम स्‍वरूपरानी इति । केम्ब्रिजविश्‍वविद्यालये स्‍नातकपरीक्षाम्‌ उत्तीर्य स: विधिवेत्ता अभवत्‌। तस्य ब्राह्‍मणकुलोत्‍पन्‍नया कमलया सह विवाह: सम्पन्‍नः। 

जवहरलाल् नेहरु महोदयस्य माता स्वरूपराणी पिता च मोतिलाल् नेहरु (१८६१-१९३१) कश्मीरपण्डित कुले जातः । तस्य विद्याभ्यासः भारते इङ्ग्लण्डदेशे च अभवत् । इङ्ग्लण्डदेशे इण्डिपेण्डेण्ट् बोय्स् स्कूल (अननुदानितबालकशालायां) तथा केम्ब्रिडज्प्रदेशे हेरो ट्रिनिटि कलाशालायां च पठितवान् ।
	यदा इङ्ग्लण्डदेशे आसीत् तदा अयं जो नेहरु इति प्रसिद्धः । अयं ७-२-१९१६ दिनाङ्के षोडशवर्षीयां कमलाकौर इत्येतया सह विवाहं कृतवान् । तस्मिन् एव वर्षे तयोः पुत्री जाता तस्याः नाम इन्दिरा प्रियदर्शिनी इति । 

भारतदेशस्य स्वातन्त्र्यम् आगस्ट १५ दिनाङ्के १९४७ वर्षे अभवत् । तदा नेहरु ध्वजारोहणम् अकरोत् । प्रजाप्रभुत्वविषये नेहरु गुणत्वम् अपश्यत् इष्टवान् च। सः सेक्यूलरिसं, लिबरलिसं च इष्टवान् । दरिद्रेभ्यः दीनेभ्यः च साहाय्यकरणं तस्य प्रवृत्तिः आसीत् । नेहरुमहोदयस्य एतादृशाः गुणाः अस्माकं देशस्य संविधानरचनायां सहकरिणः अभवन् । देशस्य औन्नत्यर्थं प्रपञ्चे ये हितकारिणः गुणाः आसन् तान् अत्र स्थापितवान् । तस्य पुत्री इन्दिरा तथा दौहित्रः राजीवः स्वयं देशसेवां कर्तुकामौ देशस्य प्रधानमन्त्रिणौ अभवताम् ।

१९४१ जनवरी १५ दिनाङ्के गान्धी अवदत् । मम तथा नेहरुवर्यस्य मध्ये भिन्नाभिप्रायाः सन्ति इति जनाः वदन्तः सन्ति । परन्तु आवयोः मध्ये .क्षुल्लककारणेन मनोभेदःन भवेत् आवयोः लक्ष्यं सर्वदा एकमेव भवति । यत् किमपि भवतु ममोत्तरं नेहरु एव अधिकारी भवति, न तु राजाजी इति बहुकालात् वदन् अस्मि इति।.

नेहरु महाभागः तथा तेन साकं ये कारागृहे आसन् तेषां मोचनम् अभवत् । ब्रिटिश्जनाः राजकीयप्रभुत्वं भारतीयानां कृते ह्स्तान्तरितं कर्तुं निश्चितवन्तः। तदर्थं ब्रिटिश् केबिनेट् मुख्यस्थाः भारतमागताः ।
	यदा नेहरुमहाभागः प्रधानमन्त्रित्वेन कार्यभारम् ऊढवान् तदा भारते हिन्दूमुस्लिं कलहः तस्य कार्ये प्रत्यूहवत् अभवत् । महमदाली जिन्ना मुस्लिमजनानां कृते स्वतन्त्र्यदेशः आवश्यकः इति आग्रहं कृतवान् । अत एव एताद्दशविघ्नानां मध्ये तस्य कार्यम् अग्रे न गतम् । मुस्लिं जनानां तथा हिन्दूनां सहयोगेन भारते यदा प्रजाप्रभुत्वराज्यं कर्तुं न शक्तः तदा नेहरु भारतस्य विभजनं कर्तुं अनिच्छया अङ्गीकृतवान् । विभागः तु यथा ब्रिटिश्जानानां योजनानुसारम् अभवत् । अयं विभागः तु जून् ३ दिनाङ्के १९४७ वर्षे अभवत् । तदा आग्स्ट १५ दिनाङ्के सः प्रधानमन्त्रिरुपेण प्रमाणवचनं स्वीकृतवान् । तदनन्तरं तस्य प्रथमभाषणं Tryst with Destiny इति प्रसिद्धम् । तस्य भाषणस्य सारांशः एवम् आसीत्-
'अस्माकं लक्ष्यं प्रति गन्तुं सन्धानं कृतम् । इदानीं सन्धानस्य फलप्राप्त्यर्थं समयः आगतः । पूर्णतया कर्तुं न शक्यते चेदपि किञ्चिद् वा कर्तु प्रयतनीयम् । मध्यरात्रे १२ वादने यदा सर्वे सुप्ताः आसन् तदा अस्माकं देशः जागरितः आसीत्। स्वातन्त्र्यं तु प्राप्नोत् । दुर्लभं तादृशं क्षणं सर्वदा न लभ्यते। प्राचीनं सन्त्यज्य अस्माभिः नावीन्यं प्राप्तम् अस्ति। देशस्य चरिते ईद्दशं क्षणं पुनः न आगच्छति । एतावत् पर्यन्तं येषां वाक्, मनः सर्वं निगूढे आसीत् इदानीम् तेषां स्वातन्त्र्यम् आगतम् । अस्मिन् सन्दर्भे भारतस्य तथा भारतीयतायाः च सेवां कर्तुं वयं प्रतिज्ञां कुर्मः मानवतां च न त्यजाम ’ इति।
तस्मिन् काले मतान्तरकलहाः बहुत्र वर्धन्ते स्म । अयं कलहः पञ्जाब् देहली बङ्गाल् इत्यत्र सर्वत्र प्रसारितः आसीत् । नेहरु मुस्लिम् नेतृभिः साकं आभारतं सञ्चरन् सर्वत्र देशे शान्तिस्थापनाय तथा शरणार्थिनां मनः प्रसादनार्थं प्रायतत । सः मौलाना आजाद तथा अन्यैः नेतृभिः साकं मुस्लिमबान्धवानां भारते स्थातुं तथा योगक्षेमं वोढुं च वार्तालापं कृतवान् । देशस्थितिं वीक्ष्य तस्य मनोवेदना सञ्जाता।

१९४७ तमे वर्षे -भारत-पाकीस्तानयुद्धं रोद्धुं युनैटेड नेशन्स् साहाय्यं प्रार्थितवान्। 
पाकिस्तानदेशस्य तथा भारतस्य च मध्ये स्थितं हैदराबाद् इति प्रान्तं भारतस्य इति उद्धोषयितुं नेहरु मनः न चकार। यतः मतीयकलहः भवेदिति। बि.जे.पी नायकः जस्वन्तसिङ्गः एवं वदति  नेहरुमहोदयस्य चिन्तनानि एव अस्माकं भारतस्य विभजने कारणीभूतानि अभवन्। यतः सः एकत्र प्रभुत्वम् इच्छति जिन्ना तु विभागीयप्रभुत्वम् इच्छति। एतयोः मध्ये मनस्तापः एव विभजनस्य अन्यतमं कारणमभवत् । भारतस्वातन्त्र्यानन्तरं नेहरु तस्य पुत्रीम् इन्दिराम् एव तस्य तथा तस्य कार्यकलापस्य पर्यवेक्षिकारूपेण आयोजयामास । तस्य नेतृत्वे १९५२ निर्वाचने काङ्ग्रेस् पक्षः बहुमतं प्राप्नोत्। ततः इन्दिरा नेहरुगृहमेव आगत्य तस्य सर्वाङ्गीणकार्यं पश्यन् तेन साकं स्वदेशविदेशपर्यटनं कृतवती । एषा तस्य कार्यकर्तृषु प्रमुखा अभवत् ।

तेन इतिहासविषये  द डिस्कवरी ऑफ इन्डिआ अपि च  ग्लिंप्सेस ऑफ वर्ल्ड हिस्टरी इति अभ्यासपूर्णौ ग्रन्थद्वयं लिखितम् ।

तस्य जन्मदिनं नवेम्बरमासस्य चतुर्दशदिनाङ्कम् अखिले भारतवर्षे बालदिनत्वेन उत्साहपूर्वकम् आचर्यते । 
   
महात्‍मनः गान्धे: सम्पर्के आगते स: स्‍वातन्‍त्रसङ्‍ग्रामे सन्‍नद्घ: अभवत्‌ ।




#Article 10: अटल बिहारी वाजपेयी (1202 words)


अटलबिहारी वाजपेयी-(Atal Bihari Vajpayee) (२५ दिसम्बर,१९२४ – १६ अगस्त २०१८) महोदयः भारतीयः राजनीतिज्ञः आसीत् । सः भारतस्य दशमः प्रधानमन्त्री आसीत् । कवि-राजनेता अटलबिहारी वाजपेयी  शराश्विनग्रहभास्करमिते ग्वालियरनगरे श्रीमती कृष्णादेवी-कृष्णबिहारी वाजपेयी महाभागयोः पुत्रत्वेन जन्म अलभत । जनता पार्टी सञ्चालिते राज्यशासने सः परराष्ट्र मन्त्री आसीत् । भारतस्य संसदि लोकसभायां सः उत्तमः संसत्पटुः  इति सम्मानितः। १९९६ तमे वर्षे १३ दिनानि, १९९८ तमे वर्षे १३ मासान् यावत्, पुनः १९९८ तः - २००४ तमवर्षपर्यन्तं पञ्च वर्षाणि यावच्च सः भरतवर्षस्य प्रधानमन्त्रिपदम् अलङ्कृतवान् ।  श्रीवाजपेयीमहोदयः ९ वारं लोकसभायां निर्वाचितः दिवारं च राज्यसभायाम् । अयं स्वयमेव एकः विक्रमः । २००९ पर्यन्तं सः लोकसभासदस्यरूपेण कार्यरतः आसीत् । तदनन्तरं कदाचित् अस्वास्थ्यकारणात् सक्रियराजकारणात् निवृत्तः । 

अटलबिहारिवाजपेयिमहोदयः १९२४ तमे वर्षे डिसम्बर्मासस्य २५ तमे दिनाङ्के जन्म अलभत । पितुः नाम कृष्णबिहारिवाजपेयी, माता कृष्णादेवी च । पिता विद्यालयशिक्षकः कविश्च आसीत् । अटलबिहारी वाजपेयिमहोदयस्य पितामहः पण्डितश्यामलालवाजपेयी । अटल्महोदयः पदवीशिक्षणं विक्टोरियाकलाशालायां प्राप्तवान् । हिन्दी-आङ्ग्ल-संस्कृतभाषासु अपि पाण्डित्यं प्राप्तवान् । स्नातकोत्तरपदवीं कान्पुरस्य डि ए वि कलाशालातः प्राप्तवान् । तदुत्तरं  राष्ट्रियस्वयंसेवकसङ्घं प्रचारकरूपेण प्रविष्टवान् । वीर-अर्जुन पाञ्चजन्य इति पत्रिकाद्वये पत्रकर्तृरूपेण अपि कविरूपेण च कार्यम् अकरोत् । सङ्घस्य अन्ये प्रचारकाः इव ब्रह्मचारिरूपेण तिष्ठन् स्वस्य सम्पूर्णं जीवनं राष्ट्राय समार्पयत् ।

कान्पुरस्य लक्ष्मीबाईमहाविद्यालयतः स्नातकोत्तरपदवीं प्राप्तवान् । भारतराजनीतिक्षेत्रे बहुकालं यावत् सक्रियः आसीत् । स्नातकोत्तरपदव्याः प्राप्तेः अनन्तरम् १९४२ तमे वर्षे  निर्गच्छ्त भारतात्“(Quit India movement )आन्दोलनसमये भारतीयजनसङ्घस्य संस्थापकः श्यामप्रसादमुखर्जिवर्यस्य निकटवर्ती सन् भारतस्य राजनीतिक्षेत्रे सक्रियः अभवत् ।

श्री वाजपेयी महोदयस्य राजनीतेः प्रथमः संपर्कः १९४२ मध्ये जातः । निर्गच्छ्त भारतात्“ इति आन्दोलनसमये सः गृहीतः (बन्दीकृतः) शीघ्रमेव सः भारतीयजनसंघस्य तदानींतननेतुः श्यामाप्रसाढ् मुखर्जी महोदयस्य निकटवर्ती अनुगामी एवं साहाय्यकः अभवत् । काश्मीरमध्ये काश्मीरेतर भारतीयाभ्यागतान् प्रति हीनः व्यवहारः कृतः इति मत्वा निषेध दर्शनार्थं यदा श्री मुखर्जीमहोदयः १९५३ मध्ये आमरणम् उपोषणं अकरोत् तदा श्री वाजपेयी महोदयः तस्य पार्श्वे (तेन सहैव) विद्यमानः आसीत् । मुखर्जी महोदयस्य उपोषणेन निषेधेन च शतियुद्ध जगति राष्ट्रिय सुरक्षायाः यः केंद्रबिंदुः आसीत् सः समाप्तः विशेषेण च तदा यदा प्रतिवेशी देशः चीनः परमाणुशक्तिधारकः आसीत् । (१९७४ मध्ये यदा भारतः पोखरण इत्यत्र भूतलान्तर्गतं परमाणु परीक्षणं कृतवान् तदैव भारतः षष्ठः परमाणुशक्तिधारकः देशः अभवत् । यद्यपि राष्ट्रिय स्वयंसेवक संधस्योपरि सर्वकारः राजनैतिकप्रहारं क्रुतवनिति १९७९ मध्ये सः (वाजपेयी महोदयः) त्यागपत्रं दत्तवान् तावत्पर्यन्तं एकः अनुभवी नयविशारदः आदरणीयः राजनैतिकः नेता इति सः लब्धप्रतिष्ठः आसीत् । तस्य कार्यकाले १९७७ मध्ये संयुक्तराष्ट्रसंधसय सर्वसाधारण्सभायां हिन्दी भाषायां भाषमाणः सः प्रथमः वक्ता अभवत् । तस्यैव मते सः क्षणः तस्य जीवनस्य अतीव अविस्मरणीयः क्षणः आसीत् ।

जनतापक्ष सर्वकारः अधिककालपर्यन्तं शासनरतः भवितुं न अशक्नोत् । श्री मोरारजीदेसाई महोदयः प्रधानमंत्री पदत्यागमकरोत् । तदनन्तरं जनता पक्षः शीघ्रमेव लयं प्राप्त्ः । संयुक्तसर्वकारस्य निर्वहणार्थं भारतीय जनसंधेन राजनैतिकसंस्थायाः उपयोगः कृतः अपि च जनतापक्षस्य अन्तर्गतैः परश्चरविनाशिभिः कलहैः सः पक्षः अतीव उच्छेषित (श्रान्तः) अभूत ।

१९८० मध्ये श्री अटलबिहारी वाजपेयीमहोदयः भारतीय जनसंधस्य एवं राष्ट्रिय स्वयं सेवक संधस्य बहुभिः सहचरैः विशेषतया तस्य् दीर्घकालीनाभ्यां निकटवर्तिभ्यां लाल कृष्ण आडवाणी एवं श्री भैरोसिंह शेखावत महोदयाभ्यां सह भारतीय जनता पक्षं स्थापितवान् । श्री वाजपेयी तस्य पक्षस्य प्रथमः अध्यक्षः अभवत् । जनतापक्षस्य सर्वकारस्य अनन्तरं आगतस्य अनुगामिनः कांग्रेस पक्षस्य (कांग्रेस) सर्वकारस्य भारतीय जनता पक्षः तीव्रः निन्दकः आसीत् । सः पक्षः पंजाबराज्ये सिखानां युद्धप्रवृत्तेः विरोधमकरोत् । तथैव राष्ट्रहितं विहाय मुद्धप्रवृत्तिं पोषयते विभजनकारिणे भ्रष्ट्रे राजकारणे श्रीमती इंदिरा गांधी महोदया एव दोषार्हा इति अधोषयत् । नेतुः दारासिंहस्य मते श्री वाजपेयीमहोदयस्तु हिन्दुसिखानाम् मध्ये ऎक्यमानयत् ।

यदा १९८४ मध्ये प्रधानमंत्री इंदिरा गांधी महोदयायाः हननं तस्याः द्वाभ्यां सुरक्षाकर्मिभ्यां कृता तदा देहलीमध्ये सिखानां प्रति हिंसा आरब्धा । यद्यपि ब्लू स्टार् आपरेशनस्य सः कदापि समर्थकः नासीत् तथापि भारतीय जनतापक्षः हिंसायाः तीव्रः निषेधः अकरोत् । राजधान्यां अस्मिन् बीमत्से (जधन्ये) नरसंहारे ३००० अधिकाः सिखाः हताः । स्वनेतुः मृत्योः प्रतिशोधम् इच्छन्तः ये ईडियन् नैशनल् कांग्रेस अनुगामिनः आसन् तेभ्यः सिखानां संरक्षणं प्रतिपादितवान् इति श्री वाजपेयी महोदयः श्लाधितः । सः सिखानां संरक्षकः इति श्रुतः च ।
१९८४ निर्वाचने भारतीय जनता पक्षः लोकसभायां केवलं द्वौ सदस्यशेषः आसीत् (केवलं द्वौ सदस्यौ एव अवशिष्टौ ) तथापि भारतीय राजकारणस्य मुख्यप्रवाहे पक्षः सुप्रतिष्ठितः आसीत् एवं च शीघ्रमेव राष्ट्रे सर्वत्र भारतीययुवकान् आकर्षयितुं पक्षस्य संगठनस्य विस्तारं कर्तुं आरभत् । अस्मिन् कालावधौ वाजपेयी महोदयः पक्षस्य अध्यक्षरुपेण केंद्रस्थाने आसीत् संसदि विपक्षस्य नेता च आसीत् ।

राम जन्मभूमि मन्दिर आन्दोलनस्य भारतीय जनता पक्षः राजनैतिक स्वरः आसीत् । इदम् आन्दोलनं विश्वहिन्दुपरिषद तथा राष्ट्रिय स्वयंसेवकसंघस्य व्यवसायिनां अपक्रममासीत् । अयोध्यायां बाबरी मस्जिदस्थले श्रीराम् मन्दिरं निर्मातुं तेषां मनीषा आसीत् । हिन्दु व्यवसाथिनः इदं स्थलं भगवतः श्रीरामस्य जन्मभूमिः आसीत् इति अमन्यन्त अतः  हिन्दुत्वस्य अतिपवित्रं स्थानं भवितुमर्हति इति तेषां मान्यता अभवत् ।

६ डिसेम्बर् १९९२ दिवसे विश्वहिंदुपरिषदः भारतीय जनता पक्षस्य व्यवसाथिन संघटित निषेधः भित्त्वा उन्मादमये आक्रमणे परिवर्तितः एवं च मास्जिदवास्तु निर्मलं नाशितम् । आगाभिषु सप्ताहेषु देशे विविध क्षेत्रेषु हिन्दु मुस्लिमानां मध्ये हिंसा तरङ्गाः उद्भूताः सहस्राधिकाः जनाः हताः । विश्वहिन्दु परिषद् बहिष्कृता । विध्वंसस्य प्रोत्साहनं (उत्तेजनं) कृतं इति श्री लालकृष्ण अडवाणि सहिताः भारतीय जनता पक्षस्य बहवः नेतारः कञ्धित्कालं गृहीताः । यद्यपि संवेदनशीलविजयानां राजनीतिकरणं बहुभिः भर्त्सितम् तथापि लक्षाधिकानां पारंपरिकानां हिदूनां समर्थनं पक्षेन प्राप्तम् तथैव राष्ट्रिय महत्त्वमपि ।

गुजरात तथा महाराष्ट्र राज्ययोः मार्च १९९५ विधानसभा निर्वाचनयोः विजयः , १९९४ मध्ये कर्नाटके निर्वचने उत्तमं प्रदर्शनं भा. ज. पक्षं केंद्रस्थाने प्रत्यस्थापयत् । नो म्बर, १९९५ मध्ये मुम्बय्यां भा. ज. पक्षस्य सत्रे भा.ज.प. अध्यक्षः श्री अडवाणी महोदयः अधोषयत् यत्   यदि भा.ज.प. १९९६ मध्ये संसदीयनिर्वाचने विजयी अभविष्यत् तर्हि श्री वाजपेयी महोदयः प्रधानमंत्री अभविष्यत् इति ।

भारतीयजनसङ्घस्य संस्थापकेषु अन्यतमः वाजपेयिमहोदयः १९६८ तः १९७३ पर्यन्तं जनसङ्घस्य नायकः आसीत् ।  तदुत्तरं १९५७ तमे वर्षे लोकसाभां प्रत्यपि चितः अभवत् । मोरारजी देसायिसर्वकारे १९७७ तमस्य वर्षस्य मार्च्मासतः १९७९ तमस्य वर्षस्य जुलैमासपर्यन्तं विदेशिमन्त्रिरूपेण कार्यं निरवहत् । १९८० तमे वर्षे जनतापक्षं नूतनतया निर्मिते भारतीयजनतापक्षे लीनम् अकरोत् । भारतीयजनतापक्षस्य नेतृरूपेण १९८० तः १९८४ वर्षपर्यन्तं, १९८६ तः १९९३ वर्षपर्यन्तं, १९९६ तमे वर्षे च कार्यम् अकरोत् । १० लोकसभायाः विरोधपक्षस्य नायकत्वं निरूढवान् ।
 

१९५७ मध्ये यदा श्री अटलबिहारी महोदयः प्रथमतः लोकसभायां निर्वाचितः तदा लोकसभायां तस्य प्रथम कार्यकाले तस्य वक्तृत्वकौशलेन जवाहरलाल नेहरूमहोदयः तावान् प्रभावितः यत् सः भविष्यवाणीमवदत् यत् ‘अयं युवकः एकस्मिन् दिने प्रधानमंत्री भवेत् ’ इति । पुनः एकदा प्रधानमंत्री श्री जवाहरलाल नेहरुमहोदयः अभ्यागताङ्ग्लप्रधानमंत्रिणा सह श्री वाजपेयीमहोदयस्य परिचयं कारयन् अवदत् - 'अयं विपक्षस्य नेता सदैव मां निन्दति । परं अहं तास्मिन् उज्ज्वलं भविष्यं पश्यामि ।’ इति ।  

हिन्दुत्वभावतरङ्गैः १९९० तमे वर्षस्य आदिमभागे भारतीयजनतापक्षेण महती शक्तिः प्राप्ता । १९९६ तमे वर्षे जाते लोकसभानिर्वाचने भारतीयजनतापक्षः बृहत्तमपक्षत्वेन चितं जातम् । तदानीन्तनः राष्ट्रपतिः शङ्करदयालशर्मा सर्वकाररचनाय वाजपेयिमहोदयाय आह्वानम् अयच्छत् । वाजपेयिवर्यः देशस्य ११ तमप्रधानमन्त्रित्वेन प्रतिज्ञां स्व्यकरोत् । किन्तु अन्येषां पक्षाणां समर्थनं न प्राप्तम् इत्यतः बहुत्वस्य प्रदर्शने भारतीयजनतापक्षः विफलः जातः । अतः १३ दिनानाम् अनन्तरं तेन प्रधानमन्त्रिस्थानाय त्यागपत्रं दत्तम् ।

१९९८ तमे जाते लोकसभानिर्वाचने अपि भारतीयजनतापक्षः बहुत्वं प्राप्नोत् । अस्मिन् अवसरे बहवः रजकीयपक्षाः मिलित्वा 'राष्ट्रियजनतान्त्रिकमैत्रिकूटम्' आरचयन् । १९९८ तमे वर्षे अक्टोबर्मासस्य १३ दिनाङ्के द्वितीयवारं प्रधानमन्त्रिस्थानम् अलङ्कृतवान् अयम् । १३ मासानाम् अनन्तरं जयललितायाः नायकत्वे ए ऐ ए डि एम् के पक्षः समर्थनं प्रतिस्व्यकरोत् इत्यतः सर्वकारः एकस्मात् अङ्कात् बहुत्वच्युतः जातः ।

वाजपेयिमहोदयः न केवलं नेता अपि तु कविः ।  हिन्दीभाषाया तेन अनेकाः कविताः रचिताः । एतस्य २१ कवितानां सङ्कलनम् आङ्ग्लभाषायामपि  Twenty-One Poems इति नाम्ना अनूदितम् । २००५ तमे वर्षे राजनैतिकक्षेत्रात् निवृत्तः जातः । अनेन नैके ग्रन्थाः आरचिताः । १९९२ तमे वर्षे पद्मविभूषणप्रशस्तिः, १९९४ तमे वर्षे लोकमान्यतिलकप्रशस्तिः इत्याद्याः तेन प्राप्ताः ।

मे १७७८ मध्ये भारतः राजस्थानास्थिते पोखरणक्षेत्रे भूतलान्तरीतं (भूगर्भन्तर्गतं) पञ्च परमाणु परीक्षणानि स्वस्य अधिकारावधौ सः कृतवान् । एतैः पञ्च परीक्षणैः सर्वं जगत् स्तब्धं आश्वर्यचकितं चाभवन् । तदानीं सर्वकारः एक मासं यावदेव प्रशासनरतः आसीत्, अयं विशेषः । 

रशीया फ्रान्स देशौ स्वसंरक्षणर्थं परमाणुशक्तेः धारणस्य भारतस्य अधिकारस्य अनुमोदनं कृतवन्तौ । परम् अमेरिका, कनडा, जपान, ब्रिटेन एवञ्च यूरोपीयदेशैः भारताय युद्धसामग्र्याः विक्रयणस्योपरि, प्रतिबन्धाः निक्षिप्ताः । 

भारतपाकिस्थानयोः सम्बन्धसेतुरूपेण तेन लाहोर्-लोकयानसेवा आरब्धा । १५ सहस्रकिलोमीटर्मितः 'सुवर्णचतुष्पथ'नामकस्य राष्ट्रियमुख्यमार्गस्य निर्माणम् अल्पे समये एव यत् समापितं तत् असामान्यं वर्तते । प्रधानमन्त्रिग्रामसडक्योजनायाः अनुष्ठानद्वारा प्रतिग्रामं मार्गकल्पनाय व्यवस्था कृता । 'सर्वशिक्षाभियान'द्वारा सर्वः अपि अक्षरज्ञः स्यात् इत्येषः तस्य प्रयत्नः तस्य दूरदृष्टियुतं चिन्तनं द्योतयति ।

भारतस्य राजनैतिकनायकेषु अतिश्रेष्ठः, गौरवान्वितः नायकमणिः इति राजनैतिकविरोधिभिः अपि अभिज्ञातः अस्ति अटलबिहारी वाजपेयी । १९७७ तमे वर्षे जनतासङ्घस्य सर्वकारे विदेशाङ्गसचिवरूपेण चितः सः अमेरिकासंसत्सदने हिन्दीभाषया भाषणम् अकरोत् इत्येषः विशेषः ।




#Article 11: इन्दिरा गान्धी (782 words)


इन्दिरा प्रियदर्शिनी गान्धी (१९१७-१९९३) प्रयागे जाता । पठितुं सा गुरुदेवरवीन्द्रनाथ ठाकुरस्य शान्तिनिकेतन विद्यापीठम् अगच्छत् । ततः युरोपमहाद्वीपं गतवती ।
सा भारतस्य प्रधानमन्त्रिणी आसीत् । भारतदेशे सा एका एव महिला वित्‍तमन्त्रालये प्रमुखमन्त्रिपदं भूषितवती । तस्‍या: शासनकाले भारतदेशे प्रथमम् अण्वस्‍त्रपरीक्षणं कृतम् ।
इयं १९६६ तमात् वर्षात् १९७७ तमवर्षपर्यन्तं त्रिवारं भारतस्य प्रधानमन्त्रिणी आसीत् ।	तदनन्तरं १९८० तम वर्षतः १९८४ तस्याः हत्याकाण्डपर्यन्तं मन्त्री आसीत् । सा आहत्य १५ वर्षकालं प्रधानमन्त्रीस्थानं समलङ्करोत् । सा भारतस्य प्रथमा महिला प्रधानमन्त्री आसीत् इदानीमपि तत्स्थानं रिकतमेवास्ति । एतस्याः मोहनदासगान्धीमहाभागस्य च सम्बन्धः एव नास्ति ।
एषा प्रभावीनेहरुकुले जाता प्रबलराजनैतिकवातावरणे वर्धिता च । मोतिलालनेहरु अस्याः पितामहः । भारतीय स्वातन्त्र्यसङ्ग्रामस्य प्रमुखः आसीत् सः । स्वतन्त्रभारतस्य प्रधानमन्त्री जवहरलालनेहरु एव अस्याः पिता । १९४१ तमे वर्षे आक्सफर्डतः. भारतं प्रति आगत्य एषा भारतीयस्वातन्त्रसंग्रामे पात्रम् ऊढवती । १९५० तमे वर्षे प्रथमप्रधानमन्त्री तस्य पिता यदा आसीत् तदा एषा तस्य वैयक्तिकसहायिका भूत्वा सेवां कृतवती । १९६४ तमे वर्षे तस्याः पिता दिवङ्गतः । भारतस्य राष्ट्रपतिना एतस्याः राज्यसभासदस्यत्वं प्राप्तम् । ततः वार्ताप्रसारमन्त्रिपदवीं लालबहादूरशास्त्रीसचिवालये प्राप्तम् ।सा सहस्राब्दे: महिला(Woman of the Millennium) इति बी बी सी संस्थया प्रशस्तिः दत्ता आसीत् ।
शास्त्रिमहोदयस्य निधनं तु अनिरीक्षितमासीत् । ततः इन्दिरागान्धी प्रधानमन्त्री अभूत् । एनाम् एतत्पदव्यां स्थापयितुं काङ्ग्रेसपक्षस्य अध्यक्षः कापरमहाभागस्य एव मुख्यप्रात्रमस्ति । सा जनानुरागी भूत्वा सिद्धान्तस्थापनं कृतवती । सा निर्वाचने विजयं प्राप्य स्वसामर्थ्यं प्रदर्शितवती । सा कृषिकार्यार्थं कृषिकान् प्रोत्साहितवती । १९७१ तमे वर्षे जाते भारतपाकिस्थानयोः युद्धे भारतेन निर्णायकः विजयः प्राप्तः । तदा इन्दिरा प्रधानी आसीत् । परन्तु तस्मिन् सन्दर्भे भारते असुरक्षितता सर्वत्र कोलाहलमयवातावरणं च आसीत् । तदा सा देशे आपत्कालिकीं परिस्थितिं धोषितवती । दीर्धकालीनं निरङ्कुशप्रभुत्वम् आसीत् तस्याः । अतः पूर्वं कदापि अपजयमेव न दृष्टवता कांग्रेस्पक्षेण १९७७ तमे वर्षे सार्वत्रिकनिर्वाचने पराभवः प्राप्तः ।
पुनः १९८० तमे वर्षे काङ्ग्रेस्पक्षेण अधिकारः प्राप्रः । पुनः इन्दिरा एव आगतवती॥ १९८४ तमे वर्षे जून्मासे नेक्स्लेट्स् जनानां बन्धनं कर्तुम् इन्दिरा सिक्कजनानां पवित्रं स्थलं स्वर्णमन्दिरं प्रवेष्टुम् आदिदेश । एतत् सिक्कजनानां महतः क्रोधस्य कारणं जातम् । तस्मात् १९८४ तमे वर्षे अक्टोबर् मासस्य ३१ तमे दिनाङ्के तस्याः हननं कृतम् ।

इन्दिरा नेहरुगान्धी १९१७ तमे वर्षे नवेम्बर् मासे १९ दिनाङ्के पण्डितजवहरलाल नेहरु तथा कमलानेहरु दम्पत्योः पुत्रीरूपेण जन्म प्राप्नोत् । सा एकमात्रपुत्री आसीत् । नेहरु महोदयस्य काश्मीरपाण्डितकुलम् । यदा इन्दिरा जाता तदा पितामहः मोतिलाः तथा पिता जवहरलालनेहरु उभौ अपि राजकीयनेतारौ आस्ताम् । बाल्ये गृहे तीव्रराजनैतिकवातावरणम् आसीत् । एतस्याः पिता स्वात्मचरित्रं 'टुवर्डस् फ्रीडम्’ इति पुस्तके एवं उल्लिखितवान् अस्ति - 'यदा अहं कारागृहे आसम् तदा आरक्षकः पुनः पुनः गृहमागत्य सर्वकारेण दापितस्य शुल्कस्य निमित्तं पीठोपकरणानि स्वीकृत्य गच्छन्ति स्म । ममपुत्री चतुर्वर्षीया एतत् दृष्ट्वा खिन्ना भूता बहु असन्तोषं प्रकटितवती । आरक्षकां प्रति अवरोधः यः दर्शितः तया तत् दर्शयति यत् दृष्टं प्रायः तस्याः मनसि आरक्षकाणां व्यवस्थायां विभिन्ना द्दष्टिः एव जायते इति मम खेदः ।
इन्दिरा युवकानां युवतीनां कृते वानरसेना्-आन्दोलनं प्रारब्धवती । तत् भारतीयस्वातन्त्र्यसंग्रामे मुख्यपात्रम् आवहत । एतेन भारतीय राष्ट्रिय कांग्रेस् पक्षे सूक्ष्म समाचाराणं प्रकटनं निर्बान्धितविचाराणां प्रकटनम् इत्यादि कार्यद्वारा साहाय्यमभवत् । ध्वजपथसञ्चलनं तथा आन्दोलनानि तत्र तत्र अभवन् । शालास्यूते एव प्रमुखकार्यक्रमाणां कार्यसूची पितृगृहात् आरक्षकद्वारा एव रहसि इन्दिरा प्रेषितवती । एवमेव १९३० तमवर्षस्य क्रान्तेः एतदेव मूलस्रोतः अभवत् ।

इन्दिरायाः माता कमलनेहरु दायरोगेण पीडिता आसीत् । कथञ्चित् चिरकालात् दुःखम् अनुभूथ १९३६ तमे वर्षे सा दिवङ्गता । तदा इन्दिरा अष्टादवर्षीया आसीत् । सा यदा इङ्ग्लेण्डमध्ये आक्सफर्डविद्यालये सोमरविल्लेकलाशालायां १९३० तमे वर्षे पठन्ती आसीत् तदा लण्डन्मूलस्य तीव्रगमी स्वातन्त्रपम् 'इण्डियालीग्’ इत्यस्य सदस्या आसीत् ।
१९४० तमे वर्षे प्रारम्भिकदिनेषु इन्दिरा श्वासकोशरोगपीडिता भूत्वा तस्य निवारणार्थं स्विट्सर्लण्ड्देशे गृहे अवसत् । तदा सा दीर्धं पत्रं पित्रे लिखन्ती आसीत् पितृपुत्र्योः मध्ये राजनैतिकी चर्चा पत्रद्वारा चलदासीत् ।
यदा सा युरोप्खण्डे आसीत् तदा क्रियाशीलं फार्सीतरुणं फिरोजगान्धिं दृष्टवती सः मोहनदासगान्धेः दत्तकपुत्रः । तयोः सम्पर्कः गाढः जातः । यतः सोऽपि कुटुम्बसदस्यः इवासीत् ।

इन्दिरा फिरोज भारतं प्रति यदा आगतौ तदा तयोः प्रीतिः परस्परमासीत् । वैद्यस्य सूचनामपि उल्लङ्घ्य परिणेतुमैच्छत् । फिरोजस्य सरलमनोभावः हास्यप्रज्ञा आत्मविश्वासश्च इन्दिराम् आकर्षत् । नेहरु एतावत् शीघ्रं तस्याः विवाहं कर्तुं नेच्छति स्म । तदर्थं तन्निवारणाय महात्मागान्धिम् आश्रितवान् । एतत्सर्वं व्यर्थमभवत् । १९४२ तमे वर्षे मार्च-मासे तयोः विवाहः हैन्दवरीत्या समभवत्. ।
फिरोज इन्दिरा च भारतीय राष्ट्रिय कांग्रेस् पक्षस्य सदस्यौ आस्ताम् । १९०४ तमे वर्षे सञ्जाते भारतात् निर्गच्छ इत्येतस्मिन् आन्दोलने द्वावपि भाम् ऊढ्वा कारागृहं गतवन्तौ ।
स्वातन्त्र्यानन्तरं फिरोज निर्वाचने भाड्म् ऊढवान् उत्तरप्रदेशी संसत्सदस्यः अभवत् । तयोः पुत्रद्वयं राजीवः, सञ्जीवश्च । गच्छता कालेन तयोः मध्ये भिन्नाभिप्रायाः अधिकाः जाताः । विच्छेदनपर्यन्तमागतम् परन्तु तावता एव फिरोजस्य अस्वास्थ्यकारणतः तत् स्थगितम् । फिरोजस्य मरणं १९६० तमे वर्षे सेप्टेम्बरमासे अभवत् तावत्पर्यन्तं द्वावपि एकत्र सम्यक् कालं यापितवन्तौ ।

१९५९ तथा १९६० तमे वर्षे भारतीयराष्ट्रियकांग्रेस्पक्षे अध्यक्षारूपेण निर्वाचिता जाता । अधिकारावधौ घटानाविशेषाः किमपि नासन् । स्वपितुः कार्यकारी समितिमुख्यस्था भूत्वा कार्यं कृतवती । नेहरु स्वजनपक्षपातं विरुध्य कार्यं करोति स्म । गान्धी १९६२ तमस्य निर्वाचने भागं न ऊढवती ।

१९६४ तमे वर्षे मे २७ तमे दिनाङ्के नेहरु दिवंगतः । नूतनप्रधानमन्त्रिणः लालबहाद्धूरशास्त्री महोदयस्य आग्रहेण इन्दिरा निर्वाचने भागं गृहीतवती सर्वकारं च प्रविषृवती । सा वार्ताप्रसारमन्त्रीणी अभवत् ।
यदा हिन्दी राष्ट्रभाषात्वेन उदघोषिता तदा तमिलुनाडु राज्ये कोलाहलः जातः । तस्मिन्नवसरे तमिलुनाडु राज्यस्य राजधानी मद्रासनगरं इन्दिरा गतवती । तत्र प्रमुखान् दृष्ट्वा तैः साकं चर्चां कृत्वा तेषां कोपशमनं कृतवती । कोलाहलकारणतः यत्र यत्र नष्टानि जातानि तत्र पुननिर्माणकार्यं स्वयं कारितवती । एतस्याः राजनैतिककलाकौशलं व्यक्तित्वनैपुण्यं च श्लाधनीयमासीत् ।




#Article 12: मोरारजी देसाई (766 words)


मोरारजी देसाई (१८९६तः१९९५पर्यन्तम्),गुजरातराज्ये भडेली इत्यत्र जात: । स: १९७७तमवर्षात् १९७९तमवर्षपर्यन्तं भारतस्य प्रधानमन्त्री आसीत् । जातीयता अस्माकं राष्ट्रेण प्राप्तः शापः ।

प्रकृतिचिकित्सायाम् अधिकम् आसक्तिमान्, अप्रतिमः स्वातन्त्र्ययोद्धा 'मोरारजी देसायी’ । एषः १८९६तमवर्षस्य फ़ेब्रुवरीमासे २९ दिनाङ्के गुजरातराज्यस्य भडेली ग्रामे जन्म प्राप्तवान् । चतुर्षु वर्षेषु आगच्छति आङ्ग्ल -लीप् इयर् वर्षे एतस्य जन्मदिनम् भवति । मोरार्जेः पिता रामचोडजी देसायी गुजराती अनाविल् ब्राह्मणः । एतस्य पूर्वजाः पेश्वे आस्थाने देसायीरूपेण कार्यं कृतवन्तः इति एतेषां वंशस्य नाम देसायी इति अभवत् ।
मोरारजी देसायीवर्यस्य लघु वयसि एव देशभक्तिः बहु आसीत् । यदा सः 'बुल्सारिया भाय् अनाय भाय्’ माध्यमिक शालायां पठन् आसीत्, तदा एव अस्माकं देशः परकीयानां शासने अस्ति इति ज्ञातवान् आसीत् । दशम कक्षां समाप्य भावनगरमहारजस्य साहाय्येन महाविद्यालये पठितुं मुम्बयीनगरं गतवान् । क्रीडाव्यायामयोः कारणतः एषः सदृढः अभवत् । टेन्निस् एतस्य प्रीतेः क्रीडा आसीत् । १९१५ तमे वर्षे कोलकतायां यत्र काङ्ग्रेस् अधिवेशनम् अभवत् तत्र एषः स्वयंसेवकः भूत्वा कार्यं कृतवान् । तत्र महात्मा गान्धिं दृष्ट्वा प्रभावितः अभवत् । 'स्वराज्यं मम जन्मसिद्धः अधिकारः’ इति उक्तवान् बालगङ्गाधरतिलकः अपि मोरार्जीवर्यस्य देशभक्तिवर्धने कारणीभूतः अभवत् ।

मोरारजी बि. ए. परीक्षायां प्रथमश्रेण्याम् उत्तीर्णः अभवत् । मुम्बयीप्रान्तस्य सिविल् सर्वीस् करविभागं प्रति आवेदनापत्रं दत्त्वा १९१८ तमे वर्षे अहमदाबादस्य तात्कालिक डेप्युटी कलेक्टर् इति नियुक्तः अभवत् । यदा १९१९ तः १९३० पर्यन्तम् अस्मिन् कार्ये आसीत् तदा एकसहस्र क्रिमिनल्-व्यवहाराणां विचारणं कृत्वा निर्णयं दत्तवान् ।

सर्वकारीय-उद्योगे स्थित्वा अपि मोरारजीवर्यस्य देशभक्तिः सदा जागरिता एव आसीत् । गान्धिमहोदयस्य विचाराः एतस्मै बहु रोचन्ते स्म । १९३१ तमे वर्षे उद्योगस्य कृते त्यागपत्रं दत्तवान् । हिन्दु - मुस्लिम् जनानां कोलाहलः, गान्धिमहाभागस्य लवणसत्याग्रहः, च सर्वकारस्य विरुद्धं लेखनं लेखितुं मोरार्जीमहोदयस्य मनसि प्रेरणां दत्तवन्तौ । एतदेव तस्य त्यागपत्रदाने कारणीभूतम् अभवत् ।

यदा सर्वकारस्य उद्योगस्य त्यागं कृतवान्, तदा तस्य पूर्णसमयं देशसेवानिमित्तमेव अभवत् । स्वातन्त्र्यसङ्ग्रामे भागं गृहीत्वा देशाय स्वातन्त्रसम्पादनमेव मोरारजीवर्यस्य लक्ष्यमासीत् । षड्वारम् एतस्य बन्धनम् अभवत् । सामान्यतया सप्तवर्षं कारागृहे आसीत् । एतस्य पत्नी गजराबेन् अपि एकवारं कारागृहवासम् अनुभूतवती । १९३५तमवर्षस्य इन्डिया एक्ट् अनुगुणं काङ्ग्रेस् पक्षः निर्वाचने षट्सु प्रान्तेषु जयं प्राप्य सर्वकारम् अरचयत् । १९३७ तमे वर्षे बाळासाहेबखेरः काङ्ग्रेस्पक्षस्य मन्त्री अभवत् । मोरार्जिमहोदयः रवेरसम्पुटे करविभागस्य मन्त्रिरूपेण राजकीयं प्रविष्टवान् । १९४२ तमे वर्षे क्विट् इन्डिया आन्दोलने भागं गृहितवान् इत्यतः एतं बन्धयित्वा येरवडाकारागृहे स्थापितम् । 

१९३९ तमवर्षतः १९४५ तमवर्षपर्यन्तं प्रचलिते द्वितियमहायुद्धस्य समाप्तेः अनन्तरं मोरार्जीदेसायी महोदयः मुम्बय्याः मुख्यमन्त्री अभवत् । तस्य शासने सः प्रान्तः उत्तमप्रगतिं प्राप्नोत् । १९३७ तमे वर्षे एषः सुरानिरोधं कर्तुम् उत्साहं दर्शितवान् । तदा सर्वकारः अहमदाबाद्-मुम्बयीनगरयोः सुरानिरोधशासनम् आनेतुं निर्णयं कृतवान् । यदा एषः मुम्बयी- मुख्यमन्त्री आसीत् तदा मुम्बयीनगरे सर्वत्र सुरानिरोधशासनम् आनीतवान्।
मोरार्जीमहोदयः द्वादशवर्षाणि यावत् गुजरातराज्यस्य मुख्यमन्त्री आसीत् । १९५६ तमे वर्षे महागुजरात् निर्माणनिमित्तं यत् आन्दोलनं प्रवृत्तं तस्य अवरोधं कर्तुम् उपवासं कृतवान् । तदा अपि गान्धिमार्गम् अनुसृतवान् । १९६७ तमे वर्षे श्रीमती इन्दिरा गान्धिः एतम् उपप्रधानमन्त्रीस्थाने नियुक्तवती ।
१९७५ तमे वर्षे यदा आपत्कालः घोषितः तदा (जून् २६) भद्रताशासनानुसारं देसायीमहोदयं बद्धवन्तः । लोकनायकः जयप्रकाशनारायाणम् अपि बद्धवन्तः । १९ मासान् यावत् देसायीमहोदयः कारागृहवासम् अनुभूतवान् । कारागृहे सरलजीवनम् आचरितवान् एषः मितभोजनं कृत्वा रामचरितमानसं, तुलसीरामायणं, भगवद्गीताम् अन्यधर्मग्रन्थान् च पठति स्म । १९७७ तमे वर्षे जनवरी मासस्य १९ दिनाङ्के एतस्य, तथा अन्येषां च कारागृहतः विमोचनम् अभवत् ।

तस्मिन्नेव वर्षे मार्चमासे लोकसभायाः निर्वचनमासीत् । कारागृहतः विमोचनं येषाम् अभवत् ते (विरोधपक्षीयजनाः) निर्वाचने काङ्ग्रेस्पक्षेण सह प्रतिस्पर्धयितुं १९७७ तमे वर्षे फ़ेब्रवरी १० दिनाङ्के 'जनतापक्ष' इति एकं नूतनं पक्षं रचितवन्तः ।
निर्वचने जनतापक्षः अत्यधिकबहुमतं प्राप्य काङ्ग्रेसेतर सर्वकारः आगतः । तदा मोरार्जीमहाभागः प्रधानमन्त्री अभवत् । एषः भारतस्य चतुर्थः प्रधानमन्त्री । तदा एतस्य वयः द्व्यशीतिवर्षाणि । तथापि एतस्य शरीरशक्तिः ज्ञापकशक्तिः च सम्यगेव आसीत् । यस्मिन् समये एषः प्रधानमन्त्री आसीत् तस्मिन् समये इन्दिरागान्ध्ईमहोदयया परिष्कृतं स्वातन्त्र्यापहरणशासननियमं स्थगयित्वा जनस्वातन्त्र्यं पत्रिकास्वातन्त्र्यं पुनः प्रचलने आनीतवान् । एतस्मिन् काले मुक्तविपणीषु आवश्यकवस्तुनां सरलतया प्राप्त्यर्थं व्यवस्थां कृतवान् । गान्धिवादम् अक्षरशः पालयन् एषः यदि कश्चित् सचिवः भ्रष्टाचारे भवति तर्हि तं निःसङ्कोचेन विचारयितुम् आदिशति स्म । अतः एतस्य विषये बहुनायकानाम् असमाधाननम् आसीत् । अतः परिस्थितिः विपरीता जाता १९७९ तमे वर्षे जुलै १५ दिनाङ्के एषः प्रधानमन्रीे स्थानं त्यक्त्वा राजकीयनिवृत्तीं स्वीकृतवान् ।

मोरार्जीमहभागः महात्मागान्धेः निकटः आसीत् । अतः एतस्य व्यक्तित्वम् असाधारणं जातमासीत् । 'भयम् एव हिंसायाः मूलम्’ इति विश्वसितवान् आसीत् । भगवद्गीतायाः अन्तरार्थं सम्यक् ज्ञातवान् एषः कदापि कोपं न करोति स्म । शान्तचित्तं जितेन्द्रियस्य लक्षणम् इति ज्ञातवानासीत् । एषः शास्त्रीयसङ्गीतप्रियः आसीत् ।

मोरार्जीमहोदयः कदापि श्लाघनं न इच्छति स्म । १९९१ तमे वर्षस्य भारतसर्वकारस्य भारतरत्नप्रशस्तिः एतस्मै दत्ता । प्रशस्तिः तस्य इष्टा नासीत् । एतया प्रशस्त्या सः खेदं वा आनन्दं वा न प्रदर्शितवान् । १९९४ तमे वर्षे जनवरी मासे षिक्यागो देशस्य न्याषनल् फ़ेडरेशन् आफ़् इन्डियन् असोसिएषन् संस्था एतस्मै गान्धिप्रशस्तीं दत्त्वा गौरवं प्रदर्शितवती । पाकिस्थानसर्वकारः अपि स्वस्य अत्युन्नतां 'निशान् - ए - पाकिस्थान' प्रशस्तिम् एतस्मै अददात् । एषा प्रशस्तिः मोरार्जीमहोदयस्य अधिकारावधौ पाकिस्थानेन सह उत्तमसम्बन्धस्य रक्षणार्थं दत्ता ।

देसायीवर्यः उत्तमः लेखकः आसीत् । प्रकृतिचिकित्सायाः विषये एषः 'नेचर् क्यूर्’ इति एकं पुस्तकं लिखितवान् । स्वस्य जीवनमेव अधिकृत्य 'दि स्टोरी आफ़् मै लाइफ़्’ इति त्रयाणां सम्पुटानां ग्रन्थः बहु जनप्रियः अभवत् । केवलं शाखाहारी एषः उपवासेन बहु रोगाः निवारयितुं शक्याः इति विश्वसितवान् आसीत् । भगवद्गीतामहाभारतयोः विषये त्रीणि पुस्तकानि रचितवान् । निसर्गचिकित्सायां विश्वासवान् स्वमूत्रपानचिकित्सया नवनवतिवर्षपूर्णं जीवनं समाप्य १९९५ तमे वर्षे दिवङ्गतः ।




#Article 13: लाल बहादूर शास्त्री (1675 words)


पूर्वम् आङ्लशासिते भारतदेशे, संयुक्तप्रान्तेषु,अलाहाबादे राजस्वकार्यालये सः लिपिकारः अभवत् । यदा शिशुः त्रिमासीयः आसीत् तदा सः मातुः अङ्कात् च्युतः सन् गङ्गानद्याः तीरे कस्यापि गोपालकस्य कण्डोले पतितः । सन्तानहीनः सः गोपालकः अयं देवस्य प्रसादः इति मत्वा तं शिशुं स्वगृहम् अनयत् । लालबहादूरस्य पितरौ आरक्षककार्यालये अभियोगम् अकुरुताम् । रक्षकाश्च तं शिशुम् अन्विष्य तयोः कृते प्रत्यर्पयन् ।

यदा सः सार्धैकवर्षीयः जातः तदा तस्य पिता दिवङ्गतः । तस्य माता तं भगिनीभ्यां सह पितुः गृहं नीत्वा तत्रैव अवसत् । दशवर्षपर्यन्तं लालबहादूरः स्वमातामहस्य हजारीलालमहोदयस्य गृहे न्यवसत् । मुघल-सराई मध्ये सः चतुर्थकक्ष्यापर्यन्तम् अपठत् । अग्रिमाध्ययनाय सः वारणासीम् अगच्छत् । तत्र सः मातुलेन सह न्यवसत् । हरिश्चन्द्र-उच्च-पाठशालां प्राविशत् च । एकदा वाराणस्यां गङ्गायाः अपरतीरे स्थितं प्रदर्शनं द्रष्टुं सः मित्रैः सह अगच्छत् । ततः गृहं प्रतिनिवर्तितुं धनाभावकारणतः नौकाशुल्कं दातुम् असमर्थः . मित्रेभ्यः धनं याचितुं न इच्छन् सः नद्यां कूर्दित्वा अपरतीरं प्राप्तवान् ।

बाल्यकाले पुस्तकपठनं तस्मै रोचते स्म । गुरुनानकस्य श्र्लोकेषु तस्य महती अभिरुचिः आसीत् । भारतीयराष्ट्रवादी, समाजशोधकः स्वतंत्रतासेनानी बालगङ्गाधरतिलकः तस्य दृष्ट्या पूजार्हः आसीत् । तन्मध्ये वाराणस्यां गान्धिमहात्मनः वचनेभ्यः नितरां प्रभावितः सः आत्मनः जीवितं राष्ट्रसौवायै समर्पितवान्  । सः 'श्रीवास्तव' इत्येतत् स्वकुलस्य नाम अपि त्यक्तवान् यतः सः जातिवादस्य विरोधी आसीत् । १९२९ मध्ये गान्धिमहात्मना आरब्धे असहकारान्दोलने सः भागम् अवहत् । तत्र सः गृहीतः चेदपि बालकः इति कारणतः सः मोचितः । अनन्तरं सः वाराणस्यां काशीविद्यापीठे राष्ट्रवादी इति एव आत्मनः नामलेखनं कृतवान् । तत्र वर्षचतुष्टयं यावत् अपठत् । तत्र डा भगवानदासेन दर्शनशास्त्रविषये कृतैः व्याखानैः सः अतीव प्रभावितः । काशीविद्यापीठेन १९२६ तमे वर्षे सः 'शास्त्री’ इत्यनेन उपाधिना पुरस्कृतः । यद्यपि अयम् उपाधिः विद्यापीठेन निवेशितः तथापि अयम् उपधिः तस्य नाम्ना सहितं संयुक्तः अभवत् । सः जनसेवकसंस्थायाः आजीवनसदस्यः अपि अभवत् तथा मुजपफरपुरमध्ये हरिजनानाम् उद्धाराय कार्यं कर्तुं प्रारभत । कालान्तरेण सः तस्याः संस्थायाः अध्यक्षः अभवत् ।
१९२७ तमे वर्षे शास्त्रिमहोदयः मिर्जापुरवासिनीं ललितादेवीं परिणीतवान् । यद्यपि तस्मिन् समये प्रभूतायाः वरदक्षिणायाः परम्परा आसीत् तथापि शास्त्रिमहोदयः केवलं एकं चक्रं खादीवस्त्रं वरदाक्षिणारूपेण स्वीकृतवान् । १९३० मध्ये गान्धिमहात्मनः लवणसत्याग्रहसमये सः स्वातंत्र्यसंग्रामाय आत्मानं समर्पितवान् । सः सार्धवर्षद्वयं कारागृहे आसीत् । एकदा यदा सः कारागृहे आसीत् तदा तस्य एका पुत्री अतीव रोगग्रस्ता अभवत् । अतः सः पञ्चदशदिनानि यावत् कारागृहात् मुक्तः । परन्तु तस्य गृहस्य प्राप्तेः पूर्वमेव तस्य पुत्री मृता । तस्याः दाहसंस्काराणां अनन्तरं सः स्वेच्छया विरामकालस्य समाप्तेः पूर्वमेव स्वयं कारागृहं प्रतिनिवर्तयामास । एकवर्षस्य अनन्तरं, यदा तस्य पुत्रः ज्वरेण तीव्रतया पीडितः अभवत् तदा सः एकसप्ताहं यावत् गृहं गन्तुम् अनुमतिम् अयाचत । अनुमतिः प्राप्ता किन्तु तस्य पुत्रः तु रोगात् मुक्तः न जातः । परिवारेण प्रार्थितोऽपि सः कारागृहाधिकारिभ्यः दत्तं वचनं पालयन् कारागृहं प्रत्यनिवर्तत ।

अनन्तरं १९३७ मध्ये उत्तरप्रदेशस्य लोकप्रतिनिधिसभायाः आयोजकसचिवरूपेण कार्यं कृतवान् । १९४० मध्ये एकवर्षं यावत् स्वातंत्र्यसंग्रामाय वैयक्तिकप्रोत्साहनं दत्तं इति कारणेन सः कारागृहं प्रेषितः । १९४२ मध्ये मुंबयीमध्ये गोवालियाटक् इत्यत्र आगस्ट्मासस्य अष्टमे दिनाङ्के महात्मा गान्धिवर्यः आंग्लैः भारतभूमिः त्याज्या इति धिया 'त्यजतु भारतम्’ इति धोषणं प्रसारितवान् । एकवर्षस्य कारावासस्य अनन्तरं बहिः आगतः शास्त्रीवर्यः अलाहाबादं प्रति प्रातिष्ठत(प्रस्थात् )। तत्र जवहारलालनेहरुमहोदयस्य स्वग्रामात् आनन्दभवनात् सः सप्ताहं यावत् स्वातंत्र्यसेनानीनाम् कृते सूचनाः प्रेषितवान् । कतिचिद्दिनेभ्यः पश्चात् सः पुनः गृहीतः १९४६ वर्षपर्यन्तं कारावासे क्षिप्तः । एवं शास्त्रिवर्यः कारावासे आहत्य नववर्षाणि यापयामास । कारावासदिनेषु सः पुस्तकानि पठन् कालक्षेपं कृतवान् । पाश्चात्यदार्शनिकानां, क्रान्तिकारिणां समाजसंशोधकानां कृतीः पठित्वा परिचयं प्राप्नोत् । सः मेरी क्यूरी इति शास्त्रज्ञायाः आत्मचरित्रमपि हिन्दी भाषया अनूदितवान् ।

भारतस्य स्वातंत्र्यप्राप्तेः पश्चात् शास्त्रीवर्यः तस्य स्वराज्ये उत्तरप्रदेशे लोकसभासचिवरूपेण नियुक्तः । श्री गोविन्दवल्लभपन्तस्य मन्त्रिमण्डले सः रक्षणपरिवहनमन्त्री अभवत् । तदा सः ऐदम्प्राथम्येन महिलाः निर्वाहिकारूपेण न्ययोजयत् । यदा सः रक्षणविभागस्य मन्त्री आसीत् तदा दुर्निग्रहस्य अविधेयस्य जनसम्मर्दस्य अपसारणाय दण्ड्प्रहारस्थाने जलोत्क्षेपं प्रयोक्तुम् आदीशत । १९५१ मध्ये सः अखिभारतीयकांग्रेस्समितेः महासचिवरूपेण नियुक्तः । जवहरलालनेहरु प्रधानमन्त्रिरूपेण नियुक्तः । शास्त्रीवर्यः मतप्रार्थिनां चयनाय, प्रासिद्धिदिशा निर्देशनाय, निर्वाचनकार्यकलापाय उत्तरदायी आसीत् । १९५२,१९५७, १९६२तमेषु वर्षेषु प्रचलितेषु भारतीयसार्वत्रिकनिर्वाचनेषु कांग्रेस्पक्षेण विजयः यः प्राप्तः तस्मिन् सः महत्वपूर्णां भूमिकां निरवहत् ।

१९५१ तमे वर्षे नेहरुमहाभागः राज्यसभासदस्यत्वाय तस्य नामङ्कनं कृतवान् । १९५१ तः १९५६ पर्यन्तं केन्द्रीयमन्त्रिमण्डले सः रेल् -मन्त्रिरूपेण तथा परिवहनमन्त्रीरूपेण कार्यभारं निरूढवान् । १९५६ मध्येमहबूबनगरे १४४ जनानां मरणाय कारणीभूतायाः एतदुर्घटनायाः पश्चात् सः त्यागपत्रं दातुमुद्युक्तः । तथापि नेहरुमहाभागः तस्य त्यागपत्रं न स्वीकृतवान् । मासत्रयानन्तरं तमिलनाडुराज्ये अरियालुर इत्यत्र जातायां रेलुदुर्घटयां १५५ जनाः मृताः । तस्य नैतिकोत्तरदायित्वं स्वीकुर्वता तेन त्यागपत्रं समर्पितम् । 
लोकसभायाम् एतां दुर्धटनामुद्दिश्य भाषमाणः नेहरुमहाभागः एवं प्रतिपादितवान् यत् शास्त्रिवर्यस्य त्यागपत्रं मया यत् स्वीकृतं तत् 'सः दोषी’ इति मत्वा न अपि तु संवैधानिक औचित्यस्य तत् उदाहरणाय भवेत्  इति अवदत् । नागरिकाः शास्त्रीवर्यस्य अभूतपूर्वम् आचरणं प्रशशंसुः । १७५७ मध्ये सार्वत्रिकनिर्वाचनानन्तरं शास्त्रिवर्यः आदौ परिवहनसञ्चारमन्त्रिरूपेण, तदनन्तरं वाणिज्योद्योगमन्त्रिरूपेण च दायित्वं निरवहत् । १७६१ तमे वर्षे गृहमन्त्री अभवत् । भ्रष्टाचारनिवारणार्थं के सन्तानं- महोदयस्य अध्यक्षतायां समितेः संरचनायां स एव कारणीभूतः अभवत्।

जवाहरलालनेहरुमहोदयः स्वस्य अधिकारावधौ एव तन्नाम १९६४तमे वर्षे मेमासस्य २७ तमे दिनाङ्के दिवङ्गतः । जूनमासस्य ९ दिनाङ्के शास्त्रीवर्यः प्रधानमन्त्रिपदे नियुक्तः ।  कांग्रेस् पक्षस्य अद्यक्षः के कामराजः अस्य कारणीभूतः । यद्यपि विनीतः मृदुभाषी तथापि शास्त्रीवर्यः नेहरु इव समाजवादी आसीत् इत्यतः दक्षिणपन्थिनः सम्प्रदायवादिनः च तं मोरारजीदेसायिमहोदयस्य अभ्युदये बाधकः इति भावयन्ति स्म । ११ जून १९६४ मध्ये आकाशवाण्यां कृते प्रथमभाषणे प्रधानमन्त्री शास्त्री अवदत् यत् प्रत्येकराष्ट्रस्य जीवनकाले ताद्दशः कश्चन निर्णायकक्षणः आगच्छति यदा राष्ट्रम् इतिहासस्य परिवर्तनघट्टे तिष्ठति । कस्यां दिशायां केन मार्गेण गन्तव्यम् इति वरणम् अनिवार्यं भवति । किन्तु अस्माकं न कापि समस्या भवितुम् अर्हति । अस्माकं मार्गः सरलः स्पष्टः च अस्ति - 'देशे स्वातन्त्र्यसमृद्धियुक्तस्य सामाजिकलोकतन्त्रस्य निर्मितिः, विश्वमैत्रीभावः, विश्वशान्तेः रक्षणञ्च प्राधान्यम् आवहति इति ।
 
शास्त्रीवर्यः स्वभाववैशिश्ट्यकारणात् परस्परविरोधिमतेषु सत्सु अपि सुवर्णमध्यमार्गं स्थापयितुं प्रयतते स्म । परन्तु आत्मनः अल्पे कार्यकाले राष्ट्रस्य आर्थिकसङ्कटस्थितौ आहाराभावस्य समस्यायाः परिहरणे सः निष्प्रभावः अभवत् । तथापि भारतीयजनमानसे तं प्रति महान आदरः आसीत् । भारतस्य हरितक्रान्तिं अग्रे नोदयितुं स तस्यैव जनादरस्य उपयोगं कृतवान् । तेन भारतदेशः अन्नाधिकदेशः अभवत् (अन्नाधिक्यं प्राप्नोत् )। एतत् सर्वं द्रष्टुं सः न जीवति स्म इत्येव खेदावहः विषयः । पाकिस्तानेन सह द्वाविंशतिदिनानां युद्धे, लालबहाद्दूरशास्त्रीवर्यः भारतस्य आहारोत्पादनवर्धनं मनसि निधाय तस्य प्रामुख्यम् अवगमयितुं  'जय जवान' जय किसान्’ इति घोषवाक्यम् अयच्छत् ।हरितक्रान्तिं दृढतया प्रतिपादयन् सः श्वेतक्रान्तेः अपि निमित्तभूतः अभवत्। १९६४ वर्षस्य आक्टोबरमध्ये कैरामण्डलस्य यात्रया अतीव प्रभावितः सः 'आणन्द' इत्यत्र यः यशस्वी प्रयोग कृतः तं शेषराष्ट्रमपि अनुकरोतु इति प्रचोदितवान्।  १९६५ मध्ये तस्य प्रधानमंत्रीकार्यकाले राष्ट्रीय-दुग्ध-विकास-संस्था स्थापिता ।
यद्यपि सः समाजवादी आसीत् तथापि भारतदेशः आर्थिकव्यवस्थां नवीकरोतु इति शास्त्रीवर्यः प्रतिपादयति स्म । तस्य प्रधानमंत्री कार्यकाले सः रशिया, युगोस्लाविया, इंग्लैंड्,केनडा तथा बर्मा (म्यानमार्) देशान् अभ्यगच्छत् ।

शास्त्रिशासनस्य प्रमुखा समस्या आसीत् पाकिस्थानदेशः आगस्ट १९६५ मध्ये द्वीपकल्पस्य कच्छप्रदेशस्य अर्धभागस्योपरि आत्मनः प्रभुत्वं प्रतिपादयन्  उपद्रवकारिणीः सेनाः भारतवर्षं प्रेषितवान् । ताः भारतस्य केनचित् सैन्यगणेन सह युद्धमकुर्वन् । कच्छप्रदेशे जातस्य संग्रामविषये लोकसभामुद्दिश्य प्रस्तुते आत्मनः निवेदने शास्त्रिवर्यः प्रात्यपादयत् यत् वयम् आर्थिकविकासार्थं योजनानां प्रकल्पानां कृते च प्रथमप्राशस्त्यं यच्छन्तः अस्माकं सीमितसाधनानम् उपयोगं कृतवन्तः स्मः। अतः यः कोऽपि वस्तुनिष्ठतया अस्माकम् उद्देशं यदि पश्येत् तर्हि एतत् सुस्पष्टं भवेत् यत् सीमाघटनानां चोदने अथवा युद्धवातावरणनिर्माणे च भारतदेशस्य न कापि आसक्तिः भवितुं शक्यते इति। एतादृशीषु परिस्थितीषु शासनस्य कर्तव्यं न केवलं सुस्पष्टम् अस्ति अपि तु तस्य प्रभाविरूपेन क्रियान्वयनं निश्चितम् --’यावत्पर्यंतम् आवश्यकता अस्ति तावत्पर्यन्तं दारिद्र्येण भवनं वरं मन्यामहे । परं वयम् अस्माकं स्वातंत्र्यस्य नाशनं न सहामाहे। (अनुमन्यामहे)
जून १९६५ मध्ये आंग्लदेशस्य प्रधानमंत्री श्री हरेल्ड विल्सन् एकां योजनां प्रस्तुतवान् । तदनुसारं पाकिस्थानदेशः तस्य पञ्चाशतप्रतिशतस्य प्रदेशस्य स्थाने दशप्रतिशत् भागम् अलभत् । किन्तु पाकिस्थानस्य आक्रामकमनोभावः(मनोरथाः) काश्मीरप्रान्ते केन्द्रितः । यदा पाकिस्थानदेशीयाः सशस्त्राः अक्रमप्रवेशकाराः  जम्मुकाश्मिरराज्यं प्रवेष्टुम् आरब्धवन्तः तदा शास्त्रिवर्यः स्पष्टम् उक्तवान् यत् बलस्य बलेन उत्तरं दास्यामःइति। सप्टेम्बर् १९६५ मध्ये न केवलं भारतशासनं भञ्जयितुम् अपि तु सहानुभूतिं प्राप्य क्रान्तिं चोदयितुं युद्धोद्युक्तानां पाकिस्थानीभटानां तथा आक्रमप्रवेशकाराणां च उपप्लवाः आरब्धाः । क्रान्तिः न अभवत् । भारतदेशः स्वसैन्यं युद्धविरामरेखापारम् अप्रेषयत् (इदानीं नियन्त्रणरेखा)। लाहोरसमीपे अन्ताराष्ट्रियसीमारेखाम् अतिक्राम्य गतवन्तं पाकिस्थानदेशम् अभर्त्सयत् (अतर्जयत्)।१९६५ मध्ये भारतपाकयुद्धे प्रचलति सति चीन देशः भारतं प्रति एकं पत्रं प्रेषितवान् । तस्मिन् पत्रे चीनभूमौ भारतेन सैन्यसामग्री स्थापिता अस्ति । यदि सा न प्रतिस्वीक्रियते तर्हि भारतदेशः चीनदेशस्य कोपभाजनः भविष्यति 'इति सङ्केतः आसीत् । एवं चीनदेशस्य भारतोपरि आक्रमणस्य सम्भावनायां सति अपि शास्त्रीवर्यः अघोषयत यत् चीनदेसस्य अयमारोपः मिथ्या । यदि चीनदेशः भारतस्योपरि आक्रमणं करिष्यति तर्हि वयम् अस्माकं स्वातंत्र्यरक्षणार्थं युद्धं करिष्यामः। अयम् अस्माकं दृढनिश्चयः इति ज्ञायताम् ।अस्मद्राष्ट्रस्य अखण्डतायाः परिरक्षणार्थं चीनदेशस्य बलम् अपि अपर्याप्तमेव भवेत्  इति । चीन देशात् न किमपि प्रत्युत्तरं प्राप्तम् ।
२३ सप्टेम्बर् दिने अन्ततो गत्वा, संयुक्तराष्ट्रसङ्घस्य युद्धविरामस्य आदेशात् भारत-पाक युद्धं समाप्तम् । शास्त्रीवर्यः युद्धविरामदिने राष्ट्रं प्रति आकाशवाणीप्रसारणे एवमवदत् -

युद्धविरामस्य घोषणायाः पश्चात् शास्त्रीवर्यः पाकिस्थानाध्यक्षः मुहम्मद् अयूब खान् महोदयः च अलेकसै कोसिजिन् महोदयेन ताश्कन्द् इत्यत्र आयोजिते शिखर- सम्मेलने भागम् ऊढवन्तौ ।१० जनवरी १९६६ दिनाके शास्त्रिवर्यः तथा खानमहोदयः ताश्कन्दघोषणापत्रे स्वाक्षरीं कृतवन्तौ । अन्येद्युः इतः पूर्व द्विवारं हृदयाघातेन पीडितः शास्त्रिवर्यः मध्यरात्रौ १.३२ वादने नूतनहृदयाद्यातेन मृतः । विदेशे, स्वकार्यकाले मृतः सः एकमेव प्रधानमंत्री आसीत् । शास्त्रिवर्यस्य मृत्योः गूढम् यद्यपि अधिकारिकरीत्या हृदयाघातेन मृतः इत्येव प्रतिपादितम् तथापि श्रीमती ललितादेवी शास्त्री पतिः विषप्रयोगेन मृतः इति सातत्येन आरोपं कृतवती । तस्य मृतशरीरं नीलवर्णेन परिवर्तितम् आसीत्। तस्मिन् विषप्रयोगः कृतः इति अन्येऽपि बहवः अमन्यन्त। जूनमासे कश्चन रशियन् पाचकः विषप्रयोगं कृतवान् इति गृहीतः अनन्तर सः सर्वेभ्यः आरोपेभ्यः निरपराधिः इति मुक्तः ।

२००७ मध्ये 'मध्य-एषिया उपरि सी.आय.ए. संस्थायाः कुदृष्टिः 'इति पुस्तकस्य लेखकः श्री अनिलधरः सूचनाधिकरविधेयकान्तर्गतं शास्त्रीवर्यस्य मृत्योः कारणं सार्वजनिकं करोतु इति प्रार्थनां कृतवान् । परन्तु प्रधानमंत्रीकार्यालयः 'एवं करोति चेत् विदेशसम्बन्धाः बाधिताः भवेयुः, देशे अराजकता उत्पद्येत, लोकसभायाः भङ्गः  जाये” इत्यादि कारणैः तस्य विरोधं चकार ।
प्रधानमंत्रीकार्यालयेन एतावत् प्रकटितं यत् तस्यान्तिके शास्त्रिमहाभागस्य मृत्योः सम्बन्धि एकं पत्रमासीत् परंतु तस्य निर्वर्गीकरणाय तेन प्रतिषेधः कृतः । शासनेन एतदपि अङ्गीकृतं यत् रशियामध्ये शास्त्रीमहाभागस्य अवविच्छेदनपरीक्षणं न कृतम् । तथापि तस्य निजवैद्ये डा आर एन् चुधमहोदयेन तथा अन्यैः रशियादेशस्य वैद्यैः कृतं वैद्यकीय-अभिवेदनं शासनस्यान्तिके आसीत् इति । अन्यच्च प्रधानमंत्री कार्यलयतः शास्त्रिमहाभागस्य मृत्योः सम्बद्धानि पत्रकाणि नष्टानि अथवा तिरोहितानि इति लेखप्रमाणम् अपि न प्रकटितम् ।अद्यापि उत्तरं अपेक्षितम् अस्ति ।

शास्त्रिवर्यः जवहरलालनेहरुः एतयोः व्यक्तित्वे सामान्यांशः आसीत् अत्यल्पः । शास्त्रिवर्यः पाकिस्थानेन सह शान्तिसन्धानम् ऐच्छत् । १९६५ तमे वर्षे भारतपाकिस्थानयोः युद्धस्य अनन्तरं सः स्वस्य मित्राय पत्रमलिखत् यत् उभयोः देशयोः समस्याः परस्परमैत्रीपूर्णमार्गेण निवारणीयाः इति । पूर्वं युद्धे तेन सत्वरं निश्चयात्मिका कृतिःआचरिता, चातुर्यं प्रदर्शितम् । सः सर्वैः सेनाप्रमुखैः सह विमर्शं कृत्वा पञ्जाबसीमायम् आक्रमणं कर्तुम् आदिशत्। । १९६२ मध्ये एतादृशे एव सन्दर्भे  नेहरुमहोदयः पदातिनां भारं न्यूनीकर्तुं वायुसेनाप्रेषणाय नकारं दत्तवान् । एतत् तु शास्त्रीवर्यस्यं आचरणात् सर्वथा विपरीताचरणम् आसीत् ।

तथापि नेहरु महोदय इव शास्त्रिवर्यः धर्मनिरपेक्षः आसीत् । धर्मस्य राजनीत्या सह मेलने तस्य विरोधः आसीत् । युद्धविरामानन्तरं रामलिलाप्राङ्गणे आयोजितायां सार्वजनिकसभायां सः बीबीसीसंस्थाम् अभर्त्सयत् । तया संस्थया 'शास्त्रीवर्यः हिन्दुः अतः सः पाकिस्तानेन युद्धाय सज्जः आसीत्’ इति अभियोगः कृतः आसीत् । प्रत्युत्तररूपेण सः अवदत्- अहं हिन्दुः, अस्याः सभायाः अध्यक्षस्थाने स्थितः मीरमुश्ताकः यवनः । श्री फ्रङ्क अन्थोनी यः अत्र भाषणं कृतवान सः आंग्लदेशीयः क्रैस्तः, अत्र सिख् पारसिकाः अपि सन्ति । अस्माकं देशस्य एतदेव वैशिष्ट्यं यत् अत्र हिन्दवः यवनाः क्रैस्ताः सिक्खाः पारसिकाः इति सर्वधर्मियाः वसन्ति । अत्र यथा देवालयाः तथा यवनानां धर्ममन्दिराणि, गुरुद्वाराणि, चर्च (क्रैस्तानां धर्ममन्दिरं ) अपि सन्ति । तथापि वयं एतेषां राजनीत्या सह मिश्रणं न कुर्मः । अयमेव भेद्दः भारत पाकिस्थानमध्ये ।सः बहूनि वर्षाणि केंद्रीयमंत्री आसीत् तथापि यदा तस्य देहान्तः अभवत् तदा सः निर्धनः आसीत् ।अन्ते तस्यान्तिके एकं जीर्णं कारयानं मात्रं असीत् । तेन उच्चमानदण्डाः स्थापिताः । सः एकः एव रेलमंत्री तादृशः आसीत् यः भीषण् रेल्-दुर्घटनायाः पश्चात् नैतिकोतरदायित्वं स्वीकुर्वन् त्यागपत्रं दत्तवान् । शास्त्रिवर्यस्य मृत्योः पश्चात् भारतीयराजनैतिकजीवनात् मूल्यानि निर्गतानि इवं भासन्ते ।  यदि सः अजीविष्यत् तर्हि भारतदेशः अधिकसुस्थितौ अभविष्यत्, अधिकाजनाः दारिद्र्यात् उद्धृताः अभविष्यन् इति इतिहासकाराः वदन्ति ।




#Article 14: इन्द्र कुमार गुजराल (455 words)


स्वतन्त्र भारतस्य त्रयोदशः प्रधानमन्त्रिरूपेण अधिकारं स्वीकृतः इन्द्र कुमार गुजरालः १९१९ तमे वर्षे डिसेम्बर् चतुर्थदिनाङ्के पञ्जाबराज्यस्य झीलं प्रदेशे जन्मं प्राप्तवान्। वस्तुतः झीलं प्रान्तः पाकिस्थानस्य ईशान्यभागे अस्ति।

बाल्यारभ्य प्रतिभावान् गुज्रालः स्वातन्यात् पूर्वं स्वातन्यसङ्ग्रामान्दोलने ब्रिटीष् विरुद्धं घोषणान् कृतवान्। १९४२ तमे वर्षे महात्मा गान्धिना प्रारम्भं कृतं ”भारतं त्यक्त्वा गच्छन्तु” आन्दोलने भागं गृहित्वा कारागृहवासम् अनुभूतवान्।

इन्द्र कुमार् गुज्रालः वार्ता तथा प्रसारविभागे, सम्सदीयव्यवहारे, योजनामन्त्रिरूपेण केन्द्रसर्वकारे सेवां कृत्वा १९७५ तमे वर्षे आपत्कालपरिस्तिथिसमये वार्ता तथा प्रसारविभागस्य राज्यमन्त्री आसीत्। १९७५ तमे वर्षे अलहाबाद् उच्च न्यायालयेन श्रीमती इन्दिरा गान्धिः संविधानस्य विरोधं कृत्वा प्रधानमन्त्रिणी अभवत् इति निश्चित्य तस्याः चयनम् असिन्धु इति घोषितम् । तदा सञ्जय गान्धिः पार्श्वराज्यतः वस्तुवाहकेन जनान् आनीय एते प्रधानमन्त्रिण्याः अनुयायिनः इति जनानां पुरतः प्रदर्शितवान्। अयं विषयः माध्यमेषु दर्शनीयः इति वार्ता तथा प्रसार विभागस्य मन्त्रिणं गुजरालमुद्दिश्य आग्रहः अन्येन कृतः । यदा गुज्रालः एतद् कार्यं कर्तुं निराकृतवान्, तदा वार्ता तथा प्रसार विभागं विद्याचरण शुक्लायाः कृते दत्तवन्तः।

१९८० तमे वर्षे गुज्रालः रष्यादेशे भारतस्य राजदूतरूपेण चितः अभवत्। १९८९ तमस्य वर्षस्य निर्वाचने गुज्रालः पञ्जाबस्य जलन्धरलोकसभाक्षेत्रतः स्पर्धित्वा चितः अभवत्। वी. पी. सिंहस्य शासने एषः सचिवः भूत्वा सेवां कृतवान्। एतस्मिन् अवधौ एषः कुवैत् उपरि इराक् आक्रमणस्य विषयं समर्थरीत्या निरूढवान्।

१९९२ तमे वर्षे गुज्रालः जनतादलस्य नायकः भूत्वा राज्यसभायाः कृते चितः अभवत्। १९९६ तमस्य वर्षस्य निर्वाचनस्य अनन्तरं केन्द्रे ’संयुक्तरङ्ग’ सर्वकारस्य रचना जाता। पुनः सचिवः भूतः गुज्रालः ’गुज्रा्ल सिद्धान्तं’ प्रकाशे आनीय प्रतिवेशिराष्ट्रैः सह उत्तमं बान्धव्यं कल्पितवान्। बाङ्ग्लादेशेन सह बहु कालेभ्यः विद्यमाना गङ्गानद्याः जलसमस्या एतेन परिहृतम् ।

१९९७ तमे वर्षे संयुक्त रङ्ग पक्षस्य कृते बहिष्ठात् दत्तः सहकारः काङ्ग्रेस् पक्षेण प्रतिस्वीकृतः । अतः सर्वकारस्य पतनं जातम् । ततः पुनर्निर्वाचनस्य सन्दर्भः आसीत् चेदपि सर्वपक्षाणाम् अनुमत्या संयुक्त रङ्गस्य सर्वकारं पुरतः नेतुं निर्णयः कृतः। एतस्य कारणात् १९९७ तमे वर्षे एप्रिल्मासस्य २१ तमे दिनाङ्के प्रधानमन्त्री देवेगौडः त्यागपत्रं दत्तवान् । तदा ए. के. गुज्रालः नूतनप्रधानमन्त्रिरूपेण प्रमाणवचनं स्व्यकरोत् ।

गुज्रालः प्रधानमन्त्रिरूपेण एकादशमासान् यावत् कार्यं निरूढवान् । अस्मिन् अत्यल्पावधौ गुज्रालः पाकिस्थानेन सह उत्तमबान्धव्यं प्राप्तुं बहु श्रमं कृतवान्। अनारोग्यपीडितानां सर्वकारीयसंस्थानां परिष्करणे तस्य योगदानं महदस्ति । १९९७ तमे वर्षे भारत-रषिया-आर्थिकसमस्याः निवारयितुं महान्तं प्रयत्नं कृतवान्।

१९९७ तमे वर्षे राजीव गान्धेः हननप्रकरणस्य विचारणावसरे जैन-आयोगस्य मध्यन्तरेतिवृत्तं माध्यमजनैः अक्रमेण प्राप्तम् । तस्मिन् इतिवृत्ते ए्ल.टी.टी.ई. सङ्घटनायाः कृते सहकारं यच्छन् द्राविड मुन्नेत्र कळगस्य पक्षमेव राजीवगान्धेः हननस्य कारणीभूतम् इति अंशः प्रकटितः आसीत्। जैन् वार्तायाः अनुसारं सचिवसम्पुटतः डि.एम्.के. पक्षस्य सचिवान् त्यक्तुं काङ्ग्रेस् आग्रहं कृतम् आसीत्। एतस्य कृते अनुमतिः यदा न सूचिता, तदा ऐ. के. गुज्रालस्य संयुक्त रङ्गस्य सर्वकारस्य कृते दत्तं सहमतं काङ्ग्रेस्-प्रक्षेण प्रतिस्वीकृतम् । एतस्मात् कारणात् ऐ. के. गुज्रालः १९९७ तमे वर्षे नवेम्बर्-मासस्य २८ तमे दिनाङ्के त्यागपत्रं दत्तवान्।

भारतस्वातन्त्रस्य सुवर्णमहोत्सवं गुजरालसर्वकारः वर्णरञ्जितरीत्या आचरणम् अकरोत् ।

१९९८ तमस्य वर्षस्य निर्वाचने गुज्रालः पञ्जाबस्य अकाली दलस्य सहमतेन जलन्धर क्षेत्रतः स्पर्धित्वा तस्य प्रतिस्पर्धिनम् उम्रावो सिङ्गं १,३१,००० अधिकमतैः तं पराजितवान्। तस्मिन् समये भारतीयजनतापक्षसर्वकारेण कृतायाः अण्वस्त्रपरीक्षायाः, बिहारराज्ये राष्ठ्रपतिशासनं यत् सण्स्थापितं तस्य च खण्डनं कृतवान् । सः प्रधानमन्त्रिणः अटल बिहारी वजपेयी महोदयस्य पाकिस्थान सम्पर्कसाधनम् अभिनन्दितवान्। १९९९ तमे वर्षे ए.डि.एम्.के. पक्षस्य सहकारस्य प्रतिस्वीकरणकारणतः भारतीयजनतापक्षेण विश्वासमतं याचितम्। गुज्रालः सर्वकारस्य विरोधम् अकरोत् । तस्मिन् वर्षे जाते निर्वाचने अस्पर्धयन् राजकीयजीवनतः निवृत्तिं प्राप्नोत् ।




#Article 15: चौधरी चरणसिंह (306 words)


सा.श.१९३७ तमे वर्षे फ़ेब्रवरी मासे उत्तरप्रदेशराज्यसभानिर्वचने स्पर्धयित्वा जयं प्राप्तवान् । सा.श.१९३८ तमे वर्षे व्यवसायोत्पन्नविपणीनाम् अधिनियमं राज्यसभायां प्रस्तुतवान् । एषः अधिनियमः सा.श.१९३८ तमे वर्षे मार्चमासस्य ३१ दिनाङ्के देहल्याः हिन्दुस्थानटाइम्स् पत्रिकायां प्रकाशितः । सा.श.१९४० तमे वर्षे ऐदम्प्राथम्येन पञ्जाबराज्ये अन्यराज्येषु च अपि अनुष्ठितम्म् । सा.श.१९५२ तमे वर्षे उत्तरप्रदेशस्य राज्यसभानिर्वाचने जयं प्राप्तवान् एषः करविभागस्य मन्त्री अभवत् । तस्मिन्‌ काले भूस्वामित्वपद्धतिः आसीत्  । भूस्वामितायाः पद्धतिं स्थगितवान् तथैव भूसुधारणानियमस्य अनुष्ठानं कर्तुं प्रयत्नं कृतवान् । चौधरीचरणसिंहः तस्य कालस्य प्रधानिना जवाहरलालमहोदयेन यथा उक्तम् आसीत् तथा सोवियतसङ्घरीत्या आर्थिकप्रगतेः मण्डनं कृतवान् ।किन्तु स्वयं कृषिकस्य पुत्रः एषः यः भूम्यां कृषिं करोति सः एव भूस्वामी भवेत् इति विश्वसिति स्म । तस्मिन् काले जवाहरलालनेहरूमहोदयस्य अभिप्रायं कोऽपि न आक्षिपति स्म । अतः चौधरी चरणसिंहः सा.श.१९६७ तमे वर्षे काङ्ग्रेस् पक्षं त्यक्तवान् । सा.श.१९६७ तः सा.श.१९७० पर्यन्तम् उत्तरप्रदेशस्य अल्पकालीनमुख्यमन्त्री आसीत् ।

१९७७ तमे वर्षे  यदा काङ्ग्रेस्पक्षः अतिहीनपराजयं प्राप्नोत् तदनन्तरं जनतापक्षस्य सर्वकारः रचितः । जनतापक्षस्य मित्रपक्षेषु अन्यतमस्य भारतीयलोकदलपक्षस्य नायकः चौधरी चरणसिंहः तदा प्रधानमन्त्री भवितुम् योग्यः आसीत् । किन्तु जयप्रकाशनारायणः मोरारजी देसायीवर्यं प्रधानमन्त्रिरूपेण चितवान् । किन्तु जनतापक्षस्य आन्तरिककलहकारणतः मोरार्जी महोदयः १९७९ तमे वर्षे त्यागपत्रं दत्तवान् । श्रीमत्याः इन्दिरागान्ध्याः सूचनानुसारेण चौधरी चरणसिंहः जनतापक्षाय दत्तं सहकारं प्रतिस्वीकृत्य काङ्ग्रेस्पक्षं प्रति दत्तवान् । अतः १९७९ तमे वर्षे जुलै २८ दिनाङ्के एषः ६४ जनानां  लोकसभासदस्यानां सहयोगेन भारतस्य पञ्चमः प्रधानमन्त्री अभवत् ।

चौधरी चरणसिंहः महत्या आकाङ्क्षया प्रधानमन्त्री स्थानं प्राप्तवानासीत् । प्रधानमन्त्री सन् इतोऽपि एकं लोकसभाकलापमपि न कृतवानासीत् । तस्य प्रथम लोकसभाकलापः १९८० तमे वर्षे जनवरीमासस्य १५ दिनाङ्के करणीयः आसीत् । तन्निमित्तं बहु सज्जता अपि प्रचलन्ती आसित् । किन्तु दुर्दैववशात् ततः पूर्वदिने एव श्रीमती इन्दिरागान्ध्याः नेतृत्वस्य काङ्ग्रेस्पक्षः चरणसिंहस्य भारतीयलोकदलपक्षात् सहयोगं प्रतिस्वीकृतवान् । १९८० तमे वर्षे जनवरीमासस्य १४ दिनाङ्के स्पष्टबहुमतं प्रमाणीकर्तुम् अशक्यः एषः पदव्याः कृते त्यागपत्रं दत्तवान् ।

१९८७ तमे दिनाङ्के चरणसिंहस्य मरणानन्तरम् एतस्य पुत्रः अजितसिंहः चरणसिंहेन स्थापितस्य भारतीयलोकदलपक्षस्य नायकः अभवत् । चौधरी चरणसिंहः कृषिकजनानां बहु आत्मीयः आसीत् । अतः नवदेहल्यां विद्यमानस्य तस्य स्मारकं 'किसान् घाट्’ इति निर्दिश्य गौरवं प्रदर्शितवन्तः । उत्तरप्रदेशसर्वकारेण एतस्य स्मरणार्थं मीरट् विश्वविद्यालयस्य चौधरी चरणसिंहविश्वविद्यालयः इति पुनर्नामकरणं कृतम् ।




#Article 16: उपनिषद् (3648 words)


उपनिषद् पराविद्या इति पदेन व्यपदिश्यते । वेदान्तिभिः उपनिषद् इत्य आख्यायते । उपनिषच्छब्दस्य रहस्यमर्थः, अध्यात्मविद्यारहस्यप्रतिपादकाः वेदभागाः उपनिषदः कथ्यन्ते । तासु महर्षयः आध्यात्मिक्या विद्यया गूढतमानां रहस्याणां विशदतया विचारं कुर्वाणाः प्राप्यन्ते । भारतीयदर्शनसाहित्ये सन्ति त्रयः। प्रस्थानग्रन्थाः । ते वेदान् अवलम्बमानाः मानवजीवनस्य चरमं लक्ष्यं तत्प्राप्तिसाधनञ्च उपदिशन्ति । भारतीयविचारशास्त्रस्य श्रेष्ठोपजीव्यग्रन्थत्वादुपनिषदः प्रस्थानत्रय्यां प्रथमप्रस्थानत्वेन गृह्यन्ते। श्रीमद्भगवद्गीता द्वितीयं प्रस्थानमिति। गीतायाः द्वितीयप्रस्थानत्वम् तस्यामेव प्रकटितम् अस्ति। यथा -

'सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।

पार्थो वत्सः सुधीर्भोत्ता दुग्धं गीतामृतं महत्।।

बादरायणव्यासप्रणीतं ब्रह्मसूत्रं तृतीयप्रस्थानमस्ति । तत्र आपाततो विरोधिभूतानाम् उपनिषद्वाक्यानां समन्वयस्तथा कृतः, येन ज्ञातं स्यात् तेषां सर्वेषामपि वाक्यानां ब्रह्मनिष्ठत्वम्। अथ च तत्र तार्किकाणां युक्तयः अपि प्राबल्येन निराकृताः सन्ति । भारतीयाः वैदिकधर्मग्रन्थाः, दर्शनानि च इमामेव प्रस्थानत्रयीमवलम्बन्ति । उपनिषदां गीताब्रह्मसूत्रयोराश्रयप्रदायिनीत्वात् ताः सन्ति महनीयतमाः ।

उप-नि-पूर्वकस्य विशरणगत्यवसादनार्थकस्य ‘षद्लृ'-धातोः क्विबन्तस्य रूपमिदमुपनिषदिति । उपनिषदाम् अध्ययनेन दृष्टानुश्रविकविषयवितृष्णमुमुक्षूणां संसारस्य बीजभूता विद्या नश्यति, ब्रह्म प्राप्तं भवति दुःखानि च क्षीणानि भवन्ति । ब्रह्मणः स्वरूपस्य तदवाप्त्युपायस्य जीवस्य जगतश्च किञ्चात्मादिविषयाणां सविस्तरं वर्णनपरत्वात् ‘उपनिषद्' इति संज्ञा।

'सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम् इत्येतत् मुक्तिकोपनिषद्वाक्येन उपनिषदष्टोत्तरशततोऽप्यधिकाः अासन्  इति ज्ञायते। प्राप्तासु अष्टोत्तरशतसंख्याकासु उपनिषत्सु प्रायेण द्वादश उपनिषदः प्राचीनत्वाद् विशदतया च विषयस्य प्रतिपादकत्वाद् अतितरां प्रामाणिकाः मताः भवन्ति । तत्र १० उपनिषदः ऋग्वेदसम्बद्धाः, १९ उपनिषदः शुक्लयजुर्वेदसम्बद्धाः, ३२ कृष्णयजुर्वेदसम्बद्धाः, १६ सामवेदसम्बद्धाः, ३१ अथर्ववेदसम्बद्धाः । वेदान्ताचार्या एतासु उपनिषत्सु कतिचनोपनिषदः स्वमतानुसारिण्यया व्याख्यया भूषितवन्तः । तासु दशोपनिषदः प्रसिद्धाः। 

ऋग्वेदीयोपनिषत्सु ऐतरेय-कौषीतकी, सामपरकोपनिषत्सु छान्दोग्यकेनोपनिषदौ, कृष्णयजुर्विषयाकासूपनिषत्सु तैत्तिरीय-महानारायण-कठ-श्वेताश्वतरमैत्रायण्युपनिषदः, शुक्लयजुरधिकृत्य लिखिता ईशावास्योपनिषद् बृहदारण्यकं, किञ्चाथर्वनिष्ठासु मुण्डक-माण्डूक्य-प्रश्नोपनिषदश्च नितरां प्रथिताः प्राचीनाः प्रमाणप्राप्ताः सन्ति । मुण्डिकोपनिषदि उपनिषदां संख्या निम्नरूपेण वर्णिताऽस्ति

ऐतरेयं च छान्दोग्यं वृहदारण्यक दश।। 

एतासु दश उपनिषत्सु प्रसिद्धाः — ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तैत्तिरीयऐतरेय-छान्दोग्य-बृहदारण्यकोपनिषदः । श्वेताश्वतरोपनिषदेकादश्यपि प्रसिद्धा । 

काश्चन उपनिषदः गद्यात्मिकाः, काश्चन पद्यात्मिकाः काश्चन गद्यपद्योभयात्मिकाश्च । अासाम् उपनिषदां कालो भिन्न-भिन्नः, परं प्रसिद्धाः काश्चन उपनिषदः बुद्धकालात्प्राचीना एवेति संस्कृतसाहित्येतिहासलेखकानां मतम्।

महर्षयो भारयीयाध्यात्मविद्यायाः  यानि आध्यात्मिकतत्त्वानि ज्ञानदृशा साक्षादकुर्वन्, तानि सर्वाणि तत्त्वानि उपनिषत्सु वर्णितानि सन्ति । उपनिषदोऽतिसरलशैल्यां तत्त्वं ग्राहयन्ति, तेन तासां महत्त्वं लोकप्रियत्वं चानुदिनमवर्धत । आसां तत्त्वप्रकाशनशैली यथा कठोपनिषदि – 

बुद्धिं तु सारथि विद्धि मनः प्रग्रहमेव च॥

इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचरान्।

अात्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः॥

इमाः उपनिषदो नैकस्मिन् काले प्रणीता अजायन्त अपि तु काले काले ता रचिता अभूवन् । प्रधानोपनिषदो बुद्धात्प्रागेव अवतेरुरिति । आसामुपनिषर्दा कालनिरूपणाय, पारस्परिकसम्बन्धनिर्धारणाय च अर्वाचीनविद्वांसः अतीवोद्योगं कृतवन्तः । 

जर्मनविद्वान् डायसन-महोदयस्तु उपनिषदः चतुर्षु स्तरेषु विभक्ताः कृतवान् । 

(क) प्राचीनगद्योपनिषदः - यासां गद्य ब्राह्मण-गद्यमिवं प्राचीनं, लघुकायं सरलञ्चास्ति । यथा— (१) बृहदारण्यकोपनिषद्, (२) छान्दोग्योपनिषद्, (३) तैत्तिरीयोपनिषद्, (४) ऐतरेयोपनिषद्, (५) कौषीतकि-उपनिषद् (६) केनोपनिषच्चेति ।

(ख) प्राचीनपद्योपनिषदः - यासां पद्यं प्राचीनं, सरलं तथा वैदिकपद्यमिवास्ति । यथा - (७) कठोपनिषद्, (८) ईशोपनिषद्, (९) श्वेताश्वतरोपनिषद् (१०) महानारायणोपनिषच्चेति ।

(ग) उत्तरकालिकगद्योपनिषदः — (११) प्रश्नोपनिषद्, (१२) मैत्रायेणीयोपनिषद्, (१३) माण्डूक्योपनिषच्चेति ।

(घ) आथर्वणोपनिषद्, यासामुपयोगः तान्त्रिकोपासनायां विशिष्टरूपेण स्वीकृतः अस्ति - (१) सामान्योपनिषद्, (२) योगोपनिषद्, (३) साङ्ख्यवेदान्तोपनिषद्, (४) शैवोपनिषद्, (५) वैष्णवोनिषद् (६) शाक्तोपनिषच्चेति ।

अस्मिन् क्रमसाधने बहुदोषान् सम्भाव्य तांश्व दर्शयित्वा डॉ० बेलवेलकर-राणाडेमहोदयाभ्याम् एका अभिनवा योजना प्रस्तुता इति। 'कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः ) तथा बृहदारण्यकेन उद्घोषिता कर्मसंन्यासभावनायाः घोषणा नास्त्येवेति ('पुत्रैषणायाश्च लोकैषणायाश्च ह्युत्थाय भिक्षाचर्य चरन्ति - बृहदारण्य०)। अन्योपनिषदाम् इव आरण्यकस्या अंशो न भूत्वा ईशोपनिषद् माध्यन्दिनसंहिताया भागोऽस्ति तथा मुक्तिकोपनिषदः मान्यपरम्परानुसारेणेय समस्तोपनिषदां गणनायां प्रथमस्तरीयेवेति । 

श्रीचिन्तामणिविनायकवैद्योऽपि स्वग्रन्थे उपनिषदां प्राचीनतां प्रमाणयितुं साधनद्वयं समुपस्थापयति। विष्णोः शिवस्य च परदेवस्वरूपे वर्णनम्। प्रकृति-पुरुषयोः तथा सत्त्व-रजस्तमसां त्रिविधगुणानां साङ्ख्यसिद्धान्तस्य प्रतिपादनं युक्ततरोऽयं सिद्धान्तः तस्य मते उचितः। तिलकमहोदयानुसारेण उपनिषत्कालः १९०० वि० पूर्वं शतकं भवितव्यम् । अनेन प्रकारेण उपनिषत्कालस्य समारम्भः  २५०० वि० पूर्व शतकं मन्यते।

सप्तदशशतके दाराशिकोहनामा शाहजहाँ-नाम्नः सम्राजः पुत्रः ५० संख्याकाः उपनिषदः पारसीभाषायां ब्राह्मणपण्डितानां साहाय्येनानूदितवान् । शोपेन हावेर( Shopen Howers )-नामा प्रसिद्धो वैदेशिको दार्शनिक उपनिषदः स्वगुरुषु गणयति स्म । 

उपनिषत्सु अद्वैतविशिष्टाद्वैतश्रुतीनां सद्भावो भाति । अाचार्यैः स्वसिद्धान्तप्रतिष्ठापिकाः श्रुतयः प्रधानत्वेन स्वीकृताः, अन्यासां श्रुतीनां गौणत्वञ्च तैरुपपादितम्। शङ्करः स्वभाष्येण अद्वैतं, श्रीरामानुजाचार्यानुगा विशिष्टाद्वैतं तत्र प्रतिपादयन्ति । वस्तुतः उपनिषत्सु दर्शनानां सर्वेषामपि बीजानि निहितानि सन्ति । न केवलम् आस्तिकदर्शनानामपि तु नास्तिकदर्शनानामपि मूलसिद्धान्ताः समुपलभ्यन्ते । 

उपनिषदां प्रधानत्वेन प्रतिपाद्यो विषयोऽस्त्यात्मा । संहितातः आरण्यकं यावत् तद्ब्रह्म आत्मनो भिन्नमित्येतेन रूपेण प्रतिपादितमस्ति । तदुपनिषत्सु ततो न भिन्नमित्येतेन प्रकारेण व्याख्यातमस्ति । द्वयोरप्यभिन्नत्वाद् दैवाध्यात्मिकतत्त्वयोः एकत्वात् च आत्मा एवैकः सर्वत्र न च तं विहाय कोऽप्यन्यः पदार्थ इत्युपनिषद्भिर्युक्तिभिः साधु निरणायि । तच्चात्मारण्यं तत्त्वं पूर्णमस्ति । तदेव तत्त्वं दृष्टिः तदेव च दृश्यम् । न द्रष्टृदृश्ययोः भिन्नतां वस्तुतः श्रयतः । आत्मैव सर्वव्यापी वर्त्तते । विश्वस्य सर्वेष्वपि पदार्थेषु स एव व्याप्तोऽस्ति । तस्मिन्नेव समग्रस्याऽपि प्रपञ्चस्य लयो भवति । ततो व्यतिरिक्तं न किमपि । अत एव बृहदारण्यकोऽप्याह- 

अर्थात् संसारस्य यावन्तोऽपि सन्ति स्थूला वा सूक्ष्माः पदार्थाः सर्वेऽपि नात्मनो भिन्नाः । ते सर्वे आत्मत्वेनैव वेदितव्याः, नात्मनः परं किमपि प्रियतरम् । ऋषिभिर्बहुधा स आत्मा वर्णितः । कथयन्ति ते यद् आत्मैव प्राणापानव्यानोदानवायुरूपेण अस्मच्छरीरम् अवन्ति । आत्मैव क्षुत्-पिपासाशोकमोहजरामरणेभ्यः अस्मान्नुद्धरति । आत्मनो ज्ञानानन्तरमेव मानवः सुतसम्पत्सुन्दरीस्वर्गादिसमवाप्तीच्छतो विरतो भूत्वा परिव्राजो जीवनं वहति । पूर्णत्वाद्, अखण्डत्वाच्च आत्मा सदसदौ, लघुगुरू, दूरादूरं अन्तर्बहिः आदिसकलविरुद्धधर्माणामेकाधारः । सर्वेऽपि दर्शनकाराः अत एव इदं परमतत्वम् आत्माभिधेयं विभिन्नरूपेण स्वस्वमूलतत्त्वं मत्वा भिन्नभिन्नया दृष्टिसरण्या भिन्नभिन्नानि दर्शनानि व्यरचयन् ।

ब्रह्मतत्त्वं यः कोऽपि – जिज्ञासति, ज्ञातुं शक्नुते; यः कोऽपि मानवस्तत् लिप्सति लब्धुं प्रभवति। तदर्थं तपस्या काम्यते अभिलष्यते सत्यानुरागी बलिष्ठा निष्ठा विमलञ्च ज्ञानम् । नायमात्मा वेदाध्ययनेन लब्धुं शक्यो न च सद्धारणाशक्त्यैव । साधको हि यम् आत्मानं वृणुते तेनैव स तमवाप्तुमीष्टे । सम्प्रति हि स्वयमेवात्मा स्वकीयं रूपमभिव्यनक्ति । उपनिषदः आहुः -

'नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन। Вы все геи!

यमेवैष वृणुते तेन लभ्यस्तस्यैव आत्मा विवृणुते तनूं स्वाम्॥

ब्रह्मणो मूर्त्तामूर्तभेदेन रूपद्वयम् । तदस्ति मत्यममत्यञ्च । स्वलक्षणं लक्षणातीतञ्च । तत् परमात्मेत्येतदप्युच्यते । अयमेव परमात्मा अविद्याहेतोर्बन्धने निपत्य जीवात्मेत्येतदपि निगद्यते । गतजनुः कर्मवशात् सुखानि च भोक्तुं जगति जन्म गृह्णाति । पुनः पुनः जायते म्रियते च । संसारागमनानेहसि भोगानुकूलं स्थूलं वपुः बिभर्ति। स लोके परलोके च भ्रमति; स्वप्नावस्थायां लोकद्वयस्य अपि ज्ञानमाप्नुते । स्वप्ने च सुखं दुःखञ्च विन्दति । स्वप्ने स्वप्नगतविषयदर्शनार्हशरीरं धारयति । भवति च तच्छरीरं स्थूलाद् भिन्नम् । उपनिषदो वदन्ति यद्, जीवो भोगनिमित्तेन स्वप्ने स्वयं नवनवविषयाणां सृष्टिं कुरुते । परं वस्तुतः स्वप्नस्यापि सृष्टिरस्ति ब्रह्मणा एव । जीवात्मब्रह्मणोः एकत्वात् । 

यथा जाग्रदवस्थातः जीवः स्वप्नावस्थायां प्रविशति तथैव च नैजं स्थूलं शरीरं हित्वा अविद्याप्रभावात् शरीरान्तरं धारयति । शरीरत्याग एव मरणमिति कथ्यते । जीवमरणसमयावस्थां वर्णयन्ता उपनिषदः शंसन्ति यत्, जीवस्तदा दुर्बलतां संज्ञाशून्यताञ्च प्रयाति हृदयञ्च अधितिष्ठति । प्रथमं तस्य रूपज्ञानं नश्यति, इन्द्रियैः सार्धमन्तःकरणमपि श्लथतामुपैति । तदानीं हृदयबाह्यभागः प्रकाशितो जायेत । तं प्रकाशमेवाश्रित्य जीवः स्वकर्मप्रभावात् शरीरस्य भिन्नभिन्नछिद्रमार्गेण निर्गच्छति । तस्मिन्नपि समये जीवे वासना स्फुटतया एव विभासते । तस्याः वासनायाः एव सामर्थ्यात् जीवस्य भाविनो जीवनस्य स्वरूपं निर्णीयते । 

उपनिषदां कथनमेतत् — वर्त्तमानसमये जीवाः स्वकीये जीवने यादृशं कर्म आचरन्ति, ते भाविनिकाले तादृशमेव जीवनमपि लप्स्यन्ते। सन्ति कर्माण्येव जीवनघटकानि । जीवनं ह्यत्तमं सर्वविधतया समुन्नतञ्च कर्तुं सततं शुभान्येव कर्माणि कर्त्तव्यानि । ज्ञानात् ऋते न मुक्तिः तस्मात् ज्ञानमर्जनीयम् । ज्ञानाधिगमनं योगाभ्यासेन सम्भवम्। सत्कर्मकर्ता जीव उपरते सति सत्स्वरूपं सद्देशं, सच्छरीरम् अश्नुते । एतेनैव स्फुटं जीवस्यास्मात् लोकात् परलोकगमनं तत् तद् भोगाधिगमनञ्च । तपश्चरणात्पुण्यानां हु अभ्युदयाच्च ज्ञानबलेन वासना विनश्यति, क्रियमाणानि कर्माणि विलीयन्ते, सञ्चितानि कर्माणि हतशक्तिकानि जायन्ते । एवंविधां दशां प्रपन्नाः जनाः एव जीवनमुक्ताः उच्यन्ते । जीवनमुक्तेषु प्रारब्धकर्मानुरूपं जीवस्य स्थूलं शरीरं सन्तिष्ठते, नष्टे च सति प्रारब्धकर्मणि शरीरमपि निपतति । ततश्च जीवः स्वकीयस्य रूपस्य प्रत्यक्षभावेन अनुभूतिं कुरुते । 

तत्रोक्तमादौ सृष्टिर्नासीत् किमपि, केवलं मृत्युरवर्त्तत । ततश्च मनः मनःसलिलानलभुवः समुद्भूताः । प्रजापतेः अनन्तरं सुरासुराश्च उद्बभूवुः। क्वचिद् इदमप्यभिहितं प्रथमं पुरुषस्य ततश्च स्त्रियाः उत्पत्तिरभवत् । ताभ्याञ्च विश्वस्य सृष्टिरभूत् । एतद्विधायाः वर्णनं छान्दोग्योपनिषदि बृहदारण्यके च दृष्टं भवति । उपनिषत्सु उल्लिखितम् अस्ति यत्, सर्वतः प्रथममेकम् अव्यक्तं रूपमासीत् । तस्मादेव व्यक्तमिदं जगत् सृष्टमभूत् । इदमव्यक्तं रूपं हि ‘परब्रह्म' अस्ति । समस्तमपि जगत् तस्मादेव प्रादुर्बभूव अन्ततश्च तत् तस्मिन्नेव लीयते -

'यतो वा इमानि भूतानि जायन्ते । तेन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद् ब्रह्य एव जगतो निमित्तकारणमुपादानकारणञ्चास्ति।

तत्र देवयानपितृयानयोः निरूपणम् आलोक्यते । पुण्यकर्मभ्यः पुरुषः सुयोनिमध्ये पापेभ्यश्च कर्मभ्यः कुत्सितायां योन्यां जननम् उपाददाति।

आात्मानं द्रष्टुं किंवा ब्रह्म ज्ञातुं जीवस्य कर्त्तव्यमिदं यत्, सः कायं वाचं मानसञ्च संयच्छेत् । किञ्च ब्रह्मणः साक्षात्काराय सत्यस्य आचरणं, न कस्याऽपि वस्तुनः अपहरणं, ब्रह्मचर्यस्य रक्षणम्, इन्द्रियाणां निग्रहणं, हिंसायाः परित्यजनम्, मातृ-पितृदेवातिथिगुरुजनानाम् अभ्यर्चनं, निन्दनीयकर्मपरिवर्त्तनं, सांसारिकेषु विषयेषु विरजनम्, अन्तःकरणस्य परिक्षालनमेतानि कर्माण्यतितरामपेक्ष्यन्ते ।

परिशुद्धेन कायेन वचनेन हृदयेन अहंभावरूपस्थितम्, प्रत्यक्चेतनमवबोद्धुं प्रयतेत जीवः । तदर्थं निदिध्यासनम् अपेक्षितमस्ति । योगशास्त्रोक्तसाधनानि साधनीयानि । एतस्मिन्नध्यवसाये तदैव सफलता  भवति, यदा श्रद्धा भवति गुरुम्प्रति स्वसमर्पणं कृतं जायते । अहम्भावविनाशाय सर्वाण्यप्येतानि कार्याणि कर्त्तव्यानि सन्ति । गुरुस्तत्त्वं प्रहीणदोषायैव प्रददाति । उक्तञ्च —

'प्रशान्तचित्ताय जितेन्द्रियाय च 

प्रहीणदोषाय यथोक्तकारिणे।

गुणान्वितायानुगताय सर्वदा 

प्रदेयमेतत् सततं मुमुक्षवे ॥ 

गुरुजिज्ञासवे ‘तत् त्वमसि' इत्येतदुपदिशति । शान्तोदान्तः शुद्धान्तःकरणः साधकः ‘अहं ब्रह्मास्मि' इत्येतं गुरूपदेशं निशम्य स्वयमेवात्मनि ब्रह्मणोऽनुभूतिं कर्तुमारभते । साधकोऽभ्यासवशात् शनैः शनैः ‘तत्’ ‘त्वम्’ ‘अहम्’ ‘अयम्' इत्यनयोर्मध्ये ऐक्यमेवानुभवति। स न स्वकीयं रूपमात्मनो भिन्नत्वेन जानाति। ‘एकेन विज्ञानेन सर्वं विज्ञातं भवति' इत्येतदुपनिषद्वचसः अनुसारेण स साधकः सर्वपदार्थावबोधानन्तरं 'सर्वं खल्विदं ब्रह्म' इत्येतत् साक्षाद्भावेनानुभवति । ततश्चासौ संसार-बन्धनान्मुक्तिमवाप्य अनामयं सच्चिदानन्दपदं प्रपद्यते । न पुनः संसारेऽस्मिन् स निवर्तते । उक्तञ्च गीतायाम्- 

यं प्राप्य न निवर्त्तन्ते तद्धाम परमं मम॥

न तद्भासयते सूर्यो न शशाङ्को न पावकः।

यद् गत्वा न निवर्त्तन्ते तद्धाम परमं मम॥' 

इत्थं ह्यपनिषदुपदेशनिष्कर्षोऽयं यदेकमेव तत्त्वमस्ति। तस्मादेव समग्रोऽपि संसारः समुत्पद्यते पुनश्चान्ततस्तत्रैव लीयते इति। 

श्रुतिश्चामनुते - ‘वाचारम्भणं विकारो नामधेयं मृतिकेत्येव सत्यम्। निर्गुण-सगुणभेदेन ब्रह्म द्विविधम् । तत्र निर्गुणं ब्रह्म न वक्तुं शक्यम् । तदस्ति सर्वथैव वागगोचरम् । न तत् केनाऽपि प्रकारेण गातुं शक्यं यत् तत् एवंविधम् । निर्विकल्पत्वान्निरुपाधित्वाच्च तदस्त्यनिर्देश्यम्। अत एव तु बाष्कलिना ब्रह्मणि पृष्टो बाध्वो मौनमालम्ब्यैव तत्कृतप्रश्नमुक्ततार । निषेधमुखेनैव तद् वर्ण्यते यत् तदिदं न । अत एव श्रुतयो नेति नेतीत्युक्त्वा तद्गायन्ति । कठोपनिषदाह- 

अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते ॥ 

बृहदारण्यकोपनिषदि याज्ञवल्क्यः तदधिकृत्य गार्गीम् इत्थमुपदिशति 'गार्गि ! न तदक्षरं ब्रह्म स्थूलं नाणु न ह्रस्वं न दीर्घम् । तद असङ्गं रस-गन्धरहितम् । न तच्चक्षुःश्रोत्रमनोवाणीगम्यम्' इति। केनोपनिषद् तन्निष्प्रपञ्चं ब्रह्म वर्णयत्येव — 

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते।।

देशकालनिमित्तातीतत्वात् तद् भवति सर्वथैव विचित्रम् । प्रमाणातीतत्वात् तदप्रमेयमस्ति किञ्च चैतन्यात्मकत्वात् स्वयमेव विषयि । कठोपनिषत्तन्महीयस्कतायामाह- 

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति।।

मुण्डकोपनिषदेवमुद्गायति तत्- 

यथासतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वम्॥

कस्यचन वस्तुनो बोधाय तल्लक्षणमपेक्ष्यते । लक्षणञ्च तटस्थस्वरूपभेदेन द्विविधं भवति । तटस्थलक्षणेन वस्तुनो स्थायिपरिवर्तनशीलगुणाः वर्ण्यन्ते । स्वरूपलक्षणेन च वस्तुनः शुद्धं रूपं तात्विकञ्च रूपमुपलभ्यते । सगुणब्रह्मणः उभयविधं लक्षणं ह्यपनिषत्सु प्राप्यते । स्वरूपलक्षणेन ब्रह्म सत्यं ज्ञानम्  अथ च अनन्तरूपमस्ति । उक्तञ्च तैत्तिरीयोपनिषदा — ‘सत्यं ज्ञानमनन्तं ब्रह्म। तच्च ब्रह्मविज्ञानमानन्दञ्च अस्ति । बृहदारण्यकोपनिषदाह - ‘विज्ञानमानन्दं ब्रह्म। उपनिषत्सु ब्रह्मणः तिसृणां स्वाभाविकशक्तीनाम् उल्लेखः कृतोऽस्ति । श्वेताश्वतरोपनिषदाह- 'परास्य शतिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च। सगुणब्रह्मणः तटस्थलक्षणं छान्दोग्योपनिषदेवं प्रस्तौति- 'तज्जलानीति शान्त उपासीत। 

उक्तं हि सिद्धान्तं तैत्तिरीयोपनिषल्ललितशब्दावलिना व्याख्याति — 

'यतो वा इमानि भूतानि जायन्ते, यतो जातानि जीवन्ति, यत् प्रयन्त्यभिविशन्ति तद् विजिज्ञासस्व तद्ब्रह्म॥' ‘जन्माद्यस्य यतः॥ 

इत्येतस्मिन् ब्रह्मसूत्रेऽपि ब्रह्मणः तटस्थलक्षणं दर्शितम्। माण्डूक्योपनिषदपि तत् ताटस्थ्येन वर्णयति -

सगुणं ब्रह्म संसारस्यास्य शास्तृ निखिलस्यापि जगतः हि जीवानां भाग्यस्य विधातृ वर्त्तते । शुभकार्यकत्तृृणां जीवानां तत् कल्याणसम्पादयितृ, मुक्तिभुक्तिप्रदातृ, अशुभकर्मकारि, प्राणिनिगृहीतृ च । तदेव सगुणं ब्रह्म ईश्वर-विराट्हिरण्यगर्भसंज्ञया व्यपदिश्यते । अस्य विश्वस्य सर्वेऽपि प्राणिनः तस्य एव शरीरमिति कथ्यन्ते। सगुणत्वात् तत् पादाभ्यां चलति, हस्ताभ्यां कार्यं करोति, नेत्राभ्यां पश्यति, कर्णाभ्याञ्च शृणोति ।

ब्रह्मणः शक्त्या एव देवतासु शक्तिः सञ्चरति । तस्य एव शक्तिभूतत्वेन जगतः पदार्थाः जायन्ते शक्तिमन्तः । तस्मात् न केनापि पदार्थेन स्वशक्तौ गर्वः कार्यः, इत्येतद् उपदेष्टुकामा केनोपनिषद् उमाहेमवतीनामकम् उपाख्यानं प्रस्तौति ।

उपनिषदां व्यवहारविषयकः पक्षो नितरां मनोभिरामः । दार्शनिकानि तत्त्वानि व्यवहारे प्रयुज्य उपनिषद्विद्या मानवीयजीवनम् अतितरां रमयति, इत्येतद्धि तदीयं ललितं वैशिष्ट्यम् । उन्नतं समृद्धञ्च आध्यात्मिकपथमारोढुं बहवः सद्गुणाः सन्त्यपेक्षिताः । अतः उपनिषदो मनोरमाख्यायिकां निधाय जनसमुदायं तान् सद्गुणान् वरीतुम् उपदिशन्ति । आत्मसंयम-तपोदानार्जवाहिंसासत्यादिसद्गुणाः जीवनं निःसन्दिग्धतया समुन्नमयन्ति तस्मात् ते उत्तमा गुणा उपनिषद्भिः तथाऽऽलेखिताः यद् अवलोक्य जनमानसं झटिति तान् स्वीकर्तुम् उपक्रमते । तैत्तिरीयोपनिषत् ‘सत्यं वद, धर्मं चर' इत्यादिना, छान्दोग्योपनिषद् सत्यकाम-जाबालकथादिभिः, प्रश्नोपनिषद् अवृतनिन्दादिना, मुण्डकोपनिषद् च सत्यश्लाघादिना संसारं सन्मार्गं प्रदर्शयन्ति।

ज्ञानस्य सिद्धिर्विवेकवैराग्याधीना । ब्रह्मावाप्त्यर्थं तावज्जीवो न प्रवर्त्तते, यावत् तत्र विवेक-वैराग्ययोः उदयो न सञ्जायते । मुण्डकोपनिषद् एतद्गुणद्वितयं प्रत्येकं पुमान् गृहणीयादेतदर्थं पूर्णबलेन प्रयतमानास्ते । कर्मभिः प्रासालोकाः सन्ति विनश्वराः इत्येतद् विज्ञाय एव ब्राह्मणस्य मानसं निर्विण्णतामुपैति । विवेको बोधयतीदं यत्, कृतेन ( कर्मणा ) अकृतस्य ( नित्यब्रह्मणः ) समुपलब्धिर्न भवितुं शक्यास्ति इति।

कर्मानुष्ठाने प्राणी सर्वथा स्वतन्त्रोऽस्ति । उपनिषदाम् अभिधानमिदं यज्जीवः कर्माचरणेऽस्ति स्वाधीनः । पुरुषः काममयोऽस्ति यादृशी तदीयेच्छा भवति, तादृश एव तस्य सङ्गल्पो भवति । बृहदारण्यके प्रोक्तम् – अथो खल्वाहुः काममय एवायं पुरुष इति । स यथा कामो भवति तत्कर्त्तुर्भवति तत्कर्म कुरुते तदभिसम्पद्यते । अात्मज्ञानलाभानन्तरमेव मानवः सर्वेष्वपि लोकेषु पर्यटितुं प्रभवति । स यत् कामयते, तत् सङ्कल्पमात्रेण लभते । उपनिषदः पुरुषार्थोपदेशिकाः सन्ति । मुक्तिकोपनिषद् वक्ति - 

'शुभाशुभाभ्यां वहन्ती मार्गाभ्यां वासना सरित्।

पौरुषेण प्रयत्नेन योजनीया शुभे पथि ।

अशुभेषु समाविष्टं शुभेष्वेषावतारयेत् ॥

मानवस्य कर्त्तव्यमस्ति यद्, असौ समुद्धर्त्तुं शुभवासनाभिः स्वकीयं मनो विभूषयेत् न सः अशुभवासनासु निपतेत् । ताभिः मनो भवत्यपवित्रं दूषितञ्च । ‘ओ३म् यज्जाग्रतो दूरमुपैती'त्यादिभिः मन्त्रैः श्रुतयो मानवं शिवसङ्कल्पशीलं स्वान्तं विधातुं प्रेरयन्ति । मनुष्यमात्रस्य धर्मोऽयं यद् असौ उच्चोद्देश्यवान् भवेत्। स स्वकीयं बहुमूल्यं जीवनं साधारणवस्तूपलब्धौ न योजयित्वाऽऽत्मसमवाप्त्यां योजयेत् इति। श्वेताश्वतरोपनिषद् उपदिशति सस्नेहम् -

उपनिषदः अन्त्यलक्ष्यं नास्ति आत्मतत्त्वविषयकं ज्ञानम् । तच्चरमलक्ष्यं तु अस्ति आत्मनः अपरोक्षानुभूतिः । परोक्षानुभूत्या न सिद्धयति स्वार्थः । स्वतात्त्विकरूपावगमनं स्वकीयस्य रूपस्य साक्षाद् अनुभवनमेव अपेक्ष्यते । अत एव मानवस्य यत् कर्त्तव्यं मुख्यमस्ति, तदिदमेव यत् स स्वरूपेऽवतिष्ठेत ।

अात्मनो दर्शनेन, अात्मनि अवस्थानेन, अात्माधिगमनेन हि स्वराज्यं भवत्युपलब्धम् । जन आत्मनि रमते, आत्मनि क्रीडति, आत्मनि विहरति, आत्मनि नन्दति च । अात्मनो ही आनन्दमयत्वाद् असौ जीवो निरतिशयानन्दम् आस्वदते । न लौकिकेन दृष्टान्तेन न तदानन्दस्य लवोऽपि प्राप्यो भवति। बृहदारण्यकोपनिषद् लौकिकोदाहरणद्वारेण तदानन्दस्य तुच्छतराभासमात्रं प्रस्तुतीकरोति । सा प्राह- 

'तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद, नान्तरम्, एवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं तद् वा अस्य एतदाप्तकामम् अात्मकामम् अकामं रूपम्॥ 

अात्मवेत्ता जन एव तं लोकोत्तरं निरतिशयमानन्दमनुभवति । परं तमानन्दमध्यारूढो हि पुरुषो भवति अवरुद्धवाग्व्यापारः । वस्तुतः स आनन्दो न वाग्भ्यः नान्येनापि केनापि साधनेन लभ्यः । स तु स्वानुभूत्यैव गम्यो वेद्यो ज्ञेयश्च जायते । एतस्या एवापरोक्षानुभूतेः प्रतिपादनम् एव उपनिषदाम् अभीष्टमन्त्यम् । अन्येषां सिद्धान्तानां प्रतिपादनन्तु एतस्मात् प्रयोजनाद् विहितं यत्, तत् सहायतया सा लब्धा स्यात् । 

शाहजहाँसुतस्य दाराशिकोहस्य उपनिषत्प्रेम जगति विदितमेव। १६५७ ख्रीष्टाब्दे दिल्लीनगरस्य निगमबोधनामकस्थाने षण्मासाभ्यन्तर एव अश्रान्तपरिश्रमेण अयं पञ्चाशद् उपनिषदा् अनुवादं संस्कृतपण्डितानां साहाय्येन कारितवान् । 

१७७५ ख्रीष्टाब्दे एक्वेटिलडुपेरनो लैटिनभाषायाम् अनूदितवानुपनिषदः। ओथमरफ्रांकमहाभागः १८०१ ख्रीष्टाब्दे उपनिषद्ग्रन्थानधीत्य तान् संक्षेपेण प्रकाशमानिनाय । तत्प्रकाशितग्रन्थान् इमान् पठित्वा उपनिषदज्ञानं प्रति प्रतीच्यानां पण्डितानामुत्सुकता वृद्धि ययौ । औपनिषत्के साहित्ये जे० डी० लुजुईनामो यत्कार्यं श्रमञ्च चकार तस्य प्रसिद्धिः अस्ति । वेवरमहोदयस्य उद्योगेन तु उपनिषद्ज्ञानस्य प्रचारः समग्रेऽपि पश्चिमीये संसारे जातः इति मन्यते । उपनिषदाम् अनुवादः तेन १८०२ ख्रीष्टाब्दे जर्मनभाषायां कृतः । 'इडिस्केन स्टडियन' इत्येतेन नाम्ना स उपनिषदविषयकं ग्रन्थम् अजग्रन्थत् । मैक्समूलरः उपनिषदः आङ्ग्लभाषायाम् अनुववाद। अन्ये च लडयूसन आर० ई०  ह्युम-प्रभृतिविद्वांसः उपषदां विषये कार्यं कृतवन्तः। 

माध्यन्दिनशाखीयेयं यजुर्वेदसंहितायाः चत्वारिंशत्तमाध्यायोऽस्ति । 'ईशावास्यमिदं सर्वमित्यादिपदस्य आधारोपरि अस्या नामकरणमस्ति । ग्रन्थेऽस्मिन् अष्टादशमन्त्रा एव सन्ति । अस्मिन् ज्ञानदृष्ट्या कर्मोपासनायाः रहस्यं वर्णितमस्ति । उपनिषदियं कर्मसंन्यासस्य पक्षपातिनी न भूत्वा यावज्जीवनं निष्कामकर्मभावेन कर्मसम्पादनस्य अनुरागिणी वर्तते । अत्र अद्वैतभावनायाः स्पष्टं प्रतिपादनमस्ति । अत्र ब्रह्मणः स्वरूपवर्णनानन्तरं विद्या-अविद्या-सम्भूति-असम्भूत्यादीनां विवेचनमस्ति।

'केनेषितं पततीत्यादि स्वकीयप्रारम्भिकपदस्य आधारोपरि अस्याः उपनिषद: नाम 'केन' तथा स्वशाखानामोपर्यस्याः नाम तवलकारोपनिषदित्यस्ति । लघुस्वरूपेयं परममार्मिकोपनिषदस्ति । अस्याम् उपनिषदि चत्वारः खण्डा एव सन्ति । प्रथमखण्डे उपास्यब्रह्म-निर्गुणब्रह्मणोर्मध्ये अन्तरं दर्शितमस्ति । द्वितीयखण्डे ब्रह्मणः रहस्यमयस्वरूपस्य वर्णनमस्ति । तृतीय एवं चतुर्थखण्डे उमाहेमवत्या रोचकमाख्यानेन परब्रह्मणः सर्वशक्तिमता तथा देवतानाम् अल्पशक्तिमत्तायाः सुष्ठु निदर्शनमस्ति ।

कृष्णयजुर्वेदस्य कठशाखानुयायिनी इयमुपनिषद् स्वगम्भीराद्वैततत्त्वाय प्रख्याताऽस्ति । अस्यां द्वौ अध्यायौ स्तः । प्रत्यध्यायं त्रयो वल्लयः सन्ति । तैत्तिरीयाऽरण्यके नचिकेतोपाख्यानेन इयमारब्धाऽभवत् । यमेन प्रोक्तः अद्वैततत्त्वस्य मार्मिकोपदेशोऽत्र दर्शनीयोऽस्ति । ‘नेह नानाऽस्ति किञ्चन' इत्यस्याः उपनिषदः गम्भीरः शङ्खनादोऽस्ति । नित्येषु नित्यं चेतनेषु चेतनम् एकमेव असौ ब्रह्म सर्वेषां जीवानामात्मनि निवसति, तस्यैव दर्शनं शान्त्या एकमात्रं साधनमस्ति। योग एव तस्य साक्षात्कारस्य प्रधानसाधनम् अस्ति । मौञ्जेः इषीकावत् अस्य शरीरस्य आभ्यन्तरे विद्यमानस्य आत्मन उपलब्धिः योगद्वारेणेव कर्त्तव्या अयमेव कठोपनिषदः व्यावहारिकोपदेशोऽस्ति।

'न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्।

अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे।।

अस्याम् उपनिषदि ब्रह्मविद्यामन्वेष्टुं षड्ऋषयः महर्षिपिप्पलादस्य पार्श्वे गताः । तत्र ते तम् आध्यात्मिकप्रश्नानां समुचितमुत्तरं पृच्छन्ति । प्रश्नोत्तरेषु निबद्धोऽयं ग्रन्थः, तेनास्य नाम प्रश्नोपनिषदिति। अाध्यात्मिकजगतः समस्याः एव एतेषां प्रश्नानां विषयोऽस्ति । स्वकीयसमीक्षणेन पिप्पलादः अत्र विशिष्टतत्त्वज्ञानिस्वरूपेण समायाति । तत्र मीमांस्यप्रश्नाः सन्ति—

(१) प्रजायाः उत्पत्तिः कस्मात्स्थानाद्भवति?

(२) प्रजानां धारणं कि संख्यकाः देवताः कुर्वन्ति ? कतमः प्रकाशयन्त्येतान् ? एतेषु कतमः श्रेष्ठतमोऽस्ति ? 

(३) प्राणानामुत्पत्तिः, शरीरेषु तेषामागमनमुपक्रमणञ्च इत्यादिविषयकानां प्रश्नाः 

(४) स्वप्न-जागरण-स्वप्नदर्शनादिविषयकादीनां प्रश्नाः

(५) ओङ्कारपुरुषस्य उपासना तथा तेन लोकानां विजयः

(६) षोडशकलासम्पन्नस्य पुरुषस्य विवेचना। एतेषां प्रश्नानामुत्तरेषु हि आध्यात्मस्य अखिलसमस्यानां विवेचनम् अतिगम्भीरतया प्रतिपादितमस्ति। अक्षरब्रह्म एवास्य जगतः प्रदर्शिताऽस्ति॥

अथर्ववेदीयोपनिषदियं मुण्डक-निमित्ताय निर्मिताऽस्ति । मुण्डकपदस्य अर्थो भवति मुण्डन-सम्पन्नो जन इति । अस्याम् उपनिषदि स्वज्येष्ठसुतायाथर्वणे ब्रह्मणा प्रदत्तं ब्रह्मविद्यायाः उपदेशः अस्ति । यज्ञीयानुष्ठानम् अदृढरूपप्लवोऽस्ति, येन संसार-सन्तरणं कदापि भवितुं न शक्यते । इष्टापूर्तम्-यागाद्यनुष्ठानमेव सर्वश्रेष्ठं मन्तारो जनाः स्वर्गलोकं सम्प्राप्य अपि अस्मिन् भूतले अन्ततः समागच्छन्त्येवेति। अनेन प्रकारेण अत्र कर्मकाण्डस्य हीनता तथा दोषाणामनन्तरं ब्रह्मज्ञानस्य श्रेष्ठता प्रतिपादितास्ति । द्वैतवादस्य प्रधानस्तम्भरूपो मन्त्रः — ‘द्वा सुपर्णा सयुजा सखाया' अस्यामुपनिषदि समायाति । वेदान्तशब्दस्य अपि सर्वप्रथमप्रयोगः अत्रैव उपलब्धो भवति। ब्रह्मज्ञानिनो ब्रह्मणि विलीनस्य तुलना नाम-रूपं परित्यज्य नदीनां समुद्रे विलयनेन सह कृताऽस्ति । अस्यामुपनिषदि सांख्य-वेदान्तयोः तथ्यानामपि यत्किञ्चित्प्रभावः परिलक्ष्यते । 

उपनिषद् इयम् आकारे स्वल्पकायिकाऽस्ति, सिद्धान्ते विशालाऽस्ति । अस्यां केवलं द्वादशखण्डानि किंवा वाक्यानि च सन्ति, यस्मिन् चतुष्पादात्मनः अतीव मार्मिकं रहस्यमयञ्च विवेचनमस्ति । ओंकारस्य मार्मिकव्याख्याकरणस्य श्रेयः इमाम् एव उपनिषदमस्ति । अोंकारे तिस्रो मात्रा भवन्ति, तथा चतुर्थोऽंशः ‘अमात्र' एव भवति । चैतन्यस्य तदनुरूपेणैव चतस्रः अवस्था भवन्ति - जागर्या, स्वप्न:, सुषुप्तिस्तथा चैतन्यस्य अव्यवहार्यतुरीया दशा । आसामाधिपत्यधारणकर्त्ता आत्माऽपि क्रमशः चतुर्धा भवति — वैश्वानरः, तैजसः, प्राज्ञस्तथा प्रपञ्चोपशमरूपी शिवः, येषु अन्तिम एव चैतन्यात्मनो विशुद्धरूपमस्ति । अस्योपरि गौडपादाचार्यः माण्डूक्यकारिकाख्यां व्याख्यां लिलेख । कारिकेयं मायावादिनः अद्वैतवेदान्तस्य पूर्णप्रतिष्ठा मन्यते।

उपनिषदियं तैत्तिरीयारण्यकस्य सप्तम-अष्टम-नवमखण्डानाम् एव सम्मिलितांशोऽस्ति । अस्य अरण्यकस्य सप्तमप्रपाठकस्य नामाऽस्ति ‘संहिती उपनिषदि’ति या अत्र ‘शिक्षावल्ली’ नाम्ना ख्याताऽस्ति । आरण्यकस्य वारुणी-उपनिषद् भृगुवल्ली च नाम्ना प्रख्याताऽस्ति । अतो ब्रह्मविद्याया दृष्ट्या वारुणी-उपनिषद एव प्राधान्यमस्ति, किञ्च चित्तशुद्ध्यर्थं तथा गुरुकृपाप्राप्त्यर्थं शिक्षावल्या अपि गौणरूपेणोपयोगः अस्ति । अस्मिन् कतिधाः उपासनाः गुरुशिष्यसम्बन्धिनः शिष्टाचारस्य निरूपणमस्ति । एकादशतमे अनुवाके स्नातकेभ्य उपयोगिनः शिक्षाया एकत्र निरूपणमस्ति । अनेन निरूपणेन शिक्षाया उच्चादर्शस्य पूर्णपरिचयः प्राप्तो भवति । ब्रह्मानन्दवल्ल्यां ब्रह्मविद्यायाः निरूपणमस्ति । तदनन्तरं भृगुवल्ल्यां ब्रह्मप्राप्तेः मुख्यसाधनस्य वर्णनमस्ति । वर्णनमिदं भृगु-वरुणयोः संवादरूपेण 'पञ्चक्रोश'-नाम्ना विख्यातमस्ति ।

ऐतरेयारण्यकस्य द्वितीयारण्यकान्तर्गततया आचतुर्थात् षष्ठाध्यायपर्यन्तस्य नाम ऐतरेयोपनिषदस्ति । अस्यामुपनिषदि त्रयोऽध्यायाः सन्ति, येषु द्वितीय-तृतीयाध्यायौ तु एकैकस्य खण्डस्यैवस्तः । प्रथमाध्याये द्वौ खण्डौ स्तः, ययोः सृष्टितत्त्वस्य मार्मिकविवेचनमस्ति । मानव-शरीरमेव षुरुषाय उपयुक्तायतनं प्रमाणीकृतमत्र, यस्य विभिन्नावयवेषु देवताः प्रवेशमाप्नुवन्, तदनन्तरं परमात्मा तस्य मूर्धसीमां विदार्य प्रवेशं करोति तथा जीवभावं सम्प्राप्य भूतैः सह तादात्म्यं स्थापयति । तदनन्तरं गुरुकृपया बोधानन्तरं सर्वव्यापकस्य तस्य शुद्धस्वरूपस्य साक्षात्कारो भवति । अन्तिमाऽध्याये प्रज्ञानस्य विशिष्टा महिमा प्रदर्शिताऽस्ति ।

सामवेदीयोपनिषदियं प्रौढा, प्रामाणिका, प्रमेयबहुला चाऽस्ति। अस्यामष्टाध्यायाः किंवा प्रपाठकाः सन्ति । अस्य ग्रन्थस्य अन्तिमाः त्रयोऽध्याया अाध्यात्मिकज्ञानदृष्ट्या महत्त्वपूर्णाः मन्यन्ते। प्रारम्भिकाऽध्यायेषु अनेकविधानाम् ओङ्कारस्य साम्नः च गूढस्वरूपस्य विवेचनमस्ति । द्वितीयाध्यायस्य अन्ते ‘शौव' उद्गीथोऽस्ति, यः केवलं भौतिकस्वार्थपूर्त्यर्थं यागानुष्ठानस्य सामगायनस्य कतृृणामुपरि मार्मिकव्यङ्गयं करोति। तृतीयाध्याये सूर्यस्य देवमधुनः रूपे उपासनाऽस्ति । गायत्रीवर्णनम्, घोराङ्गिरसद्वारेण देवकीसुतं श्रीकृष्णमाध्यात्मिकशिक्षाप्रदानम्, अन्ते सूर्यप्रादुर्भावस्य सुष्ठु विवेचनमस्ति । अस्य अध्यायस्य प्रसिद्धोऽयं सिद्धान्तः ‘सर्वं खल्विदं ब्रह्म अद्वैतवादस्य विजयघोषोऽस्ति । चतुर्थाध्याये रैक्वस्य दार्शनिकतत्त्व-विवेचनं, सत्यकाम-जाबालस्तथा तस्य मातुः कथा, सत्यकामजाबालेनोपकोशलं ब्रह्मज्ञानस्य प्राप्तिः विवेचिता अस्ति । 

पञ्चमप्रपाठके प्रवाहणजैबालेः दार्शनिकसिद्धान्तस्य केकयाश्वपतेः सृष्टिविषयकतथ्यानां विशदं वर्णनमस्ति । अस्मिन् वर्णने षड्दार्शनिकानां सिद्धान्तस्य समन्वयः कृतः अस्ति। षष्ठप्रपाठके महर्षिअारुणेः ऐक्यप्रतिपादकसिद्धान्तस्य व्याख्याऽस्ति । ‘तत्त्वमसि' अारुणेरध्यात्मशिक्षायाः पीठस्थानीयो मन्त्रोऽस्ति । सप्तमप्रपाठके सनत्कुमार-नारदयोः विश्रुतवृत्तान्तमस्ति । अस्य उपदेशस्य पर्यवसानमस्ति - यो वै भूमा तदमृतम्, अथ यदल्पं तन्मर्त्यम् । अन्तिमप्रपाठके इन्द्र-विरोचनयोः कथाऽस्ति । अात्मप्राप्तेः व्यावहारिकोपायस्य सङ्केतः अस्ति ।

न केवलमियं परिमाणे विशालाऽस्ति, प्रत्युत तत्त्वज्ञानस्य प्रतिपादनेऽपि गम्भीरा प्रामणिका चास्ति । अस्यां षडध्यायाः सन्ति । अस्याः उपनिषदः सर्वस्वं दार्शनिकः याज्ञवल्क्यः अस्ति, यस्य उदात्ताध्यात्मिकशिक्षातः अोतप्रोता इयमस्ति । प्रथमाध्याये प्राणानां श्रेष्ठतायाः तथा सृष्टिविषयकसिद्धान्तानाञ्च वर्णनमस्ति । द्वितीयाध्यायस्य आरम्भे अभिमानिनः गार्ग्यस्य तथा शान्तस्वभावस्य काशीराज्ञः अजातशत्रोः रोचकसंवादोऽस्ति । अस्मिन्नेव अध्याये याज्ञवल्क्येन सह साक्षात्कारो भवति, यः स्वपत्न्यौ मैत्रेयी-कात्यायन्योर्मध्ये स्वकीयं धनं विभाज्य वनं गतः । अत्रैव मैत्रेयीम्प्रति तस्य दिव्यदार्शनिकसन्देशः श्रवणगोचरो भवति। 

तृतीये चतुर्थे चाध्याये जनक-याज्ञवल्क्ययोराख्यानमस्ति। पञ्चमाध्याये नानाविधानां दार्शनिकविषयाणां विवेचनमस्ति । षष्ठाध्याये प्रवहणजैबलेस्तथा श्वेतकेतु-अारुणेयस्य दार्शनिकसंवादोऽस्ति । अस्मिन् जैबलिः पञ्चाग्निविद्यायाः विशदविवेचनं कृतवान् । उपनिषद्युगस्य याज्ञवल्क्यः सर्वमान्यतत्त्वज्ञः आसीत्, यस्य सम्मुखे तत्त्वविद्जनकोऽपि नतमस्तको भूत्वाऽभ्यासेन ज्ञानार्जनात्पराङ्मुखो नाऽभवत् । न केवलमसौ सिद्धान्तवादी आसीदपितु व्यवहारे तत्त्वज्ञानस्य अप्युपदेशकः आसीत् । तस्य अयम् उपदेशो बृहदारण्यकस्य आध्यात्मिकशिक्षायाः महत्त्वपूर्णमङ्गमस्ति - 

उपनिषदियं शैवधर्मस्य गौरवप्रतिपादनाय एव निर्मितेति मन्यते। द्वितीयाध्याये योगस्य विशदं प्राचीनं च विवेचनमस्ति । तृतीयाध्यायादारभ्य पञ्चमाध्यायपर्यन्तं शैव-साङ्ख्यसिद्धान्तयोः प्रतिपादनमस्ति । अन्तिमाध्याये गुरुभक्तितत्त्वं वर्णितमस्ति । गुरुभक्तिः देवभक्त्याः रूपमेवास्ति - ‘देवे नराभक्तिर्यथा देवे तथा गुरौ'। भक्तितत्त्वस्य प्रथम-प्रतिपादनम् अस्याः उपनिषदः प्रमुखविशेषताऽस्ति । त्रिगुणानां साम्यावस्थारूपायाः प्रकृत्याः विवेचनमत्राऽस्ति (अजामेकां लोहितकृष्णशुक्लाम्)। क्षर-प्रधान-अक्षरादितत्त्वानां समावेशः गीतायाम् अत्रत एवाऽस्ति। शिवः परमात्मतत्त्वरूपेण अनेकशः वर्णितोऽस्ति (अमृताक्षरं हरः)। अनेन प्रकारेण साङ्ख्यवेदान्ततत्त्वयोः उदयकालिकसिद्धान्तस्य परिचयार्थम् इयमुपनिषद् महत्त्वपूर्णाऽस्ति ।

शाङ्ख्यायनारण्यकस्य चतुर्षु अध्यायेषु आतृतीयाध्यायात्षष्ठाध्यायपर्यन्तस्य भागः कौषीतकि-उपनिषद् नाम्ना ख्यातोऽस्ति । अत्र प्रजानां प्राणानाञ्च महत्ता वर्णिताऽस्ति । प्रज्ञया जीवः नानालोकेषु भ्रमणं कृत्वा ऊर्ध्वतमब्रह्मलोकं गच्छति (प्र० अ०) । अनन्तराध्यायेषु कौषीतकि-ऋषिः प्राणस्य श्रेष्ठतां निरूपयति । इन्द्रोपदेशस्य मुख्यरूपमस्ति - प्राणस्य प्रज्ञायाश्च महत्ता । प्राणेन अयोः, प्रज्ञया सत्यसङ्कल्पस्य च प्राप्तिर्भवति । इन्द्रेण प्रदत्तः तदुपदेशोऽस्ति, यज्ज्ञात्वा आत्मज्ञानस्य उपलब्धिर्भवति - 

एता भूतमात्राः प्रज्ञामात्रास्वर्पिताः । प्रज्ञामात्राः प्राणेऽर्पिताः। स एव प्राण एव प्रज्ञात्मानन्तोऽजरोऽमृतो न साधुना कर्मणा भूयान् भवति नो एवासाधुना कनीयान्॥

इयमुक्तोपनिषदा सम्बद्धाऽस्ति । यज्ञस्य आध्यात्मिकस्वरूपस्य वर्णनप्रसङ्गे अत्र अनेकानि आध्यात्मिकसमीकरणानि प्रदत्तानि सन्ति । तत्तदृषीणां नामानि अपि तत्र निर्दिष्टानि सन्ति। एतेषां तथ्यानां परिचयार्थमस्याः उपनिषदः महत्ताऽस्ति । 

अस्याम् चत्वारः पुरुषाः निर्दिष्टाः सन्ति । शरीरपुरुषः (वैहिकी अात्मा यस्य अशरीरप्रज्ञात्मा एव रसोऽस्ति ), छन्दः पुरुषः (अक्षरसमाम्नायरूपं यस्याकार एव रसोऽस्ति ), वेदपुरुषः (येन वेदस्य ज्ञानं भवति, अस्य ब्रह्म एव रसोऽस्ति ), महापुरुषः (संवत्सररूपं यस्यादित्य एव रसोऽस्ति) । एतेषु चतुर्षु एकत्वं स्थापितमस्ति । यो हि अशरीरप्रज्ञात्माऽस्ति, सः एव आदित्योऽस्ति । उभयोः एक एव मन्तव्यम् । अस्य तथ्यस्य सम्पुष्टौ — ‘चित्रं देवानामुदगादनीकं' मन्त्रोऽयं प्रमाणरूपेण उद्धृतवान् । अत्रैव दैवी-मानुषीवाण्योः अपि परस्परं साम्यं दर्शितम्। अस्याः उपनिषदः अन्ते हवनस्य मुख्यतात्पर्यं प्रदर्शितम् । अस्यां हवनवाचिनः प्राणस्य हवनमस्ति तथा प्राणेः वाचः हवनमस्ति (वाचि हि प्राणं जुहुमः, प्राणो वाचम्)। अस्यामुपनिषदि नानाप्रकाराणां संहितानां कल्पनाऽस्ति । अस्याः उपनिषदः चतुर्थाध्याये गार्ग्यबालाकिमुनेः अावासस्य वर्णनं निर्दिष्टमस्ति । अस्मिन् प्रसङ्गे उशीनर-मत्स्य-कुरु-पाञ्चाल-काशी-विदेहादीनां नामानि प्रदत्तानि सन्ति। अनेन कौषीतकि-उपनिषदः भौगोलिक-क्षेत्रमुत्तरीयभारत एव मन्यते।

स्वविशिष्टसिद्धान्ताय एव इयमुपनिषत् सदा प्रख्याता। अस्यामुपनिषदि सप्तप्रपाठकाः सन्ति । सम्पूर्णोपनिषद् गद्यात्मिकैवास्ति किञ्च स्थाने स्थाने पद्यमपि प्रदत्तमस्ति । अन्यासाम् उपनिषदाम् अपि उद्धरणानि अत्र प्राप्यन्ते। यथा - विद्वान् पुण्यपापे विधूय; शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति; यदा पञ्चावतिष्ठन्ते; सर्वं मम एव इत्यादि। ईश-कठयोः द्वे द्वे उद्धरणे प्राप्येते। त्रयोदशोपनिषत्सु इयमपेक्षाकृतम् अर्वाचीना मन्यते।

सायणभाष्येण सह प्रकाशितः तैत्तिरीयारण्यकस्य दशमप्रपाठकस्तथा तत्पूर्ववर्तिनो भट्टभास्करस्य भाष्येण सह प्रकाशितस्तद्ग्रन्थस्य षष्ठप्रपाठकः, महानारायणोपनिषद्, याज्ञिकोपनिषद् किंवा केवलं नारायणीयोपनिषदिति नाम्ना अभिहितोऽस्ति । पाठस्य अनेकरूपतां दृष्ट्वा तथा वेदान्त-संन्यास-दुर्गा-नारायण-महादेव-दन्ति-गरुडादिशब्दानामत्र सङ्कलनं दृष्ट्वा च उपनिषद् इयम् प्राचीना इति मन्यते। परन्तु विण्टरनित्समहोदयः तु इयमुपनिषद् मैत्र्युपनिषदः प्राचीनतरं मन्यते । बौधायनसूत्रेष्वस्या विवरणं प्राप्यते, तेन इमाम् अत्यर्वाचीनामपि कथयितुं न शक्यते । अस्यां नारायणस्य उल्लेखः परमात्मतत्त्वरूपेण बहुशो लभते। यथा - ६४ अनु० ११ प्रपा० अनु० १-५ मन्त्रैः सह एव स्नानाचमनहोमादिभ्यः उपयुक्तमन्त्राणां तत्र सत्ता, एवं च अन्ते तत्त्वज्ञपुरुषजीवनस्य यज्ञरूपेण चित्रणमस्ति । एतेषामेव तथ्यानाम् आधारोपरि अस्याः नाम नारायणीयोपनिषत् किंवा याज्ञकी-उपनिषदिति पदेन स्मर्यते । अस्याम् आत्मतत्त्वस्य निरूपणम् अस्ति । एकैव परमसत्ताऽस्ति, सैव सर्वरूपभागिति —

वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णपुरुषेण सर्वम् ॥' 

एवंविध-निरूपणेन सह तस्य परमात्मनः अभिव्यक्तिः अनेकशो लभते। मेघार्थं प्रार्थना, पापनिवृत्त्यर्थं त्रिसुपर्णमन्त्राः, पुण्यकर्मणः प्रशंसा च लभन्ते —

सत्यादीनाम् अपि वर्णनं कृतम् अस्ति। यथा -

'सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि।

सत्यं वाचः प्रतिष्ठा सत्ये सर्वं प्रतिष्ठितम् ॥

तस्मात्सत्यं परमं वदन्ति ॥'

उपनिषदियं तासु चतसृषु नवप्राप्तोपनिषत्सु अन्यतमाऽस्ति, या केवलं पारसीलैटिन-जर्मनाद्यनुवादानां माध्यमेनैव अनुमीयन्ते, किञ्च सम्प्रत्यस्या एकः मातृताग्रन्थः आडयार-पुस्तकालये प्राप्यते। अस्याः प्रकाशनं वारत्रयमभवत्। (1) मद्रासनगरीतः, (२) डॉ० बेल्वेलकरेण, (३) अष्टादशोपनिषदामन्तर्गते वैदिकसंशोधनमण्डले पूनानगरीतः । 

ऋग्वेदस्य तद्वाष्कलशाखान्तर्गता इयमिति यत्सम्प्रति अप्राप्याऽस्ति । अस्यां पञ्चविंशतिः मन्त्रा एव सन्ति । अस्याः प्रतिपाद्यविषय अात्मतत्त्वमस्ति । यथा — 

अहं पचामि सरसः परस्य यदि देतीव सरिरस्य मध्ये॥ १४ ॥

या अहं चरामि भुवनस्य मध्ये पुनरुच्चावचं व्यश्नुवानः॥

यो मां वेद निहितं गुहाचित् स इदित्त्था बोभवीदाशयध्यै॥ १८ ॥

अहमस्मि जरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः॥

अहं विष्वङ्ङहमस्मि प्रसात्वानहमेकोऽस्मि यदिदं नु किञ्च' ॥२५॥ 

अस्याः मातृकाग्रन्थः आडयार-पुस्तकालये लभते। अस्याः प्रकाशनमपि अभवत्। अतिलघ्वीयमुपनिषदस्ति। अस्याः अन्ते सकृदेव 'छागलेयः' इति नाम अायाति । सरस्वतीनद्यास्तटे ऋषीणां सत्रस्य उल्लेखो लभते। तैः कवष-ऐलूषस्य निन्दा ‘दास्याः पुत्र’ इति कथयित्वा कृता । ‘कवष-ऐलूषः' पार्श्ववर्ति आत्रेयस्य शवं प्रति सङ्केतयित्वा अपृच्छत् – यो हि आत्रेयः शुनकानां सत्रे 'अच्छावाक्'-रूपेण महायज्ञीयकार्यमकरोत्, तस्य तत्सर्वज्ञानं किमभवत् ? ऋषिः प्रत्युक्तरयितुं नाशक्नोत् । तेन प्रार्थितः कवष-ऐलूषः तमृषिं कुरुक्षेत्रे बालिशनामकस्य ऋषेः पार्श्वे तदर्थं प्रेषितः । तत्र तेन वर्षमधीतम् । ततः तैः अप्यस्य दृष्टान्तेन स उपदिष्टः -

'यथैतत्कूवरस्तक्ष्णायोज्झितो नेङ्गते मनाक्।

परित्यक्तोऽयमात्मना तद्वदेहो विरोचते ॥

इयमपि उपर्युक्ते द्वे उपनिषदाविव मातृकाग्रन्थेन एव ज्ञाता प्रकाशिता चाऽस्ति । अस्यामपि मात्रानुच्छेद एवास्ति । ऋषीणां ब्रह्मविचारः पारस्परिकविमर्शनं वर्णितमस्ति। अत्र विश्वामित्र-जमदग्नि-भरद्वाज-गौतम-वशिष्ठादिप्रमुखऋषयः सन्ति । एतेषामृषीणां विचारविमर्शस्य विवरणमत्रास्ति । अनेनैव कारणेनास्य नाम्नः अार्षेयम् इति।

उपर्युतानां तिसृणामुपनिषदां कोटौ शौनकोपनिषदपि आडयारपुस्तकालयस्थेन मातृकाग्रन्थेन ज्ञाता प्रकाशिता चास्ति। एतावता एतस्याः उपनिषदः किमपि भाष्यं विवरणं वा नैव मुद्रितम् । आडयारग्रन्थालये उपलभ्यते केनाऽपि ऋषिणा निर्मितः परं प्रसन्नगम्भीरः हस्तलिखितः मातृकाग्रन्थः। तथैव ए० वी० कीथ-नामकेन विपश्चिता कृतं तस्य आङ्ग्लभाषान्तरमपि न अविदितं विदुषा ह्यन्ते च तस्य मातृकाग्रन्थस्य उपदेष्टृरूपेण शौनकस्योल्लेखो लभते, तेन अस्याः नाम शौनकोपनिषदित्यस्ति । असुराणामुपरि देवानां विजयः एवमिन्द्रस्य महत्त्वपूर्णवर्णनेन सह छन्दसामप्युल्लेखः कुर्वन् एकाक्षरोङ्कारस्य उपासनाकरणस्य उपदेशः प्रदत्तोऽस्ति ।




#Article 17: सङ्गीतम् (820 words)


सङ्गीतम् (Music) इत्येषा कला शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया । भावः लयः मेलनं माधुर्यं च उत्तमसङ्गीतस्य मूलन्यासाः भवन्ति । सङ्गीतं मनसि उद्भूयमाना सहजा क्रिया । अतः केनापि नादेन विना अपि मनसि एव सङ्गीतस्य अनुभूतिं कर्तुं समर्थाः मानवाः । यदा एषा क्रिया शास्त्रीशैल्या वाद्यपरिकरैः विशेषकौशलेन प्रदर्शिता भवति तस्याः सङ्गीतकला इति व्यवहारः । सङ्गीतस्य मूलं वेदाः एव । ऋग्वेदादिषु मन्त्राः सस्वराः एव । सङ्गीतं तु स्वरेणनिबद्धम् एव । गानं तु मानवस्य भाषणम् इव स्वाभाविकं भवति । अतः मानवः कदारभ्य गातुम् आरब्धवान् इति निर्णयः दुस्साध्यः एव । किन्तु बहोः कालात् अनन्तरम् अस्य व्यवस्थितं रूपं प्राप्तम् अस्ति । यदा स्वरस्य लयस्य च व्यवस्थितं धारणं भवति तदा कलायाः प्रादुर्भावः भवति । 

मानवः युद्धेषु उत्सवेषु प्रार्थनावसरे , भजनसमये च गानवादसस्य उपयोगं कुर्वन् आगतः । अस्मिन् प्रपञ्चे सर्वजनाङ्गेषु यस्य कस्यचिदपि  वाद्योपकरणस्य उपयोगः प्रचलन् अस्ति । यथा वंशीत्यादीनि सुशिरवाद्यानि , कानिचन तन्त्रीवाद्यानि , कानिचन चर्मवाद्यानि , अथवा घनवाद्यानि च । भरतमुनेः पूर्वं भारते गानस्य गीतम् इति वदन्ति स्म । वाद्यैः सह साहित्यं न भवति स्म दाड् दिडदिड इत्यादीनि शुष्कपदानि एव उपयोजनयन्ति स्म । अस्य निर्गीतं अथवा बहिर्गीतं वेति वदन्ति स्म । गीतं वाद्यं तथा नृत्यं त्रयं सङ्गतमुच्यते । इति उक्त्यनुगुणं कालक्रमेण गीतं वाद्यं नृत्यम् इत्यादीनां समतोलितं मिश्रणं सङ्गीतम् इति अवदन् । भारतात् बहिः अन्यदेशेषु केवलं गीतवाद्ये सङ्गीतम् इति वदन्ति । तत्रं नृत्यं काचित् भिन्ना कला । भारते नृत्यं सङ्गीते एव अन्तर्नीतं यतः नृत्येन सह गीतं वद्यं च भवतः एव । स्वरः लयः च गीतन सह सम्मिलन्ति एव । किन्तु नृत्येन सह केवलं लयः एव भवति न तु स्वरः । अतः अत्र सङ्गीतं नाम गीतस्य वाद्यस्य च चिन्तनं क्रियते ।

सङ्गीतस्य आदिमः स्त्रोतः प्राकृर्तिकरवः एव । प्राचीनयुगे मानवः प्रकृत्याः विविधनादान् शृण्वन् अवगन्तुं यतते स्म । प्रकृत्याः सर्वविधनादाः सङ्गीतस्य आधाराः भवितुं नार्हन्ति । अतः येन ध्वनिना भावः उत्पादितः भवति तादृशनादान् परिशील्य सङ्गीतस्य अधारं कुर्वन्तः तान् ध्वनीन् लयेन सह योजयितुं प्रयत्नं कृतवन्तः स्युः । प्रकृत्याः यः नादः मनुष्यस्य मनः संस्पृश्य उल्लासं जनयति सः एव मानवस्य सभ्यतायाः विकासेन सह सङ्गीतस्य साधनम् अभवत् । अस्मिन् चिन्तने मतभेदाः सन्ति एव । दार्शनिकाः परा, पश्यन्ती, मध्यमा, वैखरी इति चतृषु नादप्रकारेषु मध्यमा एव सङ्गीतोपयोगी स्वरः इति वदन्ति । नवदशशतकस्य उत्तररार्धे भरतेन्दुः हरिश्चन्द्रः इति विद्वान्  मानवस्य मानवीयसंवेदनया सह एव सङ्गीतस्य उत्पत्तिः अभवत्  इति अवदत् । अपि च सः सङ्गीतं गीतस्य वादनस्य नृत्यस्य अभिनयस्य समुच्चयः इति अवदत् । 

प्राच्यशास्त्रेषु सङ्गीतस्य उत्पत्तेः विषये कौतुकयुताः कथाः सन्ति । देवेन्द्रस्य सभायां वादाकाः नर्तकाः गायकाः च आसन् । अप्सराः नर्तनं कुर्वन्ति स्म किन्नराः वाद्यं वादयन्ति स्म । अस्याः कलायाः गान्धर्वविद्या इति नाम । गान्धर्वकलायां गीतस्य अतीव प्राधान्यं भवति । आदौ गानम् आगतम् । तदनन्तरं वाद्यं, गीतायाः प्राधन्यं तु आसीदेव । अतः एव गितं नृत्यं वाद्यं वा भवतु तस्य सङ्गीतम् इति अभिधानं दत्तम् । भारतीयसर्वासु भाषासु सङ्गीतम् इति पदं गानम् इति अर्थे एव उपयुज्यते । सङ्गीतम् इति पदं सम् उपसर्गपूर्वकं गै धातुना निष्पन्नम् । ऐङ्ग्लोसैक्सन् भाषायाम् अस्य रूपान्तरम् 'सिङ्गन्'(singan) इति अस्ति । अधुनिकाङ्ग्लभाषायां 'सिङ्ग् ' (sing) इति रूपम् अवाप्नोत् । ऐस्लेण्ड् इति देशस्य भाषयां अस्य रूपं सिङ्गज(singja) इति, डैनिश् भाषयां सैञ्ज् इति, डच् भाषायां त्सिङ्गन् (Synge) इति, जर्मन्भाषायां सिङ्गन् (singen), अरब्बी भाषायां गाना इति वदन्ति ।  सर्वप्रथमः सङ्गीतग्रन्थए सङ्गीतरत्नाकरे गायनवदननृत्यानां सङ्गमम् एव सङ्गीतम् इति पदेन व्यवहारः कृतः ।  वस्तुतः गीतशब्देन सह सम् उपसर्गं योजयित्वा सङ्गीतम् इति पदं निष्पन्नं यस्य अर्थः सम्यक् गीतम् इति । नृत्यवादनैः सह कृतं गानं सङ्गीतं भवति । शास्त्रेषु सङ्गीतं साधना इति अपि उक्तम् । प्रामाणिकरूपेण अवलोकयामः चेत् प्राचीनसभ्यतायाः अवशेषेषु मूर्तिषु, भित्तिचित्रेषु दृश्यते यत् सहस्राधिकवर्षेभ्यः पूर्वम् एव सङ्गीतं परिचितम् आसीत् । देवदेवताः सङ्गीतस्य प्रेरकाः इति न केवलं भारतदेशे किन्तु पाश्चिमात्यदेशेषु अपि एतादृशः विश्वासः अस्ति । यूरोफ् अरब् फारस् इत्यादिषु देशेषु सङ्गितस्य विषये पदानि सन्ति । सङ्गीतार्थं युनानी भाषायां मौसिकी (musique), ल्याटिन् भाषायां मुसिका (musica), फ्रांसीसी भाषायां मुसीक् 
(musique), पोर्तुगीस् भाषायां मुसिका (musica), जर्मन् भाषायां मूसिक् (musik),इब्रानी, अरबी, फारसी भाषायां मोसीकी इति पदैः सङ्गीतपदस्य व्यवहारः । सर्वेषु पदेषु अवश्यं साम्यः अस्ति एव । ये सर्वे पश्चिमदेशीयाः शब्धाः युनानी भाषायाः म्यूज़् (muse) इति शब्देनैव निष्पन्नाः । युनानी परम्परयां म्यूज़् नाम कव्यसङ्गीतयोः दीवी इति विश्वासः । तेषां कोशे अस्य अर्थः दीपः इति ।  गनस्य प्रेरणादायिनी देवी इति अस्य विवरणम् । यूनानीजनाः म्यूज़् ज्यौस (zeus) कन्या इति भावयन्ति । ज्यौस् इति पदं तु संस्कृतभाषायाः द्यौः इत्यस्य रूपन्तरमेव यस्य अर्थः स्वर्गः इति । यूनान्याः ज्यौस्, म्यूज़् च शब्दौ ब्रह्मसरस्वत्योः सदृशौ स्तः ।

भारतीयसङ्गीतस्य जन्म वेदमन्त्राणाम् उच्चारणेन एव ज्ञातुं शक्यते । सङ्गीतस्य प्राचीनतमः ग्रन्थः भरतमुनेः नाट्यशास्त्रं भवति । अन्ये सङ्गीतसम्बद्धाः ग्रन्थाः नाम बृहद्देशी, दत्तिलम्, सङ्गीतरत्नाकरः च भवन्ति । 

एतेषां शुद्धस्वराणाम् उपरि अथवा अधः विकृतस्वरः आगच्छाति । स , प स्वरयोः विकृतस्वरः न भवति । रे,ग,द, नी स्वराः यदा अधः भवन्ति तस्य कोमलस्वराः इति कथयन्ति । म स्वरस्य विकृतस्वरः उच्चः भवति तस्य तीव्रस्वरः इति वदन्ति । समकालीनभारतीये शास्त्रीयसङ्गीते शुद्धाः विकृताः चेति १२ स्वराणाम् उपयोगः भवति । पुरातनकालादेव भारतीयस्वरसप्तकानां संवादसिद्धिः अस्ति एव । महर्षेः भरतस्य एतेषां स्वराणाम् आधारेण २२श्रुतयः प्रतिपादिताः । एषः तु केवलं भारतीयसङ्गीतस्य विशेषः एव । 

भारतीये सङ्गीते प्रथानतयाः त्रयः भेदाः सन्ति । 

अस्मिन् पुनः उपभेदाः भवन्ति एव ।
भारतीयशास्त्रीये सङ्गीते  प्रधानौ भेदौ स्तः । 

हिन्दुस्तानीसङ्गीतं मुगल् राज्ञां छत्रछायायां विकसितम् । कर्णाटकसङ्गीतं तु मन्दिराणाम् अश्रयेण विवृद्धम् । अतः एव दक्षिणभारतस्य कृतिषु भक्तिरसः अधिकः, हिन्दुस्तानीसङ्गीते शृङ्गारः अधिकः दृश्यते । उपशास्त्रीयसङ्गीते ठुमरि, टप्पा, होरी, कजरी, लावणि, सोभाने, इत्यादयः भावन्ति । 

सुगमसङ्गीते जनसाधारणेषु प्रचलितानि  एतानि भवन्ति ।




#Article 18: अर्थशास्त्रम् (ग्रन्थः) (445 words)


अर्थशास्त्रम् (Arthashastra) इत्येषः प्राचीनकालस्य आर्थिकताविषये लिखितः उद्ग्रन्थः वर्तते । अस्य प्रणेता अस्ति कौटिल्यः । अस्य अपरं नाम चाणक्यः इति । अस्मिन् ग्रन्थे राज्यशासनविषयः, राज्यकोशविषयः, करस्वीकरणविषयादयः विस्तृतरूपेण उक्ताः सन्ति ।

अर्थशास्त्रग्रन्थस्य रचयिता कौटल्यः । केचन अस्य नाम कौटिल्य इति वदन्ति । तन्न साधु । यतः अस्य नाम कुटिलार्थकं न भवितुमर्हति । कामन्दकनीतिसारस्य जयमङ्गलायां व्याख्यायाम् उक्तम् यत् -कौटल्य इति गोत्रनिबन्धना विष्णुगुप्तस्य संज्ञा इति । एतेन कुटलगोत्रापत्यं पुमान् कौटल्यः इति निरुच्यते । तथा च केशवस्वामिनः नानार्थार्णवसंक्षेपग्रन्थे अथ स्यात् कुटलो गोत्रकृत्त्रषौ पुंसि नप् पुनः । विद्यादाभरणेऽथत्रिः कुटिलं कुञ्चिते भवेत् ॥ इत्युक्तम् । तस्मात् कौटल्यः इत्ये समीचीनम् नाम । अयं मगधेषु जातः । क्रिस्तात् पूर्वं द्वितीये तृतीये वा शतमाने कौटल्यः अर्थशास्त्रं चकारेति चरित्रकाराः वदन्ति। चणकनाम्नः ब्राह्मणस्य पुत्रः तस्मात् चाणक्यः इति अस्य नामान्तरम् । चाणक्यस्य प्रथमं नाम विष्णुगुप्त आसीदिति इतिहासात् ज्ञायते । यो हि पुरा मगधेषु नन्दान् निर्मूल्य चन्द्रगुप्तमौर्यं राजानं चकारेति श्रूयते । आचार्यविष्णुगुप्तस्य चरित्रम् विष्णुपुराणेऽपि लभ्यते । विशाखदत्तस्य मुद्राराक्षसनाटकेऽपि विशदतया वर्णितम् । क्षेमेन्द्रः ’बृहत्कथामञ्जर्यां’ सोमदेवः ’कथासरित्सागर’ विष्णुशर्मा ’पञ्चतन्त्रे’ दण्डी ’दशकुमारचरित” च कौटल्यस्य इतिवृत्तं प्रस्तुवन्ति । अपि च ग्रीक देशस्य सम्राजः ’सेल्यूकस्’ नाम्नः रायभारी मेगास्तनीसः लिखितरूपेण कौटल्यम् विवृणोति । एतान् सर्वानुल्लेखान् अवलोक्य सिद्ध्यति यत् - महाचतुरः, धीमान्, मौर्यसाम्राज्यस्थापनाचार्यः , कौटल्यः स्वयमेव ग्रन्थमेनम् अलिखदित्येतस्य महत्ता स्फुटा भवति

एष स्वग्रन्थारम्भे पूर्वाचार्यप्रणीतान् सर्वान् ग्रन्थानवेक्ष्य तेषामभिप्रायान् एकत्र सङ्गृह्य एतच्छास्त्रं कृतमिति प्रतिजानीते । ॐ नमः शुक्रबृहस्पतिभ्याम् इति अर्थशास्त्रस्य मूलपुरुषौ शुक्राचार्यं बृहस्पत्याचार्यं च ग्रन्थारम्भे स्मरति । एतस्मिन् अर्थशास्त्रे अशीत्युत्तरशतं (१८०) प्रकरणानि, पञ्चदश (१५) अधिकरणानि च वर्तन्ते । एतानि तन्त्रम्, आवापः, शेष इति त्रिषु भागेषु विभक्तानि । आदौ पञ्चाधिकरणेषु स्वदेशहितचिन्तनं प्रतिपाद्यते ।

कौटल्यः अस्मिन् ग्रन्थे ’आन्वीक्षिकी=तर्कशास्त्रम्, त्रयी, वार्ता, दण्डनीतिरिति चतस्रः विद्याः इति प्रत्यपादयत् । राज्ञः इन्द्रियजय एव प्रधानः जयः, इति अभिधाय कामक्रोधाद्यरिषड्वर्गवशान् पूर्वभूपान् विनष्टान् उदाहृत्य जितेन्द्रियान् यशस्विनः राज्ञः प्राशंसत् ।

अत्र द्वितीयाधिकरणे अध्यक्षचर्या निरूपितास्ति । एतदधिकरणम् अस्य ग्रन्थस्य सारसङ्ग्रह इवास्तीति विद्वांसः अभिप्रयन्ति ।

अस्मिन् ग्रन्थे षण्मासपर्यन्तं क्षुधानिवारणाय तत्कालीनाः वैद्याः विविधाः गोलिकाः निर्मान्ति स्म, अपि च अन्नं पानीयं च अक्षयं कर्तुम् औषधानि तत्काले आसन्निति वर्णितमस्ति । शत्रुजयार्थं नानाविधाः कृत्याऽऽभिचारिकाः क्रियाश्च समन्त्रप्रयोगाः वर्णिताः सन्ति । कौटल्यः स्वस्य अर्थशास्त्रस्य स्वयमेव व्याख्यां चकार । तत्र कारणं च एवम् ब्रवीति । यथा-

 
अस्य ग्रन्थस्य कर्तुः गर्वोक्तिः एवमस्ति- 

महाकविः भासः स्वस्य नाटकेषु, तथा कालिदासः माघः भारविः च स्वेषां काव्येषु अर्थशास्त्रस्य तत्वानि, चाणक्यः यथा आचचक्षे, तैरेव शब्दैः छन्दोबन्धैः प्रत्यपादयन् । अपि च एतेषां काव्यानां व्याख्यानकर्ता मल्लिनाथः ’सञ्जीविनी’ ’घण्टापथ” इत्याख्यव्याख्यासु च मध्ये मध्ये यदाह् कौटल्यः इत्युक्त्वा अर्थशास्त्रस्य कानिचन वाक्यानि उदाहरति । आचार्यविष्णुगुप्तस्य शिष्यः कामन्दकः ’कामन्दकनीतिसाराख्ये’ स्वग्रन्थे कौटल्यं प्राशंसत् यथा-

यद्यपि राजनीतिः युगे युगे परिवर्तमानम्, देशे देशे विभिन्नं सत् वैविध्यं भजते । युगधर्मानुसारं राजधर्मोऽपि परिवर्तनशीलः दृश्यते । देशे विदेशेष्वपि आधुनिकराज्यशास्त्राणां भाषाः भिद्यन्ते, न तु सार्वजनीना नीतयः । यतः जनाः=प्रजाः राज्ञः सकाशात् रक्षणम् इच्छन्ति । राजा तु प्रजाः सर्वाः पुत्रवत् रक्षेत् । न तु पीडयेत् । तादृशः राजा प्रत्यक्षदेवता इति प्रशंसापात्रं भवति ।

बहूनि प्रसिद्धानि प्रचलितानि च नीतिसूत्राणि अत्र ग्रन्थे सन्ति । तेषु दिङ्मात्रं कानिचित् अत्र उदाह्रियन्ते । 




#Article 19: नेपालदेशः (508 words)


नेपाल एशिया महाद्वीपे दक्षिणे कश्चित् देश: अस्ति । नेपालस्य उत्तरे चीनदेश: अस्ति । पश्चिमे, पूर्वे एवं दक्षिणे भारत देश: अस्ति ।
हिमालयस्य सानुप्रदेशे स्थितं राष्ट्रं परितः भूभागेनैव आवृतम् अस्ति । नेपालस्य उत्तरे त्रिविष्टपम् (टिबेट) अस्ति। परितः विश्वस्य अत्युन्नतपर्वताः १० सन्तीति भावयामश्चेत् तेषु अष्टपर्वताः नेपाले एव सन्ति । नेपालस्य विस्तीर्णं १४११८१ च.कि.मी । जनसङ्ख्या २.७ कोटिः । राष्ट्रस्य   काष्टमण्डपः (काठमान्डु/काठमाडाैं) ।

क्रि.पू ६, क्रि.पू ५ शतके च एषः प्रदेशः शाक्यशासने आसीत् । शाक्य राजकुमारेषु एकः सिध्दार्थः गौतमः प्रापञ्चिकव्यामोहं त्यक्त्वा दिव्यं ज्ञानं प्राप्य अग्रे बुध्दः इति विख्यातः । क्रि.पू २५० समये एषः प्रदेशः उत्तरभारतस्य मौर्यसाम्राज्यस्य अङ्गमासीत् । अनन्तरं गुप्तराजाः, अनन्तरं लिच्छविराजाः अनन्तरं चालुकयाः एतस्य प्रदेशस्य उपरि अधिकारं स्थापितवन्तः । अनन्तरं एषः प्रदेशः विविधरीत्य़ा विभक्तः लघुराजैः पालितश्च । १७६५ तमे वर्षे पृथ्वीनारायण शाह इति कश्र्चन गाेर्खाराजः नेपालस्य एकीकरणं कृतवान् । भारतं यदा ब्रिटिषाधीनं आसीत् तदा नेपालस्य स्वायत्ताधिकारः आसीत्। आङ्ग्लैः सह एकस्मिन् युध्दे पराजितः चेदपि सन्धिं कृत्वा स्वायत्तताम् अरक्षत् । एतदनुसारं नेपालः स्वप्रदेशम् उत्तरखण्डं, हिमाचलप्रदेशं, सिक्किम भागं च अाङग्लेभ्यः अयच्छत् । ततः आरभ्य राजशासनमेव नेपाले आसीत् । एषु दिनेषु प्रजासत्तानिमित्तम् आन्दोलनं जातम् । बहुपक्षीया सांसदीया व्यवस्था आगता, राज्ञः अधिकारः न्यूनीकृतः । १९९१ तमे वर्षे प्रथमवारं बहुपक्षाणाम् मध्ये मुक्तनिर्वाचनं जातम् ।

नेपालदेशस्य पूर्वतः पाश्चिमान्तभागपर्यन्तं ८०० कि.मी भवति । दक्षिणतः उत्तरान्तपर्यन्तं २०० कि.मी भवति । तिर्यक् पट्टिकारीत्या भारतस्य उत्तरभागे अस्ति । भौगोलिकरीत्या उन्नतपर्वतप्रदेशः, लघुगिरीणां प्रदेशः, तराय् प्रदेशः च इति विभागः शक्यते । भारतसीमानिकटे गङ्गायाः समतलप्रदेशः अस्ति । एतस्मिन् प्रदेशे कोसी, नारायणी ( गण्डकी ) कर्नाली नद्यः च जलम् आनयन्ति । लघुगिरिप्रदेशे काठ्मण्डुखनिप्रदेशः अस्ति । एतस्य देशस्य अत्यधिकजनाः अत्र वसन्ति । एतस्मिन् प्रदेशे  महाभारतलेख् शिवालिकपर्वतश्रेणयः च सन्ति । एताः पर्वतश्रेणयः मध्यमस्तरीयाः सन्ति । एतासामौन्नत्यं १००० मीटरतः ४००० मी पर्यन्तम् अस्ति ।
       
उन्नतपर्वतप्रदेशे प्रपञ्चस्यैव अत्युन्नतपर्वताः सन्ति । तत्र सगरमाथा, कञ्चनजङ्घा, अन्नपूर्णा, मकालु, धवलागिरिः इत्यादयः विश्वस्य दशमध्ये अष्ट सर्वोन्नतपर्वताः विराजिताः सन्ति।  अत्र घनवनानि सन्ति । परन्तु सद्यः  अरण्यनाशः मानवानां दुष्टेच्छाकारणतः प्रचलति । एतेन प्रकृतेरुपरि विपरीतपरिणामः दृश्यते ।

नेपाळः कृषिप्रधानः देशः । ७६% जनाः कृषिं कुर्वन्ति । व्रीहिः, गोधूमः, शणः, मर्कटान्नम् एतेषां कृष्युत्पन्नानि । यन्त्राणि कृष्युत्पन्नानां संस्काराय उपयुज्यन्ते । प्रवासोद्यमः देशस्य प्रमुखः आर्थिकः व्यवसायः । नेपाळस्य बहुभागाः पर्वतमयाः इति कारणतः मार्गनिर्माणं कठिनम् । रेलयानमार्गनिर्माणम् इतोऽपि कष्टं व्ययकारि च । २००३ तमे वर्षे देशे ८५०० कि.मी मार्गाः आसन् । ५९ कि.मी रेल्वे मार्गः आसीत् । एतेन कारणेन निरीक्षितस्तरस्य आर्थिकी प्रगतिः न जाता । दूरसम्पर्कव्यवस्था न्यूनस्तरीया अस्ति । आधुनिकतन्त्रज्ञानं देशस्य जनतां प्राप्नोत् । नेपाळः विदेशस्य सहायधनम् अवलम्ब्य अस्ति । भारतम्, अमेरिका, जपान्, इङग्लेण्ड, युरोपियन् राष्ट्राणि च साहाय्यं कुर्वन्ति ।

नेपाळः विश्वस्य एकमेव हिन्दुराष्ट्रम् । देशस्य अधिकृतभाषा नेपाली । मैथिली, भोजपुरी, अवधिभाषाः अपि भाष्यन्ते । नेपाळे पुरुषाणाम् आयुर्मानं महिलानामेपक्षया अधिकम् । समग्रप्रपञ्चे नेपाळे केवलम् इदृशी स्थितिः  विध्यमानम् अस्ति । सांस्कृतिकविषयेषु नेपाळः टिबेटं भरतं च अनुसरति । उत्तरनेपाळे टिबेट्संस्कृतेः प्रतिकृतिः दृश्यते । अन्यत्र सर्वत्र हिन्दुसंस्कृतेः छाया दृश्यते । नेपाळः भारतं बहुधा अवलम्ब्य अस्ति । आर्थिकसहाय्यं, तन्त्रज्ञानं, रक्षणम् इत्यादिविषयेषु भारतात् नेपाळेन बहुसहाय्यं लभ्यते ।

मेची, कोशी, सगरमाथा, जनकपुर, बागमती, नारायणी, गण्डकी, लुम्बिनी, , राप्ती, कर्णाली, भेरी, सेती, महाकाली इति चतुर्दशाञ्चलानि सन्ति । नेपलदेशे दूरसंचाराव्यवस्था अतीव सुलवमस्ति ।

२०१५ तमस्य वर्षस्य अप्रैल-मासस्य पञ्चविंशतितमे (२५) दिनाङ्के प्रातः ११:५६ वादने नेपालदेशे विनाशकारी भूकम्पः अभवत् । भूकम्पस्य केन्द्रं गोरखामण्डलम् आसीत् । भूकम्पः अनेकानि महत्त्वपूर्णानि प्राचीनानि मन्दिराणि, ऐतिहासिकभवनानि अनक्कयत् । १४०० तः अधिकजनाः मृताः अनेके आहताः अभूवन्  ।




#Article 20: आर्यभटः (706 words)


आर्यभटः (४७६ - ५५०) एक: महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम् अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत्।

ज्योतिश्शास्त्रस्य शास्तीयत्वं परिकल्पितम् आर्यभटेन एव। आर्यभटम् 'आर्यभट्टः’ इत्यपि निर्दिशन्ति केचन। आर्यभटः क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातः इति, क्रि.श. ४९९ तमे वर्षे एषः 'आर्यभटीयम्’ इति ग्रन्थं लिखितवान् इति च ज्ञायते। एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति। आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति। 'मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । पञ्चाङ्गकर्तारः बहवः एतस्य सिद्धान्तम् एव अनुसरन्ति।

आयभटेन् ४९९ तमे वषे एषः ग्रन्थः रचितः। एष ग्रंथः २० आर्या छन्देषु निबध्दः। अस्मिन् ग्रहाणां गणनार्थं कलि संवत् (४९९तमे वर्षे ३६०० कलि संवत्) इति निश्चितम् ।
अस्मिन् ग्रन्थे अष्टाधिकशतपद्यानि सन्ति। अतः एव एतत् पुस्तकम् आर्यशताष्टकम् इति नाम्नि प्रसिद्धः अस्ति। अस्मिन् चत्वारि खण्डानि सन्ति। भास्करः एतत् पुस्तकम् अश्मकतन्त्रम् इति कथयति। गणितज्योतिषविषययोः लिखित: ग्रन्थ:। तत्र वराहकल्पस्यास्य सप्तमे मन्वन्तरे वर्तमानाष्टाविंशच्चतुर्थुगस्य कल्पादेः खखषट्वर्गमिते (३६००) सौराब्दे गते त्रयोविंशतिवर्षे आचार्यार्याभट: पुरातनानि कालक्रियागोल- लौकिकगणित – प्रतिपादकानि शास्त्राणि कालदैर्घ्यायत्तसम्प्रदायविच्छेदग्रन्थवैकल्यादि जनितेन दृग्गणितविसंवादेनाकिञ्चित्करण्यालोच्य समदृग्गणितं ज्योतिश्शास्त्रं चिकीर्षुः तादृशज्योतिर्ज्ञानबीजलाभाय ज्योतिश्छक्रग्रहादेरादिवक्तारं भगवन्तं स्वयम्भुवम् अमलैस्तपोभिराराधयामास । ततः प्रसन्नो भगवांस्तस्मै तादृशमतीन्द्रियम् अतिरहस्यभूतं कालक्रिया गोलज्ञानबीजमुपदिदेश । ततोऽयमाचार्यार्यभटस्तदुपदिष्टं सर्वं बीजभूतं दशभिर्गीतिसूत्रैः, तत्परिकरभूतलौकिकगणितवीजं स्वबुध्द्याभ्युहितम् एकेनार्यासूत्रेण च संक्षिप्य लोके प्रकाशयामास । ततोऽष्टाधिकशतैरार्या सूत्रैर्गणित –कालक्रिया – गोलबीजोपयोगं दिङ्मात्रेण दर्शयामास । तदिदमाचार्यार्यभटमुखारविन्दनिर्गतं प्रबन्धद्वयात्मकं ज्योतिश्शास्त्रमस्माभिर्व्याचिख्यासितम् ।

तत्र त्रीणि वस्तूनि प्रतिपाद्यतया प्रतिज्ञातानि- गणितं, कालक्रिया, गोल इति । तत्र गणितं सङ्कलित –व्यवकलितादिमिश्रक- क्षेत्र श्रेढी – कुट्टाकारादि चानेकविधम् । इह तु ज्योतिश्शास्त्रप्रतिपाद्ययोः कालक्रिया – गोलयोर्यावन्मात्रं परिकरभूतं तावन्मात्रमेव सामान्यगणितं प्रतिपाद्यतया प्रतिज्ञायते । कालस्य क्रिया कालक्रिया । कालपरिच्छेदोपायभूतं ग्रहगणितं कालक्रियेत्यर्थः । ब्रह्माण्डकटाहान्तर्त्याकाशमध्यस्थं ग्रहनक्षत्रकक्ष्यात्मकं खमध्यस्थ समघनवृत्तभूमिकं अपक्रमाद्य शेषविशेषोपेतं प्रवहवायुप्रेरणान्नित्यं पश्चिमाभिमुखं गच्छत् स्थलजलसीमास्थानां सर्वाश्चर्यमयं कालचक्र –ज्योतिश्छक्र- भपञ्जरादि शब्दवाच्यो गोलः । स च वृत्तक्षेत्रत्वात् चतुरश्राद्यनेक क्षेत्रकल्पनाधारत्वाच्च गणितविशेषगोचर एव । एवमेतानि त्रीणि वस्तूनि व्याख्यातानि ।
एतत् त्रयमपि प्रत्येकं द्विविधम् – उपदेशमात्रावसेयं, तन्मूलन्यायावसेयं चेति । तत्र एतावद् युगप्रमाणम्, एतावन्तो युगे ग्रहमन्दशीघ्रीच्चपातनक्षत्राणां परिवर्ताः, एतावान्मन्दपरिधिः, एतावान् श्रीघ्रपरिधिः, एतवान् ग्रहाणां परमापक्रमः, एतावांश्चन्द्रादीनां परमविक्षेपः, एतावद् ब्रह्मदिनप्रमाणम्, तद्गतमेतावद्, एतावती युगे योजनात्मिका ग्रहगतिः, एतावती ग्रहकक्ष्या इत्येवमादिकं वस्तुजातम् उपदेशमात्रावसेयम् । एतदुपदेशं विना प्रमाणान्तरेणावगन्तुं न शक्यते । एतस्यातीन्द्रियस्य ग्रहगतिबीजस्य निरवशेषप्रतिपादनाय दशगीतिसूत्रारम्भः ।
एतावतैव कृत्स्नं गणितस्कन्धगतार्थजातं परिसमाप्तम् । इतोऽन्यत्सर्वं न्यायसिध्दत्वाद् बुध्दिमद्भिरभ्यूह्य प्रतिपादयितुं शक्यते । तथा हि –गणितपादोक्तानि चतुरश्र- त्र्यश्रक्षेत्रादिफलानि, त्रैराशिकादीनि कुट्टाकारपर्यन्तानि च गणितानि तावल्लौकिकगणितन्यायसिध्दानि सर्वैरभ्यूहितुं शक्यन्त एव ।
कालिक्रयापादोक्तान्यपि तथाविधान्येव । भूदिनानि तावद् रविनक्षत्रभगणयोरुपदेशाल्लोकसिध्देन द्वियोगन्यायेन तयोरन्तरं कृत्वा ज्ञातुं शक्यन्ते । तानि च ग्रहादिमध्यमानयने प्रमाणराशिः । युगरविमासाश्च युगरव्यब्दोपदेशाद् वर्षस्य च द्वादशमासत्वेन लोकसिध्दत्वाद्, युगरव्यब्दद्वादशगुणनयैव सिध्दयन्ति । रविशशियोगस्य चान्द्रमासत्वाद् रविशशिभगणविशेष एव चान्द्रमासा भवन्ति ।एकस्य चान्द्रमासस्य त्रिंशत्तिथ्यात्मकत्वेन प्रसिध्दत्वात् ते त्रिंशदगुणिता युगतिथयः स्युः अवमदिनस्य शशिसावन दिनन्तरत्वाद् युगसावनयुगचन्द्रदिनान्तरं युगावमदिनानि । आन्द्रसौरमासान्तरस्य अधिकमासत्वप्रसिध्द्या युगाधिमासानयनमपि स्पष्टम् । एवम् एतैः परिकरभूतैरिष्टकालत्रैराशिकेन गत सौरमासतिथिषु याताधिकावमादीनि संसाध्य गतमासतिथिषु तद्योगशोधनेन कलियातदिनानि ज्ञातुं शक्यन्ते । तानि च इच्छाराशिः । फलराशिश्च इष्टग्रहादेर्युगभगणाः । एवमेतैस्रैराशिकगणितेन ग्रहमध्यमाः सिध्यन्ति । उच्चमध्यमे ग्रहमध्यमे च ज्ञाते उच्चमध्यमसमो ग्रहमध्यम एव स्फुटः । तयोः कक्ष्यामण्डलस्योच्चनीचरेखायाः परमविश्लेषो राशित्रयम् । तत्रत्येन मध्यमस्फुटान्तरेण व्यासार्धेन निष्पन्नाः पठिताः परिधयः । इष्टकालग्रहोच्चान्तरस्य त्रैराशिकेन तात्कालिकमध्यमस्फुटान्तरमानीय मध्यमग्रहतत्संयोगवियोगाभ्यामेव पारमार्थिकग्रहसिध्दिः । तथा शीघ्रोच्चोपदेशो येषामस्ति ते शिघ्रोच्चस्वान्तरेत्त्पन्नेन फलेनापि संस्कृताः पारमार्थिका भवन्ति । इत्येतान्यन्यानि च कालक्रियापादोक्तानि अर्थजातानि सर्वाण्युपद्शमूलन्यायावसेयान्येव । तथा गोलपादोक्तान्यपि तथाविधान्येव । तथा हि – स्थलजलसीमायां लङ्कामधिकृत्या पक्रमोपदेशात् पूर्वपराया उत्तरेण दक्षिणेन चापक्रान्तं किञ्चिदुन्मण्डलमस्तीति शक्यं कल्पयितुम् । अपमण्डालात् प्रभृति विक्षेपोपदेशात् तदुत्तरतो दक्षिणतश्च स्थितं किञ्चिन्मण्डलमस्तीत्यपि शक्यं कल्पयितुम् । एवमन्यान्यपि गोलपादोक्तान्यर्थजातानि बीजोपदेशवत् सुतरां न्यायपथमधिरोहन्ति ।

संख्यायाः माध्यमेन यत्र कालगणना भवेत् तदेव गणितज्योतिषम्। ज्योतिषशास्त्रस्य त्रिषु विधासु यथा ‌-सिध्दान्तः, फलितः, गणितश्च एतेषु एषः सर्वाधिकः प्रमुखः वर्तते। आर्यभटेन फ़लितज्योतिषशास्त्रस्य विरोधः कृतः। तेन उक्तं यत् ग्रहणे राहूकेतुनामको दानवो नास्ति कारणम्। तत्र सूर्य चन्द्र पृथिवी एतानि एव कारणानि। सूर्यं परित: 
भ्रमन्त्या: पृथिव्या: चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति। यदा पृथिव्या: छायापातेन चन्द्रस्य प्रकाश: अवरुध्यते तदा चन्द्रग्रहणं भवति । तथैव पृथ्वीसूर्ययो: मध्ये
समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं भवति ।

सः पै () इति सङ्ख्यायः आसन्नमौल्यम् अब्रवीत्।
सः अलिखत् 

चतुरधिकं शतमष्टगुणं द्वाषष्टिस्तथा सहस्राणाम्।
अयुतद्वयविष्कम्भस्यासन्नो वृत्तपरिणाहः॥(आर्यभटीयम्, गणितपादः, श्लोकः १०)

आर्यभटः उवाच -

त्रिभुजस्य फलशरीरं समदलकोटीभुजार्धसंवर्गः।
सः 'सैन्' इति अनुपातम् 'ज्या' इति अकथयत् 'कोसैन्' इति अनुपातम् कोज्या इति च।

सः वर्गाणां घनानां पङ्क्तीनां सङ्कलनाघनम् अगणयत्।

फलितज्योतिषशास्त्रे ग्रहनक्षत्रादीनां साहायेन भाग्यकर्मानदीनां विवेचनं कृतमस्ति। आर्यभटः एतस्मिन् न विश्वसिति स्म।

सः ग्रहणं भूच्छायया एव भवति न तु राहुकेतुभ्याम् इति उक्तवान् ।

सः भूचक्रपरिधिः 39,968.0582 कि.मी. इति सम्यक् उक्तवान्।

सिध्दान्तशास्त्री गणितस्य ज्ञाता,

आविष्कृतो येन दशमलवश्च।

आर्यभटीयं गन्थस्य कर्ता,

प्रदीप्यते स इव भास्करं दिक् ॥

गणितज्ञः महान् योस्ति शून्यसंख्याप्रवर्तकः ।

आर्यभटं तं वन्दे भूत्वा भावान्वितो सदा ॥

सम्पादक:-
आचार्य: दयानन्द: शास्त्री
                  
लातूरम्




#Article 21: ब्रह्मगुप्तः (2217 words)


ब्रह्मगुप्तः(,) (५९८-६६८) महान् गणितज्ञः, ज्योतिषी च आसीत् । तस्य जन्म भिल्लमलपुरे अभवत् ।  सः हर्षमहाराजस्य राज्ये वसति स्म । अयं गणितविषये ज्योतिष्यविषये च बहूनि पुस्तकानि अलिखत् । तदीयं सुप्रसिद्धः ग्रन्थः नाम 'ब्रह्मस्फुटसिद्धान्तः' । एतं ग्रन्थं सः ६२८ तमे वर्षे अलिखत् । अस्मिन् ग्रन्थे २५ अध्यायाः सन्ति ।

ब्रह्मगुप्तः ५९८ तमे वर्षे भारतस्य राजस्थनमण्डले स्थिते भिन्माल्-नगरे जन्म प्राप्नोत् । अस्य पिता जिष्णुगुप्तः । जिष्णुगुप्तः स्वस्य जीवनस्य महान्तं भागं भिल्लमलपुरे (अद्यत्वे अयं प्रदेशः भिन्माल् इति कथ्यते) एव अयापयत् । तस्मिन् समये राज्ञः व्याघ्रमुखस्य शासनम् आसीत् । अतः एव जनाः ब्रह्मगुप्तं भिल्लमलाचार्यः इति कथयन्ति स्म । ब्रह्मगुप्तः उज्जयिन्यां विद्यमानस्य खगोलवीक्षणकेन्द्रस्य प्रमुखः आसीत् । अस्मिन् समये तेन गणित-ज्योतिष्यविषययोः चत्वारः ग्रन्थाः लिखिताः - चण्डमेखला (६२४ तमे वर्षे), ब्रह्मस्फुटसिद्धान्तः (६२८ तमे वर्षे), खण्डखाद्यकम् (६६५ तमे वर्षे) । तेषु ब्रह्मफुटसिद्धान्तः अत्यन्तं प्रसिद्धः जातः । अस्य ग्रन्थस्य अराबिक्-भाषया अनुवादः अपि कृतः ।
 

ब्रह्मगुप्तः प्रचीनभारतस्य महतां गणितशास्त्रीणां वार्तायाम् अद्यापि सादरं वन्द्यते । सः प्राचीनभारतस्य महान् गणतज्ञः ज्योतिषी च आसीत् ।  आर्यभट्टः भास्कराचार्यश्च परिवर्तनस्य अभिगमयुतौ आस्ताम् । किन्तु ब्रह्मगुप्तः रुढिचुस्तः परंपरावादी च आसीत् । सः प्राचानेषु विचारेषु विश्वसति स्म । तथापि तस्य योगदानेन भारतस्य प्रचीनगणितं समृद्धम् अभवत् । तेन प्राचीन भारतस्य गणितक्षेत्राय दिशादर्शनं कृतम् । अङ्कगणितस्य बीजगणितस्य च खगोलविज्ञाने ज्योतिषशास्त्रे च उपयोगस्य श्रेयः ब्रह्मगुप्तं प्रति गच्छति । शून्यस्य गुणधर्माणां व्याख्यां कृत्वा तस्य उपयोगं च कृत्वा शून्यस्य महत्वाधिक्यकरणस्य श्रेयः ब्रह्मगुप्तं प्रति गच्छति । वर्गमूलं घनमूलं च सरलम् अभवत् तस्य श्रेयः अपि एतं प्रति गच्छति ।

ब्रह्मगुप्तस्य जन्म 598 तमे वर्षे राजस्थानराज्यस्य भिन्नमाल- ग्रामे अभवत् । सः ग्रामः गुजरातराजस्थानराज्ययोः निकटवर्ति अस्ति । सः ब्रह्मस्फुट सिद्धान्त इति नामके ग्रन्थे  स्वस्य विषये अलिखत् यत् 

श्री चाम्पवन्च्यतिलकेश्री व्यघ्रमुखे नृपाणाम् 
पंञ्चारचत्सं युत्कैः वर्षरचतै पञ्च भिरतीतै ।
ब्रह्मस्फुट सिद्धान्त सज्जन गणितज्ञ गोलतित्प्रीत्यै 
त्रिच्चरुर्षेण कृतो जिष्णुगुप्त ब्रह्मगुप्तेन ।।  

अनेन श्लोकेन ज्ञायते यत् ब्रह्मगुप्तस्य पितुः नाम जिष्णुगुप्तः आसीत् । ब्रह्मगुप्त 30 वर्षस्य वयसि ब्रह्मस्फुट सिद्धान्त इति नामकं ग्रन्थम् अलिखत् ।  तत् भागतीय खगोलशास्त्राय गणिताय च महत्वपूर्णयोगदानरूपः अस्ति ।

ब्रह्मस्फुट सिद्धान्त ग्रन्थः  628 तमे वर्षे लिखितः । अस्मिन् ग्रन्थे 24 अध्यायाः सन्ति । तेषु द्वदशाय अध्यायाय गणिताचार्य इति नाम प्रदत्तम् । तस्मिन् अङ्कगणितस्य विषये छायागणितस्य विषये च लिखितम् अस्ति । अस्मिन्नैव ग्रन्थे कुट्टुकाध्याय इति अपरः अष्टादशः अध्यायोऽपि वर्तते तत्र बीजगणितस्य विषये रैखिकगणितस्य विषये  वर्गसमीकरणविषये च समाधानं प्रदत्तम् अस्ति । तस्मिन्नैव त्रिकोणमिति इत्यस्योपरि अपि लिखितम् अस्ति ।  
ब्रह्मस्फुट सिद्धान्तस्य चत्वारः अध्यायाः मूलतया गणिताय समर्पिताः सन्ति । अस्य द्वादशे अध्याये अङ्कगणितस्य तथा जयामितेः समावेशः भवति । अष्टादशस्य अध्यायस्य कुट्टुक अर्थात् अनिर्णितानि समीकरणानि ।  सः अनेन नाम्ना गुट्टक इति नामकं गणित चचितम् । गणितस्य सिद्धान्तानां ज्योतिषशास्त्रे उपयोगः कथं कर्तव्यः इत्यपि तेन प्रतिपादितम् ।  

ब्रह्मगुप्तेन करण खण्ड इति नामकम् अपरं पुस्तकमपि प्रकाशितं तस्मिन् अन्तर्वेशन, समतल त्रिकोणमिति गोलीय त्रिकोममिति इत्यादीनां नियमाः अपि प्राप्यन्ते । ततः परं कदंबकला, दूरकेन्द्र इति  नामके पुस्तके प्रकाशिते ।  अस्य रचनया आरबजनैः भारतीय गणितस्य ज्ञनं प्राप्तम् । अब्बासिंद खलिफा अल् मंसूर इत्ययं इराक-देशे बगदाद-नगरस्य गचनाम् अकरोत् । सः उज्जैन-नगरात् एकं जनं तत्र आहूतवान् सः तत्र ब्रह्मगुप्तस्य ग्रन्थमपि नीतवान् । तस्यानुवादं कृत्वा सिन्द हिन्द इति ग्रन्थम् अलिखत् । तेन तत्रत्यैः जनैः भारतीयगणितस्य विषये ज्ञानं प्राप्तम् ।  

शून्यस्य संशोधनेन निस्वस्मिन् क्रान्तिः आगता । तत् संशोधनम् आस्माकीनैः कृतम् तस्य गौरवं धरणीयम् । भारते शून्योपयोगस्य वास्तविकं प्रमाणं 876 तमस्य वर्षस्य मन्दिरस्य शीलालेखेषु प्राप्यते । अयं शिलालेखः मध्यप्रदेशराज्यस्य ग्वालियर-नगरस्य चतुर्भुजमन्दरे प्राप्यते ।  तत्र 270 इत्यस्य सख्यायाः लेखनम् साम्प्रतंय यथा भवति तथा अभवत् । तस्य अर्थः इत्थं नास्ति यत् ततः प्राक् शून्यस्य प्रयोगः न भवति स्म । किन्तु शिलालेखस्य माध्यमेन स्पष्टतया शून्योपयोगः सर्वप्रथमं तत्रैव दृश्यते। प्राचीनायं पाण्डुलिप्यां शून्यस्य उपयोगः बिन्दुना भवति स्म । अतः शून्यस्य आर्यभट्टादपि ब्रह्मगुप्तः, महावीरः, भास्काराचार्यश्च मुखरः आसीत् ।। 

शून्यस्य नियमरचना ब्रह्मगुप्तस्य महत्वपूर्णं योगदानम् अस्ति । तेन उक्तं यत् शून्यस्य यया कयापि सङ्ख्यया सह उनाधिक्येन शून्यस्योपरि तस्य प्रभावः न भवति । शून्यस्य यया कया अपि सङ्ख्यया सह गुणनं भवति तर्हि तस्य परिणामं शून्यमेव भवति । किन्तु तेन शुन्यस्य विभाजने सत्यपि शून्यमेवावशिष्यते  इति कथनम् अयोग्यमासीत् ।।। 

ब्रह्मगुप्त इत्यनेन 628 तमे वर्षे ब्रह्मस्फुट सिद्धान्त इति नामके ग्रन्थे अङ्कगणितस्य केचन नियमाः उक्ताः।  तत्र कामपि सङ्ख्यां तस्मादेव न्यूनां करिष्यामः तर्हि शून्यस्य प्राप्तिः भवति । शून्यस्य एकधनात्मकसङ्ख्यायाः च योगः एकधनात्मकसङ्ख्या भवति, शून्यस्य शून्येन सह योगः अपि शून्यः एव भवति इति ।

ऋणस्य प्रक्रिया दुरूहा अस्ति ।  कामपि ऋणात्मकसङ्ख्यां  शून्यात् न्यूनां करिष्यामः तर्हि धनात्मकसङ्ख्या आवशिष्यते । कामपि धनात्मकसङ्क्यां शून्यात् न्युनां करिष्यामः तर्हि  ऋणात्मकसङ्ख्या अवशिष्यते । किन्तु शून्यं ऋणात्मकसङ्ख्यायाः न्यूनं करिष्यामः तर्हि  ऋणात्मकसङ्या अवशिष्यते । शून्यात् शून्यं न्यूनं करिष्यामः चेदपि शून्यमेव अवशिष्यते । 

एकधनात्मकस्य ऋणात्मकस्य च सङ्ख्यायाः योगः तयोः अन्तरवदेव भवति, तयोः निरपेक्षमानं समानं स्याच्चेत्  तयोः योगः अपि शून्यः एव भवति । ।।। 

कामपि सङ्ख्यां शून्येन सह गुणिस्यामः चेत् तस्य उत्तरः अपि शून्यः एव भविष्यति इति किन्तु विभाजनस्य क्रिया अपि सरला भवति । यथा कामपि धनात्मकसङ्ख्यायाः ऋणात्मकसङ्ख्याः वा शून्येन सह विभाजनं करिष्यामः तर्हि तस्य उत्तररूपेण एकस्याः भिन्नसङ्ख्यायाः प्राप्तिः भवति । यस्य हरः(DENOMINATOR) शून्यः भवति । शून्यस्य धनात्मकसङ्ख्ययाः वा ऋणात्मकसङ्ख्ययाः विभाजनं करिष्यामः तर्हि तस्य परिणामरूपेण शून्यस्य वा भिन्नसङ्ख्यायाः प्राप्तिः भवति । यस्य अंशः शून्यं हरः (DENOMINATOR) सा सङ्ख्या एव भवति ।  किन्तु शून्यात् शून्यस्य विभाजनं कुर्मः तर्हि शून्यम् अवशिष्यते ब्रह्मगुप्तस्य इदं कथनं असत्यमासीत् । तथापि तस्य प्रयत्नाः श्लाघ्याः सन्ति । 

ब्रह्मगुप्तस्य 200 वर्षान्ते 830 तमे वर्षे गणितशास्त्रिणा महावीरेण गणितसारसंङ्रहः इति एकः ग्रन्थः निर्मितः । तस्मिन् ब्रह्मगुप्तस्य गणितसिद्धान्तानामेव विवेचनम् अस्ति ।  तेनापि शून्यात् शून्यस्य गुणने सति शून्यम् अवशिष्यते तथा ऋणप्रक्रियया  तस्मिन् किमपि परिवर्तनं न भवति इति उक्तं किन्तु तथापि सः विभाजनप्रक्रिययाः उत्तरं दातुं समर्थः न अभवत् ।  ततः परं भास्कराचार्येण शून्यस्य सिन्द्धान्ताः प्रतिपादिताः । सः ब्रह्मगुप्तं गुरुः मत्वा गणितस्य संशोधनानि अकरोत् । सऽपि शून्यस्य विभाजनक्रियायाः विभाजनं कर्तुं समर्थः नाभवत् इति ।  कस्यापि सङ्ख्यायाः शून्येन सह विभाजनं करिष्यामः तर्हि एकस्याः भिन्नसङ्ख्यायाः एव प्राप्तिः भवति । तां सङ्ख्याम् अनन्त इत्यपि कथयितुं शक्नुमः । तस्मिन् किमपि योजयामः वा न्यूनं करिष्यामः तथापि तस्मिन् परिवरितनं न भवति इत्येतत् सर्वं भास्कराचार्येण उक्तम् । 

वर्गमूलस्य घनमूलस्य च सरला पद्धतिः अनेन दर्शिता । सः खगोलस्य गणितस्य च निष्णातः आसीत् ।  अतः तं खगोलगणितभ्यां जनाः तं स्मरन्ति वा उभयोः निष्णाताः तं स्मरन्ति इति ।  इतः परं शून्यस्य गुणधर्माणां व्याख्यां दत्त्वा समीकरणस्य संशोधनपद्धतिरपि तेन दर्शिता । सः ब्रह्मगुप्तस्य सिद्धान्त इति पुस्तके एकं श्लोकं लिखितवान् ।
सः श्लोकः - 

	वर्गचतुर्गुणितानां रूपाणां वध्यवर्ग सहितानाम् ।
	मूलमध्येनोन वर्ग द्विगुणो धृतं मध्यः ।।   
  

ब्रह्मगुप्तेन तादृशः चतुर्भुजस्य रचना कृता तस्य प्रक्रिया च बोधिता तस्मिन् सर्वेषां परिमाणं पूर्णमस्ति ।  सः भुजानां दैर्घ्यं , क्षेत्रफलं , वहिवृत्तस्य व्यासः, भुजानां प्रक्षेपः, कर्णानां प्रतिच्छेदेन च निर्मितखण्डानां परिमाणमपि पूर्णसङ्ख्यायां मिलति । ततः परं 1707-1783 तमे वर्षे  पाश्चात्त्यः गणितशास्त्री आयलर् इत्ययं चक्रिय चतुर्भुजस्य प्रक्रियां दर्शितवान् ।   ब्रह्मगुप्त मध्यवर्ति परिमाणस्य विषये द्वितीय स्तरस्य अन्तर्वेशन सूत्राणि अयच्छत् । तानि च साम्प्रतं वहु प्रसिद्धान सन्ति । सः चतुर्भुजस्य भुजानां क्षेत्रफलस्य, त्रिभुजस्य क्षेत्रफलं  कर्ण इत्यस्य दैर्घ्यं ज्ञातुं सूत्रं प्रदत्तमस्ति । तच्च सूत्रं यथा 

कर्णाश्रित भुज धातैव्य मुजायथान्योन्य भाजितं गुणयेत । 
योगेन भुजप्रति भुजवधयोः कर्णोपदे विषमे ।।

यदि a, b,c, d  च चक्रिय चतुर्भुजस्य भुजाः तर्हि 
कर्ण 1 = √((ad+bc)/(ab+cd)×(ac+bd) )
कर्ण 2 =√((ab+cd)/(ab+bc)×(ac+bd) )  एतत् सूत्रं ब्रह्मगुप्तस्य प्रमेय इति नाम्ना प्रसिद्धम् अस्ति । 
अर्थः अनुमानं कुरु ax+ bx = c  तर्हि√(4ac+b^2-b)/2a  साम्प्रतं गणितसूत्रं एतेन सह मिलति ।
Nx^2+ c=y^2   एतादृशां द्विघातीय अनिर्धार्य समीकरणानां समाधानार्थं ब्रह्मगुप्तेन द्वयोः पूर्वप्रमेययोः उपयोगः कृतः । सः पूर्वप्रमेयः साम्प्रतं आयलर् , लाङ्गरेज इति नाम्ना च प्रसिद्धौ अभवताम् । तौ पाश्चात्त्यगणितशास्त्रणां विद्वान्सौ स्तः ।  
ब्रह्मगुप्तेन जयामिति इत्यस्य कृते अपि महत्वपूर्णं योगदानं प्रदत्तम् । तेन त्रिभुज चतुर्भुज क्षेत्रफलस्य ज्ञानाय अपि सूत्रं प्रदत्तम् । 
तच्च यथा 

स्थूलफल त्रिचतुर्भुज बाहु प्रतिबाहुयोग दसवात । 
भुजयोगार्धचतुष्टय भुजोन घाताम् पदम् सूक्ष्मम् ।। 

भुजानां योगेन अर्धं चतुर्वारं लिखित्वा भुजां ऋणां करोतु गुणनं कृत्वा वर्गमूलं अन्विष्यतु 
। तत् साम्प्रतं डबल्यु सेल् (1617) इति नाम्ना प्रसिद्धम् अस्ति । ax + b = 0 , ax + bx + c = 0 एतत् द्वीघातीय समीकरणं जयामितेः समाधानं च प्रदत्तम् । अनेन सर्वप्रथमं गणितस्य बीजगणितस्य च विषये भेदः प्रदर्शितः । गणितस्य क्षेत्रेषु मौलिकप्रदानस्य कारणात् भास्कराचार्येण ब्रह्मगुप्तं गणकचक्र चूडामणि इति उपाधि प्रदत्ता । 

ब्रह्मगुप्तस्य गणितसाहित्यस्य अरबी फारसी इति उभायोः भाषयोः अभवत् । अरबी भाषायां सिन्द हिन्द इति नामकं पुस्तकं ब्रह्मस्फुट सिद्धान्त इत्यस्य अनुवादरूपमेवास्ति । । असमात् अनुवादात् एव भारतस्य गणितम् आरब-देशेषु ततः परं पाश्चात्त्यदेशेषु च अगच्छत् । भारतीयाः विद्वांसः स्वप्रेरणया गर्भजसंस्कारेण च संशोधनानि कुर्वन्ति स्म । तेषु तर्कस्य विज्ञानस्य च दृष्ट्या व्यवहारिकता अधिकाधिका दृश्यते स्म । विश्वस्मिन् गणितस्य नियमानां संशोधनानि अभूवन् तस्य प्रेरणास्त्रोतरूपेण  सन्दर्भरूपेण च अस्माकं गणितमेव मुखरमासीत् । । तस्मिन् ब्रह्मपुप्तस्य गणितस्य प्रत्यक्षेण परोक्षेण वा योगदानम् अस्त्यैव । प्राचीनगणितस्य विकासकथायां ब्रह्मगुप्तः इति नाम न स्यात् चेत् प्राचीनं गणितं अपूर्णमेवावशिष्यते । 

ब्रह्मगुप्तः महान् खगोलशास्त्री  गणितशास्त्रि च आसीत् । किन्तु तस्य वैचारिकाः अभिगमाः पारम्परिकाः आसन् । तस्य मानसे तत्कालीनस्य समाजस्य अधिकः प्रभावः आसीत् । । यदा सः गणितस्य विचारान् प्रस्तौति तदा समाजस्य अग्रजाः पुरोहिताः ,ज्योतिषज्ञाः च क्रोधाविष्टाः न भवेयुः इति ध्यायति स्म । सः कस्यापि विरोधं कर्तुं नेच्छति स्म । आर्यभट्टस्य मते पृथिव्याः स्वकीयं गुरुत्वाकर्शणमस्ति अतः सा स्वस्य धुरौ भ्रमति इति ।। किन्तु ब्रह्मगुप्तस्य मते पृथिव्याः बलं नास्ति वस्तूनाम् आकर्षणं तस्याः स्वभावः अस्ति इति । पृथिव्याः उपरि जलं स्वस्य स्वभावेन वहति । सः अन्येषां आर्यभट्टदीनां विचारात् भिन्नं विचारयति स्म । 

विशिष्टव्यक्तित्वधारी ब्रह्मगुप्ताय भास्कराचार्यः गणकचक्र इति उपाधिं दत्तवान् ।  भाष्यकाराः तस्य विवेचकाश्च ब्रह्मगुप्तस्य जन्मस्थलेन व्यतीतजीवनकातणात् तं भिन्नमालाचार्य इत्यपि कथयन्ति स्म । तदानीन्तने काल् भिन्नमालस्य उल्लेखः गुर्जरप्रान्ते भवति स्म । अतः ब्रह्मगुप्तः गुर्जरः आसीत् इति गौरवस्य विषयः । भिन्नमाल उत्तरगुजरातस्य महत्वपूर्णं स्थलमस्ति इति । 

येन दिवसस्य गणना कृता ब्रह्मगुप्तः तादृक् प्रथमः गणितशास्त्री आसीत् ।  तेन अपर्निशस्य गणनां कृत्वा एकस्मिन् वर्षे 365 दिनानि 6 घण्टाः 15 निमिषानि 19 पलानि च भवन्ति इति घटस्फोटः कृतः । साम्प्रतं वयं जानीमः यत् पृथिव्याः परितः सूर्यः एकां प्रदक्षिणां समापयति तदैव एकस्य वर्षस्य समापनं भवति इति । अस्याः भ्रमणदिशायाः आधारेणैव पृथिव्याः विविधेषु भूखण्डेषु ऋतूनां परिवर्तनं भवति स्म वातावरणस्य तापमाने अपि न्यूनाधिक्यं भवति स्म ।  ब्रह्मगुप्तेन यदा अस्याः गणनायाः संशोधनं कृतं तदा आधुनिकस्य विज्ञानस्य  यन्त्राणामपि  अभावः आसीत् ततापि सः साम्प्रतगणनायः निकटस्थः अस्ति । साम्प्रतगणनानुसारं वर्षस्य 365 दिनानि 6 घण्टाः 48 निमिषानि 45 पलानि च सन्ति । तदानीन्तने काले ब्रह्मगुप्तेन इदं संशोधनं कया रीत्या कृतम् तत् आश्चर्यस्य विषयः । 

	(-a) – 0  =  (-a)
	A- 0        =  a
	0 - 0       =  0
	0 – (-a)  =  a
	0 – a      =  (-a)
	a x 0      =  0 (-a) x 0 = 0
	 0 x 0     =  0
ऊर्ध्वोक्ताः नियमाः शून्यस्य विभिन्नाङ्कस्य स्वरूपस्य विषये सन्ति । इत्थमेव नालम् तेन ऋणात्मक अङ्कानां शून्यस्योपरि या गणना अस्ति  तस्य गणितस्यापि सर्वेषां नियमानां वर्णनं तस्य ग्रन्थेषु दृश्यते । ते नियमाः अपि आधुनिकस्य गणितस्य निकटवर्तिनः सन्ति इति । तेन शून्यस्य विभाजनाय अपि नियमः प्रदत्तः  0 ÷ 0 = 0 किन्तु अयं नियमः अमान्यः अभवत् ।

AF = FDCoxeter, H. S. M.; Greitzer, S. L.ः Geometry Revisited. Washington, DCः Math. Assoc. Amer., p. 59, 1967

  at cut-the-knot

प्रमेयः                         सूत्रम्    

गणितं मूलतः गणनायाः आधारितः तर्कैः साध्यः व्यवहारस्य विषयः अस्ति । किन्तु तस्मिन् रसः न स्यात् चेत्  खिन्नतायाः विषयः भवति इति ।  किन्तु अस्माकं प्राचीनैः गणितशास्त्रिभिः श्लोकानां माध्यमेन गणितस्य बोधः कारितः इति आनन्दस्य विषयः । गणितस्य ग्रन्थाः काव्यवत् गानस्य योग्यया रीत्या सम्पादिताः इति । अतः गणितं विद्वत् जनेषु एव पिहितं नाभवत् अपि तु प्रतिजनं गतः इति ।

गणितस्य ग्रन्ते ब्रह्मस्फुटसिद्धान्ते कर्णस्य, भुजानां, चक्रियचतुर्भुजस्य, वर्गमूलस्य,घनमूलस्य विषये च प्रतिपादितमित् ।

त्रिभुजस्य वधो भुज्यो द्वीगुणित लम्बोद्वतो हृदयरज्जुः 
साद्विगुणिता त्रिचतुर्भुज कोण स्पृग्वृत विष्कम्भ ।
स्थूलफलम् त्रिटतुर्भुज बाहुप्रतिबाहु योगदलघातः 
भुजयोगार्थ चतुष्टय भुजोनघात पद्मसूक्षम् ।।

कर्णाश्रित भुजघातैक्य मुभयथान्यो भाजित गुणयेत् ।
योगेन भुजप्रति भुजवभयोः कर्णोपदे विषये ।।

हृदयं विषमस्य भुजप्रतिभुज कृतियोग मुलाधर्म
जात्थद्वथकोटिभुजाः परकर्णगुणाः भुजाश्चतुर्विषमे
अधिकोभूर्मुखम हीनो बाहु द्वितयम भुजावन्यो ।।

क्षेत्रफलं बेधगुणं समखातफलं हतं त्रिभिः सुरयाः
मुखतल तुल्य भुजैकन्यान्येका ग्रहतानि समरज्जुः ।
प्रथम द्वीतीय नृजलान्तरेणोद्वता जलायसृति 
द्वष्टयोच्चय गुणोच्छा यस्तोयान्त जलान्तरगुणाभुः ।। 

युरोपखण्डे सिकन्दरिया इत्यस्य युनानि विद्याकेन्द्रे  युकिलिक्, एपोलोनियस्, आर्किमिडिस्, हेरोन् तालिमी च इत्येते गणितज्ञाः ज्योतिषज्ञाश्च अभूवन् । किन्तु ततः परं 800 वर्षाणि यावत् तत्र एकः अपि गणितज्ञः नाभवत् इति । अतः गणितक्षेत्रस्य विकासः नाभवत् इति । अस्मादेव कारणात्  युरोपखण्डस्य सः समयः अन्धकारयुग इति नाम्ना प्रसिद्दः अभवत् । तदानान्तनो काले भारतदेशे आर्यभट्टः, ब्रह्मगुप्तः, महावीराचार्यः,भास्कराचार्यादिभिः गणितज्ञैः भारतीयं गणितं समृद्धियुक्तं कृतमिति ।

युरोपखण्डे नवजागृतियुगस्य आरम्भः 11 शताब्द्याम् अभवत् । मूलतया ईसाई तत्वज्ञैः सीरियाइ, युनानि संस्कृतस्य च ग्रन्थानामनुवादः कृतः । संस्कृतात् गणितस्य अनुवादः कृतः तत् ब्रह्मगुप्तनिर्मितमासीत् । तस्य ग्रन्थानां आरब-भाषायामनुवादः सन् युरोपखण्डादिषु तस्य बहुप्रचारः अभवत् इति । अतः ब्रह्मदुप्तः तेषाम् आद्यगुरुः मन्यन्ते । 

महम्मद पयगम्बर इत्यस्य मृत्योः शतं वर्षान्ते इस्लामधर्मस्य विकासः अभवत् । तस्य उत्तराधिकारि खलिफा सिंहः सिंध प्रन्तात् स्पेने यावत् स्वशासनलालकः अभवत् । तेन 762 तमे वर्षे  दजला नद्याः तटे बगदाद-नगरस्य स्थापना कृता ।   बगदाद-नगरस्य कीर्तिः प्रतिदिनं वर्धिता भवति स्म । तस्य शासने प्रथमवारं गणतग्रन्थानाम् आरबभाषायाम् अनुवादः अभवत् इति । एकया किं वदन्त्याः आधारेण सिधप्रान्तस्य  एकं सङ्घटनं खलिफा सिंहः इत्येतं मिलितुम् अगच्चत् ।  तेषु कङ्क इति नामकः कश्चन पण्डितः अपि आसीत् । सः गणितस्य ज्योतिषस्य च ग्रन्थान् बगदाद-नगर प्रति अनयत् । अतः गणितस्य क्षेत्रे ईस्लामधर्मस्य विकासः अभवत् इति । 

ब्रह्मगुप्तस्य बीजगणितक्षेत्रे महत्वपूर्णं योगदानम् अस्ति । बीजगणिते शून्यस्य उपयोगकर्ता सः प्रथमः भारतीयः आसीत् । कारणं तस्मिन् युगे बीजगणित इति शब्दस्य अस्तित्वं नासीत् । तेन बीजगणित इत्यस्य कृते कुट्टक इति शब्दप्रयोगः कृतः ।। बीजगणित इति शब्दप्रयोगः  ब्रह्मस्फुट इति ग्रन्थस्य टीकाकारेण पृथृदक स्वामी इत्यनेन 860 तमे वर्षे कृता । प्रख्यातेन इतिहासकारेण सार्टन् इत्यनेन  ब्रह्मगुप्ताय भारतस्य महान् गणितज्ञः इति उपाधिः प्रदत्ता ।

ब्रह्मगुप्तस्य विचाराः प्रायशः पुराणपन्थिनः आसन् किन्तु तथापि सः एकः गणितज्ञः खगोलज्ञश्चासीत् । ब्रह्मस्फुटसिद्धान्तस्य यन्त्राध्याये तेन खगोलयन्त्रस्य विषये बोधितमस्ति । । तुरीय यन्त्रस्य संशोधनं तेन कृतमित्यपि कथनम् लोकप्रसिद्धमस्ति । तुरीययन्त्रं चन्द्राकारस्य आसीत् । ततः प्राक् अवकाशदर्शनार्थं गोलयन्त्रस्य उपयोगः भवति स्म ।

ब्रह्मगुप्तस्य अनेन कार्येण भारतीयाः आरब-देशीयाश्च तान् नितरां स्मरन्ति इति । भारतीयगणितज्ञेषु तस्य नाम मुकुटमणि एव शोभायमानम् अस्ति इति । भारतीयगणितस्य अङ्कपद्धत्याः गणितस्य च विषये आरब-देशीयाः जानन्ति स्म किन्तु अस्य ग्रन्थानाम् अध्ययनेन तैः भारतीयं गणितं अङ्कपद्धति च आत्मसाध कृता इति । इत्थं तस्य नितरां स्मरणमेव तस्य सर्वोच्चं सम्माननम् अस्ति इति ।

महता गणित शास्त्रिणा अल् ख्वारिजम् इत्यनेन बीजगणितस्य एकं पुस्तकं व्यलेखि तस्य महत्तमः आधारः ब्रह्मगुप्तस्य गणितम् आसीत् इति । तस्य पुस्तकस्य एव युरोपभाषायाम् अनुवादः अभवत् इति । ततः अलगोरिधम् इति शब्दः प्रसिद्धः अभवत् । सः शब्दः अल् ख्वारिजम् इत्यस्य पुस्तकात् स्वीकृतः यस्य उपयोगः सङ्गणकस्य (computer) गणनायाः गाणितिकसूत्रेषु अद्यापि भवति इति । आरबदेशीयानां कारणात् भारतीयानां गणितस्य सिद्धान्ताः युरोपखण्डं प्रति गताः किन्तु तस्य मूलं तु ब्रह्मगुप्तः आसीत् स च भारतीयः आसीदिति । 

ब्रह्मगुप्तस्य मृत्योः विषये कुत्रापि किमपि न लभ्यते किन्तु ऋषित्वात् सः दीर्घायुषी आसीदिति सर्वे आमनन्ति । गणितस्य क्षेत्रे तस्य जावनस्य सुगन्धः अध्यापि दृश्यते इति ।




#Article 22: वन्दे मातरम् (222 words)


गीतमिदं बङ्किमचन्द्र चटर्जी महोदयेन रचितम् । १८७० तमे वर्षे ब्रीटिशजनाः गाड सेव द क्वीन गीतम् सर्वैः गातव्यम् इति नियमं कृतवन्तः । आङ्ग्लजनैः कृतस्य एतस्य आदेशस्य कारणातः बङ्किमचन्द्रस्य मनसि महान् रोषः उत्पन्नः । सः तस्मिन् काले ब्रिटिशसर्वकारे कार्यरतः आसीत् । प्रायः रोषस्य कारणतः सः वन्दे मातरम् गीतस्य रचनां गाड सेव द क्वीन गीतस्य विकल्परूपेण १८७६ तमे वर्षे कृतवान् । 

प्रारम्भे एतस्मिन् गीते पङ्क्तिद्वयम् आसीत्, तत् अपि संस्कृते एव । १८८२ तमे वर्षे यदा सः आनन्दमठः नाम्ना वङ्गभाषया कादम्बरीं लिखितवान्, तदा वन्दे मातरम्-गीतस्य अपि विस्तारं कृत्वा योजितवान् । विस्तारावसरे अस्मिन् वङ्गशब्दाः अपि योजिताः अभवन् ।  आनन्दमठे  क्रूरैः मुस्लिमराजैः संन्यासिनां विरोधः यः प्रदर्शितः तस्य कथा अस्ति । एतस्यां कादम्बर्यां संन्यासिनः वन्दे मातरं गीत्वा उत्साहं प्राप्य युद्धं कृतवन्तः ।

वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम्

सस्य श्यामलां मातरं .
शुभ्र ज्योत्स्ना पुलकित यामिनीम्

फुल्ल कुसुमित द्रुमदलशोभिनीम्,
सुहासिनीं सुमधुर भाषिणीम् .
सुखदां वरदां मातरम् .. वन्दे मातरम् 

सप्त कोटि कण्ठ कलकल निनाद कराले
निसप्त कोटि भुजैर्ध्रुत खरकरवाले

के बोले मा तुमी अबले
बहुबल धारिणीं नमामि तारिणीम्
रिपुदलवारिणीं मातरम् .. वन्दे मातरम् 

तुमि विद्या तुमि धर्म,तुमि हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे

बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारै प्रतिमा गडि मंदिरे मंदिरे .. वन्दे मातरम् 

त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदल विहारिणी

वाणी विद्यादायिनी,नमामि त्वाम्
नमामि कमलां अमलां अतुलाम्
सुजलां सुफलां मातरम् .. वन्दे मातरम् 

श्यामलां सरलां सुस्मितां भूषिताम्
धरणीं भरणीं मातरम् .. वन्दे मातरम्




#Article 23: वेदः (819 words)


वेदः स्वरूपभेदात् त्रिविधः — ऋग्वेदः, यजुर्वेदः सामवेदश्चेति । यत्रार्थवशेन पादव्यवस्थाऽस्ति तेषां छन्दोबद्धानां मन्त्राणां नाम ‘ऋक्’ इति वेद्यम् । ऋचां समूह एव ‘ऋग्वेद' इति पदेन व्यवह्रियते । यजुः इत्येतत्पदं यज् धातोः उसि प्रत्यये कृते निष्पद्यते । यस्मिन् वेदे यज्ञयागादिक्रियाकलापानुरोधेन मन्त्राणां सन्निवेशोऽस्ति स ‘यजुःवेद' इति निगद्यते । यत्र गीतिरूपा मन्त्राः विद्यन्ते स उपासनाकाण्डपरो वेदः ‘सामवेद' इति गीयते । मन्त्राणां त्रिविधत्वात् वेदाः ‘त्रयी' इति नाम्ना प्रसिद्धाः सन्ति । मन्त्राणां समूहः ‘संहिता' इत्येतेन व्यपदेशेन व्यपदिश्यते । यज्ञानुष्ठानं दृष्टौ निधाय विभिन्नर्त्विजां कृते संहितानां सङ्कलनं वेदव्यासश्वकार । मन्त्रसंहितानां सङ्कलनं चतुविधतया कृतं, तस्मात् संहिताः सन्ति चतस्रः - ऋक्संहिता, यजुःसंहिता, सामसंहिता, अथर्वसंहिताश्चेति । अत एव वेदाश्चत्वारः स्मृताः ।

एकैवासीद् यजुरवेदः चतुर्धाः व्यभजत् पुनः ||- गरुडपुराण |
संरचनागत स्वरुपेण वेदाः त्रयीति शब्देन कथ्यते |
वेदत्रयी-ऋक्सामयजुरेव च |
येतन्मण्डलं तपति ......स ऋचां लोकः| .......तानि सामानि स साम्नां लोकः | ........स यजुषां लोकः | इति शतपथे मण्डलब्राह्मणे |
चत्वारः वेदाः भवन्ति । ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति । एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागाः सन्ति ।  वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभावतां ऋषीणां योगदानानि भवन्ति ।  एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति । 
संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे तु श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि । प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते ।
	मन्त्रश्च ब्राह्मणश्चैव द्वावेतौ वेदसंज्ञकौ |
कण्ठं भित्वाविनिर्यातौब्रह्मण उत्तमांगतः|| इति|
प्रधानतया वेदो द्विविधः मन्त्ररूपो ब्राह्मणरूपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूप बोधकतया वैदिकविधिप्रयोगविवरणया च प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते ।
संहिताभागः ब्रह्मचारिणामुपयोगी,
ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।

अनादिनिधनाः वेदाः ब्रह्मणः चतुर्भ्य मुखेभ्यः निःस्सृता इति प्राक्तनैः निरूपितम् । अकारात् भूः ऋक्, उकारात् भुवः यजुः,मकाराच्च स्वः सामः ,इति च | त्रयीं तिस्रो वृत्तिः त्रिभुवनमथो त्रीनपि सुरानकाराद्यैः वर्णै .....इति पुष्पन्ताचार्यै ओंकारवर्णनप्रसंगे |

वेदानां वेदाविर्भावकालमधिकृत्य वैदिकविद्वत्सु गम्भीरो मतभेदो दृश्यते। भारतीयसभ्यतायाः प्राचीनतमं रूपं विज्ञातुं वैदिकग्रन्थानामुपयोगिता नितान्तं माननीयाऽस्ति, सिद्धान्तस्यास्य स्वीकरणे केषाचिदपि विदुषां केनाऽपि प्रकारेणापत्तिर्नास्ति । किश्चास्याः वैदिकसभ्यतायाः ज्योतिः कदाऽस्यार्यावर्त्तस्य पवित्रभूमिमालोकितामकरोत् ? कस्मिन् काले पावनचरितानाम् ऋषीणां चित्ते आध्यात्मिकज्ञानस्य दिव्यसन्देशं दातुमियं कामना जागृताऽभवत् ? कदा तैरलोकसामान्यगूढार्थविजृम्भितमन्त्राः अरच्यन्त ? एतेषां प्रश्नानां समुचितोत्तरमधुना न कोऽपि दातुं समर्थः, न चाऽपि भविष्यतिकाले कोऽपि दातुं समर्थो भविष्यति। 

भारतीयदृष्टयां ये विद्वांसः श्रद्धां निदधति, तेषां समक्षे तु वेदकालनिर्णयस्य प्रश्न एव नोत्तिष्ठति । तेषां दृष्टया तु वेदाः सन्ति अनादयः । सन्ति ते नित्याः कालापरिच्छिन्नाः । परं पाश्चात्यानां वेदज्ञानां पण्डितानां किञ्च तदनुयायिनां केषाञ्चन भारतीयानां सम्मत्यां तदाविर्भावकालसम्बन्धी प्रश्नो विद्यत एव समाधेयः । प्राचीनभारतीयाः विद्वासो वेदान् अपौरुषेयान् मन्यन्ते, तेषां मते तु वेदरचनाकालविचारो निरर्थको दुरर्थकश्च । पाश्चात्याः विद्वासो यथाबुद्धिवैभवं वेदरचनाकालं निर्धारयन्ति । पाश्चात्यविचारसरणिविदो भारतीयाः अनुसन्धित्सवोऽपि तेनैव मार्गेण वेदकालं निर्णेतुं यतन्ते ।

डॉ० मैक्समूलरमहोदयः १८५९ ख्रीष्टाब्दे स्वकीये प्राचीनसंस्कृतसाहित्याभिधाने ग्रन्थे वेदानां कालं निर्णेतुं प्रयासं विहितवान् । तस्य सम्मतौ वेदेषु प्राचीनतमस्य ऋग्वेदस्य रचना १२०० वि० पू० काले सम्पन्नाऽभवत् । अनेन तस्य मतेन ऋग्वेदस्य रचना ११५० ई० पू० समीपे जाता इति। मानवकल्याणार्थम् अस्मिन्देशे अभिनवबौद्धधर्मस्योदयः समस्तवैदिकवाङमयस्यास्तित्वमङ्गीकरोति । किञ्चास्य बौद्धधर्मस्योदयात् प्रागेव च ब्राह्मणग्रन्था अपि व्यरच्यन्त । बुद्धेन ब्राह्मणग्रन्थेषु विवेचितानामेव यागविधीनां कष्ट्वी अलोचना क्रियते स्म, अपि च उपनिषत्समर्थितं कतिपयतत्त्वजातम् आत्मसात् क्रियते स्म । अतो बुद्धात् पूर्वतना (५०० ई० पू०) एव ब्राह्मणोपनिषद्भागाः सम्भवन्ति । वैदिकसाहित्ये चत्वारि युगानि सन्ति - छन्दोयुगम्, मन्त्रयुगम्, ब्राह्मणयुगम्, सूत्रयुगञ्चेति । प्रत्येकं युगस्य विकासे तेन वर्षशतद्वयात्मकः कालः कल्पितः, तदनुसारेण बुद्धात् ६०० वर्षतः पूर्वं छन्दोयुगस्यास्तित्वं समायाति । अतः ऋग्वेदस्य रचना ११५० ई० पू० समयात् पश्चात्कालिकी न सम्भवतीति। सम्प्रति जातस्य ऋग्वेदस्य ३२०० वर्षाणि जातानि इति कथयितुं शक्यमिति तदाशयः ।

डा० मैक्समूलरमहोदयः ऋग्वेदस्योदयविषये कांश्चन बिन्दून् आधृत्यैवोक्तां सम्भावनाञ्चकार । न स स्वाङ्गीकृते वेदाविर्भावविषये वस्तुतो निश्चयं गत आसीत् । यतो हि स एकस्मिन् समये भाषमाणः स्वयमेव अभिदधौ यत्, नात्र भूतले काऽपि शक्तिरीदृशी या वैदिकमन्त्ररचनायाः कालं वक्तुं शक्नुयात् निश्चप्रचतया । स इमं विचारं १८८९ शततमे ईशवीयेऽब्दे भौतिकधर्माख्यायां जिफोर्ड-व्याख्यानमालायां प्रकटीचकार । किञ्च तदनुसारिणः पाश्चात्यास्तदीयैरेव तर्कैः कालममुं निश्चयरूपेण कथयितुं प्रवृत्ताः ।

भारते षड् ऋतवो भवन्ति । अमी ऋतवः सायन- निरयण सूर्यसंक्रमण निमित्तकाः । सायनचान्द्रमासद्वयात्मिका  च |यथा- विष्णुपराणे २|८|८१ तपस्तपस्यौ मधुमाधवौ च  शुक्रश्शुचिश्चायनमुत्तरं स्यात् |
नभोनभस्यौ च इषोर्जसंज्ञौ सहस्सहस्याविति दक्षिणं च| 
उक्तं सुश्रुतसंहितायां- तपस् तपस्यौ शिशिरः,मधुमाधवौ वसन्तः,शुचिशुक्रौ ग्रीष्मः ,नभोनभस्यौ वर्षा ,इषोर्जौ शरत्,सहस्सहस्यौ हेमन्तः इति  |शिशिराद्युत्तरायणम्  ,वर्षादिदक्षिणायनम्,द्व्ययने युगपत्संवत्सरो भवति| ते तु पञ्च युगमिति संज्ञां लभन्ते तदेतन्निमेषादियुगपर्यन्तः कालश्चक्रवत् परिभ्रमति |उक्तं वेदांगज्योतिषे माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः|
युगस्यपञ्चवर्षस्य कालज्ञानं प्रचक्षते ||
सायनसौर उत्तरायणारम्भदिन सन्निकटशुक्ल प्रतिपद्यां अमान्तचान्द्र माघमास आरम्भ भवति|स एव वेदोक्त तपोमासः | ततः पञ्चवर्षात्मकयुगस्य नववर्षारम्भ भवतिव| वर्षान्तं च पौषकृष्णअमावास्यां भवतीति शेषः | इति लगधप्रोक्त वेदांगज्योतिष विषयः | लोके इदमपि प्रसिद्धं यत् प्राचीनकालादधुनापर्यन्तममी ऋतवः पश्चात्सर्पन्ति, अर्थात् पूर्व यत्र नक्षत्रे यस्यर्त्तोरुदयो जायते स्म सम्प्रति स एवर्त्तुस्ततः पूर्ववर्तिनि नक्षत्रान्तरे उदितो भवति । पुराकाले वसन्तो वर्षादिरभवत्, अत एव तस्य प्रशस्ततया भगवद्विभूतिभाव उक्तो गीतायां- ‘ऋतूनां कुसुमाकरः’ इति । सम्प्रति वसन्तसम्पातः मीनसङ्क्रान्तिकालादारभते, मीनसङ्क्रान्तिश्च पूर्वभाद्रपदनक्षत्रस्य चतुर्थचरणे भवति । सेयं स्थितिर्नक्षत्राणां क्रमशः पश्चात्सर्पणेनोत्पन्ना । पूर्वं कदाचिद् वसन्तसम्पातः उत्तरभाद्रपदरेवती-अश्विनी- भरणी –कृत्तिका- मृगशिरः प्रभृतिषु नक्षत्रेष्वासीत्, ततः पश्चात्सर्पन्नयं वसन्तसम्पातः साम्प्रतिकीं स्थितिमनुप्रपन्नः ।

अयं हि महानुभावः वेदे निर्दिष्टानि अनेकानि भूगर्भशास्त्रीयतत्त्वानि विशेषतः आर्यावर्त्ततश्चतुर्दिक्षु चतुःसमुद्रीयां स्थितिमाधारीकृत्य गणनाद्वारा वेदस्य समयं २७ सहस्रसंवत्सरपूर्वं मन्यते। स्वकीये 'ऋग्वेदिक इण्डिया' (Rigvedic India) नामके पुस्तके अयम् अलिखत् यत्, भौगोलिकीः किञ्च भूगर्भसम्बन्धिन्यो घटनाः अवलम्ब्य ऋग्वेदीयाः रचनायाः अथ च तत्कालवर्त्तिन्याः सभ्यतायाः प्रादुर्भूतायाः प्रायेण सप्तविंश तिसहस्राब्दा अतिक्रान्ताः इति।




#Article 24: चलच्चित्रम् (662 words)


मनोविनोदक्षेत्रेऽपि विज्ञानस्य प्रभावोऽविस्मरणीयः। चलचित्रं रूपकस्य एवं आधुनिकस्वरूपं विद्यते। रूपयतीति रूपकम्। तद्वपारोपातु रूपकम्। 
तद्रूपकमभेदो यः उपमा-उपमेययो:। 
उपमानोपमेययोः साम्यप्रदर्शनाय काल्पनिकोऽभेदारोपः रूपकम्।।  
रूपकं संस्कृत-साहित्यस्य एकं गौरवपूर्णं अंगमस्ति। नाटकान्तं कवित्वम्। काव्येषु नाटकं रम्यम्। इत्यनेन सिद्धयति यत्–नाट्याख्यः पञ्चमो वेदः। अवस्थानुकृतिर्नाट्यम् आधुनिकयुगे ये खलु नवीनाः नवीनाः आविष्कारा भवन्ति तेषु आविष्कारेषु 'सिनेमेति नाम्ना प्रसिद्धस्य चलचित्रस्य महत्त्वपूर्ण स्थानं विद्यते। अनेन आविष्कारेण जगति जनजीवने च महती क्रान्तिः समुपस्थिता। इदं चलचित्रम् अस्मिन् युगे जनजीवनस्य अभिन्नांग जातम् अस्मिन् संसारे सर्वेषु प्राणिषु मानवः खलु विवेकोन सर्वश्रेष्ठत्वं भजते। ये जनाः विवेकिनः सन्ति, श्रमार्ते सति ते खलु सर्वे मनोविनोदाय प्रयत्नानि कुर्वन्ति। ईदृशानां तेषां जनानाम् आवश्यकतां पूत्र्यर्थ वैज्ञानिकैः अनेके आविष्काराः कृता वर्तन्ते। तेषु आविष्कारेषु चलचित्रमपि एकः उत्कृष्टः आविष्कारोऽस्ति। अनेन आविष्कारेण जना: विश्रान्तिकाले मनोरञ्जनं कुवंति। इदानी चलचित्रस्य प्रभावः आबालवृद्धनरनारीसमेतानां समस्तानाम् मानवानामुपरि विराजते। चलचित्रपटे परस्परं सम्भाषणं कुर्वन्त:, नृत्यन्तः, कृद्रन्तः, गायन्तः, युध्यन्तः, नायकाः, नायिका:, शरणागतान् रक्षन्तः शूराः, प्रवहन्त्यो, नद्यः, कल्लोलवन्तः सागराः, द्योतमाना विद्युतः, वर्षन्तः गर्जन्तश्च मेघाः, विकसितानि उद्यानानि, नगराणां भग्नावशेषाः, काननानां कर्तनम् किं किं वर्णयाम: यद्-यद् मानवः विचारयति तत्सर्वं चित्रपटे द्रष्टुं शक्यते। एवं च ऐतिहासिकविषयाः भौगोलिकी चर्चा च, यथा कुत्र के के आविष्काराः कृता वैज्ञानिकैः कथं तेषामारम्भः, इत्यादिकं समस्तं वस्तुजातं द्रष्टुं दूरस्था अपि प्रभवन्ति चलचित्रपटसहकारेण । 

संस्कृतसाहित्ये गद्यपद्ययोरनन्तरं रूपकस्य प्रमुख स्थानइति कथ्यते। भारतीयपरम्परानुसारं रूपकस्योत्पत्तिः त्रेतायुगे संजाता। रूपकस्रष्टा ब्रह्मास्ति। भरतस्यानुसारं देवानां प्रार्थनया ब्रह्मदेवः ऋग्वेदात् पाठ्यम्, यजुर्वेदाभिनयम्, सामवेदात् गीतम्, अथर्ववेदाद्रसं स्वीकृत्य रूपकं रचितवानिति ज्ञायते। रूपकस्य प्रवर्त्तकः भरतमुनिः रूपक 'सार्ववार्णिकपञ्चमवेद' इति वर्णितम्। यथा-
जग्राह पाठ्यं ऋग्वेदात् सामभ्यो गीतमेव च।

यजुर्वेदादभिनयान् रसानाथर्वणादपि॥ (नाट्यशास्त्रम्) 

इन्द्रध्वज-महोत्सवं पुरस्कृत्य इदं प्रथमतया भारतभूभागे अभिनयो जातम्। अत: इदं वेदतुल्यमेव। रूपकं तु दृश्यकाव्येष्वन्तर्भवति। श्रव्यकाव्य-शिक्षणे श्रवणेन्द्रियमेव कार्यं करोति। दृश्यकाव्यशिक्षणसमये श्रवणेन्द्रियं चक्षुरिन्द्रियं उभे अपि कार्यं कुरुतः। अतः श्रव्यकाव्यापेक्षया दृश्यकाव्यस्यैव अत्यधिकं प्रामुख्यम् अस्ति। नाटकस्य संस्कृते विशिष्टं स्थानं वर्त्तते। छात्राः अपि रूपकाध्ययने अहमहमिकतां प्रदर्शयन्त्येव। 

नाटकम् शब्दोऽयं ‘नट्'धातोः निष्पन्नो वर्तते यस्यार्थास्सन्ति-नृत्यम्, अभिनयः, अनुकरणञ्च। लोके विद्यमानानां इतिवृत्तानां घटनानां वा चित्रणमेव नाटकम्। कालिदासेन उक्तम्‘‘नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्। चलचित्रे चतुर्विधः अभिनयो भवति, 

दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम्।
विश्रामजननं लोके नाटयमेतद् भविष्यति। (नाटयशास्त्रम्) ।

प्रारम्भिकं समये नाट्यस्य अस्य अभिनेयैः जनैः अनेकैः मञ्चैः क्रियते स्म समाजे, किन्तु अस्मिन् वैज्ञानिकयुगे अस्य खलु नाटकस्य अभिनयः चलचित्रमाध्यमेन क्रियते। मनोरञ्जनकरं च वर्तते। -

यदि वयं चलचित्रस्य आविष्कारविषये दृष्टिनिपेक्षं कुर्मः, तर्हि ज्ञायते यत् सर्वप्रथमं 1889 ईस्वीये वर्षे श्रीमता एडसिस-महाभागेन अमेरिकादेशे मूकचलचित्रस्य आविष्कारः कृतः आसीत्। भारतेऽपि 1912 ईस्वीये वर्षे मूकचलचित्रस्य सफलतया निर्माणं सञ्जातम्। तदानीं चित्रेषु वाण्यभावो दृश्यते स्म, केवलं सङ्केतेनैव सर्वाणि पात्राणि स्व-अभिप्रायं प्रकटयन्ति स्म। तदनन्तरं अनेकेषां वैज्ञानिकानां प्रयासेन मूकचलचित्रे ध्वनिरपि संयोजिता ।  भारतवर्षे एतत् 1923 ईस्वीये वर्षे विनिर्मितम् आसीत् ।

रूपकशास्त्रे भरतमुनिना रूपकस्य त्रिणी प्रयोजनानि उक्तानि-  

सर्वधर्मान् परित्यज्य सर्वकर्माणि विहाय च चलचित्रपटस्य विलोकनाय सर्वे जनाः गच्छन्त्यहर्निशम्। चलचित्र नाट्याभिनययुक्तं लघुद्रव्यव्ययसाध्यं सर्वप्रथमं मनोरञ्जनस्य साधनम् अस्ति। प्रायः सर्वेषु नगरेषु ग्रामेषु च चलचित्रगृहाणां स्थितिः प्रतीयते। तत्र बहवः नागरिकाः चलचित्रं प्रतिदिनं पश्यन्ति। एकस्मिन् दिवसे प्रायः चलचित्रगृहे चतुः वारं चलचित्रं चाल्यते। अनेन प्रकारेण अतीव लोकप्रियम् एतत् सञ्जातम्  मनोरंजनसाधनम्। तत्र मानन्दस्य यां परां कोटिं प्राप्नोति मानवः सा तु अन्यत्र दुर्लभा। अस्य कारणमिदं यत् चलचित्रेषु सर्वेषु नृत्य-गीत-वाद्य-हास्य-अभिनय-संग्रामादयः सर्वेऽपि क्रियाकलापाः यथार्थरूपेण प्रदर्श्यन्ते। अनेनैव अद्यत्वे एतत् मनोरञ्जनसाधनेषु महत्त्वपूर्णं सञ्जातम्।

यदि चलचित्रस्य प्रयोगः शिक्षाविस्तारप्रसारणे प्रशिक्षणे च क्रियेत तर्हि महान् लाभः भवितुं शक्नोति। अधुना सर्वकारेण अनेन माध्यमेन शिक्षायाः प्रसारः क्रियते। एवमेव सूचनाविभागेषु सूचनायाः प्रसारणार्थम् अपि अस्य साधनस्य उपयोगो भवति। स्वास्थ्यविभागोऽपि अस्मिन् विषये विशेष-प्रयत्नवान् दृश्यते। एतदतिरिक्तं बालानां कृते तु अस्य चलच्चित्रस्य उपयोगिता महती वर्तते। यतोहि ते अपरिपक्वबुद्धयः भवन्ति। अतः , अनेन माध्यमेन अध्ययनविषये तेषां रुचिं अधिकां उत्पादने समर्थाः भवितुं शक्नुमः वयम्। अधुना अस्माकं समाजे प्रौढशिक्षायाः प्रचारः अधिकः क्रियते। अतः अल्पज्ञाः ग्रामवासिनः अनेन माध्यमेन सहजतया शिक्षां अपेक्षितां ग्रहीतुं सक्षमाः सन्ति। अनेन प्रकारेण चलचित्रेण खलु सर्वेर्षा जनानां महान् लाभो भवति।
। 

यत्र बहवो गुणाः सन्ति तत्रैव तेषां मध्ये दुर्गुणाः अपि तिष्ठन्ति। यथेदं चित्रपटदर्शनं अश्लीलात्मकवर्णनकथानकदृश्यैः बालान् युवकांश्च वासनावासितान्त:करणान् करोति। तत्र गत्वा युवक-युवतयश्च विशेषतः दुर्गुणमेव गृह्णन्ति। कोचित् जनाः अधिकं धनार्जनं करणाय चलचित्रगृहेषु अश्लीलचित्राणां प्रदर्शनं कुर्वन्ति। तेषु चित्रेषु बहूनि तु नग्नानि एव भवति। ईदृशानि लज्जाकराणि चित्राणि अवलोक्य अस्माकं देशस्य निर्मातारः युवकाः कुमार्गगामिनः भवन्ति। ईदृशान् दृश्यान् विलोक्य अल्पमतिबालका: चरित्रभ्रष्टा: जायन्ते । 

श्रवणापेक्षया प्रत्यक्षदर्शनेन मानवानां हृत्पटले अधिकः प्रभावः भवति। अनेन प्रकारेण दर्शं दर्श चलचित्रपटमल्पज्ञाः ग्रामीणा अपि विशेषज्ञा भवितुं शक्नुवन्ति। बालानां शिक्षणेऽपि अस्य महानुपयोगः। तान् शिक्षासबन्धीनि दृश्यानि दर्शयित्वा पठनविषये तेषां रुचिमधिकां कर्तुं शक्यते। विज्ञापनानि तेषामेव माध्यमेन सफलानि भवन्ति। पत्र-पत्रिकादयोऽपि चलचित्रसन्देशं चित्रपटं च समाश्रित्य स्वकीयमाकर्षणं च वर्धयन्ति। चलचित्रभवनान संख्या तीव्रवेगेन वर्धते। भारते सहस्रसंख्यकानि चलचित्राणि निर्मितानि सन्ति। चलचित्रैः जनाः प्रसन्नतां ज्ञानञ्चाप्नुवन्ति। इदं सर्वं सदपि चलचित्रे महन्ति दूषणानि
अपि सन्ति । 




#Article 25: काव्यम् (455 words)


काव्यं  (Kavyam) इत्येतत् साहित्यप्रकारः अस्ति । कवेः कर्म काव्यम् । कविः तु दार्शनिकः । काव्यस्य परिभाषाः अनेकाः सन्ति, किन्तु सर्वमान्या मुख्या परिभाषास्ति वाक्यं रसात्मकं काव्यम्  इति । अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् काव्यम् इति कथ्यते। रस, छन्दोभिः अलङ्कारैः युक्तं काव्यम् आनन्दोत्पत्तिं करोति। रमणीयार्थप्रतिपदकं वाक्यं काव्यम् इति कथ्यते । कवितायाः (Kavita) परिभाषाऽनेकाः सन्ति , किन्तु सर्वमान्या मुख्या परिभाषास्ति  वाक्यं रसात्मकं काव्यम् अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् वाक्यं कविता इति कथ्यते। रस,छन्द।छन्दालंकारैः युक्ता कविता आनन्दोत्पत्तिं करोति।
महात्मना तुलसीदासेन उक्तं यत् ---कीरति भणिति भूति भलि सोई । सुरसरि सम सब कर हित होई।। अर्थात् येन काव्येन सर्वेषां जनानां हितं भवति तत् काव्यं साहित्यं कथ्यते। आनन्दो वै काव्यम् अर्थात् आनन्दः एव कवितायाः प्रथमं लक्षणमस्ति। 

काव्यशास्त्रप्रणाल्यां मुख्यतः षड् विधा ग्रन्था दृश्यन्ते। काव्यसर्वाङ्गविवेचकाः, कव्यालङ्कारमात्रविवेचकाः, ध्वनिसम्बद्धाः (समर्थकाः, विरोधिनः), रससम्बद्धाः, नाट्यसम्बद्धाः, विचारग्रन्थाः च।

दण्डिनः काव्यादर्शः, वामनस्य काव्यालङ्कारसूत्रवृत्तिः, रुद्रटस्य काव्यालङ्कारः, भोजस्य सरस्वतीकण्ठाभरणं, कुन्तकस्य वक्रोक्तिजीवितं, मम्मटस्य काव्यप्रकाशः, हेमचन्द्रस्य काव्यनुशासनम्, वाग्भटस्य वाग्भटालङ्कारः, वाग्भटस्य काव्यानुशासनम्, मलयजपण्डितस्य साहित्यसारः, जयदेवस्य चन्द्रालोकः, विश्वनाथस्य साहित्यदर्पण:, जगन्नाथस्य रसगङ्गाधरः काव्यसर्वाङ्गविवेचकाः ।

उद्धटस्य काव्यालङ्कारसङ्ग्रहः, अजितसेनस्य अलङ्कारचूडामणिः, राजराजस्य राजराजीयं, धर्मदासस्य विदग्धमुखमण्डनं, शोभाकरस्य अलङ्काररत्नाकरः, अप्यदीक्षितस्य कुवलयानन्दश्चित्रमीमांसा च विश्वेश्वरस्य अलङ्कारकौस्तुभः अलङ्कारप्रदीपः, अलङ्कारमुक्तावली च, नरसिंहाचार्यस्य अलङ्कारेन्द्रशेखरः, केशवस्य अलङ्कारशेखरश्चालङ्कारमात्रसम्बद्धग्रन्थाः।

आनन्दवर्धनस्य ध्वन्यालोकः, पुञ्जराजस्य ध्वनिप्रदीपः, मम्मटस्य शब्दव्यापारविचारः, अप्पयदीक्षितस्य वृत्तिवार्तिकञ्चेति ध्वनिसम्बद्धग्रन्थाः । भट्टनायकस्य हृदयदर्पणः, महिमभट्टस्य व्यक्तिविवेकः, मुकुलभट्टस्याभिधावृत्तिभर्तृका च ध्वनिपरिहारग्रन्थाः । 

रुद्रभट्टस्य शृङ्गारतिलकं, भानुदत्तस्य रसमञ्जरी, रसतरङ्गिणी च, शिवरामत्रिपाठिनो रसरत्नहारश्च रसमात्रसम्बद्धग्रन्थाः।

भरतस्य नाट्यशास्त्रं, धनञ्जयस्य दशरूपकं, सागरनन्दिनो नाटकलक्षणरत्नकोशः, रामचन्द्रगुणचन्द्रयोर्नाटयदर्पणः, विद्यानाथस्य प्रताप्ररुद्रयशोभूषणं, शारदातनयस्य भावप्रकाशनम्, रूपगोस्वामिनो नाटकचन्द्रिका च नाट्यग्रन्थाः ।

रुद्रटस्य सहृदयलीला, क्षेमेन्द्रस्य कविकण्ठाभरणं, सुवृत्ततिलकमौचित्यविचारचर्चा च, राजशेखरस्य काव्यमीमांसा, अरिसिंहामरचन्द्रयोः काव्यकल्पलता, देवेश्वरस्य कविकल्पलता, विश्वेश्वरस्य कवीन्द्रकणभरणं रामानन्दस्य रसिकजीवनं च विचारग्रन्थाः।

रस-अलङ्कार-रीति-ध्वनि-वक्रोक्ति-औचित्याख्याः षट् काव्यशास्त्रसम्प्रदायाः क्रमेण भरत-भामह-वामन-आनन्दवर्धन-कुन्तक-क्षेमेन्द्रसमर्थिताः । तत्र रससम्प्रदायो हि काव्ये इतरतत्त्वोपेक्षयाऽपि रससिद्धिं वाञ्छति । वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम् इत्यस्य मार्गः । यद्यपि कमनीयमपि वपुः श्वित्रेणैकेन दुर्भगं भवति तथापि गुणसन्निपाते स्वल्पो दोषो न सङ्ख्यानाय भवति । सत्यपि सौन्दर्ये सर्वेषामेवाङ्गानां संयुक्तशक्तौ यथा तत्र वदनस्यैव प्रधान्यं भवति तथैव काव्यं हि रसगुणालङ्काररीतिप्रभृतिसंस्कृतशब्दार्थयोरेव भवति, किन्तु तत्र जीवतत्त्वं तु रस एव । गुणा हि रसस्यैव धर्माः, अलङ्कारा अपि तस्यैव शोभातिशयहेतवः । रीतयोऽपि तस्यैव साधिकाः।

अलङ्कारसम्प्रदायानुसारेण अलङ्कृतावेव शब्दार्थौ काव्यं न तु तद्धीनौ। न कान्तमपि निर्भूषं विभाति कामिनीमुखम् । निरलङ्कृतशब्दार्थयोः काव्यत्वमनुष्णस्यानलत्वमिव ।

रीतिवादनो हि पदरचनाकौशलमेव काव्यस्य जीवतत्वं मन्यन्ते, विशिष्टपदरचना रीतिः । वैशिष्टयञ्च गुणात्मकतया।

ध्वनिप्राधान्यवादिनां मते ध्वनिरेव काव्यस्यात्मा। तस्य हि शब्दार्थौ शरीरं गुणा हि काव्यात्मनो ध्वनेर्धर्माः, अलङ्कारास्तु भूषणान्येव; रीतिरपि तस्यैव निर्वाहिका।

वक्रोक्तिवादिनां मते वैचित्र्यभङ्गिभणितिरेव काव्यस्यात्मा । इतराणि तु तस्याङ्गान्येव।

औचित्यवादिमते सर्वेषामेव समन्वितमौचित्यमेव काव्यस्य साधकं भवति । अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ।

वस्तुतस्तु विभागोऽयं न पारमार्थि कोऽपि तु केवलमोपाधिक एव । रसत्वं काव्यात्मकत्वं न हि कोऽपि परिजिहीर्षति । रस एव काव्यस्य जीवितं गुणालङ्काररीतयस्तु तदुत्कर्षहेतव एव । अलङ्कारा अपि रसमेवालङ्कुर्वन्ति किञ्चात्मैवालङ्कार्यो भवति । रीतिवादिनां मतेऽपि पदरचनाया वैशिष्ट्यं गुणात्मकयैव । गुणाश्च रसस्यैव धर्मा इति रससाधकस्यैव रचनाविशेषस्य काव्यत्वं भवति । वक्रोक्तेरपि साध्यं तु रस एव । ध्वनिरपि यद्यपि वस्त्वलङ्काररूपोऽपि भवति तथापि तस्य काव्यात्मत्वं रसापेक्षयैव भवति । तेन हि पर्यवसायितया रसादिध्वनेरेव काव्यात्मत्वं सिध्यति । नितान्तानौचित्ये हि न रससिद्धिः । अत एव साम्प्रदायिकविभागः केवलमौपाधिकः । रस एव काव्यस्यात्मा।

मम्मटादयैः काव्यलक्षणम् उपस्थापितमस्ति। 

अधोनिर्दिष्टानि काव्यतत्वानि 




#Article 26: हिन्दी (358 words)


हिन्दीभाषा सांविधानिकरूपेण भारतस्य एकः भाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । विश्वे अधिकं भाषमाणायाः चीनीभाषायाः अनन्तरं स्थानं हिन्दीभाषायाः । उत्तरभारते अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः हिन्दी-भाषिणः ६० कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । फिजी, मारिशस्, गयाना, सूरीनाम् इत्येतेषु देशेषु अधिकाः, नेपालदेशे केचन च हिन्दीभाषया सम्भाषन्ते । हिन्दीभाषा राष्ट्रभाषा, राजभाषा, सम्पर्कभाषा, जनभाषा इत्यादीनि सोपानानि आरुह्य विश्वभाषास्थानस्य अलङ्करणे अग्रेसरा वर्तते । भाषाविकासक्षेत्रे कृतपरिश्रमवतां भाषाविज्ञानिनां भविष्यवाणी हिन्दीभाषाप्रेमिणां सन्तोषदायिका अस्ति । ते वदन्ति यत् विश्वस्तरे अन्ताराष्ट्रियमहत्त्वम् आप्नुवत्सु भाषासु हिन्दी प्रमुखा अस्ति इति ।

हिन्दीशब्दस्य मूलं संस्कृतस्य सिन्धुशब्दः इति मन्यते । 'सिन्धु'इत्येषः शब्दः सिन्धुनदीं सिन्धुनदीं परितः विद्यमानां भूमिं च निर्दिशति । अयं सिन्धुशब्दः इरानीयानां मुखे 'हिन्दु' इति जातम् । ततः हिन्दी, हिन्द इति जातम् । अग्रे इरानीयाः भारतस्य बहु भागं यदा आक्रान्तवन्तः तदा 'हिन्द्'शब्देन पूर्णं भारतं निर्देष्टुम् आरब्धवन्तः । इरानीभाषायाः 'ईक'प्रत्ययस्य योजनेन 'हिन्दीक' (हिन्दस्य) इति जातम् । यूनानीशब्दस्य 'इन्दिका'शब्दस्य आङ्ग्लशब्दः 'इण्डिया'इति जातम् ।

भाषाकोविदाः हिन्दी उर्दूभाषा च समाना इति मन्यन्ते । हिन्दीभाषा देवनागरीलिप्या लिख्यते । अस्याः शब्दाः अधिकतया संस्कृतशब्दाः एव । उर्दूभाषा फारसीलिप्या लिख्यते । फारसि-अरबीभाषयोः प्रभावः अस्याः उपरि अधिकतया विद्यते । व्याकरणदृष्ट्या हिन्दी-उर्दुभाषयोः शतप्रतिशतं समानता विद्यते । उर्दूभाषायाः केचन विशेषध्वनयः अरबी-फारसीसम्बद्धाः । अतः उर्दुभाषा हिन्दीभाषायाः काचित् विशेषशैली इति चिन्तयितुं शक्या ।

हिन्दीभाषा हिन्द-युरोपीयभाषापरिवारे अन्तर्भवति । इयं हिन्द्-इरानीशाखायाः हिन्द्-आर्य-उपशाखायां वर्गीकृता अस्ति । हिन्द-आर्यभाषाः संस्कृतभाषोत्पन्नाः सन्ति । उर्दू, कश्मीरी, बंगाली, उड़िया, पंजाबी, रोमानी, मराठी नेपाली इत्यादयः भाषाः हिन्द-आर्यभाषाः सन्ति ।

अपभ्रंशस्य समाप्तेः अनन्तरम् आधुनिकभाषाणां जन्मकालः 'सङ्क्रान्तिकालः'इति निर्देष्टुं शक्यः । हिन्दीभाषायाः स्वरूपं शौरसेनी-अर्धमागधीभाषयोः अपभ्रंशात् विकसितमस्ति । १० शतके अस्याः भाषायाः स्वतन्त्रास्तित्वं दृश्यते ।

अपभ्रंशस्य सम्बन्धे 'देशी'शब्दस्य प्रयोगः आधिक्येन श्रूयते । वस्तुतः 'देशी'शब्दः देशीशब्दं देशीभाषां च निर्दिशति । प्रश्नः अस्ति - देशीयशब्दः कस्याः भाषायाः ? इति । भरतमुनिः नाट्यशास्त्रे ये शब्दाः संस्कृतस्य तत्समो वा तद्भवो वा न विद्यन्ते तान् देशीशब्देन निर्दिशति । 'देशी'शब्दाः जनैः भाषितभाषायां रूढिगताः भवन्ति । ते सामान्यतः अपभ्रंशाः एव भवन्ति । जनभाषा व्याकरणनियमान् न अनुसरन्ति अपि तु व्याकरणमेव जनभाषाप्रवृत्तेः विश्लेषणं करोति । प्राकृतव्याकरणं संस्कृतस्य अनुसरणम् अकरोत् । संस्कृतं प्रकृतिः मन्यते । अतः ये शब्दाः तस्य नियमानुसारं न भवेयुः ते सर्वे देशीशब्दाः इति निर्दिश्यन्ते ।

हिन्दीसाहित्यस्य इतिहासः अत्यन्तं विस्तृतः प्राचीनश्च विद्यते । अयं कालः त्रिधा विभक्तुं शक्या ।

इयं भाषा संस्कृतभाषायाः साक्षात् पुत्री । अध: कानिचलहिन्दीवाक्यानि, तेषां प्रचलितं संस्कृतस्यरूपञ्च प्रदत्तम्‌ ।




#Article 27: सनातनधर्मः (115 words)


वैदिककाले भारतिये उपमहाद्वीपे धर्मः इति पदस्य सनातनधर्मः इत्येव कथयन्ति स्म । सनातनः इत्यस्य पदस्य अर्थः शाश्वतः इति । अर्थात् यस्य आदिः अन्त्यः च न स्तः इति । सनातनः धर्मः मूलभातीयः धर्मः यः अखण्डे भारते देशे सर्वत्र सार्वकालिकव्याप्तः आसीत् । वैदेशिकानाम् आक्रमणम्, मतान्तरणम्, इत्यदिभ्यः कारणेभ्यः अस्य धर्मस्य ह्रासः सञ्जायमानः अस्ति । अस्य देशस्य बहुसङ्ख्याकाः जनाः अस्मिन् एव धर्मे श्रद्धावन्तः सन्ति । सिन्धुनद्याः अपरे पारे निवसतां सिन्दु इति नाम आसीत् । ते स इत्यक्षरं ह इति उच्चरन्ति । अस्तः हिन्दु इति स्वधर्मम् अवदन् । अरब् देशस्य तत्कालीन आक्रमणशीलाः जनाः भारतवासिनः हिन्दु शब्देन तेषां धर्मं हिन्दुधर्मः इति व्यवहरन्ति स्म । सनातनधर्मस्य (वैदिकधर्मः, हिन्दुधर्मः) मूलं वेदाः इति मन्यते । वेदोऽखिलो धर्ममूलम् । चत्वारो वेदा विद्यन्ते -

अन्ये ग्रन्थाः -




#Article 28: ऐर्लेण्ड् गणराज्यम् (239 words)


युरोपखण्डे वायव्यदिशि विद्यमानः कश्चन द्वीपः ऐर्लेण्ड् । युरोपे विद्यमानः तृतीयः बृहत्तमः द्वीपः अयम् । भूमौ विद्यमानेषु बृहत्तमेषु द्वीपेषु विंशतितमः अस्ति । अस्य देशस्य पूर्वदिशि ग्रेट् ब्रिटन्नामकः महान् द्वीपः विद्यते । एतयोः द्वीपयोः मध्ये ऐरिश्-समुद्रः विद्यते ।

अस्य द्विपस्य पादोनपरिमितः भागः स्वतन्त्रेण विद्यते । अस्य नाम रिपब्लिक् आफ् ऐर्लेण्ड् (Republic of Ireland) इति । अवशिष्टः भागः इङ्ग्लेण्ड्देशस्य अधिकारे अस्ति । अस्य नाम उत्तर-ऐर्लेण्ड् (Northern Ireland) इति । १९२३-१९९० वर्षपर्यन्तम् एतयोः द्वयोः द्वीपयोः मध्ये स्वातन्त्र्यविषये कोलाहलाः सञ्जाताः । १९२३ तमात् वर्षतः प्राक् अयं द्वीपः इङ्ग्लेण्ड्-देशस्य स्वाधीने आसीत् । प्रायः ६०० वर्षाणि ते शासनं कृतवन्तः। अस्माकं भाग्यवशात् १९९० तमस्य वर्षस्य अनन्तरं शान्तिप्रक्रियया कोलहलस्य अन्त्यं जातम् ।

प्रायः देशेस्मिन् ६४लक्षपरिमिता जनसङ्ख्या वर्तते । ४६ लक्षजनाः स्वतन्त्र-ऐर्लन्देशे निवसन्ति । अन्ये १८ लक्षजनाः उत्तर-ऐर्लन्देशे निवसन्ति । एतावत् ऐर्लन्देशस्य संक्षेप परिचयः।
 

स्थानम् - उत्तरयुरोप् अथवा पश्चिमयुरोप्

क्षेत्रविस्तारः - ८१,६३८.१ चतुरस्रकिलोमीटर्मितम्

क्षेत्रस्तरः - २०

समुद्रतीरप्रदेशः - २,७९७ चतुरस्रकिलोमीटर्मितम्

उन्नतः पर्वतः - १,०४१ मीटर्मितम् नाम क्यारण्टूल् (Carrauntoohil)

राजधानी - डब्लिन्

न्यूग्रेञ्ज् (Newgrange) नाम पुरातनभवनम् । इदं तु कण्टि मीथ् (County Meath) नामके प्रदेशे अस्ति । क्रि पू ३,२०० मध्ये इदं पर्वतं निर्माणं कृतवन्तः। अस्य पर्वतस्य अन्तः वर्षे एकवारं सूर्यरश्मीनाम् अन्तःप्रवेशो भवति । तदपि शैत्यकाले डिसेम्बेर्मासस्य २१ तमे दिनाङ्के केवलम् तासां रश्मीनां प्रवेशो भवति। ताः रश्मयः अन्तःप्रदेशं सम्पूर्णं प्रज्वालयन्ति ।

बुक् आफ् केल्स् (Book of Kells) नाम पुरातनपुस्तकं विद्यते। अस्य ग्रन्थस्य कर्ता नास्ति । परन्तु बहवः साधवः इदं पुस्तकं रचितवन्तः । एषः ग्रन्थः प्रायः ६-९ शतमानयोः मध्ये रचितः स्यात् । इदं पुस्तकं बैबेल् सम्बद्धं विद्यते पुनश्च अभिरक्षितार्थाः सन्ति ।




#Article 29: कृषिः (2175 words)


कृषिः ( ) (, ) शब्द आङ्ग्लभाषायां ‘एग्रीकल्चर्’ इति उच्यते । एग्रीकल्चर् इत्यस्य शब्दस्य उत्पत्तिः लैटिन-भाषायाः जाता । लैटिन-भाषायाम् एगर् वा एग्री शब्दः अस्ति, यस्य अर्थःमृत्तिका इति भवति । अनन्तरं कल्चर् इत्यस्य शब्दस्य अर्थः कृषिः इति । कृषिः एका प्राथमिकी क्रिया अस्ति । सस्यानि, फलानि, पुष्पाणि, पशुपालनम् इत्यादयः विषयाः कृषिकार्येण सह सम्बद्धाः अस्ति । विश्वस्य ५०% जनाः कृषिकार्येण सह संलग्नाः सन्ति ।

आदिमानवकाले मानवाः वन्यपशून् मृगयन्ति स्म । तस्मिन् काले तदेव तेषां भोजनम् आसीत् । कालान्तरे कन्दमूलानि, फलानि, स्वतः जायमानानि अन्नानि च खादन्ति स्म । तदनन्तरं तैः मानवैः कृष्याः अन्नोपादनस्य प्रारम्भः कृतः । फ्रान्स्-देशे आदिमकालिनाः कन्दराः प्राप्ताः । तासां कन्दराणाम् उत्खननेन अध्ययनेन च ज्ञातं भवति यत् पूर्वपाषाणयुगे एव मनुष्याः कृषिकर्मणि व्यापृताः अभवन् । वृषभैः कृष्याः प्रमाणं मिश्र-देशस्य पुरातनसभ्यता अस्ति ।

भारते पाषाणयुगे कृषेः विकासः कियत्, कथम् अभवत् ? इति न ज्ञायते । किन्तु सिन्धुनद्याः तटे तत्कालीनाः अवशेषाः प्राप्ताः । गोधूमस्य ट्रिटिकम कम्पैक्टम, ट्रिटिकम स्फीरौकोकम इति प्रकारद्वयस्य प्रजातेः अवशेषाः प्राप्ताः ।

कृषिः तन्त्ररूपेण अस्ति । कृषौ बीजानाम्, उर्वरकस्य, आधुनिकयन्त्राणां, श्रमिकाणां च निवेशः भवति । अस्मिन् तन्त्रे ऊर्णानां, दुग्धशालायाः, कुक्कुटानां, सस्यानां च उत्पादनं भवति ।

कृषिकार्ये अनुकूलस्थलाकृतेः, मृत्तिकायाः, जलवायोः च आवश्यकता वर्तते । यस्यां भूमौ सस्योत्पादनं भवति सा कृषिगतभूमिः इति कथ्यते ।

सस्यानां रोपणकार्यस्य आरम्भात् कृषिकार्ये प्रकारत्रयस्य आर्थिकक्रियाः सम्मिलिताः सन्ति । 

येषां कार्याणां सम्बन्धः प्राकृतिकसंसाधनानाम् उत्पादनैः, निष्कर्णेण च सह अस्ति तानि कार्याणि प्राथमिकक्रियायाम् अन्तर्भवति । प्राथमिकक्रियायां कृषिः, मत्स्यपालनं, संग्रहणम् इत्यादीनि कार्याणि सन्ति ।  

द्वैतीयिकक्रियायाः सम्बन्धः संसाधनानां प्रसंस्करणेन सह भवति । अस्यां क्रियायाम् आयसानां विनिर्माणं, पाचनं, वस्त्रनिर्माणम् इत्यादीनि कार्याणि भवन्ति ।

तार्तीयिकक्रिया प्राथमिक-दवैतीयिकक्रियाभ्यां सेवाकार्यैः साहाय्यं कुर्वन्ति । तस्यां क्रियायां व्यापारः, यातायातं, अधिकोष-व्यापारः(Banking), अभिरक्षा (Insurance), विज्ञापनम् इत्यादीनि कार्याणि सन्ति ।

विश्वस्मिन् बहुषु प्रकारेषु कृषिः क्रियते । कृषेः मुख्यप्रकारद्वयम् अस्ति । प्रथमा निर्वाहकृषिः अपरा वाणिज्यकृषिः ।

यया कृष्या कृषकपरिवारस्य आवश्यकतापूर्तिः भवति सा निर्वाहकृषिः उच्यते । न्यूनानाम् उपजानां प्राप्तयै निम्नस्तरीयस्य प्रौद्योगिकेः, पारिवारिकश्रमस्य च उपयोगः क्रियते । निर्वाहकृषिः प्रकारद्वयस्य अस्ति ।

अस्यां कृषौ कृषकः एकस्मिन् लघुस्थाने एव अधिकश्रमेण कृषिं करोति । यस्मिन् क्षेत्रे उष्णतापी जलवायुः, उर्वरा भूमिः च वर्तते, तस्मिन् क्षेत्रे प्रतिवर्षम् एकाधिकानां सस्यानाम् उत्पादनं भवितुम् अर्हति । तेषु सस्येषु तण्डुलाः मुख्याः सन्ति । अन्येषु सस्येषु गोधूमः, मखाः सम्मिलिताः सन्ति । इयं कृषिः दक्षिणी, दक्षिण-पूर्वी, पूर्वी एशिया इत्येतेषु अधिकजनसङ्ख्यायुक्तेषु प्रदेशेषु प्रचलिता अस्ति ।

अस्याः कृषेः प्रकारद्वयम् अस्ति । स्थानांतरीतकृषिः, पशुपालनम् च ।

स्थानान्तरीतकृषिः अमेजन-द्रौण्याः वन्यक्षेत्रे, उष्णकटिबन्धिये आफ्रिका-देशे, एशिया-खण्डस्य दक्षिण-पूर्वभागेषु, भारतस्य उत्तर-पूर्वभागेषु प्रचलिता अस्ति । एतेषु क्षेत्रेषु अधिकमात्रायां वर्षा भवति । वनस्पतेः उत्पादनम् अपि शीघ्रं भवति । वृक्षाणां छेदनं, दाहनं च कृत्वा भूमेः स्वच्छता क्रियते । तदनन्तरं रक्षाः मृत्तिकासु मेलयन्ते । ततः परं मखाः, आलुकाः, सूरकन्दः इत्यादयानि सस्यानि उत्पाद्यन्ते । उत्पादनानन्तरं कृषकः तत्स्थानं त्यक्त्वा अन्यं स्थानं गत्वा कृषिं करोति । अतः स्थानान्तरीकृषिः इति कथ्यते । कर्तनकृषिः, दहनकृषिः च इत्यस्याः कृषेः अपरे नामनी स्तः ।

सहारा इत्यस्य शुष्कप्रदेशेषु, मध्यएशियाखण्डे, भारतस्य राजस्थानराज्ये जम्मु-कश्मीरराज्ये च इयं कृषिः प्रचलति । पशुपालकः स्वस्य पशुभिः सह एकस्मात् स्थानात् अन्यस्थानं प्रति निश्चितमार्गेषु गच्छति । तत्र ते जलम् अन्नं च प्राप्नुवन्ति । अनेन जलवायोः क्लेशः भवति । पशुपालकाः उष्ट्रान्, अजा, मेषान्, याक् इत्यादीन् पशून् पालयन्ति । तेभ्यः पशुभ्यः कृषकाः दुग्धं, मांसम्, ऊर्णम्, चर्म अन्योत्पादनानि च प्राप्नुवन्ति ।

वाणिज्यकृषौ सस्योत्पादनं पशुपालनं च आपणेषु विक्रयणार्थं भवति । अस्यां कृषौ विस्तृतभूमेः आवश्यकता भवति । अधिकधनस्य निवेशः अपि आवश्यकः वर्तते । अधिकतमानि कार्याणि यन्त्रैः भवन्ति । वाणिज्यकृषेः प्रकारत्रयम् अस्ति । १ वाणिज्यधान्यकृषिः, २ मिश्रितकृषिः ३ रोपणकृषिः च ।

अस्यां कृषौ वाणिज्यदृष्ट्या एव सस्यानाम् उत्पादनं भवति । गोधूमः, मखाः च सामान्यकृषेः सस्याः सन्ति । उत्तर-अमेरिका-खण्डे, यूरोप-खण्डे, एशिया-खण्डे च शीतोष्णतृणक्षेत्राणि सन्ति । तानि क्षेत्राणि वाणिज्यधान्यकृषेः प्रमुखाणि क्षेत्राणि सन्ति । तत्र क्षेत्रम् अधिकं शीतलं भवति । अधिका शीतलता सस्योत्पादने बाधां करोति । अतः एकम् एव सस्यम् उत्पादयितुं शक्यते ।

अस्याम् कृषौ भूमेः उपयोगः भोजनस्य तृणस्य च सस्यानाम् उत्पादनाय, पशुपालनाय च क्रियते । यूरोप-खण्डे, सयुक्त राज्य अमेरिका इत्यस्य पूर्वभागे, अर्जेण्टीना, आस्ट्रेलिया-खण्डस्य दक्षिण-पूर्वभागे, न्यूजीलैण्ड-देशे, दक्षिण-आफ्रिका-देशे इयं कृषिः प्रचलिता अस्ति ।

इयं वाणिज्यकृषेः कश्चित् प्रकारः वर्तते । अस्यां कृषौ चायस्य, काजूतकस्य, कहवा इत्यस्य, निर्यासस्य(rubber), कदलीफलस्य, कार्पासस्य इत्यादीनाम् उत्पादनं भवति । रोपणकृषौ श्रमस्य धनस्य च द्वयोः महत्यावश्यकता भवति । सस्यानाम् उत्पादनानन्तरं  स्वच्छताकार्यं क्षेत्रे समीपस्थे यन्त्रागारे एव भवति । अतः अस्यां कृषौ परिवहनसाधनानाम् आवश्यकता भवति ।

विश्वस्य उष्णकटिबन्धीयप्रदेशेषु रोपणकृषिः भवति । मलेशिया इत्यस्मिन् आघर्षणेः(rubber), ब्राजील-देशे कहवा इत्यस्य, भारत-देशे श्रीलङ्का-देशे च चायस्य उत्पादनं भवति ।

भारत-देशे विविधाः संस्कृतयः सन्ति । तथैव कृषिः, सस्यानि च बहुप्रकारकाणि सन्ति । भारत-देशे उत्पाद्यमानानि सस्यानि बहुप्रकारकाणि सन्ति । तेषु सस्येषु खाद्यान्नं, तन्तुसस्यं, शाकानि, फलानि च भवन्ति ।
भा]रत-देशे त्रयः सस्यर्तवः सन्ति । रबी, खरीफ, जायद च ।

शीतर्तौ अक्टूबर-मासतः दिसम्बर-मासाभ्यान्तरं रबी-सस्यानां रोपणं क्रियते । ततः परं ग्रीष्मर्तौ अप्रैल-मासतः जून-मासाभ्यान्तरं रबी-सस्यानां कर्तनं क्रियते । गोधूमः, यवः, हरेणुः(मटर), चणकः, सर्षपः च इत्यादीनि मुख्यानि रबी-सस्यानि सन्ति । इदं सस्यं भारत-देशस्य विस्तृतभागेषु उत्पाद्यते । उत्तर-उत्तरपश्चिमस्थ राज्येषु (पञ्जाब, हरियाणा, हिमाचलप्रदेश, जम्मू-कश्मीर, उत्तराखण्ड, उत्तरप्रदेश) उत्पाद्यते । एतानि राज्यानि रबी-सस्यानाम् उत्पादने महत्वपूर्णराज्यानि सन्ति । शीतर्तौ पश्चिमीवर्षा रबी-सस्यानाम् उत्पादने साहाय्यं करोति । 

ग्रीष्मर्तोः परं वर्षर्तोः आगमने खरीफ-सस्यानां रोपणं क्रियते । ततः परं सितम्बर-मासतः अक्टूबर-मासाभ्यान्तरं खरीफ-सस्यानां कर्तनं क्रियते । अस्मिन् ऋतौ तण्डुलाः, मखाः, ज्वार, बाजरा, तुअर(अरहर), मुद्गः, माषः, कार्पासः, जूट, कलायः (मुंगफली), सोयाबीन च इत्यादीनि महत्वपूर्णानि सस्यानि भवन्ति ।

रबी-खरीफ इत्येतयोः सस्ययोः मध्ये ग्रीष्मर्तौ जायद-सस्यानां रोपणं क्रियते । अस्मिन् सस्ये कालिङ्गं, वृत्तकर्कटी, शाकः, तृणसस्यं च उत्पाद्यते ।

विश्वस्य जनसङ्ख्यायाः वृद्धिः वेगेन भवति । अतः जनानाम् आवश्यकतापूर्त्यर्थं  विविधानि सस्यानि उत्पाद्यन्ते । सस्यानि कृष्याधारितेभ्यः व्यवसायेभ्यः अपक्वसामग्र्याः पूर्तिं कुर्वन्ति । तेषु गोधूमः, मखाः, तण्डुलाः खाद्यसस्यानि सन्ति । शणं(पटसन), कार्पासः तन्तुसस्यानि सन्ति । कहवा, चायं पेयसस्ये स्तः ।

इदं विश्वस्य प्रमुखं खाद्यवस्तुः अस्ति । इदम् उष्णकटिबन्धीयस्य, उपोष्णकटिबन्धीयस्य च प्रदेशस्य मुख्याहारः अस्ति । तण्डुलेभ्यः उच्चतापमानं(२५ सेल्सियस् इत्यस्मात् अधिकः), अधिकार्द्रतायाः, अधिकवर्षायाः(१०० से. मी. इत्यस्मात् अधिकः) आवश्यकता भवति । इदं चीका-युक्तायां मृत्तिकायां भवति । सा मृत्तिका जलावरोधनाय श्रेष्ठ भवति । चीन-देशः अस्य सस्योत्पादने सर्वप्रथमः गण्यते । ततः परं क्रमशः भारत-देशः, जापान्-देशः, श्रीलङ्का-देशः, मिस्र-देशः च अस्ति ।

तण्डुलानां कृषिः मुख्यत्वेन असम-राज्ये, पश्चिमबङ्गाल-राज्ये, ओडिशा-राज्ये, आन्ध्रप्रदेश-राज्ये, तमिळनाडु-राज्ये, केरल-राज्ये, महाराष्ट्र-राज्ये उत्तरप्रदेश-राज्ये, बिहार-राज्ये च क्रियते । 

तण्डुलानाम् उत्पादने पञ्जाब-राज्यं, हरियाणा-राज्यं च प्रसिद्धम् अस्ति । अनयोः राज्ययोः तण्डुलानां विशिष्टानि सस्यानि प्राप्यन्ते । असम-राज्ये, पश्चिमबङ्गाल-राज्ये, ओडिशा-राज्ये च तण्डुलानां सस्यत्रयम् उत्पाद्यते । तानि - ऑस, अमन, बोरो च ।

गोधूमस्य उत्पादनकाले मध्यमतापमानस्य वर्षायाः च आवश्यकता भवति । सस्यकर्तने उच्चतापस्य आवश्यकता भवति । ५० से. मी. तः ७५ से. मी. पर्यन्तं वार्षिकवर्षायाः आवश्यकता भवति । दुमट-मृत्तिकायाम् अस्य विकासः उत्तमः भवति । संयुक्त राज्य अमेरिका-देशे, कनाडा-देशे, अर्जेण्टीना-देशे, रूस्-देशे, यूक्रेन-देशे, आस्ट्रेलिया-देशे, भारत-देशे च विशेषरूपेण अस्य उत्पादनं भवति । भारत-देशे इदं शीतर्तौ भवति ।

इदं सस्यम् उर्वरामृत्तिकायां भवति । अस्य सस्यस्य उत्पादने न्यूनवर्षायाः, उच्चमध्यमस्य तापमानस्य, सूर्यस्य पर्याप्तप्रकाशस्य आवश्यकता भवति । इदं भारत-देशे उत्पाद्यते । नाइजीरिया-देशे, चीन-देशे, नाइजर-देशे च अस्य सस्यस्य उत्पादनं भवति ।

इदं कॉर्न इति अपि कथ्यते । अस्य विभिन्नाः प्राजतयः सन्ति । अस्य सस्यस्य उत्पादने मध्यमतापमानस्य(२१ तः २७ सेल्सियस्), वर्षायाः, उष्णतापस्य आवश्यकता भवति ।अस्योत्पादने उर्वरामृत्तिकायाः आवश्यकता भवति । इदं सस्यम् उत्तर-अमेरिका, ब्राजील-देशे, चीन-देशे, रूस-देशे, कनाडा-देशे, भारत-देशे, मेक्सिको-देशे च भवति ।

भारत-देशः विश्वस्मिन् दाल-सस्यस्य बृहदुत्पादकः उपभोक्ता च वर्तते । शाकाहारीभोजने दाल-सस्यं सर्वाधिकं प्रोटिन् इतीदं ददाति । तुर(अरहर), माषः, मुद्गः, मसूरिकाः, हरेणुः, चणकः च इत्यादीनि मुख्यानि दाल-सस्यानि सन्ति । दाल-सस्येभ्यः न्यूनार्द्रतायाः आवश्यकता भवति । एतानि सस्यानि शुष्कपरिस्थितौ अपि उत्पादयितुं शक्यन्ते । अरहर इतीदं विहाय अन्यानि दाल-सस्यानि वायोः नाइट्रोजन-वायुं प्राप्यन्ते । भारत-देशस्य मध्यप्रदेश-राज्ये, उत्तरप्रदेश-राज्ये, राजस्थान-राज्ये, महाराष्ट्र-राज्ये, कर्नाटक-राज्ये च अस्य कृषिः भवति ।

इक्षुदण्डम् उष्ण-उपोष्णकटिबन्धीयसस्यं वर्तते । अस्य उत्पादने २१ सेल्सियस् तः २७ सेल्सियस् पर्यन्तं तापमानस्य, ७५ से. मी. तः १०० से. मी. पर्यन्तं वर्षायाः, आर्द्रजलवायोः च आवश्यकता भवति । अस्य उत्पादने शारीरिकश्रमः अधिकः भवति । ब्राजिल-देशे इक्षुदण्डस्य  सर्वाधिकतया कृषिः भवति । ततः परं भारत-देशे भवति । इक्षुदण्डेभ्यः शर्करा, गुडः इत्यादीनि वस्तूनि निर्मीयन्ते ।
भारत-देशे उत्तरप्रदेश-राज्ये, महाराष्ट्र-राज्ये, कर्नाटक-राज्ये, तमिळनाडु-राज्ये, आन्ध्रप्रदेश-राज्ये, बिहार-राज्ये, पञ्जाब-राज्ये, हरियाणा-राज्ये च अस्य कृषिः भवति ।

तिलहन-सस्यानां सर्वश्रेष्ठोपादकः भारत-देशः वर्तते । भारतस्य कृषिक्षेत्रेषु १२% कृषिक्षेत्रेषु विभिन्नानि तिलहन-सस्यानि उत्पाद्यन्ते । कलायः(groundnut), सर्षपः, नारिकेलं, तिलः, सोयाबीन, एरण्डः, बिनौला, अलसी, सूरजमुखी इत्यादीनि प्रमुखाणि तिलहन-सस्यानि सन्ति । एतेषु अधिकतमानि खाद्यसस्यानि सन्ति । अस्य पाचने अपि उपयोगः भवति ।

कलायः खरीफ-सस्यम् अस्ति । भारत-देशस्य तिलहन-उत्पादनस्य ५०% कलायस्य कृषिः भवति । आन्ध्रप्रदेश-राज्यम् अस्य सस्यस्य प्रमुखोत्पादकम् अस्ति । तमिळनाडु-राज्ये, कर्नाटक-राज्ये, गुजरात-राज्ये, महाराष्ट्र-राज्ये अपि अस्य कृषिः भवति । 

अलसी, सर्षपः च रबी-सस्यम् अस्ति । उत्तरभारते तिलः खरीफ-सस्यम् अस्ति । दक्षिणभारते तिलः रबी-सस्यमस्ति । एरण्डः रबी-खरीफ इत्येतयोः द्वयोः सस्यम् अस्ति ।

भारत-देशः काफी इत्यस्य गुणवत्तायां विश्वस्मिन् प्रसिद्धः अस्ति । अस्य सस्यस्य कृषेः आरम्भः बाबा बूदन पर्वते अभवत् । विश्वस्य ४% काफी इत्यस्य उत्पादनं भारत-देशे भवति । अस्माकं देशे अरेबिका प्रजातेः काफी उत्पाद्यते । यमन-देशात् इदं सस्यम् आनीतम् आसीत् । अस्य प्रजातेः अभियाचना सम्पूर्णे विश्वे अस्ति । इदानीम् अस्य कृषिः नीलगिरि-पर्वतेषु भवति । कर्नाटक-राज्ये, केरल-राज्ये, तमिळनाडु-राज्ये अस्य कृषिः भवति ।

काफी इत्यस्य अन्वेषणं ८५० तमे वर्षे एकेन कालदी-नामकेन अरबवासिना कृतम् आसीत् ।अस्य सस्यस्य उत्पादने उष्णार्द्रयोः जलवायोः आवश्यकता भवति । पर्वतरोधसि अस्य उत्पादनम् उत्तमरीत्या भवति । ब्राजील-देशः काफी इत्यस्य उत्पादने अग्रणी अस्ति । ततः परं कोलम्बिया-देशः, भारत-देशः च अस्ति ।

चायस्य कृषिः रोपणकृषिः अस्ति । चाय-सस्यम् कश्चित् पेयपदार्थः अस्ति । अयं पेयपदार्थः आङ्ग्लैः आनीतः आसीत् । अस्योत्पादने उष्ण-उपोष्णकटिबन्धीयजलवायोः, ह्युमस-जीवांशयुक्तायाः गूढामृत्तिकायाः आवश्यकता भवति । मन्दवर्षा अस्योत्पादने साहाय्यं करोति । 

चायम् उद्यानेषु उत्पाद्यते । अस्योत्पादने शीतलजलवायोः, आवर्षम् उच्चवर्षायाः आवश्यकता भवति । अस्मिन् सस्ये पत्राणि भवन्ति । अतः कर्तनकार्ये अधिकानां श्रमिकाणाम् आवश्यकता भवति ।

भारतस्य पश्चिमबङ्गाल-राज्यस्य दार्जिलिङ्ग-मण्डलस्य, जलपाईगुडी-मण्डलस्य च पर्वतक्षेत्रे चायस्य कृषिः भवति । तमिळनाडु-राज्ये, केरल-राज्ये, हिमाचलप्रदेश-राज्ये, उत्तराखण्ड-राज्ये, मेघालय-राज्ये, आन्ध्रप्रदेश-राज्ये, त्रिपुरा-राज्ये च अपि चायस्य कृषिः भवति । भारत-देशः चाय-उत्पादने सर्वप्रथमः अस्ति ।

भारते विश्वस्य सर्वाधिकानां फलानाम् उत्पादनं भवति । भारत-देशे उष्ण-शीतोष्णकटिबन्धीय इत्येतयोः द्वयोः प्रकारयोः फलानाम् उत्पादनं भवति ।

महाराष्ट्र-राज्ये, आन्ध्रप्रदेश-राज्ये, उत्तरप्रदेश-राज्ये, पश्चिमबङ्गाल-राज्ये, च आम्रस्य उत्पादनं भवति ।

नागपुर-मण्डले, चेरापूञ्जी-मण्डले च नारङ्गफलस्य उत्पादनं भवति ।

केरल-राज्ये, मिजोरम-राज्ये, महाराष्ट्र-राज्ये, तमिळनाडु-राज्ये च कदलीफलस्य उत्पादनं भवति । 

मेघालय-राज्ये अनासफलस्य उत्पादनं भवति ।

आन्ध्रप्रदेश-राज्ये, महाराष्ट्र-राज्ये च द्राक्षाफलस्य उत्पादनं भवति ।

हिमाचलप्रदेश-राज्ये, जम्मू-कश्मीर-राज्ये च आताफलस्य(apple), अक्षोटफलस्य च उत्पादनं भवति ।

भारतदेशः विश्वस्य १३% शाकानि उत्पाद्यन्ते । हरेणुः, पलाण्डुः, कपिशाक, पुष्पशाक, रक्तफलं, वृन्ताकः, आलुकं च इत्यादीनि शाकानि भारतस्य प्रमुखोत्पादनानि सन्ति ।

अस्योत्पादने उच्चतापमानस्य, न्यूनवर्षायाः, २१० दिनानां, उष्णतापस्य आवश्यकता भवति । इदं सस्यं कृष्णमृत्तिकायाम् उत्तमं भवति । चीन-देशः, संयुक्त-राज्य-अमेरिका-देशः, भारत-देशः, पाकिस्तान-देशः, ब्राजील-देशः, मिश्र-देशः च कार्पासस्योत्पादने प्रसिद्धः अस्ति । सूतीवस्त्रोद्योगे अस्य उपयोगः भवति ।

महाराष्ट्र-राज्यं, गुजरात-राज्यं, मध्यप्रदेश-राज्यं, कर्नाटक-राज्यं, आन्ध्रप्रदेश-राज्यं, तमिळनाडु-राज्यं, पञ्जाब-राज्यं, हरियाणा-राज्यं, उत्तरप्रदेश-राज्यं च कार्पासस्य प्रमुखोत्पादकानि राज्यानि सन्ति ।

अयं स्वर्णमयः तन्तुः अपि कथ्यते । अस्योत्पादने उच्चतापमानस्य, अधिकवर्षयाः, आर्द्रजलवायोः च आवश्यकता भवति । इदं  सस्यम् उष्णकटिबन्धीयक्षेत्रे उत्पाद्यते । भारत-देशः, बाङ्गलादेशः च अस्य सस्यस्य मुख्योत्पादनकेन्द्रम् अस्ति ।

भारत-देशस्य पश्चिमबङ्गाल-राज्यं, बिहार-राज्यं, असम-राज्यं, ओडिशा-राज्यं, मेघालय-राज्यं च अस्य सस्यस्य मुख्योत्पादकम् अस्ति ।
 

निर्यासस्य उत्पादने २०० से. मी. वर्षायाः, २५ सेल्सियस् तापमानस्य जलवायोः च आवश्यकता भवति । इदं सस्यं भूमध्यरेखीयक्षेत्रस्य सस्यम् अस्ति । किन्तु विशेषपरिस्थितौ उष्ण-उपोष्णक्षेत्रेषु अपि अस्य कृषिः क्रियते । 

इदम् अपक्वं वस्तु अस्ति । निर्यासस्य उपयोगः उद्योगेषु भवति । केरल-राज्ये, तमिळनाडु-राज्ये, कर्नाटक-राज्ये, अण्डमान-निकोबार द्वीपसमूहे, मेघालय-राज्ये च गोरोपर्वतक्षेत्रेषु इदम् उत्पाद्यते । प्राकृतिकस्य निर्यासस्य उत्पादने भारत-देशः विश्वस्मिन् पञ्चमे क्रमाङ्के अस्ति ।

सुसस्योत्पादननिमित्तं कृषौ बहूनि उपकरणानि उपयुज्यन्ते । तेषु – हलः, कुदाली(pick), कृषीवलः च । एतानि प्रमुखाणि उपकरणानि सन्ति ।

प्राचीकालादेव हलस्य उपयोगः कृष्यर्थं भवति । इदम् उपकरणं काष्ठेन निर्मितं भवति । वृषभयुग्मैः अन्यपशूनां युग्मैः च  हलः उह्यते । अस्य उपकरणस्य अग्रभागे लौहस्य क्षुरपत्रं भवति । तत् फाल् इति कथ्यते । हलस्य मुख्यभागः काष्ठेन निर्मितः भवति । तत् हल-शैफ्ट् इति कथ्यते । अस्य एकस्मिन् कोणे ग्राहः(handle) भवति । अपरः कोणः जोत इत्यनेन सम्बद्धः भवति । तत् वृषभयोः ग्रीवयोः स्थाप्य सम्बद्ध्यते । वृषभयुग्मं, कश्चित् व्यक्तिः च अयं सारल्येन चालयितुं शक्यते । साम्प्रतं तु काष्ठस्य स्थाने लौहस्य हलाः भवन्ति ।

इदम् एकं सरलम् उपकरणं वर्तते । मृत्तिकायाः उपस्थापने विस्थापने च अस्योपयोगः क्रियते । अस्मिन् उपकरणे लौहस्य दण्डः भवति । तस्य दण्डस्य एकस्मिन् भागे लौहस्य विस्तृता वक्री च प्लेत् इति भवति । तत् क्षुरपत्रमिव कार्यं करोति । अपरः भागः पशुभिः कर्षते ।
 

अद्यतने युगे कृषेः प्रकारः आधुनिकः जातः । इदानीं ट्रेक्टर्-यानेन कल्टीवेटर् इत्यस्य उपयोगः भवति । अस्योपयोगेन श्रमस्य समयस्य च संचयं भवति ।

 

भारत-देशे हरितक्रान्तेः प्रारम्भः १९६६-६७ तमात् वर्षात् अभवत् । हरितक्रान्तेः श्रेयः प्रोफेसर नारमन् बोरलॉग् इत्ययं प्राप्तवान् | सः नोबेल-पुरस्कारस्य विजेता आसीत् । देशस्य सिञ्चित-असिञ्चितक्षेत्रेषु अधिकाधिकतया सस्यानाम् उत्पादनं भवेत् इति हरितक्रान्तेः उद्देश्यम् आसीत् ।

जलवायोः परिवर्तनेन कृषिः प्रभाविता भवति । सस्यानाम् उत्पादने तापमाने परिवर्तनस्य, आर्द्रतायाः च कारणेन प्रभावः भवति । कृष्या ग्लोबल वॉर्मिङ्ग इतीदं न्यूनम् अधिकं वा भवितुं शक्यते । मृत्तिकायां कार्बनिक-पदार्थानाम् अपघटनेन वायुमण्डले कार्बनडाई ऑक्साईड इत्यस्य वायोः वृद्धिः भवति । अनन्तरम् आर्द्रमृत्तिका अवायवीयमृत्तिका च विनाईट्रीकरण इत्यनेन च नाइट्रोजन-वायुं मुक्तं करोति । मृत्तिकायाः उपयोगः वायुमण्डलात् कार्बनडाई ऑक्साइड वायुं पृथक्करणे भवति ।

नवदश्यां शताब्द्यां यदा युरोपीयव्यापारिणः भारतम् आगतवन्तः तदा अपि भारतीयगन्धद्रव्याणां विश्वस्य विभिन्नदेशेषु निर्यातः भवति स्म । दक्षिणभारते अस्य उत्पादनाय कृषकाणां प्रोत्साहनं क्रियते स्म । इदानीमपि गन्धद्रव्याणि भारतदेशात् निर्यातवस्तुषु अन्यतमानि सन्ति । 

ब्रिटिश-काले अपि आङ्ग्लव्यापारिणः भारतदेशस्य कार्पासक्षेत्रे आकृष्टाः अभवन् । तेन कारणेन आङ्ग्लजनैः भारतीयकार्पासस्य विदेशे वस्त्रोद्योगार्थं निर्यातः कृतः । विदेशस्य मैनचेस्टर्, लिवरपुल् इति द्वयोः नगरयोः कार्पासोद्योगः भारतस्य उत्तमकार्पासैः सम्पन्नः जातः ।

१९१७ तमे वर्षे बिहार-राज्ये चम्पारन-आन्दोलनम् अभवत् । तस्य आन्दोलनस्य मुख्यं कारणम् अपि कार्पासोद्योगः एव आसीत् । बिहार-राज्यस्य कृषकाः स्वस्यभूमौ अन्नोत्पादनं कुर्वन्ति स्म । किन्तु आङ्ग्लैः कृषकेभ्यः नील-सस्यस्य कृष्याः आदेशः दत्तः । नील-सस्यं ब्रिटेन-देशस्य कार्पासवस्त्रोद्योगाय अपक्वं वस्तु आसीत् । तेन कारणेन कृषकाः धान्यानां कृषिं कर्तुम् असमर्थाः आसन्  । तदा सर्वे कृषकाः खिन्नाः जाताः । तेन चम्पारण-आन्दोलनम् अभवत् ।

१९९० तमात् वर्षात् परं वैश्वीकरणेन भारतीयानां कृषकाणां स्थितिः दयनीया जाता । कृषकाः अधिकपरिश्रमेण अपि वैश्विकस्तरस्य सफलतां प्राप्तुम् असमर्थाः आसन् । भारते बहूनि सस्यानि मुख्यानि सन्ति तथापि सर्वकारस्य साहाय्यं विना ते कृषकाः असमर्थाः आसन् । अन्येषु देशेषु तेषां सर्वकारः कृषौ साहाय्यं कुर्वन्ति ।

भोजनं मनुष्यस्य आधारभूतम् अस्ति । प्रत्येकेभ्यः नागरिकेभ्यः न्यूनतमपोषणस्तरस्य भोजनं दातव्यम् इति । यदि कोऽपि जनः इदं न प्राप्तवान् अस्ति सः खाद्यसुरक्षया वञ्चितः अस्ति । अतः अस्माकं सर्वकारैः एका प्रणाली आरब्धा । तस्याः नाम राष्ट्रिय खाद्य सुरक्षा प्रणाली इति । अस्याः प्रणाल्याः मुख्यं घटकद्वयम् अस्ति । १ बफर स्टॉक, २ सार्वजनिक वितरण प्रणाली (पी.डी.एस.) ।

सार्वजनिकवितरणप्रणाली इति इयं नगरजनेभ्यः ग्रामजनेभ्यः च खाद्यपदार्थान् निम्नमूल्येषु ददाति । अनेन निर्धनजनाः भोजनं प्राप्तुं समर्थाः अभवन् । खाद्यान्नानां व्यवस्थां फूड् कॉर्पोरेशन् ऑफ् इण्डिया (एफ् सी आई) इति इयं संस्था करोति ।
 

कृषिविज्ञाने प्राकृतिकं, आर्थिकं, सामाजिकं च विज्ञानम् अस्ति । अस्मिन् क्षेत्रे निम्नलिखितानि कार्याणि भवन्ति ।




#Article 30: अन्तर्जालम् (607 words)


अन्तर्जालम् इत्येतत् अत्यधिकानां सङ्गणकानां कश्चन जालबन्धः वर्तते । विश्वव्यापकमिदं राष्ट्रियान्तराष्ट्रिय-सङ्गणक-जालबन्धानां सम्पर्कं कल्पयति ।

दूरसंचारक्षेत्रे सङ्गणकानां प्रयोगेन महद् परिवर्तनं संलक्ष्यते। साम्प्रतं सर्वाऽपि दूरवाणी-विनिमय-व्यवस्था सङ्गणकानां माध्यमेनैव विधीयते। इन्टरनेट, ई-मेल, ई-कामर्स-प्रभृतयः सङ्गणकस्य प्रयोगेण नूतनां क्रान्तिं विदधति। सङ्गणक-संबद्धा इन्टरनेट-प्रणाली महासागरवद् वर्तते। सर्वस्मिन् जगति यत् किञ्चिद ज्ञानं विज्ञानं, शोध-संबद्धकार्यजातं च वर्तते, तत् सर्वम् एकत्रैव प्राप्तुं शक्यते। संसारे लघु-बृहद्-सङ्गणकाणाम् कश्चन विशालजालबन्धः वर्तते एषः, येन दूरभाष-माध्यमेन एकः अपरेण सह सम्पर्कं करोति । जगति सम्पूर्ण-जालबन्धाः अन्तरजालैः संयुक्ताः वर्तन्ते। जगतः कोट्यधिकाजनाः अन्तरजालस्य लाभान्विताः भवन्ति । अन्तरजाले मुख्यतः ई-मेल (E-Mail), वर्ल्ड्-वैड्-वेब् (worldwide web-www), एफ् टि पि (FTP) ई कामर्स् (E-Commerce) इत्यादयः सौविध्यमुपलभ्यन्ते। अन्तरजालम् (Internet) इत्यस्य लोकप्रियतायाः कारणं तस्या सुगमता-सरलता च । येषु जालबन्धेषु जगति कस्याऽपि कम्प्यूटर/साइट इत्यनेन संयोगः यथा सरलः स्यात्  तद्वदेव चलदूरवाणीनां सम्पर्कः सरलः भवति ।

बहवः जनाः अन्तरजाल-वर्ल्ड्-वैड्-वेब् (world wide web-www) इत्यनयोः एकैव मन्यन्ते, किन्तु तन्न समीचीनम्। अन्तरजालस्य एका शाखा वर्तते वर्ल्ड्-वैड्-वेब् (World Wide Web-WWW), तेन माध्यमेन विभिन्न-विषयेषु सूचना-प्राप्त्यर्थम् अन्तरजालद्वारा सङ्गणकानि योजयति । अस्मिन् कार्ये इन्टरनेट एक्सप्लोरर (Internet Explorer) तथा च ब्रौसर् (Browser) साहाय्यं करोति । यथा-याहू (Yahoo), नेटस्कोप (Netscape), इण्डिया टैम्स् (India-times), वेबदुनिया (Webdunia) इत्यादयः सन्ति।' वल्र्ड वाइड वेब अन्तरजालस्य अतिदीर्घप्रमुखभागः वर्तते।

अन्तरजालमाध्यमेन सम्पूर्ण-संसारस्य सूचनाः क्षणाभ्यन्तरे प्राप्तुं शक्यते। यथा-
१.कश्चित् कम्पनी एवं तस्य उत्पादनानां (Products) विषये ज्ञानम्।।
२.अन्तरजालसंस्करणे विभिन्न-समाचारपत्राणां समाचारम्।
३.रोगाणां चिकित्सा,
४.चल-चित्रणि,
५.प्रचलन्त्याः क्रीडायाः विवरणम्।
६.समृद्धपुस्तकालयेभ्यः पुस्तकचयनम्।
७.संवादः, सन्देशादीनां प्रेषणम् इत्यादीनि । सूचनाः सङ्गणक-दूरभाषामाध्यमेन अन्तरजाल-सेवाप्रदातासंस्थायाः महासङ्ग्रहेण (Server) सह संयोजितम्। एतादृशं लोके बहवः सङ्ग्रहाः सन्ति ये परस्परं ग्रहाणां माध्यमेन संयुक्ताः सन्तः उपभोक्तृभ्यः अन्तरजालीयसेवां प्रदास्यति ।

अन्तरजालात् निम्नांकितानि प्रयोजनानि प्राप्तुं शक्यानि । -

(क) इंटरनेट्-मेल (Internet mail) या ई-मेल (E-mail) अन्तरजालमाध्यमेन इलैक्टॉनिकसंचारद्वारा प्रेषितं पत्रम् ई-मेल इति कथ्यते। इयं सेवा अन्तरजालस्य सर्वाधिक्रप्राचीना वर्तते। वर्तमानकाले तु प्रतिदिनं कोट्यधिकाः अस्य प्रयोजनभागिनः सन्ति । एतेषु कार्यालयीयपत्राणि व्यक्तिगतानि च भवन्ति । 
(ख)वर्ल्ड्-वैड्-वेब् (World Wide Web-WWW) अयं महाप्रकारस्य विषयसङ्ग्रहः(डाटाबेस्) वर्तते यः सम्पूर्णसंसारे व्याप्तोऽस्ति। अन्तरजालेन सम्बद्धाः जनाः अनेनैव सूचनाः प्राप्नुवन्ति । अनेन माध्यमेन सामान्यपाठ्यसामग्रीभिः सह चित्रं, ध्वनिः, दृश्यपरिकरादयः उपलभ्यन्ते। कोऽपि जनः शुल्कं दत्वा स्व-सूचनाः वेब साइट (Web-Site) । । इत्यस्योपरि प्राप्यन्ते। वेब-साइटोपरि स्व-नाम-पता इत्यनेन सह पंजीकृतं कर्नु शक्यते। | वल्र्ड वाइड वेब इत्यस्योपरि सूचना अन्वेषणार्थ ईंटरनेट एक्सप्लोरर (Internet Explorer) HITGGIT (Browser) प्रोग्राम द्वारा वा इदं कार्यं सरलतापूर्वक कर्तुं शक्यते। चूँ -
(ग)फाइल-द्वान्सफर-प्रोटोकाल् (FTP) अन्तरजालेन कस्मिंश्चित् सङ्ग्रणके विद्यमानाः सूचनाः विषयाः वा अन्यस्मिन् अन्तरजालसम्बद्धसङ्गणकं प्रति स्थानान्तरणं प्रेषणं वा कर्तुं शक्यते । j - 
(घ)टेलीनेट (Telly-net)इदं साधनं कम्प्यूटरं अन्तरजालेन सह सम्बद्धः कर्तुं । सर्वरः (Server) इति विद्यते। - ... ' i 
(ङ)ई-कामर्स (E-Commerce) अतिदूरस्थजनाः कम्पनी वा अन्तरजालमाध्यमेन सम्पर्कं स्थापयित्वा वस्तूनां सेवायाः वा क्रय-विक्रयं, आदान-प्रदानं च ई-कामर्स द्वारा कर्तुं शक्यते। ' 
(च)वार्तालापः (Chatting) अन्तरजालसम्बद्धषु सङ्गणकेषु कार्यरताः जनाः अपरसङ्गणकेषु कार्यरतैः जनैः सह परस्परवार्तालापं कर्तुं शक्नुवन्ति । एतस्य विकसित-स्व-रूपं वॉयसमेल (voice-mail) इति भवति। येषु ध्वनिग्राहक-प्रेषकपरिकरैः (माइक-स्पीकर्) दूरस्थौ द्वौ जनौ दूरभाष-दृश्यमाध्यमेन वार्तालापं कर्तुं शक्नुतः । ! 
(छ)वार्तागणः (Newsgroup) वार्तागणः इत्येषः बहु संदेशानाम् एकः समूहः सङ्ग्रहो वा भवति । अत्र रुच्यनुसारं विषयस्य अन्वेषणं संदेशस्थापनं च कर्तुं शक्यते।  

भारते अन्तर्जालसेवा प्रारम्भे मुख्यतः विदेश-संचार-निगम लि, (VSNL) द्वारा अगस्त 1995 तः उपलभ्यते । एतदर्थं संचार् नेट (Sanchar Net) नाम्नः एकः सार्वजनिकसम्पर्कजालः निर्मियते स्म। यैः 42 नोड्स् (Nodes) द्वारा भारतस्य शताधिकेभ्यः नगरेभ्यः अन्तरजालसुविधा प्रदीयते स्म। सम्प्रति नेटवर्क-संचालनं भारत-संचार-निगम लि. (Bharat Sanchar Nigam Ltd.) द्वारा क्रियन्ते। भारते अन्तरजालसदस्याणां संख्या सितम्बर १९९७ तमे वर्षे ५
सहस्राणि आसन् । २००५ तमे वर्षे 20 लक्षाधिकाः । २०१५ तमे वर्षोवसाने ४०० मिल्लियनाधिकाः इति वर्था ।

भारते संचालिताः अन्तरजालीयसेवा-
१.विदेश-संचार-निगम-लि.(VSNL),
२.भारतसंचारनिगमलि.(BSNL),
३. महानगर-टेलीफोन-निगम-लि.(MTNL),
४.मंत्र ऑनलाइन(MantraOnline), 
५.सत्यम् (Satyam Online),
६ सिग्मा(Sigma Online), 
७ नेट् फोर् इण्डिया (Net 4 India),
८ नेट्क्रैकर् (Netkracker), 
९ डाटा आन्लैन् (Data online) इत्यादयः सन्ति। 

नगरेषु ग्रामेषु च निवसद्भिः जनैः अन्तरजालस्य सेवायाः लाभं प्राप्तुं तेषां सविधे निम्नलिखितानि साधनानि आवश्यकानि -
१.हार्डयर, 
२.सॉफ्टवेयर,
३. विन्डोज आधारितः 486 पीसी *पेंटियम वा, 
४.इंटरनेट सॉफ्टवेयर इत्यादयः आवश्यकः वर्तते। उपर्युक्तसाधनयुक्ते सति अन्तरजालकम्पनीतः सदस्यता प्राप्तव्या । तस्मिन् समये उपभोक्तृभिः एकं सदस्यनाम प्राप्तं भवति। तस्य कूटशब्दः (Password) अपि निर्मीयते।

अन्तर्जालस्य स्थापनाय मोडेम् इत्यस्य उपकरणस्य स्थापनमावश्यकम् ।  इदम् आन्तरिकं (Internal) तथा बाह्यं (External) च भवति।




#Article 31: जीवनी (925 words)


अधस्तात् सूची प्रदत्तः। 

अकबर | 
अकिरा कुरोसावा |
अटिला |
आटो स्टर्न |
अनवर अल-सदात |
अब्राहम लिन्कन |
अमर्त्य सेन |
अर्नेस्ट टी एस वाल्टन |
अर्नेस्ट रदरफोर्ड |
अर्नेस्ट लारेन्स |
अब्दुस सलाम |
अर्विन श्रोडिन्गर |
अलेक्ज़ांडर ग्राहम बेल |
अलेक्ज़ांडर फ्लेमिङ |
अलेक्ज़ांडर महान |
अलेक्सान्द्र एम प्रोखोरोफ |
अलेक्सी ए एबृकोसोफ |

अल्फ्रेड नोबेल |
अल्फ्रेड हिच्कक् |
अल्बर्ट आइन्स्टाइन |
अल्बर्ट ए मिकेल्सन |
आर्कड्युक फ्रान्ज़ फर्डिनान्ड

आगस्टस् |
ऐज़क न्युटन |
आजे एन बोह्र |
आर्किमिडिज़ |
आर्थर एच काम्पटन |
आर्थर एल शालो |
आर्नो पेन्जियस |
आवेरोस

इन्दिरा गान्धी
इ एम पर्सेल |
इगोर वाइ टाम |
इग्नेसी ल्युकसिविक्ज |
इंगमार बर्गमान |
इमान्युएल काण्ट |
इसिडोर ऐज़क रबि

ईमिली डर्खीम

एडवार्ड गिबन |
एडवार्ड जेनर |
एडवार्ड वी एप्पलटन |
एडोल्फ हिटलर |
एन्रीको फर्मी |
ए जे लेगेट |
एमा गोल्डमन |
एमिलिया प्लेटर |
एमिलियो सेग्र |
एलेन ट्यूरिंग |
एलेनोर रोज़वेल्ट |
एवा पेरोन

ओटो फोन बिस्मार्क |
ओवेन चेम्बेर्लैन |
ओवेन विलेन्स् रिचार्डसन |
ओसामा बिन लादेन

कान्स्टान्टिन प्रथम |
कर्ट गोडेल |
कारलस लिनियस |
कार्ल इ वैमन |
कार्ल डी एन्डरसन |
कार्ल फ्राइडरिक गास |
कार्ल बेन्ज़ |
कार्लो रुबिया |
क्रिस्टियन माइकेल्सेन |
क्रिस्टियन हुगेन्स |
केदार जोशी |
केनेथ जी विल्सन |
कमाल अतातुर्क |
कोफी अन्नान |
कासिमिर फन्क |
क्लाउड कोहेन-टन्नौजी |
क्लिन्टन डविसन |
क्वामे एन्क्रूमाह

सियानफ़ां हुआंग |
गाटफ्रीड लैबनिट्ज़ |
गुग्लिमो मार्कोनी |
गुस्टाफ हर्ज़ |
गुस्टाफ डेलेन |
चंगेज़ खान |
गेरार्डस 'टी हूफ्ट |
गेर्ड बिन्निग
गेर्हार्ड श्रोडर |
गोल्डा मेयर |
ग्राबियल लिपमन |

चन्द्रशेखर |
चार्लेमन |
चार्ल्स एडुआर्ड गुइल्लौमे |
चार्ल्स बार्क्ले |
चार्ल्स डार्विन |
चार्ल्स डे गौल |
चार्ल्स् एच् टाउन्स्
चे ग्वेएरा |
चेन निंग यांग

जार्ज पेजेट थामसन | जवाहरलाल नेहरू |
जां बाप्टिस्टे पेरिन |
जुलियन श्विंगर |
जुलियस कैसर |
जे जे थामसन |
जे हान्स डी जेन्सेन |
जेम्स रेनवाटर |
जेम्स क्रोनिन |
जेम्स फ्रान्क |
जेम्स क्लर्क माक्सवेल |
जेम्स् चाडविक |
जेरोम आइ फ्रीदमन |
जेर्मेन ग्रीर |
जोन लोगी बेर्ड |
जोन मेनार्ड केन्स |
जोर्ज एफ स्मूट |
जार्ज डबल्यु बुश |
जार्ज वाशिंगटन |
जार्ज विल्हेम फ्रेडरिच हेगेल |
जोसेफ एच टेलर जुनियर |
जोसेफ फोरिए |
जोसेफ स्टालिन |
जोह्न बार्डीन |
जोहन्नेस स्टार्क |
ज्याक शिराक
ज्योर्ज लुकास |

टैको ब्राहे |
तैमूरलंग |
टोनी ब्लेयर

डायना राजकुमारी |
डेनिस गाबोर |
डेनिस रिची |
डेविड हिल्बर्ट |
डोनाल्ड ए ग्लेसर |

थामस एक्विनास |
थामस एडिसन |
थामस जेफरसन

निकोलस कपरनिकस |
निकोला टेस्ला |
निकोलास ब्लोम्बर्गन |
नील्स बोह्र |
नेताजी सुभाषचन्द्र बोस |
नेपोलियन प्रथम |
नेफेरतिति |
नेल्सन मन्डेला |

पर्सी ब्रिजमन |
पावेल शेरेन्कोव |
पीटर ज़ीमन |
पिएरे क्युरी |
पियर सिमों लाप्लास |
पीटर प्रथम |
पेट्रिक एम एस ब्लाकेट |
पोप जान पाल |
पोप बेनेडिक्ट |
पोल पोट |
प्योट्र कापिट्सा

फर्डिनन्ड ब्राउन |
फिदेल कास्ट्रो |
फिलिप दबल्यु एन्डरसन |
फिलिप लेनार्ड |
फ्रेडेरिक रेन्स |
फ्रान्क विल्चेक |
फ्रान्कलिन डेलानो रोज़वेल्ट

बकमिन्स्टर फुलर |
बर्न्हार्ड रीमन |
बिल गेट्स |
बेनिटो मुसोलिनी |
एलिज़ाबेथ प्रथम |
ब्रायन जोसेफसन

मदर टेरेसा |
महात्‍मा गान्‍धी |
महाथिर मोहमद |
माइकल फोका |
माओ ज़े डुंग |
मारिया गोपर्ट-मेयर |
मारिया टेरेसा |
मार्गरेट थाचर |
मार्टिन राइल |
मार्टिन लुथर |
मार्टिन स्कोर्सेसे |
मासातोशी कोशिबा |
मिखाइल गोर्बाचोफ |
क्लियोपाट्रा |
मरे गेलमन |
मुहम्मद इब्न् मूसा अल्-ख्वारिज्मी |
मेरी क्युरी |
मेरी प्रथम |
मेल्विन श्वार्ट्ज |
माक्स प्लान्क |
माक्स भोन् लु |
माक्स बर्न |

यूजीन विग्नर |
योहान गुटेनबर्ग |
योहानेस केप्लर |
योहान वुल्फगांग फान गेटे |

महारानी काथरिन |
रसेल ए हल्से | रवीन्‍द्रनाथ ठाकुर |
रामकृष्‍ण परमहंस |
राल्फ वाल्डो एमरसन |
रिक्कर्डो गियाकोनी |
रिचार्ड इ टेलर |
रिचार्ड फैनमन |
रिचार्ड स्टालमन |
रुडोल्फ मोसबेउर |
रेचेल कार्सन |
रेने डेस्कार्टे |
रेमन्ड डेविस जुनियर |
रोजा पार्क्स |
रोजा लक्जेम्बर्ग |
रोबर्ट ए मिल्लिकन |
रोबर्ट कोलमन रिचार्डसन |
रोबर्ट वूड्रो विल्सन |
रोबेर्ट बी लाफलिन

लार्ड रेली |
लाइनस टोर्वाल्ड्स |
लियोनार्ड ओइलर |
लियोनार्दो दा विन्सी |
ली क्वान यु |
लीयो एसाकी |
लीयो ट्रोट्स्की |
लीयों नील कूपर |
लीयोन एम लीडरमन |
लुइ अल्वारेज़ |
लुइ नील |
लुइ, ड्युक डे ब्रोग्ली |
लुई पास्चर |
लुक्रेजिया बोर्गिया |
लेक वलेंसा |
लेनी रीफेन्स्टाल |
लेव लाण्डौ

स्थूलाक्षरम्तिर्यक् अक्षरम् 

वर्नर हाइजेनबर्ग |
वाल्ट डिज्नी |
वाल्टर एच ब्राट्टेन |
वाल्थेर बोथे |
विन्स्टन चर्चिल |
विलियम ए फोलर |
विलियम डी फिलिप्स |
विलियम लारेन्स ब्राग |
विलियम वालेस |
विलियम शाक्ली |
विलियम हेन्री ब्राग |
विलिस इ लाम्ब |
विल्हेम कोन्राड रोन्टजेन |
विल्हेम वेन | स्वामी विवेकानन्द |
वुल्फगांग केट्टेर्ले |
वुल्फगांग पौली |
वुल्फगांग पल |
विक्टोरिया |
वितली गिन्ज़बर्ग |
व्लाडिमिर पुटिन |
व्लाडिमिर लेनिन

शेल्डन ग्लास्हौ

स्वामी दयनन्द एक महान समाज सुधारक एवम् आर्यसमाज के सन्स्थापक थे इनका जन्म गुजरात प्रान्त के सौरास्त्र जिले के तन्कारा गाव मे हुआ था.

एलिजाबेथ |
सद्दाम हुसेन |
नेविल एफ मोट्ट |
सलादीन |
सिग्मंड फ्रायड |
सिटिंग बुल |
सिन-इतिरो तोमोनागा |
सिमोन बोलिवार |
सिमोन वान डर मीर |
सिल्विओ बर्लुस्कोनी |
सी टी आर विल्सन
सेर्गे आइसेन्स्टाइन |
सेसिल पावेल |
स्टीव जाब्स |
स्टीवन स्पीलबर्ग |
स्टीवन वैनबर्ग |
स्टीवन चू |

हर्बर्ट क्रेमर |
हर्स्ट एल स्टोर्मर |
हान्स बेथे |
हान्स कृस्टियन ओर्स्टेड |
हाम्मुरबी |
हिदेकी युकावा |
हिप्पोक्रेटस |
हिरोहितो |
हैन्रिक रोह्रेर |
हेण्ड्रिक लारेन्ज़ |
हेन्री फोर्ड |
हेन्री बेक्वेरल |
हेन्री केन्डाल |
हेरिएट टबमान |
हेरोडोटस |
हेलेन केलर |
हो चि मिन्ह |
हान्निबल |
हारि ट्रूमन |
हास्टिंग्स बान्डा




#Article 32: तेलुगु (1510 words)


तेलुगुभाषा (Telugu) द्राविडभाषा परिवारस्‍य एका भाषा अस्ति ।  एषा दक्षिणभारते विद्यमानस्य आन्ध्रप्रदेश,तेलंगाणा राज्ययोः यानाम्(पुदुचेरी) केन्द्रशासित प्रदेशस्य च अधिकारभाषा वर्तते । इयं भाषा भारतस्य प्रान्तीयभाषासु प्रथमे स्थाने, तथा च विश्वस्तरे लोकैः भाष्यमाणासु भाषासु त्रयोदशे स्थाने च तिष्ठति । अपि च भारते राष्ट्रभाषायाः हिन्द्याः अनन्तरं द्वितीयं स्थानम् आवहति । अस्मिन् जगति उपसार्धनवकोटि (९.३२ कोटिः ) जनाः ( प्रमाणम् अपेक्ष्यते ) इमां तेलुगुभाषां भाषन्ते । ३१-१०-२००८ तमे दिनाङ्के भारतीयसर्वकारेण अतिप्राचीनासु राष्ट्रीयभाषासु संस्कृततमिलभाषाभ्यां सहैव तेलुगुभाषा अपि अन्तर्भाविता।

भाषाशास्त्रकाराः तेलुगुभाषां द्राविडभाषावर्गे अन्तर्भावितवन्तः । अनेन भाषेयं भारतार्यभाषा-वर्गस्य भाषा न भवति, यत्र हिन्दी, संस्कृतं, लाटिन्, ग्रीक् इत्यादिभाषाः वर्तन्ते । तेलुगुभाषा तु तमिल, कन्नड, मलयाल, तोड, तुळु, ब्रहुयी इत्यादिभाषाभिः सह द्राविडभाषावर्गे स्थानमाप्नोति । तेलुगुभाषा “मूलमध्यद्राविडभाषा” तः समुद्भूता अस्ति । अस्मिन् भाषाकुटुम्बे तेलुगुभाषया सार्धं कुयी, कोय, कोलमी इत्यादिभाषाः अपि सन्ति ।

साम्प्रतं षड्विंशतिः (२६) द्राविडभाषाः व्यवहारे उपयुज्यमानाः सन्ति । तत्र प्राग्दिशि कूरसा मान्तो च भाषे, वायव्यदिशि पाकिस्तानस्य बलूचिस्तने ब्रहूयी भाषा, दक्षिणदिशि च तेलुगु- तमिल- कन्नड- मलयालादयः भाषाः सन्ति । केषाञ्चन भाषावैज्ञानिकानां विश्वासः यत् आर्यभाषाणां भारतस्य प्रवेशात् प्रागेव द्राविडभाषाः आ भारतं व्याप्य स्थिताः आसन् इति । यद्यपि सिन्धुनागरिकाणां भाषाविषये निर्दिष्टप्रमाणानि नोपलभ्यन्ते, तथापि तत्रत्या भाषा द्राविडा एव इति वक्तुं सम्भवः अधिकः इति भाषाविदाम् अभिप्रायः ।
तेलुगुभाषा इतरभाषापदानि सुलभतया स्वीकरोति । तेलुगुसाहित्ये संस्कृतस्य प्रभावः महान् एव अवलोक्यते । संस्कृतस्य यावान् प्रभावः तेलुगुभाषायाम् अस्ति, न तावान् अन्यस्याः भाषायाः अस्ति । वस्तुतः तेलुगुलिप्यां विद्यमानाः अनेके वर्णाः, विशिष्य महाप्राणव्यञ्जनानि (aspirated) संस्कृतनिमित्तं केवलं लिप्यां स्वीकृतानि । “उत्तमं संस्कृतोच्चारणं कोस्तान्ध्राप्रान्तस्य पण्डितानां मुखात् श्रोतुं शक्यम्” इत्यत्र न कापि अतिशयोक्तिः वर्तते । वैदिककर्मणां विधानार्थम् अन्यरज्येभ्यः अत्रत्यानां वेदपण्डितानां विशेषाह्वानं भवति स्म इति प्रसिद्धिः वर्तते । तेलुगुभाषायाः संस्कृतस्य च सम्बन्धः अतीव निकटः इत्यतः तेषाम् उच्चारणं स्फुटं भवति इत्यत्र नास्ति अतिशयः । अद्यापि तेलुगुभाषायां संस्कृतपदानि बाहुल्येन अवलोकयितुं शक्यानि । संस्कृतभाषाप्रभावः भारतीयासु सर्वास्वपि भाषासु वर्तते एव । परन्तु तेलुगुभाषाम् अवलोकयामः चेत् संस्कृतं तस्याः मातृमूर्तिः इति प्रतिभासते । यतो हि तदीयम् उच्चारणं भावश्च संस्कृतमेव स्मारयतः ।

यथा संस्कृतभाषा तेलुगुसाहित्यप्रपञ्चे किञ्चन शाश्वतं स्थानम् आक्रान्तवती, तथैव पारशीक (पर्षिया) – उर्दूपदानि अपि कार्यनिर्वाहकपदबन्धेषु विलसन्ति । ब्रिटिषाणां परिपालनप्रभावात्, साङ्केतिकान्दोलनवशात् च अद्य यौ कावपि द्वौ तेलुगुजनौ परस्परम् एकनिमेषकालात् अधिकम् आङ्ग्लपदरहितां वार्तां कर्तुं न शक्नुतः इति नास्ति सत्यदूरम् । भारते निवासेन स्थिरतां गतः प्रमुखः जन्यु (genetic) शास्त्रज्ञः जे.बि.एस्. हाल्डेन् महाशयः कस्मिंश्चित् सन्दर्भे अवदत् – “भारतस्य राष्ट्रियभाषास्थानम् अलङ्कर्तुं तेलुगुभाषायाः अपेक्षिताः सर्वाः अर्हताः सन्ति” इति । अस्य कथने न वर्तते आश्चर्यस्य किमपि स्थानम् ।

यद्यपि आन्ध्रीयाणाम् आङ्ग्लभाषायां रुचिः अधिका वर्तते तथापि भाषाशास्त्रपरतया, संस्कृतिपरतया, व्याकरणपरतया च द्वयोः भाषयोः मध्ये महदन्तरं विद्यते । तेलुगुवाक्यनिर्माणं कर्ता, कर्म, क्रिया इत्येतेन क्रमेण प्रचलति । आङ्ग्लवाक्येषु तु कर्ता, क्रिया, कर्म इति क्रमशः आयान्ति । अतः आङ्ग्लभाषिणः तेलुगुपदपङ्क्तिषु व्युत्क्रमताम् अनुभवन्ति । भावाभिव्यक्तीकरणविषये तेलुगुभाषा विश्वभाषाभिः सह स्पर्धतेतराम् । अत्युत्कृष्टक्रमेण सुव्यवस्थीकृतासु अत्यल्पसङ्ख्याकासु च विश्वभाषासु तेलुगुभाषा अन्यतमा अस्ति । तेलुगुव्याकरणम् अत्यन्तं सरलं, निर्माणपरतया अतीव शुद्धं च भवति । अत्रत्यः सर्वोऽपि विषयः स्वरेण एव परिसमाप्तिं(अजन्त भाषा) याति इत्यतः इयं भाषा सङ्गीतपरतया सङ्गीतकाराणां प्रियतमा वर्तते । विशिष्य कर्णाटकसङ्गीतस्य नैकाः कृतयः तेलुगुभाषायाम् एव सन्ति । त्यागराजः, भद्राचलरामदासः, क्षेत्रय्यः, अन्नमाचार्यः च इत्यादयः स्वकीयकृतिरचनया सङ्गीतक्षेत्रे तेलुगुभाषां सुसम्पन्नताम् अगमयन् । नवदशशताब्दीयाः यूरोपीयाः तेलुगुभाषाम् इटालियन् आफ् दि ईस्ट् ( Italian of the East ) इति आख्यातवन्तः । तेलुगुभाषायाः ( अन्यभारतीयभाषाणां च ) प्रमुखः विषयः नाम सन्धिः । तत्र द्वयोः पदयोः अत्यन्तं संनिहिततया उच्चारणात् नवीनं तृतीयं पदम् आविर्भवति ।

यथा अन्यद्राविडभाषाणाम् आविर्भावकालसम्बन्धीनि प्रमाणानि समुपलभ्यानि सन्ति, न तथा तेलुगुभाषायाः मूलान्वेषणाय सन्तृप्तिकराणि, निर्णेयाणि च प्रमाणानि लभ्यन्ते । तथापि क्री.श. प्रथमशताब्द्यां शातवाहनराजैः सृष्टे “गाथासप्तशती” इत्यस्मिन् महाराष्ट्रीयप्राकृतगद्य- सङ्कलने सर्वप्रथमं तेलुगुपदानि अदृश्यन्त । अतः तेलुगुभाषाभाषिणः शातवाहनवंश्यराजानाम् आगमनात् पूर्वं कृष्णागोदावरीनदीभ्यां मध्यभूभागे निवसन्ति स्म इति निर्णेतुं शक्यते । तेलुगुभाषायाः मूलपुरुषाः यानादयः । पुरातत्त्वपरिशोधकानां दृष्ट्या तेलुगुभाषायाः २४०० वर्षाणां प्राचीनता वर्तते ।

आदिमद्राविडभाषाणां चरित्रादिकं क्रीस्तोः पूर्वं कतिचनशताब्दीनां पृष्ठतः ज्ञातुं शक्यते । परन्तु तेलुगुभाषाचरित्रं क्री.श. षष्ठशतब्दीतः विद्यमानप्रमाणैः निर्णेतुं साध्यम् । तेलुगुभाषायाः सर्वप्रथमम् अतीव स्फुटं च प्राचीनशिलाशासनं सप्तमशताब्द्याः वर्तते । शासनेषु उपलब्धम् आदिमं तेलुगुपदं “नागबु” इति पदम् । क्री.श. एकादशशताब्दीतः ग्रन्थस्थीकृतं स्पष्टं तेलुगुभाषाचरित्रम् अवलोकयितुं शक्यते ।

तेलुगु, तेनुगु, आन्ध्रम् - एतेषां त्रयाणां पदानां मूलस्य, तन्मध्ये स्थितस्य परस्परसम्बन्धस्य च विषये चरित्रकाराणां भिन्नाभिप्रायाः सन्ति । क्री.पू. ७०० तमे वर्षे ऋग्वेदस्य ऐतरेयब्राह्मणे प्रथमतया “आन्ध्र” इति पदं जातिवाचकत्वेन प्रयुक्तम् । अतः अस्माकं ज्ञानानुसारम् इयमेव प्रचीनतमा प्रस्तुतिः । ततः पश्चात् बौद्धशासनेषु अशोकचक्रवर्तिनः शासनेषु च आन्ध्रीयाणां प्रस्तुतिः आसीत् । क्री.पू. चतुर्थशताब्द्यां मेगस्तनीसः इति ग्रीकराष्ट्रदूतः “आन्ध्रीयाः महासैनिकबलसम्पन्नाः” इति अवर्णयत् ।

आन्ध्रीयैः भाष्यमाणायाः भाषायाः आन्ध्रं, तेलुगु, तेनुगु इत्याख्याः सन्ति । केषाञ्चन अभिप्रायोऽयं यत् आन्ध्रं तेलुगु इत्येतत् पदद्वयं भिन्नजातिद्वयम् इति, कालक्रमेण च तद्द्वयं सम्मिलितं जातम् इति । परम् अस्याभिप्रायस्य जन्युशास्त्रपरतया भाषाशास्त्रपरतया वा सबलानि प्रमाणानि नोपलभ्यन्ते । वैदिकवाङ्मयानुसारेण आन्ध्रीयाः नाम साहसोपेता सञ्चारजातिः । भाषाशास्त्रदृष्ट्या तेलुगुभाषा कृष्णागोदावर्योः नद्योः मध्यभागे निवसतां स्थिरवासिनां भाषा वर्तते । यस्मिन् प्रान्ते तेलुगु भाषा भाष्यमाणा आसीत् तत् प्रान्तम् आदौ अन्ध्रराजैः पालितम् इत्यतः आन्ध्रं, तेलुगु इति द्वे पदे समानार्थवचके सञ्जाते इति केषाञ्चित् अध्याहारः । दशमशताब्द्याः पारशीकचरित्रकारः श्रीमान् अल्बरूनिः तेलुगुभाषाम् “आन्ध्री” इति अभ्यवर्णयत् । क्री.श. १००० तमवर्षात् पूर्वशासनेषु वङ्मये वा “तेलुगु” इति शब्दः कुत्रापि न दृश्यते । एकादशशताब्द्याः आरम्भतः ’तेलुङ्गु भूपालुरु’, ’तेल्गरमारि’, ’तेलिङ्गकुलकाल’, ’तेलुङ्ग नाडोलगण माधविकेरिय’ इत्यादीनि पदानि शासनेषु प्रयुक्तानि । एकादशशताब्द्यां नन्नयभाट्टारकस्य काले तेलुगुशब्दस्य रूपान्तरत्वेन “तेनुगु” इति शब्दः व्यवहारपथमागतः । त्रयोदशशताब्द्यां महम्मदीयचारित्रकाः एतं देशं “तिलिङ्ग्” इति व्यवहृतवन्तः ।  पञ्चदशशताब्द्याः पूर्वभागे विद्वान् विन्नकोट पेद्दन्नः स्वकीये काव्यालङ्कारचूडामणौ आन्ध्रदेशं त्रिलिङ्गनाम्ना व्यपदिष्टवान् ।

श्रीशैलं, कालेश्वरं, द्राक्षारामः च इत्येतेषां त्रयाणां शिवलिङ्गक्षेत्राणां मध्ये विद्यमानः भूभागः त्रिलिङ्गदेशः इति तच्च “त्रिलिङ्ग” इति पदं गच्छता कालेन “तेलुगु” इति रूपान्तरं प्राप्नोत् इति एकः पक्षः । अन्यच्च गाम्भीर्यप्रकाशनार्थमेव “त्रिलिङ्ग” इति संस्कृतीकृतमिति, तेलुगु इति पदं तु प्राचीनरूपमेव इति चरित्रकाराणाम् अभिप्रायः । द्वादशशताब्द्यां पाल्कुरिकि सोमनाथः “नवलक्षतेलुङ्गु” इति अर्थात् नवलक्षग्रामैः विस्तीर्णः तेलुगुदेशः इति वर्णितवान् । निष्कर्षः अयमेव यत् तेलुगु, तेनुगु, आन्ध्रम् इति त्रीणि पदानि भाषायाः जातेश्च पर्यायवाचकत्वेन स्वरूपं प्राप्नुवन् ।

तेलुगु अजन्तभाषा, अर्थात् प्रायः सर्वोऽपि तदीयशब्दः स्वरेणैव अन्ततां याति । इदम् अवलोक्य एव (१५) पञ्चदशशताब्द्याम् इटलीदेशीययात्रिकः श्रीमान् निकोलो डा काण्टी तेलुगुभाषां “प्रागिटलीयभाषा” (Italian of the East) इति अभिवर्णितवान् ।
तेलुगुभाषा साधारणतया तत्रत्यपदानि अन्यपदैः साकं संमिलितानि भवन्ति इति परिगण्यते । अत्र नामवाचकस्य तदावश्यकतानुसारम् अन्यानि विशिष्टाक्षराणि संयोज्यन्ते । व्याकरणदृष्ट्या तेलुगुभाषायां कर्ता कर्म क्रिया इत्येतानि त्रीणि क्रमशः एकस्य अनन्तरम् एकम् इति क्रमेण वाक्येषु प्रयुज्यन्ते ।

अङ्कति, आन्ध्र, बुडबुक्कल, डोक्कल, चेञ्चु, एकिडि, गिडारि, बेरादि, दासरि, दोम्मर, गोलारि, कम्मरि, कामादि, काशिकापिडि, कोडुव, मेदरि मालबास, मातङ्गि, 
नगिलि, पद्मसालि, जोगुल, पिच्चुकुण्ट्ल, पामुल, कोण्डारेड्डी, तेलङ्गाणा, तेलुगु, सगर, वडग, वडरि, वाल्मीकि, यानादि, बगट, श्रीकाकुलं, प्राग्गोदावरी, पश्चिमगोदावरी, रायलसीमा, नेल्लूरु, गुण्टूरु, मद्रासु (वडुग), ओरिस्सा (बडग), बञ्जारा (लम्बाडी) इत्यादयः ।

यथा अन्यभारतीयभाषालिपयः तथैव तेलुगुभाषालिपिः अपि ब्राह्मीलिपितः समुद्भूता । अशोकचक्रवर्तिनः काले मौर्यसाम्राज्यस्य सामन्तराजाः शातवाहनाः दक्षिणभारतं प्रति ब्राह्मीलिपिं समानयन् । अतः कारणादेव सर्वाः अपि दक्षिणभारतीयभाषाः यद्यपि मूलद्राविडभाषातः समुद्भूताः तथापि तत्तद्भाषायाः लिपयः तु ब्राह्मीतः एव समजायन्त । अशोककालीनायाः ब्राह्मीलिप्याः एव रूपान्तरं भट्टिप्रोलुलिपिः । ततः एव तेलुगुलिपिः समुद्भूता ।
बौद्धाः वर्तकाश्च तेलुगुलिपिम् आग्नेयासियाप्रान्तेभ्यः प्रदत्तवन्तः । इयमेव लिपिः तत्र मान्, बर्मीस्, थाय्, ख्मेर्, काम्, जावनीस्, बालिनीस् इत्यादिभाषाणा, लिपिसमुद्भवे कारणं जाता ।

तेलुगुलिपिः प्रायशः उच्चारणयोग्यैः एकाक्षरैः युक्ता भवति । अपि च वामतः दक्षिणं प्रति सरलाक्षरसरणियुता भवति । एवम् उच्चारणयोग्यानाम् एकाक्षराणाम् आधिक्येन अक्षराणि अचः (स्वराः) हलः (व्यञ्जनानि) चेति प्रधानप्रमाणानि समधिष्ठितानि सन्ति । व्यञ्जनानां स्वरूपं तत्तत्प्रयोगदृष्ट्या सन्दर्भानुसारेण परिवर्तमानं भवति । स्वररहितानि व्यञ्जनानि शुद्धानि परिगण्यन्ते । अथ च व्यञ्जनानां लेखनाय पठनाय च तत्र “अ” इत्यस्य स्वरस्य निवेशनं सम्प्रदायः । तेलुगुभाषायां वाक्यं पूर्णविरामेण अर्धविरामेण वा समाप्यते । संख्यानाम् अभिज्ञानार्थं यद्यपि तेलुगुभाषायां पार्थक्येन सङ्केताः वर्तन्ते, तथापि अरबिक्-संख्यासङ्केताः एव विस्तृततया, सर्वसाधारणतया च उपयुज्यन्ते । एवं तेलुगुभाषायां (१६) षोडश स्वराः, (३) त्रयः विशिष्टस्वराः, (४१) एकचत्वारिंशत् व्यञ्जनानि च सन्ति । आहत्य (६०) षष्टिः लिपिसङ्केताः वर्तन्ते ।

तेलुगुभाषासाहित्यं  षट्सु युगेषु वर्गीकर्तुं शक्यते ।
यथा-

(११) एकादशशताब्दकाले नन्नयविरचितं “श्रीमदान्ध्रमहाभारतं” तेलुगुभाषायाः सर्वप्रथमं साहित्यकाव्यमिति सर्वत्र वदन्ति । सपदि एव एतावत् बृहत्तरं परिपक्वं च महाकाव्यं समुद्भूतम् इति तु सर्वथा अनूह्यम् । अतः एतस्मात् पूर्वमपि योग्यं साहित्यं स्यादेव । प्रायः तत् साहित्यं ग्रन्थरूपतां न गतं स्यात् । अथवा अस्माभिः न उपलभ्येत । ततः पूर्वतनं साहित्यं बाहुल्येन जानपदरूपेण स्थितं स्यात् इत्यत्र अस्ति कश्चन सम्भवः । परं तद्विषये उपलभ्यमानं प्रमाणं सर्वथा शून्यम् । क्री.श. ५७५ तमवर्षस्य रेनाटिचोलानां शासनमेव आदिमं तेलुगुशासनम् ( कडपजिल्लायाः कमलापुरतालुकायाः एर्रगुडिपाडुग्रामे उपलब्धम् ) । ततः पूर्वकालसम्बद्धे अमरावतीशासने “नागबु” इति पदं दृश्यते ।

युगमिदं नन्नययुगमिति वक्तुं शक्यते । नन्नयः आन्ध्रीयः आदिकविः । अयं च महाकविः श्रीमन्महाभारतं तेलुगुभाषया अनूदितुम् उद्युक्तः सन् तत्रत्यम् आदिमं पर्वद्वयं परिसमाप्य तृतीयं ( अरण्यपर्व ) च अर्धं यावत् विलिख्य पञ्चत्वं गतः । नारायणभट्टः नन्नयस्य सहायत्वेन अतिष्ठत् । नारायणभट्टः वाङ्मयदुरन्धरः अष्टभाषाकविशेखरः च । सहाध्यायिनौ नारायणनन्नयभट्टौ भारतयुद्धाय सन्नद्धौ कृष्णार्जुनौ इव महाभारतान्ध्रीकरणाय कृतसङ्कल्पौ भारतं विज्ञानसर्वस्वम् इति समुद्घोषयितुं प्रयत्नम् आरब्धवन्तौ । ततश्च तेलुगुकाव्यभाषास्वरूपस्य परिपूर्णतां सम्पाद्य पण्डितैः पामरैश्चापि श्लाघनीयां शैलीम् आरचय्य उत्तरोत्तरकवीनां मार्गदर्शकौ सञ्जातौ । आन्ध्रभाषाचरित्रे नन्नयनारायणभट्टौ युगपुरुषौ । एतौ तेलुगुभाषायाः कञ्चन मार्गं निर्दिष्टवन्तौ । अनयोः अनन्तरकवयः सर्वेऽपि तद्यदा नन्नयमार्गम् अनुसृतवन्तः एव ।
नन्नयकालानन्तरं मुख्यानि सामाजिकधार्मिकसंस्करणानि अभवन् । वीरशैवस्य भक्तिमार्गस्य च प्राबल्यवशात् नैकानि काव्यानि प्रादुरभूवन् । तिक्कनः (१३ शतब्दीयः ) एर्रणः ( १४ शतब्दीयः ) च भारतान्ध्रीकरणम् अनुवर्तितवन्तौ । नन्नयप्रदर्शितमार्गेण असंख्याकाः कवयः पद्यकाव्यानि व्यरचयन् । तत्र विद्यमानेषु अधिकानि पुराणानाम् आधारेण एव लिखितानि ।

अस्मिन् काले संस्कृतकाव्यानां नाटकानां च अनुवादः अन्ववर्तत । कथाकाव्यानि अपि समुदितानि । “प्रबन्धः” इति काव्यप्रभेदः अस्मिन्नेव काले समजनि । श्रीनाथः, पोतनः, जक्कनः, गौरनः च इत्यादयः अस्मिन् काले सुप्रख्याताः कवयः आसन् । छन्दश्शास्त्रं च महतीं परिणतिं गता । श्रीनाथस्य शृङ्गारनैषधम्, पोतनस्य श्रीमद्भागवतम्, जक्कनस्य विक्रमार्कचरितम्, ताल्लपाक तिम्मक्कायाः सुभद्राकल्याणम् इत्यादीनि युगस्यास्य प्रमुखानि काव्यानि आसन् ।
सन्दर्भेऽस्मिन् रामायणकवीनां प्रस्तुतिः अपि शक्यते । गोन बुद्धारेड्डिविरचितं “रङ्गनाथरामायणम्” एव अस्मत्प्राप्तम् आदिमं रामायणम् ।

विजयनगरसाम्राज्यस्य चक्रवर्तिनः श्रीकृष्णदेवरायस्य समादरवशात् (१६) षोडशशताब्द्यां तेलुगुसाहित्यस्य स्वर्णयुगं विकसितम् । स्वयं कविः महाराजः “आमुक्तमाल्यदा” इति स्वकीयरचनया “प्रबन्धः” नाम काव्यप्रभेदं समुपास्थापयत् । अस्य कालस्य अतीव प्रमुखैः “अष्टदिग्गजकविभिः” महाराजास्थानं नितारां समशोभत ।

कर्णाटकसङ्गीतस्य नैके विद्वांसः तदीयं साहित्यं तेलुगुभाषया एव अरचयन् । तादृशप्रसिद्धेषु विद्वत्सु त्यागराजः, अन्नमाचार्यः, क्षेत्रय्यः, रामदासः च इत्यादिवाग्गेयकाराः अन्यतमाः सन्ति । मैसूरुवासुदेवाचार् इत्यादयः आधुनिकरचयितारः अपि स्वरचनानां माध्यमत्वेन तेलुगुभाषाम् एव स्वीकृतवन्तः ।

यद्यपि १७९६ तमे वर्षे एव मुद्रितस्य तेलुगुग्रन्थस्य विमुक्तिः सञ्जाता, तथापि तेलुगुसाहित्यस्य पुनरुद्धरणं तु (१९) नवदशशताब्द्याः आरम्भे साध्यम् अभूत् । (१९) नवदशशताब्द्याः मध्यकाले षेल्ली, कीट्स्, वर्ड् वर्त् इत्यादिपाश्चात्यकवीनां कविताभिः नितरां प्रभाविताः युवकवयः “भावकवित्वम्” इत्यस्य विनूत्नस्य प्रणयकविताप्रभेदस्य आविष्कारम् अकुर्वन् ।




#Article 33: मराठीभाषा (194 words)


मराठी आर्य-भाषापरिवारस्य भाषा अस्ति। अधिकतया माहाराष्ट्रराज्ये भाष्यते । महाराष्ट्रराज्यस्य राजभाषात्वेन इयं भाषा प्रचलिताऽस्ति। 

मराठीभाषा भारतीय-आर्यभाषापरिवार:, भारतीय-इराणीभाषापरिवार:, भारोपीयभाषापरिवार:, दाक्षिणात्यभाषापरिवार: च इत्येतेषु भाषापरिवारेषु अन्तर्भवति । 

मराठीभाषाया: इतिहासविषये बहुजनै: संशोधनं, लेखनं च कृतम् अस्ति । तत्र केचन मतान्तराणि अपि सन्ति । परं सर्वसामान्यत: यत् मन्यते तत् वयम् अत्र पश्याम: ।

माराठीभाषा विकास: त्रिषु स्तरेषु वैविध्यपूर्णम् दृश्यते इति अभ्यासकानाम् अभिप्राय: । त्रया: स्तरा: यथा - महाराष्ट्री-प्राकृत, अपभ्रंशी, मऱ्हाठी च सन्ति । महाराष्ट्री इत्यस्मिन् स्थाने केचनजना: महारठ्ठी, मरहट्टी इत्येतयो: योजनां कुर्वन्ति । मराठीभाषया 'विवेकसिन्धु:' इति कविमुकुन्दराजस्य(११८८) रचना प्रथमा मन्यते । आद्यग्रन्थेषु स्थानं 'विवेकसिन्धु:', 'ज्ञानेश्वरी'-'भावार्थदीपिका'(१२९०) इति भगवद्गीताभाषान्तरं, 'लीळाचरित्रम्' च इत्येतान प्राचीनग्रन्थान् दीयते । 
प्रतिष्ठान(पैठण) इत्यस्था: सातवाहन-प्रशासका: महाराष्ट्रीभाषा-उपयोगं प्रशासनार्थं कृतवन्त: । तदा मराठीभाषा, संस्कृते: च विकास: प्रारब्ध: । मराठा-आधिपत्ये मराठीभाषां राजाश्रयम् आसीत् अत: तस्मिन् कालेऽपि मराठीभाषा विकास:, रचना: च अधिका: जाता: । मराठा-आधिपत्यकाले मोरोपन्त, मुक्तेश्वर:, वामनपण्डित एत्येते रचनाकारा: आसन् यै: राजाश्रय: लब्ध: ।  मराठीभाषाविकासे नाथसाम्प्रदायिकानां महत्वपूर्णसहभाग: अस्ति । एकनाथी भागवतं, भावार्थ-रामायणं च महत्वपूर्णरचनाकार्ये । १९४७ तमे वर्षे स्वातन्त्र्यप्राप्त्यनन्तरं मराठीभाषा राजभाषात्वेन स्वीकृता । अनन्तरं १९६० तमे वर्षे यदा मराठीभाषाधारितं राज्यरचना अभवत् तदा अधिकृततया राज्यभाषा जाता मराठीभाषा । १९३० तमवर्षात् मराठी साहित्य सम्मेलनम् आरब्धम् ।

मराठीभाषा प्रमुखतया देवनागरी माध्यमेन लिख्यते । मराठीलेखनार्थं या लिपिः युज्यते सा देवनागरी, 'बाळबोध लिपिः' वा ज्ञायते जनै: ।




#Article 34: गुजरातीभाषा (285 words)


गुजराती(ગુજરાતી)(Gujarathi) भाषा भारतस्य राज्याङ्गे उल्लिखितासु पञ्चदशसु भाषासु अन्यतमा । गुजरातराज्यस्य राज्यभाषा । भारतदेशस्य विविधेषु भागेषु एशिया-आफ्रिकाखण्डेषु च गुजरातभाषाभाषिणः निवसन्ति । ६५,५०,००,००० जनाः गुजरातिभाषया भाषन्ते । इयं भाषा भारतीय-आर्यभाषासु अन्यतमा । गुजरातराज्यस्य पूर्वसीमायाम् ईशान्यसीमायां च  राजस्थानीभाषा विद्यते इत्यतः अनयोः भाषयोः सङ्गमनं दृश्यते । अधिकतया भाषमाणासु भाषासु २६ तमे स्थाने विद्यन्ते इयं भाषा । महात्मा गान्धिः, सरदार् वल्लभभायी पटेलः, स्वामी दयानन्दसरस्वती, मोरारजी देसायी, जे.आर्.डि.टाटा, धीरूभाई अंबानी, महम्मद् आलि जिन्ना इत्येतादृशानां बहु प्रसिद्धजनानां मातृभाषा अस्ति गुजरातीभाषा ।

वैचारिकासाहित्यदृष्ट्या आधुनिकगुजरातीसाहित्यं समृद्धं वर्तते । अस्य साहित्यपरम्परा सहस्रवर्षेभ्यः दृश्यते । उपदेशात्मकगद्यं, भावगीतात्मकं प्रशंसात्मकञ्च पद्यसाहित्यं तस्मिन् स्तरे दृश्यते । गुजरातीलिपिः देवनागरीलिपेः सादृश्यं भजते । सप्तशतात् वर्षेभ्यः पश्चिमभारते गुजरात-राजस्थानराज्ययोः अस्याः लिपेः उपयोगः दृश्यते । इयं लिपिः महाजनी इति कथ्यते । अस्याः वर्णमाला संस्कृतजन्या विद्यते । अक्षराणाम् आकारः देवनागर्याः सदृश्यतां भजते । 

गुजरातीभाषा भारोपीयभाषापरिवारस्य भारतीय-इरानी-उपवर्गस्य भारतीय-आर्यशाखायाम् अन्तर्भूता भाषा । भारतीय-आर्यगणस्य प्रमुखशाखाद्वयं (उत्तरशाखा - पहाडि, पञ्जाबी, लहन्दा, सिन्धी, कच्छिभाषाश्च । पूर्वशाखा - वङ्ग, असम, ओरियाभाषाश्च ।) पृथक् यदा जातं तदा पश्चिमशाखा(गुजराती, राजस्थानी, भीली), दक्षिणशाखा(मराठी, कोङ्कणी), मध्यमशाखा(पश्चिमहिन्दी) च पृथक् जाताः । मध्यमशाखाभाषायां नामवाचिनः पुंलिङ्ग-एकवचनस्य रूपम् अकारान्तं भवति चेत् पश्चिमशाखाभाषासु ओकारान्तं रूपं दृश्यते । उदा - घोडा (अश्वः) इत्येतत् पदं गुजरातीभाषया घोडो जातमस्ति । पश्चिम-दक्षिणशाखाभाषासु नपुंसकलिङ्गं विद्यते ।

गुजरातीभाषायाः ध्वनिव्यवस्थायाः वैशिष्ट्यम् - 

नामरूपेषु लिङ्गत्रयं, वचनद्वयञ्च विद्यते । विशेष्य-विशेषण-कृदन्तरूपाणि त्रिषु लिङ्गेषु एकवचने बहुवचने च प्राप्तुं शक्यानि । विभक्तित्रये रूपाणि स्पष्टतया प्राप्तुं शक्यानि - प्रत्यक्ष-एकवचनम्, प्रत्यक्ष-बहुवचनम्, परोक्षरूपञ्च । एवं पुंलिङ्गनामपदानि(दिक्रो) रूपद्वयं, नपुंसकलिङ्गनामपदानि(माथू) त्रीणि रूपाणि च प्राप्नुवन्ति । सबलनामपदानां (हाथि, मच्चर्) स्त्रीलिङ्गनामपदानाञ्च(दिक्रि, सत्ता, तमाखु) विभक्तिप्रत्ययाः न भविष्यन्ति । 

पुरुषवाचकसर्वनामसु लिङ्गविवक्षा न भवति । उत्तमपुरुष-बहुवचनेषु समावेशि(आप्णे) असमावेशि(अमे) सर्वनाम्नां प्रत्येकं रूपाणि विद्यन्ते । 

क्रियापदरूपेषु पुरुष-वचनव्यवस्था विद्यते । परप्रत्ययानां योजनेन काल-अवस्था-विशेषाः निर्दिश्यन्ते । 'हो' इत्येतेन सहायकक्रियापदयुक्तैः बहुपदरचनानां द्वारा पूर्णकालाः सूचयिष्यन्ते । तात्कालिकवर्तमानकालिक-भूतकालिक-पूर्वकालिकरूपाणि कृदन्तानि भवन्ति । नामपदेभ्यः इव एतेभ्यः अपि विभक्तिप्रत्ययाः योजयितुं शक्याः । एकवचने द्वयं बहुवचने द्वयम् इव रूपचतुष्टयं स्पष्टतया प्राप्तुं शक्नुमः । 




#Article 35: बाङ्गला भाषा (222 words)


बांला भाषा ( or बेङ्गली  ()  एका आर्यभाषा अस्‍ति । बांलादेशे, भारतस्य पश्चिमवङ्गराज्ये, त्रिपुरा-असमराज्ययोः केषुचित् मण्डलेषु च जनाः वङ्गभाषया व्यवहरन्ति । भाषापरिवारदृष्ट्या इयं हिन्द्-युरोपीयभाषापरिवारस्य सदस्या । अस्मिन् परिवारे विद्यमानाः अन्याः भाषाः - हिन्दी, नेपाली, पञ्जाबी, गुजराती, असमीया, ओडिया, मैथिली इत्यादयः । वङ्गभाषया सम्भाषणकर्तॄणां सङ्ख्या अस्ति २३ कोटिपरिमितम् । विश्वस्य अधिकैः जनैः भाष्यमाणासु भाषासु वङ्गभाषा षष्ठे स्थाने विद्यते । बांलादेशं भारतञ्च विहाय विश्वस्य अन्येषु भागेषु  अपि अनया भाषया सम्भाषणकर्तारः अधिकाः सन्ति ।

भारतस्य अन्याः भाषाः इव वङ्गभाषायाः अपि उत्पत्तिकालः सामान्यतः १० शतकम् । मगधभाषातः पृथग्रूपस्य प्राप्तेः अनन्तरम् एव अनया भाषया गीतादीनां रचनस्य आरम्भः जातः । इयं भाषा जनानां भावानां विचाराणाम् अभिव्यक्तेः साधनं जातम् । कालक्रमेण काव्यग्रन्थानां धर्मदर्शनादीनां विषये कृतयः रचिताः जाताः । अद्यत्वे भारतीयभाषासु इयं भाषा उन्नतस्थाने विद्यते ।

भारते अधिकैः जनैः भाषमाणासु भाषासु द्वितीयस्थाने वर्तते वङ्गभाषा । भारतस्य राष्ट्रगीतं राष्ट्रगानञ्च वङ्गभाषया एव रचितमस्ति । राष्ट्रगीतं 'वन्दे मातरम्' बङ्किमचन्द्रचटर्जिवर्येण राष्ट्रगानं 'जनगणमन' रबीन्द्रनाथठाकूरेण रचितम् ।

बुद्धस्य काले उपयुज्यमानाः मागधी-प्राकृत-पालीभाषाः अग्रे जैनप्राकृत-अर्धमागधिरूपेण विकसिताः जाताः । अर्धमागधिभाषातः अपभ्रंशभाषाः उत्पन्नाः । एताः त्रिधा विभक्ताः - बिहारिभाषाः, ओरियाभाषाः, अस्सामी-बेङ्गालीभाषाः चेति । 

प्राचीनवङ्गभाषायाः साहित्ये चर्यपदम्, भक्तिगीतानि, अमि-तुमि इत्यादीनां सर्वनामानाम् उगमः च दृश्यते । तदानीन्तनी लिपिः भाषा च अधिकतया कामरूपिभाषातः प्रभाविता आसीत्, यतः एते प्रदेशाः कामरूपसाम्राज्यस्य आधीन्ये आसीत् ।

अस्य कालस्य प्रमुखा कृतिः चण्डिदासस्य 'श्रीकृष्णकीर्तन' । संयुक्तक्रियापदानां प्रसारः, पर्शियन्प्रभावः च तदा दृश्यते ।

पालीभाषायाः साम्यतां भजन्ती वङ्गभाषा संस्कृतभाषातः प्रभाविता जाता अस्ति चैतन्यप्रभोः युगे, वङ्गनवोदयकाले च । तुर्किभाषाणां प्रभावश्च दृश्यते । 




#Article 36: भुवनेश्वरम् (148 words)


ओड़िशा-प्रदेशस्‍य राजधानी ।
एतत् नगरं भरतस्य देवालयनगरत्वेन , मन्दिर-मालिनीनगरम् इति च ख्यातम् अस्ति । अत्र पञ्चशताधिकानि मन्दिराणि सन्ति। एतानि मन्दिराणि सर्वेषां चेतांसि हरन्ति। अत्रत्ये बिन्दुसागरनामके सरोवरे स्नात्वा एव भुवनेश्वरदर्शनयात्रा करणीया इति तु परम्परा। भगवत्याः पार्वत्याः पिपासानिवारणार्थं शिवः भरतस्य सर्वाभ्यः नदीभ्यः सर्वेभ्यः सरोवरेभ्यः च जलम् आनीय एतं बिन्दुसरोवरं निर्मितवान् इति कथा श्रूयते।
एतस्मिन् नगरे स्थितेषु मन्दिरेषु  महामन्दिरं नाम लिङ्गराजमन्दिरम्। एतत् मन्दिरम् एकादशे शतके निर्मितम्। ४६ मीटर् औन्नत्येन युक्तम् एतत् मन्दिरम् उत्कलीयशिल्पशास्त्रस्य उत्कृष्टम् उदाहरणम् अस्ति।
मुक्तेश्वरमन्दिरम् अपरा रम्या शिल्पकृतिः। एतस्मिन् उत्कीर्णानि शिल्पानि तावत् अतीमनोहराणि।
लिङ्गराजमन्दिरतः दक्षिणपूर्वदिशि किञ्चिद्दूरं गतं चेत् शिशुपालनगरं नाम दुर्गीयनगरं प्राप्यते। एतत् क्रिस्तात् पूर्वं तृतीये शतके निर्मितं स्यात् इति भाव्यते।
एतस्मात् नगरात् दक्षिणे अष्ट किलोमीटर् दूरे धौलीनामकं स्थलम् अस्ति। यत्र च चक्रवर्ती अशोकः बौद्धमतं अङ्गीकृतवान्। अशोकस्य प्रथमं शिलाशासनम् अत्र द्रष्टुं शक्नुमः।

धौलिगिरिनामके पर्वते कलिङ्गयुद्धसम्बद्धानि स्मारकाणि रक्षितानि सन्ति। एतस्मात् नगरात् अनतिदूरे एव स्थितयोः उदयगिरि-खण्डगिरिप्रदेशयोः जैनसंस्कृतिद्योतकैः भित्तिचित्रैः युक्ताः गुहाः सन्ति।
अस्य पूर्वदिशायां विश्‍वप्रसिद्धं कोणार्कमन्दिरं विराजते ।
पुरी-स्थितं श्रीजगन्नाथ-मन्दिरं सर्वजन-परिचितम् ।




#Article 37: मेघालयराज्यम् (2963 words)


 
मेघालयराज्यम् (Meghalaya) ईशान्यभागे भारते विद्यमानं किञ्चन राज्यम् । मेघानाम् आलयः मेघालयः। अस्य राज्यस्य विस्तीर्णं ८.७०० चदरमैलपरिमितम् अस्ति । सा.श. २००० तमे संवत्सरे २,१७५,००० जनसंख्या आसीत् । राज्यस्य उत्तरभागे असमराज्यम्, दक्षिणे बाङ्ग्लादेशश्च भवतः। शिलाङ्ग अस्य राज्यस्य राजधानी । अस्य नगरस्य जनसंख्या २६०,००० भवति । रज्यस्य तृतीयस्य एकांशः अरण्यप्रदेशः अस्ति । असमराज्यात् त्रयाणां मण्डलानां खासिहिल्स्, जैनतियाहिल्स् तथा गारोहिल्स् विभागकरणेन १९७२ तमे संवत्सरे मेघालयराज्यस्य स्थापनम् अभूत् ।

मिघालयराज्यम् मेघालयस्य “प्रस्थभूमिः” इति व्यवहारः अस्ति । अस्मिन् अधिकतया प्राचीनशिला खण्डसदृशाः विद्यन्ते । आङ्गाराष्म, चूर्णशिला, युरेनियम् तथा सिलिमनैट सदृशाः खनिजाः शिलारूपाः भवन्ति । मेघालये काश्चन नद्यः वहन्ति । तासु काश्चन वर्षाश्रिताः सन्ति । अतः कालानुगुण्येन वहन्ति । डेरिङ्ग, साण्डा, बान्द्रा, भोगै, डारेङ्ग, सिसाङ्ग, नितै तथा भूपै इत्यादीनि गारोहिल्स् प्रदेशस्य मुख्याः नद्यः । उम्ख्रि, उमियम्, किञ्चियाङ्ग, माव्वा, उमियिव, मैन्गोट तथा मैण्ट्डु इत्यादीनि प्रस्थभूमेः केन्द्रभागस्य तथा पूर्वविभागस्य मुख्याः नद्यः भवन्ति । एताः नद्यः गहनकन्दराणां तथा सुन्दरजलपातानां सृष्टिकर्त्र्यः भवन्ति । प्रस्थभूमेः उन्नतश्रेणिः १५० तः १९६१ मी. भवति । खासिहिल्स् प्रदेशे विद्यमानायाः प्रस्थभूमेः केन्द्रभागस्य औन्नत्यम् अधिकं भवति । जैनतियाहिल्स् प्रदेशे विद्यमानः पूर्ववलयः औन्नत्ये द्वितीयः भवति । मेघालये उन्नतः शिलाङ्गशिखरः भवति । खासिहिल्स् प्रदेशे विद्यमानः शिखरः शिलाङ्गशिखरस्यापेक्षया उन्नतः भवति । अयं शिखरः १९६१ मि. उन्नतः अस्ति । प्रस्थभूमेः पश्चिमविभागे विद्यमानः गारोहिल्स वलयः प्रायः समतलप्रदेशः भवति । गारोहिल्स वलयस्य नोक्रेक् शिखरः उन्नतः भवति । अस्य औन्नत्यं १५१६ मिटर्परिमितं भवति ।

मेघालय-राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । ग्रीष्मर्तौ अस्य राज्यस्य अधिकतमं तापमानं २६ डिग्रीसेल्सियस्-मात्रात्मकं भवति । शीतर्तौ अस्य नगरस्य तापमानं ९ डिग्रीसेल्सियस्-मात्रात्मकं भवति । खासीहिल्स्-क्षेत्रे, जयन्तियाहिल्स्-क्षेत्रे च वर्षायाः आधिक्यं भवति । अस्य राज्यस्य पश्चिमभागे प्रायः २,६०० मिलिमीटरमितम्, उत्तरभागे २,५०० तः ३,००० मिलिमीटरमितं, दक्षिण-पूर्वभागयोः ४,००० मिलिमीटरमितं च वर्षामानं भवति । 

मेघालय-राज्ये बह्व्यः नद्यः प्रवहन्ति । सिमसैङ्ग-नदी, माण्डा-नदी, जाञ्जीराम-नदी, डैमरिङ्ग-नदी, भोगई-नदी, रिङ्ग्गी-नदी, गनोल-नदी च इत्यादयः मेघालय-राज्यस्य प्रमुखाः नद्यः सन्ति । एताः नद्यः नौकाचालनाय उपयुक्ताः न सन्ति । यतः इदं क्षेत्रं पर्वतीयम् अस्ति । माण्डा-नदी, जाञ्जीराम-नदी, डैमरिङ्ग-नदी च इत्येताः नद्यः “गारो” इत्यस्य पर्वतक्षेत्रे उत्तरदिशि प्रवहन्ति । गनोल-नदी, रिङ्ग्गी-नदी च पश्चिमदिशि प्रवहति । सिमसैङ्ग-नदी दक्षिणदिशि प्रवहति । इयं नदी गारो-पर्वतीयक्षेत्रस्य बृहत्तमा नदी अस्ति । मेघालय-राज्ये तडागाः अपि सन्ति । माफलङ्ग-तडागः, थाडलास्किन-तडागः, उमियम-तडागः, उमियमर्त्वान-तडागः, मिलुन्द-तडागः, नपाक-तडागः, मिताङ्ग-तडागः च अस्य राज्यस्य प्रमुखाः तडागाः सन्ति ।

मेघालय-राज्यस्य इतिहासः षोडशशताब्दीतः प्राप्यते । ई. स. १७६५ तमे वर्षे इदं राज्यम् असम-राज्ये आसीत् । तस्मात् कालात् इदं क्षेत्रं ब्रिटिश-जनानाम् आधीन्ये आसीत् । “ईस्ट् इण्डिया कम्पनी” इत्यस्य संस्थायाः जनाः खासि-जातेः जनैः सह सम्पर्कं कृतवन्तः । तस्मिन् समये खासि-जनाः सिलहट-क्षेत्रस्य सीमायां स्थिते पाण्डुआ-स्थले वस्तूनां व्यापारं कुर्वन्ति स्म । ई. स. १८१३ तमे वर्षे खासीपर्वतीयक्षेत्रेषु मिशनरी-जनाः प्रविष्टवन्तः । ई. स. १८६६ तमे वर्षे ब्रिटिश-जनैः शासनव्यवस्थायै तुरा-नगरे ब्रिटिश-सर्वकारस्य प्रशासनिकमुख्यालयः स्थापितः । ई. स. १८६६ तमे वर्षे “खासी पुनरुत्थान आन्दोलनम्” आरब्धम् । अस्मिन् आन्दोलने खासि-जनैः मिशनरी-जनानां वैरोद्धारं कृतम् । 
ई. स. १९२८ तमे वर्षे “साइमन कमीशन” इत्ययं समूहः समागतवान् । अतः तस्मिन् समये “खासी नेशनल फ्रण्ट्” इत्यनेन समुहेन पृथक्त्वेन खासी-राज्यं याचितम् । ई. स. १९५४ तमे वर्षे अस्य क्षेत्रस्य निवासिभिः पुनः पृथग्राज्यस्य याचना कृता आसीत् । किन्तु ई. स. १९५६ तमे वर्षे “राज्य पुनर्गठन आयोग” इत्यनेन तेषां याचना अस्वीकृता । ई. स. १९६० तमे वर्षे “ऑल् पार्टी हिल् लीडर्स् कॉन्फ्रेन्स्” इतीदं सङ्घटनं सङ्घटितम् । अन्ते ई. स. १९७२ तमे वर्षे इदं क्षेत्रं स्वतन्त्रभारतस्य राज्यत्वेन उद्घोषितम् आसीत् । अस्य नाम मेघालयः इति कृतम् । “मेघानाम् आलयः इति मेघालयः” इति । प्रदेशः अयं पर्वतीयः अस्ति । वर्तमाने शिलाङ्ग-नगरं मेघालयस्य राजधानी अस्ति । किन्तु इदं नगरम् ई. स. १८७४ तमे वर्षे असम-राज्यस्य राजधानी आसीत् ।

मेघालयराज्ये वनवासिनः एव अधिकतया निवसन्ति । तेष्वपि ’खासि’ जनाः अधिकतया सन्ति । ’गारोसमुदायस्थाः’ अपि अधिकतया निवसन्ति । अन्ये जैन्, तियार , कोच् , हजोङ्ग , दिमासा, ह्मार, कुकि, लखर, मिकिर, रभा तथा नेपाळि  जनसमुदायाः अत्र निवसन्ति । भारते अधिकया विद्यमानेषु क्रिश्चियनसमुदायेषु त्रिषु राज्येषु मेघालयोऽपि एकं राज्यम् । अस्मिन् राज्ये ७०.३% प्रतिशतं क्रिश्चियनजनाः निवसन्ति । अन्ये द्वे राज्ये नागाल्याण्ड, मिजोरामश्च भवतः । १९९१ तमे संवत्सरे मेघालयराज्ये ६५% प्रतिशतं क्रिश्चियनजनाः वसन्तिस्म । ११ लक्ष क्रिश्चियनजनाः वसन्तिस्म । अस्मिन् समये मिजोरामापेक्षया मेघालये २००१ तमे संवत्सरे क्रिस्तजनाः अधिकतया वसन्तिस्म । २००१ तमे संवत्सरे अस्मिन् राज्ये १००० पुरुषाणां ९७५ स्त्रीणाम् लिङ्गानुपातः अस्ति । मेघालये पुरुषाणां प्रामुख्यता तावान्नास्तीति अभिप्रायः अस्ति ।

मेघालयराज्यं त्रिषु विभागेषु विभक्तम् । जैनतियाहिल्स्, खासिहिल्स्, गारोहिल्स् त्रयः विभागाः सन्ति । ११ मण्डलानि अस्मिन् राज्ये सन्ति ।

मेघालय-राज्ये मुख्यरूपेण द्वे महानगरे स्तः । शिलाङ्ग, चेरापूञ्जी च । मेघालयराज्यं पर्वतीयक्षेत्रम् अस्ति । अतः अस्य राज्यस्य नगराणां विकासः मन्दगत्या जायमानः अस्ति ।  

शिलाङ्ग-नगरं मेघालयस्य राजधानी अस्ति । इदं नगरं मेघालयराज्यस्य पूर्वखासिहिल्स्-मण्डलस्य केन्द्रम् अस्ति । इदं नगरं “पूर्वदिशः स्कॉट्लैण्ड्” इति कथ्यते । नगरमिदं पर्वतक्षेत्रे स्थितम् अस्ति । अतः अस्य नगरस्य प्राकृतिकं सौन्दर्यम् अपि अद्भूतं वर्तते । अस्य नगरस्य पर्यटनस्थलानि जनान् आकर्षन्ति । तत्र बहवः जलप्रपाताः, पर्वतशिखराणि च मनोहराणि सन्ति । “शिलाङ्ग पीक”, एलिफेण्ट् जलप्रपातः, स्वीट्-जलप्रपातः, “लैडी हैदरी पार्क्”, वार्ड्स्-तडागः, “पुलिस बाजार” च अस्य नगरस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । “डॉन् बोस्को सेण्टर् – सङ्ग्रहालयः” च अपि अस्मिन् नगरे स्थितः अस्ति । अस्मिन् सङ्ग्रहालये भारतीयसंस्कृतिः सङ्गृहीता अस्ति । मेघालय-राज्यं जनजातीयराज्यम् अस्ति । अस्मिन् राज्ये खासी, जैन्तिय, गारो च एताः तिस्रः जनजातयः निवसन्ति । शिलाङ्ग-नगरे खासी-जनजातेः जनाः निवसन्ति । इयं जनजातिः भारतस्य पुरातनीषु जनजातिषु अन्यतमा अस्ति । अस्याः जातेः जनाः कन्यायाः जन्मोत्सवम् आचरन्ति । ते कथयन्ति यत् - “कन्या एव वंशवृद्धिं करोति” इति ।

पुरा शिलाङ्ग-नगरम् असम-राज्यस्य राजधानी आसीत् । अस्य नगरस्य जलवायुः सुखदः, स्वास्थ्यकरः च अस्ति । अतः इदं नगरम् उत्तर-पूर्वदिशः पर्वतीयक्षेत्रम् अस्ति । इदं प्रशासनिकः मुख्यालयः अपि अस्ति । पुरा अस्मिन् राज्ये त्रयः ग्रामाः एव आसन् । आङ्गलैः शिलाङ्ग-नगरं स्थापितम् । शिलाङ्ग-नगरे बङ्गाली-जनाः अपि निवसन्ति । अस्य नगरस्य विकासाय बङ्गालीजनानां महद्योगदानम् अस्ति । अस्मिन् नगरे बङ्गाली-जनाः “बाबू” इति नाम्ना ज्ञायन्ते । वर्षर्तौ, शीतर्तौ च शिलाङ्ग-नगरस्य विहाराय जनाः गच्छन्ति ।

४० क्रमाङ्कस्य राष्ट्रियराजमार्गः शिलाङ्ग-नगरं गुवाहाटी-नगरेण सह सञ्योजयति । ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गः इदं नगरं सिलचर-नगरेण, त्रिपुरा-राज्येन च सह सञ्योजयति । अनेन प्रकारेण इदं नगरं समीपस्थैः राज्यैः, नगरैः च सह सम्बद्धम् अस्ति । मेघालय-राज्ये धूमशकटमार्गाः न सन्ति । किन्तु असम-राज्यस्य गुवाहाटी-नगरे मेघालय-राज्यस्य समीपस्थं रेलस्थानकम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । उमरोई-नगरस्य विमानस्थानकं शिलाङ्ग-नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं शिलाङ्ग-नगरात् ३० किलोमीटरमिते दूरे स्थितम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकं शिलाङ्ग-नगरात् ११७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा शिलाङ्ग-नगरं प्राप्यते । अनेन प्रकारेण शिलाङ्ग-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । तेन जनाः सरलतया शिलाङ्ग-नगरं प्राप्तुं शक्नुवन्ति ।

चेरापूञ्जी-नगरं मेघालय-राज्यस्य पूर्वीखासीहिल्स्-मण्डलस्य पत्तनम् अस्ति । चेरापूञ्जी-नगरं मेघालय-राज्यस्य लोकप्रियं नगरं विद्यते । इदं नगरं सोहरा इति नाम्ना अपि ज्ञायते । नगरमिदं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । पृथिव्याः आर्द्रतमं नगरम् अस्ति । तत्र बहवः पर्वताः, जलप्रपाताः च सन्ति । अस्मिन् नगरे आवर्षं वृष्टिः भवति । तेन अस्य नगरस्य मृत्तिका अल्पभारा भवति । अतः अत्र कृषिः अशक्या । यतः वर्षायाः कारणेन मृत्तिका शिथिला भवति । अनन्तरम् अग्रिमायां वर्षायां सा मृत्तिका जलेन सह वहति । तेन कृषिं कर्तुं न शक्यते । किन्तु तत्र पर्यटनस्थलानि अपि बहूनि सन्ति । मास्मई, नोहकालीकई, डैन थ्लेन च एते जलप्रपाताः सन्ति । नोहकालीकई-जलप्रपातः भारतस्य बृहत्तमेषु जलप्रपातेषु अन्यतमः अस्ति । अस्मिन् नगरे सा-इ-मीका-उद्यानम् अस्ति । तेन जनानां सम्मर्दः अपि अधिकः भवति । अस्य नगरस्य प्राकृतिकसौन्दर्येण नगरमिदम् आकर्षकम् अस्ति । समुद्रतलात् इदं नगरं १४८४ मीटरमिते औन्नत्ये स्थितम् अस्ति । अस्मिन् नगरे प्रतिवर्षं प्रायः ४६३.६६ इन्चमिता वर्षा भवति ।

अस्मिन् नगरे भूमार्गः एव परिवहनमार्गः मुख्यः वर्तते । शिलाँग-नगरात् चेरापूञ्जी-नगरं ५५ किलोमीटरमिते दूरे स्थितम् अस्ति । नगरेऽस्मिन् मेघालय-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । अतः पर्यटकाः तैः बसयानैः भ्रमणं कुर्वन्ति । चेरापूञ्जी-नगरे रेलस्थानकं नास्ति । गुवाहाटी-नगरस्य रेलस्थानकं चेरापूञ्जी-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं चेरापूञ्जी-नगरात् १५० किलोमीटरमिते दूरे स्थितम् अस्ति । इदं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । शिलॉङ्ग-नगरस्य विमानस्थानकं चेरापूञ्जी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं कोलकाता-नगरेण सह सम्बद्धम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । अतः वर्तमाने काले गुवाहाटी-नगरस्य विमानस्थानकम् एव समीपस्थम् अस्ति । चेरापूञ्जी-नगरात् गुवाहाटी-नगरं १७० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-विमानस्थानकं बेङ्गळूरु-महानगरेण, चेन्नै-महानगरेण, देहली-महानगरेण, मुम्बई-महानगरेण इत्यादिभिः भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः जनाः सरलतया चेरापूञ्जी-नगरं प्राप्तुं शक्नुवन्ति ।

आङ्ग्लभाषा मेघालयस्य राज्यभाषा अस्ति । ’खासि’ तथा ’गारो’ मुख्ये भाषे भवतः। ’खासि’ भाषा आस्ट्रो-एष्याटिक् समूहस्य मोनखैरस्य कुटुम्बस्य अङ्गम् अस्ति । प्रायः   मेघालयस्थाः ९००,००० जनाः अनया खासि भाषया व्यवहरन्ति । खासिभाषायां विद्यमानानि कानिचन पदानि बङ्गालि तथा आर्यादि भाषातः स्वीकृतानि सन्ति । खासि भाषायाः लिपिः नास्ति । भारते मोनखैर कुटुम्बेषु अवसिष्टासु भाषासु खासि अपि एका भाषा । गारो, भोडो भाषयोः साम्यता अस्ति । अस्य राज्येषु अधिकाः जनाः गारो, अवे, चिसाक, अबेङ्ग, गाञ्चिङ्ग, कामरूप, आचिक,डाका तथा माट्टियादि भाषाप्रभेदेषु व्यवहरन्ति । अस्य राज्यस्य अपरा भाषा जैन तियाहिल्स् जनानां व्यवहारभाषा भवति । प्रायः खासि भाषायाः परिवर्तितं रूपं भवति।

मेघालय-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्य राज्यस्य विधानसभायां ६० स्थानानि सन्ति । अस्य राज्यस्य लोकसभायं द्वे स्थाने, राज्यसभायाम् एकं स्थानं च अस्ति । लोकसभायाः भूतपूर्वाध्यक्षः “पी. ए. सङ्गमा” इत्याख्यः अपि मेघालय-राज्येन सह सम्बद्धः अस्ति । हिल् स्टेट् पीपुल्स् डेमोक्रेटिक् पार्टी, पीपुल्स् डेमोक्रेटिक् पार्टी, पीपुल्स् डेमोक्रेटिक् मूवमेण्ट्, नेशनल् कॉङ्ग्रेस् पार्टी, यूनाइटेड् डेमोक्रेटिक् पार्टी च इत्यादयः अस्य राज्यस्य राजनैतिकसमूहाः सन्ति ।

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं मेघालय-राज्यस्य साक्षरतामानं ७५.४८ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ७७.१७ प्रतिशतं, स्त्रीणां साक्षरतामानं ७३.७८ प्रतिशतम् अस्ति । शिलाङ्ग-नगरस्य “नॉर्थ् ईस्टर्न् हिल् युनिवर्सिटी”, शिलाङ्ग-नगरस्य “नॉर्थ् ईस्टर्न् इन्दिरा गान्धी रीजनल् इन्स्टीट्युट् ऑफ् हेल्थ् एण्ड् मेडिकल् साइन्सेज्”, शिलाङ्ग-नगरस्य “सैक्रेड् हार्ट् थियोलॉजिकल् कॉलेज्” च इत्यादीनि मेघालयराज्यस्य शैक्षणिकसंस्थानानि सन्ति ।

मेघालय-राज्यस्य जनाः मुख्यत्वेन कृष्याधारिताः सन्ति । अस्य राज्यस्य ८० प्रतिशतं जनाः कृषिकार्याणि, कृषिसम्बद्धान् उद्योगान् च कुर्वन्ति । मेघालय-राज्यस्य जलवायुः, मृत्तिका च कृषये अनुकूला अस्ति । अस्य राज्यस्य तापमानम् उष्णकटीबन्धीयं भवति । अतः फलानि, शाकानि च अधिकमात्रायाम् उत्पाद्यन्ते ।  तण्डुलाः, लवेटिकाः च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति ।

अस्मिन् राज्ये बहवः उद्योगाः अपि सन्ति । “मेघालय एसेन्शल् एण्ड् केमिकल् लिमिटेड्”, “मेघालय फाइटो केमिकल्स् लिमिटेड्”, “कोमोराह लाइमस्टोन् माइनिङ्ग् लिमिटेड्”, “यूनियन् काल्स्नेट्स् लिमिटेड्”, चेरापूञ्जी-नगरे “वज्रचूर्णस्य यन्त्रागारः” च इत्यादयः अस्य राज्यस्य प्रमुखाः उद्योगाः सन्ति । मेघालयराज्ये आहत्य १,५६० लघ्वुद्योगाः सन्ति । अस्मिन् राज्ये आहत्य ५६ उद्योगाः पञ्जीकृताः । अङ्गारः (Coal), चूर्णपाषाणः, केओलिन्, फेल्डस्पार्, स्फटिकं, अभ्रकं, जिप्सम्, बॉक्साईट् इत्यादयः खानिजाः प्राप्यन्ते । ई. स. १९९३ तमे वर्षे अस्मिन् राज्ये २५,४३,००० टनमात्रात्मकाः अङ्गाराः (coal), २,०९,००० टनमात्रात्मकाः चूर्णपाषाणाः च उत्पादिताः । मेघालय-राज्यस्य सिलीमेनाइट् (Sillimanite) इत्ययं खानिजः सम्पूर्णे विश्वस्मिन् श्रेष्ठः मन्यते । मेघालय-राज्यादेव सम्पूर्णभारते सिलीमेनाइट्-खानिजस्य आपूर्तिः क्रियते ।

मेघालय-राज्ये ईसाई-धर्मस्य जनाः अधिकमात्रायां सन्ति । आहत्य जनसङ्ख्यायाः ७५ प्रतिशतं जनाः ईसाई-धर्मस्य अनुसरणं कुर्वन्ति । अस्य राज्यस्य गारो-जातेः ९० प्रतिशतं, खासि-जातेः ८० प्रतिशतं च जनाः ईसाई-धर्मम् आचरन्ति । हजोङ्ग-जातेः ९७ प्रतिशतं, कोच-जनजातेः ९८.५३ प्रतिशतं जनाः हिन्दुधर्मम् आचरन्ति । 

मेघालय-राज्यं पर्वतीयक्षेत्रे स्थितम् अस्ति । अतः तस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । शिलाङ्ग-नगरं मेघालय-राज्यस्य राजधानी अस्ति । तस्य नगरस्य समीपे “लैडी हैदरी-उद्यानं”, “वार्ड्-तडागः, “शिलाङ्ग-पर्वतशिखरं”, “एलीफेण्ट्-जलप्रपाताः”, “पोलो ग्राउण्ड्” च इत्यादीनि प्रमुखाणि पर्यटनस्थलानि सन्ति    चिरापुञ्जि ईशान्य भारतस्य जनप्रियं प्रेक्षणीयस्थलम् । चिरापुञ्जि शिलाङ्गनगरात् दक्षिणदिशि विद्यते । ’एलिफण्ट जलपातः’, ’शाद्धुम् जलपातः’, ’वेय्निया जलपातः’, ’बिषप् जलपातः’, ’नोह्कालिकेय् जलपातः’, ’ल्याङ्ग्षियाङ्ग् जलपातः’, ’स्वीट् जलपातश्च’ प्रसिद्धाः जलपाताः भवन्ति । मासिन्राम् समीपे “जाक्रेम् अष्णजलउत्सांसि” सन्ति । रोगनिरोधकशक्तिः ऊष्णजले अस्ति । मेघालये मानवनिर्मिताः नैसर्गिकाश्च तटाकाः सन्ति । गुवहाटीतः शिलाङ्गगमनमार्गे विद्यमानस्य 'उमियम्' तटाकस्य “बडापानि” इति ख्यातिरस्ति । उमियम् तटाकः जानाकर्षकं प्रवासिस्थानं भवति । थङ्गखारङ्ग् उद्यानम्, इको उद्यानम्, सस्यशास्त्रीयोद्यानम्, लेडिहैदरि उद्यानानि प्रसिद्धानि भवन्ति । 

पश्चिम-गारो-हिल्स्-मण्डलं मेघालय-राज्यस्य द्वीतीयं बृहत्तमं मण्डलम् अस्ति । अस्य मण्डलस्य मुख्यालयः तुरा-नगरम् अस्ति । तुरा-नगरं मेघालय-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं मण्डलं प्रायः पर्वतीयक्षेत्रम् अस्ति । अस्य मण्डलस्य विस्तारः ३७१४ चतुरस्रकिलोमीटरमितः अस्ति । अस्मिन् मण्डले अपि बहव जलप्रपाताः, तडागाः, नद्यः, पर्वताः च सन्ति । अनेन अस्य मण्डलस्य सौन्दर्यं वर्धते । ये जनाः पर्वतारोहिणः सन्ति । तेभ्यः इदं मण्डलं रमणीयं भवति । “नोकरेक बायोस्फीयर्”, “चिबराग्रे पेल्गा जलप्रपातः”, “रोङ्गबैङ्ग डेयर्” च अस्य मण्डलस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । तत्र सासातग्रे-ग्रामः अस्ति । अयं ग्रामः नारङ्गफलाय प्रसिद्धः अस्ति । अस्मिन् मण्डले गारोस-जनजातयः निवसन्ति । गारोस-जनजातिः बोडो-परिवारेण सह सम्बद्धा अस्ति । वर्षर्तोः अनन्तरं शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं, सुखदं, स्वास्थ्यकरं च भवति । 
अस्य मण्डलस्य केन्द्रं तुरा-नगरम् अस्ति । तुरा-नगरम् अस्य मण्डलस्य प्रवेशद्वारमपि अस्ति । तुरा-नगरात् गुवाहाटी-नगरं २२२ किलोमीटरमिते, शिलाङ्ग-नगरं ३०९  किलोमीटरमिते च दूरे स्थितम् अस्ति । ५१ क्रमाङ्कस्य राष्ट्रियराजमार्गे तुरा-नगरं स्थितम् अस्ति । अतः इदं मण्डलं भूमार्गेण समीपस्थैः नगरैः सह सम्बद्धम् अस्ति । असम-राज्यस्य गुवाहाटी-नगरे अस्य मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । अस्मात् मण्डलात् गुवाहाटी-नगरं २१० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुवाहाटी-नगरस्य विमानस्थानकम् अस्य मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा तुरा-नगरं प्राप्यते । अनेन प्रकारेण इदं मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

पूर्वीगारोहिल्स्-मण्डलं मेघालयराज्यस्य एकादशमण्डलेषु अन्यतमम् अस्ति । अस्य मण्डलस्य सर्वकारीयकार्याणि विलियमनगरस्य प्रशासनिकमुख्यालये भवन्ति । इदं मण्डलं २६०३ चतुरस्रकिलोमीटरमितं विस्तृतम् अस्ति । अस्य मण्डलस्य दक्षिणदिशि दक्षिणगारोहिल्स्-मण्डलं, पूर्वदिशि खासीहिल्स्-मण्डलं, पश्चिमदिशि पश्चिमगारोहिल्स्-मण्डलं च स्थितम् अस्ति । अस्मिन् मण्डले गारो-जातेः जनाः निवसन्ति । इयं जातिः मेघालय-राज्यस्य द्वितीया बृहत्तमा जातिः वर्तते । तत्र बहवः जातयः निवसन्ति । हजोङ्ग्स, रभस, कोचेस, बनिस, दलुस, बोरोस च इत्यादयः जातयः प्राप्यन्ते । मण्डलेऽस्मिन् विभिन्नप्रकारकाः वनस्पतयः, जीवाः प्राप्यन्ते । किन्तु साम्प्रतम् इदं मण्डलं प्रसिद्धं नास्ति । तथापि समीपस्थाः जनाः भ्रमणार्थं तत्र गच्छन्ति । अस्य मण्डलस्य विकासः जायमानः अस्ति । अस्य मण्डलस्य वातावरणं ग्रीष्मर्तौ उष्णं, शीतर्तौ शीतलं च भवति । अस्य मण्डलस्य जलवायुः अपि सुखदः, स्वास्थकरः च भवति । 
पूर्वीगारोहिल्स्-मण्डलं ५१ क्रमाङ्कस्य राजमार्गेण सह सम्बद्धम् अस्ति । मेघालय-राज्यस्य सर्वकारेण अपि पर्यटनाय बसयानानि प्रचालितानि सन्ति । तैः जनाः पूर्वीगारोहिल्स्-मण्डलस्य पर्यटनस्थलानि भ्रमितुं शक्नुवन्ति । गुवाहाटी-नगरस्य रेलस्थानकं मेघालय-राज्यस्य मुख्यं रेलस्थानकत्वेन स्थितम् अस्ति । गुवाहाटी-नगरं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । उमरोई-नगरे मेघालयराज्यस्य प्रमुखं विमानस्थानकम् अस्ति । गुवाहाटी-नगरं गन्तुं विमानस्थानकम् अपि समीपे एव अस्ति । अनेन प्रकारेण पूर्वीगारोहिल्स्-मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । जनाः सरलतया तत्र गन्तुं शक्नुवन्ति ।

जोवाई-नगरं मेघालय-राज्यस्य पश्चिमजयन्तियाहिल्स्-मण्डलस्य मुख्यालयः अस्ति । अस्मिन् नगरे पनार-जनजातिः निवसति । इदं नगरं माइण्टडू-नद्याः तटे स्थितम् अस्ति । नगरमिदम् एकस्मिन् शैलप्रस्थे स्थितम् अस्ति । समुद्रतलात् इदं नगरं १३८० मीटरमितम् उन्नतम् अस्ति । औन्नत्ये स्थिते सति अस्य अस्य नगरस्य जलवायुः सुखदः, शान्तश्च अस्ति । जोवाई-नगरस्य समीपे अङ्गाराणां (coal) कूल्याः अपि सन्ति । अतः अस्य नगरस्य अर्थव्यवस्था अपि सुदृढा अस्ति । जोवाई-नगरे बेहदीमखालम-उत्सवः आचर्यते । जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । प्रतिवर्षं जुलाई-मासस्य द्वितीये सप्ताहे अयम् उत्सवः आयोज्यते । तत्र थाडलासेकिन-तडागः, लालाङ्ग-उद्यानं, “जोवाई प्रेस्बिटेरियन् चर्च्” च इत्यादयः अस्य नगरस्य पर्यटनस्थलानि सन्ति । ग्रीष्मर्तौ, शीतर्तौ च अस्य नगरस्य वातावरणं सुखदं भवति ।

जोवाई-नगरं ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । असम-राज्यस्य गुवाहाटी-नगरे अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । जोवाई-नगरात् गुवाहाटी-नगरं १६० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुवाहाटी-नगरस्य विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा जोवाई-नगरं प्राप्यते । अनेन प्रकारेण इदं मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

जयन्तियाहिल्स् इत्येतत् क्षेत्रं मेघालय-राज्ये स्थितम् अस्ति । अस्य क्षेत्रस्य मण्डलद्वयम् अस्ति । पूर्वीजयन्तियाहिल्स्-मण्डलं, पश्चिमीजयन्तियाहिल्स्-मण्डलं च । पूर्वीजयन्तियाहिल्स्-मण्डलस्य केन्द्रं खलीहरियत-नगरं, पश्चिमीजयन्तियाहिल्स्-मण्डलस्य केन्द्रं जोवाई-नगरं च अस्ति । जयन्तियाहिल्स्-क्षेत्रस्य प्राकृतिकं सौन्दर्यम् अद्भूतम् अस्ति । बाङ्ग्लादेशेन सह क्षेत्रमिदं सम्बद्धम् अस्ति । अस्मिन् क्षेत्रे “जयन्तिया” इत्याख्यः राजा शासनं करोति स्म । जयन्तियापुरं तस्य राज्यस्य राजधानी आसीत् । सः तत्रैव निवसति स्म । किन्तु साम्प्रतं जयन्तियापुरं बाङ्ग्लादेशे स्थितम् अस्ति । जयन्तिया-राज्ञा अस्य क्षेत्रस्य नारतियाङ्ग-ग्रामः ग्रीष्मकालीनराजधानीत्वेन उपयुज्यते स्म । अतः तेन कारणेन आवागमने वृद्धिः जाता । अपि च सांस्कृतिकदृष्ट्या अपि सम्बन्धः जातः । साम्प्रते काले नारतियाङ्ग-ग्रामः जयन्तियाहिल्स्-क्षेत्रस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमः अस्ति । नारतियाङ्ग-ग्रामस्य दुर्गामन्दिरम् अपि अस्य क्षेत्रस्य आकर्षणस्य केन्द्रं विद्यते ।

परिवहने भूमार्गः अस्य क्षेत्रस्य प्रमुखं साधनम् अस्ति । इदं क्षेत्रं ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । एवं च मेघालय-राज्यस्य सर्वकारेण अपि बसयानानि प्रचालितानि सन्ति । अस्य क्षेत्रस्य पर्यटनस्थलानां भ्रमणं कर्तुं बसयानानि सन्ति । मेघालय-राज्ये रेलस्थानकम् एव नास्ति । अतः असम-राज्यस्य गुवाहाटी-नगरे जयन्तियाहिल्स्-क्षेत्रस्य समीपस्थं रेलस्थानकम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । उमरोई-नगरस्य विमानस्थानकम् अस्य क्षेत्रस्य निकटतमं विमानस्थानकम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अस्य क्षेत्रस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा जयन्तियाहिल्स्-क्षेत्रं प्राप्यते । अनेन प्रकारेण इदं स्थलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । तेन जनाः सरलतया तत्र गन्तुं शक्नुवन्ति ।

दक्षिणीगारोहिल्स्-मण्डलं मेघालय-राज्ये स्थितम् अस्ति । अस्य नगरस्य सौन्दर्यं महत्त्वपूर्णम् अस्ति । इदं मेघालय-राज्यस्य दक्षिणदिशि स्थितम् अस्ति । बाघमारा-नगरम् अस्य मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । अस्य मण्डलस्य उत्तरदिशि पूर्वीगारोहिल्स्-मण्डलं, पूर्वदिशि पश्चिमीखासीहिल्स्-मण्डलं, पश्चिमदिशि पश्चिमीगारोहिल्स्-मण्डलं, दक्षिणदिशि बाङ्लादेशः च स्थितः अस्ति । साम्प्रतम् इदं मण्डलं भारते प्रसिद्धं नास्ति । यतः इदानीम् अस्य प्रारम्भिकावस्था वर्तते । अस्य मण्डलस्य बहूनि वीक्षणीयस्थलानि गुप्तानि सन्ति । अतः मेघालय-राज्यस्य सर्वकारः इदं स्थलं साहसिकपर्यटनस्थलं कर्तुं प्रयासान् कुर्वन् अस्ति । बालपकराम-राष्ट्रियोद्यानं, “चिदिमक”, सिजु-गुहा च इति दक्षिणीगारोहिल्स्-मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । नेङ्गकोङ्ग, सिमसाङ्ग-नदी, इमिलचाङ्ग दारे च अस्य मण्डलस्य पर्यटनस्थलानि सन्ति । अस्मिन् मण्डले वृष्ट्याः आधिक्यम् अस्ति । अतः अस्य मण्डलस्य वातावरणं शीतलं भवति । किन्तु ग्रीष्मर्तौ उष्णता भवति । अतः शीतर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति ।

गुवाहाटी-नगरस्य रेलस्थानकं दक्षिणीगारो-मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं बाघामारा-नगरात् १५७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं देहली-महानगरेण, मुम्बई-महानगरेण, कोलकाता-महानगरेण इत्यादिभिः भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । उमरोई-विमानस्थानकम् अस्य मण्डलस्य समीपस्थं विमानस्थानकम् अस्ति । इदं कोलकाता-नगरेण सह सम्बद्धम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । अतः वर्तमाने काले गुवाहाटी-नगरस्य विमानस्थानकम् एव समीपस्थम् अस्ति । गुवाहाटी-विमानस्थानकं बेङ्गळूरु-महानगरेण, चेन्नै-महानगरेण, देहली-महानगरेण, मुम्बई-महानगरेण इत्यादिभिः भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः जनाः सरलतया दक्षिणीगारोहिल्स्-मण्डलं प्राप्तुं शक्नुवन्ति ।

इदं मण्डलं ४० क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अतः इदं मण्डलं मेघालय-राज्यस्य मण्डलैः सह सम्बद्धम् अस्ति ।  मेघालयराज्यस्य सर्वकारेण जनानां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । नोङ्गपोह-नगरं गुवाहाटी-नगरात् ५० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरे अस्य मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुवाहाटी-नगरस्य विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा “री भोई-मण्डलं” प्राप्यते । अनेन प्रकारेण इदं मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

मेघालयराज्ये भूमार्गाः ६,०२२ किलोमीटरमिताः दीर्घाः सन्ति । मेघालय-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । अस्य राज्यस्य लोकनिर्माणविभागेन राज्ये मार्गाः निर्मापिताः । राज्येऽस्मिन् षड्राष्ट्रियराजमार्गः अपि विद्यते । तैः राष्ट्रियराजमार्गैः इदं राज्यं भारतस्य विभिन्नराज्यैः सह सम्बद्धम् अस्ति । शिलाङ्ग-नगरं, चेरापूञ्जी-नगरं च असमराज्यस्य विभिन्ननगरैः सह भूमार्गेण सम्बद्धम् अस्ति । असम-राज्यस्य गुवाहाटी-नगरं मेघालय-राज्येन सह श्रेष्ठतया सम्बद्धम् अस्ति । अतः भूमार्गेण मेघालय-राज्यं सरलतया प्राप्यते ।  

मेघालय-राज्ये धूमशकटमार्गाः न सन्ति । यतः मेघालयराज्यं पर्वतीयम् अस्ति । अतः धूमशकटमार्गान् निर्मातुं समस्या भवति । तथापि राज्यसर्वकारः, केन्द्रसर्वकारश्च प्रयासान् कुर्वन्तौ स्तः । इदं राज्यं गुवाहाटी-नगरस्य रेलस्थानकेन सह भूमार्गेण सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकाद् बसयानैः, भाटकयानैः वा मेघालय-राज्यं प्राप्यते । 

मेघालय-राज्यस्य उमरोई-नगरे एकमेव विमानस्थानकम् अस्ति । शिलाङ्ग-नगरात् उमरोई-नगरं ३५ किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकं मेघालय-राज्यस्य समीपस्थं विमानस्थानकम् अस्ति । तस्माद् विमानस्थानकाद् बसयानैः, भाटकयानैः वा मेघालय-राज्यं प्राप्यते । जनाः सरलतया मेघालय-राज्यं प्राप्तुं शक्नुवन्ति । मेघालय-राज्यस्य सर्वकारः मेघालय-राज्यस्य परिवहनव्यवस्थां सुदृढां कर्तुं प्रयासान् कुर्वाणः अस्ति । समयान्तरे अस्य राज्यस्य परिवहने विकासः भविष्यति ।




#Article 38: वाल्मीकिः (127 words)


वाल्मीकिमहर्षिः (Valmiki Maharshi) श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।

रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् ।  रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते ।

एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत् ।  स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् ।तस्य मुखात् शापः श्लोकरूपेण निःसृतः । स च -
              

रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।




#Article 39: अमरुः (551 words)


संस्कृतसाहित्ये नैकैः कविभिः नानावस्तुवैविध्यमयानि शतककाव्यानि प्रणीतानि । तादृशेषु शतककाव्येषु शृङ्गाररसवस्तुविशदम् अमरुशतकम् अन्यतमम् । अस्य काव्यस्य रचयिता अमरुः (Amaru) अथवा अमरुकः (Amaruka) । एतस्य नान्यानि काव्यानि तूपलभ्यन्ते, किन्तु एकेनापि शतपद्यात्मकेन काव्येन समनस्कानाम् हृदयसिंहविष्टरे राजते । एषः सुवर्णकारः आसीदिति सुभाषितावल्याः विश्वप्रख्यातनाडिंधमकुलतिलको विश्वकर्मा द्वितीयः इति पद्येन ज्ञातुं शक्यते । तथापि अस्य मातापितरौ कौ इति न कुत्रापि उल्लेखः दृश्यते । 

अयम् प्राचीनकालीनः एक: कवि: आसीत्‌ । अष्टमे शतमाने यदा श्री आदिशङ्कराचार्याः आसन् स एवास्य जीवितकाल इति कालविमर्शनचतुराः अभिप्रयन्ति । नवमे शतमाने लब्धकीर्तिः ध्वन्यालोककर्ता आनन्दवर्धनः स्वग्रन्थे ध्वन्यालोके तृतीयोद्योते 

इति वदन् अमरुशतकस्य अनेकान् श्लोकान् उदाहरति । अतः तस्मात् पूर्वस्मिन् काले एव अमरुशतकम् प्रसिद्धिमगात् इति ऊहितुं शक्यते । अतः अष्टमे शतमाने एव अयं कविः अवर्तत इति निर्णेतुं शक्यते । अपिच अस्य कालः अष्टमम् शतकमिति विश्वसितुं सहायकाः अनेके आधाराः लभ्यन्ते । एवम् अस्य कालः अष्टमम् शतकम् इति निश्चप्रचम् । 

शङ्करदिग्विजयस्य सन्दर्भे यदा मण्डनमिश्रपत्न्या शारदादेव्या सह शास्त्रार्थवादः समजनि तदा श्रीशङ्करभगवत्पादाः शारदायाः प्रश्नानाम् उत्तरदानार्थम् गतप्राणस्य अमरुकाख्यस्य नृपतेः देहम् परकायप्रवेशविधिना प्रविश्य राज्ञः अन्तःपुरे वात्स्यायनकामसूत्राण्यधीत्य तन्नाम्ना एतद्ग्रन्थं प्रणिनाय इति केचन प्रवदन्ति । किन्तु माधवकविप्रणीते शङ्करदिग्विजये शङ्कराचार्यैः अमरुराजस्य कायप्रवेशसङ्गतिः भवति तथापि तैरेव अमरुशतकस्य रचना कृता इति विषयः नोपदृश्यते । अतः एतस्य शङ्कराचार्यकर्तृत्वे यः प्रवादः वर्तते सः लोकरञ्जनमात्रे प्रवृत्तः इति भाति । अपि तु माधवकविना प्रणीते शङ्करविजये श्रीमच्छङ्करभगवत्पादा एव अमरुशतकस्य कर्तारः इति स्पष्टतया निरूपितम् नास्ति । अपि च शङ्करदिग्विजये अमरुकराजस्य अवसानसन्निवेशः वर्णितः चेदपि, शारदायाः प्रश्नानुसारम् उत्तररूपेण कान्यपि पद्यानि अमरुशतके न सन्ति । तस्मात् अयं कविः अन्य एवेति निर्णेतुं शक्यते ।

एषः अमरुशतकम् नाम शृङ्गाररसगर्भिततं काव्यमेकम् चकार । अत्र काव्ये प्रणयिनोः भावाः, आनन्दः, प्रीतिः, प्रणयकोपः, विरहः, अनुनयः इत्यादयः अतीव मनोज्ञतया वर्णिताः सन्ति । अस्मिन् काव्ये अर्वाचीनानाम् केचन प्रक्षिप्ताः श्लोकाः अपि सङ्गताः इति काव्यमीमांसकाः मन्यन्ते । अपि च अमरुशतकस्य कानिचन पद्यानि वल्लभदेवस्य सुभाषितावलिः नाम्नि, आर्गटस्य, वासुदेवस्य, पुलिनस्य, विज्जिकायाः, दुर्वाहकस्य, रत्नाकरस्य, शिलाभट्टारिकायाः, अद्भुतमल्लस्य इति नामभिः अङ्कितानि दृश्यन्ते । अमरुकाः विशेषतः शार्दूलविक्रीडिते वृत्ते श्लोकान् व्यरचयदिति भासते । एतेन तादृशानि पद्यान्येव अमरुकस्य भवन्ति, अन्ये तत्र विद्यमानाः श्लोकाः प्रक्षिप्ताः इति केषाञ्चन अभिप्रायः । 

आन्ध्रप्रदेशीयः पेद्दकोमटिवेमभूपालः नामा अस्य ग्रन्थस्य शृङ्गारतिलकाख्यां व्याख्याम् अरचयदिति बोध्यते । एवमेव अर्जुनवर्मदेवः रसिकसञ्जीविनीति, सूर्यदासः शृङ्गारतरङ्गिणीति, शेषरामकृष्णाख्यः रसिकसञ्जीविनीति, च व्याख्याः निरबध्नन् । तथा च रुद्रदेवस्य रविचन्द्रस्य च व्याख्याने केषुचित् पुस्तकेषु दृश्येते । एवम् अनेकानि व्याख्यानानि समुपलभ्यन्तेऽस्य शतकग्रन्थस्य । एताभिः व्याख्याभिः अस्य कवेः प्रतिभां विद्वांसोऽपि मानयन्ति स्म इति ज्ञातुम् शक्यते ।

प्रणयकुपिता कान्ता स्वस्याः प्राण्पिये यथा व्यवहरति तथा वर्णितमत्र ।

कस्याञ्चित् अनुरक्तः मनसि आलोचते यथा-

एवम् अमरुश्तके अमरुकेण मनोज्ञैः समुचितैः पदार्थनिवेशितैः भावगर्भितैः सन्निवेशैः शार्दूलविक्रीडितेन  बहुरम्यम् क्रीडितम् कविना यत्तु सहृदयहृदयरङ्गे अधुनाऽपि नरीनृत्यति ।

यथैव अमरुककविताः प्रथिताः सन्ति, तथैव तदीयमितिवृत्तं तिरोहितं विद्यते । केवलमसौ नवमशतकतः पूर्वमवर्त्ततेति कथयितुं शक्यते, यतो ८५० ख्रीष्टीयकालिकौ ध्वनिकारः –‘मुक्तकेषु हि प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथाऽमरुकस्य कवेर्मुक्तकाः शृङ्गारस्यन्दिनः प्रबन्धायमानाः प्रसिध्दा एव।’ इत्युक्तवान् ।
वामनेनापि ८०० ई. समुद्भूतेनास्य पद्यत्रयमुदाहृतम्, अतोऽस्य समयः अष्टमं शतकं मन्यते, ततः पूर्वमपि किञ्चित् कथयितुं शक्यते ।
	
अनेन शृङ्गाररसानुकूलाः प्रणयव्यहाराः कामिजनमनोभावाश्चैव केवलं वर्णिताः परं तत्रैव तावत्याकर्षकतोत्पादिता यदयं सुधीसमाजे गौरवमभजत । एतदीये अमरुतके शतमेकं श्लोकानाम्, संस्करणभेदेन न्यूनाधिकभावाऽपि कियान् प्राप्यते । अस्य ग्रन्थस्योध्दरणं प्रतिष्ठितैराचार्यैः कृतमतोऽस्य प्रियता प्रमातुं शक्यते । १२१५ ई. समुद्भूतेनार्जुनवर्मणाऽत्र व्याख्या लिखिता, रविचन्द्रेणास्य शतकस्याध्यात्मिकी व्याख्या कृता, चतुर्थशतकोत्पन्नेन वेमभूपालेन अस्य शतकस्य व्याख्यानायिकाभेदपरतया रचिता । रतिक्रीडा अङ्गना च मनुष्यजीवनस्यापेक्ष्योपादानविशेषौ तावधिकृत्य कृतोऽयं ग्रन्थः । अत्र का त्रुटिर्यामपनेतुं ब्रह्मज्ञानमत्र समावेशयितुं प्रयस्यन्ति सुधिय इति न जाने ।
अस्य कवेर्व्यञ्जनाशक्तिरतिप्रौढा –

असद्वृत्तौ नायं न च खलु गुणैरेव रहितः
            प्रियो मुक्ताहारस्तव चरणमूले निपतितः ।
गृहाणेमं मुग्धे व्रजतु निजकण्ठप्रणयिता –
              मुपायो नास्त्यन्यस्तव हृदयसन्तापशमने ॥ 
अत्र पद्ये वृत्तगुणाहारादिपदेषु श्लेषमहिम्ना यमर्थं कविर्व्यञ्जयति स परमरम्यो मूलभित्तिश्चास्य रसपेशलस्य काव्यस्य । अन्येऽप्यस्य रम्याः –‘प्रस्थानं वल्यैः कृतम्’ इत्यादयः श्लोकाः प्रसिध्दाः । अस्य सर्वोऽपि गन्थः परवर्त्तिभिः कविभिरात्मसात्कृतो भाषाकविभिः विहारिदासपद्माकरादिभिरनूदितकल्पश्च कृतः ।




#Article 40: असमराज्यम् (4305 words)


असमराज्यम् (Assam) ईशान्य भारते विद्यमानं किञ्चन राज्यम् । भारतस्य सीमाप्रदेशे विद्यमानं राज्यम् अस्ति । राज्यस्य विस्तीर्णं ७८,४६६ चदर कि. मि. अस्ति । अस्य राज्यस्य उत्तरे अरुणाचलप्रदेशः, पूर्वे नागाल्याण्ड तथा मणिपुर, दक्षिणे मिजोरमा तथा मेघालयः, पश्चिमे बाङ्ग्लादेशश्च भवन्ति । अस्य राज्यस्य राजधानि दिसपुर।  

असम-राज्यं पूर्वोत्तरराज्यानां प्रवेशद्वारं मन्यते । इदं पर्वतीयक्षेत्रम् अस्ति । अतः असम-राज्यस्य वातावरणं मनोहरं भवति । ग्रीष्मकाले असमराज्यस्य अधिकतमं तापमानं २५ तः ३० डिग्री मात्रात्मकं, शीतर्तौ न्यूनतमं तापमानं ६ डिग्री मात्रात्मकं भवति । इदं राज्यं भूटान-देशस्य, बाङ्ग्लादेशस्य च अन्ताराष्ट्रियसीमयोः समीपे स्थितम् अस्ति । अस्मिन् राज्ये अधिकतमानि पर्वतीयस्थलानि सन्ति । असम-राज्यस्य उत्तरदिशि भूटान-देशः, अरुणाचलप्रदेशराज्यं च अस्ति । पूर्वदिशि मणिपुर-राज्यं, नागालैण्ड्-राज्यम्, अरुणाचलप्रदेश-राज्यं, दक्षिणदिशि मेघालय-राज्यं, मिजोरम-राज्यं, त्रिपुरा-राज्यं च अस्ति ।

भूकम्पः, आपूरणम् असम-राज्यस्य मुख्ये भौगोलिकसमस्ये स्तः । आपूरणेन प्रतिवर्षं प्रायः ८ तः १० कोटि रूप्यकाणां सम्पत्तीनां हानिः जायते । ई. स. १९६६ तमस्य वर्षस्य आपूरणेन १६००० किलोमीटर्मितं क्षेत्रं जलप्लावितम् अभवत् । असम-राज्ये शैलस्तराणां सञ्चलनेन भूकम्पस्य सम्भावनायाः आधिक्यं भवति । ई. स. १८९७ तमस्य वर्षस्य भूकम्पः असम-राज्यस्य बृहत्तमः भूकम्पः मन्यते । तस्मिन् भूकम्पे भूस्खलनेन, मार्गावरोधेन च महती हानिः जाता । प्रायः १०५५० जनाः मृताः आसन् ।

काँप्, लेटेराइट् च अस्य राज्यस्य प्रमुखे मृत्तिके स्तः । ते पर्वतीयक्षेत्रेषु, स्थलभागेषु च प्राप्येते । काँप-मृत्तिका नदीनाम् आपूरणक्षेत्रे प्राप्यते । आपूरणविहीनेषु स्थानेषु अम्लीयमृत्तिकाः भवन्ति । इयं मृत्तिका इक्षुदण्डं, फलं, व्रीहीं च उत्पादयितुम् उपयुक्ता भवति । पर्वतीयक्षेत्रस्य लेटेराइट्-मृत्तिका अनुर्वरा भवति । अस्मिन् राज्ये चायस्य कृषिः सर्वाधिकी भवति । प्रायः असम-राज्यं वनाच्छादितम् अस्ति ।

असम-राज्यं त्रिषु भागेषु विभक्तम् अस्ति । १ ब्रह्मपुत्रानद्याः क्षेत्रं, २ मिकिर, उत्तरीकछार इत्येतयोः पर्वतीयक्षेत्रम् , ३ कछार इत्यस्य स्थलम् ।

इदं क्षेत्रम् असम-राज्यस्य उत्तरभागे स्थितम् अस्ति । इदं क्षेत्रं प्रायः ब्रह्मपुत्रा-नद्याः जलेन प्रभावितम् अस्ति । ब्रह्मपुत्रा-नदी अस्य क्षेत्रस्य मध्ये प्रवहति । तेन अस्य क्षेत्रस्य भागद्वयं भवति । अस्य क्षेत्रस्य उत्तरभागः हिमालयात् आगताभिः नदीभिः ध्वस्तः जातः । दक्षिणभागः अल्पविस्तृतः अस्ति ।

मिकिर, उत्तरीकछार इत्येतयोः पर्वतीयक्षेत्रं भूम्याकृतिदृष्ट्या अव्यवस्थितः प्रदेशः अस्ति । असम-घाटी इत्यस्य दक्षिणदिशि स्थितम् अस्ति इदं क्षेत्रम् । अस्य क्षेत्रस्य उत्तरभागः अपेक्षया अधिकः उपह्वरः अस्ति ।

कछार इत्यस्य स्थलं शणीरावसादैः (Alluvial) निर्मितं समतलं क्षेत्रम् अस्ति । इदं क्षेत्रम् असम-राज्यस्य दक्षिणभागे स्थितम् अस्ति । वास्तविकरूपेण इदं क्षेत्रं बङ्गाल डेल्टा इत्यस्य पूर्वभागः एव कथ्यते ।

ब्रह्मपुत्रा-नदी असम-राज्यस्य मुख्या नदी वर्तते । सा पूर्वपश्चिमदिशि प्रवहन्ती बाङ्ग्लादेशं प्रविशति । अस्याः नद्याः विभिन्नाः शाखाः सन्ति । अतः नदीस्थितद्वीपानाम् अपि निर्माणं भवति । माजुली इत्ययं द्वीपः विश्वस्य बृहत्तमः नदीस्थितद्वीपः वर्तते । अयं द्वीपः ९२९ चतुरस्रवर्गकिलोमीटर्मितं विस्तृतः अस्ति । ब्रह्मपुत्राः नद्याः पञ्चत्रिंशत् (३५) सहायकनद्यः सन्ति । सुवंसिरि, भरेली, धनसिरी, पगलडिया, मानस, संकाश इत्यादयः नद्यः दक्षिणदिशः ब्रह्मपुत्रा-नद्यां सम्मिलन्ति । लोहित, नवदिहिङ्ग, बूढी दिहिङ्ग, दिसाङ्ग, कपिली, दिगारू इत्यादयः नद्यः उत्तरदिशः ब्रह्मपुत्रा-नद्यां सम्मिलन्ति । सुवंसिरी इत्यादयः नद्यः अपि हिमालयात् उत्तरतः प्रवहन्ति । यत्र पर्वतीयक्षेत्राणि भवन्ति, तत्र एतासां नदीनां जलप्रपाताः अपि भवन्ति । दक्षिणदिशि सूरमा-नदी अपि अस्ति । सा नदी स्वस्याः सहायकनदिभिः सह कछार-क्षेत्रे प्रवहति ।

प्राचीनभारतीयग्रन्थेषु अस्य प्रदेशस्य नाम “प्रागज्योतिषपुर” इति आसीत् । पूराणानाम् आधारेण “कामरूप” अस्य राज्यस्य राजधानी असीत् इति ज्ञायते । महाभारतस्य कालादारभ्य भास्करवर्मस्य शासनकालपर्यन्तम् एकस्य वंशस्यैव शासनम् आसीदिति । अभिलेखेषु उल्लेखाः दृश्यन्ते ।

असम इति नाम संस्कृत-भाषाधारितम् अस्ति । संस्कृते असम अर्थात् अद्वितीयः । अस्य अपरः अर्थः अपि प्राप्यते यत् – या भूमिः समतला नास्ति सा असमा इति । किन्तु बहवः विद्वांसः मन्यन्ते यत् – असम शब्दस्य मूलरूपम् “अहोम” इति अस्ति । यतः पुरा ब्रिटिश-शासनात् ६०० वर्षाणि पूर्वम् अहोम-राज्ञां शासनम् आसीत् । अतः “अहोम” इति शब्देन असम शब्दस्य आविर्भावः अभूत् । प्राचीनकालादेव अस्य प्रदेशस्य लघुपर्वतेषु आस्ट्रिक, मङ्गोल, द्रविड, आर्य इत्यादयः विभिन्नजातयः निवसन्ति स्म । अतः संस्कृतिः मिश्रिता अभवत् । अतः असम-राज्यस्य सभ्यता, संस्कृतिश्च समृद्धा अस्ति ।

प्राचीने काले अस्य नाम प्राग्ज्योतिषपुरम् इति आसीत् । अनन्तरं “कामरूप” नाम अभवत् । इलाहाबाद-नगरे स्थिते समुद्रगुप्तस्य शिलालेखे कामरूप-राज्यस्य उल्लेखः अपि प्राप्यते । ई. स. ७४३ तमे वर्षे चीन-देशस्य ह्वेन्साङ्ग्-इत्याख्यः विद्वान् यात्री कामरूप-राज्यं प्राप्तवान् आसीत् । तेन कामरूप-राज्यस्य कामोलुपा इति नाम्ना उल्लेखः कृतः आसीत् । एकादशशताब्द्याम् अलबरूनी इत्याख्यः इतिहासकारः अभवत् । तेन स्वस्य पुस्तके अपि कामरूपस्य उल्लेखः कृतः अस्ति । अनेन प्रकारेण महाकाव्यकालात् द्वादशशताब्दीपर्यन्तम् आर्यावर्ते प्राग्ज्योतिषपुरं, कामरूपम् इत्येते नामनी प्रसिद्धे स्तः ।

पुराणानुसारम् इदं राज्यं कामरूप-राज्यस्य राजधानी आसीत् । महाभारतानुसारं कृष्णस्य पौत्रेण अनिरुद्धेन उषा-नामिकायाः युवत्याः अपहरणं कृतम् आसीत् । यतः अनिरुद्धः तस्याम् आकृष्टः अभवत् । किन्तु दन्तकथासु प्राप्यते यत् – “उषा अनिरुद्धात् मोहिता जाता आसीत् । अतः उषया स्वयमेव स्वस्याः अपहरणं कारितम् । इयं घटना तत्र कुमारहरणम् इति नाम्ना ज्ञायते । महाभारतकालादारभ्य सप्तमशताब्दीपर्यन्तं भास्करवर्मणः शासनकालपर्यन्तम् च एकस्य राजवंशस्य एव शासनम् आसीत् । बाणभट्टस्य, ह्वेनसाङ्ग्-इत्याख्यस्य च विवरणे अस्य राज्यस्य विवरणं प्राप्यते । महाकाव्यानां, पुराणानां च अनुसारेण अयं वंशः पृथ्व्याः पुत्रः अपि कथ्यते । अतः अयं वंशः भौमः अपि कथ्यते । भास्करवर्मणः राजवंशस्य शिलालेखे समर्थितं यत् – राज्ञा भागदत्तेन, तस्य उत्तराधिकारिभिः च कामरूप-राज्ये ३००० वर्षाणि यावत् शासनं कृतम् आसीत् । तदनन्तरं पुष्यवर्मन्-इत्याख्यः राजा अभवत् । अनेन प्रकारेण पुष्यवर्मणः परवतिनां शासकानां विवरणम् अपि प्राप्तम् । राजा भास्करवर्मन् राज्ञः हर्षवर्धनस्य मित्रम् आसीत् । अतः बाणभट्टेन विरचिते हर्षचरिते काव्ये भास्करवर्मणः उल्लेखः प्राप्यते । 

मध्यकाले ई. स. १२२८ तमे वर्षे म्यान्मार-देशस्य चाउ लुङ्ग सिउ का फा इत्याख्येन अस्म-राज्ये अधिकारः प्राप्तः आसीत् । सः अहोमवंशीयः आसीत् । तेन अहोमवंशस्य शासनम् आरब्धम् । ई. स. १८२९ तमवर्षपर्यन्तम् अहोम-वंशस्य शासनम् आसीत् । अतः एव कथ्यते यत् – “अहोम-राज्ञां शासनेन एव असम इति नाम अभवत् ।

असमराज्ये २७ मण्डलानि सन्ति।

तेजपुर-नगरम् असम-राज्यस्य सोनितपुर-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं ब्रह्मपुत्रा-नद्याः उत्तरतटे स्थितम् अस्ति । तेजपुर-नगरस्य संस्कृतिः सम्पूर्णे भारते प्रसिद्धा अस्ति । इदं नगरं सांस्कृतिककेन्द्रत्वेन ज्ञायते । शैक्षणिकदृष्ट्या अपि अस्य उच्चस्थानम् अस्ति । भौगोलिकदृष्ट्या नगरमिदं समृद्धम अस्ति । तेजपुरं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । अतः जनाः तत्र भ्रमणार्थं गच्छन्ति । तत्र नदी, स्थलानि, पर्वताः च सन्ति । तेजपुर-नगरे “कोलिया-भोमोरा-सेतुः” अस्ति । ३०१५  मीटरमितं तस्य दैर्घ्यम् अस्ति । “कोलिया-भोमोरा-सेतुः” सोनितपुर-मण्डलं नागांव-मण्डलेन सह योजयति । तेन जनाः आकृष्टाः भवन्ति । तेजपुर-नगरे “अग्निगढ” नामकं वीक्षणीयस्थलम् अस्ति । “अग्निगढ” इतीदं तेजपुर-नगरस्य आकर्षणस्य केन्द्रम् अस्ति । अग्निगढस्थलस्य शीर्षात् तेजपुर-नगरस्य विहङ्गावलोकनं कर्तुं शक्यते ।

तेजपुर-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । तानि – भैरवीमन्दिरं, कोल पार्क्, कोलिया भोमोरा सेतु, पदुम पुखुरी, केत्केश्वर देवल, महाभैरवमन्दिरं, रुद्रपदा, नागशङ्करमन्दिरं च । पुराणानुसारं कथ्यते यत् – “कृष्णस्य पौत्रः अनिरुद्धः, बाणासुरस्य पुत्री उषाया इत्येतयोः प्रणयप्रसङ्गाः तेजपुर-नगरेण सह सम्बद्धाः सन्ति । यदा असुरराजः तयोः प्रेमविषये ज्ञातवान्, तदा असुरराज्ञा अनिरुद्धः बद्धः । अतः कृष्णेन तस्मिन् क्षेत्रे आक्रमणं कृतम् । तस्मात् तत्र घोरयुद्धं सञ्जातम् । युद्धे महारक्तपातः जातः । अतः इदं नगरं तेजपुरम् इति कथ्यते । तेज अर्थात् रक्तम् इत्यर्थः । आधुनिकं तेजपुर-नगरम् ई. स. १८३५ तमे वर्षे प्रसिद्धम् अभवत् । ब्रिटिश-सर्वकारेण इदं नगरं दर्राङ्ग-मण्डलस्य मुख्यालयत्वेन चितम् आसीत् । इदं नगरम् अरुणाचलप्रदेशस्य निकटतमं स्थलम् अस्ति । अतः तेजपुर-नगरे थलसेनायाः, वायुसेनायाः व्यापकोपस्थितिः अस्ति । सांस्कृतिकक्षेत्रे अपि तत्र बहूनि कार्याणि जातानि । असमिया-भाषायाः चलच्चित्रनिर्मातुः “ज्योति प्रसाद अगरवाला” इत्याख्यस्य, क्रान्तिकारिणः गायकस्य “कलागुरु विष्णु प्रसाद राभा” इत्यस्य, प्रसिद्ध चलच्चित्रनिर्मातुः “फानी शर्मा” इत्याख्यस्य च जन्म तेजपुर-नगरे अभवत् । असम-राज्यस्य सांस्कृतिकराजधानीत्वेन ज्ञायते इदं तेजपुर-नगरम् ।

तेजपुर-नगरे वृष्टिः अधिकमात्रायां भवति । ग्रीष्मर्तौ तेजपुर-नगरस्य तापमानं ३६ डिग्री सेल्सियस् पर्यन्तं भवति । शीतर्तौ च ७ डिग्री सेल्सियस् पर्यन्तम् अस्य तापमानं भवति । तेजपुर-नगरे एकं लघुविमानस्थानकम् अस्ति । ततः कोलकाता-नगराय, सिलचर-नगराय नियमितरूपेण वायुयानानि प्राप्यन्ते । तत्र रेलस्थानकम् अपि स्थितम् अस्ति । स्थलमार्गाः अपि परिवहने उपयुक्ताः भवन्ति । ते मार्गाः विभिन्ननगरैः सह तेजपुरं सञ्योजयन्ति ।

दिसपुर-नगरम् असम-राज्यस्य राजधानी अस्ति । आर्थिकदृष्ट्या अस्य नगरस्य विकासः शीघ्रतया जायमानोऽस्ति । इदं नगरं गुवाहाटी-नगरात् १० किलोमीटर्मितं दूरे स्थितम् अस्ति । पुरा असम-राज्यस्य राजधानी शिलाङ्ग-नगरम् आसीत् । ई. स. १९७३ तमे वर्षे यदा असममेघालययोः विच्छेदः कृतः, तदा मेघालयस्य राजधानी शिलाङ्ग आसीत् । तस्मिन् समये असम-सर्वकारेण दिसपुरं स्वस्य राजधानीत्वेन चितम् आसीत् । असम-राज्यस्य विधानसभा, सचिवालयः च दिसपुर-नगरे स्थितः अस्ति । शिल्पग्रामः, वशिष्ठाश्रमः च दिसपुर-नगरस्य महत्त्वपूर्णं दर्शनीयस्थलं वर्तते । दिसपुर-नगरस्य विपणौ चायस्य महत्प्रमाणेन सघोषविक्रयः भवति । अतः तन्नगरं भारते प्रसिद्धम् अस्ति । यद्यपि दिसपुर-नगरम् असम-राज्यस्य राजधानी अस्ति, तथापि तस्य नगरस्य तन्त्रस्य प्रचालनं प्रतिवेशिनः गुवाहाटी-नगरस्य साहाय्येन भवति । दिसपुर-नगरस्य वातावरणं गुवाहाटी-नगरम् इव अस्ति । किन्तु नवम्बर-मासतः, मार्च-मासपर्यन्तं शीतर्तौ दिसपुर-नगरं गन्तुं शक्यते । तस्मिन् समये बहवः जनाः भ्रमणार्थं तत्र गच्छन्ति । असम-राज्यस्य प्रमुखनगरैः सह दिसपुर-नगरं वायुमार्गेण, रेलमार्गेण, भूमार्गेण च सम्बद्धम् अस्ति ।

असम-राज्यस्य दक्षिणदिशि सिलचर-नगरं स्थितम् अस्ति । इदं नगरं कछार-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं विशालं नास्ति, तथापि लघुत्वे सत्यपि सुन्दरं वर्तते । इमं नगरं परितः बराक-नदी प्रवहति । तेन अस्य नगरस्य सौन्दर्यं वर्धते । भौगोलिकदृष्ट्या सिलचर-नगरं भारतदेशस्य अन्यैः राज्यैः सह मणिपुर-राज्यं, मिजोरम-राज्यं च सञ्योजयति । आर्थिकदृष्ट्या अपि सिलचर-नगरं विकासशीलम् अस्ति । इदं नगरं तण्डुलानां, चाय इत्यादीनाम् उत्पादनकेन्द्रम् अस्ति । सिलचर-नगरे नैकानि वीक्षणीयस्थलानि सन्ति । तेषु स्थलेषु काञ्चाकान्तिदेव्याः मन्दिरम् अस्ति । इदं मन्दिरं सिलचर-नगरात् १७ किलोमीटर्मितं दूरे स्थितम् अस्ति । भुवनमहादेवमन्दिरं, शहीद का मकबरा, खासपुरं च इत्यादीनि स्थलानि अपि स्थितानि सन्ति । सिलचर-नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । सिलचर-नगरे विमानस्थानकं, रेलस्थानकं च स्थितम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । राष्ट्रियराजमार्गः अपि तत्र अस्ति । सः मार्गः भारतदेशस्य विभिन्ननगरैः सह असम-राज्यं सञ्योजयति ।  

असम-राज्ये तिनसुकिया-मण्डलम् अस्ति । तस्य मण्डलस्य मुख्यालयः अस्ति तिनसुकिया-नगरम् । इदं नगरम् असम-राज्यस्य बृहत्तमेषु महानगरेषु द्वितीयम् अस्ति । इदं नगरं व्यावसायिकदृष्ट्या अपि समृद्धम् अस्ति । गुवाहाटी-महानगरात् ४८० किलोमीतर्मितं दूरे स्थितम् अस्ति तिनसुकिया-नगरम् । इदं नगरं गुवाहाटी-नगरात् उत्तर-पूर्वदिशि स्थितम् अस्ति । इदं नगरम् असम-राज्यस्य व्यावसायिकराजधानी कथ्यते । इदं चङ्गमाई-शैलप्रस्थम् इति नाम्ना अपि ज्ञायते । अस्य नगरस्य प्राचीनं नाम बङ्गमारा आसीत् । इदं मुटाक-साम्राज्यस्य राजधानी आसीत् । तत्र एकं त्रिकोणजलकुण्डम् अपि अस्ति । तत् जलकुण्डं “तिनसुकिया पुखरी” इति कथ्यते । 

तिनसुकिया-नगरस्य समीपे “डिब्रु सैखोवा-राष्ट्रियोद्यानम्” अस्ति । तस्मिन् उद्याने बहुप्रकारकाः जीवाः, जन्तवः, वनस्पतयः च सन्ति । तत्र, डॉल्फिन्, हस्तिनः इत्यादयः लुप्तजीवाः प्राप्यन्ते । तत्र तिलिङ्गा-मन्दिरं बहुप्रसिद्धम् अस्ति । आवर्षं श्रद्धालवः दर्शनार्थं तत्र गच्छन्ति । शीतर्तौ तिनसुकिया-नगरस्य वातावरणम् आह्लादपूर्णं भवति । अतः जनाः शीतर्तौ तत्र भ्रमणार्थं गच्छन्ति । वायुमार्गेण, भूमार्गेण, रेलमार्गेण च तिनसुकिया-नगरं प्राप्तुं शक्यते ।

असमिया, बोडो च असम-राज्यस्य प्रमुखक्षेत्रीया भाषा, आधिकारिकी भाषा च अस्ति । प्राचीनकाले अपि कामरूप-राज्ये, कामतापुर कछारी. सुतीया, बोरही, अहोम, कोच च इत्यादिषु मध्ययुगीनेषु राज्येषु च असमिया-भाषा सामान्यतया व्यवह्रियते स्म । कामरूपी, ग्वालपरिया इत्यादयः भाषाः असमिया-भाषायाः अपभ्रंशभाषाः सन्ति । नागालैण्ड्-राज्ये, अरुणाचलप्रदेश-राज्ये, पूर्वोत्तरराज्येषु च असमिया-भाषा व्यवह्रियते । इतं परम् असम-राज्ये बङ्ग्ला-भाषा, बोडो-भाषा, नेपाली-भाषा, हिन्दी-भाषा च अपि व्यवहारे प्रयुज्यते ।

असमराज्ये ‍(६) षड् वर्षादारभ्य (१२) द्वादशवर्षपर्यन्तं  माध्यमिकाध्ययनस्य अनिवार्याता अस्ति । निःशुल्केन अध्ययनार्थं सार्वकारपक्षतः व्यवस्था कल्पिता अस्ति । अध्ययन दृष्ट्या राज्यस्य ८० अपेक्षया अधिकेषु केन्द्रेषु विभिन्नाः योजनाः कल्पिताः सन्ति । राज्ये नैके विश्वविद्यालयाः सन्ति । असम कृषिविश्विविद्यालयः, असम विश्व।विद्यालयः, डिब्रुगढ़ विश्‍‍वविद्यालयः, गुवाहाटी विश्वःविद्यालयः, भारतीय प्रौद्योगिकी संस्थानम् , गुवाहाटी, राष्ट्रिय प्रौद्योगिकी संस्थानम् (मानित विश्वयविद्यालयः), तेजपुर विश्वविद्यालयश्च अस्य राज्यस्य प्रतिष्टिताः विश्वविद्यालयाः।

असम-राज्यस्य अर्थव्यवस्था कृषिप्रधाना अस्ति । अस्य राज्यस्य ८० प्रतिशतं जनसङ्ख्या कृष्याधारिता अस्ति । असम-राज्ये तण्डुलाः, लवेटिका (Corn), गोधुमाः, कार्पासः इत्यादयः प्रमुखाणि सस्यानि सन्ति । चायं, निर्यासः, कॉफी च इत्यादीनि अपि उद्यानसस्यानि सन्ति ।

असम-राज्ये चायस्य उद्योगः प्रमुखः वर्तते । राज्ये प्रायः २.३२ लक्षं हेक्टेयर् क्षेत्रे चायस्य उद्यानानि सन्ति । विश्वस्य सम्पूर्णस्य चायोत्पादने १६ प्रतिशतं योगदानं तु केवलम् असम-राज्यस्य एव अस्ति । गुवाहाटी-नगरे चायस्य सघोषविक्रयकेन्द्रम् अस्ति । तत्केन्द्रं विश्वस्य बृहत्तमं चायविक्रयकेन्द्रं वर्तते । भारतस्य आहत्य चायोत्पादनस्य ५० प्रतिशतम् उत्पादनम् असम-राज्ये एव भवति । राज्ये षड् औद्योगिकविकासकेन्द्राणि सन्ति । इतः परं बालीपाडा, माटिया इत्येतयोः स्थानयोः द्वे औद्योगिककेन्द्रे स्थाप्यमाने स्तः । साम्प्रतं राज्ये चत्वारः तेलशोधकयन्त्रागाराः सन्ति । तेषु एकः डिगबोई-नगरे स्थितः अस्ति । उच्यते यत् – “ई. स. १८६७ तमे वर्षे सर्वप्रथमम् एशिया-खण्डे असम-राज्ये एव तैलोत्पादनाय कूपः उत्खनितः” । तस्य कूपस्य नाम “माकम” इति आसीत् ।

प्राकृतिकवायूनाम् उत्पादने अपि असम-राज्यस्य महद्योगदानं वर्तते । गुवाहाटी-नगरस्य समीपम् अमीनगाँव इत्यत्र अपि “निर्यातसंवर्धनौद्योगिकोद्यानस्य” निर्माणं पूर्णम् अभवत् । असम-राज्यं स्वस्य काष्ठकलायै, हस्तशिल्पकलायै च विश्वप्रसिद्धम् अस्ति । अस्मिन् राज्ये नानाप्रकारकाः गृहोद्योगाः सन्ति । यथा – काष्ठशिल्पकार्यं, धातुशिल्पकार्यं, काष्ठवस्तुनिर्माणं च । 

असम-राज्ये ई. स. १९९९ तः ई. स. २००० पर्यन्तम् आहत्य ८.९८ लक्षं हेक्टेयर् भूमौ सिञ्चनाय व्यवस्था अभवत् । तेषु सिञ्चनविभागः ४.९५ लक्षं हेक्टेयर् क्षेत्रस्य सिञ्चनं करोति । असम-राज्ये वृष्टेः आधिक्येन सिञ्चनस्य व्यवस्था व्यापकरूपेण कृता अस्ति । सिञ्चनाय बह्व्यः योजनाः आरब्धाः । “जमुना सिंचाई योजना” इतीयं योजना अस्म-राज्यस्य बृहत्तम योजना अस्ति । तस्यां योजनायां २६,००० हेक्टेयर् भूमेः सिञ्चनस्य अनुमानम् अस्ति । सिञ्चनाय कूल्यानां दैर्घ्यं १३७.२५ किलोमीटर्मितं भविष्यति ।

असम-राज्यस्य प्रमुखेषु विद्युतावासेषु “चन्द्रपुर ताप बिजली परियोजना”, “नामरूप ताप बिजली परियोजना”, लघु पन बिजली परियोजना च प्रचलन्त्यौ स्तः । इतः परं बहवः विद्युदित्पादनघटकाः स्थापिताः सन्ति । सर्वकारेण “ग्रामीण विद्युतीकरण” इत्यस्य कार्यक्रमस्यान्तर्गततया ६८ प्रतिशतं ग्रामेभ्यः विद्युतः व्यवस्था कृता । आहत्य २१,४९५ ग्रामेभ्यः विद्युतः व्यवस्था कृता । साम्प्रतं “तिपाई मुख बाँध परियोजना” इत्यस्यां योजनायां जलबन्धनिर्माणाय प्रस्तावस्य सर्वकारेण सम्मतिः प्रदत्ता ।  

तृतीययुगस्य अङ्गारः (Coal), खानिजतैलं च असम-राज्यस्य प्रमुखखानिजाः सन्ति । अस्मिन् राज्ये ४५० लक्षं टन-मात्रात्मकः खानिजतैलस्य सञ्चयः अस्ति । इयं मात्रा सम्पूर्णभारतस्य खानिजतैलस्य पञ्चाशत् (५०) प्रतिशतम् अस्ति । ब्रह्मपुत्रा-नद्याः द्रोण्यां, दिगबोई, नहरकटिया, मोशन, लक्वा, टियोक इत्यादिषु स्थानेषु अपि खानिजतैलं प्राप्यते । असम-राज्यस्य दक्षिणपूर्वदिशः अङ्गारस्य भाण्डारः अस्ति । तस्मिन् भाण्डारे प्रायः त्रयस्त्रिंश्त्कोटिटनपरिमितमात्रायाम् अङ्गाराः सन्ति ।

असम-राज्ये बह्व्यः जातयः सन्ति । तासु जातीषु प्रथमा खासी-जातिः अस्ति । इयं जातिः उत्तरपूर्वदिशः निवासिनः जनाः सन्ति । द्वितीये समूहे दिमासा, बोडो, रामा, कारो, लालुङ्ग च अस्ति । पूर्वभागे डफला, मिरी, अबोर, आपातानी, मिश्मी चेत्यादयः जातयः सन्ति । तृतीये समूहे लुशाई, आका, ककी इत्यादयः जातयः सन्ति । ताः जातयः दक्षिणदिशः समागताः । ताः मणिपुरीजातीषु, नागाजातीषु सम्मिलिताः अभवन् । कछारी, रामा, बोडो च एताः जातयः हिमालस्य उच्चतृणस्थलेषु निवसन्ति । मङ्गोल-जातेः जनाः असम-राज्यस्य अधः भागे निवसन्ति । इयं जातिः गोवालपारा इत्यत्र ‘राजवंशी’ इति नाम्ना प्रसिद्धा । सालोई-जातिः कामरूपे प्रसिद्धा अस्ति । नदियाल-जातिः मत्स्यहन्त्री अस्ति । साम्प्रते असम-राज्ये पश्चिमबङ्गाल-राज्यस्य, बिहार-राज्यस्य, ओडिसा-राज्यस्य चेत्यादीनां राज्यानाम् आदिवासिनः चायस्य उद्यानेषु कार्यं कुर्वन्ति । अतः तेषां जनानां सङ्ख्या अधिका जाता ।

असम-राज्ये बह्व्यः जनजातयः निवसन्ति । अतः तत्र संस्कृतेः अपि वैविध्यं वर्तते । ओजापालि, धोसा, धेमाली सूत्रिया, रास चेत्यादीनि नृत्यानि असम-राज्यस्य संस्कृतेः प्रमुखाणि अङ्गानि सन्ति । असम-राज्यस्य संस्कृतेः उत्सवेषु “रोङ्गाली बिहू”, “कोङ्गाली बिहू”, “भोगली बिहू” च प्रमुखाः उत्सवाः सन्ति । बिहू-नृत्यसमये जनाः प्रतिगृहं गत्वा “हुचरि”-गीतं गायन्ति । असम-राज्यस्य प्रत्येके विवाहे “तामुल पानोर बोटा” इति कांस्याधारिकायाः उपयोगः आवश्यकं भवति । “अम्बुवासी मेला”-उत्सवः असमराज्यस्य बृहत्तमः उत्सवः अस्ति । अयं कामाख्यादेव्याः मन्दिरे आयोज्यते । पूर्वोत्तरभारतस्य राज्येषु “शिवदोल” इत्याख्यं शिवमन्दिरम् उच्चतमं वर्तते । इदं ३७ मीटर्मितम् उन्नतं वर्तते । इदम् असम-राज्यस्य शिवसागरे स्थितम् अस्ति । अस्मिन् राज्ये सूर्यपर्वते मनसादेव्याः द्वादशभुजोपेता प्रतिमा  दृश्यते । सूर्यपर्वतस्य तले ९९,९९९ शिवलिङ्गानि स्थापितानि । असम-राज्ये वैष्णवाः अपि निवसन्ति । अतः ते वैष्णवसाधूनां जन्मतिथौ पुण्यतिथौ च भजनानि गायन्ति । अन्यत्र अपि शिवरात्रिमेला उत्सवः, अशोकाष्टमीमेला-उत्सवः, पौषमेला-उत्सवः, परशुराममेला-उत्सवः, अम्बुबाशीमेला-उत्सवः, दोल-जात्रा, ईद, क्रिसमस्, दुर्गापूजा इत्यादयः उत्सवाः असम-राज्ये श्रद्धापूर्वकम् आचर्यन्ते ।

असमिया-भाषायाः साहित्यं सम्पूर्णे भारते प्रसिद्धम् अस्ति । त्रयोदशशताब्द्याम् असमिया-साहित्यस्य आरम्भः जातः । “हेम सरस्वती” इत्यस्य प्रह्लादचरित्रम् असमिया-साहित्येषु प्रथमं साहित्यं मन्यते । एकोनविंशतितमशताब्दीतः आधुनिकस्य असमिया-साहित्यस्य आरम्भः अभवत् । लक्ष्मीनाथ बैजबरुआ, नलिनी बाला देवी, कमलेश्वर चालिहा, डॉ. वीरेन्द्र कुमार भट्टाचार्यः, देवकान्त बरुआ, इन्दिरा गोस्वामी चेत्यादयः असम-राज्यस्य लेखकाः सन्ति । एतेषु “डॉ. वीरेन्द्र कुमार भट्टाचार्यः” ‘मृत्युञ्जय’ इति रचनां चकार । तया रचनया ई. स. १९७९ तमे वर्षे सः ज्ञानपीठपुरस्कारेण सम्मानितः जातः । “इन्दिरा गोस्वामी” अपि ई. स. २००० तमे वर्षे ज्ञानपीठपुरस्कारेण सम्मानिता आसीत् । असमिया-भाषायां “धर्म पुस्तक” इति पुस्तकं प्रकाशितम् । आत्माराम शर्मा अस्य पुस्तकस्य लेखकः आसीत् । असम-राज्ये डॉ. “भूपेन हजारिका” इत्याख्यः संगीतज्ञः अस्ति । राज्ये सः “संगीतसम्राट्” इति नाम्ना ज्ञायते । एवं च “अम्बिका गिरि राय चौधरी” इत्याख्यः “असम केसरी” इति नाम्ना ज्ञायते ।

असम-राज्यस्य वनेषु विविधप्रकारकाणि काष्ठानि भवन्ति । यथा – साल, महोगनी, सेगल, सागवान् च । एतानि बहुमूल्यानि काष्ठानि सन्ति । ई. स. १९९८ तमे वर्षे असम-राज्ये आहत्य २०.२४ लक्षं हेक्टेयर्-भूमौ वनानि आसन् । तेषु १७.४२ लक्षं हेक्टेयर्-भूमौ आरक्षितानि वनानि सन्ति । असम-राज्यस्य क्षेत्रफलस्य २२.२१ प्रतिशतं भागे आरक्षितानि वनानि सन्ति । असम-राज्ये आहत्य ३९.४४ लक्षं हेक्टेयर-क्षेत्रे कृषिः क्रियते । तेषु २७.०१ लक्षं हेक्टेयर-क्षेत्रे अन्नसस्यानि उद्पाद्यन्ते । असम-राज्ये पञ्च (५) राष्ट्रियोद्यानानि, एकादश (११) वन्यजीवाभयारण्याः च सन्ति । काजीरङ्ग-राष्ट्रियोद्यानं, ‘मानस बाघ परियोजना’ च सम्पूर्णे विश्वस्मिन् प्रसिद्धा अस्ति ।

गोपीनाथ बोरदोलोई इत्याख्यः असम-राज्यस्य प्रथमः मुख्यमन्त्री, क्रान्तिकारी च आसीत् । गोपीनाथेन भारतस्य स्वतन्त्रताप्राप्त्यनन्तरं सरदार वल्लभभाई पटेल-इत्याख्येन सह कार्यं कृतम् आसीत् । अस्य योगदानेन एव असम-राज्यं भारतस्य भागः अस्ति । ई. स. १९३८ तमस्य वर्षस्य सितम्बर-मासस्य एकोनविंशतितमदिनाङ्क (१९/०९/१९३८) तः ई. स. १९३९ तमस्य वर्षस्य नवम्बर-मासस्य सप्तदश दिनाङ्कपर्यन्तं (१७/११/१९३९) असम-राज्यस्य मुख्यमन्त्रित्वेन कार्यं कृतम् आसीत् । 

ज्योतिप्रसाद आगरवाला इत्याख्यः असम-राज्यस्य प्रथमः चलच्चित्रनिर्माता आसीत् । अस्य जन्म ई. स. १९०३ तमस्य वर्षस्य जून-मासस्य सप्तदश (१७) दिनाङ्के अभवत् । अयं नाट्यकारः, कथाकारः, गीतकारः, पत्रसम्पादकः, सङ्गीतकारः, गायकश्च आसीत् । तेन चतुर्दशवर्षदेशीयेन एव “शोणित कुंवरी” इति नाट्यस्य रचना कृता आसीत् । ई. स. १९३५ तमे वर्षे “ज्योमति कुंवारी” इति नाट्याधारितं प्रथमम् असमप्रान्तीयं चलच्चित्रं निर्मापितम् आसीत् । सः अस्य चलच्चित्रस्य निर्माता, निर्देशकः, पटकथाकारः, मञ्चनिर्माता, सङ्गीतकारः, नृत्यनिर्देशकश्च आसीत् ।

भुपेन हजारिका इत्याख्यः असम-राज्यस्य गीतकारः, सङ्गीतकारः, गायकश्च आसीत् । सः असमिया-भाषायाः कविः, चलच्चित्रनिर्माता, लेखकः च अपि आसीत् । तस्य जन्म ई. स. १९२६ तमस्य वर्षस्य सितम्बर-मासस्य ८ दिनाङ्के (८/०९/१९२६) अभवत् । सः असम-राज्यस्य संस्कृतिज्ञः, सङ्गीतज्ञः च आसीत् । तेन काव्यलेखने, पत्रकारितायां, गायने, चलच्चित्रनिर्माणे इत्यादिषु क्षेत्रेषु कार्यं कृतम् आसीत् ।

इन्दिरा रायसम गोस्वामी इत्याख्या असमिया-भाषायाः लेखिका आसीत् । तस्याः जन्म ई. स. १९४२ तमस्य वर्षस्य नवम्बर-मासस्य चतुर्दश दिनाङ्के (१४/११/१९४२) अभवत् । इयं ज्ञानपीठपुरस्कारेण सम्मानिता आसीत् । सा असम-राज्ये स्थितस्य “युनाइटेड् लिबरेशन् फ्रण्ट् ऑफ् असम (ULFA)” नामकस्य सङ्घटनस्य कार्यकर्त्री आसीत् । अस्मिन् सङ्घटने “इन्दिरा रायसम गोस्वामी” इत्यस्याः महद्योगदानम् अस्ति ।

हाजो इत्येतत् स्थलम् असम-राज्यस्य महत्त्वपूर्णं धार्मिकस्थलं वर्तते । हाजो-स्थले हिन्दु-धर्मस्य, बौद्ध-धर्मस्य, इस्लाम-धर्मस्य 
च सङ्गमः अस्ति । तत्र हिन्दुधर्मस्य बहूनि मन्दिराणि स्थितानि सन्ति । इतः परं भगवतः बुद्धस्य पवित्रस्थलानि अपि सन्ति । इस्लामधर्मस्य साधूनां पवित्रस्थानम् अपि तत्र स्थितम् अस्ति । अनेन प्रकारेण हाजो इत्येतत् धर्मत्रयस्य मेलनम् अस्ति । इदं क्षेत्रं दिसपुर-नगरात् समीपे स्थितम् अस्ति । अतः सरलतया तत्स्थलं प्राप्तुं शक्यते । इदं स्थलं लोकप्रियं वर्तते । हाजो इत्येतस्य इतिहासमतानि भिन्नानि सन्ति । कथ्यते यत् – “इदं स्थलं कोच-राजवंशस्य राजधानी आसीत् । अनन्तरं मुघलशासनस्याधीनम् अभवत् । अस्य नगरस्य विभिन्नानि नामानि सन्ति । एकादशशताब्द्याम् अस्य नगरस्य अपूर्णाभाव, मणिकुटा इत्येते नामनी आस्ताम् । अनन्तरम् अष्टादशशताब्द्यां मणिकुटग्रामः इति नाम्ना विख्यातः आसीत् । बौद्धाः कथयन्ति यत् – “हाजो इत्यस्मिन् एव भगवता बुद्धे निर्वाणं प्राप्तम् आसीत् ।

हाजो-नगरे नैकानि मन्दिराणि सन्ति । तेषु हयग्रीवामाधवमन्दिरं प्रसिद्धमन्दिरेषु अन्यतमम् अस्ति । मन्दिरेऽस्मिन् भगवतः विष्णोः प्रतिमा अस्ति । इस्लाम-धर्मानुयायीनाम् अपि उपासनागृहाणि सन्ति । अतः ते अपि दर्शनार्थं तत्र गच्छन्ति । अन्यानि अपि मन्दिराणि सन्ति । गणेशमन्दिरं, केदारेश्वरमन्दिरं, कामेश्वरीमन्दिरं, धोपारगुरी सत्रा, जोयदुर्गामन्दिरं च इत्यादीनि प्रमुखाणि तीर्थस्थलानि सन्ति । ग्रीष्मर्तौ हाजो-नगरस्य वातावरणम् उष्णम्, आर्द्रं च भवति । किन्तु शीतर्तौ वातावरणं यात्रायै अनुकूलं भवति । अतः जनाः शीतर्तौ भ्रमणार्थं तत्र गच्छन्ति । हाजो-नगरं गुवाहाटी-नगरात् २५ किलोमीटरमिते दूरे स्थितम् अस्ति । अतः गुवाहाटी-नगरात् हाजो-नगरं गन्तुं नियमितरूपेण बस-यानानि प्राप्यन्ते ।

माजुलीद्वीपः एकम् आध्यात्मिकं स्थलं वर्तते । तत्स्थलम् इतिहासेन, संस्कृत्या च सह संलग्नम् अस्ति । इदं स्थलम् असम-राज्यस्य बृहत्तमं वीक्षणीयस्थलं वर्तते । तस्मिन् स्थले वैष्णवधर्मः अपि विद्यते । तत्स्थलं वैष्णवधर्मस्य केन्द्रं मन्यते । इदं स्थलं ब्रह्मपुत्रा-नद्याः तटे स्थितम् अस्ति । तया नद्या अस्य स्थलस्य प्राकृतिकं सौन्दर्यं वर्धते । नद्या निर्मितेषु द्वीपेषु विश्वस्य बृहत्तमः द्वीपः अस्ति माजुलीद्वीपः । पुरा अयं दीपः १२५० चतुरस्रवर्गकिलोमीटरमितः विस्तृतः अस्ति । किन्तु मृत्तिकायाः अपकर्षणेन साम्प्रतम् अयं ४२१.६५ चतुरस्रवर्गकिलोमीटरमितः एव विस्तृतः अस्ति । इदं स्थलं जोरहट-नगरात् २० किलोमीटरमिते दूरे स्थितम् अस्ति । नौकायानेन माजुलीद्वीपं प्राप्तुं शक्यते ।

माजुली-द्वीपे प्रायः जलप्लावनं भवति । अतः अस्य द्वीपस्य पारिस्थिकतन्त्रं दूषितम् अभवत् । किन्तु अस्य द्वीपस्य वर्तमानकालिकस्थितिः तस्य स्थलस्य धर्मप्रभावेण, संस्कृत्याः प्रभावेण च अस्ति   । तत्र सतना इत्याख्या सांस्कृतिकसंस्था अस्ति । आहत्य पञ्चविंशतिः सांस्कृतिकसंस्थाः तत्र स्थिताः सन्ति । मन्यते यत् – “एताः संस्थाः वैष्णवधर्मस्य केन्द्राणि सन्ति । असमियासाधुना श्रीशङ्करदेवेन एतेषां केन्द्राणां प्रोत्साहनं कृतम् आसीत् । पुनश्च श्रीशङ्करदेवस्य अनुयायिना माधवदेवेन अपि एतासां वृद्ध्यर्थं प्रोत्साहनं कृतम् आसीत् । भारतस्य प्रमुखशास्त्रीयनृत्येषु सत्तरिया-नृत्यस्यापि केन्द्रम् अस्ति अयं द्वीपः ।

सतरा-संस्थाः सामाजिक्यः, धार्मिक्यः च सन्ति । तत्र वैष्णवधर्मपालनाय शिक्षणं प्रदीयते । सर्वेषां सतरा-संस्थानां विशिष्टं महत्त्वम् अस्ति । तत्र विभिन्नानि धार्मिकशिक्षणानि प्रदीयन्ते । माजुलीद्वीपस्य वातावरणं लोकप्रियं नास्ति । यतः तत्र वर्षा अधिककालपर्यन्तं भवति । तत्र उष्णतायाः अपि आधिक्यं भवति । केवलं शीतर्तौ एव वातावरणं शीतलं, सामान्यं च भवति । अतः तस्मिन् काले माजुलीद्वीपः भ्रमणं कर्तुं योग्यः ।

शिबसागरः शिवसागरस्य अपभ्रंशनाम अस्ति । शिवसागरः अर्थात् “शिवस्य समुद्रः” । गुवाहाटी-नगरात् ३६० किलोमीटर्मितं दूरे स्थितम् अस्ति इदं नगरम् । इदं शिबसागर-मण्डलस्य मुख्यालयः अपि अस्ति । पुरा इदं नगरं शतवर्षाणि यावत् अहोम-साम्राज्यस्य राजधानी आसीत् । अतः इदम् ऐतिहासिकस्थलम् अपि कथ्यते । तत्र मानवनिर्मितः शिवसागर-तडागः अस्ति । सः तडागः १२९ एकड-मात्रात्मकः विस्तृतः अस्ति । इमं तडागं परितः शिबसागर-नगरं स्थिम् अस्ति । तस्मिन् नगरे अहोम-साम्राज्यस्य ऐतिहासिकानि स्मारकाणि सन्ति । शिबसागरं न केवलम् ऐतिहासिकं स्थलम् अस्ति, अपि तु व्यावसायिकं स्थलम् अपि अस्ति । यतः तत्र तैलस्य, चायस्य च प्रचूरमात्रायां व्यापारः भवति । अतः नगरमिदम् असम-राज्यस्य पर्यटनस्थलम् अभवत् । 

असम-राज्ये अहोमवंशेन ६०० वर्षाणि यावत् शासनं कृतम् आसीत् । ई. स. १८१७ तमे वर्षे बर्मीज-वंशेन अहोमवंशस्य मूलतः नाशः कृतः । अनन्तरं ब्रिटिश-सर्वकारेण शासनं कृतम् आसीत् । इदं नगरं दीर्घकालं यावत् अहोम-वंशस्य शासनधीनम् आसीत् । अतः अस्मिन् नगरे अहोम-शासकानां स्मृतिचिह्नानि प्राप्यन्ते । शिबसागर-तडागः अस्य नगरस्य आकर्षणकेन्द्रं विद्यते । अयं शिबसागर-तडागः २०० वर्षाणि पुरातनः अस्ति । तडागं परितः शिवडोल-मन्दिरं, विष्णुडोल-मन्दिरं, देवीडोल-मन्दिरं च स्थितम् अस्ति । एतानि त्रीणि मन्दिराणि महत्त्वपूर्णानि सन्ति । ई. स. १७३४ तमे वर्षे एतेषां मन्दिराणां निर्माणं राज्ञ्या मदम्बिकया कारितम् आसीत् । इतः परं तत्र “तलातल घर”, “करेङ्ग घर”, “गरगांव महल” च इत्यादीनि स्थलानि सन्ति । 
शिबसागरस्य जलवायुः अल्पोष्णकटिबन्धीयः अस्ति । अयं जलवायुः पर्यटनदृष्ट्या अनुकूलं भवति । वर्षर्तौ अपि अतिवृष्टिः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ३० डिग्री-मात्रात्मकं भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं ७ डिग्री-मात्रात्मकं भवति । शिबसागरात् १६ किलोमीटरमिते दूरे सिमलगुरी-नगरे रेलस्थानकम् अस्ति । अपि च जोरहट-नगरं ५५ किलोमीटरमिते दूरे स्थितम् अस्ति । तत्र विमानस्थानकम् अस्ति । भूमार्गेण अपि तत्र गन्तुं शक्यते । शिबसागर-नगरं धार्मिकस्थलत्वेन प्रसिद्धम् अस्ति ।

डिब्रुगढ-नगरम् असम-राज्यस्य सुन्दरं नगरं विद्यते । इदं नगरं ब्रह्मपुत्रा-नद्याः समीपे स्थितम् अस्ति । अस्य नगरस्य अपरे पक्षे हिमालयपर्वतशृङ्खलाः सन्ति । असम-राज्यस्य पर्यटनस्थलेषु विशिष्टतमं स्थलम् अस्ति इदं नगरम् । डिब्रुगढ-नगरे चायस्य अत्यधिकम् उत्पादनं क्रियते । राज्यस्य ५० प्रतिशतं चायस्य उत्पादनं डिब्रूगढ-नगरे, टिंसुकिया-नगरे, शिबसागर-नगरे च भवति । डिब्रुगढ-नगरं भारतस्य “चायस्य नगरं” कथ्यते । डिब्रुगढ-नगरे चायस्य बहूनि उद्यानानि सन्ति । तानि उद्यानानि ब्रिटिश-कालिनानि सन्ति । डिब्रुगढ-नगरस्य भ्रमणे चायस्य उद्यानानि एव विशिष्टानि सन्ति । भारतस्य विशालनदीषु ब्रह्मपुत्रा-नदी अन्यतमा वर्तते । यदा इयं नदी शान्ततया प्रवहति, तदा नगरे अपि शान्तिः भवति । किन्तु यदा नदी अशान्ता भवति, तदा डिब्रुगढ-नगरस्य केचन अंशाः नष्टाः भवन्ति । अतः एव डिब्रुगढ-नगरस्य प्रगतिः अवरुद्धा अस्ति । सामान्यतः जलप्लावनेन डिब्रुगढ-नगरस्य स्थितिः गभीरा भवति । 

डिब्रुगढ-नगरे अहोम-राज्ञैः सांस्कृतिकसंस्थाः, सामाजिकसंस्थाः, धार्मिकसंस्था च निर्मापिताः । ताः संस्थाः सतरा इति कथ्यन्ते । ताः सतरा-संस्थाः डिब्रुगढ-नगरस्य प्रमुखाणी वीक्षणीयस्थलानि सन्ति । एताः संस्थाः डिब्रुगढ-नगरस्य प्रमुखाणि आकर्षणकेन्द्राणि अपि सन्ति । जनाः डिब्रुगध-नगस्य भ्रमणे ताः सतरा-संस्थाः अवश्यमेव पश्यन्ति । डिब्रुगढ-नगरस्य वातावरणं सामान्यतः अनुकूलं भवति । अतः एव जनाः कस्मिँश्चिदपि समये डिब्रुगढ-नगरस्य भ्रमणार्थं गन्तुं शक्नुवन्ति । रेलमार्गेण, भूमार्गेण, वायुमार्गेण च डिब्रुगध-नगरं गन्तु शक्यते । यतः डिब्रुगध-नगरे एकं रेलस्थानकं, एकं विमानस्थानकं चास्ति ।

जोरहाट असम-राज्यस्य प्रमुखेषु नगरेषु अन्यतमम् अस्ति । इदं नगरम् असम-राज्यस्य उत्तरदिशि स्थितम् अस्ति । अतः नागालैण्ड-राज्यस्य, असम-राज्यस्य च प्रवेशद्वारं कथ्यते । जोरहाट इत्यत्र शब्दद्वयं विद्यते । “जोर, हाट” च इति । जोर अर्थात् द्वौ, हाट् अर्थात् आपणः । द्वौ आपणौ इति अर्थः प्राप्यते । अष्टादशशताब्द्यां तत्र द्वौ साप्ताहिकौ आपणौ भवतः स्म । प्रथमः चौकी हाट, द्वितीयः मचरारहाट च इति । एतयोः आपणयोः मध्यतः भगदोई-नदी प्रवहति । जोराहाट-नगरं पुरा अहोम-राज्ञां राजधानी आसीत्  । अतः नगरे ऐतिहासिकावशेषाः अपि प्राप्यन्ते । जोरहाट-नगरे बहूनि चायोद्यानानि सन्ति । तेभ्यः उद्यानेभ्यः इदं नगरं भारते प्रसिद्धम् अस्ति । जोरहाट-नगरे, समीपस्थेषु क्षेत्रेषु च आहत्य १३५ चायोद्यानानि सन्ति । चायसम्बद्धानि अपि नैकानि स्थलानि सन्ति । तानि – “सिन्नामोरा चायोद्यानं”, “टोकलाई चाय अनुसन्धानकेन्द्रं” च । “टोकलाई चाय अनुसन्धानकेन्द्रं” विश्वस्य प्राचीनतमं चायसंस्थानं वर्तते । अनेन संस्थानेन जोरहाट-नगरस्य सौन्दर्यं वर्धते । 
जोरहाट-नगरं सांस्कृतिकदृष्ट्या अपि समृद्धम् अस्ति । तत्र बहवः लेखकाः, इतिहासकाराः, सङ्गीतकाराः च अभवन् । “वीरेन्द्र कुमार भट्टाचार्यः” असमिया-भाषायाः प्रथमः लेखकः आसीत् । सः ज्ञानपीठपुरस्कारं प्राप्तवान् । “कृष्णा कान्ता हाण्डिक” इत्याख्यः शिक्षणक्षेत्रे प्रसिद्धः अस्ति । तयोः जन्म जोरहाट-नगरे एव अभवत् । जोरहाट-नगरे आवर्षम् आर्द्रता भवति एव । ग्रीष्मर्तौ अत्यन्तम् उष्णं वातावरणं भवति । वर्षर्तौ तु पर्याप्तमात्रायां वृष्टिः भवति । जोरहाट-नगरे विमानस्थानकं, रेलस्थानकम् अपि अस्ति । अतः वायुमार्गेण, रेलमार्गेण, भूमार्गेण च जोरहाट-नगरं प्राप्तुं शक्यते ।

हाफलाङ्ग-नगरम् असम-राज्ये स्थितम् एकं पर्वतीयक्षेत्रं विद्यते । इदं स्थलं पूर्वदिशः “स्विट्जरलैण्ड्” इत्यपि कथ्यते । नगरमिदम् अत्यन्तं सुन्दरं दृश्यते । इदं बारक-उपत्यकायाः समीपे स्थितम् अस्ति । इदं नगरं कछर-मण्डलस्य मुख्यालयः अपि अस्ति । हाफलाङ्ग-नगरे जनानाम् आवागमनं निरन्तरं भवति । ग्रीष्मर्तौ समीपस्थनगराणां जनाः प्रायः तत्र गच्छन्ति । हाफलाङ्ग-नगरं समुद्रतलात् ५१२ किलोमीटर्मितम् उन्नतम् अस्ति । इदं स्थलं पर्वतानां मध्ये स्थितम् अस्ति । क्षेत्रमिदं शीतलम् अस्ति । तत्र जलप्रपाताः अपि सन्ति । हाफलाङ्ग-नगरं “व्हाइट् एण्ट् हिलॉक्” इति नाम्ना अपि ज्ञायते ।

हाफलाङ्ग-नगरस्य समीपे मैबोङ्ग-स्थलम् अस्ति । तत्स्थलं “दिमासा-कछरी”-साम्राज्यस्य राजधानी आसीत् । हाफलाङ्ग-नगरस्य जलवायुः उपोष्णकटिबन्धीयः अस्ति । तत्र सामान्यतया उष्णता अपि भवति । किन्तु वातावरणम् अनुकूलम् एव भवति । शीतर्तौ वातावरणम् अतिशीतलं भवति । एवं च वर्षर्तौ वृष्टिः अपि पर्याप्तमात्रायां भवति । हाफलाङ्ग-नगरं सिलचर-नगरात् १०६ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-नगरे विमानस्थानकम् अस्ति । अतः सिलचर-नगरपर्यन्तं वायुमार्गेण, रेलमार्गेण च गन्तुं शक्यते । ततः भूमार्गेण हाफलाङ्ग-नगरं प्राप्यते ।

डिगबोई-नगरम् असम-राज्यस्य व्यावसायिककेन्द्रम् अस्ति । अस्मिन् नगरे तैलशोधनयन्त्रागाराः अपि अस्ति । ते यन्त्रगाराः प्राचीनाः सन्ति । साम्प्रतम् अपि ते यन्त्रागाराः कार्यरताः सन्ति । ई. स. १८९९ तः अस्मिन् नगरे यन्त्रागाराः सन्ति । अतः इदम् असम-राज्यस्य “तैलस्य नगरं” अपि कथ्यते । ई.स १९०१ तमे वर्षे तैलशोधनयन्त्रागाराः सम्यक्तया कार्यरताः आसन् । अतः आङ्ग्लाः अपि तत्रैव निवसन्ति स्म । आङ्लानां प्रभावेण इदानीमपि अस्मिन् नगरे आङ्ग्लानां स्मरणं भवति । सैखोवा-राष्ट्रियोद्यानं, रिज् पॉइण्ट्, युद्धसमाधिक्षेत्रं च प्रमुखानि वीक्षणीयस्थलानि सन्ति । डिगबोई-नगरस्य जलवायुः उपोष्णकटीबन्धीयः वर्तते । जनाः शीतर्तौ विहाराय तत्र गच्छन्ति । अस्मिन् नगरे विमानस्थानकं, रेलस्थानकं च नास्ति । किन्तु डिब्रूगढ-नगरस्य विमानस्थानकं, तिनसुकिया-नगरस्य रेलस्थानकं च समीपे एव अस्ति । एवं च ३८ क्रमाङ्कस्य राष्ट्रियराजमार्गः तत्र प्राप्यते । अतः तेन डिगबोई-नगरं देशस्य विभिन्नभागैः सह सम्बद्धम् अस्ति । 

असमराज्यस्य मध्यभागे विराजमाना गुवहाटी तस्य राजधानी अस्ति । तस्य ईशान्यभागे ब्रह्मपुत्रनदःतीरे मिकिरपर्वतप्रदेशे एतत् राष्ट्रियम् उद्यानमस्ति । ब्रह्मपुत्रनदतीरे मिकिरपर्वतप्रदेशे एतत् राष्ट्रीयम् उद्यानमस्ति ब्रह्मपुत्रनदस्य प्रपाते ९०० चतुरस्रकि.मी प्रदेशे व्याप्तविफुलैः वृक्षै तरुलताभिः फलवृक्षैः प्राणिभिः पूर्णम् अस्ति । पूर्वमेतत् अज्ञातस्थलमासीत् । सा.श.१९०८ तमे वर्षे एतत् राष्ट्रियोद्यानवनमिति घोषितवन्तः । सा.श. १९५० तमे वर्षे वन्यप्राणिरक्षणकेन्द्रमिति परिवर्तितं राष्ट्रियोद्यानम् अभवत् । अत्र गन्तुं साहासिभिः एव साध्यमस्ति । अहोंसाम्राज्यस्य प्राचीना राजधानीं जोरहात् प्रदेशम् आगत्यानन्तरं वनप्रदेशे गन्तव्यम् । निबिडे वने एषा प्रपातभूमिः अस्ति । गजारोहणं कृत्वा एलिफेण्टा शाद्वलमध्ये गन्तव्यं भवति । मार्गे अरण्याधिकारिणः मार्गदर्शनं कुर्वन्ति । एकत्र एकश्रृङ्गी खड्गमृगाः १८५५ सङ्ख्यधिकाः निवसन्ति । १२०० सङ्ख्यधिकाः गजाः व्याघ्राः १४०० सङ्ख्यधिकाः वनमहिषाः सन्ति । विविधाः अजगराः, मानिटर् लिजर्डप्राणिनः पक्षिसङ्कुलानि अत्र सन्ति । प्राणिसङ्कुलस्य ७५ प्रतिशतं प्राणिनः अत्र निवसन्ति इति पक्षितज्ञानाम् अभिप्रायः ।

एतत् असमराज्यस्य उत्तरभागे स्थितं मण्डलम् । पूर्वम् अत्र ६०० वर्षपर्यन्तं अदोसाम्राज्यस्य राजधानी आसीत् । शिवाय अर्पितमिति कारणेन अस्य शिवसागरम् इति नाम आगतम् । अत्र २०० वर्षपूर्वतः विख्यातं शिबसागरं सरः ५२ हेक्तर् परिमितं विस्तृतम् अस्ति । अत्र जलस्तरः ग्रामस्य जलस्तरतः उपरि अस्ति । अत्र नगरे शिवदोल देवालयः (सा.श.१७३४काले), विष्णुदोल् देवीदोल् देवालयौ च सन्ति । शिवहोल् भारतदेशे एव अत्युन्नत (१०४ मीटर्) अस्ति । अस्य परिधिः १९५ पादमित अस्ति । अस्य विस्तारः हेक्तर् मितमस्ति । मार्गः – जोहराततः ५५ कि.मी.  

मजूद्वीपः असमराज्ये ब्रह्मपुत्रनदेन निर्मितः विश्वस्य अतिबृहद्द्वीपः । अहो वंशीयानां प्रशासनकाले एषः प्रदेशः अतीव समृध्दः आसीत् । प्रपञ्चस्य जीववैविध्यम् अत्र दृष्टुं शक्यते । अत्र पक्षिणः प्राणिनः च विशिष्टाः कीटाः च सन्ति । विश्वसंस्थया अयं प्रदेशः विश्वपरम्परास्थानम् इति उद्घुष्टम् । अत्र बहवः वैष्णवमतानुयायिनः सन्ति । अत्र गन्तुं विमानधूमशकटवाहनसम्पर्कः अस्ति । समीपे दोहारत् इति नगरम् अस्ति ।

असम-राज्यस्य नदीनां कारणेन जलमार्गः अधिकः विकसितः अस्ति । परिवहने जलमार्गस्य उपयोगं भवति । इतः परं स्थलमार्गाः अपि सन्ति । ई. स. १९६६ तमे वर्षे रेलमार्गाणां दैर्घ्यं ५,८२७ किलोमीटरमितम् आसीत् । राजमार्गाणां दैर्घ्यं २०,६७८ किलोमीटरमितं वर्तते । राष्ट्रियमार्गाणां दैर्घ्यं २,९३४ किलोमीटरमितम् अस्ति । अस्मिन् राज्ये जलमार्गाणां विशिष्टं महत्त्वं विद्यते । प्राचीनकाले अपि जलमार्गाणां सर्वाधिकः उपयोगः क्रियते स्म । यतः असम-राज्यस्य नदीनां दैर्घ्यं ३२६१ किलोमीटरमितम् अस्ति । तत्रापि १६५३ किलोमीटरमितं मार्गः नौकाचालने योग्यः वर्तते । 

असम-राज्ये षड् विमानस्थानकानि सन्ति । तत्र नियमितरूपेण विमानसेवा दीयते । गुवाहाटी-नगरे “गोपीनाथ बाडदोलोई विमानस्थानकं”, तेजपुर-नगरे “सलोनीबाडी विमानस्थानकं”, डिब्रूगढ-नगरे “मोहनबाडी विमानस्थानकं”, उत्तरलखीमपुरे “सिलोनबाडी विमानस्थानकं”, सिलचर-नगरे “कुभीरग्राम विमानस्थानकं”, जोरहाट-नगरे “रोवरियाह विमानस्थानकं” च अस्ति ।




#Article 41: उत्तरप्रदेशराज्यम् (2319 words)


उत्तरप्रदेश: भारतस्‍य उत्तर भागे स्‍थितं किञ्चन राज्यम् ।  प्रायः १९० मिलियन् जनसंख्या विद्यते अस्मिन् राज्ये । भारतदेशेषु विद्यमानेषु राज्येषु अस्मिन्नेव राज्ये अधिकाः जनाः सन्ति । उत्तरप्रदेशे सुफलाभूमिः अधिकतया दृश्यते । उत्तरप्रदेशस्य उत्तर-पश्चिमे हिमाचलप्रदेशः अस्ति । पश्चिमे हरियाणा, देहली, राजस्थानम् च भवन्ति । दक्षिणे मध्यप्रदेशः, छत्तीसगढ, झारखण्डश्च सन्ति । दक्षिण-पूर्वे तथा पूर्वे बिहारराज्यम् अस्ति । उत्तरप्रदेशस्य राजधानी लखनौ अस्ति । अस्य राज्यस्य उच्चन्यायालयः अलहाबाद् नगरे अस्ति । वाराणस्यादि क्षेत्राणाम्, आग्रादी ऐतिहासिकस्थलानाम् आश्रितं राज्यं भवति एतत् । कानपुरं, गोरखपुरं, मेरठ, आग्रा, अलिगढ, बरेली, अलहाबाद्, गाझियाबाद्,नोयिडाच अत्रत्य बृहत् नगराणि भवन्ति । हैन्दवानां पवित्रतमक्षेत्राणि अस्मिन् राज्ये राराजन्ते ।

नवदशशतकात् अस्य प्रदेशस्य विषये विविधानि विवरणानि लभ्यन्ते । अन्यानि नामानि अपि अस्य राज्यस्य सन्ति। १८३३ तमे संवत्सरे बङ्गालप्रान्त्यस्य ब्रिटिषसर्वकारः विभक्तः अभवत् । एकस्मिन् भागे आग्रानगरं केन्द्रम् अभवत् । १८३६ तमे संवत्सरे आग्राप्रदेशस्य उत्तरपश्चिमप्रदेशः इति नामकरणं कृतवन्तः । अयं प्रदेशः ब्रिटिषसर्वकारस्य राज्यपालस्य शासने आसीत् । १८७७ तमे संवत्सरे ब्रिटिषसर्वकारस्य आग्रा तथा अवध इत्येतयोः प्रान्तयोः शासनम् आसीत् । १९०२ तमे संवत्सरे उभयोः प्रदेशयोः मिलित्वा शासनम् आसीत् । उभयोः संयुक्तसंस्थानमिति व्यवहारः आसीत् । १९५० तमे संवत्सरे संयुक्तसंस्थानस्य नाम एव उत्तरप्रदेशः इति कृतवन्तः । १९९९ तमे हिमाचलप्रदेशराज्यं तथा उत्तराखण्डराज्यम् इतः पृथक् कृतवन्तः।

भारते अधिकाः जनाः अस्मिन्नेव राज्ये सन्ति । अस्य राज्यस्य जनसंख्या जुलैमासे १ दिनाङ्के २००८तमे संवत्सरे १९० मिलियन् आसीत् । ८०% जनाः हिन्दवः अस्मिन् राज्ये सन्ति । १८% जनाः मुसल्मानाः सन्ति । एतान् विहाय सिक्खाः, बौद्धाः, क्रैस्ताः, जैनाः च अस्मिन् राज्ये सन्ति ।

उत्तरप्रदेशे जनसंख्या जात्युपजात्याधारेण विभक्ता अस्ति। श्रृतिस्मृत्यनुसारं हिन्दुसमाजस्य चत्वारः वर्णाश्रमधर्माः सन्ति । ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रः इति चत्वारः धर्माः । अस्य राज्यस्य ब्राह्मणेषु भार्गव-भट्ट-गङ्गापुत्र-गौर-जोशि-कन्यकुब्ज-मैथिली-नागरेत्यादयाः भवन्ति । सलल्द्विपिय, संध्या, सर्युपरीन्, श्रीमलि, त्यागि रजपूताः इत्यादयाः क्षत्रियेषु भवन्ति । एते जनाः व्यापाराश्रिताः भवन्ति । तेषु मुख्याः अग्रहारि, अग्रवाल्, बार्नवाल्, घाटे, बनिय, हल्वायि, जैस्वाल्, कल्वार्, केसर्वानि, महेश्वरी, माथुर्, ओमार्, ओस्वाल्, पर्वार्, पट्वा, रस्तोगि, सद् तथा तेलि व्यापाराश्रिताः जनाः। कृष्याश्रिताः वैश्याः अहिर्, गडेरिया, गौर्वा, गुज्जर्, जट्, कच्चि, कंबोज्, कोयिरि, कुर्मि, मुराव्, मालि, रावे तथा रोर् जनाः भवन्ति । शूद्रजातिषु बरहै, बर्वार्, बेल्दार्, दागि, धोबि, दुसध्, जोगि, कहर्, केवट्, नायि तथा थाथेरा जनाः भवन्ति । उत्तरप्रदेशस्य बहिर्भागे वनवासिनः निवसन्ति । अगारिया, बैगा, भार्, भोक्सा, बिन्द, चेरू, गोण्ड्, कोल् तथा कोर्वा जनाः भवन्ति । भारतसार्वकारस्य साहाय्येन विना वनवासिपञ्चगणाः जीवनं कुर्वन्ति । ते थारजनाः, भोक्साजनाः, भूटियाजनाः, जौनस्वरिजनाः तथा राजिजनाः भवन्ति । अन्येभ्यः देशेभ्यः आगताः सय्यद, सिध्दिकि, शेख, शेखजादा, मुघल तथा पठाण यवनाः सन्ति ।

राज्ये ४०३ विधानसभायाः निर्वाचनस्थानानि सन्ति । १९९१ तमे संवत्सरे भारतीयजनतापक्षः बहुमतं प्राप्तवान् आसीत् । २००७ तमे संवत्सरे  निर्वाचने बहुजनसमाजपक्षः बहुमतं प्राप्य शासनं करोति स्म । मायावती अस्य पक्षस्य मुख्या आसीत् । सा एव मुख्यमन्त्रिणी अपि असीत् । गतयोः दशकयोः सम्मिश्रसर्वकारः एव शासनम् करोति ।

एतस्मात् राज्यात् बहवः नायकाः आगताः सन्ति । भारतस्य १४ प्रधानमन्त्रिषु ८ जनाः उत्तरप्रदेशस्यैव भवन्ति । ते जवाहरलालनेहरुः,लालबहादुरशास्त्री, इन्दिरा गान्धिः, चौधरि चरणसिंह, विश्वनाथप्रतापसिंहः, चन्द्रशेखरः, अटलबिहारीवाजपेयीच भवन्ति । यद्यपि अटलबिहारीवाजपेयीमहोदयस्य जन्मभूमिः ग्वालियर्स्ति, किन्तु निर्वाचनस्थलं उत्तरप्रदेशः अस्ति । नेहरु-गान्धीकुटुम्बस्य सध्यकालीनाः सदस्याः उत्तरप्रदेशेषु निर्वाचनस्थलेषु एव स्पर्धार्थिनः भवन्ति । सोनिया गान्धी बरेली निर्वाचनप्रदेशात् सर्वदा स्पर्धार्थिनी भवति । अमेठी, सुल्तानपुरं निर्वाचनस्थले राहुलगान्धी स्पर्धार्थी भवति। अन्ये उत्तरप्रदेशस्य नायकाः नाम मेनकागान्धी, वरुणगान्धी, डा.मुरलिमनोहरजोशी, एस.पि.नायक, मुलायमसिंहयादवः, मायावती, राजनाथसिंहः, कल्याणसिंहः, अजितसिंहः, नारायणदत्ततिवारी, मुख्तार अब्बास नख्वि च ।

उत्तरप्रदेशे साम्प्रदायिकाध्ययनस्य सम्प्रदायः एव आसीत्। वेदकालात् वेदसंस्कृतयोः अध्ययनम् अनुस्यूततया प्रचलितम् अस्ति । संस्कृताधारितशिक्षणेन सह पालीभाषायाः अध्ययनं प्रचलति। ब्रिटिषशासनात् पूर्वम् उत्तरप्रदेशः हिन्दूनां, बौद्धानां, यवनानाम्, अध्ययनस्य श्रेष्ठं केन्द्रम् आसीत् । केम्ब्रिड्जविश्वविद्यालयसदृशम्, अलिगढमुस्लिंविश्वविद्यालयः अस्मिन् उत्तरप्रदेशे विराजते। १८७५ तमे संवत्सरे सर् सैद अहमदखान् द्वारा विश्वविद्यालयः स्थापितः अस्ति । गच्छता कालेन अस्य विद्यालयस्य नाम “मोहमद आङ्ग्लो-ओरियण्टल् कलाशाला”(कालेज्) इति परिवर्तितवन्तः। १९२० तमे संवत्सरे एनं विश्वविद्यालयं “केन्द्रीयविश्वविद्यालयः” इति भारतसर्वकारः उद्घोषितवान् । बनारसहिन्दूविश्वविद्यालयः भारते वाराणस्याम् अस्ति । अयं विश्वविद्यालयः “केन्द्रीयविश्वविद्यालयः” भवति । एनं विश्वविद्यालयम् ऐरिषवंशीया ब्रिटिषमहिला “एनिबेसेण्ट” स्थापितवती । १ अक्टोबर १९१७ तमे संवत्सरे ’केन्द्रियहिन्दुकलाशालां  विश्वविद्यालयरूपेण स्वीकृतवन्तः । विश्वविद्यालयाय नृपाणाम् आश्रयः आसीत् । १,३५० चतुरस्रपरिमितम् अस्य विश्वविद्यालयस्य विस्तारः अस्ति। अस्मिन् विश्वविद्यालये अवासार्थं विद्यमानानि गृहाणि बृहत् गृहाणि भवन्ति ।  एशियाखण्डे प्रथमस्थानाङ्कितविश्वविद्यालयत्वेन गणितम् अस्ति । १२८ अपेक्षया अधिकाः विभागाः अस्मिन् विश्वविद्यालये सन्ति । विज्ञान-भाषाध्ययन- तन्त्रज्ञान-वैद्यकीयादयः विभागाः विश्वे प्रसिद्धाः भवन्ति । १५,००० अधिकाः छात्राः अस्मिन् विश्वविद्यालये अध्ययननिरताः सन्ति । १९६० तमे संवत्सरे “कानपुरे” “भारतीय तन्त्रज्ञानसंस्थां”(IIT) भारतसार्वकारेण संस्थापिता । एषा संस्था विश्वे सुप्रसिद्धा अस्ति ।

भारतीय आर्थिकव्यवस्थायां भारतीयराज्येषु उत्तरप्रदेशस्य द्वितीयं स्थानम् अस्ति । व्यवसायाश्रितमं राज्यम् इदम् । १९९१ तमे संवत्सरे ७३% प्रतिशतं जनाः व्यावसायम् आश्रितवन्तः आसन् । राज्यस्य कानिचन मुख्यनि औद्योगिकनगराणि अधोनिर्धिष्ठानि भवन्ति ।

उत्तरप्रदेशः देशविदेशीयानां यात्रिकाणाम् आकर्षणं केन्द्रं भवति। २००३ तमे संवत्सरे ७१ मिलियन् देशीययात्रिकाः, तेषु विदेशतः २५% प्रतिशतं यात्रिकाश्च आगताः। अस्मिन् राज्ये ताजमहल्, आग्रादुर्गं, फतेहपुरसीकरी इत्यादीनि विश्वप्रसिद्धानि प्रेक्षणीयस्थानानि सन्ति। आग्रानगरे एतानि स्थानानि विद्यन्ते।

आग्रानगरं सा.श.१५०१ समये सिकन्दरलोधी इत्यस्य प्रशासनकाले भारतस्य राजधानी आसीत् । मोगलवंशीयानां बाबरहुमायून् इत्यादीनां प्रशासनकाले  आग्राप्रदेशे अनेके भवनविशेषाः निर्मिताः । अक्बरः आग्रातः फतेपुरसिक्रिपर्यन्तं सा.श.१५७० तः २५८५ पर्यन्तं प्रशासनं कृतवान् । अनन्तर शाहजहानः तेजोमहालयः इति  प्रसिद्धं शिवालयं परिवर्त्य ताजमहल् इति स्मारकसौधं कृतवान् । औरङ्गजेबः राजधान्याः देहलीनगरं प्रति स्थानन्तरितवान् । आग्रादुर्गम् अनेकैः प्रशासकैः निर्मितम् अस्ति । अक्बरः जहाङ्गीरः शाहजहानः औरङ्गजेबः च एतत् दुर्गं निर्मितवन्तः सन्ति । अत्र दरबारभवनं , शीषमहल्,  राज्ञीवासः , प्रार्थनामन्दिरम् इत्यादीनी दर्शनीयानि सन्ति । आग्रातः १० कि.मी. दूरे दयालबाग् स्थले राधास्वामीमन्दिरं सुन्दरम् अस्ति । शिल्पकलादृष्ट्या अतीवभव्यम् अमोघं चास्ति । आग्रातः उत्तरभागे १० कि.मी. दूरे सिकन्दरस्थले अकबरस्य मृतस्मारकम् अस्ति । अत्र हिन्दुयवनशैल्या निर्मितानि गोपुराणि प्रतिकोणं सन्ति । त्रिस्तरीयाणि गोपुराणि अतीव सुन्दराणि सन्ति ।

आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् ।
ताजमहल् न केवलं  भारते अपि च विश्वे एव प्रसिद्धं दर्शनीयं भव्यं भवनम् अस्ति । फ्रान्सदेशस्य ऐफेल् गोपुरमिव आस्ट्रेलिया देशस्य अपेराहौस् इव विस्मयकारि स्थलमस्ति । यमुनानद्याः दक्षिणभागे स्थितं विशालं भव्यम् अमृतशिलानिर्मितं वास्तुशिल्पमेतत् । अस्य दैर्घ्यं २७०० पादमितं, वैशाल्यं च २००० पादमितम् अस्ति । उत्तरदक्षिणतः आयताकारे विशालावरणे एतत् निर्मितम् अस्ति ।

परितः प्रावारकम् अस्ति । दक्षिणदिशि महाद्वारम् अस्ति । उत्तरभागे ताजमन्दिरमस्ति । महाद्वारतः १८०० पादमितदीर्घम् उद्यानम् । मध्ये नालाः तत्र तत्र जलोत्सांसि सन्ति । ७५ पादमितम् चौकाकारकं सरोवरम् अस्ति।  दूरतः वीक्षणसमये ३१३ पादमिते प्राङ्गणे १४० पादमितोन्नतं मन्दिरं सुन्दरतया द्रृश्यते । चौकाकारे शिल्पे चतुर्षु कोणेषु १४० पादमितोन्नताः त्रिस्तरीयाः वृत्तच्छदाः (मिनरेट्स्) सन्ति । मध्ये उन्नते  प्राङ्गणे १८६ पादमिते चौकाकारे स्थले मुख्यं ताजमन्दिरम् अस्ति । 
केषुचिद्विभागेषु शिल्पानि सन्ति । अर्धगोलाकारके छदे (Tomb) भित्तिषु लताशिल्पानि विराजन्ते । पवित्रस्य कुरान् ग्रन्थस्य भागाः अत्र शिल्पेषु उत्कीर्णाः सन्ति । यथा यथा उपरि गम्यते तथा तथा अक्षराणां गात्रं बृहत् भवति ।

ताजमहल् भवनं  ये पश्यन्ति तेषा मनसि एतत् अलौकिकं भवन  इति भावना भवति । अतीवाकर्षकं सुन्दरं काव्यमिव सर्वजनप्रियं भवन  एतत् । मोगलचक्रवर्तिः शाहजहानः स्वप्रियपत्न्याः मुमताज़वर्यायाः स्मरणार्थं एतस्य निर्माणं कारितवान्  । क्रिस्ताब्दे १६३११६५२ पर्यन्तस्य कालावसरे  निर्मित  एतत् कलास्थानं विश्वे अद्भुत स्थानेष्वन्यतम  इति परिगण्यते । वर्णनातीतमेतत् चन्द्रिकाया  अत्यन्तं मोहकं भवति । “यावत् एतस्य साक्षात् दर्शनं न क्रियते तावत् तस्य वर्णनम् अपूर्णम् एव तिष्ठति । अस्य अद्भुत सौन्दर्यं  साक्षादेव द्रष्टव्यम् ” इति फर्ग्युसन् महोदयः उक्तवान् अस्ति । भवने बहिर्भागे उपयुक्ताः अमृतशिलाः सम्यक् घर्षयित्वा मसृणतायुक्ताः कृताः सन्ति । सूर्यप्रकाशे किरणानि सर्वत्र प्रतिफलन्ति । पुरतः निर्मले सरोवरजले ताजमहल् प्रतिबिम्बः  द्रृष्टुं शक्नुमः । ताजमहल् दर्शनाय ग्रीष्मकाले प्रातः ७.३० वादनतः , शीतकाले ८ वादनतः प्रवेशावकाशः अस्ति । साधारण समये अल्प  शुल्क  । ४.०० वादनानन्तरं शुल्कं महार्घं भवति। शुक्रवासरे दर्शनं निश्शुल्कम् भवति । सोमवासरे अत्र विरामः भवति ।

देहली खजुराहो वाराणसी इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति ।

देहलीचेन्नै मार्गे आग्रा प्रमुखनिस्थानमस्ति । कोलकातातः आगतवतां टुण्डला निस्थानं समीपे भवति । ततः ३५ कि.मी वाहनमार्गेण गन्तव्यम्  । आग्राकण्टोन्मेण्ट् मुख्य  निस्थानमस्ति ।

मुख्यवाहननिस्थानं  पोर्टवाहननिस्थानमस्ति । ईदगावाहननिस्थानतः नगरवाहनसम्पर्कः अस्ति । देहलीतः २०० कि.मी. । ग्वालियर्तः ११९ कि.मी. । लखनौतः ३६९ कि.मी । मुम्बयीतः ३२० कि.मी । जयपूरतः १३० कि.मी । भरतपूर तः ६० कि.मी । मथुरातः ५८ कि.मी. । देहलीतः एकदिनप्रवासव्यवस्था अस्ति । एषः भवनसमुच्चयः ६० ‘बिघा’ विशालयुक्तः अस्ति । अयः प्रदेशः दक्षिणतः उत्तरदिशि नद्यभिमुखं प्रसृतः, निम्नभूमिं प्रति गच्छन्त्यः वीथिकाः इव च अस्ति । द्वितीये आलिन्दे किञ्चन चतुरस्रोद्यानम् अस्ति , यत् उभयतः पटमण्डपाः वर्तन्ते । विविधाकारकैः जलनालैः अयं प्रदेशः चतुर्धा विभक्तः अस्ति । एते चत्वारः प्रदेशाः ‘चारबाग्’ नाम्ना ख्याताः सन्ति । मुख्यशिखरगोलार्धं वस्तुतः चतुरस्त्राकारयुतम् अस्ति, यस्य कोणानि निम्नताकारेण कर्तितानि दृश्यन्ते । प्रार्थनाङ्गणानि इतः अयुक्तानि सन्ति । तानि मुख्यशिखराणां कोणाभिमुखानि वर्तन्ते । रक्तवर्णशिलया निर्मितं पश्चिमदिशि विद्यमानं प्रार्थनामन्दिरं स्वीयवर्णात् अत्रत्यं सौन्दर्यं परिवर्धयति । ताजभवनस्य् अन्तः, बहिः, ऊर्ध्वभागे, परितः विद्यमाने अमृतशिलाजानिकासु च दृश्यमानाः कलाकृतयः अत्यद्भुताः सन्ति । १९८३ तमे वर्षे युनेस्कोसंस्थया ताजभवनं जागतिकपारम्परिकस्थलत्वेन घोषितम् । संस्थया उल्लिखितम् अस्ति यत् भारते यवनकलायाः आभरणम् इव स्थिता जागतिकपरम्परायां सर्वजनैः कीर्तिता काचित् श्रेष्ठा कलाकृतिः एषा इति ।
ताजभवनं प्रातः ६ वादनतः रात्रौ ७ वादन- पर्यन्तं सार्वजनिकानां दर्शनाय उद्घाटितं भवति । शुक्रवासरे भवनं पिहितं भवति । पूर्णिमादिने , ततः पूर्वं दिनद्वयं, तदनन्तरं दिनद्वयं च  रात्रिकाले दर्शनाय उद्घाटितं भवति तत् । रमझान्मासे रात्रिदर्शनं न भवति । १९८३ तमे वर्षे विश्वपरम्परास्थानानां सूच्यां ताजमहल् योजितम् अस्ति ।

आग्रादुर्गं मोगलवंशीयानां शासकानां वैभवस्य प्रतीकम् अस्ति । इदम् उत्तरप्रदेशे विद्यते । तेषां शासनस्य उत्तुङ्गस्थितौ चक्रवर्ती शाहजहानः १६३८-१६४८ वर्षयोः मध्ये दुर्गम् एतत् निर्मितवान् । दुर्गं परितः रक्षणदृष्ट्या महाप्राकारद्वयं श्वेतशिलया निर्मितम् अस्ति । बाह्यप्राकारः ७० पादमितः, अपरः च ३० पादमितः । तयोः मध्ये खाते मकराः भवन्ति, खातप्राकारयोः मध्ये विद्यमाने स्थले व्याघ्राः भवन्ति स्म । 'दीवान्-इ-आम्'नामके सभागृहे चक्रवर्ती जनसन्दर्शनं करोति स्म । कृष्णशिलया निर्मिते सिंहासने सः उपविशति स्म । विशिष्टानां जनानां मेलनाय 'दीवान्-ई-खास'नामकं सभागारम् आसीत्, यत्र श्वेतशिलासनं भवति स्म । मल्लिकासौधे आधिक्येन शाहजहानस्य प्रिया पत्नी मुमताज वसति स्म, या च चतुर्दशपुत्रान् प्रसूय दिवङ्गता । तदनन्तरवर्षेषु शाहजहानः अत्रैव बन्दीकृतः । स्वस्य अन्तिमेषु दिनेषु ततः एव यमुनातीरस्थं ताजभवनं पश्यन् सः कालं यापितवान् ।

फतेहपुरसीकरी इत्यस्य विजयशिखरमित्यर्थः । अक्बरचक्रवर्ती गुजरातविजयानन्तरं क्रिस्ताब्दस्य १५७०तः १५८६वर्षाभ्यन्तरे एतत् निर्मितवान् । तस्मिन् समये अक्बरस्य पुंसन्तानं नासीत् । सः अत्र आगत्य शेख् सलीं चिस्थी नामानं योगिनं दृष्टवान् । सः अक्बरमहोदयस्य पुत्राः भवन्तीति भविष्यं कथितवान् ।
ततः अक्बरस्य एकः पुत्रः सञ्जातः । तस्य सलीम्  इति नामकरणं कृतम् । एषः एव अग्रे जहाङ्गीरः इति प्रसिद्धः अभवत् । अक्बरचक्रवर्ती राजधानीम्  अत्र आनीतवान् । इतः एव प्रशासनम् अकरोत् । सर्वधर्मसमन्वयसाधकं दीन् इलाही धर्मं प्रतिष्ठापितवान् । 
अस्मिन् नगरे शाही दर्वाजा , बुलन्ददर्वाजा इत्यादिविशिष्टानि शिल्पानि निर्मितानि । शाही दर्वाजा दुर्गस्य महाद्वारमस्ति । बुलान्द दर्वाजा (मसज़िद्) प्रार्थनामन्दिरद्वारम् अस्ति । अत्र सप्तद्वाराणि सन्ति । ५४ मीटर् उन्नतद्वारमेतदस्ति । एशियाखण्डे एव अत्युन्नतद्वारमस्ति (Gate of Victory) । अस्मिन् महाद्वारे शासननि सन्ति । सोपानैः उपरि गन्तव्यं भवति । शासनेषु प्रापञ्चिकविषयाः निरूपिताः सन्ति । 
प्रार्थनामन्दिरे शेख् चिस्थी स्मारकम् अस्ति । अत्र लक्षजनाः प्रार्थनां कर्तुं शक्नुवन्ति । फतेहपुरसीकरी स्थाने जोधाबायीराजगृहं , बीरबल् भवनं , पञ्चमहल् , दिवानि खास् , दिवानि आं, हीरन् महल् , नौबतखान् , सुन्दर महल् इत्यादीनि स्थानानि आकर्षकाणि सन्ति ।
फतेहपुरसीकरी तु क्रि.श. १६तमशतके मोघलचक्रवर्ती अक्बरेण निर्मिता राजधानी । एतत् आग्रानगरस्य समीपे अस्ति । साम्प्रदयिकराजधानीत्वेन अस्य स्थानस्य उपयोगं कृतवान् अतः दुर्गादिभिः रक्षणं नास्ति । अक्बरस्य व्यक्तित्वेन आदर्शैः च प्रभावितम् एतन्नगरं विशिष्टविन्यासयुक्तम् अस्ति । अक्बरः धार्मिकसहिष्णुः धर्मसमन्वये विश्वस्तः आसीत् । अयं विविधमतधर्माणां चिन्तनयुक्तं दीन् इलाही इति मतमपि आरब्धवान् । एषः हैन्दवैः सह राजनैतिकं वैयक्तिकं च बान्धव्यं रक्षितवान् । अक्बरः अस्य नगरस्य विन्यासकर्ता । अतः तस्य आदर्शान् अस्मिन् नगरे दृष्टुं शक्नुमः। नगरस्य विन्यासक्रमे विशाले स्थले भवनानि निर्मीय वैशाल्यभावं प्रकटयितुं प्रज्ञापूर्वकं यत्नः कृतः दृश्यते । गुजरातस्य पश्चिमबङ्गालस्य च विन्यासाः अनेकेषु भवनेषु अन्तर्भाविताह् सन्ति । अस्य मुख्यकारणं तु अक्बरः कुशलान् कर्मकरान् भारतस्य विविधभागतः आनीय भवननिर्माणे योजितवान् आसीत् । हैन्दवानां 
महम्मदीयानां क्रैस्तानां च शैल्याः मिश्रणमपि अत्र दृश्यते । भवननिर्माणास्य मूलसामग्री रक्तशिला । 

आग्राजयपुरमार्गे ४० कि.मी. दूरे अस्ति ।

आग्राविमानस्थानमस्ति । अनन्तरं वाहनमार्गः ।

देहलीतः चेन्नैमार्गे आग्रा निस्थानम् अस्ति । देहलीतः आग्रापर्यन्तं ताजएक्सप्रेस् धूमशकटस्थानमस्ति । वसत्याः कृते अत्र अनेकानि उपाहारवसतिगृहाणि सन्ति । सप्तम्बरमासतः एप्रिलपर्यन्तं दर्शनाय उत्तमकालः ।

प्राचीननगरमेतत् औध् नवाब वंशीयानां राजधानी आसीत् । अत्र नगरे अनेकानि वास्तुशिल्पानि अपूर्वाणि सन्ति । बारां इमाम्बट (१७८४) स्थले उन्नतानि गोपुराणि सन्ति । अनेन विशिष्ट भवनेन उपरिष्टात् लक्नौ नगर दर्शन कर्तुं शक्यते । महम्मद अलिषह क्रिस्ताब्दे १८३७ वर्षे स्वसमाधिं निर्मितवान् । ताजमहल् सद्रृशमेतत् अत्रानेका- नि गोपुराणि कलशानि सन्ति । ६७ मीटर् उन्नत घटीयन्त्र गोपुरमस्ति । पुरतः चित्रकला सङ्ग्रहालये औधनवाब महोदयानाम थाव चित्राणा सङ्ग्रहः अस्ति । लक्नौ समीपे गोमती नदीतीरे लक्ष्मणतिला , कैसट्बाग् आर्कलाणिकल् म्यूसिय बनारसीबाग् स्टेट् म्यूसिय , मृगालय इत्यादि दर्शनीयानि स्थाननि सन्ति ।

अस्मिन् राज्ये पवित्रतमक्षेत्राणि सन्ति। गङ्गा,यमुना नद्योः तटे एतानि क्षेत्राणि विराजन्ते। तानि वाराणसी, अयोध्या, मथुरा, अलाहाबाद् इत्यादीनि प्रसिद्धानि पुण्यतमानि भवन्ति।

मथुरा भारतस्य उत्तरप्रदेशे काचित् नगरी अस्ति । भगवतः कृष्णस्य जन्म अत्र अभवत् ।मथुरा देहलीतः १३४ कि.मी. । आग्रातः ५७ कि.मी. दूरे अस्ति । श्रीकृष्णस्य जन्मस्थानम्  इति पुराणद्वारा ज्ञायते । अत्र अनेके देवालयाः मुस्लिंजनानाम् आक्रमणेन विनष्टाः आसन् । केचन पुननिर्मिताः सन्ति । श्रीकृष्णस्य मथुरानाथमन्दिरम् अतीव सुन्दरम् अस्ति । चित्रकला सङ्ग्रहालयः इव अस्ति । गर्भगृहे श्रीकृष्णमूर्तिं परितः रजतगावः निर्मिताः सन्ति।
केशवमन्दिरसमीपे भागवतमन्दिरमिति सभाभवनम् अस्ति । एतत् प्रार्थनामन्दिरम् इत्यपि प्रसिद्धमस्ति । केशवमन्दिरस्य आवरणे क्रिस्ताब्दे १६६१ तमे वर्षे निर्मितं जातिमस्जिद् इति मुस्लिं प्रार्थनामन्दिरमस्ति । चतुस्तरीयभवनम् एतत् यमुनानदीतीरे अस्ति । समीपे कलासङ्ग्रहालये मूर्तिशिल्पानि नाणकानि बुद्धस्य लोहविग्रहाः च सन्ति ।
मथुरातः १०कि.मी. दूरे वृन्दावनम् अस्ति । अत्रैव श्रीकृष्णः बाल्ये वेणुवादनं विविधलीलाः च प्रदर्शितवान् । अत्र चैतन्यमहाप्रभुः भक्तेः महिमानं प्रदर्शितवान् । मीरा-गोपीनाथ-  मदनमोहन-राधारमण-बिर्लामन्दिराणि अपूर्वाणि सन्ति ।

वाराणसीतः १३५ कि.मी. दूरे गङ्गायमुनासरस्वतीनां सङ्गमस्थानं त्रिवेणीसङ्गमः इति ख्यातः अस्ति । सरस्वतीनदी अत्र गुप्तगामिनी अस्ति । प्रयागः इति अस्य पूर्वनाम आसीत् । ब्रह्मा एव अत्र यागं कृतवान् इति पुराणेषु उल्लिखितम् । अकबरस्य काले प्रयागस्य अलाहाबाद् इति नाम आगतम् । अत्र सङ्गमे स्नानं पवित्रम् इति भारतीयाः भावयन्ति । द्वादशवर्षेषु एकवारम् अत्र कुम्बमेला इति महान् उत्सवः प्रचलति । अत्र अक्बरः बृहत् भित्तीनां स्तम्भानां त्रयाणां महाद्वाराणां गोपुराणां च निर्माणं कारितवान् । दुर्गात् यमुनानदीवीक्षणम् अधिकानन्ददं भवति । भारतस्य स्वातन्त्र्यान्दोलने प्रमुखमस्थलम् आनन्दभवनम् आसीत् । अलाहाबादनगरे स्थितमेतत् इदानीं राष्ट्रियस्मारकमस्ति । दुर्गस्य महाद्वारस्य पुरतः अशोकस्तम्भः स्थापितः अस्ति । 

सूर्यवंशीयराजानां राजधानी आसीत् । लखनौतः १३८ कि.मी. दूरे फैजा्बाद्तः १० कि.मी. दूरे च अस्ति । पुण्यक्षेत्रेऽस्मिन् अनेके देवालयाः सन्ति । रामायणस्य अनेके दृश्यानि अत्र उत्कीर्णानि । कैकेयीभवनं , रत्नसिंहासनं , आनन्दभवनं कोपभवनं, वसिष्ठकुण्डः कनकभवनं सरयूनदीतीर इत्यादि दर्शनीयानि । कदाचित् बौद्धानां केन्द्रमप्यासीत् ।

काशी बनारस् वारणासी इत्यादि नामभिः प्रसिद्धं काशीपत्तनं पुराणकालादपि अपूर्वं स्थानम् अस्ति । भारतीयानां पवित्रतमं यात्रास्थलम् । वरुणा-असिनद्योः मध्यभागे अस्ति । बनारस् इति राजा प्रशासनं कृतवान् । अतः बनारस् इति नाम आगतम् अस्ति । काशीनगरे विशालाक्षीमन्दिरं विश्वनाथमन्दिरं च गङ्गातीरे स्तः । हनूमान् घाट् मणिकर्णिकाघाट्, पञ्चगङ्गाघाट्, दशाश्वमेधघाट् तुलसीमानसमन्दिरं सङ्कटविमोचनमन्दिरं व्यासकाशी बिर्लाभवनम् इत्यादीनि दर्शनीयानि स्थानानि सन्ति । तुलसीमानसमन्दिरं राजाश्मभिः निर्मितम् । भित्तिसु श्रीतुलसीदासस्य जीवनघटनाः चित्रिताः सन्ति । बिर्लामन्दिरे शिवमन्दिरं मध्ये, दक्षिणे शिवपार्वत्योः मन्दिरं वामभागे श्रीलक्ष्मीनारायणमन्दिरं च सन्ति । काशीविश्वविद्यालयेऽपि विश्वनाथमन्दिरं (बृहत्शिवलिङ्गम्) आकर्षणीयमस्ति ।

वाराणसीतः दश किलोमीटरदूरे बौद्धनां प्राचीनकेन्द्रम् अस्ति । गौतमबुद्धः स्वप्रथमोपदेशम् अत्रैव कृतवान् ।  बुद्धत्वप्राप्तेः पश्चान् वाराणसीम् आगत्य सारानाथे वासं कृतवान् । सा.श.६४० समये अत्र २५०० पूजाकर्तारः, अशोकस्तम्भः, १००मीटरोन्नतः स्तूपः च आसन्। मोघलवंशीयानां प्रशासनकाले अनेके स्मारकाः नष्टाः अभवन् । अत्र अशोक निर्मितः धमेकास्तूपः अर्ध गोलाकारः ९३ पादोन्नतः च आसीत् ।
धर्मराणिस्तूप समीपे अशोकः ध्यानासक्तः आसीत् । मुख्यमन्दिरस्य पूरतः स्तम्भः निर्मितः आसीत् ।  सारानाथस्य पुराशेषवस्तुसङ्ग्रहालये मौर्यकुशानगुप्तंवंशीयानां कालिकाः मूर्तयः सन्ति । सारनाथे लब्धं गौतमबुद्धस्य मूर्तिरपि अत्रास्ति । गणेशसरस्वतीविष्णूनां मूर्तयः अपि अत्र सन्ति । आधुनिककालेऽपि सारानाथक्षेत्रम् एकं दर्शनीयं क्षेत्रमस्ति ।

  

उत्तरप्रदेशस्य ७५ मण्डलानि सन्ति।




#Article 42: केरळराज्यम् (5668 words)


केरळ-राज्यं भारतस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अस्य मूलनाम “चेरळम्” इति आसीत् । पुरा “मलनाडु”, “भार्गवक्षेत्रं”, “चेरल” च अस्य राज्यस्य नामानि आसन् । मौर्यशासकस्य अशोकस्य कस्मिंश्चित् शिखालेखे अस्य राज्यविषये “केरळस्य पुत्रः” इति उल्लेखितम् अस्ति । केरळराज्ये कैरळी अथवा मलयाळम् इत्येषा भाषा उपयुज्यते‌। केरळराज्यस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च तमिऴ्‌नाडु, उत्तरे कर्णाटकं च।

गोकर्णम् आरभ्य कन्याकुमारीक्षेत्रं यावत् भूभागः कदाचित् केरळभूमिरासीत् । परन्तु, उत्तरतः दक्षिणं यावत् केचन भागाः अन्यत्र योजिताः । अतः अवशिष्टः मध्यभागः एव सम्प्रति केरळराज्यं वर्तते ।भारतस्य दक्षिणभागे पश्चिमकोणे उत्तराक्षांशः 8°18'-12°48'–मध्ये, पूर्वरेखांशः 74°52'-77°22'-मध्ये एव केरळराज्यम् वर्तते । केरळराज्ये वत्सरस्य अर्धाधिकं कालं मेघो वर्षति । प्रवहन्ति प्रभूतजलाः नद्यो भूयस्यः । भूप्रकृतिमनुसृत्य केरळं मलनाड् (गिरिप्रदेशः), इडनाड् (मध्यपदेशः), तीरसमतलम् इति त्रिधा विभक्तं वर्तते । पूर्वसीमि सह्याचलप्रदेशः एव मलनाट् (गिरिप्रदेशः) । पश्चिमे भागे समुद्रतीरसमीपस्थितस्य समतलस्य तथा मलनाड् इत्यस्य च मध्ये वर्तमानः निम्नोन्नतप्रदेशः एव इडनाड् । मलनाड् भागस्य विस्तृतिः २१८५० च.कि.मी इदं केरळविस्तृते ५६% भवति । औनत्ये प्रथमं स्थानं हिमालयस्थानां शृङ्गाणामेव । द्वितीयं स्थानं केरळस्य पश्चिमघट्टे स्थितस्य आनमुडि शॄङ्गस्यैव (२६९४ मीटर्)।

केरळ-राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । इदं राज्यं भूमध्यरेखायाः समीपे स्थितम् अस्ति । अतः अस्मिन् राज्ये उष्णतायाः आधिक्यं भवति । किन्तु अरब-महासागरस्य जलवायुः आर्द्रः भवति । तेन कारणेन उष्णतायां न्यूनता भवति । फरवरी-मासतः मई-मासपर्यन्तं ग्रीष्मर्तुः भवति । जून-मासतः सितम्बर-मासपर्यन्तं वर्षर्तुः भवति । शीतर्तौ  अस्य नगरस्य तापमानं २२ डिग्री से. तः ३२ डिग्री से. पर्यन्तं भवति । पेरियार, भारतपूजहा, पाम्बा, चालाकुडी च इत्यादयः केरळ-राज्यस्य प्रमुखाः नद्यः सन्ति । अस्य राज्यस्य दक्षिणभागे अल्पमात्रायां वर्षा भवति । किन्तु औत्तराहभागेषु वर्षायाः आधिक्यं भवति । आवर्षं ४० तः २०० इन्च् मात्रात्मिकाः वर्षाः भवन्ति । अनेन कारणेन अस्य राज्यस्य नद्यः जलेन परिपूर्णाः भवन्ति । एवं च परिवहनाय नदीमार्गाः अपि प्रयुज्यन्ते ।

केरळे ४४ नद्यः सन्ति । तासु ४१ नद्यः पूर्वभागात् पश्चिमदिशि अरबसागरेण ततलयं प्राप्नुवाद्भिः कासारैश्च मिलन्ति । दीर्घा नदी- निळा (भारतप्पुळा) ह्रस्वे नद्यौ- पूरप्परम्पनदी, कलनाटनदी च  ।

आनमला (तमिळ्नाड) एव निळायाः उद्भवस्थानम् । गायत्री, कण्णगी, कल्पाली, नूता च निळायाः पोषकनद्यः । पेरियार (चूणी/पूर्णा) देविकुलसमीपस्थात् शिवगिरेः उद्भूय पीरुमेट देविकुलं तोटुपुळा, मूवाट्टुपुळा कुन्नलुनाट परवूरु उपमण्डलैः आलुवां प्राप्य द्विधा भवति । ततः नद्याः एका शाखा चालक्कुटीनद्या मिलति । अपरा तु वेम्पनाटकासरेण च मिलति ।

चालियार् नदी एलम्परलिगिरेः उदभवति । बेप्पूरागत्य सागरेण मिलति । पम्पा  शबरिगिरेः समीपस्थात् पीरुमेडुतः उद्भवति । कतलटयार् नदी कुललूजुषागिरेः उद् भूय अष्टमुडिकासारेण मिलति । पूर्वगामिनिषु नदीषु पाम्पार, भवानी च तामिळ्नाड् राज्यं प्रति, कबनी कर्णाटकं प्रति च गच्छति ।

पाश्चिमवाहिन्यः

१.पारपार २.भवानी ३.कबनी

२६० च.कि.मी दैर्घ्ययुतः वेम्पानाटकासारः एव कासारेषु प्रथमस्थानम् आप्नोति । अष्टमुडिकासारस्य दैर्घ्यं ५५ च कि.मी । अन्ये कासारास्तु वेली, कटिनंकुलं अञ्चुतेड्डु इटवा, नटयरा, परवूरु, कायङ्कुलं कोटिङ्गुल्लूरु इत्येत् ।

प्रकृतिदत्तशुद्धजलकासारो भवति शास्ताङ्कोट्टा। विस्तृतिः ४-च.कि.मी अगधता ४७ पादमिता ।

रामायण-महाभारत-आदिकाव्ययोः अस्य राज्यस्य उल्लेखः प्राप्यते । प्रथमपञ्चशताब्द्यां केरळ-राज्यं तमिऴकम-क्षेत्रस्य कश्चन भागः आसीत् । तस्मिन् क्षेत्रे पाण्ड्य-शासकानां, चौल-शासकानां, चेर-शासकानां च शासनम् आसीत् । ये अरबव्यापारिणः आसन्, तैः षष्ठशताब्दीतः अष्टमशताब्दीपर्यन्तम् अस्मिन् क्षेत्रे इस्लाम-धर्मस्य प्रभावः स्थापितः आसीत् । अष्टमशताब्दीतः द्वादशशताब्दीपर्यन्तं कुलशेखर-राजवंशस्य शासनम् आसीत् । तस्मिन् काले अस्य क्षेत्रस्य प्रमुखा भाषा “मलयाळम्” अभवत् । ई. स. १४९८ तमे वर्षे पुर्तगालदेशीयः वास्कोडिगामा इत्याख्यः व्यापारी कालीकट-तटं प्राप्तवान् । सः प्रथमः व्यापारी आसीत्, यः समुद्रमार्गेण भारतम् आगतवान् आसीत् । तदनन्तरं हॉलेण्ड्, फ्रान्स्, इङ्ग्लैण्ड् इत्यादिभ्यः देशेभ्यः व्यापारिणः समागतवन्तः । यूरोपदेशीयाः समूहाः अत्र आगत्य यन्त्रागारान् स्थापितवन्तः । भारतस्य स्वातन्त्र्यप्राप्त्यनन्तरम् ई. स. १९४९ तमस्य वर्षस्य जुलाई-मासस्य १ दिनाङ्के त्रावणकोरराज्यं, कॊच्चीनराज्यं च स्थापितम् । ई. स. १९५६ तमे वर्षे द्वयोः राज्ययोः सम्मेलनेन केरळ-राज्यस्य निर्माणं कृतम् ।

केरळराज्ये १४ मण्डलानि सन्ति ।

केरळ-राज्यं भारतस्य राजनैतिकप्रयोगशाला कथ्यते । भारतदेशे यान्त्रिकीमतदानस्य प्रयोगः केरळ-राज्ये एव सर्वप्रथम् अभवत् । केरळ-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः १४० स्थानानि सन्ति । केरळराज्ये लोकसभायाः २० स्थानानि, राज्यसभायाः च ९ स्थानानि च सन्ति । विधानसभायाम् एङ्ग्लो-इण्डियन्-समूहस्य एकः प्रतिनिधिः नियोज्यते । केरळ-राज्ये बहूनि राजनैतिकसमूहाः, सङ्घटनानि  च सन्ति । यथा - “भारतीय कम्युनिस्ट पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “मुस्लिम लीग केरळ स्टेट् कमेटी”, “केरळ कॉङ्ग्रेस्”, “जनता दल (सेक्युलर)”, “रिवोल्यूशनरी सोशलिस्ट् पार्टी” च इत्यादयः केरळ-राज्यस्य राजनैतिकसमूहाः सन्ति । “ई. एम्. एस्. नम्बूदरीपाद” इत्याख्यः केरळ-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । सः भारतस्य “कम्युनिस्ट पार्टी (मार्क्सवादी) इत्यस्य समूहस्य नेता आसीत् ।

ई. स. १९६१ तमे वर्षे केरळ-राज्यस्य स्थापना अभवत् । ई. स. १८८१ तमे वर्षे केरळ-राज्यस्य जनगणना कृता । सप्तदशशताब्द्याः प्रारम्भे केरळ-राज्यस्य जनसङ्ख्या प्रायः त्रिंशल्लक्षम् आसीत् । ई. स. १८५० तमे वर्षे पञ्चचत्वारिंशल्लक्षम् अभवत् । १९०१ तमे वर्षे चतुष्षष्टीलक्षम् आसीत् । १९९१ तमस्य वर्षस्य जनसङ्ख्या २९१ लक्षम् आसीत् । २००१ वर्षस्य जनगणनायां केरळ-राज्यस्य जनसङ्ख्या ३,१८,४१,३७४ अभवत् । २०११ तमस्य वर्षस्य जनगणनायाम् अस्य राज्यस्य जनसङ्ख्या ३,३३,८७,६७७ अस्ति । तेषु १,६०,२१,२९० पुरुषाः, १,७३,६६,३८७ महिलाः च सन्ति । ।

मलयाळ-भाषायाः साहित्यम् अष्टशताद्या प्राचीनम् अस्ति । किन्तु मलयाळ-साहित्यस्य प्राचीनतायाः प्रमाणं कस्यापि ग्रन्थे न प्राप्यते । “प्रारम्भिककाले लोकसाहित्यस्य प्रभावः आसीत्” इति मन्यते । मलयाळ-साहित्यकाराणां तमिऴ-भाषायै, संस्कृत-भाषायै महत्त्वपूर्णं योगदानम् अस्ति । केरळ-राज्यस्य बहुभिः विद्वद्भिः कन्नड-भाषायां, तुळु-भाषायां, कोङ्कणी-भाषायां, हिन्दी-भाषायां च अपि साहित्यानि रचितानि । एकोनविंशतिशताब्द्यां काव्यानि एव रचितानि आसन् । “रामचरितम्” इत्येतत् काव्यं मलयाळम्-साहित्यस्य प्रारम्भिकदशाम् अवबोधयति । “रामचरितम्” मलयाळ-भाषायाः प्रारम्भिककाव्यं मन्यते । तथापि केरळ-राज्यस्य साहित्यिकपरम्परा तस्मादपि प्राचीना अस्ति । पुरा केरळ-राज्यस्य साहित्यं तमिळ-भाषया सह सम्बद्धम् आसीत् । तमिऴ-भाषायाः प्रारम्भिकाणि साहित्यानि “सङ्गमकृतयः” इति नाम्ना ज्ञायन्ते । 
सङ्गमकालीनरचनानां प्राचीनकालस्य चेर-साम्राज्येन सह सम्बन्धः आसीत् । “पतिट्टिप्पत्तु” नामिका सङ्गमकालीना रचना अस्ति । तस्यां रचनायां चेर-राज्ञां प्रशस्तिगीतानि सन्ति । “सिलप्पदिकारं” इति नामकं महाकाव्यं “इलङ्गो अडिगल” इत्याख्येन कविना कृतम् आसीत् । तस्य जन्म अपि चेर-देशे अभवत् । “सिलप्पदिकारं” महाकाव्यस्य खण्डत्रयम् अस्ति । तेषु खण्डेषु “वञ्चिक्काण्डम्” नामके खण्डे चेर-देशस्य घटनानाम् उल्लेखः अस्ति । “नाबूदीरी”, “राम पणिक्कर” इत्याख्यौ तमिऴ-भाषायाः साहित्यकारौ आस्ताम् । अपरं च “एषुत्तच्छन” इत्याख्यः साहित्यकारः तमिऴ-भाषायाः जनकः मन्यते । ई. स. १९६५ तमे वर्षे “जी. शङ्कर कुरुप” इत्याख्येन “ज्ञानपीठपुरस्कारः” प्राप्तः । “सरदार पणिक्कर”, “शिवशङ्कर पिल्लै”, “वैकम” च इत्यादयः मलयाळम्-भाषायाः गद्यकाराः सन्ति । 

२०११ वर्षस्य जनगणनानुसारं केरळ-राज्यस्य साक्षरतामानं ९४ प्रतिशतम् अस्ति । अतः भारतस्य सर्वाधिकं साक्षरतामानम् अपि केरळ-राज्यस्य एव अस्ति । तेषु पुरुषाणां साक्षरतामानं ९६.०३ प्रतिशतं, महिलानां च साक्षरतामानं ९१.९८ प्रतिशतम् अस्ति । भारतस्य प्रथमं पूर्णसाक्षरनगरं केरळ-राज्यस्य कोट्टयम्-नगरम् अस्ति । एवं च भारतस्य प्रथमं पूर्णसाक्षरमण्डलम् अपि केरळ-राज्यस्य एर्णाकुल-मण्डलम् अस्ति । केरळ-राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । “भारतीय प्रबन्धन संस्थानम्, कोझीकोड”, “केरळविश्वविद्यालयः, तिरुवनन्तपुरम्”, “कालीकटविश्वविद्यालयः,कोझीकोड”, “महात्मा गान्धी विश्वविद्यालयः, कोट्टयम्”, “कन्नौरविश्वविद्यालय, कन्नौर”, “सेण्ट्रल् मरीन् फिशरीज् रिसर्च् संस्थानम्, कॊच्ची”, “केन्द्रीय मत्स्य संस्थानम्”, “नॉटिकल् एण्ड् इञ्जीनियरिङ्ग् ट्रेनिङ्ग्, कॊच्ची”, “केरळ कृषि विश्वविद्यालयः, तृश्शूर्”, “केरळ इन्स्टीट्यूट् ऑफ् टूरिज्म् स्टडीज्, तिरुवनन्तपुरम्” च इत्यादीनि केरळ-राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति ।

केरळ-नगरस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ५० प्रतिशतं जनाः कृष्याधारिताः सन्ति । अस्मिन् राज्ये निर्यासस्य (Rubber) ९२ प्रतिशतं, एलायाः ७० प्रतिशतं, श्यामवल्याः ९८ प्रतिशतम् उत्पादनं भवति । राज्येऽस्मिन् अन्ये उपस्कराः अपि उत्पाद्यन्ते । तेषु श्यामवल्ली महत्त्वपूर्णा वर्तते । केरळ-राज्यम् “उपस्कराणां प्रदेशः” कथ्यते । अस्य राज्यस्य कृषिपद्धतिः अन्येषां राज्यानाम् अपेक्षया भिन्ना वर्तते । भारतस्य अन्येषां राज्यानाम् अपेक्षया अल्पजन्मवृद्धिमानं, अल्पशिशुमृत्युमानं, उच्चसाक्षरता, उच्चशिक्षणं च इत्यादिषु क्षेत्रेषु प्रगतिशीलम् अस्ति । एतानि सर्वाणि आर्थिकप्रगतेः कारणानि सन्ति । वाणिज्यिकः वित्तकोषः, सर्वकारीयः वित्तकोषः, मुद्रा विनिमय व्यवस्था, यातायातस्य विकासः, शिक्षास्वास्थ्यादिषु क्षेत्रेषु प्रगतिः इत्यादयः केरळ-राज्यस्य अर्थव्यवस्थायाः आधारः अस्ति ।

केरळ-राज्यस्य उद्योगाः प्राकृतिकसंसाधनाधारिताः सन्ति । हस्तशिल्पः, हस्तकला, मृत्पात्राणि, नारिकेलं, मत्स्यतैलं च इत्यादयः प्रमुखाः उद्योगाः सन्ति । केरळ-राज्ये तिरुवनन्तपुरम-नगरे “सॉफ्टवेर् टेक्नोलॉजी पार्क् ऑफ् इण्डिया” इत्यस्यां संस्थायाः परिसरे सप्त घटकाः सन्ति । केरळ-राज्ये “नेशनल टेक्सटाइल् कॉर्पोरेश्न्” इत्यस्याः संस्थायाः पञ्च वस्त्रागाराः सन्ति । “कॊच्ची ऑयल् रिफाइनरी”, “कॊच्ची शिप् यार्ड्”, “फर्टीलाइजर् एण्ड् केमिकल्स् ट्रावणकोर लिमिटेड्”, “हिन्दुस्तान लैटेक्स् लिमिटेड्”, “इण्डियन् रेयर् एर्थ्स् लिमिटेड्, एर्णाकुलम्”, “इण्डियन् टेलिफोन् इण्डस्ट्रिज्, पालक्काट्”, “इन्स्टुमेंशन् लिमिटेड, पालक्काट्”, “हिन्दुस्तान इन्सेक्टिसाइड्स् लिमिटेड् एर्णाकुलम”, “बामर लॉरी कम्पनी लिमिटेड्, एर्णाकुलम”, “हिन्दुस्तान ऑर्गेनिक् केमिकल्स् लिमिटेड्, एर्णाकुलम”, “कण्णूर स्पिन्निङ्ग् एण्ड् वीविङ्ग् मिल्स्”, “विजयमोहिनी मिल्स्, तिरुवनन्तपुरम”, “पार्वती मिल्स्, कोल्ल्म”, “केरळ लक्ष्मी मिल्स्, तृश्शूर्”, “अलगप्पा टेक्स्टाइल् मिल्स्, तृश्शूर्” च इत्यादीनि केन्द्रियव्यावसायिकसंस्थानानि सन्ति ।

इल्मनैट रुट्टल्, मोणोसैट्ट, सिर्कोण्, गार्नैट्ट, सिलिमनैट्ट, माग्नट्टैट्ट इत्येते धातवः केरळस्य् तीरप्रदेशेवु सन्ति । ग्रफैट्टः तिरुवनन्तपुरं ननपदस्य वेतलनाट चाङ्डभाषेषु कोतलं जनपदस्य पिरालिमट्टे पेरिङ्डालायां चिडूरे मणवकलाटे च ग्राफैट्ट निक्षेपोऽस्ति ग्लाससिकताः –आलप्पुषायां चेर्तला, पालिप्पुर पाणावतली, कोलकोतमङ्गलं प्रदेशेषु दृश्यते । बोळसैट- वटक्कुम्मरी, चिट्टवट्टं शूरनाट, आदिच्चनतनूरु ग्रामेषु ।

अस्य राज्यस्य जनाः मलयाळम्-भाषया व्यवहरन्ति । इयं द्रविड-परिवास्य प्रमुखा भाषा अस्ति । अस्मिन् राज्ये विभिन्न धर्माणां, जातीनां च जनाः निवसन्ति । अत्र आदिवासिनः अपि अधिकाः सन्ति । हिन्दुधर्मः, ईसाई-धर्मः, इस्लाम-धर्मः च केरळ-राज्यस्य प्रमुखाः धर्माः सन्ति । तत्र बौद्ध-धर्मस्य, जैन-धर्मस्य, पारसी-धर्मस्य, सिक्ख-धर्मस्य, बहाई-धर्मस्य च अनुयायिनः अपि निवसन्ति । अष्टमशताब्द्याः केरळ-राज्ये जातिव्यवस्था प्रचलन्ती अस्ति । अनुसूचितजातिः, अनुसूचितजनजातिः च अपि जातिव्यस्थायां सम्मिलिता सन्ति । जातिव्यवस्थायाः कारणादेव राज्ये उच्चनीचभावः उद्भूतः । किन्तु वर्तमानकेरळीयसमाजे उच्चनीचभावः नास्ति । किन्तु जातिव्यवस्था तु अस्ति एव । केरळ-राज्ये विभिन्नधर्माणां मन्दिराणि स्थितानि सन्ति । तेषां धर्माणाम् अनुष्ठानैः केरळ-राज्यस्य संस्कृतिः परिपुष्टा जाता । साहित्यस्य, कलायाः च विकासे तैः धर्मैः महत्त्वपूर्णाणि कार्याणि कृतानि सन्ति । तेन केरळ-राज्यस्य संस्कृतेः विकासः अपि भवति ।

केरळ-राज्ये पञ्चाशताधिकानि लोकनृत्यानि प्रचलितानि सन्ति । तेषु नृत्येषु कलीपट्टम, कोलम, कोलकली, वेलाकलील, थाप्पुकली, कुरावरकली च इत्यादयः प्रमुखाणि लोकनृत्यानि सन्ति । भारतीयशास्त्रीयेषु षण्नृत्येषु कथाकली-नृत्यं केरळ-राज्येन सह सम्बद्धम् अस्ति । केरळ-राज्ये चण्डा, मदालम, चेङ्गाला इत्यादीनि प्रमुखाणि वाद्ययन्त्राणि सन्ति । अस्य प्रदेशस्य स्त्रियः अन्यप्रदेशानां स्त्रीणाम् अपेक्षया अधिकाः स्वतन्त्राः, शिक्षिताः च सन्ति । केरळ-राज्ये विभिन्नसंस्कृतीनां, धर्माणां जनाः निवसन्ति । केरळ-राज्ये बहूनि पर्वाणि, उत्सवाः च आचर्यन्ते । एतेषु उत्सवेषु बहवः उत्सवाः धार्मिकाः सन्ति । ते उत्सवाः हिन्दुपरम्पराधारिताः सन्ति । अस्य राज्यस्य प्रत्येकं राज्यानां भिन्न-भिन्नोत्सवाः भवन्ति । “ओणम” केरळ-राज्यस्य प्रसिद्धः उत्सवः वर्तते । अयम् उत्सवः सम्पूर्णे भारते प्रसिद्धः अस्ति । सस्यानां कर्तनकाले अयम् उत्सवः आचर्यते । केरळ-राज्ये नवरात्रिपर्व सरस्वतीपूजनरूपेण आचर्यते । अपरं च महाशिवरात्रिपर्व अपि पेरियारनद्याः तटे उत्साहपूर्वकम् आचर्यते । ये मुस्लिम-जनाः भवन्ति ते बकरीद, मुहरम, मिलाद-ए-शरीफ, रमजान इत्यादयः उत्सवान् आचरन्ति । अस्मिन् राज्ये हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च देवालयाः सन्ति । सर्वे जनाः स्वदेवालयेषु उत्सवान् आचरन्ति । 

केरळ-राज्ये मुख्यतः त्रीणि बृहन्नगराणि सन्ति । तानि  - कॊच्ची-नगरं, कोऴिक्कोट्-नगरं (कालीकट), पालक्कड-नगरं च ।

कॊच्ची-महानगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य कश्चन भागः अस्ति । इदं नगरं “कॊच्चीन” इति गोश्री इत्यपि नाम्ना ज्ञायते । कॊच्ची-महानगरं समुद्रतटे स्थितम् अस्ति । नगरमिदं केरळ-राज्यस्य पोताश्रयः वर्तते । “कोचु अजहि” इति शब्दयोः कॊच्ची इति नामकरणम् अभवत् । अस्य नगरस्य उल्लेखः प्राचीनयात्रिकाणां लिखितेषु लेखेषु प्राप्यते । विश्वस्य विभिन्नदेशेभ्यः जनाः तत्र भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे पुर्तगाली-जनाः अधिकमात्रायां निवसन्ति । अस्य नगरस्य इतिहासः अतीवपुरातनः अस्ति । चतुर्दशशताब्द्याम् इदं नगरम् आविर्भूतम् । बहुभिः यात्रिकैः ऐतिहासिकलेखेषु अस्य वर्णनं कृतम् अस्ति । खाद्यपदार्थानां व्यापारस्य केन्द्रम् आसीत् इदं नगरम् । उपस्कराणाम्, औषधीनां च विशेषरूपेण व्यापारः क्रियते स्म । पुरा यहुदी-जनाः, चीनी-जनाः, पुर्तगाली-जनाः, यूनानी-जनाः, अरबदेशीयाः, रोमनदेशीयाः च अत्र आगत्य व्यापारं कुर्वन्ति स्म । अतः अस्य नगरस्य संस्कृतिः नैकधा वर्तते । अस्य नगरस्य स्थानीयजनेषु वैदेशिकसंस्कृतीनाम् अत्यधिकः प्रभावः जातः । अनेन कारणेन अस्य नगरस्य संस्कृतिः मिश्रिता अस्ति ।

कॊच्ची-महानगरे नैकाः भोजनालयाः सन्ति । ये जनाः भारतस्य विभिन्नराज्येभ्यः कॊच्ची-महानगरं गच्छन्ति, ते अस्य नगरस्य विभिन्नप्रकारकाणि व्यञ्जनानि खादितुं भोजनालयं गच्छन्ति । कॊच्ची-महानगरे पर्यटनाय अपि बहूनि ऐतिहासिकस्थलानि, मन्दिराणि, उद्यानानि च सन्ति । ये जनाः प्रकृतिप्रेमिणः सन्ति, तेभ्यः तु भ्रमणार्थम् उत्तमं नगरम् अस्ति । नगरस्य समीपे अथिरापल्ली-जलप्रपातः वर्तते । अस्य जलप्रपातस्य प्राकृतिकं सौन्दर्यम् अपि दर्शनीयं भवति । बैकवॉटर्स्-स्थलं कॊच्ची-नगरस्य रमणीयं स्थलं वर्तते । तत्स्थलं वेम्बनाद-तडागस्य कश्चन भागः एव अस्ति । वेम्बनाद-तडागः केरळ-राज्यस्य बृहत्तमः तडागः वर्तते । अरबसागरस्य तटे “मरीन ड्राइव” इत्येतत् स्थलं युगलेभ्यः महत्त्वपूर्णम् अस्ति । कॊच्ची-नगरे एकः दुर्गः अपि अस्ति । सः दुर्गः मतञ्चेर्री-प्रायद्वीपे स्थितः अस्ति । अस्मिन् स्थले “मतंचेर्री महल”, “सान्ता क्रूज् बेसीलिका” च इत्येते स्थले आकर्षणस्य केन्द्रे स्तः । अस्य नगरस्य वातावरणं सर्वदा अनूकूलं भवति । अतः कस्मिँश्चिदपि काले यात्रां कर्तुं शक्यते । मई-मासे तत्र उष्णतायाः आधिक्यं भवति । वर्षर्तौ अपि कॊच्ची-नगरे वृष्टिः अधिका भवति ।

कॊच्ची-महानगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरे द्वे रेलस्थानके स्तः । ऎरणाकुळम्-जङ्क्शन, ऎरणाकुळम् टाउन् च । ऎरणाकुळम्-जङ्क्शन दक्षिणभागस्य रेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तरभागस्य रेलस्थानकम् अस्ति । ते रेलस्थानके भारतस्य विभिन्ननगरैः सह सम्बद्धे स्तः । नेदुम्बस्सेरी-स्थले कॊच्चीन-नगरस्य विमानस्थानकं स्थितम् अस्ति । तद्विमानस्थानकं कॊच्ची-नगरात् २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । एतद्विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । विमानस्थानकात् कॊच्ची-नगरं गन्तुं भाटकयानानि प्राप्यन्ते ।

कोऴिक्कोट्-नगरं केरळ-राज्यस्य कोऴिक्कोट्-मण्डलस्य मुख्यालयम् अस्ति । नगरमिदं “कालीकट” इति नाम्ना अपि ख्यातम् अस्ति । इदं केरळ-राज्यस्य दक्षिण-पश्चिमतटे स्थितमस्ति । पुरा नगरमिदं व्यापारकेन्द्रम् आसीत् । इतिहासकाराः कथयन्ति यत् – इदं नगरम् उपस्करेभ्यः, कौशेयोत्पादनाय च प्रसिद्धम् आसीत् । अतः एव हिन्दमहासागरस्य बहुभिः देशैः सह अस्य नगरस्य व्यापारिकसम्बन्धः आसीत् । अस्मिन् नगरे प्राचीनैतिहासिककालस्य पाषाणगुहाः प्राप्ताः । त्रयोदशशताब्द्याः अस्य नगरस्य अस्तित्त्वं प्राप्यते । इरनाड-राज्यस्य राज्ञा उदयावर-इत्याख्येन कोऴिक्कोट्-नगरं, पोन्नियङ्कर-नगरं च जितम् । तत्र तेन एकः दुर्गः अपि निर्मापितः । सः दुर्गः वेलापुरम् इति नाम्ना ज्ञायते । ई. स १४९८ तमे वर्षे “वास्कोडिगामा” इत्याख्यः पुर्गगालदेशीयः नाविकः तत्र सर्वप्रथमं समागतः । सः यूरोप-देशीयः आसीत् । अनन्तरम् अन्येभ्यः देशेभ्यः यात्रिकाः समागताः । समयान्तरे इदं नगरं जमोरिन-साम्राज्यस्य राजधानी अभवत् । अस्मिन् नगरे बहूनि साहित्यिकान्दोलनानि अपि जातानि । तेन बहवः क्षेत्रियलेखकाः समुद्भूताः । अस्मिन् नगरे नैकानि मन्दिराणि, चर्च्, उद्यानानि च सन्ति । “थिक्कोटी लाईट् हाउस्”, “मनाचिरा स्क्वेयर्”, “पजस्सीराजा-सङ्ग्रहालयः”, “कलिपोयिका लॉयन्स् पार्क्”, “तलीमन्दिरं”, “कक्कयम”, “कृष्णा मेनन सङ्ग्रहालयः”, “ताराघर”, “बीपोर”, “वाडाकर”, “तुषारगिरी”, “सायन्स् प्लेनेटोरियम्”, “पूकोट-तडागः” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति ।

कोऴिक्कोट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह राष्ट्रियराजमार्गेण सम्बद्धम् अस्ति । मोफुस्सिल्-नामकं कोऴिक्कोट्-नगरे बसस्थानकम् अस्ति । कन्नूर, थलस्सेरी, पालक्काट्, ऎरणाकुळम् च इत्यादिभ्यः नगरेभ्यः ततः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । चेन्नै, कोयम्बटूर, बेङ्गळूरु, देहली, हैदराबाद, तिरूवनन्तपुरम, कॊच्ची, पालक्काट्, कन्नूर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण तस्मात् रेलस्थानकात् रेलयानानि प्राप्यन्ते । अस्य नगरस्य विमानस्थानकं करीपुर-इति नाम्ना प्रसिद्धम् अस्ति । एतद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कोझीकोड-नगरात् विमानस्थानकं २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकयानानि, बसयानानि च प्राप्यन्ते ।

पालक्काट्-नगरं पुरा पालघाट इति नाम्ना ज्ञायते स्म । इदं नगरं केरळ-राज्यस्य पालक्काट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य पश्चिमभागे पर्वतीयक्षेत्रेषु स्थितम् अस्ति । पालक्काट्-नगरे व्रीहेः कृषिः क्रियते । अतः पलक्क्ड-नगरं “केरळ का धान का कटोरा”, “केरळ का अन्न भण्डार” वा इति कथ्यते । अस्मिन् मण्डले तमिऴ-जनाः अपि निवसन्ति । अतः अस्य मण्डलस्य संस्कृतिः, भोजनपद्धतिः च अपि भिन्ना वर्तते । कर्णाटकसङ्गीतक्षेत्रे “चेम्बई वैद्यनाथ भागावतार”, “पालक्कड मणि अय्यर” च इत्येतौ द्वौ प्रसिद्धौ सङ्गीतकारौ अभवताम् । इदं नगरम् तयोः जन्मस्थलं वर्तते । अतः पालक्काट्-नगरम् भारते प्रसिद्धम् अस्ति । पालक्काट्-मण्डले दुर्गाः, मन्दिराणि, जलबन्धाः, वन्यजीवाभयारण्यानि, जलप्रपाताः, उद्यानानि च सन्ति । अतः आवर्षं जनाः पर्यटनाय तत्र गच्छन्ति । मालमपुझा-जलबन्धः अपि आकर्षणस्य प्रमुखकेन्द्रम् अस्ति । “नेलियमपत्थी हिल स्टेशन”, “साइलेण्ट् वैली नेशनल् पार्क्”, “परम्बिकुलम वन्यजीव अभयारण्य”, “कञ्जिरापुझा-जलप्रपातः”, “धोनी-जलप्रपातः”, च अस्य स्थलस्य प्राकृतिकानि, वीक्षणीयानि स्थलानि सन्ति । 
पालक्काट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । कोयम्बटूर, कॊच्ची, कोऴिक्कोट्, तृश्शूर् इत्यादिभ्यः नगरेभ्यः अपि बसयानानि प्राप्यन्ते । केरळसर्वकारेण बसयानानि प्रचालितानि सन्ति । पालक्काट्-नगरे एकं रेलस्थानकम् अस्ति । तत् “ओलवक्कोड जङ्क्शन्” इत्यपि कथ्यते । बेङ्गळूरु, चेन्नै, देहली, मुम्बई, हैदराबाद इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः ततः रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । कोयम्बटूर-नगरे अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । पालक्काट्-नगरात् ५० किलोमीटर्मिते दूरे स्थितम् अस्ति कोयम्बटूर-नगरम् । कोयम्बटूर-नगरात् पालक्काट्-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । कॊच्ची-विमानस्थानकम् अपि १६० किलोमीटर्मिते दूरे स्थितम् अस्ति । एवं च कोऴिक्कोट्-विमानस्थानकं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति ।

केरळ-राज्यं “दक्षिण का कश्मीर” इति कथ्यते । स्वस्य प्राकृतिकसौन्दर्येण इदं राज्यं देवतानां देशः अपि कथ्यते । केरळ-राज्यस्य कोवलमसमुद्रतटं विश्वस्मिन् प्रसिद्धम् अस्ति । तिरुवनन्तपुरम-नगरस्य पद्मनाभस्वामीमन्दिरं दक्षिणभारतीयवास्तुकलायाः प्रतिकृतिः अस्ति । केरळ-राज्यस्य कॊच्ची-महानगरं “अरबसागर की रानी” इति कथ्यते । केरळ-राज्यं पर्यटनस्थलानां केन्द्रं मन्यते । जगद्गुरुशङ्कराचार्यस्य कालटी-नामकं जन्मस्थलं केरळ-राज्ये स्थितम् अस्ति । अस्य राज्यस्य जलवायुः ऊष्णकटिबन्धीयः भवति । अतः अधिकमात्रायां पर्यटकाः तत्र गच्छन्ति । केरळ-राज्यं समुद्रतटे स्थितम् अस्ति अतः अधिकाधिकानि वीक्षणीयस्थलानि समुद्रतटे स्थितानि सन्ति । जनाः समुद्रतटस्य मनोहरं दृश्यं दृष्टुं गच्छन्ति । केरळ-राज्ये बहूनि पर्यटनस्थलानि सन्ति । कास्रगोड, कन्नूर, वयनाट्, कोझीकोड, मालाप्पुरम्, पालक्काट्, त्रिशुर, ऎरणाकुळम्, इडुकी, कोट्टयम्, अलप्पुझा, पथानमथीट्टा, कोल्ल्म, तिरूवनन्तपुरम् च इत्यादीनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । अस्मिन् राज्ये अधिकानि पर्यटनस्थलानि सन्ति । अतः इदं राज्यं भारते प्रसिद्धम् अस्ति । अस्य राज्यस्य मण्डलानि अपि सुन्दराणि सन्ति । राज्येऽस्मिन् मनोहराणि प्राकृतिकदृश्यानि सन्ति । तानि दृश्यानि दृष्ट्वा जनाः मुग्धाः भवन्ति  

केरळ-राज्यस्य मलाप्पुरम्-मण्डले स्थितः अयं पॊन्नानी-ग्रामः । अयं ग्रामः अत्यन्तं सुन्दरः वर्तते । भरतपुजा-नद्याः तटे स्थितः अस्ति पुनानी-ग्रामः । भरतपुजा-नदी केरळ-राज्यस्य दीर्घतमासु नदीषु द्वितीया अस्ति । अस्य ग्रामस्य पश्चिमदिशि अरब-सागरः स्थितः अस्ति । अतः मत्स्योद्योगस्य प्रमुखकेन्द्रम् अपि विद्यते । अरबसमुद्रस्य तटे स्थितस्य मालाबार-पोताश्रयस्य मुख्यक्षेत्रम् अपि अस्ति अयं ग्रामः । इदं समुद्रतटं विस्तृतं वर्तते । अस्मिन् तटे इस्लाम-उपसनागृहाणि अपि स्थितानि सन्ति । अयं ग्रामः मालाबार-तटीयक्षेत्रेण सह विशिष्टतया सम्बद्धः अस्ति । मालाबार-पोताश्रयः दक्षिणभारतस्य प्राचीनतमेषु पोताश्रयेषु अन्यतमः वर्तते । मालाबार-पोताश्रयस्य व्यापारे, अर्थव्यवस्थायां च अस्य ग्रामस्य महद्योगदानम् अस्ति । पॊन्नानी-ग्रामः “दक्षिणभारतस्य मक्का” इति नाम्ना अपि ज्ञायते । यतः पुरातनकालादेव अयं ग्रामः इस्लामधर्मस्य शिक्षायाः केन्द्रम् आसीत् । अस्मिन् ग्रामे हिन्दु-जनाः, मुस्लिमजनाः च निवसन्ति । अतः अस्य ग्रामस्य संस्कृतिः, धर्मश्च मिश्रितः वर्तते ।

पॊन्नानी-ग्रामस्य इतिहासः अतीव प्राचीनः वर्तते । “विलियम लोगान” इत्याख्यस्य इतिहासकारस्य लेखे पॊन्नानी-ग्रामे स्थितस्य “जुमा मुस्लिम उपासनागृहस्य” उल्लेखः प्राप्यते । पुरा अयं ग्रामः मालाबार-क्षेत्रस्य राजधानी आसीत् । समूथिरि-शासकानां राजक्षेत्रम् अपि आसीत् । भारतीयस्वातन्त्र्यान्दोलनस्य इतिहासे अपि अस्य ग्रामस्य नामोल्लेखः प्राप्यते । स्वातन्त्र्यान्दोलनस्य बहवः क्रान्तिकारिणः अनेन ग्रामेण सह सम्बद्धाः सन्ति । पॊन्नानी-ग्रामे नैकानि वीक्षणीयस्थलानि सन्ति । “पॊन्नानी जुमा मस्जिद्”, “पॊन्नानी प्रकाशस्तम्भः”, “सरस्वतीमन्दिरं” च इत्येतानि आकर्षणस्य केन्द्राणि सन्ति । भरतपुजा-तिरुर-नद्योः सङ्गमः अस्ति अस्मिन् ग्रामे । अनन्तरं ते नद्यौ अरबसागरे मिलतः । “बियम कयल की झील” इत्येतत् स्थलम् अपि पॊन्नानी-ग्रामस्य प्रमुखं पर्यटनस्थलं वर्तते । पॊन्नानी-ग्रामस्य जलवायुः उष्णकटिबन्धीयः वर्तते । जनाः तत्र गत्वा आनन्दं प्राप्नुवन्ति । सः ग्रामः ऐतिहासिकः, सांस्कृतिकः च वर्तते । ग्रामः अयं लघुः अस्ति, तथापि अस्य ग्रामस्य सौन्दर्यं मनोहरम् अस्ति ।

पॊन्नानी-ग्रामः कॊच्ची-कोझीकोड-भूमार्गे स्थितः अस्ति । कोझीकोड-नगरं पॊन्नानी-ग्रामात् ८० किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् ग्रामे यातायाताय नियमितरूपेण बसयानानि प्राप्यन्ते । ग्रामे भाटकयानानि अपि भवन्ति । तैः यानैः यात्रायां सौकर्यं भवति । कुट्टीपुरम्-नगरे पॊन्नानी-ग्रामस्य निकटतमं रेलस्थानकम् अस्ति । कुट्टीपुरम्-नगरं पॊन्नानी-ग्रामात् २० किलोमीटर्मिते दूरे अस्ति । यद्यपि कुट्टीपुरम्-नगरे अल्पसङ्ख्यकानि रेलयानानि भवन्ति । अतः तिरुर-नगरे, कोझीकोड-नगरे च अपि रेलस्थानकानि सन्ति । ताभ्यां नगराभ्याम् अपि पॊन्नानी-ग्रामाय बसयानानि प्राप्यन्ते । पॊन्नानी-ग्रामात् ६० किलोमीटर्मिते दूरे कालीकट-विमानस्थानकम् अस्ति । तदन्ताराष्ट्रियविमानस्थानकम् अस्ति । कालीकट-विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कालीकट-नगरात् पॊन्नानी-ग्रामाय भाटकवाहनि, बसयानानि च प्राप्यन्ते ।

कासरकोट्-नगरं केरळ-राज्यस्य कासरकोट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य उत्तरभागे स्थितम् अस्ति । नगरमिदम् ऐतिहासिकं, पुरातात्त्विकं च विद्यते । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । बेकल-दुर्गः अस्य नगरस्य ऐतिहासिकं स्थलं वर्तते । सः दुर्गः स्मारकत्वेन स्थितः अस्ति । “कासरकोट्”  इतीदं नाम शब्दद्वयेन निर्मितम् अस्ति । “कासरा”, “क्रोडा” च । “कासरा” इत्यस्य अर्थः तडागः, “क्रोडा” इत्यस्य अर्थः संरक्षणस्थलं च भवति । एवं च “अस्मिन् नगरे कासरका-नामकाः वृक्षाः अपि सन्ति । तेन कारणेन अपि अस्य नाम “कारसगोड” अभवत्” इति कथ्यते । तत्र नारिकेलस्य वृक्षाः सन्ति । अस्य नगरस्य संस्कृतिः विशिष्टा अस्ति । अतः तस्यै संस्कृतये इदं नगरं प्रसिद्धम् अस्ति । तत्र कम्बाला ( महिषयुद्धम् ), कुक्कुतयुद्धं च प्रचलितम् अस्ति । “थेय्यम” इत्याख्यस्य देवस्य प्रसन्नतायै एते उत्सवाः आयोज्यन्ते । अस्मिन् नगरे हिन्दुधर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तथापि इदं मण्डलं धार्मिकप्रवृत्तिभ्यः ज्ञायते । तत्र मलयाळ-भाषायां, टुलू-भाषायां, कोङ्कणी-भाषायां, तमिऴ-भाषायां च व्यवहरन्ति जनाः । तत्र “गोविन्द पाई मेमोरियल्”, “मदियाँ कुलम मन्दिर”, “मालिक दीनार मस्जिद” च इत्यादीनि अस्य नगरस्य मुख्यपर्यटनस्थलानि सन्ति । बेकल, कन्नूर, थालास्सेरी, पय्योली च इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति ।

कासरकोट्-नगरे सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । तैः यानैः भ्रमणं कर्तुं शक्यते । कासरकोट्-नगरे एकं रेलस्थानकं विद्यते । तद्रेलस्थानकं दक्षिणोत्तरभारतयोः विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः रेलमार्गेण अपि कासरकोट्-नगरं प्राप्तुं शक्यते । कासरकोट्-नगरात् कर्णाटकराज्यस्य मेङ्गलौर-नगरस्य विमानस्थानकं समीपे स्थितम् अस्ति । कासरकोट्-नगरात् मेङ्गलौर-विमानस्थानकं ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । दक्षिणदिशि कॊच्ची-नगरे अपि अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकं कासरकोट्-नगरात् ४२० किलोमीटर्मिते दूरे स्थितम् अस्ति । कासरकोट्-नगराय भाटकवाहनानि अपि नियमितरूपेण प्राप्यन्ते । कासरकोट्-नगरं गन्तुं जनाः कदापि कष्टम् नानुभवन्ति । 

अतिरप्पिळ्ळी-ग्रामः केरळराज्यस्य तृश्शूर्मण्डलस्य मुकुन्दपुरम्-उपमण्डले स्थितः अस्ति । ग्रामः अयं तृश्शूर्-नगरात् ६० किलोमीटर्मिते, कॊच्ची-नगरात् ७० किलोमीटर्मिते च दूरे स्थितः अस्ति । अस्य ग्रामस्य समीपे जलप्रपाताः, वर्षावनानि च सन्ति । ग्रामेऽस्मिन् जैववैविध्यम् अपि प्राप्यते । केरळ-राज्यस्य पर्यावरण-मन्त्री “जयराम रमेश” इत्याख्यः अस्ति । सः इमं ग्रामं “साइलेण्ट् वैली” इति कथयति । अतिरप्पिळ्ळी इत्यत्र वाजहाचल, चारपा च इत्याख्यौ जलप्रपातौ स्तः । इदं क्षेत्रं पश्चिमघट्टे स्थितम् अस्ति । तस्मिन् क्षेत्रे बहूनि वनानि सन्ति । अतः इदं क्षेत्रम् “अतिरप्पिळ्ळी-वाजहाचलक्षेत्रत्वेन ज्ञायते । तेषु वनेषु विविधाः दुर्लभाः वन्यजीवाः, विहगाः च प्राप्यन्ते । एतेषु वनेषु गजानां संरक्षणाय प्रयासाः जायमानाः सन्ति । तेषु वनेषु विभिन्नप्रकारकाः वनस्पतयः, औषधयः च अपि प्राप्यन्ते । अतः “एशियाई प्रकृति संरक्षण फाउण्डेशन्” इत्यनया संस्थया प्रस्तावः प्रस्थापितः यत् – “इदं क्षेत्रं राष्ट्रियोद्यानं, राष्ट्रियाभयारण्यं वा भावितव्यम्” इति । इदं वनं पञ्चविभागेषु विभक्तम् अस्ति । ते – १ अतिरप्पिळ्ळी,  २ वाजहाचल, ३ चारपा, ४ कोल्लाथिरुमेदु, ५ शोलायार च । वनेषु बह्व्यः नद्यः सन्ति । वनेषु आदिवासिनः निवसन्ति । ते वनात् औषधयः, वनस्पतयः च एकीकुर्वन्ति । ते औषधीनां विशेषज्ञाः भवन्ति । वर्षर्तौ, शीतर्तौ च जनाः तत्र भ्रमणार्थं गच्छन्ति ।

अतिरप्पिळ्ळी-ग्रामात् कॊच्ची-नगरं ५५ किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गात् कॊच्ची-नगरं सरलतया प्राप्तुं शक्यते । तत्र राज्यसर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । कर्णाटकराज्यस्य बेङ्गळूरु-महानगरात् अपि बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे कॊच्ची-नगरे च रेलस्थानकम् अस्ति । अतिरप्पिळ्ळी-ग्रामात् तृश्शूर्-नगरं ७८ किलोमीटर्मिते, कॊच्ची-नगरं ६६ किलोमीटर्मिते च दूरे स्थितम् अस्ति । चलाकुद्द्य-रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । तत् ३१ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः बसयानैः अतिरप्पिळ्ळी-ग्रामं प्राप्तुं शक्यते । अतिरप्पिळ्ळी-ग्रामात् ५५ किलोमीटर्मिते दूरे कॊच्चीन-विमानस्थानकं विद्यते । तद्विमानस्थानकम् अन्ताराष्ट्रियं वर्तते । भाटकयानैः अतिरप्पिळ्ळी-ग्रामः गम्यते ।

मारारिक्कुळम् एकः सुन्दरग्रामः अस्ति । तत्र पीतवर्णीयं सिकतामयं समुद्रतटं वर्तते । अतः एव अयं ग्रामः ख्यातः वर्तते । अस्य ग्रामस्य जनाः पारम्परिकाः सन्ति । शतवर्षाणि पुरातनायाः परम्परायाः पालनं कुर्वन्ति ते । अस्य ग्रामस्य वातावरणं शान्तं भवति । ग्रामेऽस्मिन् मत्स्यपालकाः निवसन्ति । ते मत्स्योद्योगं कुर्वन्ति । अस्य ग्रामस्य तापमानं सन्तुलितं भवति । तत्र “कोक्कामंगलम चर्च” अस्ति । तदुपासनागृहं “सेण्ट् थॉमस्” इत्याख्येन स्थापितम् आसीत् । तत् प्रमुखतीर्थस्थलेषु अन्यतमम् अस्ति । शिवमन्दिरं, कोक्कामंगलम सेण्ट् एपोस्ले चर्च्, अरूर, अरुतंकल, पुच्छाक्कल, पानावली, वेलोरवट्टम, अर्थुंकल च अस्य ग्रामस्य पर्यटनस्थलानि सन्ति । एतेषु शिवमन्दिरस्य वास्तुकला विशिष्टा वर्तते । तत्र “चेरथला कार्तियेनी मन्दिरम्” अपि अस्ति । अस्मिन् मन्दिरे कार्तियेनीदेवी विद्यमाना अस्ति । एवं च काञ्चिकुङ्गलारा-मन्दिरं प्रसिद्धम् अस्ति । तस्मिन् मन्दिरे भगवतीदेव्याः प्रतिमा स्थिता अस्ति । अपि च पुच्छाक्कल-क्षेत्रस्य समीपे अपि बहूनि मन्दिराणि विद्यमानानि सन्ति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । 
मारारिक्कुळम् राष्ट्रियराजमार्गे स्थितः अस्ति । सः राजमार्गः मरारीकुलम-ग्रामात् ५ किलोमीटर्मिते पूर्वदिशि स्थितः अस्ति । मरारीकुलम-ग्रामात् कॊच्ची-नगरं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । मरारीकुलम-ग्रामे एकं रेलस्थानकम् अस्ति । तद्रेलस्थानकं केरळ-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकम् मारारिक्कुळम्-ग्रामस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारत-देशस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरात् मरारीकुलम-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते ।

ऎरणाकुळम्-नगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य केन्द्रं विद्यते । तस्मिन् नगरे “एर्नाकुलाथाप्पन-शिवमन्दिरं विद्यते । अतः एव अस्य नाम ऎरणाकुळम् इत्यभवत् । इदं नगरं केरळ-राज्यस्य “व्यावसायिकराजधानी” अस्ति । केरळ-राज्यस्य इतिहासे अस्य नगरस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य नगरस्य संस्कृतिः, परम्परा, उत्सवाः च जनान् आकर्षन्ति । ऎरणाकुळम्-नगरं केरळराज्यस्य पर्यटनकेन्द्रं विद्यते । राजकुमारी स्ट्रीट्, बोल्घटी पैलेस्, कॊच्ची समुद्रतटं, चोट्टानिक्करा-मन्दिरं च इत्येतानि ऎरणाकुळम्-नगरस्य पर्यटनस्थलानि सन्ति । “इदं स्थलं धूम्रपानमुक्तस्थलम् वर्तते” इति आश्चर्यम् ।

ऎरणाकुळम्-नगरं भूमार्गैः सम्पूर्णतया सम्बद्धम् अस्ति । राज्यसर्वकारेण प्रचालितैः बसयानैः अपि ऎरणाकुळम्-नगरं प्राप्तुं शक्यते । वैयक्तिकयानैः, भाटकयानैः च ऎरणाकुळम्-नगरं प्राप्यते । ऎरणाकुळम्-नगरे रेलस्थानकद्वयं विद्यते । ऎरणाकुळम्-जङ्क्शन्, ऎरणाकुळम्-टाउन् च । ऎरणाकुळम्-जङ्क्शन् दक्षिणरेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तररेलस्थानकम् अस्ति । ऎरणाकुळम्-नगरात् कॊच्चीन-विमानस्थानकं २३ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि विद्यते । अतः भारतस्य विभिन्ननगरैः सह इदं सम्बद्धम् अस्ति । ततः ऎरणाकुळम्-नगराय यानानि प्राप्यन्ते ।

केरळ-राज्यस्य पत्तनंतिट्टामण्डले तिरुवल्ला-नगरं स्थितम् अस्ति । नगरमिदं मणिमला-नद्याः तटे स्थितम् अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । अतः इदं नगरं “मन्दिराणां नगरम्” इति नाम्ना ज्ञायते । नगरमिदम् ऐतिहासिकं, सांस्कृतिकं च वर्तते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तिरुवल्ला-नगरे त्रयाणां धर्माणाम् उपासनागृहाणि सन्ति । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि अपि सन्ति । अस्मिन् नगरे “श्रीवल्लभमन्दिरं” स्थितम् अस्ति । एतद् मन्दिरं “दक्षिणतिरुपतिः” इति नाम्ना ख्यातम् अस्ति । अतः भारतदेशस्य विभिन्ननगरेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । तत्र “पलियक्करा चर्च्” अस्ति । तदुपासनागृहं पुरातनम् अस्ति । यदा केरळ-राज्ये ईसाईधर्मस्य उद्भवः जातः, तत्कालस्य तद् ईसाई-उपासनागृहं विद्यते । मन्यते यत् – यदा तिरुवतम्कूर-राज्ञः शासनकालः आसीत्, तदा अस्य नगरस्य नाम वल्लभपुरम् इति आसीत् । अनन्तरं तिरुवल्लभपुरम् इति नाम परिवर्तितम् । समयान्तरे अपभ्रंशत्वात् तिरुवल्ला इति नाम अभवत् । अस्य नगरविषयिण्यः बहव्यः मान्यताः सन्ति । कथ्यते यत् – “तिरुवल्ला इति नाम भगवतः विष्णोः नाम्ना कृतम् आसीत् । अनेन प्रकारेण इदं नगरं “विष्णोः नगरम्” इति नाम्ना ज्ञायते । अस्य नगरस्य वातावरणं मनोहरं, रमणीयं च भवति । अतः जनाः आनन्दं प्राप्तुं भ्रमणार्थं तत्र गच्छन्ति । तिरुवल्ला-नगरस्य जलवायुः सामान्यतः उष्णः भवति । वर्षर्तौ अस्य नगरस्य भ्रमणं श्रेष्ठं भवति ।

तिरुवल्ला-नगरे राज्यसर्वकारप्रचालितानि बसयानानि नियमितरूपेण कार्यरतानि सन्ति । बसयानेन सरलतया तिरुवल्ला-नगरं प्राप्तुं शक्यते । कोझीकोड, तिरूवनन्तपुरम्, कॊल्लम्् कन्नूर, कॊच्ची, कोयम्बतूर, चेन्नै, मदुरै, बेङ्गळूरु, मेङ्गलोर च इत्येतैः नगरैः सह तिरुवल्ला-नगरं भूमार्गेण सम्बद्धम् अस्ति । तिरुवल्ला-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्नमहानगरैः, नगरैः च सह सम्बद्धम् अस्ति । तिरुवल्ला-नगरात् पालक्काट्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । तिरुवल्ला-नगरे विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे स्थितं विमानस्थानकं तिरुवल्ला-नगरस्य निकटतमं विमानस्थानकम् अस्ति । तिरुवल्ला-नगरात् कॊच्ची-नगरं ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अपि विमानस्थानकं विद्यते । तद्विमानस्थानकं तिरुवल्ला-नगरात् १४० किलोमीटर्मिते दूरे स्थितम् अस्ति ।     

केरळराज्यस्य मलप्पुऱम्-मण्डलस्य केन्द्रम् अस्ति मलप्पुऱम्-नगरम् । नगरमिदं लघुपर्वतीयक्षेत्रम् अस्ति । मलप्पुऱम्-मण्डलस्य आर्थिकदृष्ट्या, धार्मिकदृष्ट्या, सामाजिकदृष्ट्या, सांस्कृतिकदृष्ट्या च विशिष्टं स्थानम् अस्ति । अत्र चलियार-नदी, भारथापुज्हा-नदी, कदलुंदी-नदी एताः तिस्रः नद्यः प्रवहन्ति । केरळ-राज्यस्य सांस्कृतिकराजनैतिकसाहित्यिकपरम्परासु मलप्पुऱम्-मण्डलस्य लघुनगराणां महद्योगदानम् आसीत् । मलप्पुऱम्-मण्डले स्थितं थिरुनावाया-नगरं मध्यकाले वैदिकशिक्षणस्य केन्द्रम् आसीत् । एवं च कोत्ताक्कल-नगरात् आयुर्वेदस्य पारम्परिकचिकित्साप्रणाल्याः उत्पत्तिः जाता । “कदलुंदी पक्षी अभयारण्य”, “केरालादेश्पुरम्-मन्दिरं”, “थिरुनावाया-मन्दिरं” च इत्येतानि मलप्पुऱम्-नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् क्षेत्रे बहूनि मन्दिराणि, मुस्लिम-उपासनागृहाणि च सन्ति । यथा – “मलप्पुऱम् जुमा मस्जिद्”, “मन्नूर शिवमन्दिरं”, “थिरुप्पुरन्थाका-मन्दिरं”, “वेत्ताकोरुमाकन-मन्दिरं” च इत्येतानि तीर्थस्थलानि सन्ति । मलप्पुऱम्-नगरस्य वातावरणं सामान्यतः सन्तुलितं भवति । अतः एव जनाः भ्रमणार्थं गच्छन्ति । मलप्पुऱम्-नगरस्य प्राकृतिकं सौन्दर्यं, इतिहासः, वैदिशिकानि व्यञ्जनानि च जनान् आकर्षन्ति ।

केरळ-राज्यस्य सर्वकारेण मार्गपरिवहनाय बसयानानि प्रचालितानि सन्ति । अतः एव मलप्पुऱम्-नगरम् अन्यनगरैः सह सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् बेङ्गळूरु-महानगराय, कॊच्ची-नगराय, तिरुवनन्तपुरम्-नगराय च नियमितरूपेण बसयानानि प्राप्यन्ते । मलप्पुऱम्-नगरे रेलस्थानकं नास्ति । किन्तु मलप्पुऱम्-मण्डलस्य अन्गादिपुरम्, तिरुर, तनूर, कुत्तिप्पुरम्, परप्पनान्गादी च इत्यादिषु नगरेषु रेलस्थानकानि सन्ति । अतः तेभ्यः नगरेभ्यः मलप्पुऱम्-नगरं सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् कालीकट-रेलस्थानकं ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । कालीकट-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं “करिपुर-अन्ताराष्ट्रियविमानस्थानकम्” इति नाम्ना ख्यातम् अस्ति । इदं निकटतमं विमानस्थानकं वर्तते । तत् २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । 

काञ्ञिरप्पळ्ळी-नगरं केरळ-राज्यस्य कोट्टयम्-मण्डले स्थितम् अस्ति । इदं नगरम् उपमण्डलत्वेन विद्यते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य जनाः निवसन्ति । अस्य नगरस्य संस्कृतिः अपि विशिष्टा वर्तते । अस्मिन् नगरे कञ्जिम-नामकाः वृक्षाः भवन्ति । अतः एव अस्य नाम “काञ्ञिरप्पळ्ळी” इति नाम अभवत् । नगरेऽस्मिन् कोय्यिन इति आदिवासिनः निवसन्ति । ते प्रारम्भादेव अस्मिन् नगरे निवसन्तः सन्ति । अनन्तरं तमिऴ-अधिवासिनः तत्र समागतवन्तः । पुरा अस्मिन् क्षेत्रे पाण्ड्य-शासकानां शासनम् आसीत् । तैः शासकैः प्रवासकार्यं स्थगितम् । प्रवासे तमिऴव्यापारिणः अधिकाः आसन् । अतः तत्र गत्वा तैः कृषिकार्यम् आरब्धम् । ते तमिऴ-अधिवासिनः “कन्नान्नुर चेट्टीस्” इति नाम्ना ज्ञायन्ते स्म । 
गणपतियर कोविल, सेण्ट् मेरिज् चर्च्, मदुरै मीनाक्षी मन्दिरं, नैनारू मस्जिद्, सेण्ट् डोमिनिक्स्, “सिरो मालाबार कैथोलिक् कैथेड्रल्” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । गणपरियर-मन्दिरम् अस्य क्षेत्रस्य प्राचीनं मन्दिरं विद्यते । अत्र ईसाई-धर्मानुयायीनाम् अपि महती सङ्ख्या अस्ति । एतेषाम् ईसाई-जनानां पूर्वजाः निलाक्कल-नामके क्षेत्रे निवसन्ति स्म । तच्छेत्रं पुरा व्यापारकेन्द्रम् आसीत् । तत्र पजहायापल्ली-नामकम् ईसाई-उपासनागृहं विद्यते । तदुपासनागृहमपि प्राचीनम् अस्ति । तस्य निर्माणम् ई. स. १४४९ तमे वर्षे अभवत् । “नैनारू चर्च्” अस्य नगरस्य आकर्षणस्य केन्द्रम् अस्ति । 
काञ्ञिरप्पळ्ळी-नगरात् कॊच्ची-नगरं १०१ किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गेण कॊच्ची-नगरात् काञ्ञिरप्पळ्ळी-नगरं प्राप्यते । तत्र भाटकयानानि, बसयानानि च प्राप्यन्ते । कोट्टयम्-नगरे काञ्ञिरप्पळ्ळी-नगरस्य निकटतमं रेलस्थानकं विद्यते । चेन्नै-महानगराय, त्रिवेन्द्रम-नगराय, बेङ्गळूरु-महानगराय, मेङ्गलौर-नगराय, कॊच्चीन-नगराय, देहली-महानगराय च इत्यादिभ्यः नगरेभ्यः ततः रेलयानानि प्राप्यन्ते । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । काञ्ञिरप्पळ्ळी-नगरात् कॊच्चीन-नगरं ७२ किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्चीन-नगरात् बसयानैः, भाटकयानैः वा काञ्ञिरप्पळ्ळी-नगरं प्राप्यत् ।

इदं नगरं केरळ-राज्यस्य पत्तनंतिट्टा-मण्डले स्थितम् अस्ति । अस्य नगरस्य संस्कृतिः, मन्दिराणि, उत्सवाः, तीर्थस्थलानि च केरळ-राज्ये प्रसिद्धानि सन्ति । अटूर्-नगरं तिरुवनन्तपुरम्-नगरात् १०० किलोमीटर्मितं, ऎरणाकुळम्-नगरात् १४० किलोमीटर्मितं च दूरे स्थितम् अस्ति । अस्य नगरस्य मन्दिराणि अतीव पुरातनानि सन्ति । तेषु मन्दिरेषु विभिन्नाः उत्सवाः अपि आचर्यन्ते । नगरेऽस्मिन् पार्थसारथि-मन्दिरं स्थितम् अस्ति । अस्मिन् मन्दिरे भगवतः कृष्णस्य प्रतिमा स्थिता अस्ति । मन्दिरमिदम् अस्य नगरस्य आकर्षणकेन्द्रम् अस्ति । पन्तळम्-महादेवमन्दिरं, पट्टूपुराक्कल-देवीमन्दिरं, पुतेनकविलभगवती-मन्दिरं, श्रीनारायणपुरम्-महाविष्णुमन्दिरं च अटूर्-नगरस्य प्रमुखाणि तीर्थस्थलानि सन्ति । बहवः श्रद्धालवाः दर्शनार्थं तत्र गच्छन्ति । तत्र “सेण्ट् जॉर्ज् ऑर्थोडॉक्स् चर्च्”, “सेण्ट् मेरिज् ऑर्थोडॉक्स् सीरियन् कैथेड्रल्” च इत्येते द्वे प्रमुखे ईसाई-धर्मस्य उपासनागृहे स्तः । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः शीतर्तौ एव जनाः तत्र पर्यटनाय गच्छन्ति ।

अटूर्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अटूर्-नगरात् ऎरणाकुळम्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च बसयानानि प्राप्यन्ते । कायमकुलम, पुनलूर, पत्तनंतिट्टा, कोट्टारक्करा, गुरुवायूर, चवर, कॊल्लम्, करुनागपल्ली च इत्यादीनि नगराणि अपि अटूर्-नगरेण सह सम्बद्धानि सन्ति । अटूर्-नगरात् १२५ किलोमीटर्मिते दूरे ऎरणाकुळम्-नगरस्य रेलस्थानकं विद्यते । एनार्कुल-नगरे रेलयानस्य प्रमुखमुख्यालयः वर्तते । भारतदेशस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ऎरणाकुळम्-नगरात् भाटकयानैः, बसयानैः च अटूर््-नगरं प्राप्यते । अटूर््-नगरात् कॊच्ची-नगरं १४० किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं चेन्नै, बेङ्गळूरु, देहली, हैदराबाद च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण अटूर्-नगरं गन्तुं बसयानानि, रेलयानानि, वायुयानानि च सरलतया प्राप्तुं शक्यन्ते ।

पत्तनंतिट्टा-मण्डलं केरळ-राज्यस्य दक्षिणभागे स्थितम् अस्ति । इदं केरळराज्यस्य लघुत्तमं मण्डलं विद्यते । ई. स. १९८२ तमस्य वर्षस्य नवम्बर-मासस्य १ दिनाङ्के (१ नवम्बर १९८२) इदं मण्डलं निर्मापितम् । यतः इदं क्षेत्रं प्रगतिशीलं वर्तते । पत्तनंतिट्टा-नगरं व्यावसायिकं नगरम् अपि अस्ति । नौकास्पर्धायै इदं मण्डलं प्रसिद्धम् अस्ति । अस्मिन् मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । तत्र बहूनि धार्मिकस्थलानि सन्ति । अतः इदं “केरळ-राज्यस्य धार्मिकराजधानी” अपि कथ्यते । दक्षिणभारते जनाः अयप्पा-देवं पूजयन्ति । सबरीमाला-मन्दिरम् अयप्पा-देवस्य गृहं मन्यते । तत्स्थलम् अपि तत्रैव स्थितम् अस्ति । अतः लक्षाधिकाः जनाः तत्र प्रतिवर्षं दर्शनार्थं गच्छन्ति । अस्य मण्डलस्य कला, संस्कृतिः, परम्परा च विशिष्टा वर्तते । तत्र “कदमानित्ता-देवीमन्दिरं” स्थितम् अस्ति । अस्मिन् मन्दिरे दशदिनात्मकः नृत्योत्सवः आयोज्यते । पत्तनंतिट्टा-नगरे वास्तुविद्यागुरुकुलम् अपि विद्यते । एतद् गुरुकुलम् भारते प्रसिद्धम् अस्ति । वास्तुविद्यायाः, भित्तिचित्राणां च संरक्षणाय इदं गुरुकुलं प्रचलति । श्रीवल्लभमन्दिरं, मलङ्करा चर्च, कोडूमॉन् चिलन्थियम्बलम्, पलियक्कारा चर्च्, कवियूर-महादेवमन्दिरं च पत्तनंतिट्टा-नगरस्य वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः शीर्ततुः अस्य नगरस्य यात्रायै उत्तमा वर्तते ।  
पत्तनंतिट्टा-नगरं राजकीयराजमार्गे स्थितम् अस्ति । अतः केरळ-राज्यस्य नगराणि पत्तनंतिट्टा-नगरेण सह सरलतया सम्बद्धानि सन्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । चेङ्गन्नूर-नगरे, थिरुवल्ला-नगरे च रेलस्थानकम् अस्ति । पत्तनंतिट्टा-नगरात् चेङ्गन्नूर-नगरं २६ किलिमीटर्मिते, थिरुवल्ला-नगरं ३० किलोमीटर्मिते च दूरे स्थितम् अस्ति । ते रेलस्थानके भारतस्य प्रमुखनगरैः सह सम्बद्धे स्तः । तिरूवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । पत्तनंतिट्टा-नगरात् तिरूवनन्तपुरम्-नगरं ११३ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकवाहनैः, बसयानैः वा पत्तनंतिट्टा-नगरं गन्तुं शक्यते । कॊच्चीन-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अपि पत्तनंतिट्टा-नगरात् १४२ किलोमीटर्मिते दूरे स्थितम् अस्ति । 

तृश्शूर्-नगरं केरळ-राज्यस्य सांस्कृतिकराजधानी कथ्यते । अस्य नगरस्य प्राकृतिकं सौन्दर्यं मनोहरम् अस्ति । अतः एव जनाः तत्र भ्रमणार्थं गच्छन्ति । “वडक्कुम्नाथन” अस्य नगरस्य इष्टदेवः अस्ति । “त्रिशिवापेरुर” इति अस्य पूर्णनाम अस्ति । त्रिशिवापेरुर- इत्यस्य अर्थः भवति यत् – “भगवच्छिवनामकं नगरं” इति । तत्र “द बाईबल् टॉवर्”, “केरळकलामण्डलम्”, “चावक्कड-समुद्रतटं” च इत्येतानि अस्य नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् नगरे पुर्तगाली-जनानां, डच्-जनानां, आङ्ग्लजनानां शासनम् आसीत् । अतः नगरमिदम् ऐतिहासिकम् अपि अस्ति । प्राकृतिकदृष्ट्या, सांस्कृतिकदृष्ट्या च इदं नगरं प्रसिद्धम् अस्ति । अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य भ्रमणाय उत्तमकालः भवति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति ।

तृश्शूर्-नगरं राष्ट्रियराजमार्गे स्थितम् अस्ति । अतः कॊच्ची, कोझीकोड, चेन्नै, बेङ्गळूरु, कोयम्बटूर, मदुरै, पोल्लची च इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । केरळ-राज्यस्य प्रमुखनगरेभ्यः तृश्शूर्-नगराय बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे रेलस्थानकम् अस्ति । अतः मुम्बई, देहली, कोलकाता, मेङ्गलौर, चेन्नै, हैदराबाद च इत्यादिभिः प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । नगरेऽस्मिन् विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं तृश्शूर्-नगरात् ५८ किलोमीटर्मिते दूरे स्थितमस्ति । कॊच्ची-नगरात् भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते ।

कोडुङ्गल्लुर-नगरं केरळराज्यस्य तृश्शूर्-मण्डलस्य लघुनगरं वर्तते । नगरमिदं मालाबार-समुद्रतटे स्थितम् अस्ति । अस्मिन् नगरे भगवतीदेवीमन्दिरम् अस्ति । नगरमिदम् ऐतिहासिकम् अपि अस्ति । सप्तमशताब्द्यां चेरमन-राज्ञां राजधानी आसीत् इदं नगरम् । इदं नगरं समुद्रस्य समीपम् अस्ति । अतः हिन्दमहासागरस्य व्यापारिकं केन्द्रम् अपि अस्ति । “पुरा अस्य नगरस्य सीरिया-देशेन, मिस्र-देशेन च सह व्यापारिकसम्बन्धः आसीत्” इति इतिहासकाराः कथयन्ति । प्राचीनकालादेव इदं नगरम् उपस्कराणां (Spices) निर्यातकत्वेन विराजते । अस्मात् नगरात् मुख्यतः श्यामवल्ल्यः (Black Pepper)  निर्यातं भवति स्म । श्यामवल्ली “यवनप्रिया” इति नाम्ना ज्ञायते स्म । तत्र एकः प्राचीनः पोताश्रयः अपि स्थितः अस्ति । तत्र “चेरमन जुमा मस्जिद्” अस्ति । तदुपासनागृहम् ई. स. ६२९ तमे वर्षे निर्मापितम् आसीत् । तत् उपासनागृहं भारतस्य प्रथमं मुस्लिम-पूजास्थलं मन्यते । अस्मिन् नगरे समुद्रतटम् अस्ति । अतः यात्रिकाः समुद्रक्रीडां कर्तुं तत्र गच्छन्ति । अस्य नगरस्य प्राकृतिकं सौन्दयम् अपि मनोहरं भवति । नगरेऽस्मिन् कुरुम्बादेवीमन्दिरम् अस्ति । अस्मिन् मन्दिरे भद्रकालीदेव्याः प्रतिमा स्थापिता अस्ति । इदं मन्दिरम् अस्य नगरस्य प्रमुखतीर्थस्थलम् अस्ति । कीज्हथालीमहादेवमन्दिरं, कूदाल्मानिक्यममन्दिरं, मार् थोमा, तिरुवञ्चिक्कुलममहादेवमन्दिरं, त्रिपायरश्रीराममन्दिरं च अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । कोडुङ्गल्लुर-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः वातावरणं प्रायः उष्णं भवति । किन्तु नगरमिदं समुद्रतटे स्थितम् अस्ति अतः जलवायुः अनुकूलः भवति । 
कोडुङ्गुल्लुर-नगरात् कॊच्ची-नगरं ३५ किलोमीटर्मिते, तृश्शूर्-नगरं ३८ किलोमीटर्मिते, गुरुवायूर-नगरं ४५ किल्ल्लोमीटर्मिते च दूरे स्थितम् अस्ति । अतः तेभ्यः नगरेभ्यः कोडुङ्गुल्लुर-नगराय बसयानानि प्राप्यन्ते । कोडुङ्गुल्लुर-नगरात् इरिगालाकुदा-नगरं १६ किलोमीटर्मिते दूरे अस्ति । अस्मिन् नगरे निकटतमं रेलस्थानकम् अस्ति । ततः केरळ-राज्यस्य विभिन्ननगरेभ्यः नियमितत्वेन रेलयानानि प्राप्यन्ते । कॊच्ची-नगरे कोडुङ्गुल्लुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं कोडुङ्गुल्लुर-नगरात् ३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-विमानस्थानकात् चेन्नै, मुम्बई, बेङ्गळूरु, देहली, हैदराबाद इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।

सुल्तानबत्तेरी-नगरं केरळराज्यस्य वयनाट्-मण्डले स्थितम् अस्ति । इदम् ऐतिहासिकं स्थलम् अस्ति । केरळ-कर्णाटकराज्ययोः सीमायां स्थितम् अस्ति इदं नगरम् । मैसूर-राज्यस्य राज्ञा टीपू सुल्तान् इत्याख्येन तत्र आक्रमणं कृतम् आसीत् । अतः एव अस्य नाम “सुल्तान बत्तेरी” इति अभवत् । तेन अस्मिन् नगरे एकः भव्यः दुर्गः निर्मापितः आसीत् । किन्तु साम्प्रतं सः दुर्गः न उपलभ्यते । अस्मिन् नगरे पर्वतीयक्षेत्रम् अपि अस्ति । तत् पर्वतीयक्षेत्रं पर्यटनाय उत्तमम् अस्ति । वयनाट्-मण्डलस्य वाणिज्यकेन्द्रत्वेन इदं नगरं प्रसिद्धम् अस्ति । तत्र जनाः पर्यतनमाध्यमेन, कृषिमाध्यमाध्मेन च जीवनं यापयन्ति । एडक्कल-गुहाः, वयनाट्वन्यजीवाभयारण्यं च सुल्तानबत्तेरी-नगरस्य समीपस्थे वीक्षणीयस्थले स्तः । 
मैसूर, बेङ्गळूरु, कालीकट इत्यादिभ्यः नगरेभ्यः “सुल्तान बत्तेरि” नगराय बसयानानि प्राप्यन्ते । नगरमिदं राज्यसीमायां स्थितम् अस्ति । अतः कर्णाटकराज्यस्य, केरळराज्यस्य च बसयानानि प्राप्यन्ते । अस्मात् नगरात् कोझीकोड-नगरं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्मिन् नगरे एकं रेलस्थानकम् अस्ति । कोझीकोड-नगरात् बसयानैः, भाटकयानैः च सुल्तानबत्तेरि-नगरं गन्तुं शक्यते । कालीकट-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अस्मात् नगरात् कालीकट-नगरम् १०० किलोमीटर्मिते दूरे अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते ।  

केरळतमिळनाडुराज्ययोः सीमायां स्थितम् अस्ति पुनलूर्-नगरम् । नगरे प्राकृतिकं सौन्दर्यं प्राप्यते । कल्लादा-नद्याः तटे स्थितम् अस्ति इदं नगरम् । पुनलूर्-नगरे कर्गजयन्त्रागारम् अपि अस्ति । पुनलूर् इति नाम शब्दद्वयेन निर्मितम् अस्ति । पुनल, ऊरु च । पुनलूर् अर्थात् “जलनगरम्” इति । नगरमिदं दक्षिणभारतस्य बृहत्तमेषु नगरेषु पञ्चमम् अस्ति । पुनलूर्-नगरे कृष्णवल्याः, काष्ठस्य च व्यापारः भवति । एकोनविंशतिशताब्द्याम् आङ्ग्लैः एकः सेतुः निर्मापितः आसीत् । सः सेतुः साम्प्रतं राष्ट्रियस्मारकत्वेन उद्घोषितः अस्ति । वर्तमाने अस्य सेतोः उपयोगः न क्रियते । कल्लादा-नद्याः समीपे बहूनि पर्यटनस्थलानि सन्ति । जनाः आनन्दं प्राप्तुं तत्र गच्छन्ति । शेन्थुनी-वनम् अस्य नगरस्य आकषणकेन्द्रम् अस्ति । पलरुवी-जलप्रपातः, कुट्रालम-जलप्रपातः, पट्टजीदेवीमन्दिरं च अस्य नगरस्य समीपस्थानि स्थलानि सन्ति । 
पुनलूर्-नगरं केरळ-राज्यस्य राजकीयराजमार्गे स्थितम् अस्ति । अयं राजमार्गः पुनलूर्-नगरं केरळ-राज्यस्य अन्यनगरैः सह सञ्योजयति । पुनलूर्-नगरे एकं रेलस्थानकम् अस्ति । किन्तु अस्मिन् रेलस्थानके अल्पमात्रायां रेलयानानि प्राप्यन्ते । पुनलूर्-नगरात् तिरुवनन्तपुरम्-नगरं ७५ किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ततः देहली, मुम्बई, कोलकाता, चेन्नै इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते ।

पीरुमेट्-स्थलं केरळ-राज्यस्य श्रेष्ठतमेषु पर्वतीयक्षेत्रेषु अन्यतमम् अस्ति । कोट्टयम्-नगरात् ८५ किलोमीटर्मितं पूर्वदिशि स्थितम् अस्ति इदं स्थलम् । पर्वतारोहणाय इदं स्थलम् अत्यधिकं प्रसिद्धम् अस्ति । अस्मिन् नगरे बहूनि उद्यनानि सन्ति । तत्र पुरा “पीर मोहम्मद” इत्याख्यः मुस्लिमसन्तः अभवत् । तस्यैव नाम्ना अस्य नगर नामकरणम् अभवत् । ट्रावनकोर-क्षेत्रस्य राजकुलेन सह तस्य घनिष्ठसम्बन्धः आसीत् । इदं स्थलं समुद्रतलात् ९१५ मीटर्मितम् उन्नतम् अस्ति । “पेरियार टाईगर् रिजर्व”, जलप्रपाताः च अस्य नगरस्य समीपस्थानि आकर्षणस्य केन्द्राणि सन्ति । अस्य नगरस्य वातावरणम् सदैव शीतलं भवति । यतः स्थलमिदम् औन्नत्ये स्थितम् अस्ति । तत्र उद्यानेषु चायस्य, काफीपेयस्य, एलायाः च कृषिः भवति । सर्वत्र हरितवर्णीयानि क्षेत्राणि दृश्यते । तद्दृश्यम् अपि मनोहरं भवति ।

पीरुमेट्-नगरात् समीपस्थेभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । कॊच्ची, थेक्कडी, कुमिली इत्यादिभिः नगरैः सह इदं नगरं सम्बद्धम् अस्ति । कोट्टयम्-नगरस्य रेलस्थानकं पीरुमेट्-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोट्टयम्-रेलस्थानकात् चेन्नै, बेङ्गळूरु, हैदराबाद, देहली, मुम्बई च इत्यादिभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । पीरुमेट्-नगरस्य समीपे कॊच्ची-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरात् पीरुमेट्-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । जनाः सरलतया पीरुमेट्-नगरं प्राप्तुं शक्नुवन्ति ।

केरळ-राज्यस्य मार्गाः १,४५,७०४ किलोमीटर्मिताः दीर्घाः सन्ति । राष्ट्रियराजमार्गाः १,५२४ किलोमीटर्मितं दीर्घाः सन्ति । राजकीजराजामार्गाः ४३४१ किलोमीटर्मिताः दीर्घाः सन्ति । केरळ-सर्वकारेण जनसेवायै बसयानानि प्रचालितानि सन्ति । सम्पूर्णे केरळ-प्रदेशे बसयानानि प्रचलन्ति । तेन जनाः सरलतया एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुवन्ति ।

केरळ-राज्ये बहूनि महानगराणि सन्ति । तिरुवनन्तरपुरं, पालक्काट्, ऎरणाकुळम्, कन्नूर, तृश्शूर्, अलप्पुझा, पुनलूर्, कोट्टयम् एतेषु नगरेषु प्रमुखाणि रेलस्थानकानि सन्ति । तेभ्यः नगरेभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । रेलस्थानकेभ्यः केरळ-राज्यस्य पर्यटनस्थलानि गन्तुं भाटकयानानि, बसयानानि च प्राप्यन्ते । केरळ-राज्यस्य बहुषु लघुनगरेषु ग्रामेषु अपि रेलस्थानकानि सन्ति ।

केरळ-राज्ये चत्वारि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । त्रिवेन्द्रम-नगरे, कॊच्ची-महानगरे, कालीकट-नगरे च पुरातनानि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । कन्नूर-नगरे अपि अपरम् अन्ताराष्ट्रियविमानस्थानकं निर्मापितम् अस्ति । एतद्विमानस्थानकं केरळ-राज्यस्य बृहत्तमं विमानस्थानकम् अस्ति । इतः परं राजकीयविमानस्थानकानि अपि सन्ति । एतानि विमानस्थानकानि भारतस्य प्रमुखनगरैः, विभिन्नदेशैः च सह सम्बद्धानि सन्ति । तेभ्यः विमानस्थानकेभ्यः केरळ-राज्यस्य प्रमुखनगरेभ्यः बसयानानि, भाटकयानानि च प्राप्यन्ते ।




#Article 43: गुजरातराज्यम् (2098 words)


गुजरातराज्यं ( ) (, ) भारतस्य पश्चिमे स्थितं किञ्चन राज्यम् । गान्धीनगरम् अस्य राज्यस्य केन्दम् । कर्णावती-सुरत-वडोदरा-राजकोट-महानगराणि राज्यस्मिन् प्रमुखनगराणि सन्ति । अस्य राज्यस्य बृहत्तमं नगरं कर्णावती-महानगरम् अस्ति । श्रीकृष्णस्य द्वारका, द्वादशज्योतिर्लिङ्गेषु अन्यतमः सोमनाथश्च अत्र राराजते । भारतस्य शिल्पी सरदार वल्लभभाई पटेल, भारतस्वतन्त्रतान्दोलननेता मोहनदास करमचन्द गान्धी, भारतीयान्तरिक्षकार्यक्रमस्य पितामहः विज्ञानी विक्रम साराभाई, महान् वैज्ञानिकः होमी भाभा, भारतीयोद्योगस्य पितामहः जमशेदजी ताता, भारतीयचलच्चित्रस्य पितामहः दादासाहेब फाळके, नवभारतस्य स्वप्नद्रष्टा धीरूभाई अम्बाणी, कन्दुकक्रीडायाः अभूतपूर्वक्रीडकः रणजीतसिंहः, बालशिक्षाक्षेत्रे क्रान्तिजनकः गिजुभाई बधेका, भक्तशिरोमणिः नरसिंह महेता इत्यादयः महान्तः व्यक्तयः गुजरातराज्यस्य पवित्रभूमौ जन्म अधन्त । भारतगणराज्यस्य वर्तमानप्रधानमन्त्री [नरेन्द्र मोदी त्रयोदशवर्षाणि गुजरातराज्यस्य मुख्यमन्त्री आसीत् ।

गुजरातराज्यं भारतस्य पश्चिमे अरबीसमुद्रस्य तटे स्थितम् अस्ति । पश्चिमसमुद्रतटवर्तिराज्यस्यास्य उत्तरदिशि पाकिस्थानदेशसीमा, राजस्थानराज्यञ्च, पूर्वदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि महाराष्ट्रराज्यं चास्ति । अस्य पश्चिमदिशायाः भागः, दक्षिणदिशायाः कश्चन भागश्च अरबीसमुद्रतटे अस्ति । दक्षिणदिशि केन्द्रशासितप्रदेशाः अपि सन्ति, यथा – दीव, दमण, दादरा, नगर हवेली इत्यादयः । प्राकृतिकसौन्दर्येण परिपूर्णम् एतत् राज्यं स्वेतिहास-परम्परा-संस्कृतिभिः सह गौरवेण स्थितमस्ति । भारतस्य लम्बतमः समुद्रतटविस्तारः गुजरातराज्ये एवास्ति ।

गुजरातराज्यस्य त्रयः मुख्यविभागाः सन्ति । ते कच्छ, काठियावाडप्रदेशः, मुख्यगुजरातं चेति ।

गुजरातराज्यस्य वायव्यदिशः विशालभागः कच्छप्रदेशान्तर्गतः अस्ति । अत्र भुज इति मुख्यनगरम् । अत्र कच्छसमुद्रकुक्षेः (Gulf of Kachchh) दक्षिणे गिरयः सन्ति । कच्छलघुमरुप्रदेशः पूर्वे, मरुप्रदेशश्च उत्तरेऽस्ति । मरुप्रदेशयोः विस्तारः २३,००० च.कि.मी. अस्ति । मरुभूमित्वात् क्षारयुक्तः प्रदेशः एषः । अतः अत्र कृषिः कूपजलेनैव भवति । अत्रस्थेषु 'भरवाड’जनेषु (pastoral groups) हस्तकलायाः उच्चकोटिज्ञानम् अस्ति । कच्छप्रदेशस्य सूचीकला मुख्यतः सोढाराजपुताः, मेघवालाः, झाटाः, मुठवाः इत्येतासु जनजातिषु दृश्यते । कच्छप्रदेशस्य सूचीकला गुजरातराज्ये एव न, अपि तु समग्रे भारते प्रसिद्धाऽस्ति ।

सौराष्ट्र इति काठियावाडप्रदेशस्य नामान्तरम् । एतस्य प्रदेशस्योत्तरे कच्छलघुमरुप्रदेशः, वायव्ये कच्छसमुद्रकुक्षिः, नैऋत्ये अरबीसमुद्रः, पूर्वे खम्भातसमुद्रकुक्षिः चास्ति । अत्र राजकोटमहानगरं, भावनगरं च मुख्यकेन्द्रम् अस्ति, यत् आर्थिक-व्यापारक्षेत्रयोः प्रसिद्धम् अस्ति । अत्र समुद्रतटवर्तिप्रदेशः, गिरिप्रदेशः, समतलभूभागश्च वर्तते । गोरखनाथ-इत्याख्यस्य गुजरातराज्यस्य उन्नततमस्य शिखरस्य धाता गिरनारपर्वतः एतस्मिन् प्रदेशेऽस्ति । एषः पर्वतः १,११७ मी. उन्नतः । अत्र यवन-जैन-हिन्दु-बुद्धपन्थानां दरगाह-जिनालय-मन्दिराणि च सन्ति । अस्य पर्वतस्य समीपे एव गीर अभयारण्यम् अस्ति । एतदभयारण्यं 'सासण गीर' इत्यपि प्रसिद्धम् । इदम् 'एशिया’खण्डस्य-सिंहानां निवासः । अत्रस्था भूमिः शुष्कास्ति । अतः कृषिः वर्षाकाले एव भवति ।

मुख्यगुजरातप्रदेशस्य भौगोलिकस्थानवर्णने स्वल्पानि स्थानानि सन्ति, परन्तु तानि गुजरातराज्यस्य मुख्यस्थानानि सन्ति । मुख्यगुजरातप्रदेशे उत्तरस्य समभूमिः, दक्षिणस्य लघुपर्वतमाला चान्तर्भवति । अपि चात्र गुजरातराज्यस्य व्यापारोद्योगयोः मुख्यकेन्द्राणि, अहमदाबाद-वडोदरा-सुरतमहानगराणि सन्ति । लघुपर्वतमालायाम् आदिवासिनः निवसन्ति । दक्षिणे वर्षायाः आधिक्यत्वात् कृषिः विपुलतया भवति । वर्षाकाले अत्र कृषिक्षेत्रे उच्चगुणवत्तायाः मृत्तिका लभ्यते । एषा मृत्तिका कृषिक्षेत्रम् अधिकं फलदं करोति ।

गुजरातराज्यस्य अन्यरीत्यापि विभागाः कृताः सर्वकारेण । परन्तु ते विभागाः केवलं व्यवस्थादृष्ट्या, न तु भौगोलिकद्ष्ट्या । ते अत्र चित्रमाध्यमेन ज्ञायन्ते । यथा – उत्तरगुजरातं, मध्यगुजरातं, दक्षिणगुजरातं, सौराष्ट्रं (काठियावाड) इति ।

भारतदेशे तु ऋतुत्रयं सर्वत्र दरीदृश्यते । एवमेव गुजरातराज्येऽप्यस्ति । अत्र सामान्यतः 'मार्च्’-तः 'मे’-पर्यन्तं ग्रीष्मर्तुः, 'जून्’-तः 'सेप्टेम्बर्’-पर्यन्तं वर्षर्तुः, 'नवम्बर्’-तः 'फेब्रुवरी’-पर्यन्तं शिशिरर्तुः भवति । 'जनवरी’, 'मे’ च क्रमेण शीततमः, ऊष्णतमश्च भवति । अत्र 'अक्टोबर्’-मासेऽपि कदाचित् ऊष्णता भवति, कारणम् एतस्मिन् मासे वातावरणम् आर्द्रयुक्तवर्षर्तोः परिवर्त्य शीत-शुष्कशिशिरर्तोः अनुकूलं भवति । गुजरातराज्यं भिन्नलक्षणयुक्तान् प्रदेशान् स्वस्मिन् धरते । अतः प्रदेशानुसारं वातावरणमपि भिन्नं-भिन्नं भवत्यत्र । 
अत्र ग्रीष्मर्तौ तापमानं २५0C तः ४३0C पर्यन्तं भवति । परन्तु 'मे’-मासे ४८0C पर्यन्तं तापमानं भवितुमर्हति । शिशिरर्तौ तापमानं १२0C तः २७0C पर्यन्तं भवति । वर्षर्तोः मुख्यप्रभावस्तु नैऋत्ये एवाधिकः । सर्वाधिकवृष्टिपातः १,५०० मि.मी. नैऋत्यस्थेषु मण्डलेषु भवति । सर्वापेक्षया न्यूनः वृष्टिपातः कच्छप्रदेशे २५० मि.मी. भवति । गुजरातराज्यस्य अन्यभागेषु समवर्षा भवति ।

गुजरातराज्यस्य पश्चिमदिशि, दक्षिणदिशि च क्रमेण कच्छसमुद्रकुक्षिः, खम्भातसमुद्रकुक्षिः चास्ति । एते समुद्रकुक्षी अरबीसमुद्रस्य मुखे स्तः । कच्छ-सौराष्ट्रयोः मध्ये स्थिता कच्छसमुद्रकुक्षिः १८० कि.मी. लम्बमाना स्यात् । वर्षर्तौ एतस्याः समुद्रकुक्षेः जलं कच्छमरुभूमिपर्यन्तम् आगच्छति । तत् स्थानं समुद्रियराष्ट्रियोपवनम्, समुद्रियराष्ट्रियाभयारण्यम् इत्याभ्यां प्रख्यातमस्ति । सौराष्ट्रस्य दक्षिणदिशि स्थितास्ति खम्भातसमुद्रकुक्षिः । दक्षिणदिशि यत् वर्षाधिक्यम् अस्ति, तेन अत्र वेगेन जलं सागरं प्रति गच्छति । तत् जलं नर्मदादीनां नदीनां जलेन अधिकवेगवत् भवति ।

नर्मदा-साबरमती-मही-ताप्तीनद्यः गुजरातराज्यस्य प्रमुखाः नद्यः । नर्मदाताप्त्योः प्रवाहः मध्यप्रदेशात् खम्भातसमुद्रकुक्षिपर्यन्तमस्ति, अर्थात् पूर्वात् पश्चिमं प्रति । भारते एते द्वे नद्यौ एव स्तः, ये अरबीसमुद्रे लीने भवतः । भारते नर्मदानद्याः माहात्म्यमधिकं वर्तते । नर्मदायाः उद्गमस्थानम् अमरकण्टकनामकशिवक्षेत्रमस्ति । अतः शिवात् अस्याः नद्याः उद्भवः इति लोकमतम् । उत्तरात् दक्षिणं प्रति वहन्ती साबरमतीनदी पुरा खम्भातसमुद्रकुक्षौ एव लीना भवति स्म । परन्तु कालान्तरे साबरमतीनदी शुष्का जाता । ततः परं नर्मदायोजनान्तर्गतं कुल्यानां (Canal) निर्माणमभूत् । अथ नर्मदायाः जलं कुल्या(Canal)माध्यमेन साबरमतीं प्रति प्रवहति । अतः साबरमतीनद्यां नर्मदाजलं वहत्यधुना ।

कर्णावती-महानगरं साबरमतीनद्याः तीरे विकसितमस्ति । गुजरातराज्यस्य अहमदाबादमण्डलस्य केन्द्रमेतन्महानगरम् । गुजरातराज्यस्य बृहत्तममेतन्नगरं भारतस्य महानगरेषु पञ्चमम् अस्ति । अस्य जनसङ्ख्या(२०११) ५,५७०,५८५ अस्ति । अत्र यन्त्रशालानां, व्यापारीकरणस्य च विकासः अधिकः । अस्य विकासस्य गणना राष्ट्रियस्तरेऽपि भवति । पुरा कर्णावती-महानगरं गुजरातराज्यस्य राजधानी आसीत् । पश्चात् १९८० तमे वर्षे सर्वकारः कर्णावतीमहानगरस्य एकं भागं पृथक्कृत्वा गान्धिनगराख्यं नवीननगरं निर्मापितवान्, तदेव राजनधानी इति अघोषयच्च । तथापि गुजरातराज्यस्य आर्थिकराजधानी तु कर्णावती एव ।

सुरतमहानगरं ताप्तीनद्याः तीरे स्थितं महानगरमस्ति । गुजरातराज्यस्य द्वितीयं बृहत्तममेतन्महानगरं सुरतमण्डलस्य प्रशासनिककेन्द्रम् । अस्य जनसङ्ख्या(२०११) ७,५७३,७३३ अस्ति । आङ्ग्लकाले एतन्महानगरं व्यापारस्य मुख्यकेन्द्रमासीत् । तदा विदेशं वस्तूनां प्रेषणाय अस्य समुद्रतटस्यैवोपयोगं भवति स्म । सद्यः वस्त्र-वज्र(Diamond)योः उद्योगाय गुजरात-भारतयोः एव न, अपि तु विश्वप्रख्यातमस्ति एतन्महानगरम् । विश्वस्य ९०-९५% वज्रविपणिं (Diamond Market) एतत् महानगरमेव चालयति । अतः एतन्महानगरं वज्रनगरम् (The Diamond City) इति प्रख्यातम् ।

वडोदरामहानगरं गुजरातराज्यस्य तृतीयं बृहत्तमं महानगरमस्ति । अस्य जनसङ्ख्या(२०११) २५,२१,००० अस्ति । विश्वामित्रीनद्याः तीरे विकसितम् एतन्महानगरम् । वडोदरामहानगरस्य वटपुरम्, बरोडा इत्यपि नामान्तरे स्तः । वटपुरस्य सुवर्णेतिहासः अस्य महता शिक्षणप्रियराज्ञा ‘सयाजीराव गायकवाड’  इत्यनेन सुप्रसिद्धः अस्ति । यदा यदा वडोदरामहानगरस्य नामोल्लेखः भवति, तदा तदा ‘सयाजीराव गायकवाड’-राज्ञः अपि स्मरणं भवत्येव । अतः तस्य नाम्ना विश्वविद्यालयस्य स्थापनापि कृतास्ति अत्र । तस्य विश्वविद्यालयस्य नाम 'महाराजा सयाजीराव गायकवाड' विश्वविद्यालयः (M.S. University) इति । एतन्महानगरं अग्नितैल(Petroleum)-यन्त्रनिर्माणविद्या(Engineering)-वस्त्रोद्योगे(Textile)भ्यः प्रख्यातमस्ति ।

राजकोटमहानगरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रेआजीनद्याः तीरे स्थितमस्ति । सौराष्ट्रस्य बृहत्तमम् एतन्महानगरम् गुजरातराज्यस्य महानगरेषु चतुर्थमस्ति । एतन्महानगरं राजकोटमण्डलस्य प्रशासनकेन्द्रमस्ति । अस्य जनसङ्ख्या(२०११) ३,८०४,५५८ अस्ति ।

पौराणिककाले गुजरातराज्यम् अनर्तदेश नाम्ना प्रसिद्धम् आसीत् । गिरनार-सोमनाथयोः उल्लेख: पुराणेषु अस्ति । पुराणकाले  प्रवाह: गुर्जरराज्यपर्यन्तम् आसीत् इति जनानाम् अनुमानम् । महाभारतकाले भगवता श्रीकृष्णेन गुर्जरराज्यस्य पश्चिमे तटे द्वारकानगरी निर्मापिता इति पुराणे उल्लेखोऽस्ति । अज्ञातवासे पाण्डवा: यत्र निवासं कृतवन्त:, सा विराटनगरी अद्यतने कच्छप्रदेशे एव कुत्रचित् आसीत् इत्यनुमीयते । महर्षिः याज्ञवल्क्यः नर्मदाया: तटे वासम् अकरोत् । सद्यः साबरमतीनद्याः तीरे साबरमती आश्रमः अस्ति, तत्रैव दधीचिर्षेः आश्रमः आसीत् इति संशोधकानां मतम् ।

पद्मपुराणे नारदभक्त्योः संवादः सम्प्राप्यते। तत्र गुर्जरदेशस्य चर्चा जाता अस्ति। यदा नारदः भक्तिं पृच्छति स्वदुःखकारणं, तदा सा प्रत्युत्तरे स्ववेदनां वदति। सा वेदना बहुषु श्लोकेषु वर्णिता। तेषु श्लोकेषु एव गुर्जरदेशस्य उल्लेखः सम्प्राप्यते - 

स्थिता किञ्चिन्महाराष्ट्रे गुर्जरे जीर्णतां गता।

तत्र घोरकलेर्योगात्पाखण्डैः खण्डिताङ्गता।। 

भविष्यपुराणे कृष्णांशावतारस्य चर्चायाः काले सूतः गुर्जरदेशस्य उल्लेखं करोति। यथा - 

वत्सराजो ययौ देशे गुर्जरे च मदालसाम्।

स सुतां च समादाय दिने तस्मिन्समागतः ।। २२ ।।

सर्वदेशानां, राज्यानाञ्च इतिहासः भवति । परन्तु सर्वेषाम् इतिहासस्य पुष्टता भवति इति तु अशक्यमेव । कारणम् इतिहासस्य बह्व्यः घटनाः किंवदन्तिरूपेण, काल्पनिकघटनारूपेण वा भवन्ति । काश्चन घटनाः सत्यभूताः स्युरेव, तथापि तासां प्रमाणं न प्राप्नुवन्ति संशोधकाः । गुजरातराज्यस्य इतिहासविषये एवं नास्ति । ५०००-५४०० वर्षपुरापि यः इतिहासः आसीत्, तस्य पुष्टतां स्वयं गुर्जरभूमिरेव करोति । देशे, विदेशे च सर्वत्र चर्चा भवति यत् भारतस्य संस्कृतिः अति प्राचीना इति । पूर्वम् एतस्याः चर्चायाः तर्काः आसन्, परन्तु १९८८ तमे वर्षे हरप्पासंस्कृतेः अवशेषे प्राप्ते सति प्रमाणमपि प्राप्तम् । कच्छसमुद्रकुक्ष्याः ३० कि.मी. दूरस्थात् मोरबी इतस्मात् नगरात् प्राप्ताः हरप्पासंस्कृतेः अवशेषाः गुजरात-भारतयोः इतिहासस्य प्रमाणमस्ति । भारतीयग्रन्थास्तु भारतस्य इतिहासं वर्णयन्ति एव, परन्तु गुजरात-महाराष्ट्र-पञ्जाब-हरियाणा-जम्मूकाश्मीर-राजस्थानराज्येषु हरप्पासंस्कृत्याः अवशेषे प्राप्ते सति ग्रन्थानां कथनं प्रमाणीभूतं जातम् । भारतस्य पूर्वाङ्गयोः अफ्घानिस्थान-पाकिस्थानयोः अपि हरप्पासंस्कृतेः अवशेषाः प्राप्ताः । गुजरातस्य लोथल-सुरकोतदा-रोजडी-मालवड-देसलपुर-धोळावीरा-रङ्गपुरेभ्यः हरप्पासंस्कृतेः मुद्रण-कला-भाषा-नगरादीनां विषये प्रमाणानि प्राप्तानि ।

गुजरातराज्यस्य लिखितेतिहासे वर्णितमस्ति यत् मौर्यवंशस्य (३२२-१८५ B.C.E) आधिपत्यं गुजरातराज्ये आसीत् । मगधस्य नन्दवंशस्य नाशं कृत्वा, गणराज्यपरम्परां समाप्य, भारतस्य चक्रवर्तिराजा चन्द्रगुप्तः ई.स. ३२२ तमे वर्षे सौराष्ट्रं जित्वा गिरनारपर्वते स्वकीयं पुष्पमित्रनामकम् उपराजत्वेन न्ययुङ्क्त । अत्र मौर्यवंशस्य प्रख्यातः राजा अशोकः(२७३-२३२ B.C.E.) बुद्धधर्मस्य आदेशप्रसाराय शिलालेखस्य स्थापनां चकार । 
मौर्यवंशस्य अन्ते सति गुजरातराज्यस्य विभाजनं प्रारब्धम् । १३० तः - ३९० पर्यन्तं सीदीवंशीयराजानाम् आधिपत्यमासीत् । गुप्तवंशस्य राज्यं ४१५ तः - ४७० पर्यन्तमासीत् । मैत्रकवंशस्य राज्यं ४७३ तः - ७८८ पर्यन्तमासीत् । एतस्मिन् काले जैनधर्मस्य प्रचारः अधिकः जातः । ८-९ शताब्दे अत्र 'गुज्जर’वंशस्य राज्यम् आसीत् । एतस्मात् वंशात् एव अस्य प्रदेशस्य नाम गुजरात इति । सोलङ्कीवंशस्य शासनकालः गुजरातराज्यस्य सुवर्णकालः आसीत् । अस्य वंशस्य काले गुजरातराज्यम् आधुनिकव्यवस्थानाम् उपभोक्तृ अभवत् । नवीनकलाभिः निर्मितानि वस्तूनि, सूर्यकिरणैः चलन्ति साधनानि च एतस्मिन् काले विकसितानि आसन् । साहित्य-कला-व्यापार-स्थापत्यविद्यादीनां विपुलप्रसारः जातः । पाटणपत्तने 'पटोळा' कलायाः विकासः एतस्मिन् काले एव जातः ।

विदेशीजनां लक्ष्यमासीत् भारतस्य विपुलसम्पत्तेः हरणम् । अतः ते वारंवारं भारतस्य मन्दिराणाम् आक्रमणं कृत्वा धनम् अलुण्ठन् । १२, १३, १४ शताब्दे भारतस्य केन्द्रे यवनानां शासनमेवासीत् । १०२६ तमे वर्षे 'महमद गजनी' नामकः अफगानराजा सोमनाथमन्दिरम् अलुण्ठत्, मन्दिरं ध्वस्तञ्च अकरोत् । तथा च असङ्ख्याकानां यात्रिकानां वधं कृत्वा, अन्ते मन्दिरं अग्निसादकरोत् । एवम् अनेकवारम् आक्रमणेन भारतीयसंस्कृतेः हानिः जाता । १५७३ वर्षपर्यन्तं 'मुजाफ्फरदीन'वंशस्य शासनम् आसीत्  । तस्य वंशस्य काले एव १४११ तमे वर्षे 'अहमद्’ नामकः राजा अहमदाबाद-महानगरस्य स्थापनां चकार । पश्चात् १६ शताब्दे मुघलवंशीयः राजा ‘अक्बर्’ गुजरातराज्यस्य अधिपतिः जातः ।

'वास्को-द-गामा’-नामकः कश्चन पुर्तगाली १४९८ तमे वर्षे भारतं प्राप्तवान् । सः दीव-दमणप्रदेशौ स्वाधीनं कृतवान् । क्रमेण 'डच्’-‘ब्रिटिश'-‘फ्रेञ्च्’-जनाः भारतं प्राप्तवन्तः । सर्वे स्वस्वार्थं सिद्धं कुर्वन्तः भारतं लुण्ठितवन्तः । १७ शताब्दे मुघलसाम्राज्यस्य राज्ञैः 'ईस्ट् इण्डिया कम्पनी’ इत्यनेन सह व्यापारसन्धिः कृता । ततः आङ्ग्लाः व्यापारमाध्यमेन भारतस्य अर्थतन्त्रोपरि स्वामित्वं स्थापितवन्तः । व्यापारे तेषाम् एकाधिकारेण (Monopoly) पुर्तगालीजनाः पराजिताः । अतः सुरतमहानगरम् आङ्ग्लानाम् आधिपत्ये आगतम् । ततः मुम्बई, दीव, दमण अपि ते स्वाधीनं कृतवन्तः । तस्मिन्नेव समये १७५३ तमे वर्षे मराठाप्रदेशसैनिकौ दामजीगायकवाड-रघुनाथौ कर्णावतीमहानगरं स्वाधीनं कृत्वा मुघलसाम्राज्यस्य विनाशं स्पष्टं कृतवन्तौ । तौ वडोदरामहानगरं स्वराजधानीम् अघोषयताम् । परन्तु १९ शताब्दस्य आरम्भे गुजरातस्याधिपत्यं 'ग्रीक्’-‘ईष्ट् इण्डिया कम्पनी’ इत्यनयोः मध्ये विभजितं जातम् ।

स्वव्यापारस्य माध्यमेन पूर्वमेव आङ्ग्लाः भारतस्य अर्थतन्त्रस्योपरि स्वाधिपत्यं स्थापितवन्तः आसन् । १८१८ तमे वर्षे 'ईस्ट इण्डिया कम्पनी'जनाः मराठाशासकेभ्यः गुजरातराज्यं बलात् नीतवन्तः । तस्मात् कालात् आराभ्य १९१५ वर्षपर्यन्तं आङ्ग्लाः अस्य सञ्चालनं दृढतया कृतवन्तः । यद्यपि १८५७ तः वर्षद्वयं यावत् भारतीयैः आङ्ग्लानां प्रबलविरोधः कृतः आसीत्, तथापि आङ्ग्लाः स्वाधिपत्यं निश्चितं कृतवन्तः । एवं भारतस्य सर्वप्रथमाङ्ग्लप्रदेशरूपेण गुजरातप्रदेशस्य गणना जाता । १९-२० शताब्दे गुजरातराज्यं व्यापार-गृहनिर्माण-समाजसेवाक्षेत्रेषु स्वविकासम् अकरोत् । गुजरातराज्यस्य अहमदाबाद-सुरत-वडोदरामहानगरेषु बहूनां यन्त्रशालानां निर्माणं जातम् इति अस्य प्रख्यातमुदाहरणम् । २० शताब्दस्य प्रारम्भात् भारतस्य काश्चन संस्थाः भारतस्वतन्त्रतायाः विचारं प्रारभन्त । १९१५ तमे वर्षे महात्मना कोचरब-आश्रमस्थापनापर्यन्तम् आङ्ग्लैः निग्रहरूपेण सञ्चालनं कृतम् । परन्तु आश्रमस्य स्थापना आङ्ग्लशासकेभ्यः सूचनासीत् यत् युष्माकं शासनसमाप्तेः समयः आगतः इति । एवं गुजरातराज्ये भारतस्वतन्त्रतान्दोलनस्य आरम्भः अभूत् ।

गुजरातराज्यस्य बहवः नेतारः भारतस्वतन्त्रान्दोलने स्वयोगदानं कृतवन्तः । यथा – सरदार् वल्लभभाई पटेलः, महादेवभाई देसाई, मोहनदासकरमचन्दगान्धिः इत्यादयः । तेषां अमूल्ययोगदानेनैव भारतस्य जनाः स्वतन्त्राः सन्ति । १९४७ तमे वर्षे 'अगस्त्’-मासस्य १५ दिनाङ्के भारतस्वतन्त्रतोल्लासः भारतीयानां हृदि आसीत् । परन्तु आङ्ग्लजनितेन अन्तःकलहेन हिन्दु-यवनयोः साम्प्रदायिकहिंसा प्रारब्धा जाता । यवनानां प्रस्तावः आसीत् यत् भारतस्य विभाजनं भवेत्, यवनानां कृते पाकिस्थान इति नवराष्ट्रस्य निर्माणञ्च भवेत् इति । एवं भारतस्य मस्तकः भारतात् भिन्नः जातः । 
स्वतन्त्रतोत्तरं गुजरातप्रदेशः बोम्बे-राज्यस्य भागः जातः । ततः १९५६ तमे वर्षे कच्छ-सौराष्ट्रे अपि बोम्बे-राज्ये अन्तर्भूते जाते । तस्मिन्नेव समये महागुजरातान्दोलनं गुजरातराज्यस्य हितार्थम् आरब्धम् । अस्यान्दोलनस्योद्देशः स्पष्टः आसीत् यत् गुजारतीभाषावक्तॄणां भिन्नं राज्यं भवेत्” इति । आन्दोलनफलत्वेन १९६० तमे वर्षे 'मे’-मासस्य १ दिनाङ्के नवगुजरातराज्यस्य स्थापना जाता । 
गुजरातराज्यस्य कच्छमरुभूमिः भारतस्य सशस्त्रसेनायाः सीमाक्षेत्रमस्ति । १९६५ तमे वर्षे उभयतः युद्धविरामभङ्गे सति कच्छमरुभूमौ भारत-पाकिस्थानयोः युद्धमभूत् । तत्रस्था ९०% भूमिः विवादितभूमित्वेन गण्यते अधुना । अतः सद्यः अपि हिन्दुनद्याः तीरे स्थितस्य 'सरक्रीक’ग्रामस्य समीपे भारत-पाकिस्थानयोः युद्धविरामभङ्गस्य वार्ता श्रूयते ।

भारतस्य महत्वपूर्णा गुजरातराज्यस्यार्थव्यवस्था कृषिक्षेत्रे, उद्योगक्षेत्रे च स्वयोगदानं ददाति । गुजरातराज्यं कृषिक्षेत्रे कार्पास(Cotton)-कलाय(Peanuts)-खर्जूर-इक्षु-दुग्ध-दुग्धवस्तूनाञ्च योगदानं करोति । उद्योगक्षेत्रे अश्मचूर्ण(Cement)-अग्नितैल(Petroleum)क्षेत्रयोः गुजरातराज्यस्य महत्वपूर्णं योगदानमस्ति ।  
विश्वस्य बृहत्तमः पोतभङ्गशाला (ship breaking yard) भावनगरस्य समीपे अलङ्गक्षेत्रेऽस्ति । धीरूभाई अम्बाणीद्वारा स्थापितायाः 'रिलायन्स् इण्डस्ट्रीस् लिमिटेड्’ इत्यस्याः संस्थायाः जामनगरस्य समीपे तैलशुद्धीकरणशाला (oil Refinery ) अस्ति । एषा तैलशुद्धीकरणशाला विश्वस्य बृहत्तमा 'ग्रास् रूट् रिफाइनरि’ अस्ति । 
Gas-based thermal electricity generation इत्यस्मिन् क्षेत्रे गुजरातराज्यस्य प्रप्रथमस्थानमस्ति । भारतस्य विद्युत्-विपण्याः (Electricity Market) कृते गुजरातराज्यस्य ८% योगदानमस्ति । भारते अणुना या विद्युत् उत्पाद्यते, तस्यां गुजरातराज्यस्य १% योगदानमस्ति । अणुविद्युदुत्पादने गुजरातराज्यस्य द्वितीयं स्थानम् । 
भारतस्य सर्वेभ्यः राज्येभ्यः गुजरातराज्यस्य आयः (social capital) सर्वाधिकः अस्ति । विश्वेऽस्मिन् त्रिप्रकारकाः देशाः भवन्ति । यथा – विकसितदेशाः, विकासशीलदेशाः, अविकसितदेशाश्च । भारतं तु विकासशीलदेशः । Legatum Institute इत्यस्याः संस्थायाः Global Prosperity Index 2012 इति संशोधनपत्रानुसारं विश्वस्य १४२ उत्तमराज्येषु गुजरातराज्यस्य स्थानं १५ तमम् अस्ति । एतस्मिन्नेव शोधपत्रे उल्लिखितमस्ति यत्, तेषु १४२ उत्तमराज्येषु विकसितदेशानां कतिचन एव राज्यानि स्थानं प्राप्तुं समर्थानि अभूवन् इति । अतः विकासशीलदेशस्य राज्यं सत् अपि गुजरातराज्यम् अत्र स्थानं प्राप्तवत् इति तु महत्साधनमेव ।

गुजरातराज्योच्चन्यायालयस्य स्थापना १९६० तमे वर्षे अभूत् । 'बोम्बे’-राज्यात् भिन्ने जाते सति अस्य उच्चन्यायालयस्य संस्थापनं Bombay Re-organisation Act, 1960 अन्तर्गतमभूत् । सद्यः अत्र ४२ न्यायाधीशाः सन्ति । एषः न्यायालयः अहमदाबाद-महानगरस्य सोलाक्षेत्रे स्थितः अस्ति ।

गुजरातीभोजनं शाकाहारी एव भवति । 'गुजरातीथाली' इत्यस्यां मिष्ठान्नं, शाकं, सूपः, रोटिका, भाखरी, द्विदलः(pules), तक्रम्, अवलेहः च भवति । अत्र चणकेन निर्मितं खाद्यमधिकं लभ्यते । यथा – 'खमण', 'ढोकळा’, 'फाफडा’, 'दाबेली' इत्यादयः । अत्र उत्तरभारतीय-दक्षिणभारतीय-पूर्वभारतीयभोजनमपि लभ्यते । अत्र 'फरसाण' इति भोजनप्रकारः अपि बहु प्रचलितः अस्ति । महात्मनः विचारेण प्रेरिते गुजरातराज्ये मदिरापानं वर्ज्यमस्ति ।

गुजरातराज्यस्य भूगोलस्य वैशिष्ट्यकारणात् अत्र अनेकानां वन्यप्राणिनां, पक्षिणां च संरक्षणकेन्द्राणि सन्ति । गुजरातराज्यस्य वायव्ये दिशि कच्छमरुभूमिः अस्ति । अत्र केचन वन्यप्राणिविशेषाः सन्ति, ये विश्वे अन्यत्र कुत्रापि न दृश्यन्ते । एवमेव गुजरातराज्यस्य आग्नेये दिशि विद्यमाने डाङ्गमण्डले आर्द्रारण्यानि सन्ति, येषु विविधप्राणिपक्षिविशेषाः दरीदृश्यन्ते । अत एव वन्यप्राणिषु, पक्षिषु च ये आसक्ताः, तेभ्यः गुजरातराज्ये विद्यमानानि अभयारण्यानि, पक्षिधामानि, राष्ट्रियोद्यानानि च आकर्षणीयानि प्रेक्षणीयस्थलानि इत्यत्र न कश्चन संशयः । यथा - नळसरोवरपक्षिधाम, कच्छलघुमरुभूमिः ('लिटल् रण् आफ् कच्छ्'), कच्छहरितभूमिः ('ग्र्यास्-ल्याण्ड्स् आफ् कच्छ्'), गीर राष्ट्रियोद्यानम् अभयारण्यञ्च, वेलावदर राष्ट्रियोद्यानम् इति ।

गुजरातराज्यपरिवहननिगमः (Gujarat State Road Transport Corporation - GSRTC) गुजरातराज्यस्य परिवहनव्यवस्थां पश्यन्ती संस्थास्ति । प्रारम्भिके काले ७ विभागाः, ७६ 'बस्’स्थानकानि, ७ कार्यशालाः, १,७६७ 'बस्’यानानि च आसन् । सद्यः १६ विभागाः, १२६ 'बस्’स्थानकानि, २२६ कार्यशालाः, ८,००० 'बस्’यानानि सन्ति । ५०,००० कार्यकर्तारः सेवारताः सन्त्यत्र ।

विशिष्टलक्षणैः, विशिष्टवातावरणेन, विशिष्टोद्योगैः च युक्ता गुजरातभूमिः विशिष्टव्यक्तीनामपि जन्मदात्री अस्ति । यथा –

सोमनाथमन्दिरं, नागेश्वरः, द्वारका, मोढेरा सूर्यमन्दिरम्, अडालजनी वाव, अक्षरधाममन्दिरम् इत्यादीनि गुजरातराज्यस्य वीक्षणीयस्थलानि सन्ति ।

कर्णावती-महानगरम्

सूरत-महानगरम्

वडोदरा-महानगरम्

राजकोट-महानगरम्

एकतामूर्तिः

सरदार वल्लभभाई पटेल




#Article 44: हिमालयः (1888 words)


भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति । हृदये अनेके दिव्यभावाः सञ्चरन्ति । शारीरे रोमाञ्चः सञ्जायते च । भारतस्य संस्कृतेः पृष्ठभूमिः हिमालयः अस्ति । देशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? क्व जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः । हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराणि अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः इत्यर्थः ।

हिमालयस्य उगमः विकासश्च प्रपञ्चे अत्यन्तम् उन्नतपर्वतश्रेणिषु हिमालयः अपि अन्यतमः । प्रायः २५ कोटिवर्षेभ्यः पूर्वं पाञ्जीया (panjiya) भूभागः द्विधा विभक्तः भूत्वा इण्डोआस्ट्रेलियन् भूभागः युरोपियन् भूभागसमीपे प्लवते स्म । प्रायः ४-७ कोटिवर्षेभ्यः पूर्वं द्वयोः एतयोः भूभागयोः मध्ये सङ्घट्टनकारणात् हिमालयः उत्पन्नः । प्रायः २-३ कोटिवर्षेभ्यः पूर्वम् अद्य यत् भारतम् अस्ति सः प्रदेशः 'टेनिस्’ नाम सागरः आसीत् । सः सागरः पूर्णतया विनष्टोऽभवत् ।
इण्डोआस्ट्रेलियन् भूभागः अद्यपि टिबेटभूभागस्याधः मन्दं प्लवते (सामान्यतः वर्षे २ से.मी परिमितम्) पुनः अग्रिमकोटिवर्षेषु प्रायः १८ से.मी परिमितः भूभागः चलति । अनेन-कारणेन हिमालयपर्वतश्रेणी वर्षे अर्धसेन्टिमीटर्(1/2 cm) पर्यन्तं वर्धते । आसीस् प्रदेशे (अनेन चलनेन) बहुवारं भूकम्पः अपि

हिमालयपर्वतश्रेणी पश्चिमदिशि 'नङ्गापर्वत’तः पूर्वदिशि 'नाम्चे बर्वा’ पर्यन्तं प्रायः २४०० कि.मी.दीर्घः वर्तते। अस्य विस्तीर्णता २५०*३०० कि.मी । हिमालयपर्वतश्रेणिषु समानान्तरे स्थिताः तिस्रः विभिन्नश्रेण्यः भवन्ति ते एवं सन्ति -
१) उपहिमालयः - एषः शिवालिकहिल्स इति भारते कथ्यते । १२०० मीटर् उन्नता एषा पर्वतश्रेणी सद्यः एव सृष्टा वर्तते । वर्धमानेभ्यः पर्वतेभ्यः पतितेन भूभागेन एषा श्रेणी सृष्टा वर्तते। 
२)अधस्तनः हिमालयः - सामान्यतया २०००-५००० मी. उन्नता एषा पर्वतश्रेणी भारतस्य हिमाचलप्रदेश  नेपालदेशदक्षिणप्रदेशयोः मध्ये भवति । डार्जिलिंग्, शिम्ला, नैनिताल, इत्यादीनि भारतदेशस्य प्रसिद्धानि गिरिधामानि अत्रैव सन्ति ।
३)उपरितन हिमालयः -उत्तरभागे स्थिता एषा पर्वतश्रेणी नेपालदेशस्य उत्तरभागे टिबेटप्रान्तस्य दक्षिणभागे च भवति । सामान्यतः ६००० मीटर अपेक्षया अधिकोन्नतेषु पर्वतेषु प्रपञ्चे अत्युन्नतानि शिखराणि एवरेस्ट्, k-२, काञ्चनगङ्गा अत्रैव अन्तर्भवन्ति ।

हिमालयश्रेणिषु अनेकाः हिमनद्यः सन्ति । ध्रुवप्रदेशं विहाय प्रपञ्चे अतिदीर्घा हिमनदी सियाचिन अत्रैवास्ति ।

हिमालयपर्वतशिखरणि सर्वदा हिमावृतानि भवन्ति । अनेकाः प्रमुखाः नद्यः इतः एव प्रवहन्ति । टिबेत् मध्ये सेङ्गे गारु नद्योः सङ्गमे प्रभूय पाकिस्थाने प्रवह्य ततः सिन्धुसागरं (अरब्बीसमुद्रं) प्रविशति । गङ्गोत्र्यां गङ्गनदी उद्भवति । ततः अलकनन्दां यमुनां च सम्प्राप्य भारते बाङ्ग्लादेशे च प्रवह्य गङ्गासागरं (बङ्गालकोल्लीं) प्राप्नोति । पश्चिमटिबेटमध्ये ब्रह्मपुत्रः नदः प्रभवति । ततः दक्षिणपूर्वदिशि प्रवहति । पुनः प्रवाहस्य दिक्परिवर्तनं कृत्वा भारते बाङ्ग्लादेशे च प्रवह्य गङ्गासागरं (बङ्गालकोल्लीं) प्राप्नोति । अन्याः हिमालयात् प्रभूताः नद्यः इरवड्डी, सल्वीन् इत्याद्यः नद्यः बर्मादेशे प्रवहन्ति ।

हिमालयप्रदेशे शताधिकानि सरांसि सन्ति । ५००० मीटर् औनत्यात् पूर्वमेव अत्र अनेकानि सरांसि सन्ति । किन्तु यथा यथा उन्नतस्थानं गच्छामः तथा तथा सरसां विस्तारः (वैशाल्यं) न्यूनः भवति । भारतटिबेटसीमारेखायां वर्तमानं सरः ८ कीलोमीटर् विशालं १३४ की.मी दीर्गं सर्वस्मात् सरसः अपि महत् सरः एतत् ४६०० मी. उन्नते स्थाने वर्तते । उन्नतप्रदेशे मुख्यम् एकं 'गरुडोग्मार' सरः अस्ति । उत्तरसिक्किं प्रदेशे वर्तमानं गुरुडोग्मारसरः ५१४८ मी. उन्नतप्रदेशे अस्ति । महत्सु सरस्सु भारतचीनासीमायां सिक्किं प्रदेशे छाङ्गु नामकं सरः अन्यतमम् । हिमनदीनां प्रभावेण सृष्टानि सरांसि Tarn इति भूविज्ञानिभिः कथ्यन्ते। अधिकाः टार्नाः हिमालयप्रदेशे ५५०० मी. तः अपि उन्नते प्रदेशे दृश्यन्ते ।

भारतटिबेटप्रदेशषु हिमालयस्य वातावरण्स्य प्रभावः अधिकतया भवति । आर्टिक्प्रदेशात् यः शीतवायुः वाति सः यथा भारतं प्रति नागच्छेत् तथा नियन्त्रणं करोति । अतः भारतस्य वातावरणं दक्षिणैशिया टिबेटप्रदेशस्य च अपेक्षया समशीतोष्णं भवति तथैव मानसून् मारुतं हिमालयः नियन्त्र्य मिजोराम्, मेघालय इत्यादिपूर्वराज्येषु यथा अधिकवृष्टिः भवेत् तथा करोति । मानसून्मरुतः हिमालयमुल्लङ्घ्य नागन्तुं शक्नुवन्ति इतिकारणतः टिबेट्, चीना प्रदेशेषु गोबिमरुस्थलस्य तथा तक्लमकान् मरुस्थलस्य च निर्मितः अभवत् ।
शैत्यकाले पश्चिम इरान् प्रदेशतः आगम्यमानां वातावरणस्य प्रक्षुब्धतां हिमालयश्रेणी नियन्त्रणं करोति । एतस्मात् कारणात् काश्मीरप्रदेशे अधिकतया हिमपातः भवति । उत्तरभारते पञ्जाबप्रान्ते च वृष्टिः महती भवति। हिमालयश्रेणी आर्क्टिकतः आगम्यमानं शीतमारुतं नियन्त्रयति । तथापि ब्रह्मपुत्रनदप्रदेशतः शीतमरुतः आगत्य बङ्ग्लाभारतयोः ईशान्यभागस्थितराज्यानां वातावरणम् उष्णीकरोति।

सहस्रशः वर्षेभ्यः अपि जनानाम् सहजतया गमनागमने हिमालयपर्वतः प्रतिबन्धकः अस्ति । हिमालयस्य महद्गात्रं, वैशाल्यम् औन्नत्यं च अत्र कारणं भवति ।, प्रमुखतया भारतीयानां चीनामङ्गोलियाजनैः सह व्यवहारं कर्तुं कष्टकरं भवति । अत एव एतयोः प्रदेशयोः जनानां मध्ये आचारविचारव्यवहारभाषासु च बहुभेदाः सन्ति ।
पुरातनकालारभ्यापि वाणिज्यमार्गे साम्राज्यविस्तारं कर्तुं च हिमालयः प्रतिबन्धकः एवास्ति । उदाहरणार्थं चेङ्गिस् खानः स्वसाम्राज्यं हिमालयपर्वतस्य दक्षिणदिशि भारतोपखण्डं च विस्तारयितुं न शक्तवान् ।

हिन्दु पुराणेषु हिमालयः नाम पर्वतराजः पार्वत्याः पिता, सः देवः इति हिमालयस्योपरि व्याक्तित्वारोपणं कृतमस्ति । हिन्दुबौद्ध्धर्मेषु हिमालये स्थितानाम् अनेकस्थलानां प्रामुख्यं वर्तते ।

हरिद्वारम् -अत्र गङ्गानदी हिमालयात् निसृत्य समतलभूमिं प्राप्नोति।
बदरीनाथः -अत्र विष्णुमन्दिरमेकं वर्तते ।
केदारनाथः -द्वाद्श ज्योतिर्लिङ्गेषु अन्यतमम्
गोमुखम्-भागीरथीनद्याः उगमस्थानम्| गङ्गोत्रीनगरात् कानिचन मैल्परिमितदूरे वर्तते ।
देवप्रयागः-अत्र भागीरथी-अलकनन्दानद्योः सङ्गमः भवति । इतः अग्रे सा गङ्गा भूत्वा प्रवहति ।
ऋषिकेशः अत्र लक्ष्मणदेवालयः अस्ति
कैलासपर्वतः -अस्य शिखरस्य औन्नत्यं ६६३८ मी.परिमितम् । हिन्दवः 'कैलासपर्वतः’ शिवस्य वासस्थानमिति विश्वसन्ति । बौद्धाः अपि पूज्यभावनया शिखरमिदं परिगणयन्ति । ब्रह्मपुत्रः नदः अस्मात् पर्वतात् प्रवहति मानससरोवरम् अपि अत्रैवास्ति ।
अमरनाथः -अत्र प्राक्रुतिकं शिवलिङ्गमुद्भवति । इदं शैत्यकाले कतिचन सप्ताहान् यावत् तिष्ठति। तदा लक्षसंख्यासु यात्रिकाः आगत्य शिवलिङ्गदर्शनं कुर्वन्ति ।
वैष्णोदेवी -दुर्गाभकताः विशेषतया अत्र आगच्छन्ति । दलैलामा निवासोऽप्यत्र भवति । टिबेटप्रदेशस्य बौद्धानां तीर्थक्षेत्राणि हिमालये दरीदृश्यन्ते ।

येति -वानरजातेः अयं प्राणिः अतिमहान् प्रसिद्धश्च, हिमालये अस्य वासः इति सर्वे विश्वसन्ति । परन्तु अद्यतनविज्ञानिनः इयमेका अवैज्ञानिकी कल्पना इति वा किंवदन्ति स्यात् इति वा, सामान्यप्राणिनं दृष्ट्वा जनाः एवम् अकल्पयन् इति वा चिन्तयन्ति।

शम्भालः-बौद्धधर्मे उच्चमानमेकं दैविकं नगरम् । केषाञ्चन आधारविषयानामनुसारेण एतदेकं भौतिकं नगरं वर्तते । अत्र पुरातनं रहस्यं, बौद्धिक-उपदेशान् रक्षितवन्तः । पुनः अनेकेषाम् अभिप्राये इदं नगरं अस्तित्वे एव नास्तीति मानसिकनगरमिति अस्ति ।

श्रीहेमकुण्डसाहेब् -सिक्खधर्मस्य गुरुद्वारम् । सिक्खधर्मगुरुः गुरुगोविन्दसिंहः तस्य पूर्वजन्मनि एकस्मिन् अवतारे तपः कृत्वा मोक्षं प्राप्नोदिति केचन विश्वसन्ति ।

हिमालयपर्वतश्रेणी जगति एव अत्युन्नता पर्वतश्रेणी । पश्चिमस्य सिन्धुतः पूर्वस्य ब्रह्मपुत्रपर्यन्तं १५०० मैलपर्यन्तं प्रसृतः अस्ति हिमालयः । हिमालयस्य उत्तरभागे त्रिविष्टप”नामिका (टिबेट्) विशाला प्रस्थभूमिः अस्ति । समुद्रतः १५,००० पादमिते औन्नत्ये अस्ति एषा पीठभूमिः । सर्वदा अपि हिमाच्छादितान् एतान् पर्वतान् हिमाद्रिः” इति वदन्ति । गौरीशङ्करः, धवलगिरिः, काञ्चनगङ्गा, नङ्गप्रभातः, नन्दादेवी, गोसाईनाथः, फूलचौका, शिवपुरिः, महाभारतः, चन्द्रगिरिः, इन्द्रस्थानं, भिरवन्दिः, कुमारपर्वतः, त्रिशूलः, कैलासः, केदारः, हेमकुण्डम्, अमरनाथः इत्यादीनि असंख्यानि गगनस्पर्शिशिखराणि सन्ति हिमालये । सिन्धुनद्याः पश्चिमे विद्यमानः हिन्दुकुश”पर्वतः अपि हिमालयस्य एव कश्चन भागः । हिमाद्रेः पूर्वशाखा आग्नेयदिशि विद्यमाने ब्रह्मदेशे (बर्मा) अपि प्रसृता अस्ति ।

पूर्व-पश्चिमदिशि वैशाल्यानुगुणं हिमालयः पञ्चधा विभक्तः ।

१. काश्मीर-हिमालयः :- अस्मिन् विभागे जम्मु तथा पूञ्छभागस्य गिरयः, काराकोरं च अन्तर्भवन्ति । लडाखस्था पीठभूमिः अपि अस्य भागः एव । नङ्गापर्वतः, गाड्विन्, आस्टिन् इत्यादीनि २६००० पादोधिक-उन्नतानि शिखराणि सन्ति अत्र । उन्नतानि शिखराणि, गभीराणि खातानि, हिमनद्यः च सन्ति अस्मिन् विभागे ।

२. पञ्जाब्-हिमालयः :- अस्मिन् विभागे पञ्जाब् तथा हिमाचलप्रदेशस्य पर्वतीयाः प्रदेशाः अन्तर्भवन्ति । पञ्जाबप्रदेशे प्रवहन्त्यः सर्वाः अपि नद्यः अस्मिन् हिमालयभागे एव उद्भवन्ति । पीरपञ्चालस्य अपेक्षया (१५००० पादमितम्) उन्नतानि शिखराणि सन्ति अस्मिन् विभागे ।

३. कुमावु-हिमालयः :- एषः विभागः अस्ति उत्तरप्रदेशे । एतेभ्यः पर्वतेभ्यः गङायाः यमुनायाः च प्रवाहाः वेगेन प्रवहन्तः अधः अवतरन्ति । अस्य विभागस्य उन्नतं शिखरम् अस्ति नन्दादेवी (२६,६९५ पादमितम्) । १८,००० – २४,००० पादमितानि उन्नतानि शिखराणि बहूनि सन्ति अस्मिन् विभागे ।

४. नेपालदेशे-हिमालयाः :- अस्मिन् भागे २६,००० पादापेक्षया उन्नतानि बहूनि शिखराणि सन्ति । धवलगिरिः (२६,७६५ पादमितम्), अन्नपूर्णा (२६,४९० पादमितम्), मनास्लु(२६,६०० पादमितम्), गोसाईनाथः (२६,३९१ पादमितम्), चो ओयू (२६,५९० पादमितम्), गौरीशङ्करः (२९,००२ पादमितम्), मकालू (२७,९५०पादमितम्), कञ्चनगङ्गा (२८,१४६ पादमितम्) एतानि अत्रत्यानि प्रमुखाणि शिखराणि । अयं विभागः शतशः हिमनदीभिः प्रवाहैः च समृद्धः अस्ति ।

५. पूर्व-हिमालयः :- अयं विभागः घोरारण्ययुक्तः । ब्रह्मपुत्रः अस्य भागस्य प्रमुखः नदः । अस्मिन् भागे महता प्रमाणेन वृष्टिः भवति । नामचा बरवा (२५,४४१ पादमितम्) अस्य भागस्य प्रमुखं शिखरम् । एतत् शिखरम् अस्सांराज्ये अस्ति । अस्य भागस्य शिखराणाम् औन्नत्यम् अन्यभागानां शिखराणाम् औन्नत्यस्य अपेक्षया न्यूनम् ।

अस्य पर्वतराजस्य हिमालयस्य परिवारे आहत्य १४६ गगनस्पर्शि-शिखराणि सन्ति इति उच्यते । तेषु शिखरत्रयं २८,००० पादमितापेक्षया उन्नतम् । ५ शिखराणि २७,००० पादमितापेक्षया उन्नतानि । १६ शिखराणि २६,००० पादमितापेक्षया उन्नतानि । ४८ शिखराणि २५,००० पादमितापेक्षया उन्नतानि । ७४ शिखराणि २४,००० पादमितापेक्षया उन्नतानि । २२,०२२ पादमितः उन्नतः कैलासपर्वतः टिबेट्प्रदेशे अस्ति । भारतस्य अनेकासां महानदीनाम् उद्भवस्थानम् अयं कैलासपर्वतः ।
 
पञ्जाबराज्यस्य सर्वाः अपि महानद्यः गङ्गा, यमुना, ब्रह्मपुत्रः, काली, गोग्रा, गण्डकी, कोसी, बाघमती, विष्णुमती, सरस्वती इत्यादयः जन्म प्राप्नुवन्ति अस्मिन् हिमालये एव । कैलासं, मानसं, राक्षसतलं, बिन्दुसरोवरः, अमरनाथः, हरिद्वारं, हृषीकेशः, प्रयागत्रयं, गुप्तकाशी, गौरीकुण्डं, केदारः, बदरी, सरगमाथा, ल्हासा, कीर्तिपुरं, नीलकण्ठसरोवरः, गोकर्णं, पशुपतिनाथः, ज्वालामुखी, गङ्गोत्री, यमुनोत्री, मुक्तिनाथः इत्यादीनि अगणितानि तीर्थस्थानानि सन्ति अस्मिन् हिमालयभागे । पार्थः परमेश्वरेण सह युद्धं कृत्वा पाशुपतास्त्रं प्राप्नोत् अस्मिन् एव पर्वतीयभागे ।

अयं पर्वतः प्राचीनेषु ग्रन्थेषु हिमवत्, हिमवान्, हिमाचलः, हिमाद्रिः, हैमवत् इत्यादिभिः नामभिः निर्दिष्टः अस्ति । अर्जुनस्य बलरामस्य च यात्रा, भीम दुर्योधनयोः गदायुद्धं, पाण्डवानां स्वर्गारोहणं च अस्मिन् एव अभवन् । हिमालयः अत्यन्तं श्रेष्ठः । श्रीकृष्णः भगवद्गीतायां स्थावराणां हिमालयः अहम्” इति उक्तवान् अस्ति । अयं वर्षपर्वतः पूर्वसमुद्रतः पश्चिमसमुद्रपर्यन्तं पसृतः अस्ति” इति उक्तम् अस्ति मार्कण्डेयपुराणे । अयं पूर्वतः पश्चिमदिशि १०८० योजनं यावत् प्रसृतः अस्ति” इति उक्तम् अस्ति कूर्मपुराणे । मत्स्यपुराणे समग्रे एकस्मिन् अध्याये हिमालयस्य फल-पुष्पसम्पत्तेः वर्णनम् एव कृतम् अस्ति । सर्वासां नदीनां मातृरूपिणी देवगङ्गा उद्भूता हिमालये एव । माता पार्वती अपि हिमपर्वतस्य एव पुत्री इति अस्माकं विश्वासः । तस्याः कारणतः एव हिमालयस्य अत्युन्नतं शिखरं गौरीशङ्करः” इति नाम्ना निर्दिष्टः ।

हिमालयस्य भव्यतया, दिव्यतया, गहनतया, महानतया च मन्त्रमुग्धाः साहित्यकाराः कवयः वा सहस्रशः सन्ति । तेषु महाकविः कविकुलगुरुः कालिदासः अपि अन्यतमः । कालिदासस्य “कुमारसम्भवकाव्यस्य प्रथमे श्लोके एव हिमालयस्य प्रशंसा कृता अस्ति । 

पूर्वापरौ तोयनिधिवगाह्य स्थितः पृथिव्या इव मानदण्डः ॥“ इति
कालिदासस्य “रघुवंशम्” “मेघधूतम्” इति काव्येषु अपि हिमालयस्य वर्णनं महता प्रमाणेन कृतम् अस्ति । रामस्य धैर्यं स्थैर्येण हिमवानिव इति हिमालयेन सह तोलितवान् अस्ति वाल्मीकिः । भारविः किरातार्जुनीये हिमालयस्य तोलनं वेदैः सह कृतवान् अस्ति । वेदान्तमिव हिमलयः अपि मोक्षदायकः इति तेन उक्तम् अस्ति ।

अनेकेषाम् ऋषिमुनीनाम् आश्रमाः आसन् हिमालये । महर्षेः वसिष्ठस्य आश्रमः आसीत् हिमालयस्य उपत्यकायाम् । तमसातीरे वाल्मीकिमहर्षेः आश्रमः आसीत् । मालिनीनद्याः तीरे कण्वाश्रमः आसीत् । व्यासाश्रमः आसीत् बदरीसमीपस्थे माण”नामके ग्रामे । तत्रत्यायां गुहायाम् उपविश्य एव व्यासमहर्षिः “भारतं” “भागवतं” च अरचयत् । हिमालये तपस्विनां परम्परा प्राचीनकालादपि अव्याहतरूपेण अस्ति । ब्रह्मपुत्रः तपः आचरत् अत्रैव । प्रलयकाले मनुः अस्य एव नगाधिराजस्य आश्रयं प्राप्य तपः आचरत् । आचार्यत्रयाणां शङ्करस्य मध्वस्य रामानुजस्य च साधनस्य प्रेरणामूलं हिमालयः एव । अर्वाचीनकाले अपि महर्षिदयानन्दं, स्वामिश्रद्धानन्दं, विवेकानन्दं, रामतीर्थं, शिवानन्दम्, अखण्डानन्दं, गुरूजि-गोल्वल्करं चापि आकर्षत् हिमालयः । अस्याः पवित्रभूमेः मङ्गलमयस्य वातावरणस्य प्रभावः अस्ति तादृशः । तस्मात् एव अनेके साधवः, सज्जनाः, विरागिणः वा भगवत्प्राप्त्यर्थम् आत्मसाक्षात्कारार्थं च अद्यापि हिमालयं गच्छन्ति । हिमाच्छादितानि शुभ्रधवलानि शिखराणि, साक्षात् नभःस्पर्शिनः गिरयः, गभीराणि खातानि, वेगेन प्रवहन्त्यः नद्यः, गहनानि अरण्यानि, विविधाः फलपुष्पपूर्णाः वृक्षाः च हिमालयस्य वैभवं वर्धयन्ति । एतादृशेन वैभवेन मनः प्रमुदितं भवति । धर्मक्षेत्रे,संस्कृतिक्षेत्रे, साहित्यक्षेत्रे, कलाक्षेत्रे, सङ्गीतक्षेत्रे, शिल्पादिषु क्षेत्रेषु अस्माकं जीवनस्य सर्वेषु क्षेत्रेषु अपि हिमालयस्य प्रभावः महान् एव । अयम् अस्माकं दृष्ट्या केवलं शिलामृद्युक्तः गिरिः न । सः हिमालयः, सः देवालयः, परशिवस्य आलयः सः इत्येव अस्माकं विश्वासः ।

कैलासक्षेत्रं मानसक्षेत्रं च हिमालये विद्यमाने सर्वश्रेष्ठे तीर्थक्षेत्रे । तत्र प्रवासः अत्यन्तं कष्टकरः । अमरनाथः १३,००० पादं यावत् उन्नते स्थाने अस्ति । तत्र गमनमार्गः अपि अत्यन्तं दुर्गमः । तथापि सहस्रशः जनाः कैलास-मानसयात्रां कुर्वन्ति । पञ्जाबे स्थितं ज्वालामुखीक्षेत्रम् अपि अन्यदेकं पवित्रं क्षेत्रम् अस्ति । दक्षयज्ञक्षेत्रं हरिद्वारम् अपि हिमालयस्य उपत्यकायाम् एव अस्ति । हरिद्वारतः हृषीकेशमार्गेण देवप्रयागं, ततः यमुनोत्रीं, गङ्गोत्रीं, केदारं, बदरीं च गच्छन्ति यात्रिकाः । एतत् सर्वम् अपि क्षेत्रं १०,०००-१५,०००पादं यावत् उन्नते स्थाने अस्ति, हिमावृतं च भवति । नेपालदेशे पशुपतिनाथः, मुक्तिनाथः, दामोदरकुण्डं, गण्डकी, मत्स्येन्द्रनाथः, स्वयम्भूनाथः, बौद्धनाथः देवघट्ट इत्यादीनि पवित्राणि क्षेत्राणि सन्ति । दामोदरकुण्डात् प्रवहन्त्यां गण्डकीनद्यां सालिग्रामशिला उपलभ्यते । एवं प्रतिपदं पवित्रस्थानानि सन्ति हिमालये । 
वातावरणदृष्ट्या हिमालयस्य उपकारः महान् एव । कतिपय वर्षेभ्यः पूर्वं रष्यादेशे सञ्जातात् अणुविद्युत्स्थावरस्य अग्निदुरन्तात् उद्भूय प्रस्थितानि अणुविकिरणानि अवरुध्य अस्मान् अरक्षत् हिमालयः एव । यदि तत्र हिमालयः न स्यात् तर्हि भारतस्य वायुः विषमयः अभविष्यत् । दक्षिणतः आगच्छन्तीं वृष्टिम् अवरुध्य भारते विपुलवृष्टिं कारयति हिमालयः एव । हिमालयात् प्रवहन्तीनां नदीनां कारणतः भारतं सुजलं सुफलं सञ्जातम् । अस्माकं जीवनं हिमालयम् अवलम्ब्य स्थितम् इति उक्ते न सा अतिशयोक्तिः ।

अस्य पर्वतस्य शिखराणि अत्युन्नतानि सन्ति । वस्तुतः भूमौ दश उन्नततमाः पर्वताः अपि हिमालये एव स्थिताः। एतानि शिखराणि सदैव हिमेन आच्छादितानि सन्ति। अत एव अस्य पर्वतस्य अभिधानं हिमस्यालयः हिमालयः इति प्रसिद्धोऽस्ति । हिमालयात् गङ्गा-यमुना-शतद्रु-विपाशा-इरावती- वितस्ता-प्रभृतयः अनेकाः नद्यः उद्भवन्ति । एतासां नदीनां जलं भारतवर्षस्य विशालं भूभागं सिञ्चति। अत एव अस्मिन् देशे प्रभूतानि विविधानि धान्यानि फलानि च उद्भवन्ति । अस्मिन् पर्वते विविधाः ओषधयः वृक्षाः धातवश्च विविधानि रत्नानि उपलभ्यन्ते ।
ग्रीष्मकाले तापेन व्याकुलाः जनाः हिमालयस्य पर्वतीस्थलानि गत्वा सुखम् अनुभवन्ति । अस्मिन् एव पर्वते मानससरोवर-अमरनाथ-बद्रीनाथ-केदारनाथ-हरिद्वार-प्रभृतीनि अनेकानि दर्शनीयतीर्थस्थानानि सन्ति। तत्र पर्वतस्थितासु अनेकासु गुहासु साधकाः तपश्चरन्ति। अत्र देवीनां मन्दिराणि अपि सन्ति। एतस्मात् कारणात् अयं पर्वतः देवभूमिः इत्यपि कथ्यते ।
हिमाच्छादितानि अस्य उन्नतानि शिखराणि अतिशैत्यात् शत्रुभ्यः च भारतं रक्षति । अयं पर्वतः सुरक्षादृष्ट्या अतीव महत्त्वपूर्णः अस्ति । अत्र अनेकानि युद्धानि अपि अभवन् । अनेनैव कारणेन अस्माकं सुरक्षासैनिकाः अस्य रक्षायै तत्पराः भवन्ति ।




#Article 45: गोवाराज्यम् (2522 words)


गोवाराज्यं ( )  (, ) भारते स्थितं किञ्चन लघुराज्यम् अस्ति । गोवाराज्यं भारतस्य पश्चिमे अरबीसमुद्रस्य तटे स्थितम् अस्ति । पश्चिमसमुद्रतटवर्तिराज्यस्यास्य उत्तरदिशि महाराष्ट्रराज्यं, दक्षिणदिशि कर्णाटकराज्यं, पूर्वदिशि पश्चिमघाटः, पश्चिमदिशि अरबीसमुद्रश्चास्ति । पणजी, वास्को द गामा, मडगांव चास्य राज्यस्य प्रमुखनगराणि सन्ति । पणजी-नगरं राज्यस्य राजधानी अस्ति । वास्को द गामा राज्यस्यास्य बृहत्तमं नगरमस्ति । प्राकृतिकसौन्दर्येण परिपूर्णम् एतत् राज्यं बहुभ्यः वीक्षणीयेभ्यः समुद्रतटेभ्यः सुप्रसिद्धमस्ति ।

गोवाराज्यस्य विस्तीर्णं ३७०२ च.कि.मी अस्ति । पणजी इति नगरमस्य राजधानी अस्ति । वास्को, फोण्डा , मडगांव, म्हापसा च राज्यस्यास्य मुख्यनगराणि सन्ति । माण्डवीनदीतीरे पणजी इत्येतत् नगरमस्ति । गोवाराज्ये सागरतीरं १०५ कि.मी दीर्घमस्ति । २७ सागरतीरप्रदेशाः सुप्रसिद्धाः सन्ति । उत्तरगोवा, दक्षिणगोवा इति द्विधा इदं राज्यं विभाजितम् अस्ति ।

गोवा-राज्यस्य विस्तारः ३,७०२ चतुरस्रकिलोमीटर्मितः वर्तते । २०११ जनगणनानुगुणं गोवाराज्यस्य जनसङ्ख्या १३,४३,९९८ अस्ति । अस्य राज्यस्य उत्तरदिशि तेरेवोल-नदी अस्ति । इयं नदी गोवा-महाराष्ट्रराज्ययोः मध्ये प्रवहति । गोवा-राज्यस्य उत्तरदिशि महाराष्ट्र-राज्यं, पूर्वदिशि, दक्षिणदिशि च कर्णाटक-राज्यं च स्थितम् अस्ति ।

गोवा-राज्ये बह्व्यः प्रमुखाः नद्यः सन्ति । ताः – माण्डवी, जुआरी, तेरेवोल, चपोरा, वेतुल, सिङ्क्वोटी, गोमती च । गोवा-राज्ये प्रमुखे द्वे कूल्ये स्तः – प्रथमा चीनी, अपरा कवेपम च । माण्डवी-जुआरीनद्योः मुखे मैनग्रोव-वनम् अस्ति ।

गोवा-राज्यं कोङ्कण-क्षेत्रे स्थितम् अस्ति । अतः अस्य राज्यस्य वातावरणं मनोहरं भवति । जून-मासतः सितम्बर-मासपर्यन्तम् अस्य राज्यस्य जलवायुः आर्द्रपूर्णः भवति । वर्षर्तौ सामान्यतः ३२०० से.मी.मात्रात्मिका वृष्टिः भवति । ग्रीष्मर्तौ गोवा-राज्यस्य अधिकतमं तापमानं २४ डिग्री सेल्सियस् तः ३२.७ डिग्री सेल्सियस् पर्यन्तं भवति । शीतर्तौ च अस्य न्यूनतमं तापमानं ३२.२ डिग्री सेल्सियस् तः २१.३ डिग्री सेल्सियस् पर्यन्तं भवति ।   

गोवा-राज्ये “भगवान्महावीरराष्ट्रियोद्यानम्” स्थितम् अस्ति । उद्यानमिदं १०७ चतुरस्रकिलोमीटर्मितं विस्तृतम् अस्ति । अस्मिन् उद्याने भाल्लुकाः (Bear), कुञ्जराः (Elephant), चित्रव्याघ्राः (leopard), अजगराः, सर्पाः, कस्तूरीमृगाः, वृक्षशायिकाः चेत्यादीनां जीवानां विभिन्नप्रजातयः प्राप्यन्ते । अस्मिन् प्रदेशे अन्यानि अपि अभयारण्यानि सन्ति । तानि – “मोलेम-वन्यप्राणी-अभयारण्यं”, “बोण्डला-वन्यप्राणी-अभयारण्यं”, “कोटिगो-वन्यप्राणी-अभयारण्यं” च । गोवा-राज्ये “डॉ. सलीम अली पक्षि-उद्यानम्” अपि स्थितम् अस्ति ।

गोवाराज्यस्य प्रप्रथमोल्लेखः महाभारतस्य  उपलभ्यते ।  गोमन्त इति नामोल्लेखः अस्ति, यस्यार्थः भवति गवां प्रदेशः इति । स्कन्दपुराणस्य सह्याद्रिखण्डे उल्लिखितमस्ति यत्, परशुरामेण सह्याद्रिपर्वतसमीपस्थं समुद्रजलं प्रतिप्रेषिते सति अस्य प्रदेशस्य रचना जाता इति । पुराणकथास्ति यत्, परशुरामः सप्तर्षिभ्यः यज्ञयोग्यम् उचितं स्थानम् अन्वेषयन् भारतस्य पश्चिमभागे सह्याद्रिपर्वतं प्राप्तवान् । पश्चिमसमुद्रतटस्थं सह्याद्रिपर्वतं सम्प्राप्य सः समुद्रमग्नं पवित्रस्थलं दृष्टवान् । परन्तु समुद्रजलत्वात् यज्ञक्रिया नार्हति इति चिन्तयन् सह्याद्रिपर्वतशिखरात् सप्तशरैः समुद्रजलमेव प्रतिप्रेषितवान् सः । अतः सः प्रदेशः परशुरामक्षेत्रम् इति प्रसिद्धः जातः । (संशोधकाः गजानन शास्त्री, डो. जरसोन, डो. कुन्हा च कथयन्ति यत्, परशुरामः उत्तरभारतात् ब्राह्मणान् आनीयात्र तेषां निवासव्यवस्थां सज्जीकृतवान् आसीत् । एवं तत् स्थानं ब्राह्मणानां मुख्यस्थलम् अभूत् इति ।) ततः सप्तर्षयः तस्मिन् स्थले रुद्रयागं कृतवन्तः । रुद्रयागेन प्रसन्नः शिवः सप्तर्षिभ्यः आशीर्वादं दत्त्वा सप्तकोटेश्वररूपेण तत्रैव निवसतुम् आरभत । पुराणे कुत्रचित् उल्लिखितमस्ति यत्, शिव-पार्वत्योः विवादः यदा जातः, तदा किञ्चित् समयपर्यन्तं गोमन्तप्रदेश एव शिवस्य निवासस्थानम् आसीत् इति । हरिवंशपुराणानुसारं श्रीकृष्णः जरासन्धवधं यस्मिन् गोमाञ्चलपर्वते कृतवान्, सः पर्वतः गोवाप्रदेश एवास्ति । गोवापुरी पवित्रतमप्रदेशेषु अन्यतमः अस्ति इति  उत्तरार्धस्य चतुस्सप्ततितमे (७४) अध्याये उल्लिखितमस्ति । तस्मिन्नेवाध्याये गोवाप्रदेशस्य स्थाननिर्धारणं, माहात्म्यं, रचनाकथां च वसुनामकः कश्चन गुरुः मोहिनीनामिकां शिष्याम् उद्दिश्य वर्णयति ।   गोवापुर्याः उल्लेखः अस्ति । तद्यथा - 

गोकर्णं नाम विख्यातं क्षेत्रं सर्वसुरार्चितम् ।

सार्धयोजनविस्तारं तीरे पश्चिमवारिधेः ॥  २,५६.७ ॥  

 एवम् उल्लिखितम् अस्ति -

गोकर्णादुत्तरे भागे सप्तयोजनविस्तृतम् ।

तत्र गोवापुरी नाम नगरी पापनाशिनी ।। 

इतिहासानुसारं क्रिस्ताब्दे चतुर्थे शतके शतवाहनवंशीयाः, तदनन्तरं क्रमेण चालुक्यवंशीयाः, कोङ्कणशिलहरवंशीयाः, गोवाकदम्बवंशीयाः (९८०-१५५५), कोङ्कणभोजवंशीयाः च अत्र प्रशासनं कृतवन्तः । अग्रे यादवान् पराजित्य मोघलवंशीयाः अधिकारं प्राप्तवन्तः । अनन्तरं विजयनगरराजानः, बहमनीवंशीयाः च अत्र प्रशासनाधिकारं प्राप्तवन्तः आसन् । चतुर्दशे शतके बिजापुरस्य आदिलशाहीवंशीयानाम् अधीनम् आसीत् एतत् राज्यम् । १५१० तमे वर्षे पुर्तुगालदेशीयानां शासनम् आरब्धम् । ई. स. १९४७ तमे वर्षे यदा भारतेन स्वातन्त्र्यं प्राप्तं, तदा गोवा-राज्यम् पुर्तगाली-जनानाम् अधिकारे आसीत् । भारतीयसेनया “ऑपरेशन् विजय इति अभियानम् आरब्धम् । अनेन अभियानेन भारतीयसेनायाः पुर्तगाल-शासनात् मुक्तिः अभवत् । ई. स. १९६१ तमे वर्षे दिसम्बर-मासस्य एकोनविंशतितमे (१९) दिनाङ्के (१९ दिसम्बर १९६१) गोवा-राज्यं पुर्तगाली-शासनात् मुक्तं जातम् आसीत् । अतः प्रतिवर्षं दिसम्बर-मासस्य एकोनविंशति (१९) तमे दिनाङ्के “गोवा मुक्ति दिवस” आचर्यते । अनन्तरम् इदं राज्यं केन्द्रशासितप्रदेशत्वेन उद्घोषितम् । ई. स. १९८७ तमस्य वर्षस्य मई-मासस्य त्रिंशत्तमे (३०) दिनाङ्के (३० मई १९८७) गोवा-इत्यस्मै राज्यपदं प्रदत्तम् । तदा गोवा-राज्यं भारतस्य पञ्चविंशतितमं राज्यम् अभवत् ।

गोवाराज्ये २ मण्डले स्तः । 

गोवा-राज्यस्य विधानमण्डलम् एकसदनात्मकम् अस्ति । गोवा-राज्ये विधानसभायाः ४० स्थानानि (Seats) सन्ति | तत्र लोकसभायाः द्वे स्थाने, राज्यसभायाः च एकम् एव स्थानम् अस्ति । अस्मिन् राज्ये ई. स. १९७९ तमस्य वर्षस्य अप्रैल-मासस्य २८ तमे दिनाङ्के (२८ अप्रैल १९७९) राष्ट्रपतिशासनम् आरब्धम् । “प्रतापसिंह राणे” इत्याख्यः गोवा-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “भारतीय जनता पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “युनाईटेड् गोमान्तवादी डेमोक्रेटिक पार्टी”, “महाराष्ट्रवादी गोमान्तक पार्टी”, “नेशनलिस्ट् कॉङ्ग्रेस् पार्टी” च इत्यादयः राजनैतिकपक्षाः गोवा-राज्ये सन्ति । गोवा-राज्ये एकः मण्डलस्तरीयः न्यायालयः विद्यते । इदं राज्यं मुम्बई-महानगरस्य उच्चन्यायाधीनम् अस्ति । मुम्बई-महानगरस्य उच्चन्यायालयस्य एका शाखा पण्डजी-नगरे स्थिता अस्ति । 

गोवा-राज्यस्य प्रमुखः उद्योगः पर्यटनम् अस्ति । यतः इदं राज्यं समुद्रतटे स्थितम् अस्ति । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । इतः परम् अपि अस्मिन् राज्ये लौह-खानिजाः पर्याप्तमात्रायां प्राप्यन्ते । लौह-खानिजस्य जापान-देशे, चीन-देशे च विक्रयणं क्रियते । गोवा-राज्ये साम्प्रतम् एकं विमानपत्तनम् अपि अस्ति । अस्मिन् राज्ये पर्यटनाय बहूनि वीक्षणीयस्थलानि सन्ति । अतः विदेशात् अपि जनाः तत्र गच्छन्ति । अतः पर्यटनस्थलेषु बहुप्रकारकाः व्यापाराः भवन्ति । तेन अस्य राज्यस्य अर्थव्यवस्था सुदृढा वर्तते । तण्डुलाः गोवा-राज्यस्य मुख्यसस्यम् अस्ति । अन्यानि अपि विविधानि सस्यानि सन्ति । नारिकेलं, काजूतकं, पूगीफलं, इक्षुदण्डं, आम्रं, कदलीफलं च इत्यादीनि अपि अस्मिन् राज्ये उत्पाद्यन्ते । सम्पूर्णे गोवा-राज्ये २,२७,०२९ टन्-मात्रात्मिकाः व्रीहिः, ६४,००० टन्-मात्रात्मकः इक्षुदण्डः च उत्पाद्यते । एकविंशतिलक्षोत्तरैककोटिः नारिकेलाः भवन्ति ।

गोवा-राज्ये सेचनाय विविधाः योजनाः प्रचलन्त्यः सन्ति । यथा सेलाउलिम, अञ्जुनेम चेत्यादयः जलबन्धाः सन्ति । तासां सेचनयोजनानां कारणेन सेचनक्षेत्रे वृद्धिर्जायते । तिल्लारी-जलबन्धे अपि कार्यं जायमानम् अस्ति । एतासु योजनासु ४३,००० हेक्टेयर् मात्रात्मकेषु स्थानेषु सेचनं कर्तुं क्षमता समुद्भूता । राज्यस्य प्रत्येकस्मिन् ग्रामे विद्युत्सौकर्यम् अपि सम्प्राप्तम् आसीत् ।

गोवा-राज्ये बहवः लघु-उद्योगाः सन्ति । तत्र ५,७५६ सङ्ख्यात्मकाः उद्योगाः सन्ति । सम्पूर्णे राज्ये षोडश औद्योगिकस्थलानि सन्ति । मत्स्यपालनं गोवा-राज्यस्य प्रमुखोद्योगः वर्तते । एतेषु उद्योगेषु आहत्य ३९,४३२ जनाः कार्यं कुर्वन्ति । ई. स. १९९७ तमे वर्षे “पेट्रोलियम् सुरक्षा, स्वास्थ्य तथा पर्यावरण प्रबन्धन (IPSHEM)” इत्याख्यं संस्थानं प्रस्थापितम् आसीत् । इदं संस्थानं “दोना पाउला” इत्यत्र अस्ति । गोवा-राज्यस्य खानिजोत्पादनेषु मैङ्गनीज्, बॉक्साईट्, लौहखानिजः च सन्ति । एतेषां विदेशेषु विक्रयणेन राज्यस्य अर्थव्यवस्था प्रबला वर्तते ।

२०११ जनगणनानुगुणं गोवा-राज्यस्य साक्षरतामानं ८७.०१ प्रतिशतम् अस्ति । तेषु पुरुषसाक्षरतामानं ९२.८ प्रतिशतं, महिलासाक्षरतामानं ८१.८४ प्रतिशतं च अस्ति । गोवा राज्ये नैकानि शैक्षणिकसंस्थाननि सन्ति । “गोवा विश्वविद्यालय”, “राष्ट्रीय समुद्र विज्ञान संस्थानम्”, “राष्ट्रीय जल क्रीडा संस्थानम्”, “गोवा इन्स्टीट्यूट् ऑफ् मैनेजमेण्ट्”, “भारतीय कृषि अनुसन्धान संस्थानम्” च इत्यादीनि शैक्षणिकसंस्थानानि गोवा-राज्ये स्थितानि सन्ति ।

गोवा-राज्यं कोङ्कणी-संस्कृतेः प्रमुखं केन्द्रं विद्यते । अतः अस्य राज्यस्य भाषा अपि “कोङ्कणी” एव अस्ति । तत्र माडो, धालो, फुगडी इत्यादीनि लोकनृत्यानि सन्ति । जगर पेराणि इत्याख्या गोवा-नगरस्य लोककथा अस्ति । इयं कथा राज्ये बहुप्रचलिता अस्ति । नाट्यक्षेत्रे अपि गोवा-राज्यस्य बहवः जनाः प्रसिद्धाः सन्ति । चलच्चित्रजगतः गायिकायाः “लता मङ्गेशकर” इत्याख्यायाः पिता दीनानाथ मङ्गेशकर, श्रीमती दुर्गा केलकर, रघुवीर सावरकर च इत्यादयः गोवा-राज्यस्य गौरवभूताः विद्यन्ते । सङ्गीतक्षेत्रे अञ्जनी मालयेकर, केसरबाई केरकर इत्यादयः प्रसिद्धाः सन्ति । गोवा-राज्ये दीपावलीपर्व, दशहरापर्व, गणेशचतुर्थीपर्व च आचर्यते । तेषु पर्वसु गणेशचतुर्थीपर्व मुख्यम् अस्ति । जनैः उत्साहपूर्वकम् उत्सवाः आचर्यन्ते । फरवरी-मासे मार्च-मासे वा कार्निवल् इत्ययम् उत्सवः आचर्यते ।

गोवा-राज्यं ५०० वर्षाणि यावत् पुर्तगाल-शासनाधीनम् आसीत् । अतः तत्र युरोप-देशस्य संस्कृतेः अत्यधिकः प्रभावः अनुभूयते । गोवा-राज्यस्य प्रायः ६० प्रतिशतं जनाः हिन्दुधर्मानुयायिनः, २८ प्रतिशतं जनाः ईसाई-धर्मानुयायिनः च सन्ति । गोवा-राज्यस्य दक्षिणभागे ईसाई-समाजस्य प्रभावः अधिकः अस्ति । किन्तु तत्र वास्तुस्थापत्यकलासु हिन्दुधर्मस्य प्रभावः अधिकः दृश्यते । गोवा-राज्ये पुरातनानि मन्दिराणि दृश्यन्ते ।

गोवा-राज्यं कोङ्कणी-साहित्यस्य प्रसिद्धकेन्द्रम् अस्ति । गोवा-राज्यस्य साहित्यिकपरम्परा अतीवप्राचीना अस्ति । ई. स. १५३६ तमे वर्षे पुर्तगाल-क्षेत्रियेण बार्रुण-इत्याख्येन इतिहासकारेण संस्कृतानुवादकस्य कस्यचित् ब्राह्मणस्य पुर्तगाली-भाषायाम् उल्लेखः कृतः अस्ति । बोरकर-इत्याख्यः कविः महाराष्ट्रियः आसीत् । सः अपि गोवा-राज्यस्य निवासी आसीत् । अस्य राज्यस्य प्रमुखा भाषा कोङ्कणी-इति अस्ति । कोङ्कणी-भाषायाः लिपिः देवनागरी एव अस्ति । इयं भाषा पञ्लिपिषु लिख्यते । ताः – रोमन्, कन्नड, मलयालम, अरबी फारसी वा, देवनागरी च । “थॉमस् स्टीफेन्स्” इत्याख्येन कविना “ईसाई-साहित्यस्य जनकः” इत्युपाधिः प्राप्तः ।

वीक्षणीयप्रदेशेषु गोवा-राज्यं “पृथ्व्याः स्वर्गः” इति कथ्यते । अस्य राज्यस्य प्रमुखोद्योगः पर्यटनम् एव अस्ति । प्रतिवर्षं १० लक्षाधिकाः यात्रिकाः गोवा-राज्यं गच्छन्ति । वर्षर्तौ गोवा-राज्यस्य प्राकृतिकं सौन्दर्यं प्रसरति । ये जनाः शान्तिप्रियाः, प्रकृतिप्रेमिणः च भवन्ति, तेभ्यः हृदयाह्लादकं भवति इदं गोवा-राज्यम् । इदम् एकं लघुराज्यम् अस्ति, तथापि तत्र चत्वारिंशत् समुद्रतटानि सन्ति । तेषु तटेषु कानिचन तटानि अन्ताराष्ट्रियतटानि अपि सन्ति । ग्रीष्मर्तौ अत्यधिकाः पर्यटकाः शीतलतां प्राप्तुं गच्छन्ति । अनन्तरं ये जनाः वर्षर्तोः आनन्दं प्राप्तुम् इच्छन्ति, ते पर्यटकाः वर्षर्तौ तत्र गच्छन्ति ।

गोवाराज्यं देशविदेशीयानां प्रवासिजनानां स्वर्गमिवास्ति । अत्र पूर्वदेशीयानां, पश्चिमदेशीयानां च संस्कृतिसङ्गमः अस्ति इति कश्चन विशेषः । सुन्दरसागरतटानां, प्रकृतिसौन्दर्यभरितघट्टप्रदेशानां च दर्शनम् अत्र भवति । हरितानि शाद्वलानि, सुन्दर्यः वाटिकाः, रमणीयाः देवालयाः, नैकानि प्रार्थनामन्दिराणि, उपाहारवसतिगृहाणि च गोवाराज्यस्य प्रमुखाकर्षणानि सन्ति ।

उत्तरगोवामण्डले अरावेलं जलपातः, दत्तमन्दिरं, 'मेयं लेक्', वागेटर्, अञ्जुना, कालगुण्टे, अगौडदुर्गः च दर्शनीयानि स्थलानि सन्ति । 

दक्षिणगोवामण्डले मिरामर, दोनापौला, मार्मगोवा, वास्को कोल्व, मार्गोवा, शान्तादुर्गादेवालयः, रामनाथदेवालयः, मङ्गेशदेवालयः च दर्शनीयानि स्थलानि सन्ति । 

प्राचीनगोवाप्रदेशे 'भोमजीसस्'-'बेसिलिका'स्थले 'सेन्ट् फ्रान्सिस् जेवियर'-इत्यस्य शरीरं रजतकरण्डके स्थापितमस्ति । तत् स्थानं दशवर्षेषु एकवारं 'डिसेम्बर'-मासस्य तृतीयदिनाङ्कात् त्रीणि दिनानि यावत् सार्वजनिकदर्शनार्थम् उद्घाटितः भवति । 'सेन्ट् केजेटान् चर्च, सेन्ट अगस्टेन् चर्च, सेन्ट् मोनिका चर्च' इत्यादीनि अत्यन्तं सुन्दराणि सन्ति । 
गोवाराज्यस्य प्रवासोद्यमः अतीवोत्तमः अस्ति । सागरतटानां दर्शनं, देवालयानां दर्शनं, 'चर्च'दर्शनं, सम्पूर्णदर्शनम् इत्यादीनां दर्शनम् एकस्मिन् दिने एव कर्तुं शक्नुवन्ति प्रवासिनः । 'पालोळम्' इत्यत्र नारिकेलवाटिकानां सुन्दरं वीक्षणीयं स्थलम् अस्ति । मार्गोवा-तः सप्तत्रिंशत् कि.मी दूरे कोङ्कणधूमशकटमार्गसमीपे अतीव सुन्दरः सागरतटः अस्ति । राज्येऽस्मिन् विद्यमानानां सागरतटानां कोल्वा, अञ्जना, कल्लनगुड्ड इत्यादीनि नामानि प्रसिद्धानि सन्ति ।

'अगोड' इति 'डनहिल्'सागरतटस्थम् उपाहारगृह-वसतिस्थानम् उत्तमं, प्रसिद्धं च अस्ति । 'ब्लूलगून् प्यारडैस् रेसार्ट' अपि उत्तमं स्थलमस्ति । अग्रे जलविहारसमुद्रस्नानादिनिमित्तं अतीव सुन्दरः सागरतटः अस्ति । 'बेनोलिम' तटोऽपि जनप्रियः अस्ति । एतत् डबोलिम विमानस्थानकात् ४५ कि.मी दूरे अस्ति । 'प्यासेलिङ्ग् वाटर् स्कूटर'प्रयाणम् अत्र कर्तुं शक्यते । अग्रे 'बाग् क्याण्डोलिं सिनक्वेरिं' इति द्वौ तटौ पणजी-नगरात् १४ कि.मी दूरे स्तः । एतौ दीर्घतटौ । अत्युत्तरभागे 'केरि' सागरतटः अस्ति । 'मालो मिरामाट्' इत्यत्र अष्ट 'डैविङ्ग'संस्थाः सन्ति । गोवासागरतटेषु सूर्योदयादस्तपर्यन्तं जनाः विहारं कुर्वन्तः आनन्दमनुभवन्ति । जले विहारं कुर्वन्ति । शान्तं, सुन्दरं सागरतीरं अतीवानन्ददायकं भवति इत्यत्र संशयः एव नास्ति ।

मपुसा उत्तरगोवा-मण्डले स्थितमेकं पत्तनम् अस्ति । इदं स्थलं बागा, अञ्जुना, कैलेङ्ग्यूट्-समूद्रतीरं च इत्येतेषां समीपे एव स्थितम् अस्ति । गोवा-राज्यस्य राजधानी पणजी अस्ति । पणजी-नगरात् इदं स्थलं १३ किलोमीटर्मितं दूरे स्थितम् अस्ति । इदं स्थलं वीक्षणार्थिभ्यः सौकर्यमयम् अस्ति । अक्टूबर-मासतः दिसम्बर-मासपर्यन्तम् अधिकमात्रायां जनाः तत्र गच्छन्ति । शुक्रवासरे मपुसा-नगरे हट्टः भवति । तस्मिन् हट्टे समीपस्थाः जनाः व्यापारार्थं गच्छति । हस्तकलां, कृष्युत्पादनानि, अभिनवफलानि इत्यादीनां वस्तूनां विक्रयणार्थं व्यापारिकाः हट्टे गच्छन्ति । सामुद्रिकखाद्यवस्तुभ्यः मपुसा-स्थलं प्रसिद्धम् अस्ति । पणजी-नगरात् मपुसा-पत्तनाय नियमितरूपेण बसयानानि प्राप्यन्ते । 

वागातोर-स्थलं गोवा-राज्यस्य सुन्दरस्थलेषु अन्यतमं वर्तते । इदं स्थलं मपुसा-पत्तनात् समीपे एव अस्ति । तत्रत्यानि भवनानि बङ्गलो, पुर्तगाली च इत्यादिभिः स्थापत्यकलाभिः निर्मितानि सन्ति । अञ्जुना-समुद्रतीरम् अपि तस्य समीपे एव अस्ति । चपोरा-दुर्गः अपि अस्य स्थलस्य समीपम् एव स्थितः अस्ति । अत्र समुद्रतीरे श्वेतवर्णीया सिकता प्राप्यते । अस्य समुद्रतीररस्य समीपे बहवः विश्रामालयाः, भोजनालयाः च सन्ति । तेषु भोजनालयेषु “प्रिमरोज शैक” इत्याख्यः भोजनालयः गोवा-राज्ये प्रसिद्धः अस्ति । तस्मिन् भोजनालये विविधप्रकारकानि व्यञ्जनानि प्राप्यन्ते । वागातोर-स्थले बहूनि सामुद्रिकखाद्यानि प्राप्यन्ते । वागातोर-स्थलं गन्तुं मपुसा-पत्तनात् मार्गः अस्ति । ततः समीपे एव इदं स्थलं विद्यमानम् अस्ति ।

बागा-समुद्रतीरं गोवा-राज्यस्य सौकर्यमयं स्थलं वर्तते । तत्र बहवः विश्रामालयाः, भोजनालयाः, मधुशालाः च सन्ति । वीक्षणार्थिनां निवासाय अपि व्यवस्था समीचीना अस्ति । तत्र बहवः कार्यसाधकाः (Agents) भ्रमन्ति । यतः तत्र बहवः क्रीडालयाः अपि सन्ति । ते कार्यसाधकाः क्रीडां कर्तुम् अस्मान् प्रेरयन्ति । अपरं च तत्र पैरासेलिङ्ग्, जलयानचालनं (Water bike ride), कदलीनौका-चालनं (Banana ride), नौकाविहारः च अपि प्रसिद्धः अस्ति । तत्र आदिनं जनसम्मर्दः भवति । “मोम्बोस् क्लब्” गोवाराज्यस्य प्रसिद्धासु मधुशालासु अन्यतमा अस्ति । सा मधुशाला अपि अस्य समुद्रतीरस्य समीपे एव स्थिता अस्ति । भाटकयानेन इदं स्थलं प्राप्तुं शक्यते । कैण्डोलिम, पणजिम इत्येतेभ्यः बागा-समुद्रतीरं समीपे एव अस्ति । अतः सरलतया तत्र गन्तुं शक्यते ।

उत्तरगोवा-मण्डले स्थितम् इदं कोलवेल-नगरम् । इदं नगरं कैण्डोलिम, बागा, कैलिङ्ग्यूट इत्येतेभ्यः समुद्रतीरेभ्यः उत्तर-पूर्वदिशि स्थितम् अस्ति । इदं नगरं परितः व्रीहीणां क्षेत्राणि सन्ति । चपोडा-नद्याः तटे स्थितम् अस्ति कोलवेल-नगरम् । अनय नद्य कोलवेल-नगरस्य सौन्दर्यं वर्ध्यते । प्राचीने काले अस्मिन्नगरे पुर्तगाल-जनाः, डच-जनाः, मराठा-जनाः चेत्यादयः व्यापारं कुर्वन्ति स्म । अतः इदं व्यापारकेन्द्रम् आसीत् । ई. स. १५९१ तमे वर्षे तत्र एकः कैस्तवदेवालयः निर्मापितः आसीत् । तस्य देवालयस्य वास्तुस्थापत्यकला दृष्टुं योग्या अस्ति । अस्मिन् नगरे विमानस्थानकं, रेलस्थानकं च नास्ति । तथापि भाटकयानेन सरलतया तत्र गन्तुं शक्यते ।

अगुआडा-नगरस्य दुर्गः विशिष्टसंरक्षणे अस्ति । भारते कानिचन स्थानानि सन्ति, तेषां सरक्षणं सम्यकतया भवति । तेषु अगुआडा-दुर्गः अन्यतमः अस्ति । सप्तदशशताब्द्यां पुर्तगाल-जनैः अयं दुर्गः निर्मापितः । अयं दुर्गः वीक्षणार्थिनाम् आकर्षणस्य केन्द्रम् अस्ति । अगुआडा-दुर्गस्य विद्युद्गृहम् अपि अत्यन्तं विशिष्टं वर्तते । ततः अरब-महासागरस्य दृश्यं दृश्यते । अगुआडा-स्थलस्य नेत्रप्रियाणि दृश्यानि, मधुशालाः, भोजनालयाः, विश्रामालयाः च प्रसिद्धाः अस्ति । इदं स्थलं कैण्डोलिम-स्थलात् समीपे एव अस्ति । रात्रौ दुर्गस्य समीपे हट्टः भवति । तस्मिन् हट्टे अल्पमूल्यवस्तूनि मिलन्ति । अगुआडा-दुर्गात् गोवा-नगरं गत्वा निवासः क्रियते । तत्र निवासाय सुव्यवस्था वर्तते । गोवा-नगरस्य विमास्थनकात्, रेलस्थानकात् च अगुआडा-दुर्गः प्राप्यते ।

अरामबोल-समुद्रतीरं गोवा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । बागा, कैलेङ्ग्यूट इत्यादीनि वीक्षणीयस्थलानि अरामबोल-समुद्रतीरात् समीपे एव सन्ति । किन्तु व्यावसायिकदृष्ट्या इदं स्थलं विकसितं नास्ति । यतः तत्र विश्रामालयाः, भोजनालयाः, मधुशालाः बहव्यः न सन्ति । इदं स्थलं सामान्यं वर्तते । अरामबोल-समुद्रतीरम् अञ्जुना, मपुसा-नगरात् समीपे एव स्थितम् अस्ति । ये जनाः प्रकृतिप्रेमिणः सन्ति, तादृशेभ्यः जनेभ्यः इदं स्थलं भ्रमणयोग्यं वर्तते । इदं स्थलं शान्तिपूर्णम् अस्ति । तत्र जनाः मध्याह्नकालस्य आनन्दं प्राप्नुवन्ति ।

मोरजिम-समुद्रतीरं गोवा-राज्यस्य मनोहरं स्थलं वर्तते । इदं स्थलं गोवा-राज्यस्य उत्तरभागे स्थितम् अस्ति । चपोरा-नद्या तटे स्थितमिदं मोरजिन-नामकं वीक्षणीयस्थलम् । तत्र पर्याप्तमात्रायां सामुद्रिकखाद्यानि, नारिकेलानि च प्राप्यन्ते । मोरजिम-समुद्रतीरे बहूनि मनोहराणि दृश्यानि सन्ति । गोवा-राज्यस्य पारम्परिकनृत्यस्य उत्पत्तिः मोरजिम-स्थलात् एव अभवत् । गोवा-राज्यस्य परम्पराणां, रीतीनां च उत्पत्तिस्थलम् अपि मोरजिम-समुद्रतीरम् एव अस्ति । मोरजिम-समुद्रतीरं गन्तुं यन्त्रद्विचक्रिकायाः उपयोगः क्रियते । तत्र भाटकेन यन्त्रद्विचक्रिकां प्राप्यते ।

कैलेङ्ग्यूट्-समुद्रतीरम् उत्तरगोवा-मण्डलस्य आकर्षणस्थलानां केन्द्रं विद्यते । इदं स्थलं परितः कैण्डोलिम-समुद्रतीरं, बागा-समुद्रतीरं च अस्ति । अतः इदं स्थलं “पर्यटकानां स्वर्गः” कथ्यते । कैलेङ्ग्यूट-समुद्रतीरे यानानि स्थापयितुं श्रेष्ठव्यवस्था वर्तते । तत्र प्रतिदिनं हट्टः भवति । हट्टे बहवः आपणाः भवन्ति । तेषु वस्त्राणि, आभूषणानि, पादत्राणानि, गोवा-राज्यस्य स्मारकाणि अल्पमूल्ये च लभ्यन्ते । कैलेङ्ग्यूट्-समुद्रतीरे शुष्कफलानि अपि मिलन्ति । कैलेङ्ग्यूट्-समुद्रतीरं जलक्रीडायै प्रसिद्धम् अस्ति । समुद्रतीरे व्यापारिकाः जलक्रीडायै बनानानौकां, जलयानं च आनयन्ति । तेषां जीवनम् एतेषु कार्येषु एव व्यतीतं भवति । कैलेङ्ग्यूट्-समुद्रतीरे “सौजा लोबो” इत्याख्यं स्थलम् अपि ख्यातम् अस्ति । इदं स्थलं केन्द्रे स्थितम् अस्ति । तत्र बसस्थानकम् अपि अस्ति । गोवा-राज्यस्य अन्येभ्यः वीक्षणीयस्थलेभ्यः कैलेङ्ग्यूट-स्थलात् यानानि प्राप्यन्ते ।

अञ्जुना-समुद्रतीरं कैण्डोलिम-समुद्रतीरात् ३ किलोमीटर्मिते दूरे स्थितम् अस्ति । अञ्जुना-समुद्रतीरे बहुमूल्यकाः भोजनालयाः सन्ति । इदं स्थलं प्राचीनतमेषु समुद्रतीरेषु अन्यतमम् अस्ति । तस्य समीपे अञ्जुना-समुद्रतीरे स्थितः कर्लीस्-नामकः भोजनालयः बहुप्रसिद्धः अस्ति । अन्येषां समुद्रतीराणाम् अपेक्षया अञ्जनासमुद्रतीरं सघनम् अस्ति । इदं स्थलं बागा-समुद्रतीरात्, कैलेङ्ग्यूट-समुद्रतीरात् च समीपे एव स्थितम् अस्ति । 

मुम्बई-गोवा इत्यस्मिन् राजमार्गे पोरवोरिम-नगरं स्थितम् अस्ति । तत्र “सलीम अली पक्षि अभयारण्यम्” अस्ति । माण्डवी-नद्याः तटे “रीस मैगोस-दुर्गः” अस्ति । तस्य दुर्गस्य नवीनीकरणम् किञ्चित्समयपूर्वमेव अभवत् । ततः नद्याः मनोहरदृश्यं दृश्यते । तस्यां नद्यां बह्व्यः नौकाः, जलयानानि च सन्ति । पोरवोरिम-नगरं बहुमूल्यकम् आवासीयक्षेत्रम् अस्ति । गोवा-राज्यस्य राजधान्याः सर्वाणि व्यावहारिककार्याणि पोरवोरिम-नगरे भवन्ति । अतः इदं नगरम् उपनगरं कथ्यते ।  

इदं स्थलम् एकम् उपनगरम् अस्ति । अस्मिन् स्थले बहवः कैस्तवदेवालयाः विद्यमानाः सन्ति । अस्मिन् नगरे “गोवा इन्स्टीट्यूट् ऑफ् मैनेजमेण्ट्” इतीयं शैक्षणिकसंस्था स्थिता अस्ति । इयं संस्था एशिया-खण्डस्य बृहत्तमः चिकित्सालयः अस्ति । इदं स्थलं माण्डोवी-नद्याः समीपे स्थितम् अस्ति । नगरमिदं बहुभिः सेतुभिः गोवा-राज्यस्य अन्यैः भागैः सह सञ्योजितम् अस्ति । तत्र हिन्दुदेवालयाः अपि बहवः विद्यन्ते ।

गोवा-राज्यस्य उत्तरभागे स्थितम् इदं माण्ड्रेम-स्थलम् । अस्य स्थलस्य वातावरणं शान्तं वर्तते । अत्र जनानां सम्मर्दः अपि न भवति । अस्मिन् समुद्रतीरे कैसुआरिना-इति वृक्षाः प्राप्यन्ते । अस्मिन् स्थले एकः लघुभोजनालयः अपि अस्ति । तस्य नाम “एण्ड् ऑफ् द वर्ल्ड्” इति । अस्मिन् भोजनालये सामुद्रिकखाद्यानि मिलन्ति । अत्र एकः पुर्तगालिकः दुर्गः अपि अस्ति । सः दुर्गः अस्य स्थलस्य आकर्षणकेन्द्रम् अस्ति ।

गोवा-राज्ये डबोलिम-विमानस्थानकं स्थितम् अस्ति । अनेन विमानस्थानकेन मुम्बई-नगरं, देहली-नगरं, तिरुवनन्तपुरं, कोच्ची-नगरं, चेन्नै-महानगरं, बेङ्गळूरु-महानगरं च गन्तुं प्रतिदिनं वायुयानानि प्राप्यन्ते । 

गोवा-राज्ये कोङ्कण-रेलस्थानकं वर्तते । ततः देहली-नगरं, मुम्बई-नगरं, मङ्गळूरु-नगरं, तिरुवनन्तपुरं च गन्तुं रेलयानानि प्राप्यन्ते । यावत् इदं कोङ्कण-रेलस्थानकं निर्मापितम् अस्ति, तावत् गोवा-राज्यं भारत-देशस्य पूर्वतटीयक्षेत्रैः सह सम्बद्धं जातम् । गोवा-राज्ये रेलयानानां गतिः अपि अधिका भवति । अपि च अस्य राज्यस्य रेलयानसेवा अपि श्रेष्ठा अस्ति । अनेन कारणेन इदं राज्यं भारते चर्चितम् अस्ति ।

गोवा-राज्ये आहत्य राष्ट्रियराजमार्गाणां दैर्घ्यं २२४ किलोमीटर्मितम् अस्ति । प्रान्तीयराजमार्गाणां दैर्घ्यं २३२ किलोमीटर्मितं च अस्ति । अपरं च मण्डलीयमार्गाणां दैर्घ्यं ८१५ किलोमीटर्मिम् अस्ति । गोवा-राज्ये सर्वत्र बसयानानि प्रचलन्ति । अतः ततः मुम्बई-महानगरं, बेङ्गलूरु-महानगरम् इतरनगराणि च गन्तुं बसयानानि प्राप्यन्ते ।




#Article 46: श्रीलङ्का (339 words)


श्रीलङ्का एशियामहाद्वीपे दक्षिणदिशि विद्यमानः कश्चन देशः । अस्य अन्यत् नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी कोलम्बो अस्ति। अस्य  देशस्य उत्तरभागे , पूर्वभागे मालदीव च स्तः । अस्मिन् देशे सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिलभाषा च अत्र प्रमुखे भाषे स्तः। लङ्कायाः उल्लेख: रामायणमहाग्रन्थे भवति। पाकजलसन्धेः मध्ये रामायणस्य कालीना रामसेतुः विद्यते इति प्रमाणितम् अस्ति ।

रामायणकाले स्वर्णलङ्का इति उल्लिखितं स्थानमेव इदानीं श्रीलङ्कादेशः अस्ति । पूर्वं रावणस्य राजधानी आसीत् । अत्र इदानीं रामायणस्य स्मारकाणि , स्थानानि, वस्तूनि सङ्गृहीतानि सन्ति । एषः प्रदेशः उष्णवलये अन्तर्भवति । अतः अत्र विशिष्टं वातवरणं द्रृष्टुं शक्यते ।
अत्र अनेके पर्वताः, जलपाताः, वनानि च सन्ति । शिल्पकला,  तान्त्रिककुशलता तृतीयशतकतः १४ शतकं यावत् अभिवृद्धिपथे आसीत् ।  श्रीलङ्कादेशे क्याण्डी, अनुराधपुरं पोलोन्नरवं प्रवासी स्थलानि सन्ति। नेगम्बोसिगिरिया, नुवार, इलियपिन्नवेल, कोलम्बो इत्यादीनि प्रेक्षणीयानि स्थाननि सन्ति ।  नेगम्बो (४१ कि.मी.) कोलम्बो समीपे डच्जनैः निर्मितं नगरमस्ति ।

अत्र दुर्गाणि नालाः (१०० कि.मी.) आकर्षकाः सन्ति । सिगरिया राजगृहं सा.श.४९५-६४७ समये निर्मितम् आकर्षकमस्ति । एतत् ग्रीष्मकालीनं राजगृहमासीत् । १२०० सोपाननि आरुह्य एतत् प्राप्तव्यम् । अतः एव संस्मरणीयः पर्वतः इति ख्यातः अस्ति । श्रीलङ्कादेशस्य अष्टमं अद्भुतमिव अस्ति शिलासमुच्चयः । सुन्दरतया शयानः सिंहः इवास्ति । क्याण्डीस्थानं कोलम्बोतः १२५ कि.मी. दूरे अस्ति । ५०० मीटर् उन्नते स्थले एतत् नगरमस्ति । पूर्वं देशस्य राजधानी आसीत् । अत्र गौतमबुद्धस्य चतुर्थशतककालीनः देवालयः अत्र अस्ति । जूलै-आगस्टमासयोः अत्र विशेषकार्यक्रमाः भवन्ति । तदा उत्सवे अलङ्कृताः गजाः, क्याण्डन् नृत्यजनाः, भेर्यादिविविधवाद्यानि यात्रायां सम्मिलितानि भवन्ति । नुवारम् इलियं प्रदेशः सागरस्तरतः अतीवोन्नते (२००० मीटर्) स्थितः गिरिधामप्रदेशः अस्ति । इतः दृश्यवीक्षणम् अतीव सन्तोषदं भवति ।कोलम्बो नगरं प्रमुखनौकानिस्थानमस्ति । अत्र वाणिज्यव्यवहाराः राजनीतिकार्याणि च प्रचलन्ति । जनाः स्नेहप्रियाः विश्रान्तिप्रियाः च सन्ति ।

कोलम्बोसागरतीरं १३४० कि.मी. दीर्घमस्ति । सुन्दरस्थलमेतत् विहारयोग्यम् । समीपे राम्बोडजलपातः अस्ति । श्रीलङ्कादेशस्य अतीवोन्नतः पर्वतः (१२४५ मीटर्) आदाम्पिक् इत्यस्ति । तत्र शिलयां बृहत्पादचिन्हानि (१६०.७५ सेण्टी मीटर्) दर्शनीयानि । बुद्धस्य पादौ इति बौद्धाः विश्वसन्ति। आडन् पादौ इति क्रैस्ताः वदन्ति । आड् स्वोच्चाटनानन्तर अत्र एकपादेन स्थितवान् इति प्रतीतिः अस्ति । श्रीलङ्कादेश विश्चसंस्या इतिहासकालिक विशिष्ट क्षेत्रेषु एक घोषितवति अस्ति ।सर्वधर्मायाः जनाः अत्र निवसन्ति । भारतस्य दक्षिणे भागे हिन्दुमहासागरे स्थित बृहतद्वीपः । 

रामेश्वरतः जलमार्गेण नौकायानगमनं शक्यम् । चेन्नैनैतः विमानयानसम्पर्कः अस्ति ।

श्रीलङ्कादेशस्य राष्ट्रियक्रीडा वालीबाल्-क्रीडा अस्ति । किन्तु अस्य देशस्य सर्वप्रसिद्धा क्रीडा क्रिकेट्-क्रीडा अस्ति ।




#Article 47: छत्तीसगढराज्यम् (1160 words)


छत्तीसगडराज्यं (Chhattisgarh) भारते स्थितं किञ्चन राज्यम् अस्ति । इदं नूतनतया निर्मितम् अस्ति । मध्यप्रदेशराज्यस्य कानिचनमण्डलानि मेलयित्वा पृथक्राज्यं सा.श.२००० तमे वर्षे नवम्बरमासस्य प्रथमदिने कृतम् । अस्मिन् राज्ये ३५ जातीयजनाः निवसन्ति । नाल्कार् बैरा, मुण्डमदिया, नाहर् इत्यादयः जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्यं, लोहोद्यमं च कुर्वन्ति । हजारीबाग् प्रपातप्रदेशे एतेषां जीवनदर्शनं कर्तुं शक्यते । अत्र प्राचीनकाले गुहासु निर्मितभित्तिचित्राणि करणपुरं, सौत् पहार्, इत्यदिषु स्थानेषु सन्ति । एतत् दृष्ट्वा इङ्ग्लैण्ड् देशस्य स्टोन् देञ्ज् स्थानस्य स्मरणं भवति । बस्तारप्रदेशः जगदलपुर् मण्डलेऽस्ति । छत्तीसगढ मध्यभारतस्य किञ्चन राज्यं भवति । मध्यप्रदेशस्य आग्नेय कोणे विद्यमानः प्रदेशः छत्तीसगढ भवति। अत्र छत्तीसगढि भाषया व्यवहरन्ति स्म जनाः।  ’२७’ मण्डलानि सन्ति छत्तीसगढ राज्ये । छत्तीसगढराज्यस्य राजधानी रायपुर भवति । भारतीय राज्येषु विस्तीर्णे अस्य राज्यस्य दशमस्थानं भवति । अस्य विस्तारः ५२,१९९ चतुरस्रमैलपरिमितं भवति । अस्य राज्यस्य वायव्ये मध्यप्रदेशः, पश्चिमे महाराष्ट्रा, दक्षिणे आन्ध्रप्रदेशः, पूर्वे ओरिस्सा, ईशान्ये झारखण्डः, उत्तरे उत्तरप्रदेशादयः सन्ति । “छत्तीस् घरी” एषा भाषा हिन्दीभाषायाः कश्चन प्रकारः। एषा भाषा अस्य राज्यस्य मुख्या भाषा अस्ति । ’द्राविडभाषया’ प्रभाविताः भाषाः प्रान्तीयाः भाषाः अपि अत्र सन्ति । छत्तीसगढमूलतः किञ्चन ग्रामीणं राज्यम् अस्ति । नगरप्रदेशे केवलं २०% प्रतिशतं जनाः वासं कुर्वन्ति । छत्तीसगढराज्यस्य अद्यतनमौल्याधारेण २००४ तमे संवत्सरे १२ बिलियन् यु एस् डालर् गृहोत्पन्नम् आसीत् इति । अस्य राज्यस्य मध्यप्रदेशात् विभागकरणानन्तरं ३०% प्रतिशतं खनिजस्य उत्पादनं कुर्वन्ति । 

अस्य राज्यस्य “छत्तीसगढ” इति नाम्ना व्यवहारः कुतः? अत्रत्याः प्राचीनाः शासकाः ३६ राज्येषु शासनं कुर्वन्ति स्म । हिन्दीभाषया छत्तीस् नाम ३६ संख्या, गढ् इत्यस्य दुर्गम् इति अर्थः । तानि राज्यानि एवं सन्ति -- रतनपूर्, विजयपूर्, खरौण्ड्, मारो, कौट्गढ, नवागढ्, सोन्दि, औखर्, पदर्भट्ट्, सेम्रिया, चम्पा, लाफा, छुरि, केण्ड, माटिन्, अपरोरा, पेण्ड्रा, कुकुटिखण्ड्रि, राजपुर्, पटान्, सिमगा, सिङ्गारपुर्, लवन्, ओमेरा, दुर्ग, सरधा, सिरसा, मेन्हदि, खल्लारि, सिर्पुर्, फिगेश्वर्, राजिम्, इन्घङ्गन् गढ, सुवर्मर्, तेङ्गान् गढ तथा अकाल्तारादि इति। 

अस्य राज्यस्य उत्तरे तथा दक्षिणे च पर्वताः सन्ति । मध्यभागस्य भूमिः सुफला तथा समतला च अस्ति । राज्यस्य ४४% प्रतिशतं भागम् अरण्येन व्यापृतम् अस्ति । राज्यस्य उत्तरभागः सिन्धु-गङ्गासमतलप्रदेशस्य शिखरभागे अस्ति । गङ्गायाः उपनदी रैहाण्ड् स्थले प्रवहति । पूर्वपश्चिमभागयोः पर्वतानाम् आवलिः, महानद्याः प्रान्तभूमेः तथा सिन्धु-गङ्गासमतलप्रदेशयोः विभागं जनयति । रज्यस्य मध्यभागः महानद्याः तथा उपनदीनां तीरेषु अस्ति । अस्मिन् प्रदेशे “व्रीहेः” फलचयः अधिकतया भवति। पश्चिमभागस्य माय्कल् पर्वतानां कारणात् महानद्याः तीरात् नर्मदातीरं पृथक्कृतं भवति । एवं पूर्वओरिसाराज्यस्य समतलप्रदेशाः पर्वतराजिभिः पृथक्कृताः दृश्यन्ते। राज्यस्य दक्षिणभागः डेकन् प्रस्थभूमौ अस्ति। एतं प्रदेशं प्रति गोदावरी तथा अस्याः उपनद्यः जलं ददति। महानदी अस्य राज्यस्य मुख्या नदी भवति। अन्यनद्यः हस्दो,रिहान्द, इन्द्रावति, जोङ्क् अर्पा च । 

इदानीन्तनेषु वर्षेषु छत्तीसगढस्य वाणिज्यस्य क्षिप्रगतिरस्ति। २००४-०५ तः २००८-०९ समये जि.डि.पि ७.३% प्रतिशतं प्रवृद्धम् । रज्यस्य ८०% प्रतिशतस्यापेक्षया अधिकाः जनाः व्यवसायमेव अवलम्बिताः सन्ति । राज्यस्य ४३% प्रतिशतं भूमिः कृषियोग्या अस्ति । अत्रत्य मुख्याः फलचयाः व्रीहिः, कलायः, लङ्गुरा, विविधधान्यानि, तैलबीजाः च सन्ति । छत्तीसगढप्रदेशं “भारतस्य अन्नपात्रम्” इति आह्वयन्ति । अस्मिन् राज्ये जलबन्धाः सन्ति । अतः जलाभावः न दृश्यते । राज्यस्य ४१.३३% प्रतिशतं भूमिः काननैः पूरिता अस्ति । छत्तीसगढराज्ये खनिजस्य समृद्धिरस्ति। अस्मिन् राज्ये भारतस्य २०% प्रतिशतं अयः वज्रचूर्णञ्च उत्पादयन्ति । ’लोहः’, ’अङ्गारः’, ’बाक्सैट्’ इत्यादयः खनिजाः अत्र अधिकतया लभ्यन्ते । भारतदेशे कांस्यम् अधिकतया अत्रैव लभ्यते । अन्यखनिजाः ’कोराण्डम्’, ’ग्र्यानेट्’, ’अमृतशिला’, ’वज्रादयः’ भवन्ति । राज्यस्य उत्तम अर्थव्यवस्थायै यन्त्रागाराणां महद्योगदानम् अस्ति । तेषु सार्वकारस्य “भिलाय्” अयसः यन्त्रागारः तथा एन् .टी.पि.सि. इत्यादयः। स्वतन्त्राः यन्त्रागाराः ’बाल्को’, ’लाफार्गे’ तथा ’जिन्दाल् स्टील्’ इत्यादयः भवन्ति ।

छत्तीसगढराज्ये १३ मण्डलानि सन्ति ।
प्रशासनसौकर्यार्थं एतानि मण्डलानि पञ्चभागेषु विभक्तानि सन्ति ।

अस्मिन् राज्ये ९५% प्रतिशतं जनाः हैन्दवाः सन्ति । परुशरामनामिवल्लभाचार्यादीनां केषाञ्चन साधूनां मूलस्थानानि अस्मिन् राज्ये सन्ति । महर्षिः महेशयोगी इति प्रख्यातः हिन्दूप्रमुखः हरिकथाकारः च आसीत् । अयं जबलपुरप्रदेशीयः आसीत् । अल्पसंख्याकाः क्रिश्चियन् जानाः सन्ति । तेलि, सत्नामि तथा कुर्मि इत्यादयः समतलप्रदेशेषु विद्यमानाः जनजातयः । अरण्यप्रदेशे विद्यमानाः जातयः गोण्ड, हल्बा, कमार् बुज्ज् तथा ओरयान् इत्यादयः भवन्ति । 

छत्तीसगढ भारतस्य हृदयभागे विद्यमानं राज्यम्। इदं राज्यं सांस्कृतिकपरम्परागतं प्रकृतिरम्यञ्च अस्ति । अस्मिन् राज्ये ’शिल्पकलामन्दिराणि’, ’पुरातनस्मारकाणि’, ’वन्यजन्तवः’, ’बौद्धधर्मसम्बद्धानि’ स्थलानि च सन्ति । एवं ’प्रासादाः’, ’जलपाताः’, ’गुहादयः’ अस्मिन् राज्ये विराजन्ते । आगतेभ्यः यात्रिकेभ्यः सन्तोषं जनयन्ति एते । “भोराम् देव्” छत्तीसगढप्रदेशस्य अत्यन्तप्राचीनदेवालयः भवति । अस्य देवालयस्य “लघु खूजुराहो” इति प्रसिद्धिरस्ति । अस्य देवालयस्य निर्माणकालः सप्तमशतकादारभ्य एकादशशतकं यावत् भवेदिति । अयं देवालयः कवार्धाद समीपे अस्ति । इतः १८ कि.मी.दूरे देवालयः विद्यते। गिरौध् पुरि सत्नामिधर्मस्य पवित्रक्षेत्रं भवति। ’सिर् पुर्’ तथा ’मल्हार्’ उभावपि ऐतिहासिके स्थले स्थः । चीनदेशस्य इतिहासकारः ’झुयान् झाङ्ग्’ उभयत्र आगतवान् आसीत् । इतः २० कि.मी. दूरे “तालारुद्र” नामकः प्रख्यातदेवालयः अस्ति । ’पालियाक्षेत्रे’ शिवस्य देवालयः अस्ति । जञ्जिगिर् क्षेत्रे विष्णोः अपूर्णः देवालयः अस्ति । खरोद् क्षेत्रे ’लक्ष्मणेश्वरस्य’ देवालयः अस्ति । शियोरिनारायण् क्षेत्रे ’श्रीरामस्य’ देवालयः अस्ति । सिङ्घ्पूर् प्रदेशे ऐतिहासिकचित्रसहिताः गुहाः सन्ति । राजिम् भगवान् क्षेत्रं “राजीवलोचन” देवालयाय प्रसिद्धमस्ति । रतन्पुरे महामायायाः देवालयः अस्ति। अत्रैव रतन्पुर्रे खुदिया जलबन्धः, खुताघाट् जलबन्धः तथा लोर्मि जलबन्धाश्च सन्ति । “अचानक् मार्” अस्य राज्यस्य प्रसिद्धं वन्यमृगसंरक्षणोद्यानम् अस्ति । “अचानक् मार्” संरक्षणोद्यानस्य ’१९७५’ तमे संवत्सरे स्थापनं कृतम् । 

छत्तीसगढराज्यं नूतनतया निर्मितम् अस्ति । २००० तमवर्षस्य नवम्बरप्रथमदिनाङ्के मध्यप्रदेशतः एतत् राज्यं पृथक् कृतमस्ति । छोटानागपूरप्रस्थभूमिप्रदेशे व्याप्तम् अस्ति । अस्मिन् राज्ये ३५ आदिवासिजनजातियाः निवसन्ति । नाल्कारु, बैरा, मुण्ड, मादिया नाहर् इत्यादि जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्याणि लोहोद्यमः इत्यादिकार्येषु निरताः सन्ति । हजारीबाग् उपत्यकासु एतेषां जीवनदर्शनं कर्तुं शक्यते । अत्र करनपुर सौत् पहार् इत्यादिस्थानेषु आदिकालतः निर्मितासु गुहासु भित्तिचित्राणि दृश्यन्ते । एतस्य दर्शनेन इङ्ग्लेण्डदेशस्य स्टोन् हेञ्जस्थानस्य स्मरणं भवति । 

बस्तरप्रदेशे जगदलपुरमण्डलम् अस्ति । निसर्गरमणीयः अयं प्रदेशः नदीभिः जलपातैः पर्वतैः युक्तः अस्ति । अत्र जनानां वस्त्रालङ्काराः जीवनशैली कार्याणि च आकर्षकाणि सन्ति । रायपुर राज्यस्य राजधानी अस्ति ।
बस्तरवनप्रदेशे नद्यः गुहाः च विशिष्टानि सन्ति । 

चित्रकूटे जलपातः अतीवसुन्दरः अस्ति । धनुराकारकं ९६ पादमितं जलपातं छत्तीसगढ्राज्यस्य नयागरा इति वदन्ति । कङ्गारराष्ट्रियोद्यानं विशालं रमणीयं च अस्ति । अत्र पादचारणं पर्वतारोहणं प्राणिवीक्षणं वर्णयुक्तानां पतङ्गानां दर्शनं च अतीव हर्षाय भवन्ति ।
पूर्वघट्टप्रदेशे एतत् धूमशकटयानं गच्छति । मार्गे ५० सुरङ्गमार्गाः निर्मिताः सन्ति । 

मैन् पाट् प्रदेशः छत्तीसगड् राजस्य ‘शिम्ला’ इति वदन्ति । बरसूरप्रदेशे स्थिताः गणेशविग्रहाः वालुकशिलाभि निर्मिताः, दन्तेश्वरी (दन्तेवाडा), विष्णुदेवालयः, च महानदी तीरस्य इतराकर्षकस्थानानि सन्ति । अमरकाण्टकम् अपि अस्य सीमायां भवति ।

निसर्गरमणीयः अयं प्रदेशः नदीजलपाः पर्वताः इत्यादिभिः युक्तः अस्ति । एवमत्र जनानां वस्त्रालङ्काराः जीवनशैली कार्याणि च आकर्षकाणि सन्ति । रायपुरराजस्य राजधानी अयम् अस्ति । बस्तारवननदी गुहाः च विशिष्टाः सन्ति । चित्रकोटेजलपातः अतीव सुन्दरः अस्ति । धनुराकाके ९६ पादमितोन्नतः जलपातः छत्तीसगडस्य नयागरा इति ख्यातः अस्ति । कङ्गारराष्ट्रीयोद्यानम् अतिविशलं रमणीयमं चास्ति । अत्र पादचारण पर्वतारोहण प्राणिवीक्षणं वर्णयुक्ताना पतङ्गानां दर्शनं च अतीव हर्षदं भवन्ति । कोटमसार कैलाष् प्रदेशस्याः गुहाः संशोधनयोग्याः इति दर्शकानाम् अभिप्रायः । इतः खनिजानि विशाखापत्तनं नियन्ते । केरन्दूलतः विशाखापत्तनं धूमशकटमार्गेण सञ्चारः अतीव रोमाञ्चकः भवति । पूर्वघट्टप्रदेशे एतत् धूमशकटयानं गच्छति । मार्गे ५० सुरङ्गाः निर्मिताः सन्ति । मैन् पाट् प्रदेशः छत्तीसगड राजस्य ‘शिम्ला’ इति वदन्ति । बरसूरप्रदेशे स्थिता गणेश विग्रहाः वालुकशिलाभि निर्मिताः ,दन्तो- वादस्य दन्तेश्चरी राजी विष्णुदेवालयः महानदी तीरस्यः इतराकर्षक स्थाननि सन्ति । अमरकाण्टक स्थलमायुत्त- म यात्रास्थलमस्ति । वाहनमार्गः रायपूरतः जगदलपुर १९५ कि.मी. । जगदलपुरतः द्न्तेवाद- ८५ कि.मी. ।

छत्तीसगडराजस्य रायगडमण्डले अनेकानि दर्शनीयानि स्थाननि सन्ति । सुन्दराणि चित्रकोटे, माण्ड्वाजलपातानि , निसर्ग रमणीयानि सन्ति । भूगर्भम् इति बहुदूरपर्यन्तं व्याप्ताः कैलासगुहाः प्रवासीजनानाम् अपूर्वम् अनदन्तं जनयति । साक्षात् दर्शनेन एव सर्व ज्ञातुं शक्यते । मार्गः - जगदल् पुरतः ४० कि.मी.दूरे अस्ति । धूमशकटमार्गः- रायघट् धूमशकटनिस्थानतः अपि वाहनसौ- कर्यमस्ति ।

रायपूरतः जगदलपुर १९५ कि.मी. । जगदलपुरतः द्न्तेवाडा ८५ कि.मी. ।

कोटम्मसारप्रदेशस्य तथा कैलासप्रदेशस्य गुहाः संशोधनयोग्याः इति दर्शकानाम् अभिप्रायः अस्ति । इतः खनिजानि विशाखपट्टनं प्रति नीयन्ते। केरन्दूलतः विशाखापत्तनधूमशकटमार्गः अतीव रोमाञ्चकारि- अनुभवं जनयति । 
छत्तीसगढराजस्य रायगढमण्डले अनेकानि दर्शनीयानि स्थानानि सन्ति । चित्रकूटे माण्ड्वा जलपाताः, निसर्गरमणीयाः च सन्ति । बहुदूरपर्यन्तं व्याप्ताः भूगर्भकैलासगुहाः प्रवासीजनानाम् अपूर्वम् अनुभवं यच्छन्ति । प्रत्यक्षं दर्शनम् एव वरम् । 

जगदलपुरतः ४० कि.मी. । 

रायगढधूमशकटनिस्थानतः अपि वाहनसौकर्यमस्ति ।
सम्‍बन्‍धित-विषया:




#Article 48: झारखण्डराज्यम् (1199 words)


झारखण्डराज्यं (Jharkhand)(हिन्दी - झारखण्ड; बङ्गला - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २०००तम वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के निर्मितम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तीसगढराज्यं , दक्षिणदिशि ओरिस्साराज्यं, पूर्वदिशि पश्चिमबङ्गालराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं राँची अस्य राजधानी । जमशेदपुर अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि नाम धनबाद , बोकारो, हजारीबाग च ।  झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः ।  अत्र अधिकतया आदिवासिजनाः निवसन्ति । राज्ये पर्वताः, प्रपाताः, जलपाताः, नद्यः, वनानि च अतीवाकर्षकाणि सन्ति । एतत्  राज्यं  Pure Pristine , Pictureque इति उक्तवन्तः सन्ति।
बेट्ला, हजारीबाग, पलामु राष्ट्रियोद्यानानि सन्ति । नेतर् हाट् पर्वतधाम अतीवं सुन्दरं प्रेक्षणीयम् स्थानमस्ति । एतत् स्थानं छोटानागपूरस्य राज्ञी इति निर्दिशन्ति  । टोप चाञ्ची , दुमका इत्यादीनि अत्रत्यविहारस्थानानि सन्ति ।

राञ्ची झारखण्डराज्यस्य राजधानी अस्ति । एतत् उन्नते प्रदेशे अस्ति इत्यतः गिरिधाम इव अस्ति । राञ्चीनगरस्य पर्वतस्य अधोभागे विशालं सरोवरम् अस्ति । राञ्चीनगरे जैनमन्दिरं, हुण्ड्रुजलपातः  (२३ कि.मी), ट्यागोर् हिल् राञ्चीजलबन्धः  इत्यादीनि दर्शनीयानि सन्ति ।

अस्मिन् नगरे (हजारीबागतः ११८ कि.मी) अयसः उद्यमः टाटामहोदयेन स्थापितः अस्ति। एतत् नगरं भारतस्य पिट्सबर्गनाम्ना निर्दिश्यते । राञ्चीप्रदेशे देवगढ् , रावणेश्वरशिवस्य मन्दिरं, राजरप्पदेवालयः, परासनाथपर्वते विद्यामानाः २४ तीर्थङ्कराणां देवालयाः, वैद्यनाथधाम, बोरामदेवालयः च दर्शनीयाः सन्ति । राञ्चीसमीपे जगन्नाथपुरीनामकं क्षेत्रम् अस्ति । पुरी इव अत्रापि रथयात्रा भवति । झारखण्डराज्यं प्रकृतिप्रियाणां साहसिकानां च अतीव प्रियं भवति । अत्र यात्रिकाणां शान्तिः सौन्दर्यम् आनन्दः च अवश्यं लभ्यते इति जनाः वदन्ति । राञ्ची नगरे वसति भोजनादिव्यवस्था कर्तु  शक्यते । झारखण्डप्रवासोद्यमनिगमः प्रवासव्यवस्थां करोति ।

राक्साल्, पाटना, गया इत्यादिनगरेभ्यः वाहनव्यवस्था अस्ति ।

गौतमकुमारबेरा, अन्ये च केचन इतिहासकाराः उल्लिखन्ति यत् मगधसाम्राज्यात् पूर्वमपि झारखण्डनामकः कश्चन भूराजनैतिकः सांस्कृतिकः समूहः आसीत् इति । तस्य पुस्तके (पृष्ठम्-३३) भविष्यपुराणस्य उल्लेखः अपि क्रियते । मुण्डराजाः इति कथ्यमानाः केचन वनवासिराजाः महत्याः कृषिभूसम्पदः स्वामिनः आसन् । मुघलसाम्राज्यावसरे झारखण्डप्रदेशः कुकरप्रदेशः इति प्रसिद्धः आसीत् ।

झारखण्डराज्यं २००० तमे वर्षे नवम्बर्मासस्य १५ दिनाङ्के सक्रियं जातम् । ततः पूर्वं पञ्चाशदधिकवर्षाणि एतन्निमित्तं जनानाम् आन्दोलनं सञ्जातम् । इदं भारतस्य २८ तमं राज्यम् । सर्वकारः तस्मिन् प्रदेशे विद्यमानानाम् आदिवासिनाम् अन्येषां च सामाजिक-आर्थिकस्थितीनां समानरीत्या संवर्धयितुम् अशक्तः जातः इत्यतः एव वनवासिनाम् एव पृथक्प्रदेशः करणीयः अभवत् ।
१९९१ तमस्य वर्षस्य जनगणतेः अनुसारम् अस्य राज्यस्य जनसङ्ख्या २,००,००,००० । एषु २८% वनवासिनः, १२% अनुसूचितजातिजनाः च विद्यन्ते । झारखण्डराज्ये २४ मण्डलानि, २१२ विभागाः, ३२,६२० ग्रामाः च विद्यन्ते । एतेषु ४५% ग्रामेषु विद्युद्व्यवस्था विद्यते । ८,४८४ ग्रामाणां मार्गसम्पर्कः विद्यते । देशे धातुसम्पदः उत्पादकेषु राज्येषु झारखण्डराज्यं द्वितीयस्थाने विद्यते (छत्तीसगढराज्यं प्रथमम्) । अयः(Iron), अङ्गारः, ताम्रम्(copper), अभ्रकम्(mica), स्फोदिजः(bauxite), कौकिलेयः(graphite), कर्करः(limestone), युरेनियम् इत्यादयः धातवः अत्र उपलभ्यन्ते । झारखण्डराज्यं स्वस्य अरण्यसम्पदः निमित्तमपि प्रसिद्धं वर्तते ।

एवं विद्यते चेदपि राज्यस्य सामान्यजनानां जीवने बहु परिवर्तनं न दृश्यते । जनाः राज्यस्य अभिवृद्धै प्रयतमानाः सन्ति, सक्रियाः दृश्यन्ते । तेषां सांस्कृतिकसम्पत्तिः समृद्धा विद्यते - विभिन्नाः भाषाः, विविधाः उत्सवाः, जनपदसङ्गीतं, नृत्यम् अन्याः साम्प्रदायिक्यः कलाः ।

झारखण्डराज्ये २४ मण्डलानि सन्ति ।

राज्यस्य महान् भागः छोटा-नागपुर-शैलप्रस्थभूमौ विद्यते यः कोयल्, दामोदर्, ब्राह्मणि, खार्कै, सुबर्नरेखा इत्येतासां नदीनां स्रोतः वर्तते । बहु भागः अरण्यप्रदेशः इत्यतः व्याघ्राः गजाश्च अधिकसङ्ख्याकाः सन्ति । 
झार्खण्डराज्यस्य मृत्तिकासु महान् भागः महाशिला-शिलाखण्डानां विघटनेन उत्पन्नः अस्ति । मृत्तिकाः एवं विभक्ताः सन्ति -

सस्यसम्पत्तिः प्राणिसम्पत्तिश्च अस्मिन् राज्ये समृद्धा अस्ति । अत्र विद्यमानेषु राष्ट्रियोद्यानेषु सस्योद्यानेषु च वैविध्यता दृश्यते । 
लतेहर्मण्डले विद्यमानं २५० चतरस्र कि मी विस्तारयुतं बेट्लाराष्ट्रियोद्यानं बर्वाडितः ८ कि मी दूरे विद्यते । अस्मिन् व्याघ्राः, गवलाः(वनमहिषाः), हरिणाः, वनसूकराः, अजगराः, चित्रहरिणाः, शशाः इत्यादयः विद्यन्ते । सस्तनिजातिप्राणिनः - विविधाः वानराः, नीलवृषभाः, अरण्यसूकराश्च । १९७४ तमे वर्षे इदम् उद्यानं व्याघ्ररक्षणप्रकल्पत्वेन घोषितम् ।

एतादृशमेव अन्यदेकं हजारीबाग्-वैल्ड्लैफ्-साङ्क्चुरि-नामकम् उद्यानं राञ्चितः १३५ कि मी दूरे प्राकृतिकसौन्दर्येण युक्तं वर्तते । 
बोकारो-स्टील्-नगरे विद्यमानं जवहरलाल्-सस्यशास्त्रीयोद्यानं झारखण्डराज्ये विद्यमानं बृहत्तमं सस्यशास्त्रीयोद्यानम् । २०० एकर्मिते विस्तारयुते अस्मिन् उद्याने बहु विधाः प्राणिनः पक्षिणश्च विद्यन्ते । अत्र कृतकजलोद्यानं, नौकाविहारः च विद्यते । बिर्सा मुण्डा जैविकोद्यानं राञ्चीतः १६ कि मी दूरे विद्यते । अत्र अधिकाः सस्तनिप्राणिनः विद्यन्ते ।

झारखण्डराज्यस्य जनसङ्ख्या ३,२९,६०,००० - पुरुषाः - १,६९,३०,००० महिलाः - १,६०,३०,००० । लिङ्गानुपातः ९४७ महिलाः : १००० पुरुषाः । जनसङ्ख्यायां २८% वनवासिनः, १२% अनुसूचितावल्यां विद्यमानाः, ६०% अन्ये च । राज्यस्य जनसङ्ख्यानिबिडता अस्ति - चतरस्रकिलोमीटर्मितायां भूमौ ४१३ जनाः । इयं परिवर्तते - गुम्लामण्डले चतरस्रकिलोमीटर्मितायां भूमौ १४८ जनाः (कनिष्ठम्) धान्बाद्मण्डले चतरस्रकिलोमीटर्मितायां भूमौ ११६७ जनाः । जनगणनाविवरणं दर्शयति यत् क्रमशः राज्ये वनवासिनां सङ्ख्या न्यूना जायमाना अस्ति, वनवासिभिन्नानां सङ्ख्या वर्धमाना अस्ति इति । वनवासिनां जननप्रमाणस्य अल्पता, मरणप्रमाणस्य आधिक्यम्, अन्येषाम् अत्र आप्रवासः, इतः वनवासिनां देशान्तराधिवासनम्, औद्योगिकीकरणस्य दुष्परिणामाः, नगरीकरण्म् इत्यादयः अस्य हेतवः । वनवासिनः वदन्ति यत् विवरणमिदं न युक्तम्, वयमेव अधिकसङ्ख्याकाः स्मः इति । स्वातन्त्रप्राप्तेः अनन्तरं देशस्य प्रगत्यर्थं कृतायाः योजनायाः द्वारा एव झारखण्डराज्यस्य जनसङ्ख्यायां महत् परिवर्तनं दृष्टमित्येषः विपर्यासः एव । १९५१ तमात् वर्षात् केन्द्रजल-आयोगेन ९० मुख्याः जलबन्धाः, ४०० सामान्यजलबन्धाः, ११,८७८ लघुबन्धाः च निर्मिताः । ७९ मुख्यानि औद्योगिककेन्द्राणि कार्यागाराश्च निर्मिताः । एताभिः निर्माणयोजनाभिः औपचरिक-आर्थिकतावलम्बिनां लाभः जातः । किन्तु अनौपचारिक-आर्थिकतावलम्बिनां प्राकृतिकसम्पत्त्यैकावलम्बिनां वनवासिनां जीविकायै महती विपत्तिः आपतिता ।  ३० लक्षजनाः एतासां योजनानां कारणतः स्थानान्तरिताः अभवन् । तेषु ९०% जनाः आसन् वनवासिनः ।

वनवासिषु अधिकांशाः जगदात्मवादस्य सर्णामतस्य अनुयायिनः । इदं मतं हिन्दु-क्रैस्त-यवनमतभिन्नं किञ्चन मतम् । मुण्डरिभाषायां 'सर्णा'इत्यस्य अर्थः 'पवित्रा वनिका' इति । 'सिङ्ग बोङ्ग'नामके विशेषचैतन्ये एतेषां विशेषश्रद्धा । इदं जगत् असङ्ख्यानां विविधविधानां चैतन्यजीविनां वासस्थानम् इति तेषां विश्वासः । एते तैः चेतनैः सह समीपसाङ्गत्येन एव सर्वम् आचरन्ति । सर्णा इति कथ्यमानस्य 'साल् ट्री' (इज्जलवृक्षस्य) अधः एव धार्मिकविधीन् आचरन्ति यत्र 'बोङ्ग' प्रत्यक्षः भवति इति विश्वस्यते ।  वनवासिनां पुराणकथानुसारं सर्णामतस्य उगमः एवं जातः - कदाचित् मृगयार्थं वनं प्रति गताः वनवासिनः वृक्षस्य अधः विश्रामसुखम् अनुभवन्तः चर्चाम् आरब्धवन्तः - 'अस्माकं सृष्टिकर्ता रक्षकः कः ?' इति । सूर्यः वा ? वायुः वा ? मेघः वा ? अन्ते तैः निर्णीतं यत् बाणं प्रमुञ्चामः, तस्य लक्ष्यीभूतं यद् भवति स एव देवस्य निवासः इति । तथैव आकाशं प्रति तैः बाणः प्रमुक्तः । सः इज्जलवृक्षस्य अधः अपतत् । ततः ते इज्जलवनिकायां सिङ्गबोङ्गस्य आराधनाम् आरब्धवन्तः । 'साल्ट्री'तः निष्पन्नम् इत्यतः 'सर्णा' इति नाम । एवं सर्णामतम् अस्तित्वं प्राप्नोत् । तस्मिन् 'नैके' 'कुडम् नैके' इति कथ्यमानाः अर्चकाः सहार्चकाः च भवन्ति सर्वेषु सन्थाल्ग्रामेषु । 'पहानाः' भवन्ति मुण्डाग्रामेषु । बहवः हिन्दवः विश्वसन्ति यत् इदमपि हिन्दुधर्मे साम्यं भजते यतः हिन्दुधर्मे अपि वृक्षस्य पूजा प्रचलति इति । अपि च तैः आचर्यमाणः 'कर्म'पर्व कर्म-एकादश्यां (भाद्रपदशुक्ल-एकादशी), 'सर्हुल्'पर्व चैत्रशुक्लतृतीयायां भवति सर्वदा हिन्दुपञ्चागानुसारम् । किन्तु वनवासिषु अधिकांशाः इदम् अर्थहीनं मन्यन्ते यतः तेषु हिन्दुवर्णव्यवस्था (ब्राह्मण-क्षत्रिय-वैश्य-शू्द्रादि) न विद्यते । केचन आदिवासिनः आग्रहम् अकुर्वन् यत् भारतस्य जनगणनायां तेषां धर्मः पार्थक्येन उल्लेखनीयः इति । २०११ तमस्य वर्षस्य जनवरिमासस्य १-२ दिनाङ्कयोः अखिलभारतीय-आदिवासिसम्मेलनम् आयोजितम् आसीत् पश्चिमवङ्गे असन्सोल्मण्डलस्थे बर्नपुरे । अस्मिन् ७५० प्रतिनिधयः भागम् अवहन् । तैः कृतस्य मतदानस्य विवरणम् एवमस्ति - सारि धोरोम् - ६३२, सर्णा - ५१, खेर्वालिस्म् - १४, अन्ये धर्माः - ३ । झारखण्डे ३२ वनवासिगणाः सन्ति । ते असुर्, बैगा, बञ्जार, बथुडि, बेडिया, बिञ्जिया, बिर्होर्, बिर्जिय, खेरो, चिक्-बारिक्, गोन्द्, गोरैट्, हो, कार्मलि, खरिय, खार्वार्, खोन्द्, किसान्, कोरा, कोर्वा, लोह्रा, माह्लि, माल्-पहारिय, मुण्ड, ओरान्, पर्हाय, सन्ताल्, सौरिय-पहारिय, सवर्, भुम्जि, कोल्, कान्वार् च । झारखण्डराज्यस्य केषुचित् मण्डलेषु वनवासिनः एव अधिकसङ्ख्याकाः ।

राज्यभाषा हिन्दी चेदपि जनाः बहुभिः भाषाभिः व्यवहरन्ति याः गणत्रये योजयितुं शक्याः - मुण्डाभाषाः - सन्ताली, मुन्दरि, हो, खरिय, भूम्जिभाषा च । इण्डो-आर्यन्-भाषाः - बङ्गाली, ओरिया, कोसली, मैथिली, नागपुरी, सद्रि, खोर्थ, कुर्मलि, पञ्चपरगणियभाषा च । द्रविडियन्भाषाः - ओरान् (कुरुख्), कोर्वा, पहारिय (माल्टो)भाषा च । सेन्तालि, मुण्डरि, हो भाषाः च सहोदर्यः इति कथयितुं शक्यं यतः ८०%-९०% तासां व्याकरणं समानम् अस्ति ।

वनवासिबहुलराज्यम् इत्यतः अत्रत्यजीवने संस्कृतौ च प्रकृतेः कृते प्रथमं प्राशस्त्यम् । पवित्रवृक्षाणां शाखाः आनीय धार्मिकविधिपूर्वकं प्राङ्गणेषु आरोप्यन्ते । भक्ताः एताः वृक्षशाखाः सम्बद्धाः देवताः च पूजयन्ति । कर्मपूजा, जिटियपूजा, सर्हुल् - इत्यादयः प्रचलन्ति अत्र । पश्चिमवङ्गस्य प्रतिवेशिराज्यम् इत्यतः दुर्गापूजा कालीपूजा च भक्त्या अमितोत्साहेन च आचर्यते । पौषमेला, तुसुमेला च मकरसङ्क्रान्त्यवसरे आचर्यते । सालङ्कृताः जनपददेवताः जनैः नीयन्ते । अयं कृष्युत्सवः इव । तुसु इत्येतद् जनानां विश्वासरूपः उत्सवः, कस्याश्चित् वनवासिलघुबालिकायाः विषयकः देवतासम्बद्धः न । नूतनफलोदयकाले वैभवेन आचर्यते । सर्वे वनवासिनः अस्मिन् पर्वणि आनन्देन भागं वहन्ति ।

सम्बद्धा: विषया: 




#Article 49: देहली (1203 words)


दिल्ली अथवा देहली (Delhi) भारतस्य राजधानी अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी प्राचीनकाले हस्तिनापुरम् इति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्ग्लानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधानीपदमलङ्करोति ।
भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् अस्ति । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य नगरस्य सहस्रवर्षस्य इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयानां च राजधानीति प्रसिद्धमेतत्  । हिन्दु-मुसलमान्-मोगल इत्यादि वंशीयाः अत्र प्रशासनं कृतवन्तः । आङ्ग्लाः अपि क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा क्रिस्ताब्दस्य १९४७ पर्यन्तं प्रशासनं कृतवन्तः ।  स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेकानि वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनाकारः आसीत् ।

भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य सहस्रवर्षाणाम् इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयाना च राजधानीति अपि आसीत् । हिन्दुमुसलमानमोगलेत्यदयः वंशीयाः अत्र प्रशासनम् अकुर्वन् । आङ्ग्लाः अपि सा.श.१९११ तले काले देहलीनगरं राजधानीं कृत्वा सा.श.१९४७ पर्यन्तं प्रशासनम् अकुर्वन् । स्वातन्त्र्यप्राप्तेः अनन्तरकाले अद्यापि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशाना महाद्वारमिवास्ति । राजनीतिकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च । अत्र अनेक वास्तुशिल्पान्वितभवनानि सा.श.१९३०तमसमये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनकारः आसीत् ।

देहलीनगरं विश्वस्य प्राचीननगरेषु अन्यतमम् अस्ति । पूर्वं हिन्दुराजः अनङ्गपालः क्रिस्ताब्दे १०६० तमे वर्षे 'लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वाणः तस्य अभिवृद्धिकार्यं कृतवान् । अनन्तरं कुतुबुद्दीन् ऐबक् कुतुब् मिनार्भवनं कारितवान् । मोगलवंशीयः बाबरः अत्रैव साम्राज्यम् आरब्धवान् । आङ्ग्लाः क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा प्रशासनम् आरब्धवन्तः ।
पूर्वं पुराणानुसारं कौरवाः हस्तिनावतीनगरे (प्राचीनदिल्लीभागः) , पाण्डवाः इन्द्रप्रस्थनगरे (पुरानाकिलाभागे) प्रशासनं कुर्वन्ति स्म ।
देहली नगर विश्वे एव प्राचीन नगरेष्वेकं अस्ति । पूर्व हिन्दुराजा अनङ्गपालः क्रिस्ताब्दे १०६० समेय 'लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वण महोदयः अभिवृद्धि कार्य कृतवान् । अनन्तर कुतुब्हीन् ऐबक् कुतुब् मीनार शिल्पं कारितवान् । मोगलवंशीयः बाबरःअत्रैव साम्राज्य आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहली नगर राजधानी कृत्वा प्रशासन आरब्धवन्तः । पूर्वं पुराजानुसार कौरवाः हस्तिनावति नगरे प्राचीनदिल्लीभागः, पाण्डवाः इन्द्रप्रस्थ नगरे पुरा- नकिल्प भागे प्रशासन कृतवन्तः । देहली महानगरस्य विस्तीर्णं ५०० व.कि.मी. अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् एप्रिल् मे जून् च मासेषु अतीवोष्णं नवम्बर् डिसेम्बर जनवरी च मासेषु अतीव शैत्यं भवति । भारतस्य सर्वराज्यानां राजधानिभिः वाहनसम्पर्कः धूमशकटयानस्य सम्पर्कः विमानस्य सम्पर्कः च सन्ति ।

राष्ट्रपतिभवनं भारतदेशस्य राष्ट्रपतेः अधिकृतं निवासस्थानमेतत् । क्रिस्ताब्दे १९२९ तमे वर्षे अस्य निर्माणम् अभवत् । १३० हेक्टरप्रदेशे व्याप्तम्, राष्ट्रपतिभवनं परितः  'मोगल् गार्डन्’ उद्यानवनम् अस्ति । अतीव सुन्दरम् उद्यानवनम् एतत् । प्रवेशार्थम् अवसरः न भवति ।  राष्ट्रपतिभवने ३४० प्रकोष्ठाः सन्ति । मध्ये स्तूपः इव १७७ पादोन्नतं भव्यं अर्धगोलाकारिका छदिः(गुम्बज़्) अस्ति । भवने चत्वारः भागाः सन्ति । दर्बारहाल्, वाचनालयः, सभाभवनं, स्नानगृहं भोजनगृहं च । एतानि सर्वाणि उत्तमरीत्या निर्मितानि सन्ति । राष्ट्रपतिभवनं परितः मोगल् गार्डन् रम्यम् उद्यानम् अस्ति । 'A Paradise on Earth', 'A garden of beauty' इति प्रसिद्धम् । सर्वे राष्ट्रपतयः पूर्वतोऽपि अभिवृद्धिं कृत्वा उत्तमोत्तमं कृतवन्तः सन्ति । एतदर्थं देशविदेशेभ्यः विविधानि सस्यानि आनीतानि सन्ति ।  पाटलपुष्पसस्यानां द्विशताधिकभेदाः अत्र द्रृष्टुं शक्यन्ते । अनेन साकं बोगन् विल्ला, डेलिया, हैसिन्त् , हेलिगोनिया , डापोडिल्स् , आर्किड् , स्वीट् विलियम् मेरीगोल्ड् जपाकुसुमम् इत्यादीनि अपूर्वाणि सन्ति । एतानि मारिषस् पेरु ब्रेज़िल्, ईशान्यराज्यानि, हैदराबाद् कोच्ची इत्यादिप्रदेशेभ्यः आनीतानि  ।
अत्र मयूराः बकाः मृगाः कदम्बाः इतस्ततः सञ्चरन्ति । जलोत्सांसि सन्ति । दीपलङ्कारः उत्तमतया कृतः अस्ति । सायङ्काले दीपलङ्कारः उद्यानवनसौन्दर्यं वर्धयति ।
४२८ जनाः उद्यानरक्षकाः वाटिकापालकाः अत्र कार्यं कुर्वन्ति । सार्वजनिकानां फेब्रुवरीमार्चमासयोः प्रवेशावकाशः अस्ति ।

कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । देहल्यां स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत् । अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः कुतबुद्दीन् ऐबकः। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भवनस्य औन्नत्यं वर्धितवन्तः। कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् 'अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति । अल्लावुद्दीन्खिल्जिः सङ्कल्पितवान् आसीत् यत् 'अमैमिनार्’ निर्मातव्यम् इति, यच्च औन्नत्येन कुतुबमिनारस्य अपेक्षया द्विगुणितं स्यात् इति । किन्तु तस्य मरणात् निर्माणकार्यम् अर्धे एव स्थगितं जातम् ।२४.५ मीटरुन्नतः प्रथमः अट्टः निष्प्रयोजकः जातः अस्ति ।

देहलीनगरे स्थितं रक्तदुर्गं (लालकिला) रक्तवालुकाशिलाभिः निर्मितः भवनविशेषः अस्ति । अस्य दैर्घ्यं २ कि.मी. अस्ति । उन्नतिः समाना नास्ति । नद्याः समीपे २८ मीटर् उन्नतं , नगरभागे ३३ मीटर् उन्नतम् अस्ति । देहली चक्रवर्ती षाहजहान् क्रिस्ताब्दे १६३८ तमे वर्षे एतस्य दुर्गस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १६४८ तमे वर्षे निर्माणकार्यं समाप्तम् अभवत् । लाहोर् गेट् तः प्रवेशः अस्ति । अत्र दिवान्-ए-आम् , दिवान् ए खास् , मोतिमस्जिद् , रङ्गमहल् इत्यादीनि सन्ति । प्रतिदिनम् सायङ्काले Sound and light show आङ्ग्लहिन्दिभाषयोः व्याख्यानसहितम् भवति । अन्तः आपणानां  पाङ्क्तिः अस्ति । हस्तशिल्पवस्तूनि अत्र प्राप्तुं शक्यन्ते ।  दिवान् -ए- खास् राज्ञां स्वकीयं स्थानमासीत् । खास् महल् चक्रवर्तिनां निवासः, रङ्गमहलराज्ञीनां वासस्थानं, दिवान् आम् दर्बार सभाङ्गणमासीत् । अत्र उष्णजलशीतजलस्नानगृहाणि सन्ति । शीशमहल् प्रेक्षणीयमस्ति । मोगलशैल्याः शिल्पदर्शनाय एतदुत्तमं स्थलमस्ति । स्वातन्त्र्यानन्तरं प्रतिवर्षम् आगस्टमासस्य १५ दिने प्रातःकाले अत्र प्रवेशद्वारस्य उपरि स्थिते विशेषस्थले भारतस्य प्रधानमन्त्री ध्वजारोहणं कृत्वा जनान् सम्बोधयति । शुभाशयं च यच्छति ।

फेरिक्वीन् – हेरिटेज् धूमशकटम् - देहलीनगरे स्थितः राष्ट्रियधूमशकटसङ्ग्रहालयः अवश्यं दर्शनीयः अस्ति । अत्र फेरिक्वीन् धूमशकटः १४२ वर्षप्राचीनः अस्ति । अस्य चालनयन्त्रं बाष्पेन चालनीयम् अस्ति । अस्य प्रकोष्ठाः वायुनियन्त्रिताः उत्तमासनयुक्ताः च सन्ति । अन्तस्तात् प्रकृतिदर्शनम् अतीव सुन्दरं भवति । अन्तः सुन्दरतया अलङ्कृताः विभागाः सन्ति ।
अस्य वेगः प्रतिघण्टं ४० कि.मी. अस्ति । अस्य गिन्निस् पुस्तके नाम प्रवेशः जातः अस्ति । राष्ट्रियप्रवासनिगमस्य पारितोषकमपि प्राप्तम् अस्ति । एकदा एतत् यानं कर्णाटकम् आगतम् आसीत् । मेहरौली, कुतुब् मिनार् समीपे एतस्य स्थानम् अस्ति।

देहलीनगरे जयपूरस्य मिर्जाराजेन जयसिंहेन निर्मितः ग्रहतारावीक्षणालयः १६ शतके स्थापितः अस्ति । अत्र सूर्यचक्रम् अथवा साम्राटयन्त्रम् अतीव गमनार्हम् अस्ति ।

संसत् भवनम् वृत्ताकारकं भवनमस्ति । अत्र भारतसर्वकारस्य लोकसभाराज्यसभेत्यादि प्रशासनिकसभास्थानानि सन्ति । एतत् क्रिस्ताब्दे १९२७ तमे वर्षे निर्मितम् अस्ति । अस्य भवनस्य व्यासः १७२ मीटर् अस्ति ।

कुतुब् मिनार् इत्य्स्य प्राङ्गणे कश्चित् ऐतिहासिकः स्तम्भः अस्ति यं द्रृष्ट्वा प्रासिनः विस्मिताः भवन्ति । अयसः एषः चतुर्थशतके राजाचन्द्रवर्मणा निर्मितः। स्कन्धगुप्तराजस्य कालिकः एषः शिल्पविशेषः अधुनापि अयस्किट्टरहितः सूर्यप्रकाशेन विराजते । अत्र स्तम्भे संस्कृतश्लोकाः लिखिताः सन्ति । एषः स्तम्भः स्थिरः दृढः गोलिकाप्रहारेणापि न शैथिल्यम् आप्नोत् । स्तम्भनिर्माणकौशलं दृष्ट्वा तत्कालीनं लोहकार्यनैपुण्यं ज्ञातुं चर्चितुं च शक्यते । कन्निङ्ग् ह्याम् इत्यस्य वचनानुगुणं एषः स्तम्भः अतीव विस्मयकारी लोहविद्यादर्शकः निर्माणं कुतूहलकारकं च अस्ति ।

देहलीनगरे अनेक मुस्लिमराजानां म्रुतस्मारकाणि सन्ति । तत्र मोगलशैलीयवास्तुशिल्पानि रचितानि सन्ति । लोधिवंशीयानां स्मारकाणि, मोगलवंशीयानां स्मारकाणि च विशाले प्राङ्गणे सन्ति । शेरषहमहोदयेन निर्मितं दुर्गं पर्वतप्रदेशे अस्ति । एतत् पुरानाकिला इत्यपि कथयन्ति । अत्र समीपे क्श्चन मृगालयः अस्ति । अत्र धूसरभल्लूकाः श्वेततव्याघ्रः, श्वेतमयूरः, एमु, इत्यादीनि प्राणिसङ्कुलानि सन्ति । 
राजघाट् प्रदेशे विशाले उद्याने महात्मा गान्धिः जवाहरलालनेहरुः लालबहादुरशास्त्री श्रीमती इन्दिरागान्धिः इत्येतेषां स्मारकाणि सन्ति ।
बिर्लामन्दिरम् इति ख्यातं श्रीलक्ष्मीनारायणमन्दिरम् अतीव सुन्दरम् कलायुक्तं  चास्ति । अक्षरधामदेवालयसङ्कीर्णम् अतीव सुन्दरम् अस्ति । अत्र सायङ्काले दीपालङ्कारयुक्तः जलोत्सवः विशेषतया द्रष्टव्यः अस्ति ।
देहलीनगरे बोटक्ललब्, लोधी-उद्यानं, रोषनारा-उद्यानं, नेहरु-उद्यानं, डीरपार्क्, बुद्धजयन्ती पार्क् इत्यादीनि सुन्दराणि उद्यानानि सन्ति ।
देहलीनगरे अनेके वस्तुसङ्ग्रहालयाः सन्ति । तेषु क्राफट् म्यूसियम्, न्याशनल् म्यूसियम्, नेहरूस्मारक म्यूसियं, रेड् फोर्ट् म्यूसियम् इत्यादीनि प्रसिद्धानि सन्ति । 
यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् रक्तदुर्गं, कुतुब् मिनार्, जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं, तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते ।
सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।
दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव ।
देहलीमहानगरस्य विस्तीर्णं १५०० चतुरस्रकिलोमीटर् अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् अस्ति । एप्रिल-मे-जूनमासेषु अतीवोष्णता, नवम्बर् डिसेम्बरजनवरीमासेषु अतीव शैत्यं भवति। भारतस्य सर्वराज्यानां राजधानीभ्यः वाहनसम्पर्कः, धूमशकटयानसम्पर्कः, विमानसम्पर्कः च सन्ति ।




#Article 50: पश्चिमवङ्गराज्यम् (1438 words)


पश्चिमबङ्ग (পশ্চিম বঙ্গ) भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् अस्‍ति । अस्य राजधानी - (कलिकाता)कोलकाता । अत्रत्या जनसङ्ख्या  - ९,१०,००,००० अस्ति । बहुजनसङ्ख्यायुक्तेषु राज्येषु इदं चतुर्थस्थाने विद्यते । अस्य विस्तारः ३४,२६७ चतुरस्र कि मी मितः अस्ति । एतत् राज्यं परितः नेपालम्, भूटान्, बाङ्गलादेशः विद्यन्ते । उत्कल/उड़ीसा, झारखण्ड, बिहार्, सिक्किम्, असमराज्यानि च परितः विद्यन्ते । अस्य राज्यस्य दक्षिणपार्श्वे गङ्गातीरप्रदेशः, उत्तरदिशि हिमालयपर्वतप्रदेशश्च विद्यते ।

३ शतके बङ्ग राज्यस्य महान् भागः चक्रवर्तिना अशोकेन जितः आसीत् । ४ शतके अयं भागः गुप्तसाम्राज्येन वशीकृता । १८ शतके ब्रिटिश्जनानां शासनस्य आरम्भपर्यन्तम् इदं राज्यं बहुभिः सुल्तानपदवाचैः, समर्थहिन्दुराजैश्च शासितम् । १७५७ तमे वर्षे जाते प्लास्सीसङ्ग्रामस्य अनन्तरम् अयं प्रदेशः ब्रिटिश्-ईस्ट्-इण्डियासंस्थया वशीकृतः । तेषां राजधानीत्वेन  कलिकाता(कोलकाता)नगरम् आसीत् । ब्रिटिश्जनानां सुदीर्घशासनस्य कारणतः पाश्चात्यशिक्षणं, वैज्ञानिकप्रगतिः, सांस्थिकशिक्षणं, धर्मस्य सामाजिकपरिवर्तनं च जातम् । ततः -बाङ्गला -नवोदयःजातः । १९४७ तमे वर्षे स्वातन्त्र्यसङ्ग्रामस्य अनन्तरम् इदं राज्यं द्विधा विभक्तम् - भारतस्य राज्यं पश्चिमबङ्ग, पूर्वबङ्ग यच्च आदौ पाकिस्थानस्य भागः आसीत् । १९७१ तमे वर्षे बाङ्गलादेशस्य भागः जातः ।

कृषिप्रधानराज्यमिदं भारतस्य गृहोत्पादने षष्ठे स्थाने विद्यते । दशकत्रयात् साम्यवादिसर्वकारः राज्यं शास्ति । कलिकाता(कोलकाता) भारतस्य 'सांस्कृतिकराजधानी' इति प्रसिद्धा । नोबेल्प्रशस्तिविजेता विश्वकवि रवीन्द्रनाथठाक्कुरः अत्रत्यः । सङ्गीतज्ञाः चित्रनिर्मापकाः कलाविदश्च बहवः विद्यन्ते अत्र । क्रिकेट्-सासर्-क्रीडाश्च अत्र आधिक्येन दृश्यते ।

'बेङ्गोल / बाङ्गाला' इत्येतस्य शब्दस्य मूलम् अज्ञातम् । अयं शब्दः वङ्ग, बङ्गनामकात् पुरातनसाम्राज्यात् प्राप्तं स्यात् इति ऊह्यते । केषुचित् संस्कृतसाहित्येषु इदं नाम श्रूयते ।

पुरातत्वशोधकैः २०,००० वर्षेभ्यः पूर्वतनस्य शिलायुगस्य उपकरणानि प्राप्तानि सन्ति । अस्य प्रदेशस्य सभ्यतायाः विषये ४००० वर्षेभ्यः पूर्वतनः उल्लेखः दृश्यते -द्राविडः, टिबेटो-बार्मान्, अस्ट्रो-एशियाटिक्जनाः यदा अत्र निवसन्ति स्म तदानीन्तनं विवरणम् । आर्यजातिः आनुमानिक २५०० ख्रिस्टपूर्वाब्दे अत्र प्रवेशतिस्म | पौराणिक-उल्लेखानुगुणं वङ्गसाम्राज्यस्य भागः आसीत् अयं प्रदेशः । क्रि पू ७ शतके बिहार-बङ्गप्रदेशान् संयोज्य मगधसाम्राज्यं निर्मितम् आसीत् । महावीर-बुद्धयोः काले विद्यमानेषु चतुर्षु महासाम्राज्येषु इदम् अन्यतमं वर्तते । क्रि पू ३ शतके मौर्यसाम्राज्यस्य अशोकस्य काले मगधसाम्राज्यं बहु विस्तृतम् आसीत् । आफघानिस्थान-पार्शियाभागाः च मगधसाम्राज्ये योजिताः सन्ति ।

पुरातनग्रीक्जनैः कृतः अस्य प्रदेशस्य उल्लेखः क्रि पू १०० वर्षे उपलभ्यते - 'गङ्गारिदै' इति । इदं पदं बे ङ्गा ल स्य 'गङ्गाहृद्' इत्यस्मात् स्यात् इति भाति । बङ्गस्य सुवर्णभूम्या (बार्मा/ब्रह्मदेश, अधः थाइल्यान्ड्/ श्यामदेश्, अधः मालय्-उपद्वीप्, सुमात्रा) सह वाणिज्यसम्पर्कः आसीत् । महावंशस्य अनुगुणं वङ्गराजकुमारः विजयसिंहः लङ्कां जित्वा 'सिंहल'इति नामाङ्कनम् अकरोत् । 

३ शतकात् ६ शतकपर्यन्तं मगधसाम्राज्यं गुप्तैः शास्यते स्म । प्रथमः स्वतन्त्रशासकः आसीत् शशाङ्कः (७ शतकम्) । अग्रिम ४०० वर्षाणि यावत् बौद्ध-पालवंशेन शासनं कृतम् । ततः किञ्चित् कालं यावत् हिन्दु-सेनावंशेन शासनं कृतम् । १२ शतके सूफिप्रचारकाणाम् आगमनेन बङ्गः इस्लाम्-मतस्य प्रवेशः जातः ।

पश्चिमबङ्गलराज्ये १९ मण्डलानि सन्ति । 

सम्‍बद्धा:-विषया:

कलकाता भारतदेशे स्थितेषु महानगरेष्बेकमस्ति । अस्य ३०० वर्षाणाम् इतिहासः अस्ति । पूर्वदेशानां द्वारमिवास्ति एतत् कलकातानगरम् । एतन्नगरं पूर्वं भारतस्य राजधानी आसीत् । अत्र यात्रिकैः दर्शनीयानि अनेकानि स्थलानि सन्ति। एतन्नगरं वर्तमानकाले भारतवर्षस्य बृहत्तमं महानगरम् ।

एतत् भारतदेशे एव अत्यधिकविभागपूर्ण धूमशकटनिस्थानमस्ति । असङ्ख्याः जनाः अत्र गमनागमनं कुर्वन्ति ।

हूग्लीनद्याः पारगमनाय सा.श.१९४३ तमे वर्षे एव निर्मितः रबीन्द्रसेतुः विविधकारणेन अत्यहभुतः अस्ति । तान्त्रिककुशलतायाः स्थानमस्ति । अस्य दीर्घता १५०० पादमिता विस्तारः ७१ पादमितः च स्तः । २७० पादोन्नते स्थले सेतुः निर्मितः अस्ति । अत्र वाहनसञ्चारार्थम् अष्टमार्गाः सन्ति । पादचारिणां कृत एव पादचरिमार्गौ स्तः । 

नवीनः सेतुः विद्यासागर सेतुः । अयं १५२ अयसः बृहत्ताराणाम् आधारेण स्थितः । एषः सेतुः सुदृढः ८५ सहस्रजनानां भारन् वोढु समर्थः अस्ति । कोलकोता नगरे विद्यमानाना भवनेषु आङ्ग्लानां शैल्याः प्रभावः अस्ति । फेञ्जवातायनानि, वेनिषियन् ब्लौण्ड्स् वृत्ताकाराणि सोपानानि, अत्र भवनेषु दृश्यन्ते । प्रमुखमार्गोणाम नामानि अपि आङ्गलनामानि सन्ति । कानिचन नामानि उदानी परिवर्तितानि सन्ति । शतशः शिलामूर्तयः विक्टोरियासामरकस्य समीपे सङ्गृहीताः सन्ति । एत विक्टोरियन् इति वदन्ति विक्टोरिया स्मारकभवनं प्राचीनवस्तुसङ्ग्रहालयः इति प्रसिध्दम् । एषः सङ्ग्रहालयः सा.श.१९२१ तमे वर्षे आरब्धः। नगरे रौत्नहाल हैकोर्ट इण्डियाम्यूसिय इत्यादि आकर्षकाणि सन्ति । 

सा.श.१७८६ तमे वर्षे स्थापितम् एतदुद्यानं १०८ हेक्तर् प्रदेशे विस्तारयुक्तमस्ति । अत्र ३० सहस्राधिकाः सस्यभेदाः सन्ति २५० वर्षप्राचीनं ९५ चतुरस्रमीटर् विस्तृतः प्रसिध्दः बटवृक्षः २६ मीटर् उन्नतः च अस्ति । अस्य परिधिः१२०० पादमिता एतत् सस्योद्यानं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । सस्योद्यानं सन्दृष्टुं प्रातः ९ वादनतः सायं ६ वादनपर्यन्तम् अवकाशः अस्ति शुष्कजातीयाः सस्यविशेषाः अपि अत्र सन्ति ।

कोलकातानगरे दर्शनीयानि स्थानानि अन्यानि अपि सन्ति । तेषु पोर्टविलियम्, ईडन्गार्डन्, क्रीडाङ्गणम्, अलिपुरम् पाणिसङ्ग्रहोद्यानं, सितम्बरजैनदेवालयः (नाकोड् मसीदिप्रार्थनामन्दिरं ), षाहीदमीनार् (४८.१ मीटर उन्नत), बेलूरुमठः रबीन्द्रसरोवरः विरलातारामण्डल, ठाकूरसदन इत्यादि प्रमुखानि सन्ति । चान्दपाल् घाटतः हूग्लीनद्या नौकाविहाअः कर्तुं शक्यते इदानी विज्ञान अगर (Science City) मेट्रोधूम शकटप्रवासः सन्तोषकराः आकर्षणीयाः सन्ति । विमानमार्गः कोलकाता नगरस्य देशस्य विविधैः नगरैः विमानसम्पर्कः अस्ति । 
धूमशकटमार्गः – नगरे हौरा, सीलडानिस्थाने स्तः । देहली मुम्बयी चेन्नै अहमदाबादनगरैः साक्षात् धूमशकटयानानि सन्ति । वाहनमार्गः – बेङ्गळूरुतः १८८३ कि.मी । चेन्नैतः १६७५ कि.मी । मुम्बयीतः २०८१ कि.मी डार्जिलिङ्गतः १८९ कि.मी दूरे भवति ।

कोलकोतानगरतः घण्टात्रय यावत् प्रयाण कृत्वा शान्तिनिकेतन स्थल प्राप्तु शक्यते । अत्रैव विश्वकवि रवीन्द्रनाथठागूरः शान्तिनिकेतनविद्यालय सा.श. १९०१ तमे वर्षे प्रारम्भं कृतवान् । केवल पञ्चविद्यार्थिनः आसन् रवीन्द्रनाथ ठागुरमहोदयस्य् पिता महर्षि देवेन्द्रनाथ ठागूरमहोदयः विद्यालयस्य आधारशिला स्थापितवान् । सा.श.१९२१ वर्षसमये शाला एव विश्वभारती इति नाम प्राप्तवती । इदानी स्वतन्त्रविश्वविद्यालयः अन्ताराष्ट्रीयविद्यार्थिना मार्गदर्शनकेन्द्रमस्ति । सहस्रशः विद्यार्थिनः अत्र ज्ञान प्राप्तु आगच्छन्ति । विशाले आम्रवाटिकाया भव्यभवनानि रचितानि सन्ति । प्रकृत्या सह मानवविकासः भवतु इति रवीन्द्रनाथ ठागूरमहोदयस्य आशयः आसीत् । सः अतीव प्रकृतिप्रियः सः यत्र वसतिस्म तत्स्थान रवीन्द्रसदनम् इति प्रसिद्धम् । अत्र रवीन्द्रनाथठागूरमहोदयेन उपयुक्तानां वस्तूना सङ्ग्रहः कृतः अस्ति । अत्र नन्दलालबसु महोदयस्य चित्राणां सङ्ग्रहः अस्ति । रवीन्द्रनाथठागुरः स्वय चित्रकारः सङ्गीतज्ञः च आसीत् । रबीन्द्रसङ्गीतम् इति विशिष्टप्रकारस्य सङ्गीतम् एतेनैव आरब्धम् अस्ति । इदानीमत्र नृत्यबोधनमपि भवति । पूर्वकालतः अपि शान्तिनिकेतनम् उत्तमोद्देशान् सङ्कल्प्य स्थापितं विद्याकेन्द्रम् । इदानी जगत्प्रसिध्दमस्ति । 
वाहनमार्गः – कोलकोतातः १६३. कि.मी. धूमशकटमार्गः – भोल्पुरधूमशकटनिस्थानं समीपतमं भवति । 

प्राचीनकाले दुर्जयलिङ्गम् इति प्रसिद्धम् एतत् दार्जिलिं हिमालयस्य सान्मुप्रदेशे सुन्दरं गिरिधामनगरम् । सुइजारल्यान्ड इव एतत् उत्तमं सुन्दरतमं चास्ति । उन्नतकाञ्चनजुङ्गा पर्वतः सानुप्रदेशे चायवाटिकानां मध्ये व्याप्तमेतत् स्थलम् । पूर्वम् आङलानां निदाघकालीनं वासस्थलमासीत् । इदानी प्रवासिनां स्वर्गः ति कथयन्ति । देशविदेशेभ्यः जनाः प्रतिदिनम् अत्रागच्छन्ति ।

डार्जिलिंस्य प्रवासः सिलगुरितः धूमशकटयानेन आरब्धः भवति । ८८ कि.मी. दूरस्य प्रवासे प्रतिघण्टाः १२ कि.मी. वेगे धूमशकटविशेषयानं पर्वतारोहणं करोति । एतत् धूमशकटयानं वनपर्वतमध्ये सुन्दरतया सविलासं वक्रमार्गेषु सुरङ्गमार्गेषु गच्छत् षड्घण्टावधौ डार्जिलिंप्रदेशं प्रापयति । पार्श्वे पर्वतशिखराणां वनानां प्रपातानां दर्शनं निरन्तरं भवति । मार्गे वक्रगतयः सन्ति । प्रयाणसमयः अतीवानन्ददायकः भवति । 

बटासियालूपप्रदेशे चायसस्यवाटिकाः सन्ति । कुरेसाङ् प्रदेशे लघुभवनानि सन्ति । अग्रेढूम इति स्थले सागरस्तरतः ८००० पादोन्नते स्थले धूमशकट् निस्थानमस्ति । एतत् विश्वे एव अत्युन्नतस्थले निर्मितं धूमशकटनिस्थानम् इति ख्यातमस्ति । अत्र प्रवासिजनाः भयकरे प्राकृर्तिकस्थले लोहमार्गम् आश्चर्येण पश्यन्ति ।

पद्मजानायिडु हिमालयस्य मृगालयः, न्याचुरल् हिस्टरी म्युसियम्, लायिड्स् बोटानिकल् गार्डन्,  हिमालयस्य मौण्टेरियन् इन्स्टिट्यूट्, रङ्गीतव्याली, प्यासेञ्जररोपृवे, लेषाङ्गरेस् कोर्स् इत्यादि स्थानानि अपूर्वाणि सन्ति । जलदपारा प्रदेशे मृगवीक्षणाय अवकाशः अस्ति । अत्र रैनो, रायल् बेङ्गाल् टैगर, गजाः, वनमहिषाः इत्यादयः सन्ति । मिरिक् सरोवरः डार्जिलिङ्ग समीपे अस्ति । अत्र मत्स्यग्रहणं, नैकाविहारः पादचारणम् इत्यादिमनोरञ्जककार्याणाम् आनुकूल्यम् अस्ति । समीपे धूमप्रदेशे १५६ पादमिता बुध्दस्य प्रतिमा अस्ति । सिलगुरितः ५२. कि.मी. दूरे कालियपाङ्ग्र वीक्षणालयः अस्ति । पर्वतारोहणम्, जलसाहसक्रीडा इत्यादीनां कृते कुरेसाङ्ग् अतीव प्रसिध्दम् अस्ति । ३६ कि.मी । एतान् सञ्चलतां स्वर्गः इति कथयन्ति । डार्जिलिङ्ग् पर्वतारोहणस्य आनन्दप्राप्तये अतीवोत्तमं स्थलमस्ति । एप्रिल् मासतः ये अक्टोबरमासतः नवम्बरमासपर्यन्तकाले अत्रातीव परिसरः अतीव रमणीयः भवति । एतत्समये वृक्षेषु पुष्पाणि विकसन्ति । तुषारः अपि न भवति । पक्षिवीक्षणमपि अतीव मनमोहकं भवति । व्याघ्रपर्वतः  ; एतत् तु अवश्यं दर्शनीयस्थलेषु अन्यतमः । इतः सूर्योदयदर्शनं वर्णनातीतं भवति । डार्जिलिङ्गतः १४ कि.मी. दूरे एतत्स्थानमस्ति । वाहनमार्गः कोलकोतातः ६८६ कि.मी. दूरे भवति ।  
धूमशकटमार्गः – न्यूजपैगुरि – डार्जिलिङ्ग् यानम्, डार्जिलिङ्ग्मेलयानम्, सीलडानिस्थानतः प्रयाणस्य आरम्भः भवति । विमानमार्गः –  बागदोग्राविमाननिस्थानं ९० कि.मी. सिलगुटितः लोकयानानि लघुवाहनानि प्रातः ६ वादनतः सायं ४ वादनपर्यन्त सञ्चरन्ति । दूर ८० कि.मी । वसति कृते अनेकानि उपाहारवसतिगृहाणि सन्ति ।

पश्चिमबङ्गालराज्ये गङ्गाब्रह्मपुत्रानद्योः अधोभागे लवणमिश्रितभूमौ एतत् उद्यानम् अस्ति । अस्य विस्तारः १३३० चतुरस्र कि.मी. भवति । प्रपञ्चे एव एतत् प्रदेशगभीरता प्रसिध्दा अस्ति । म्याङ्ग्रूव वनप्रदेशः एषः अतीव सुन्दरः अस्ति । अत्र ५४ द्वीपानि सन्ति । अनेक नद्यः अत्र सागरं प्रविशन्ति । सर्वतः जलमयप्रदेशः दृश्यते । पूर्व एतत् चोराणा लुण्ठकाना स्थानमासीत् । अधुना नौकाविहारः आह्लादकरः भवति । नामखान् रायडगी सोनाकाली नजाततः नौकायनव्यवस्था अस्ति । द्वीपानां दर्शन अतीवानन्दं जनयति । एतत् स्थलं व्याघ्रसंरक्षितप्रदेशः अस्ति । अत्र बङ्गालव्याघ्राणां दर्शनमपि भवति । अत्र वने कपयः वनसूकराः भल्लूकाः, जङ्गलक्यार् इत्यादि प्राणिनः सन्ति । अत्र जले १२० जातीयाः मीनाः सन्ति । मकराः कर्कटकाः सर्पाः अजगराः, विविधसर्पाः, कच्छपाः, कूर्माः च अत्र सन्ति । अत्र भगवतपुरं क्रकडैल प्राजेक्ट, जम्बूदीपः साजदेखालि, बूरिदाब्रि, व्याग्रयोजनाः, विरामद्वीपः, सोनाकाली  इत्यादीनि द्वीपानि प्रसिद्धानि सन्ति । सागरएलेण्ड् प्रदेशे गङ्गानदी बङ्गालेष सागर प्रविशति । अत्र जनाः पुण्यस्नान कुर्वन्ति मकरसङ्क्रान्ति दिने लक्षाधिकजनाः अत्र पवित्र स्नान कुर्वन्ति । वाहनमार्गः -  कोलकातातः १७५ कि.मी. नौकया इतः ५ घण्टप्रवासः । वसतिकृते साज्ञिने कालिस्थले प्रवासीभवनम् अस्ति । सागरद्वीपे कुटीराः, वीक्षणगोपुराणि च सन्ति । सप्तम्बरमसतः मेमासपर्यन्तं दर्शनार्थम् सकालः अस्ति । गौसाबनगरतः ५० कि.मी । 

ओरिस्सा राज्यसीमासमीपे एतत् रमणीयं सागरतीरमस्ति । एतत् अत्यन्तं सुन्दरं स्थलमस्ति । हूग्लीनदी अत्र सागरं प्रविशति । सूर्य किरणानां सागरतरङ्गेषु लीलाः दर्शनीयाः विविधवर्णेषु प्रतिफलन्ति । पार्श्वे तिन्त्रिणीवृक्षवाटिकाः सन्ति । सागरतीरे सञ्चारः आनन्दाय भवति । सुन्दरस्वच्छः प्रदेशः आरोग्यवर्धनाय उत्तमः अस्ति । अत्र जनाः तरणे आसक्ताः भवन्ति । सागरतरङ्गाः उपरि अधः गच्छन्तः प्रवासीजनान् आकर्षयन्ति । समीपे अनेकदेवमन्दिराणि सन्ति । जुलैमसतः मार्चपर्यन्तं सन्दृष्टुं सुकालः भवति । वाहनमार्गः – कोलकातातः १८५ कि.मी. ६ घण्टाप्रयाणं भवति । अत्र वसति गृहाणि सन्ति । 
बक्काळि (फ्रेजर्गञ्ज, करसारगञ्जृ)
हूग्लीनदीतः पूर्वदिशि १३२ कि,मी दूरे नदीतीरे एतत् निसर्गरमणीय स्थलमस्ति । प्रवासी जनानां अत्र नौकासञ्चारः साध्यः अस्ति तिन्त्रिणीवृक्षाणां मध्ये सञ्चारः सन्तोषकरः भवति । पादचारणं वक्काळितः फेजर गञ्ज पर्यन्त (२. कि.मी )कर्तुं शक्यते ।

नगरप्रदेशात् नैके जनाः अत्र विहारार्थम् आगच्छन्ति । सरस्तीरे जापानी जनैः निर्मितं बौद्धमन्दिरम् अस्ति । 




#Article 51: बिहारराज्यम् (1390 words)


बिहार(हिन्दी:बिहार) भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् । एतस्य राजधानी पटना अथवा पाटलीपुत्रम् अस्ति । अस्य राज्यस्य पूर्वभागे पश्चिमवङ्गराज्यं, दक्षिणभागे झारखण्डराज्यञ्च विद्यते । 'बिहार'इत्येतत् पदं प्रायशः 'बौद्धविहारम्' इत्यत्र विद्यमानस्य विहारशब्दस्य विकृतरूपम् इति भासते। इदं राज्यं गङ्गानद्याः तस्याः उपनदीनाञ्च समृद्धक्षेत्रे विद्यते । प्राचीनकाले विशालसाम्राज्यानां मूलस्थानम् आसीत् इदं राज्यम् अधुना देशस्य अर्थव्यवस्थायाः कृते योगदाने अन्तिमस्थाने विद्यते।

बिहारस्य ऐतिहासिकं नाम मगधम्। बिहारस्य राजधान्याः ऐतिहासिकं नाम पाटलीपुत्रम् ।

प्राचीनकाले बलाढ्यसाम्राज्येषु अन्यतमम् आसीत् मगधसाम्राज्यम् । मौर्यवंशः, गुप्तवंशः इत्यादयः प्रसिद्धाः राजवंशाः इतः शासनम् अकुर्वन् । मौर्यवंशस्य सम्राजः अशोकस्य साम्राज्यं पश्चिमदिशि अफघानीस्थानपर्यन्तं विस्तृतम् आसीत् । मौर्यवंशस्य शासनं क्रि पू ३२५ तः क्रि पू १८५ पर्यन्तम् आसीत् । पञ्चमे षष्ठे च शतके अत्र बौद्धजैनधर्मयोः उगमः जातः । अशोकः बौद्धधर्मस्य प्रचारे महत्त्वपूर्णां भूमिकां निरूढवान्। सः स्वस्य पुत्रं महेन्द्रं बौद्धधर्मस्य प्रचाराय श्रीलङ्काम् अप्रेषयत्।   पाटलीपुत्रे यत्र सः पुत्रस्य आप्रच्छनम् अकरोत् सः प्रदेशः महेन्द्रघट्टः इत्येव निर्दिश्यते । इतः बौद्धधर्मः अग्रे चीनादेशं प्रति ततः जापानदेशं प्रति च प्रसृतं जातम् ।

द्वादशे शतके भख्तियारखिलजी बिहारस्य आधिपत्यं प्राप्तवान् । तदा मगधदेशस्य राजधानी न आसीत् । षोडशे शतके शेरषाहसूरी देहल्यां मुगलचक्रवर्तिनं हुमायूनं पराजित्य देहलीसिंहासनम् आरूढवान् इत्यतः बिहारस्य नाम पुनः प्रकाशितं जातम् । किन्तु अचिरात् अक्बरः बिहारराज्यं पश्चिमवङ्गे विलीनम् अकरोत्। ततः बिहारस्य अस्तित्वं वङ्गराजानाम् अधीनं जातम्। 

१८५७ तमे वर्षे जाते भारतस्य प्रथमसङ्ग्रामे बिहारीयः बाबू कुंवरसिंहः प्रमुखभूमिकां निरवहत् । १९१२ तमे वर्षे पश्चिमवङ्गस्य विभजनस्य कारणतः बिहारराज्यं पुनः अस्तित्वं प्राप्नोत् । १९३५ तमे वर्षे ओरिस्साराज्यम् इतः पृथक् कृतम् । स्वातन्त्रसङ्ग्रामावसरे बिहारे जातः चम्पारणविद्रोहः ब्रिटीशजनानां बहिष्करणे विरोधे च प्रमुखं पात्रम् अवहत् । स्वातन्त्र्यानन्तरं बिहारराज्यं पुनः एकवारं विभक्तम् । २००० तमे वर्षे झारखण्डराज्यं बिहारतः पृथक्जातम्। भारतं त्यज्यताम् इत्येतस्मिन् आन्दोलने बिहारस्य पात्रं मुख्यभूतम् आसीत्। 

इदं राज्यम् उत्तरे २१°५८'१० ~ २७°३१'१५ अक्षांशे पूर्वदिशि ८२°१९'५० ~ ८८°१७'४० रेखांशे च विद्यते । राज्यस्य विस्तारः अस्ति ९४, १६३ चतरस्र कि मी मितः यस्मिन् ग्रामप्रदेशस्य विस्तारः अस्ति ९२,२५७.५१ च कि मी मितः । झारखण्डस्य पृथक्करणानन्तरं बिहारस्य भूमिः, नदीभिः युक्ता कृषियोग्या समतला विद्यते । गङ्गायाः पूर्वक्षेत्रे स्थितम् इदं राज्यं समुद्रतलात् १७३ पादमिते औन्नत्ये विद्यते । भौगोलिकदृष्ट्या बिहारराज्यं त्रिधा विभक्तुं शक्यम् - उत्तरस्य शैलीय-निम्नश्च प्रदेशः, मध्ये विशालसमतलप्रदेशः, दक्षिणे पर्वतीयप्रदेशश्च । उत्तरीयपर्वतप्रदेशे सोमेश्वरश्रेणी विद्यते । अस्याः श्रेण्याः औन्नत्यं सामान्यतः ४५५ मीटर्मितम् । तत्र विद्यमानस्य सर्वोच्चशिखरस्य औन्नत्यं ८७४ मीटर्मितम् । सोमेश्वरश्रेण्याः दक्षिणभागे निम्नप्रदेशः विद्यते । अस्मिन् मृण्मयक्षेत्रे अर्जुनवृक्षाणां निबिडारण्यं विद्यते । व्याघ्राभयारण्यं वाल्मीकिनगरे स्थितमस्ति। गङ्गानदी राज्यस्य मध्यभागे प्रवहति । उत्तरबिहारे बागमती, कोशी, बूढी गण्डक, गण्डक, घाघरा इत्येताः नद्याः तासां सहायकनदीनां च समतलप्रदेशः वर्तते । सोन, पुनपुन, फल्गू,  किऊल - नद्यः बिहारस्य दक्षिणतः गङ्गया मिलन्ति । हिमालयपर्वतात् प्रवहन्त्यः अन्याः नद्यः जलधाराश्च बिहारद्वारा गङ्गया मिलन्ति । वृष्टिकाले नदीनां प्रवाहः महत्यै समस्यायै भवति। ग्रीष्मर्तौ राज्यस्य उष्णांशः भवति ३५°-४५° सेल्शियस्मितम् । शैत्यकाले ५°-१५° सेल्शियस्मितं भवति । शैत्यकालः नवम्बर्मासात् मध्यफेब्रवरिपर्यन्तं भवति । एप्रिल्मासतः मध्यजुलैपर्यन्तं भवति । ततः अक्टोबर्मासपर्यन्तं वृष्टिकालः भवति । प्रतिवर्षं सामान्यतः १२०५ मि मीटर्मिता वृष्टिः भवति । उत्तरस्यां दिशि भूमिः कृषियोग्या भवति।

 
बिहारराज्यम् ९ विभागेषु विभक्तम् अस्ति। एवं ३८ मण्डलानि सन्ति। भगलपूर, दर्भाङ्ग, कोसि, मगध, मुन्गेर, पटना, पुर्णिया, सासाराम, तिर्हुत एते ९ विभागाः भवन्ति। मण्डलानि-   

अङ्गिका, भोजपुरी, मगधी, मैथिली, वज्जिका च अत्रत्याः प्रमुखभाषाः । बिहारस्य संस्कृतिः मगध-अङ्ग-मिथिला-वज्जी-संस्कृतीनां मिश्रणमस्ति। ग्रामनगरसंस्कृत्योः अधिकः भेदः न विद्यते। पारम्परिकरीतिनीतयः नगरजनैः अपि पाल्यन्ते सश्रद्धम् । समाजः अस्ति पुरुषप्रधानः। बालिकानां स्वातन्त्र्यम् अत्यल्पम् । छठ, होली, दीपावलिः, नवरात्रम्, महाशिवरात्रिः, नागपञ्चमी, श्री पञ्चमी, मोहरम्, ईद्, क्रिस्मस् च प्रमुखाः उत्सवाः । सिक्खानां दशमः गुरुः गोविन्दसिंहस्य जन्मस्थानम् इत्यतः पटनायां तस्य जयन्तीमहोत्सवः परमश्रद्धया आचर्यते। विवाहपद्धतिः प्रदेशस्य संस्कृतिद्योतिका भवति। जातिगताग्रहस्य कारणेन अधिकांशाः विवाहाः पित्रोः सम्बन्धिनां द्वारा परिवारेषु एव भवन्ति। विवाहस्य शोभायात्रा वैभवादीनि परिवारयोः आर्थिकस्थितिम् अवलम्ब्य भवति । लोकगीतानां गानं सर्वेषु समुदायेषु अपि प्रचलति । आधुनिक-पुरातनचलच्चित्राणां सङ्गीतं श्रावितं भवति। विवाहेषु शहनायीवादनं सामान्यतया श्रूयते । अस्य वाद्यस्य वादकेषु प्रसिद्धतमः बिस्मिल्लाखानः बिहारराज्ये एव जन्म प्राप्तवान् ।

जातिवादः बिहारस्य राजनीतेः सामाजिकजीवनसय अविभाज्यम् अङ्गं जातमस्ति । पूर्वम् अस्य विराट्स्वरूपः दृष्टिगोचरः जातः आसीत् । अद्यत्वे अयं भेदभावः न्यूनः जायमानः अस्ति। अस्य जातिवादस्य निर्मूलनाय जनैः अवलम्बितः मार्गः अस्ति - उपनाम्नः परिवर्तनम् । उपनान्मः श्रवणात् जातिबोधः न भवेत् इति कारणतः यादवः, शर्मा, मिश्रः, वर्मा, झा, सिंह, श्रीवास्तवः, रायः इत्यादीनि परिवर्त्य प्रकाशः, सुमनः, प्रभाकरः, रञ्जनः, भारती इत्यादीनि कृतवन्तः । 

बिहारस्य नगरेषु ग्रामेषु च चलच्चित्राणि लोकप्रियाणि जातानि सन्ति । हिन्दीचित्रसङ्गीतं सर्वेभ्यः रोचन्ते । मैथिली-भोजपुरीचलच्चित्राणि अपि प्रभुत्वं साधितवन्ति सन्ति । नगरेषु निवसद्भिः आङ्ग्लचित्राणि वीक्ष्यन्ते । नृत्य-नाटक-चित्रकलादिषु परिश्रमं कुर्वन्ति बहवः उच्चकुलीयाः ।

भारते अन्यत्र इव अत्रापि क्रिकेट्-क्रीडा अधिकलोकप्रिया वर्तते। पादकन्दुकः, हाकीक्रीडा, टेनिस्-क्रीडा, गोल्फ्-क्रीडा अपि अत्र प्रसिद्धाः । ग्रामप्रदेशः अधिकः इत्यतः पारम्परिकक्रीडा कबड्डी अपि अत्र प्रसिद्धा अस्ति ।

बिहारजनानां मुख्यम् आयमूलं वर्तते कृषिः। वाणिज्यं सर्वकारीयोद्योगः च आयमूलमस्ति । सर्वकारस्य प्रयत्नेन अधुना स्थितिः उत्तमा भवन्ती अस्ति । ७५% जनाः कृषिकार्यं कुर्वन्ति । झारखण्डस्य पृथक्करणानन्तरम् इदं राज्यं खनिजसम्पदा वञ्चितं जातम् । जनसङ्ख्यायाः वृद्धेः कारणतः अर्थव्यवस्था दुर्बला एव वर्तते ।

बिहारराज्यं विश्वस्मिन् विश्वे प्रसिद्धं शिक्षणकेन्द्रम् आसीत्। जगत्प्रसिद्धाः विश्वविद्यालयाः अस्मिन् राज्ये राराजन्ते स्म। प्राचीनकाले नलन्दाविश्वविद्यालयः, विक्रमशिलाविश्वविद्यालयः,ओदन्तपुरीविश्वविद्यालयाः च बिहारस्य गौरववर्धकानि अध्ययनकेन्द्राणि आसन् । १९१७ तमवर्षपर्यन्तं पट्नाविश्वविद्यालयस्य प्रतिष्ठायुतं स्थानम् आसीत् । 

नलन्दास्थाने क्रिस्ताब्दस्य पञ्चमशतकतः द्वादशशतकपर्यन्तं कश्चन सवसतिकः विश्वविद्यालयः आसीत् इति इतिहासद्वारा ज्ञायते । अस्य प्रथमः सवसतिकः विश्वविद्यालयः इति प्रख्यातिः आसीत् । द्विसहस्रप्राध्यापकाः दशसहस्राधिकाः  विद्यार्थिनः अत्र आसन् । जनाः देशविदेशतः विद्याप्राप्तये अत्र आगच्छन्ति स्म इति विदेशीयानां यात्रिकाणाम् उल्लेखेन ज्ञातुं शक्यते । चीनीचात्रिकः ह्यु येन् त्साङ्गः अस्य स्थानस्य स्पष्टतया उल्लेखं कृतवान् अस्ति ।
अस्मिन् विश्वविद्यालये बौद्धशास्त्रं, वेदाः, तर्कशास्त्रं, शब्दविद्या (व्याकरणम्) । मेडिसिन् (चिकित्साविद्या) इत्यादीनां शिक्षणं भवति स्म । सप्तमे शतके साम्राट् हर्षवर्धनः, पालवंशीयाः राजानः च एतं विश्वविद्यालयं सगौरवं पोषितवन्तः । कुमारगुप्तः एतस्य विश्वविद्यालयस्य आरम्भम् कृतवान् इति इतिहासद्वारा ज्ञायते ।
नलन्दाविश्वविद्यालयः ५० चतुरस्रकि.मी प्रदेशे व्याप्तः आसीत् । प्रथमः महम्मदः भक्तियारखिल्जीद्वारा अत्र अग्निदाहं कारितवान् । तदा प्रज्ज्वालितः अग्निः षण्मासान् यावत् ज्वलन्नासीत् इति वदन्ति । रत्नोदधिः, रत्नसागरः, रत्नरञ्जकः इत्येते  ग्रन्थालयाः भस्मीकृताः अभवन् । अनन्तरम् अत्र भूकम्पः अभवत् । तदा सर्व नष्टम् भवत् । बौद्धसंन्यासिनः टिबेट्देशं गतवन्तः केचन मारिताः च ।
नलन्दाप्रदेशे पूर्वम् आम्रवाटिकाः आसन् । गौतमबुद्धः अत्र किञ्चित्कालं स्थितवान् । सारिपुत्रः तथा महामोग्गालयन् इत्येतयोः बुद्धस्य शिष्ययोः जन्मस्थानम् एतत् । तयोः गृहम् इदानीमपि अस्ति । किन्तु देवालयरुपेण परिवर्तितम् अस्ति । अशोकचक्रवर्ती अत्र चैत्यं निर्मितवान् ।
अलेग्झाण्डर्र कन्निङ्गह्यां महोदयः क्रिस्ताब्दे १८६१ तमे वर्षे उत्खननद्वारा संशोधनं कृतवान् । क्रिस्ताब्दे १९१५ तमवर्षतः आर्कियालजीविभागेन १४ हेक्टरप्रदेशे उत्खननं कृत्वा स्मारकाणां भवनानां विषये ज्ञानसङ्ग्रहणं कृतम् अस्ति ।
अत्र १०८ विशालभवनानि (The Great Stupa) आसन् । सुभद्रायाम् आधारभूमौ निर्मितानि एतानि भवनानि अपूर्वाणि आसन् इति पञ्चमशतके आगतः चीनी यात्रिकः ह्यु येन् त्साङ्गमहोदयः उल्लिखितवान् अस्ति । आरम्भे एषः  छात्रः आसीत् अनन्तर प्राध्यापकः । हर्षवर्धनस्य काले एषः सर्वधर्मसम्मेलनाध्यक्षः आसीत् ।
अत्र विश्वविद्यालये प्रवेशार्थं प्रवेशपरीक्षा आसीत् इति तु विशेषः अस्ति । इदानी चीना-जापान-दक्षिणैशियादेशेभ्यः जनाः दर्शनार्थम् अत्र आगच्छन्ति । एकः वस्तुसङ्ग्रहालयः अपि अत्र स्थापितः अस्ति । 

बर्मी-जापानी-जैनविश्रान्तिगृहाणि सन्ति ।

गयातः ६५ कि.मी । राजगिरतः १९ कि.मी । पटनातः ९० कि.मी ।

बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य पाटलीपुत्रम् इति नाम आसीत् गङ्गानद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति ।
गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे १७७० तमे वर्षे निर्मितः।  लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् २५ मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं,  पटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं  शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् (६ कि.मी) दूरे स्तः ।
कुम्राहार अशेकचक्रवर्तेः राजधानी आसीत् । क्रिस्तपूर्वतॄतीयशतके चन्द्रगुप्तमौर्यस्य बिन्दुसारस्य च राजधानी अत्र आसीत् । अत्र एकं सभाभवनमासीत् । इदानीं केवलं स्तम्भाः सन्ति । आनन्दविहारनामकं  बौद्धमठम् अत्र आसीत् । पटनासमीपे दर्शनीयानि स्थानानि वैशाली राजगिर नळन्दा इत्यादीनि ।

पूर्वविभागे देहली-पटना, कोलकाता-पटना धूमशकटमार्गौ स्तः । पटना बृहन्निस्थानमस्ति ।

देहलीवाराणसी- इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति । पटना टूर्स् एण्ड् ट्रावल्स् प्रवासव्यवस्थां करोति ।

सासारामनगरं बिहारराज्ये भोजपुरमण्डलस्य लघुपत्तनम् अस्ति । अत्र देहलीं शास्तवताम् सूरवंशीयानां वंशजः चक्रवर्ती शेरषाहः स्वस्य निमित्तं समाधिमन्दिरमेकं निर्मितवान् आसीत् । एतत् स्थानं चारित्रिकं अभूतपूर्वं च अस्ति । एषः क्रिस्ताब्दस्य १५४० तः १५४५ पर्यन्तं हुमायूनं जित्वा प्रशासनं कृतवान् । एतस्य वंशस्य नाम फरीद इति । एषः शूरः आसीत् । अस्य पिता हसन् । शेरषाहसूरी एकदा मृगयार्थं गत्वा व्याघ्रेण साक युद्धं कृतवान् । अतः एव अस्यनाम  शेरषाह इत्यभवत् ।
समाधिमन्दिर एतत् कृतकसरोवरे १४०० चतुरस्रपादमिते जले निर्मितमस्ति । षड्भुजाकृतियुक्तं ४६ मीटरोन्नत्तवक्रभित्तियुतं जालन्ध्रयुतं गोलच्छदयुक्तं  (Tomb) चैतत् रक्तवालुका शिलाभिः निर्मितम् अस्ति । अस्य प्रतिबिम्बं सरोवरजले सुन्दरतया प्रकाशते । जले प्लवते एव एषा रचना दृष्टिगोचरा भवति । अतः एव Island Tomb इति एतत् स्थानं कथयन्ति । पथानशैली रचना एषा भारते एव अत्युतमास्ति ।

ग्राण्ट् ट्रङ्क मार्गस्य पार्श्वेऽस्ति । गया-वाराणसी-पटना- इत्यादिनगरेभ्यः वाहनानि सन्ति । 

गयानिस्थानतः २०३ कि.मी ।

बौद्धपरिक्रम-एक्सप्रेस् 
एतत् विशेषधूमशकटयानं गौतमबुद्धस्य सम्बद्धानि स्थानानि सर्वाणि प्रदर्श्य आगच्छति ।

उत्तरप्रदेशबिहारपश्चिमबङ्गालराज्येषु सञ्चरति । कोलकातातः–गोरखपुरम्-कुशिनगरम् –वाराणसी– सारनाथः-राजगिर-नलन्दा-बुद्धगया स्थानानि दर्शयति ।

वैस् प्रेसिडेण्ट्, अशोकट्रावेल्स् अण्ड टूर्स् (I.T.D.C) नवादेहली ।

बौद्धमतस्य मुख्यस्थानेषु एतदपि अन्यतमम् अस्ति । प्रथमा बौद्धमहासभा राजगिरप्रदेशे अभवत् । गौतमबुद्धः अत्र निर्वाणात्पूर्व १२ वर्षाणि यावत् वासं कृतवान् । 

नलन्दातः १९ कि.मी 

भगवतः महावीरस्य जन्मस्थलमेतत् । प्राचीनकाले राजधानी आसीत् । २००० वर्षेभ्यः पूर्वम् अत्र प्रजाप्रभुत्वराज्यमासीत् ।

पटनातः ४४ कि.मी 

राज्यस्य राजधानी पटना ऐतिहासिकं स्थलं वर्तते । पूर्वम् इदं धर्मज्ञानयोः केन्द्रमासीत् । तत्रत्यानि दार्शनिकस्थलानि एतानि - 

षष्ठशतकात् पूर्वं वज्जिसङ्घद्वारा स्थापितः विश्वस्य प्रथमगणराज्यस्य अवशेषः, अशोकस्तम्भः, बसोकुण्डे भगवतः महावीरस्य जन्मस्थली, अभिषेकपुष्करणी, विश्वशान्तिस्तूपः, राजा विशाल का गढ, चौमुखीमहादेवमन्दिरम्, भगवतः महावीरस्य जन्मदिने आयोज्यमानः वैशालीमहोत्सवः च प्रसिद्धाः सन्ति ।

 
 




#Article 52: मध्यप्रदेशराज्यम् (5001 words)


मध्यप्रदेशराज्यं (, ) भारतस्य मध्येखण्डे विद्यमानं किञ्चन राज्यम् अस्ति । अस्य विस्तीर्णता ३,०८,२५२ च.कि.मी. परिमिता अस्ति । मध्यप्रदेशस्य राजधानी भोपाल इति नगरम् अस्ति । २००० तमवर्षस्य 'नवम्बर'मासस्य १ दिनाङ्के अस्मात् राज्यात् छत्तीसगढनामकः प्रदेशः पृथक् कृतः, नूतनराज्यत्वेन संस्थापितश्च । ततः पूर्वं मध्यप्रदेशराज्यं भारते बृहत्तममं राज्यम् आसीत् । इदानीं राजस्थानराज्यं बृहत्तमम् अस्ति । मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते । एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनमण्डले 'भीम बेट्का' गुहायां मानवाः वसन्ति स्म इति अत्रत्यानां जनानां विश्वासः । अत्र विद्यमानानि गुहाचित्राणि ३०० वर्षेभ्यः पूर्वं चित्रितानि ।

मध्यप्रदेश-राज्यं भारतस्य द्वितीयं बृहत्तमं राज्यं वर्तते । मध्यप्रदेशराज्यं द्वयोः भागयोः विभक्तम् अस्ति । क्षेत्रीयः भागः, शैलप्रस्थीयः भागः च । अस्य प्रदेशस्य उत्तरभागः क्षेत्रीयः अस्ति । किन्तु मध्यभागः, पश्चिमभागश्च शैलप्रस्थीयः भागः अस्ति । इदं क्षेत्रं मालवा-शैलप्रस्थः कथ्यते । प्राकृतिकसंरचनादृष्ट्या इदं राज्यं सप्तभागेषु विभक्तम् अस्ति । मध्यभारतस्य शैलप्रस्थः, बुन्देलखण्ड-उच्चप्रदेशः, मालवा-शैलप्रस्थः, विंध्यकगारक्षेत्रं, “नर्मदा घाटी”, सतपुडा-पर्वतशृङ्खला, बघेलखण्ड च । मध्यप्रदेशस्य पश्चिमोत्तरदिशि मध्यभारतस्य शैलप्रस्थः स्थितः अस्ति । तस्य विस्तारः ३२,८९६ चतुरस्रकिलोमीटर्मितः अस्ति । इदं शैलप्रस्थीयं क्षेत्रम् उत्तरप्रदेश-राज्यं, राजस्थान-राज्यं यावत् विस्तृतम् अस्ति । प्रदेशस्य मध्योत्तरभागे बुन्देलखण्डस्य उच्चप्रदेशः स्थितः अस्ति । “नर्मदा घाटी” इत्यस्यस्य क्षेत्रस्य विस्तारः ८६,००० चतुरस्रकिलोमीटर्मितः अस्ति । इदं क्षेत्रं महाराष्ट्र-राज्यं, गुजरात-राज्यं यावत् विस्तृतम् अस्ति । अस्य क्षेत्रस्य उत्तरे विन्ध्यपर्वतशृङ्खला, दक्षिणे सतपुडापर्वतशृङ्खला च विद्यते । सतपुडा-पर्वतशृङ्खला नर्मदागोदावरी-नद्योः विभाजनं करोति । सोन-नदी बघेलखण्ड-शैलप्रस्थीयक्षेत्रस्य प्रमुखा नदी वर्तते । अस्मिन् क्षेत्रे आदिवासिजनाः अधिकमात्रायां निवसन्ति । 
अस्य राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । मध्यप्रदेश-राज्यस्य उत्तरदिशि उत्तरप्रदेश-राज्यम्, उत्तरपूर्वदिशि छत्तीसगढ-राज्यं, दक्षिणदिशि महाराष्ट्र-राज्यं, पश्चिमदिशि राजस्थान-राज्यं गुजरात-राज्यं च अस्ति । अस्य राज्यस्य मध्यस्थात् कर्करेखा गच्छति ।

मध्यप्रदेश-राज्ये बह्व्यः नद्यः प्रवहन्ति । नर्मदानदी, चम्बलनदी, ताप्तीनदी, सोननदी, बेतवानदी, क्षिप्रानदी, कालीसिन्धनदी, तवानदी च इत्यादयः अस्य राज्यस्य प्रमुखाः नद्यः सन्ति । नर्मदा-नदी अस्य राज्यस्य जीवनरेखा अपि कथ्यते । अमरकण्टक-नगरम् अस्याः नद्याः उद्गमस्थलं वर्तते । इन्दौर-मण्डलस्य महू-नगरस्य समीपे जानापाव-पर्वतक्षेत्रं चम्बल-नद्याः उद्गमस्थलं वर्तते । सिहावा-नगरस्य समीपे महानद्याः, सतपुडा-पर्वतशृङ्खलायाः बैतुल-शैलप्रस्थे ताप्ती-नद्याः, मालवा-शैलप्रस्थे कालीसिन्ध-नद्याः, विन्ध्याचलपर्वते पार्वती-नद्याः, कैमूर-पर्वतशृङ्खलायां टोंस-नद्याः, उज्जैन-नगरे क्षिप्रा-नद्याः, पचमढी-नगरे तवा-नद्याः च उद्गमस्थलम् अस्ति ।

मध्यप्रदेशराज्यं वनदृष्ट्या समृद्धम् अस्ति । अस्य राज्यस्य भौगोलिकक्षेत्रस्य पञ्चत्रिंशत्प्रतिशतं (३५) भागः वनविस्तारः अस्ति । राज्ये एकलक्षचतुरस्रकिलोमीटर्मिते क्षेत्रे वनानि सन्ति । मध्यप्रदेशराज्ये अन्येषां राज्यानाम् अपेक्षया सर्वाधिकानि वनानि सन्ति । व्यवस्थादृष्ट्या प्रदेशे त्रिप्रकारकाणि वनानि सन्ति । आरक्षितवनं, संरक्षितवनं, अवर्गीकृतवनं च । मध्यप्रदेशराज्ये मुख्यतः चतुष्टप्रकारकाणि वनानि सन्ति । उष्णकटिबन्धीयवनं, शुष्कवनम्, उष्णकटिबन्धीयार्द्रवनम्, उपोष्णकटिबन्धीयपर्वतीयवनम्, उष्णकटिबन्धीयकण्टकीयवनं च । सर्वप्रथमं मध्यप्रदेश-राज्येन एव वनानां राष्ट्रियकरणं कृतम् । इदं राज्यं “टाईगर् स्टेट्” इति नाम्ना अपि ज्ञायते । यतः अस्मिन् प्रदेशे भारतस्य व्याघ्राणां १९ प्रतिशतं व्याघ्राः सन्ति । अस्मिन् राज्ये प्रायः पञ्च व्याघ्रपरियोजनाक्षेत्राणि सन्ति । सतपुडा-व्याघ्रपरियोजना, बान्धवगढ-व्याघ्रपरियोजना, पेंच-व्याघ्रपरियोजना, पन्ना-व्याघ्रपरियोजना, कान्हा-व्याघ्रपरियोजना च । मध्यप्रदेश-राज्ये चित्रकायः, मृगः, महिषः, कृष्णमृगः, भल्लुकः, व्याघ्रः, सिंहः इत्यादयः वन्यजीवाः सन्ति । राज्येऽस्मिन् अन्यराज्यानाम् अपेक्षया राष्ट्रियोद्यानानि, अभयारण्यानि च सर्वाधिकानि सन्ति । 

मध्यप्रदेशराज्यस्य इतिहासः अतीव पुरातनः अस्ति । पाषाणयुगस्य त्रयाणां कालानाम् अवशेषाः मध्यप्रदेशराज्ये प्राप्यन्ते । षष्ठशताब्द्यां षोडशमहाजनपदेषु जनपदद्वयम् आसीत् । चेदि, अवन्ती च । विक्रमादित्यः मध्यप्रदेशस्य शासकः राजा आसीत् । तेन विक्रमसंवतः आरम्भः कृतः । राज्ञा अशोकेन सर्वप्रथमम् उज्जैन-नगरे शासनं कृतम् । समयान्तरे इदं क्षेत्रं गुप्तसाम्राज्यस्य मुख्याङ्गम् अभवत् । समुद्रगुप्तः गुप्तशासकानां सफलशासकः आसीत् । भगवतः बुद्धस्य काले राजा चन्द्रप्रद्योतः अस्य प्रदेशस्य राजा आसीत् । सप्तमशताब्द्यां हर्षवर्धनेन राज्ञा अस्मिन् प्रदेशे शासनं कृतम् आसीत् । नवमशताब्द्याम् अस्मिन् प्रदेशे चन्देल-वंशस्य शासनम् आरब्धम् । तैः “खजुराहो” इत्येतन्नगरम् अस्य नगरस्य राजधानी कृता । “नन्नुक” इत्याख्यः चन्देल-राजवंशस्य संस्थापकः आसीत् । चन्देल-वंशजैः एव खजुराहो-नगरे भव्यमन्दिराणां निर्माणं कारितम् । अनन्तरं प्रतिहारवंशजैः, गहरवार-वंशजैः च शासनं कृतम् । 
एकादशशताब्द्याः आरम्भे मुस्लिमशासकाः मध्यभारतम् आगतवन्तः । अकबर-राज्ञः शासनकाले मुगल-वंशस्य शासनम् आरब्धम् । मुगल-शासकानां पतनान्तरं मराठा-शासकैः अस्मिन् प्रदेशे शासनं कृतम् । किन्तु आङ्ग्ल-शासकानां प्रभावः अधिकः आसीत् । तेन कारणेन मराठा-शासकाः पराजिताः । ग्वालियर-नगरे सिन्धिया-वंशस्य शासनम् आसीत् । “रानोजी” इत्याख्यः सिन्धिया-वंशस्य संस्थापकः आसीत् । “महादजी” इत्याख्यः सिन्धियावंशस्य प्रतापी राजा आसीत् । उच्यते यत् ई. स. १८१० पर्यन्तं सिन्धिया-वंशस्य राजधानी उज्जैन-नगरम् आसीत् ।

मध्यप्रदेशराज्ये ५० मण्डलानि सन्ति । प्रशासनसौकर्यार्थं राज्यं दशधा विभक्तम् । दशसु विभागेषु ५० मण्डलानि समाविष्टानि । यथा-

मध्यप्रदेशराज्ये चत्वारि महानगराणि सन्ति । इन्दौर, भोपाल, जबलपुरं, ग्वालियर च । 

२०११ वर्षस्य जनगणनानुसारं मध्यप्रदेश-राज्यस्य साक्षरतामानं ७०.२८ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८०.५३ प्रतिशतं, स्त्रीणां साक्षरतामानं ६०.०२ प्रतिशतम् अस्ति । ई. स. १९४६ तमे वर्षे सागर-नगरे “डॉ. हरिसिंह गौर विश्वविद्यालयस्य” स्थापना अभवत् ।  अयं मध्यप्रदेशराज्यस्य सर्वप्रथमः विश्वविद्यालयः आसीत् । अस्य राज्यस्य जबलपुर-मण्डलस्य साक्षरतामानं सर्वाधिकम् अस्ति । जबलपुर-मण्डलस्य साक्षरतामानं ८२.५ प्रतिशतम् अस्ति । अलीरजपुर-मण्डलस्य साक्षरतामानं न्यूनतमम् अस्ति । अस्य साक्षरतामानं ३७.२ प्रतिशतम् अस्ति ।

सागर-नगरस्य “डॉ. हरिसिंह विश्वविद्यालयः”, उज्जैन-नगरस्य “विक्रम विश्वविद्यालयः”, जबलपुर-नगरस्य “रानी दुर्गावती विश्वविद्यालयः”, इन्दौर-नगरस्य “देवी अहिल्या विश्वविद्यालयः”, ग्वालियर-नगरस्य “जीवाजी विश्वविद्यालयः”, रीवा-नगरस्य “अवधेश प्रतापसिंह विश्वविद्यालयः”. जबलपुर-नगरस्य “जवाहरलाल नेहरू कृषि विश्वविद्यालयः”, चित्रकूट-नगरस्य “महात्मा गान्धी चित्रकूट ग्रामोदय विश्वविद्यालयः”, भोपाल-नगरस्य “माखनलाल चतुर्वेदी राष्ट्रीय पत्रकारिता विश्वविद्यालयः”, भोपाल-नगरस्य “मध्यप्रदेश भोज मुक्त विश्वविद्यालयः” च इत्येतानि मध्यप्रदेशराज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति ।

हिन्दीभाषा मध्यप्रदेशस्य प्रमुखा भाषा । अस्याः भाषायाः नैकानि जनपदरूपाणि अत्र प्रचलितानि सन्ति । तद्यथा- मालवाप्रान्तस्य मालवी, निमाडप्रान्तस्य निमाडी, बुन्देलखण्डप्रान्तस्य बुन्देली, बागेलखण्डप्रान्तस्य बागेली, अवधी च । एतानि सर्वाण्यपि हिन्दीभाषायाः रूपान्तराणि सन्ति । भिलोडी (भिल), गोण्डी, कोर्कु, कालटो (निहाली) इत्येताः मध्यप्रदेशस्य आदिवासिनां भाषाः । शतमानद्वयादपि अधिककालं यावत् अस्मिन् राज्ये मराठाः राज्यभारं कृतवन्तः । अतः केषुचित् प्रदेशेषु अद्यापि मराठीभाषायामेव जनाः व्यवहारं कुर्वन्ति । भोपाल इत्येतन्महानगरे 'अफ्घानिस्थान'-पाकिस्थानदेशाभ्यां प्रवर्ज्यागताः जनाः ’सर्याकी’-’पाश्तो’भाषयोः व्यवहारं कुर्वन्ति ।

सुप्रसिद्धः ज्योतिर्विदः वराहमिहिरः उज्जयिन्यां वासमकरोत् । धाराराज्यस्य भोजराजस्य आस्थाने कविभ्यः आदरभावः, आश्रयश्च आसीत् । राजा भोजः स्वयमपि श्रेष्ठः कविः आसीत् । तेन रचिताः कृतयः अद्यापि विराजन्ते । स्वेन धारानगरे स्थापितसंस्कृतपाठाशाला अद्याप्यस्ति । पाठशालायाः भित्तिषु संस्कृतभाषायाम् उत्कीर्णिताः श्लोकाः शोभन्ते । मध्यप्रदेशे न केवलम् एते, अन्येऽपि पण्डिताः - धनपालः, भर्तृहरिः, आशाधारः, मनतुङ्गः, ब्रह्मगुप्तः, भास्कराचार्यः इत्यादयः विराजितवन्तः । चन्द्रगुप्तस्य काले धन्वन्तरी, क्षपणकः (सिद्धसेनः), अमरसिंहः, सङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिरः तथा वररुचिः नवरत्नरूपाः दिग्गजाः विरजन्ते स्म । आधुनिकाः प्रसिद्धाः कवयः माखनलाल चतुर्वेदी, शरद जोशी,  गजानन माधव मुक्तिबोध, विनोदकुमार शुक्ला इत्यादयः अत्रस्थाः एव सन्ति ।

मध्यप्रदेशः आदिवासिनां राज्यम् । पाश्चात्यादिदेशीयसंस्कृतेः प्रभावरहिताः अत्रस्थाः जनाः । परम्परागतस्वदेशीसंस्कृतिं अत्रस्थाः जनाः अद्यापि रक्षयन्तः सन्ति । अस्य प्रदेशस्य उत्सवादिषु, गीतनृत्येषु च पुरातनकालस्य साम्प्रदायिकस्वरूपं द्रष्टुं लभ्यते । 'कर्मा' इति तु मध्यप्रदेशस्य वायव्यभागे विद्यमानस्य ’गोण्ड’जनसमूहस्य एवम् ’ओरांव’समूहस्य च साम्प्रदायिकनृत्यमस्ति । इदं नृत्यम् अत्यन्तं प्राचीनम् इति परिगणितमस्ति । इदं नृत्यम् अधिकतया शरत्कालस्यारम्भे, वृष्टिकालस्यान्ते वा द्रष्टुं लभ्यते ।

मध्यप्रदेशराज्यं साहित्यिकदृष्ट्या समृद्धम् अस्ति । अस्मिन् राज्ये बहवः प्राचीनाः साहित्यकाराः, कवयः च अभवन् । तेषु शरभङ्गः, अगस्त्यः, महाकविः कालिदासः, नागार्जुनः, भवभूतिः, मण्डनमिश्रः गङ्गाधरः, ईशानः इत्यादयः अस्य राज्यस्य प्राचीनसाहित्यकाराः सन्ति । इतः परं “माखनलाल चतुर्वेदी, “सुभद्रा कुमारी चौहान”, “सेठ गोविन्ददास”, “द्वारिकाप्रसाद मिश्र” इत्यादयः आधुनिकसाहित्यकाराः सन्ति । अस्य प्रदेशस्य राजभाषा हिन्दी अस्ति । किन्तु अस्मिन् प्रदेशे अनुसूचितजातयः, अनुसूचितजनजातयः च निवसन्ति । अतः तासां भाषाः अपि विभिन्नाः भवन्ति । मध्यप्रदेशराज्यस्य ग्वालियर-नगरे राजवंशः निवसति स्म । तस्मिन् समये मानसिंहः ग्वालियर-नगरस्य राजा आसीत् । तेन भारतस्य प्रथमः सङ्गीतविद्यालयः प्रस्थापितः । तानसेनः अपि  अस्मिन् विद्यालये सङ्गीतशिक्षणम् अधीतवान् । तानसेनस्य जन्म अपि मध्यप्रदेशे एव अभवत् । “उस्ताद् अलाउद्दीन खाँ” इत्याख्यः प्रसिद्धः सितार-वादकः आसीत् । सः “पं. रविशङ्करस्य” गुरुः आसीत् । “अली अकबर खाँ”, “उस्ताद हाकिम खाँ” च सरोद-वादकः आसीत् । एतौ अपि मध्यप्रदेश-राज्येन सह सम्बद्धौ आस्ताम् ।

मध्यप्रदेशराज्ये पञ्च सांस्कृतिकक्षेत्राणि सन्ति । निमाड, मालवा, बुन्देलखण्ड, बघेलखण्ड, ग्वालियर च । प्रत्येकं क्षेत्रस्य संस्कृतिः भिन्ना वर्तते । तेषां क्षेत्राणां साहित्यम्, इतिहासः, कला, भाषा, वेशभूषा च भिन्ना अस्ति । मध्यप्रदेशस्स्य संस्कृतिः बहुधा वर्तते । मध्यप्रदेशे पञ्चसंस्कृतीनां समावेशः अस्ति । अपरं च जनजातीनाम् आदिमसंस्कृतेः अपि विस्तारः मध्यप्रदेशराज्ये अस्ति । अनेन प्रकारेण निमाड, मालवा, बुन्देलखण्ड, बघेलखण्ड, ग्वालियर इत्येतानि क्षेत्राणि सांस्कृतिकक्षेत्राणि सन्ति । धार-मण्डलं, झाबुआ-मण्डलं, मण्डला-मण्डलं, बालाघाटा-मण्डलं, छिन्दवाडा-मण्डलं, होशङ्गाबाद-मण्डलं, खण्डवा-मण्डलं, बुरहानपुर-मण्डलं, बैतूल-मण्डलं, रीवा-मण्डलं, सीधी-मण्डलं, शहडोल-मण्डलं  च इत्यादीनि मण्डलानि जनजातीयक्षेत्राणि सन्ति । इन्दौर-नगरे, खजुराहो-नगरे, उज्जैन-नगरे, पचमढी-नगरे च नगरे मेला-उत्सवः आचर्यते । पचमढी-नगरे शिवरात्रिपर्वणि जनाः महोत्सवम् आचरन्ति । झाबुआ-नगरे “भगोरिया” इत्ययम् उत्सवः प्रमुखः वर्तते । “अखिल-भारतीय-कालिदास-महोत्सवः”, “तानसेन-महोत्सवः”, “अलाउद्दीन खाँ-उत्सवः”, “कुमारगन्धर्व-उत्सवः”, “खजुराहो-नृत्य-उत्सवः” च इत्यादयः मध्यप्रदेशराज्य प्रमुखाः सांस्कृतिकोत्सवाः सन्ति । दीपावलिपर्व, रक्षाबन्धनं, विजयादशमी चेत्यादयः उत्सवाः अपि आचर्यन्ते ।

निमाड-क्षेत्रं मध्यप्रदेशस्य पश्चिमभागे स्थितम् अस्ति । अस्य क्षेत्रस्य एकस्मिन् पक्षे विन्ध्याचलपर्वतशृङ्खला, अपरे पक्षे सतपुडापर्वतशृङ्खला च वर्तते । अस्य क्षेत्रस्य मध्यभागे नर्मदा प्रवहति । पौराणिककाले निमाड-क्षेत्रम् “अनूप-जनपदः” कथ्यते स्म । समयान्तरे इदं “निमाड-क्षेत्रम्” इति नाम्ना ख्यातम् । अनन्तरम् इदं “पूर्व निमाड”, “पश्चिम निमाड” इत्येतयोः द्वयोः भागयोः विभागौ कृतौ ।

मालवा-क्षेत्रं कालिदासस्य जन्मभूमिः अस्ति । अस्य क्षेत्रस्य भूमिः उर्वरा वर्तते । विन्ध्याचलशैलप्रस्थे स्थितम् इदं मालवाक्षेत्रम् । इदं क्षेत्रं मध्यप्रदेशराज्यस्य पश्चिमभागे स्थितम् अस्ति । मालवा-क्षेत्रस्य अधिकांशभागस्य कृषिः चम्बल-नदीजलेन क्रियते । अस्य क्षेत्रस्य पश्चिमभागः माही-नद्या सेसिच्यते । प्राचीनकाले इदं मालव इति नाम्ना ज्ञायते स्म । समुद्रतलात् अस्य क्षेत्रस्य औन्नत्यं ४९६ मी. अस्ति । चतुर्थशताब्द्याम् अस्मिन् क्षेत्रे मालव-जातेः जनाः निवसन्ति स्म । अतः तेन कारणेन अस्य नाम मालवा इत्यभवत् ।

बुन्देलखण्डक्षेत्रं मध्यभारतस्य प्राचीनक्षेत्रं वर्तते । “बुन्देली” इत्येषा अस्य क्षेत्रस्य प्रमुखा भाषा वर्तते । यद्यपि अस्य क्षेत्रस्य भौगोलिकी, सांस्कृतिकी च स्थितिः विविधा वर्तते । तथापि अस्य क्षेत्रस्य जनेषु ऐक्यं भवति । अस्मिन् क्षेत्रे बहुभिः शासकैः शासनं कृतम् ।  बुन्देलखण्ड-क्षेत्रस्य पश्चिमदिशि यमुनानदी, दक्षिणदिशि विन्ध्यपर्वतशृङ्खला, उत्तर-पश्चिमदिशि चम्बलनदी, दक्षिणपूर्वदिशि अजमगढश्रेणयः सन्ति । अस्मिन् क्षेत्रे उत्तरप्रदेशस्य जालौन-मण्डलं, झाँसी-मण्डलं, हमीरपुर-मण्डलं, बांदा-मण्डलम् इत्यादीनि चत्वारि मण्डलानि स्थितानि अस्ति । एवं च मध्यप्रदेशराज्यस्य सागर-मण्डलं, दतिया-मण्डलं, टीकमगढ-मण्डलं, छतरपुर-मण्डलं, पन्ना-मण्डलम् इत्यादीनि पञ्च मण्डलानि स्थितानि सन्ति । “अल्हा-ऊदल”, “ईसुरी”, “कविः पद्माकरः”, “झाँसी की रानी लक्ष्मीबाई”, “हरिसिंह गौर” इत्यादयः अस्य क्षेत्रस्य प्रमुखाः प्रसिद्धाश्च व्यक्तयः सन्ति ।

बघेलखण्ड-क्षेत्रं मध्यप्रदेशस्य उत्तरपूर्वदिशि स्थितम् अस्ति । अनूपपुर-मण्डलं, रीवा-मण्डलं, सतना-मण्डलं, शहडोल-मण्डलं, सीधी-मण्डलं, उमरिया-मण्डलम्, उत्तरप्रदेशराज्यस्य सोनभद्र-मण्डलं च अस्मिन् क्षेत्रे गण्यते । बघेलखण्ड-क्षेत्रं पौराणिककालीनं वर्तते । रामायणकाले इदं क्षेत्रं कोसल-प्रान्ते स्थितम् आसीत् । वर्तमानकालस्य सोहागपुर-नगरं पुरा विराटनगरम् इति नाम्ना ज्ञायते स्म । तत् विराट्नगरं महाभारतकाले बघेलखण्डे स्थितम् आसीत् । अस्य क्षेत्रस्य जनाः शैवाः, शाक्ताः, वैष्णवाः च सन्ति ।

इदं क्षेत्रं मध्यप्रदेशस्य मध्यभागः वर्तते । इदं चम्बलक्षेत्रम् अपि कथ्यते । अस्मिन् क्षेत्रे भारतस्य इतिहासस्य बहव्यः घटनाः घटिताः । ग्वालियर-नगरम् अस्य क्षेत्रस्य सांस्कृतिकम् आर्थिकं च केन्द्रम् आसीत् ।

विशालेऽस्मिन् राज्ये भिन्नभिन्नप्रान्तेषु खाद्यानि भिद्यन्ते । गोधूमस्य तथा मांसस्य खाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगः दृश्यते । पूर्वदक्षिणभागयोः तण्डुलस्य, मत्स्यस्य च खाद्यानाम् उपयोगं कुर्वन्ति । ग्वालियर्-इन्दौर इत्येतयोः नगरयोः क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगम् अधिकतया कुर्वन्ति । मालवाप्रान्ते सस्याहारस्य प्राशस्त्यमस्ति । गुजरातराज्यस्य तथा राजस्थानराज्यस्य च खाद्यानां शैली अत्र दृश्यते । ’भुट्टे का कीस्’, गोधूमस्य 'हुड्' तथा दध्ना निर्मितं ’चक्की की शाक’ इत्येतानि खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितानि सन्ति । 

मध्यप्रदेशराज्यं कृष्याधारितम् अस्ति । अस्मिन् राज्ये कृषिकार्यं प्रधानं वर्तते । अस्य राज्यस्य ७५ प्रतिशतं जनाः कृषिकार्ये आधारिताः सन्ति । अस्य राज्यस्य प्रायः ५० प्रतिशतं स्थलं कृषियोग्यम् अस्ति । चणकः, गोधूमः, तण्डुलाः, तैलबीजं, सोयाबीन् , कार्पासः च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति । सम्पूर्णभारतस्य ८२ प्रतिशतं सोयामाष (Soybean)-सस्यम् अस्मिन् राज्ये उत्पाद्यते । अतः इदं “सोयामाष-प्रान्तः” इति नाम्ना अपि ज्ञायते । मध्यप्रदेशराज्यस्य इन्दौर-महानगरे “राष्ट्रिय-सोयाबीन-अनुसंधानकेन्द्रम्” अपि विद्यते । अस्मिन् राज्ये कृष्णमृत्तिका अधिकमात्रायां प्राप्यते । अतः कार्पासस्य, गोधूमस्य च कृषिः पर्याप्तमात्रायां क्रियते । शाजापुर-नगरं लवेटिका-सस्यस्य (corn) प्रमुखकेन्द्रं विद्यते । सेन्धवा-उपमण्डले, बडवानी-उपमण्डले लङ्गुरायाः (Millet) उत्पादनं क्रियते । निमाड-क्षेत्रे चणकस्य सर्वाधिकमात्रायाम् उत्पादनं भवति । मन्दसौर-मण्डलं पुलोमह्याः (Opium) उत्पादनाय भारते प्रसिद्धम् अस्ति । यद्यपि मध्यप्रदेशराज्यं भारतस्य द्वितीयं बृहत्तमं राज्यं वर्तते । प्राकृतिकसंसाधनैः, स्वस्थवातावरणेन, उर्वराकृष्या च इदं राज्यं समृद्धम् अस्ति । अतः मध्यप्रदेश-राज्यं विकासशीलं वर्तते । औद्योगिकक्षेत्रे, कृषिक्षेत्रे च मध्यप्रदेश-राज्ये व्यापारानुसारं निवेशः क्रियते ।

मध्यप्रदेशराज्यं कृष्युत्पादनानां, वनोत्पादनानां, खानिजानां च उत्पादने अग्रगण्यं वर्तते । कार्पासवस्त्राणां, कौशेयवस्त्राणां, चर्मणः, कर्गजानां च उद्योगाः अस्मिन् राज्ये प्रचलन्तः सन्ति । ई. स. १९६५ तमे वर्षे भोपाल-नगरे “मध्यप्रदेश औद्योगिक विकास निगम” इत्यस्याः संस्थायाः स्थापना जाता । खण्डवा-मण्डलस्य नेपानगरे “नेशनल न्यूज् प्रिण्ट् एण्ड् पेपर् मिल्” इत्ययं यन्त्रागारः स्थितः अस्ति । राज्ये राष्ट्रियमुद्राणां यन्त्रागाराः अपि सन्ति । होशङ्गाबाद-नगरे राष्ट्रियमुद्राणां कर्गजाः निर्मीयन्ते । अनन्तरं देवास-नगरस्य यन्त्रागारे राष्ट्रियप्रचलितमुद्राणां मुद्रणं क्रियते । ग्वालियर-नगरे अग्निशलाकायाः यन्त्रागारः विद्यते । ई. स. १९६० तमे वर्षे भोपाल-नगरे “भारत भारी विद्युत् उपकरण लिमिटेड्” इत्याख्यः यन्त्रागारः ब्रिटेन्-देशस्य सर्वकारस्य साहाय्येन संस्थापितः । 

मध्यप्रदेश-राज्ये पर्यटनस्य बहूनि स्थलानि सन्ति । पर्यटनदृष्ट्या मध्यप्रदेशराज्यं समृद्धम् अस्ति । अस्मिन् राज्ये प्राकृतिकस्थलानि, वन्याभयारण्यानि ऐतिहासिकस्थलानि च सन्ति । मध्यप्रदेश-राज्यं भारतस्य हृदयं मन्यते । अस्य राज्यस्य इतिहासः, भौगोलिकस्थितिः, प्राकृतिकं सौन्दर्यं, सांस्कृतिकभवनानि च राष्ट्रियसम्पत्तिः अस्ति । भारतस्य विभिन्ननगरेभ्यः, विभिन्नदेशेभ्यः च जनाः मध्यप्रदेशराज्यस्य भ्रमणं कर्तुं समागच्छन्ति ।

खजुराहो इत्येतत् रमणीयं स्थलं मध्यप्रदेश-राज्यस्य छतरपुर-मण्डले स्थितम् अस्ति । इदं बुन्देलखण्ड-क्षेत्रे विराजते । विन्ध्यपर्वतशृङ्खलायाः समीपे स्थितम् अस्ति इदं स्थलम् । प्राचीनकाले खजुराहो इत्यस्य स्थलस्य “खजूरपुरा”, “खजूर वाहिका” इत्यादीनि नामानि आसन् । अत्र बहूनि हिन्दुमन्दिराणि, जैनमन्दिराणि च सन्ति । अस्मिन् स्थले खजुराहो-मन्दिरं विद्यते । तन्मन्दिरं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य मन्दिरस्य स्तम्भेषु, भित्तिषु च मूर्तयः सन्ति । ताः मूर्तयः बलुआ-पाषाणेषु उत्कीर्णाः सन्ति । अतः मन्दिरमिदं विख्यातम् अस्ति । खजुराहो-स्थलस्य इतिहासः सहस्राधिकवर्षेभ्यः पुरातनः अस्ति । इदं चन्देल-साम्राज्यस्य राजधानी आसीत् । चन्द्रवर्मन् इत्याख्यः शासकः अस्य स्थलस्य स्थापकः आसीत् । चन्द्रवर्मणा मध्यकाले बुन्देलखण्ड-क्षेत्रे शासनं कृतम् आसीत् । दशमशताब्दीतः द्वादशशताब्दीपर्यन्तं चन्देल-राजभिः मध्यभारते शासनं कृतम् । ई.स. ९५० तः १०५० पर्यन्तं खजुराहो-मन्दिराणां निर्माणं चन्देल-राजभिः कारितम् आसीत् । तैः आहत्य पञ्चाशीतिः मन्दिराणि निर्मापितानि आसन् । साम्प्रतं तेषु मन्दिरेषु द्वाविंशतिः मन्दिराणि एव सन्ति । मन्दिरेऽस्मिन् शृङ्गारदृश्यानि उत्कीर्णानि सन्ति । ई. स. १९८६ तमे वर्षे “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इदं मन्दिरं वैश्विकसम्पत्तित्वेन उद्घोषितम् । तानि उत्कीर्णानि दृष्टुं जनाः तत्र गच्छन्ति । चतुष्षष्ठीयोगिनीमन्दिरं, जावेरीमन्दिरं, देवीजगदम्बामन्दिरं, विश्वनाथमन्दिरं, केन्द्रीयमहादेवमन्दिरं, लक्ष्मणमन्दिरं च इत्येतानि मन्दिराणि खजुराहो-स्थलस्य प्रसिद्धानि मन्दिराणि सन्ति । खजुराहो-स्थले नृत्यमहोत्सवः अपि आयोज्यते । इमं महोत्सवं प्रतिवर्षं फरवरी-मासस्य २५ दिनाङ्कतः मार्च-मासस्य २ दिनाङ्कपर्यन्तं जनाः आचरन्ति । विश्वस्य विभिन्नदेशेभ्यः जनाः उत्सवे समागच्छन्ति । अस्य स्थलस्य वातावरणं यद्यपि मनोहरं भवति, किन्तु अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः तत्र भ्रमणार्थं गच्छन्ति । ग्रीष्मर्तौ उष्णतायाः आधिक्येन तत्कालः न वरः । 
खजुराहो-स्थलं मध्यप्रदेश-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । महोबा, जबलपुर, भोपाल, झांसी, ग्वालियर च इत्यादिभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । जनाः वैयक्तिकवाहनैः अपि तत्र गच्छन्ति । तत्र एकं रेलस्थानकम् अस्ति । तत् मध्यप्रदेश-राज्यस्य समीपस्थैः नगरैः सह सम्बद्धम् अस्ति । इदं रेलस्थानकं लघु अस्ति । महोबा-नगरे अस्य समीपस्थं रेलस्थानकम् अस्ति । खजुराहो-स्थलात् महोबा-नगरं ६३ किलोमीटर्मिते दूरे स्थितम् अस्ति । खजुराहो-नगरे एकं विमानस्थानकम् अपि अस्ति । खजुराहो-नगरात् विमानस्थानकं ५ किलोमीटर्मिते दूरे स्थितम् अस्ति । भारतस्य मुम्बई, देहली, कोलकाता इत्यादिभिः प्रमुखनगरैः सह इदं विमानस्थानकं सम्बद्धम् अस्ति । विमानस्थानकात् भाटकयानानि, बसयानानि च प्राप्यन्ते । जनाः सरलतया खजुराहो-नगरं गन्तुं शक्नुवन्ति ।

उज्जैन-नगरं मध्यप्रदेशराज्यस्य उज्जैन-मण्डलस्य मुख्यालयः अस्ति । इदम् ऐतिहासिकं नगरं विद्यते । पुरा इदं नगरम् “उज्जयिनी” इति नाम्ना ज्ञायते स्म । नगरमिदं क्षिप्रा-नद्याः तटे स्थितम् अस्ति । उज्जैन-नगरे बहूनि धार्मिकस्थलानि सन्ति । उज्जैन-नगरे अशोक-राज्ञा, विक्रमादित्य-राज्ञा च इत्यादिभिः राजभिः शासनं कृतम् आसीत् । वेदेषु, पुराणेषु च अपि उज्जैन-नगर्याः वर्णनं प्राप्यते । महाभारतकाले इदं नगरम् अवन्तिराज्यस्य राजधानी आसीत् । वराहमिहिरः, ब्रह्मगुप्तः च इत्यादयः प्रसिद्धाः पुरुषाः अनेन नगरेण सह सम्बद्धाः सन्ति । द्वादशज्योतिर्लिङ्गेषु महाकालेश्वरज्योतिर्लिङ्गम् अपि उज्जैन-नगरे स्थितम् अस्ति । चिन्तामणिगणेश-मन्दिरं, बडे गणेशमन्दिरं, हरसिद्धिमन्दिरं, विक्रमकीर्तिमन्दिरं, गोपालमन्दिरं, नवग्रहमन्दिरं च इत्यादीनि मन्दिराणि उज्जैन-नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । भर्तृहरिगुहाः, सान्दीपनी-आश्रमः, कालभैरवमन्दिरं, गढकालिकामन्दिरं, मङ्गलनाथमन्दिरं, मत्स्येन्द्रनाथमन्दिरं च अस्य नगरस्य पर्यटनस्थलानि सन्ति । तेषु “कालियादेह महल” इत्येतत् स्थलं वास्तुकलायै प्रसिद्धम् अस्ति । अतः जनाः तत्र गच्छन्ति ।

पुरा जयसिंह-राज्ञा वेद्यशाला निर्मापिता आसीत् । तेन भारतस्य बहुषु स्थानेषु अपि नैकाः वेद्य शालाः निर्मापिताः । ज्योतिषविद्यायै अपि उज्जैन-नगरं प्रसिद्धम् अस्ति । तत्र “कालिदास अकादमी” इत्याख्या संस्था स्थिता अस्ति । ई. स. १९७८ तमे वर्षे मध्यप्रदेशसर्वकारेण इयं संस्था संस्थापिता । तत्र कालिदासस्य कृतिषु अध्ययनकार्यं, संशोधनकार्यं च प्रचलति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । यतः ग्रीष्मर्तौ उष्णतायाः आधिक्येन वातावरनम् अनुकूलं न भवति । किन्तु अक्टूबर-मासतः मार्च-मार्च् पर्यन्तं वातावरणं शीतलं भवति । तेन जनाः आनन्देन तत्र भ्रमन्ति ।

उज्जैन-नगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । भोपाल, इन्दौर, अहमदाबाद, ग्वालियर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । उज्जैन-नगरे एकं रेलस्थानकम् अस्ति । इन्दौर, मुम्बई, पुणे, कोलकाता, भोपाल च इत्यादिभिः प्रमुखनगरैः रेलयानानि प्राप्यन्ते । उज्जैन-नगरे विमानस्थानकं नास्ति । उज्जैन-नगरात् ५५ किलोमीटर्मिते दूरे इन्दौर-नगरं स्थितम् अस्ति । तस्मिन् नगरे “देवी अहिल्याबाई होल्कर विमानस्थानकम्” विद्यते । भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते ।

पेंच-नगरं मध्यप्रदेश-राज्यस्य सिवनी-मण्डले स्थितम् अस्ति । नगरेऽस्मिन् “पेंच-राष्ट्रियोद्यानम्”, “पेंच टाईगर रिजर्व्” च अस्ति । अतः एव इदं नगरं प्रसिद्धम् अस्ति । उद्याने विविधप्रकारकाः वनस्पतयः, जीवजन्तवः च सन्ति । औषधीयपादपाः अपि बहुप्रकारकाः भवन्ति । वानरः, गन्धमार्जारः, भल्लूकः, व्याघ्रः, श्वा, शूकरः, चित्रकायः, मृगः च इत्यादयः उद्यानस्य मुख्याः पशवः सन्ति । पचधार-ग्रामः, नवेगांव-राष्ट्रियोद्यानं, कान्हा-राष्ट्रियोद्यानं, नागपुर-नागझिरा-अभयारण्यं च इत्यादयः पेंच-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “पेंच तुरिया गेट” इत्यस्मात् स्थलात् पचधार-ग्रामः १८ किलोमीटर्मिते दूरे स्थितः अस्ति । पेंच-नगरस्य समीपे विभिन्नजनजातीनां जनाः निवसन्ति । तेषां जनानां परम्परा, संस्कृतिः च अपि भिन्ना भवन्ति । पेंच-नगरात् कान्हा-राष्ट्रियोद्यानम् १९८ किलोमीटर्मिते दूरे स्थितम् अस्ति । प्रतिवर्षम् अक्टूबर-मासस्य १६ दिनाङ्कतः जून-मासस्य २३ तमदिनाङ्कपर्यन्तं पेंच-राष्ट्रियोद्यानस्य भ्रमणं कर्तुं शक्यते । यतः जुलाई-मासतः सितम्बर-मासपर्यन्तं वर्षर्तौ इदम् उद्यानं पिहितं भवति । फरवरी-मासतः अप्रैल-मासपर्यन्तं भ्रमणाय उत्तमकालं भवति । 
सिवनी-नगरस्य बसस्थानकं पेंच-नगरस्य समीपस्थं बसस्थानकम् अस्ति । ततः सिवनी-नगरं ३० किलोमीटर्मितम् अस्ति । सिवनी-नगरात् महाराष्ट्रस्य, मध्यप्रदेशस्य च प्रमुखनगरेभ्यः बसयानानि प्राप्यन्ते । पेंच-नगरस्य समीपस्थं रेलस्थानकं सिवनी-नगरे अस्ति । तत् ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । पेंच-नगरात् नागपुर-नगरस्य सोनेगांव-विमानस्थानकम् अस्ति । तत् १३२ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः पुणे, मुम्बई, देहली इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते ।

साँची-ग्रामः मध्यप्रदेश-राज्यस्य रायसेनमण्डले स्थितः अस्ति । पुरा अयं ग्रामः “विदिशागिरि” इति नाम्ना ज्ञायते स्म । अयं ग्रामः भोपाल-नगरस्य पूर्वोत्तरदिशि ४६ किलोमीटर्मिते दूरे स्थितः अस्ति । बेसनगरात्, विदिशा-नगरात् च १० किलोमीटर्मिते दूरे स्थितमस्ति । ग्रामः अयं मध्यप्रदेशराज्यस्य मध्यभागे विराजते । ग्रामेऽस्मिन् बहवः बौद्धस्मारकाणि सन्ति । तानि स्मारकाणि ई. स. पूर्व तृतीयशताब्दीतः द्वादशशताब्दीपर्यन्तकालस्य सन्ति । अस्मिन् ग्रामे बौद्धधर्मस्य एकः स्तूपः अपि स्थितः अस्ति । सः स्तूपः “साँचीस्तूपः” इति नाम्ना विश्वस्मिन् प्रसिद्धः अस्ति । बौद्धविहारः, साँचीसङ्ग्रहालयः, द ग्रेट् बाउल् ऑफ् गुप्ता, अशोकस्तम्भः च इत्यादीनि साँची-ग्रामस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “साँची-ग्रामे बहूनि बौद्धस्मारकाणि सन्ति” इति सत्यम् अस्ति । साँची-ग्रामस्य इतिहासः भगवता बुद्धेन सह सम्बद्धः अस्ति । किन्तु आश्चर्यमस्ति यत् – “भगवान् बुद्धः साँची-ग्रामं कदापि न आगतवान्” इति ।

पुरा साँची-ग्रामः व्यापारिणां केन्द्रम् आसीत् । तैः व्यापारिभिः बौद्धप्रथायाः प्रचारः अपि कृतः । साँचीस्तूपस्य विषये एका कथा प्राप्यते यत् - “अशोकस्य शासनकाले “देवी” इत्याख्या कन्या आसीत् । सा बौद्धभक्ता आसीत् । अशोकः तस्यां स्निहति स्म । देव्या एव बौद्धस्तूपानां निर्माणाय अशोकः प्रेरितः । साँचीस्तूपस्य प्रवेशद्वाराणां वास्तुकला अद्भुता अस्ति । इदं स्थलं भारतस्य विशिष्टबौद्धस्थलेषु अन्यतमम् अस्ति । नवम्बर-मासतः फरवरी-मासपर्यन्तं साँची-ग्रामे धार्मिकोत्सवाः आचर्यन्ते । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति ।

साँची-ग्रामात् मध्यप्रदेशस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । जनाः वैयक्तिकवाहनैः, भाटकवाहनैः च तत्र गच्छन्ति । इन्दौर, भोपाल, विदिशा च इत्यादीनि नगराणि साँची-ग्रामेण सह सम्बद्धानि सन्ति । भोपाल-नगरे साँची-ग्रामस्य समीपस्थं रेलस्थानकम् अस्ति । भोपाल-नगरं साँची-ग्रामात् ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-रेलस्थानकात् भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ततः साँची-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । भोपाल-नगरे राजाभोज-विमानस्थानकम् विद्यते । साँची-ग्रामात् तद्विमानस्थानकं ४६ किलोमीटर्मिते दूरे स्थितम् अस्ति । देहली, मुम्बई, जबलपुर, इन्दौर, ग्वालियर इत्यादिभिः नगरैः सह राजाभोज-विमानस्थानकं सम्बद्धम् अस्ति । ततः तेभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । राजाभोज-विमानस्थानकात् साँची-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । जनाः सरलतया साँची-ग्रामं गन्तुं शक्नुवन्ति ।

इटारसी-नगरं मध्यप्रदेश-राज्यस्य होशङ्गाबाद-मण्डले स्थितम् अस्ति । मध्यप्रदेशस्य प्रसिद्धं रेलस्थानकं, व्यापारिकं केन्द्रं च अस्ति इदं नगरम् । अस्य नगरस्य रेलस्थानकं प्राचीनतमं रेलस्थानकम् अस्ति । कृषिक्षेत्रे, औद्योगिकक्षेत्रे च अस्य नगरस्य विशिष्टं स्थानं वर्तते । इटारसी-नगरं हस्तकलायै, शिल्पकलायै, प्राचीनकलायै च भारते प्रसिद्धम् अस्ति । भोपाल-नगरात् ९० किलोमीटर्मिते दूरे स्थितम् अस्ति इदं नगरम् । हिन्दी-भाषायाः “ईंट”, “रस्सी” इत्येताभ्यां शब्दाभ्यां “इटारसी” नामोत्पत्तिः जाता । यतः अस्मिन् नगरे ईष्टिकायाः, रज्जोः व्यापारः प्रमुखः अस्ति । इटारसी-नगरे खानिजस्य प्रचूरमात्रा लभ्यते । अतः तत्र भारतीयसेनायै शस्त्रास्त्राणि निर्मीयन्ते । अस्मिन् नगरे बहवः यन्त्रागाराः सन्ति । अतः एव व्यावसायिकेन्द्रत्वेन सम्पूर्णे भारते विख्यातम् इदं नगरम् । इटारसी-नगरस्य समीपे पर्यटनस्थलानि अपि बहूनि सन्ति । बोरी-अभयारण्यं, तवा-जलबन्धः, बूढीमाता-मन्दिरं, बडा हनुमन् मन्दिरं, स्वप्नेवरहनुमन्-मन्दिरं, विन्ध्येश्वरीमाता-मन्दिरं, द्वारकाधीशमन्दिरं, मलोथर च इत्यादीनि इटारसी-नगरस्य वीक्षणीयस्थलानि सन्ति । शीतर्तुः अस्य नगरस्य भ्रमणाय उत्तमः कालः अस्ति ।

इटारसी-नगरं मध्यप्रदेशराज्यस्य व्यावसायिकं नगरम् अस्ति । अतः तत्र आवागमस्य श्रेष्ठव्यवस्था अस्ति । राष्ट्रियराजमार्गेण सह इदं नगरं सम्बद्धम् अस्ति । मध्यप्रदेशराज्यस्य इन्दौर, भोपाल, उज्जैन, ग्वालियर इत्यादिभिः प्रमुखनगरैः सम्बद्धम् अस्ति । इटारसी-नगरात् तेभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । इटारसी-नगरे मध्यप्रदेशराज्यस्य प्राचीनतमं, बृहत्तमं च रेलस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । ततः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते ।भोपाल-नगरस्य राजाभोज-विमानस्थानकम् इटारसी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इटारसी-नगरात् तद्विमानस्थानकं ९० किलोमीटर्मिते विद्यते । राजाभोज-विमानस्थानकात् इटारसी-नगराय भाटकयाननि, बसयानानि च प्राप्यन्ते ।

माण्डवगढ-नगरं मध्यप्रदेशराज्यस्य धार-मण्डले स्थितम् अस्ति । माण्डू, शादियाबाद च इत्येते अस्य अपरे नामानि स्तः । पर्यटनदृष्ट्या माण्डवगढ-नगरं रमणीयं स्थलं, ऐतिहासिकं स्थलं च वर्तते । इदं नगरं मालवा-क्षेत्रे अस्ति । अतः मध्यप्रदेशसर्वकारः प्रतिवर्षं मालवा-समारोहस्य आयोजनं करोति । अतः तस्मिन् उत्सवे बहवः जनाः समागच्छन्ति । पुरा माण्डवगढ एकं लघुराज्यम् आसीत् । अफगान-देशस्य “दिलावर खान” इत्याख्येन राज्ञा अस्मिन् राज्ये शासनं कृतम् । “दिलावर खान” इत्याख्यस्य पुत्रः “होसाङ्ग शाह” आसीत् । तेन अपि ग्वालियर-राज्ये शासनम् कृतम् । सः एकः श्रेष्ठः राजा आसीत् । तेन ग्वालियर-राज्यस्य विकासः कृतः । अनन्तरम् अस्मिन् राज्ये मुगल-शासकैः अपि शासनं कृतम् । ई. स. १७३२ तमे वर्षे मराठा-शासकैः अस्मिन् राज्ये विजयः प्राप्तः । वर्षर्तौ माण्डवगढ-नगरस्य वातावरणं सौम्यं, मनोहरं च भवति । अतः तस्मिन् काले ग्वालियर-नगरस्य भ्रमणं वरम् । माण्डवगढ-नगरम् ऐतिहासिकदृष्ट्या अतीव महत्त्वपूर्णम् अस्ति । अस्मिन् नगरे वास्तुकलायाः अपि प्रतिकृतयः प्राप्यन्ते । “होसाङ्ग शाह” इत्याख्येन “होसाङ्ग मकबरा” श्वेतशैलैः निर्मापितम् आसीत् । “होसाङ्ग मकबरा” भारतस्य सर्वप्रथमं श्वेतशैलनिर्मिता रचना अस्ति । अस्याधारेण एव “शाहजहां” इत्याख्यः राजा “ताजमहल” निर्मापितुं प्रेरितः जातः ।

माण्डवगढ-नगरं राष्ट्रियराजमार्गेण, राजकीयराजमार्गेण च सम्बद्धम् अस्ति । माण्डवगढ-नगरात् भारतस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । माण्डु-नगरे रेलस्थानकं नास्ति । रतलाम-नगरस्य रेलस्थानकं माण्डवगढ-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । माण्डवगढ-नगरात् रतलाम-नगरं १०५ किलोमीटर्मिते दूरे स्थितम अस्ति । रतलाम-रेलस्थानकं देहली-मुम्बई-रेलमार्गस्य मुख्यरेलस्थानकम् अस्ति । भारतस्य प्रमुखनगरेभ्यः ततः रेलयानानि प्राप्यन्ते । रतलाम-नगरात् बसयानैः माण्डवगढ-नगरं प्राप्यते । माण्डवगढ-नगरस्य समीपस्थं विमानस्थानकम् इन्दौर-नगरे अस्ति । इन्दौर-नगरं १०० किलोमीटर्मिते दूरे स्थितमस्ति । देहली, मुम्बई, ग्वालियर, भोपाल इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः इन्दौर-विमानस्थानकात् नियमितरूपेण वायुयानानि प्राप्यन्ते ।

पन्ना-नगरं भारतस्य पन्नामण्डलस्य केन्द्रमस्ति । हीरकमणये सम्पूर्णभारते प्रसिद्धम् अस्ति इदं नगरम् । पन्ना-नगरस्य हीरकमणयः विश्वस्मिन् विक्रीयन्ते । पन्ना-नगरस्य हीरकमणीनां गुणवत्ता उत्तमा भवति । हिन्दुधर्मस्य अस्मिन् नगरे महत्त्वम् अधिकं विद्यते । पन्नाराष्ट्रियोद्यानं पन्ना-नगरस्य प्रमुखं वीक्षणीयस्थलम् अस्ति । पाण्डवगुहाः, पाण्डवजलप्रपाताः, उद्यानानि च अस्य नगरस्य प्राकृतिकस्थलानि सन्ति ।

पन्ना-नगरं राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । देहली, आग्रा, झाँसी, लखनऊ, फरीदाबाद, वाराणसी, नागपुर, जबलपुर, इलाहाबाद, ढोलपुर, इन्दौर, भोपाल च इत्यादिभिः प्रमुखनगरैः सह सम्बद्धम् अस्ति । पन्ना-नगरे रेलस्थानकं नास्ति । पन्ना-नगरस्य समीपे खजुराहो, सतना च इत्येते द्वे रेलस्थानके स्तः । पन्ना-नगरात् खजुराहो-नगरं ४५ किलोमीटर्मिते, सतना-नगरं ७५ किलोमीटर्मिते च दूरे स्थितमस्ति । ते रेलस्थानके भारतदेशस्य प्रमुखनगरैः च सम्बद्धे स्तः । ताभ्यां रेलस्थानकाभ्यां पन्ना-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । पन्ना-नगरे विमानस्थानकम् अस्ति किन्तु साम्प्रतं तस्य उपयोगः न क्रियते । किन्तु खजुराहो-नगरे पन्ना-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । जनाः सरलतया पन्ना-नगरं प्राप्नुवन्ति । 

पचमढी-नगरं मध्यप्रदेश-राज्यस्य एकाकि एव पर्वतीयक्षेत्रम् अस्ति । पचमढी-स्थलं “सतपुडा की रानी”, “क्वीन् ऑफ् सतपुडा” वा इति नाम्ना ज्ञायते । सतपुडापर्वतशृङ्खलायाः भागः अस्ति इदं क्षेत्रम् । इदं स्थलं १११० मीटर्मिते औन्नत्ये स्थितम् अस्ति । पचमढी-नगरं गौण्ड्-जनजातेः आदिवासिवंशस्य राजधानी आसीत् । “भावुत सिंह” इत्याख्यः गौण्ड-आदिवासिनां राजा आसीत् । ई. स. १८५७ तमे वर्षे ब्रिटिश-सेनायाः जेम्स् फोरसिथ् इत्याख्येन नायकेन पचमढी-पर्वतीयक्षेत्रम् अन्विष्टम् । अस्य क्षेत्रस्य विकासाय तस्य योगदानम् अपि अस्ति । ई. स. २००९ तमे वर्षे “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इदं क्षेत्रं जीवमण्डलारक्षितक्षेत्रम् उद्घोषितम् आसीत् । पचमढी-क्षेत्रे बहूनि पर्यटनस्थलानि सन्ति । तत्र स्थितं “धूपगढ” इत्येतत् स्थलं विन्ध्य-सतपुडापर्वतशृङ्खलायाः, मध्यभारतस्य च उच्चतमः बिन्दुः अस्ति । पचमढी-स्थले प्राचीनगुहाः, स्मारकाणि, जलप्रपाताः, वनानि च सन्ति । एतानि स्थलानि पचमढी-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । हांडी खोह, जटाशङ्करगुहा, पाण्डवगुहाः, अप्सराविहारः, बी फॉल्, डचेस् फॉल् च इत्यादयः पचमढी-नगरस्य वीक्षणीयस्थलानि सन्ति । यद्यपि पचमढी-नगरस्य वातावरणं सर्वदा सुखमयम्, आनन्दमयं च भवति, तथापि अक्टूबर-मासतः जून-मासपर्यन्तं पचमढी-नगरस्य वातावरणं सर्वोत्तमं भवति ।

पचमढी-नगरं मध्यप्रदेश-राज्यस्य विभिन्ननगरैः भूमार्गेण संलग्नम् अस्ति । महाराष्ट्र-राज्यस्य सर्वकारसञ्चालितानि बसयानानि अपि पचमढी-नगराय प्राप्यन्ते । भोपाल-नगराय, पिपरिया-नगराय, नागपुर-नगराय च अपि पचमढी-नगरात् बसयानानि प्राप्यन्ते । पिपरिया-नगरस्य रेलस्थानकं पचमढी-नगरस्य निकटतमं रेलस्थानकम् अस्ति । इदं पचमढी-नगरात् ४७ किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरे अपि रेलस्थानकम् अस्ति । तत् पचमढी-नगरात् २०० किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरे स्थितं “राजा भोज-विमानस्थानकं” पचमढी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं पचमढी-नगरात् १९५ किलोमीटर्मिते दूरे स्थितमस्ति । तस्माद् विमानस्थानकात् दिल्ली-महानगराय, मुम्बई-महानगराय, ग्वालियर-नगराय, इन्दौर-महानगराय च वायुयानानि प्राप्यन्ते । “राजा भोज-विमानस्थानकात् पचमढी-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते ।

बान्धवगढ इत्येतत् स्थलं मध्यप्रदेश-राज्यस्य रीवा-मण्डले स्थितम् अस्ति । इदं नगरं राष्ट्रियोद्यानाय भारते प्रसिद्धम् अस्ति । इदं नगरं श्वेतव्याघ्राणां निवासस्थानं मन्यते । रीवा-प्रान्तस्य राजा आखेटाय बान्धवगढ-स्थलस्य उपयोगं करोति स्म । तत्र पर्वतक्षेत्रे एकः दुर्गः अपि स्थितः अस्ति । प्रागेव इदं स्थलं राष्ट्रियोद्यानत्वेन मन्यते । पुरा इदम् अभयारण्यम् आखेटाय प्रसिद्धम् आसीत् । किन्तु साम्प्रतं सर्वकारेण अवैधाखेटाय प्रतिबन्धः कृतः । तेन व्याघ्राणां सङ्ख्या वर्धते । ई. स. १९६८ तमे बान्धवगढ-नगरं राष्ट्रियोद्यानत्वेन विख्यातम् अभवत् । भारते सर्वाधिकाः व्याघ्राः अस्मिन् अभयारण्ये वसन्ति । इतः परं चित्रकायाणां (Panthers), मृगानां च विभिन्नप्रजातयः  प्राप्यन्ते । तत्र बहवः वन्यजीवाः  अपि प्राप्यन्ते । अस्मिन् उद्याने विहगानां पञ्चाशताधिकद्विशतं प्रजातयः प्राप्यन्ते । तत्र विभिन्नप्रकाराकाः वृक्षाः, वनौषधयः चापि सन्ति ।

बान्धवगढ-दुर्गः, विन्ध्यपर्वतशृङ्खला च अस्य स्थलस्य प्रसिद्धे पर्यटनस्थले स्तः । मध्यप्रदेश-राज्ये नव राष्ट्रियोद्यानानि, पञ्चविंशति अभयारण्यानि च सन्ति । अतः एव इदं राज्यं सम्पूर्णे भारते विख्यातम् अस्ति । तेषु अभयारण्येषु बान्धवगढ-राष्ट्रियाभयारण्यं सर्वाधिकं प्रसिद्धम् अस्ति । अनेन कारणेन मध्यप्रदेशराज्यं “टाईगर् स्टेट्” इति कथ्यते । बान्धवगढ-नगरस्य प्राचीनाः गुहाः, घारपुरी-जलबन्धः, शेषशय्या, घोराडेमांव-जलप्रपातः, बघेल-सङ्ग्रहालयः च इत्यादीनि अस्य नगरस्य आकर्षणस्य स्थलानि सन्ति ।

बान्धवगढ-नगरं भूमार्गेण मध्यप्रदेशराज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मध्यप्रदेश-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि नियमितरूपेण प्राप्यन्ते । कटनी-नगरस्य रेलस्थानकं बान्धवगढ-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कटनी-रेलस्थानकात् वडोदरा-नगराय, मुम्बई-नगराय, बेङ्गळूरु-महानगराय, चेन्नै-महानगराय च इत्यादिभ्यः भारतस्य प्रमुकनगरेभ्यः रेलयानानि प्राप्यन्ते । कटनी-रेलस्थानकात् बान्धवगढ-नगराय बसयानानि, भाटकयानानि च सरलतया प्राप्यन्ते । जबलपुर-नगरस्य विमानस्थानकं बान्धवगढ-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय, इन्दौर-महानगराय च वायुयानानि प्राप्यन्ते । 

रीवा-नगरं मध्यप्रदेश-राज्यस्य रीवा-मण्डलस्य मुख्यालयः अस्ति । अस्मिन् नगरे सङ्ग्रहालयाः, दुर्गाः, जलप्रपाताः, ऐतिहासिकस्थलानि च सन्ति । एतानि सर्वाणि स्थलानि प्राकृतिकानि, मानवनिर्मितानि च सन्ति । तत्र श्वेतव्याघ्राः अपि प्राप्यन्ते । इदं स्थलं चतुर्षु भागेषु विभक्तम् अस्ति यत् – “बिञ्झ-पर्वतः, अधस्तात् उत्तरीस्थलं, कायमोर-पर्वतः, रीवा-शैलप्रस्थः च । नर्मदा-नद्याः अपरं नाम रीवा अपि अस्ति । अतः अस्य नगरस्य नाम रीवा इति अभवत् । ई. पूर्व तृतीयशताब्द्यां  मौर्यशासकानां शासनम् आसीत् । बाघैल-सङ्ग्रहालयः, रीवा-दुर्गः, “पीली कोठी”, गोविन्दगढ-दुर्गः, गोविन्दगढ-भवनं, वैङ्कट-भवनम्, “रानी तालाब”, “एपीएस् विश्वविद्यालय स्टेडियम्”, “भाईरोम बाबा - इत्याख्यस्य प्रतिमा”, रानीपुर कारचुलियन्, केओंती-जलप्रपातः, पुरवा-जलप्रपातः, चाचाय-जलप्रपातः च रीवा-नगरस्य पर्यटनस्थलानि सन्ति । वर्षतुः रीवा-नगरस्य भ्रमणार्थम् उत्तमः ऋतुः वर्तते । जुलाई-मासतः सितम्बर-मासपर्यन्तं जनाः तत्र पर्यटनाय गच्छन्ति । तस्मिन् काले रीवा-नगरस्य सौन्दर्यम् अतीव आह्लादकं दृश्यते ।

रीवा-नगरे मध्यप्रदेश-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । इदं नगरं भूमार्गेण मध्यप्रदेशराज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । रीवा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं रीवा-नगरात् ५.८ किलोमीटर्मिते दूरे स्थितम् अस्ति । भारतस्य, मध्यप्रदेशस्य च प्रमुकनगरेभ्यः रीवा-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । रीवा-नगरं भोपाल-नगरेण, देहली-महानगरेण, जयपुर-नगरेण इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । खजुराहो-नगरे रीवा-नगरस्य समीपस्थं विमानस्थानकमस्ति । खजुराहो-नगरात् रीवा-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते ।

महेश्वर-पत्तनं मध्यप्रदेश-राज्यस्य खरगौन-मण्डले स्थितम् अस्ति । अस्मिन् पत्तने हस्तनिर्मितानि वस्त्राणि प्राप्यन्ते । तत्र हस्तनिर्मिताः शाटिकाः अपि प्राप्यन्ते । अत एव इदं भारते प्रसिद्धम् अस्ति । सांस्कृतिकदृष्ट्या इदं पत्तनं समृद्धम् अस्ति । दुर्गाः, भवनानि, मन्दिराणि च अस्य नगरस्य आकर्षणकेन्द्राणि सन्ति । अस्य नगरस्य भवनानां वास्तुकला अपि अद्भुता अस्ति । अस्मिन् नगरे भगवतः शिवस्य बहूनि मन्दिराणि सन्ति । अस्य नगरस्य जनाः सर्वाणि पर्वाणि उत्साहपूर्वकम् आचरन्ति । शीतर्तौ महेश्वर-पत्तनं गन्तुम् उत्तमं भवति । अतः एव जनाः अक्टूबर-मासतः फरवरी-मासपर्यन्तं महेश्वर-पत्तनं गच्छन्ति ।

महेश्वर-पत्तने मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । मध्यप्रदेशराज्यस्य विभिन्ननगरैः सह इदं पत्तनं सम्बद्धम् अस्ति । इन्दौर-महानगरस्य रेलस्थानकं महेश्वर-पत्तनस्य निकटतमं रेलस्थानकम् अस्ति । तत् महेश्वर-पत्तनात् ६६ किलोमीटर्मिते दूरे स्थितम् अस्ति । इन्दौर-नगरं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इन्दौर-नगरात् महेश्वर-पत्तनाय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । इन्दौर-नगरस्य विमानस्थानकम् अपि महेश्वर-पत्तनस्य समीपस्थं विमानस्थानकम् अस्ति । भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण महेश्वर-पत्तनस्य परिवहनं सरलम् अस्ति । अतः जनाः सरलतया महेश्वर-पत्तनं प्राप्तुं शक्नुवन्ति ।

मध्यप्रदेशराज्यस्य विदिशामण्डलस्य मुख्यालयः अस्ति इदं नगरम् । अस्य नगरस्य प्राचीनं नाम “भिलसा” इति आसीत् । नगरमिदम् ऐतिहासिकम् अस्ति । नगरे प्राचीनावशेषाः, स्मारकाणि च प्राप्यन्ते । बेसनगरस्य अवशेषाः, उदयगिरि-नगरस्य गुहाः च गुप्तसाम्राज्यस्य प्रमाणभूताः सन्ति । २६०० वर्षेभ्यः पूर्वम् इदं नगरं प्रमुखव्यापारकेन्द्रम् आसीत् । १००० वर्षेभ्यः पूर्वम् अशोक-राजा विदिशा-साम्राज्यस्य राज्यपालः आसीत् । इदं स्थलं भोपाल-नगरस्य समीपे एव स्थितम् अस्ति । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । तत्र प्राचीनमूर्तयः, शिलालेखाः, भग्नावशेषाः च प्राप्यन्ते । गिरधारी-मन्दिरं, उदयेश्वर-मन्दिरं, दशावतार-मन्दिरं, मालादेवी-मन्दिरं, बाजरामठ-मन्दिरं, गाडरमल-मन्दिरं, “सोला खम्बी-मन्दिरं” च इत्येतानि विदिशा-नगरस्य वीक्षणीयस्थलानि सन्ति । बीजामण्डलम् अस्य नगरस्य प्रमुखं तीर्थस्थलम् आसीत् । किन्तु साम्प्रतं तस्य मन्दिरस्य भग्नावशेषाः एव प्राप्यन्ते । सिरोञ्ज-जैनसमुदायस्य प्रसिद्धं तीर्थस्थलं मन्यते इदं नगरम् । तत्र हेलियोडोरस-स्तम्भः वर्तते । सः स्तम्भः “खम्बा बाबा” इति नाम्ना ज्ञायते । उदयगिरि-गुहाः, शालभञ्जिका, ग्यारसपुरस्य मूर्तयः च इत्येतानि आकर्षणस्य केन्द्राणि सन्ति । “लोहङ्गी पीर”, “हिण्डोला तोरण” च इमे अपि अस्य नगरस्य ऐतिहासिके स्थले स्तः । शीतर्तौ जनाः विदिशा-नगरं गच्छन्ति । तस्मिन् समये वातावरणं मनोहरं भवति ।

विदिशा-नगरं भूमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि अपि प्रचलन्ति । भोपाल-नगरात्, उदयपुर-नगरात् च विदिशा-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । विदिशा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं देहली-चेन्नैरेलमार्गस्य प्रमुखं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । इन्दौर-नगराय, देहली-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भोपाल-नगरे स्थितं “राजा भोज-विमानस्थानकं” विदिशा-नगरस्य समीपस्थं विमानस्थानकमस्ति । तद् विमानस्थानकं विदिशा-नगरात् ५६ किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरात् अन्ताराष्ट्रियवायुयानानि अपि प्राप्यन्ते । अनेन प्रकारेण सरलतया विदिशा-नगरं प्राप्तुं शक्यते ।

खण्डवा-नगरं मध्यप्रदेशराज्यस्य खण्डवा-मण्डलस्य मुख्यालयः अस्ति । इदम् एकम् ऐतिहासिकं नगरं वर्तते । अस्मिन् प्राचीने नगरे बहूनि मन्दिराणि, तीर्थस्थलानि, कुण्डाः च सन्ति । अत एव इदं नगरं “मन्दिराणां, कुण्डानां च नगरम्” इति कथ्यते । खण्डवा-नगरे जैनधर्मस्य मन्दिराणि अपि सन्ति । द्वादशशताब्द्यां खण्डवा-नगरे जैनधर्मानुयायिनां सङ्ख्या अधिका आसीत् । अतः इदं नगरं जैनधर्मस्य केन्द्रं मन्यते स्म । ब्रिटिश-शासनकाले खण्डवा-नगरं निमाड-क्षेत्रस्य प्रमुखं वाणिज्यकेन्द्रं मन्यते स्म । खण्डवा-नगरं चलच्चित्रजगतः “किशोरकुमार” इत्याख्यस्य पार्श्वगायकस्य जन्मस्थलम् अपि अस्ति । किशोरकुमारस्य “गौरीकुञ्ज” नामकं स्मारकम् अपि विद्यते । खण्डवा-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “भवानीमाता-मन्दिरं” खण्डवा-नगरस्य महत्त्वपूर्णं तीर्थस्थलं वर्तते । प्रतिवर्षं सहस्राधिकजनाः दर्शनार्थं तत्र गच्छन्ति । खण्डवा-नगरस्य समीपे  ओङ्कारेश्वर-मन्दिरं स्थितम् अस्ति । तत्र “सिद्धवरकूट-मन्दिरं”, “ममलेश्वर-मन्दिरं” च स्थितम् अस्ति । तयोः सिद्धवरकूटं जैनधर्मस्य, ममलेश्वरं च हिन्दुधर्मस्य तीर्थस्थलं वर्तते । असीरगढ-दुर्गः अपि खण्डवा-नगरस्य आकर्षणस्य केन्द्रं विद्यते । अयं दुर्गः “डेक्कन्” इत्यस्य नेत्रत्वेन मन्यते । विश्वस्य विभिन्ननगरेभ्यः पर्यटकाः इमं दुर्गं दृष्टुं गच्छन्ति । खण्डवा-नगरे नैकाः जलबन्धाः सन्ति । तेषु जलबन्धेषु इन्दिरासागर-जलबन्धः, नग्चुन-जलबन्धः च पर्यटनाय महत्त्वपूर्णः अस्ति । अक्टूबर-मासतः मार्च-मासपर्यन्तम् अस्य नगरस्य वातावरणं मनोहरं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति ।

खण्डवा-नगरे मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । मध्यप्रदेश-राज्यस्य विभिन्ननगरेभ्यः खण्डवा-नगराय बसयानानि प्राप्यन्ते । खण्डवा-नगरं भूमार्गेण मध्यप्रदेशस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । खण्डवा-नगरे एकं रेलस्थानकम् अस्ति । इदं भोपाल-रेलस्थानकेन, इन्दौर-रेलस्थानकेन च सह सम्बद्धम् अस्ति । ताभ्यां नगराभ्यां प्रतिदिनं खण्डवा-नगराय रेलयानानि प्राप्यन्ते । देहली-महानगराय, मुम्बई-महानगराय, कोलकात-महानगराय, कोचीन-नगराय, बेङ्गळूरु-महानगराय, हैदराबाद-महानगराय, जम्मू-नगराय, पटना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि रेलयानानि प्राप्यन्ते । इन्दौर-नगरस्य “देवी अहिल्याबाई होलकर” इत्येतत् विमानस्थानकं खण्डवा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । खण्डवा-नगरात् इन्दौर-नगरं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति । अनेन प्रकारेण खण्डवा-नगरं भारतस्य प्रमुखनगरैः सह भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति ।

मध्यप्रदेशस्य उज्जयिन्याम् आदिकविः कालिदासः (क्रि.श. ३७५ तः ४१५ पर्यन्तं) वासं करोति स्म इति प्रतीतिरस्ति । पुराणकाले अस्य नगरस्य अवन्तिकानगरमिति व्यवहारः आसीत् । अस्य नगरस्य अवन्ती, अवन्तिकापुरी, अवन्तिका, कुशस्थली, भगवती, कुमुद्वती, हिरण्यवती, विशाला इत्यादीनि नामान्तराण्यपि सन्ति । अत्रैव कृष्णबलरामयोः गुरोः सान्दीपनिमहर्षेः आश्रमः अस्ति । क्षिप्रानद्याः तटे महाकालस्य ईशस्य मन्दिरमस्ति । भारते विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः । दक्षिणाभिमुखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मुखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति । अत्र प्रतिदीपावल्यां दीपोत्सवः महता वैभवेन आचर्यते । गरुडपुराणोक्तसप्त(अयोध्या, मथुरा, माया, काशी, काञ्ची, अवन्तिका, द्वारावती)पवित्रतमक्षेत्रेषु अन्यतमं क्षेत्रम् इदम् । 'एप्रिल्'-मासादारभ्य 'जून्'-मासाभ्यान्तरं ४५ 'डिग्री' औष्ण्यं भवति । 'अक्टोबर्'-मासादारभ्य 'जनवरी'-मासाभ्यान्तरम् उत्तमं वातावरणं भवति ।

द्वादशवर्षेषु एकवारम् अत्र महाकुम्भोत्सवः भवति । अस्मिन् शुभावसरे लक्षाधिकाः जनाः देशविदेशेभ्यः अत्र समागच्छन्ति । नर्मदानद्यां स्नात्वा पुनीताः भवन्ति । उत्सवसमये नागासाधवः एवम् अघोरिजनाः अत्र उपस्थिताः भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहः दृश्यते । उज्जयिन्यां समयनिर्धारणसाधनानि सन्ति इत्यतः भारतस्य ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते । ईदृशाः ’जन्तर् मन्तर्’-प्रदेशाः भारते देहली-जयपुर्-वाराणसीनगरेषु राराजन्ते । जयपुरराज्यस्य राजा ईदृशवीक्षणालयान् निर्मापितवान् । खगोलशास्त्रस्य ज्ञानसम्पादनाय एवम् अन्तरिक्षस्य, सूर्यस्य, चन्द्रस्य, नक्षत्राणां च चलनादिविषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयुक्ताः भवन्ति ।

मध्यप्रदेशराज्यस्य मार्गाणां दैर्घ्यं ७३,३११ किलोमीटर्मितम् अस्ति । तेषु राष्ट्रियराजमार्गाणां दैर्घ्यं ४२८० किलोमीटर्मिते, प्रान्तीयराजमार्गाणां दैर्घ्यं ८७२९ किलोमीटर्मिते च अस्ति । अस्मिन् राज्ये भूमार्गाणां निर्माणकार्यं निरन्तरं प्रचलत् अस्ति । प्रायः ६०,००० किलोमीटर्मिते मार्गाणां निर्माणं, नवीनीकरणं च भविष्यति । राज्ये सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । राज्यस्य पर्यटनस्थलानि गन्तुं तानि बसयानानि उपयुज्यन्ते । इदं राज्यं भूमार्गेण भारतस्य विभिन्नराज्यानां महानगरैः, नगरैः च सह सरलतया सम्बद्धम् अस्ति । मध्यप्रदेशराज्ये ई. स. २००५ तमं वर्षं “मार्गाणां वर्षम्” इति नाम्ना आचरितम् ।

मध्यप्रदेशराज्यस्य भोपाल-नगरे, बीना-नगरे, ग्वालियर-नगरे, इन्दौर-नगरे, इटारसी-नगरे, जबलपुर-नगरे, कटनी-नगरे, रतलाम-नगरे, उज्जैन-नगरे च प्रमुखाणि रेलस्थानकानि सन्ति । भोपाल-नगरे, रतलाम-नगरे, जबलपुर-नगरे च रेलविभागस्य क्षेत्रीयमुख्यालयाः स्थिताः सन्ति । एतेभ्यः रेलस्थानकेभ्यः भारतस्य मुख्यनगरेभ्यः नियमितत्वेन रेलयानानि प्राप्यन्ते । अनेन प्रकारेण इदं राज्यं भारतस्य सर्वैः राज्यैः सह धूमशकटमार्गेण सम्बद्धम् अस्ति ।

मध्यप्रदेशराज्यस्य भोपाल-नगरे, ग्वालियर-नगरे, इन्दौर-नगरे, जबलपुर-नगरे, रीवा-नगरे, खजुराहो-नगरे च विमानस्थानकानि सन्ति । एतानि विमानस्थानकानि भारतस्य, विदेशस्य प्रमुखविमानस्थानकैः सह सम्बद्धाः सन्ति । एतेभ्यः विमानस्थानकेभ्यः भारतस्य विभिन्ननगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।




#Article 53: महाराष्ट्रराज्यम् (6742 words)


  
महाराष्ट्रराज्यम् ( ) भारतस्यय पश्चिनमदिशि विद्यमानं किञ्चन राज्यम् अस्ति|, मुम्बई इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः । भारतस्य विस्तारे ९.८४% विस्तारः महाराष्ट्रराज्यस्य अस्ति । राज्यस्य पश्चिमदिशि अरबी समुद्रः वर्तते । मुम्बई महाराष्ट्रराज्यस्यस्य राजधानी, नागपुरनगरं महाराष्ट्रराज्यस्य उपराजधानी ।

महाराष्ट्र-राज्यं भारतस्य पश्चिमदिशि स्थितम् अस्ति । इदं राज्यं ३,०७,७१३ चतुरस्रकिलोमीटरमितं विस्तृतम् अस्ति । क्षेत्रफल-दृष्ट्या भारतस्य बृहत्तमेषु राज्येषु तृतीयम् अस्ति । जनसङ्ख्यादृष्ट्या च भारतस्य बृहत्तमेषु राज्येषु द्वितीयम् अस्ति । 
भारतस्य पश्चिमतटे स्थितः अरब-सागरः महाराष्ट्रराज्यस्य आधारभूतः अस्ति । अस्य राज्यस्य तटवर्तिक्षेत्रं ५६० किलोमीटरमितं दीर्घं, ८० किलोमीटरमितं विस्तृतं च अस्ति । तटीयमार्गस्य नाम “कोङ्कण” इति । इदं राज्यम् अरबसागर-सह्याद्रिपर्वतशृङ्खलयोः मध्ये विराजते । अस्मिन् राज्ये स्थिताः शैलप्रस्थाः अस्य राज्यस्य प्राकृतिकवैशिष्ट्यं वर्तते । तेषु शैलप्रस्थेषु बुलढाना-शैलप्रस्थः, अहमदनगर-शैलप्रस्थः, यवतमाल-शैलप्रस्थः च इत्यादयः प्रमुखाः सन्ति । अतः इदं राज्यं शैलप्रस्थानां शैलप्रस्थः” कथ्यते । महाराष्ट्रराज्यस्य उत्तरभागे सतपुडा-पर्वतशृङ्खला अस्ति । महाराष्ट्रराज्यस्य उत्तरदिशि गुजरात-राज्यम्, उत्तर-पूर्वदिशि मध्यप्रदेश-राज्यं, छत्तीसगढ-राज्यं च, दक्षिणदिशि गोवा-राज्यं, कर्णाटक-राज्यम्, आन्ध्रप्रदेश-राज्यं च, पश्चिमदिशि दादरा-नगरहवेली-केन्द्रशासितप्रदेशः, अरबसागरश्च स्थितः अस्ति ।

गोदावरी-नदी, भीमा-नदी, तापी-नदी, वैनगङ्गा, पेनगङ्गा, गिरना इत्यादयः महारष्ट्रराज्यस्य प्रमुखाः नद्यः सन्ति । नाशिक-नगरस्य समीपं त्र्यम्बकेश्वर-पर्वतः गोदवरी-नद्याः उद्गमस्थलं वर्तते । गोदावरी-नदी भारतस्य दीर्घतमासु नदीषु द्वितीया अस्ति । एवं च दक्षिणभारतस्य दीर्घतमा नदी अस्ति । भीमा-नदी कृष्णा-नद्याः प्रमुखसहायकनदीत्वेन अस्ति । भीमशङ्कर-स्थलम् भीमा-नद्याः उद्गमस्थलम् अस्ति । कृष्णा-नद्याः उद्गमः महाबलेश्वर-पर्वतस्य उपह्वरात् भवति । पूर्णा-नदी, पञ्चगङ्गा-नदी, दुधाना-नदी च कृष्णा-नद्याः सहायकनद्यः सन्ति ।

अस्मिन् राज्ये सर्वकारेण नदीषु बहव्यः परियोजनाः प्रचालिताः सन्ति । कृष्णा-नद्यां “कृष्णा परियोजना”, पावना-कृष्णा-नद्योः “भीमा परियोजना”, कार्ली-नद्यां “कार्ली सरार परियोजना”, कार्ली-नद्यां “बावन छडी परियोजना”, पूर्णा-नद्यां “पूर्णा परियोजना” च प्रचालिता अस्ति । अस्मिन् राज्ये बहवः तडागाः अपि सन्ति । लोनार, लोनवाली, कोयना, बेल, शिवरता, बलहनान इत्यादयः तडागाः सन्ति । ब्रान्द्रा-मण्डले, चन्द्रपुर-मण्डले च सर्वाधिकाः तडागाः सन्ति । अतः इदं क्षेत्रं “तडागानां देशः” कथ्यते ।

अस्य राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । मार्च-मासतः जून-मासपर्यन्तं ग्रीष्मकालः भवति । तदनन्तरम् अक्टूबर-मासपर्यन्तं वर्षतुः भवति । वर्षर्तौ प्रदेशस्य तटीयक्षेत्रेषु अधिकमात्रायां वर्षा भवति । ग्रीष्मर्तौ महाराष्ट्रस्य मध्य-पूर्व-क्षेत्राणां तापमानं ४३ डिग्री सेल्सियस् मात्रात्मकं भवति । शीतर्तौ तेषां क्षेत्राणां तापमानं प्रायः २० डिग्री सेल्सियस् मात्रात्मिकं भवति ।

महाराष्ट्रराज्यस्य जनसङ्ख्या(२०११) ११२,३७४,३३३ कोटी अस्ति । अस्मिन् ५८,२४३,०५६ पुरुषाः, ५४१३१२७७ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३८२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.९९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ८२.३४% अस्ति । मण्डलेऽस्मिन् ४२.२२% जनाः नगरेषु निवसन्ति । क्षेत्रफलदृष्टया महाराष्ट्रराज्यं भारते तृतीयं तथा लोकसङ्ख्यादृष्ट्या  द्वितीयं राज्यम् अस्ति ।

अशोकस्य काले राष्ट्रिक अनन्तरं महाराष्ट्र इति नाम्ना प्रसिद्धः अयं परिसरः इति ह्युएन्-त्सांगादि पथिकानां मतम् । राज्यस्य 'महाराष्ट्र' इति नाम प्राकृतभाषायां 'महाराष्ट्री' शब्दात् निर्मितं जातम् इति मन्यते । केषाञ्चित् मते अस्य राज्यस्य नाम महाकान्तार (महान् वनम्-दण्डकारण्यम्) इति शब्दस्य अपभ्रंशः वर्तते ।

भारतीयस्वातंत्र्यसङ्ग्रामे महाराष्ट्रराज्यस्य मुम्बईनगरस्य च योगदानम् अपूर्वमासीत् । काङ्ग्रेस इत्यस्य प्रथमं सम्मेलनं अत्रैव अभवत् । तथा हि महात्मागान्धीमहोदयेन ९ अगस्त १९२४ दिनाङ्के अत्रत्यगोवालियाटैङ्कतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत् । तदा समग्रः देशः रोमाञ्चितः अभवत् । स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रणीः आसीत् । यतः महात्मा फुले, राजर्षिशाहु, डॉ. आम्बेडकरमहोदयसदृशाः अग्रगण्याः समाजोद्धारकाः महाराष्ट्रराज्यमिदम् अलङ्कृतवन्तः । लोकमान्यतिलकसदृशाः अभूतपूर्वाः राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्तः । १ मे १९६० दिनाङ्के महाराष्ट्रराज्यं निर्मितम् । ततः प्रभृतिः राज्यमिदं प्रगतिपथे एव अस्ति ।

महाराष्ट्रराज्यस्थापना ऐतिहासिकः महत्वपूर्णविषयः । संयुक्तमहाराष्ट्रान्दोलनं महाराष्ट्रराज्यनिर्माणस्य कारणम् । १९५० तः १९६० पर्यन्तम् आन्दोलनम् अभूत् । १९६० पर्यन्तं पश्चिममहाराष्ट्रविभागः 'मुम्बईराज्ये', मराठवाडाविभागस्य ५ उपमण्डलानि हैदराबाद्संस्थाने, विदर्भविभागस्य ८ मण्डलानि मध्यप्रान्ते (इदानीन्तनमध्यप्रदेशे) समाविष्टानि आसन् । यद्यपि केन्द्रसर्वकारेण 'भाषानुसारेण राज्यरचना भवेत्' इति निर्णयः १९५० तमे वर्षे एव कृतः, तथापि भाषानुसारं विभाजनं न जातमत्र । अतः १० वर्षाणि यावत् आन्दोलनं कृतं, महत्परिश्रमेण, बहूनां जनानां बलिदानेन च १ 'मे' १९६० दिने महाराष्ट्रराज्यस्य स्थापना जाता । अस्मिन् आन्दोलने मध्यमवर्गीयजनाः, कर्मकरजनाः, कृषकाः, विचारवन्तः जनाः भागं गृहीतवन्तः । अतः इदम् आन्दोलनम् अभिव्यापकम् आसीत् ।

सह्याद्री पर्वतश्रेणिः (वा पश्चिमघट्टाः) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति । तस्याः पश्चिमे कोङ्कण-तटप्रदेशः वर्तते । पर्वतमालायाः पूर्वदिशायां दक्खन शैलप्रस्थः अस्ति । एषः बह्वीनां नदीनां स्रोतः अस्ति । महाराष्ट्रे ३५ मण्डलानि अपि च षड्विभागाः सन्ति । ते -औरङ्गाबाद, अमरावती, कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः । भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः । विदर्भः (नागपुरम्अमरावती), मराठवाडा (औरङ्गाबाद), खान्देशः उत्तरमहाराष्ट्रं (नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोङ्कणं च ते पञ्चविभागाः ।

महाराष्ट्रराज्ये सप्त बृहत्तमनगराणि सन्ति । मुम्बई, नागपुरं, नासिक, वर्धा, औरङ्गाबाद, अहमदनगरं, कोल्हापुरं च ।

मुम्बई-महानगरं भारतस्य बृहत्तमं नगरं विद्यते । इदं महानगरं महाराष्ट्रराज्ये स्थितम् अस्ति । मुम्बई-महानगरम् अरबसागरस्य तटे स्थितम् अस्ति । अतः तत्र बहूनि समुद्रतटानि सन्ति । महानगरेऽस्मिन् बहूनि वीक्षणीयस्थलानि अपि सन्ति । अस्मिन् महानगरे त्रीणी समुद्रतटानि प्रसिद्धानि सन्ति । जुहू-समुद्रतटं, चौपाटी-समुद्रतटं, गोराई-समुद्रतटं च । तत्र “मरीन ड्राईव” इत्येतत् स्थलं वर्तते । एतत्स्थलं “क्वीन्स् नेकलेस्” इति नाम्ना अपि ज्ञायते । मुम्बई-महानगरे धार्मिकस्थलानि अपि सन्ति । सिद्धिविनायक-मन्दिरं, “हाजी अली मस्जिद्” च अस्य नगरस्य प्रसिद्धे धार्मिकस्थले स्तः । अनयोः मन्दियोः वास्तुकला प्रायः समाना एव अस्ति । अनयोः स्थलयोः जनसम्मर्दः अपि सर्वाधिकः भवति । मुम्बई-नगरस्य रात्रिजीवनं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । यतः जनाः दिवाकाले व्यवसायं कुर्वन्ति । किन्तु रात्रिकाले भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे द्युतक्रीडायाः स्थानानि अपि सन्ति । जनः द्युतक्रीडां कर्तुं तत्र गच्छन्ति । महाराष्ट्र-राज्यस्य सर्वकारेण मुम्बई-महनगरस्य दर्शनाय बसयानानि प्रचालितानि सन्ति । अतः ये जनाः कारयानैः मुम्बई-नगरस्य भ्रमणं कर्तुं नेच्छन्ति, तैः बसयानद्वारा भ्रमणं कर्त्तव्यम् । तानि बसयानानि “गेटवे ऑफ् इण्डिया” इत्यस्मात् स्थलात् मुम्बई-दर्शनं कारयन्ति । सायंकाले मुम्बई-नगरस्य भ्रमणं कृत्वा पुनः “गेटवे ऑफ् इण्डिया” इतीदं स्थलं प्राप्नुवन्ति । अनेन प्रकारेण यात्रिकाः मुम्बई-महानगरस्य प्रमुखाणि स्थलानि दृष्टुं शक्नुवन्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् उष्णं भवति । अतः शीतर्तौ, वर्षर्तौ वा अस्य नगरस्य भ्रमणं कर्त्तव्यम् ।

मुम्बई-महानगरं भूमार्गेण सम्पूर्ण-भारतस्य प्रसिद्धनगरैः सह सम्बद्धम् अस्ति । महानगरमिदम् उत्तरदिशि आगरा-मार्गेण, पूर्वदिशि इन्दौर-मार्गेण, उत्तरदिशि अहमदाबाद-मार्गेण च सह सम्बद्धम् अस्ति । मुम्बई-महानगरे महाराष्ट्र-राज्यस्य सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । तैः बसयानैः गमने सौकर्यं भवति । मुम्बई-महानगरं रेलमार्गाय प्रसिद्धम् अस्ति । अस्य नगरस्य निवासिनः गमनाय रेलयानानां सर्वाधिकम् उपयोगं कुर्वन्ति । रेलयानम् अस्य नगरस्य तीव्रतमं साधनं वर्तते । मुम्बई-रेलस्थानकम् इन्दौर-नगरेण, बेङ्गळूरु-नगरेण, देहली-नगरेण, कोलकाता-नगरेण, पुणे-नगरेण, भोपाल-नगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । एतैः नगरैः मुम्बई-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । मुम्बई-महानगरे “छत्रपति शिवाजी” नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः विमानानि प्राप्यन्ते । इदं विमानस्थानकं भारतस्य, विदेशस्य च विभिन्ननगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः सरलतया मुम्बई-महानगरं गन्तुं शक्नुवन्ति । 

पुणे-नगरं महाराष्ट्रराज्यस्य पुणे-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् “सदाचारस्य नगरम्” अपि कथ्यते । पुरा इदं “पुणेवाडी” इति नाम्ना ज्ञायते स्म । “छत्रपति शिवाजी” इत्याख्येन मराठा-शासकेन कथ्यते स्म । पुणे-नगरे ऐतिहासिकानि, धार्मिकानि च स्थलानि सन्ति । आगा खान पैलेस्, शिन्दे छतरी, सिंहगढ-दुर्गः च अस्य नगरस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । “ओशो रजनीश” इत्याख्येन पुणे-नगरे “ओशो कम्यून् इण्टरनेशनल् सेण्टर्” इत्याख्या संस्था स्थापिता । अस्मिन् नगरे कार्ला-भाजा इत्यनयोः बौद्धगुहाः अपि प्रसिद्धाः सन्ति । पटलेश्वर-मन्दिरं पुणे-नगरस्य प्राचीनं मन्दिरं विद्यते । इदं मन्दिरं १४०० वर्षेभ्यः पुरातनम् अस्ति । अस्त नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः शीतर्तौ, ग्रीष्मर्तौ च अस्य नगरस्य वातावरणं सुखदं भवति । 
पुणे-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नागपुर-नगरस्य भ्रमणे सारल्यं भवति । मुम्बई-महानगराय, नागपुर-महानगराय च पुणे-नगरात् बसयानानि प्राप्यन्ते । पुणे-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । पुणे-नगरात् १२ किलोमीटर्मिते दूरे लोहेगांव-विमानस्थानकम् अस्ति । लोहेगांव-विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पुणे-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया पुणे-नगरं गन्तु शक्नुवन्ति ।

नागपुर-नगरं महाराष्ट्र-राज्यस्य नागपुर-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्र-राज्यस्य बृहत्तमेषु नगरेषु तृतीयम् अस्ति । इदं भारतस्य “टाईगर राजधानी” इति नाम्ना ज्ञायते । गोड-राजवंशजैः नागपुर-नगरम् अन्विष्टम् । समयान्तरे बहुभिः राजवंशैः नागपुर-नगरे शासनं कृतम् आसीत् । अन्ते आङ्ग्लैः नागपुर-नगरं प्रान्तस्य केन्द्रियराजधानीत्वेन स्थापितम् । नाग-नद्याः नाम्ना अस्य नगरस्य नाम नागपुरम् इत्यभवत् । समुद्रतलात् इदं नगरं ३१० मीटर्मितम् उन्नतं वर्तते । इदं नगरं १०,००० किलोमीटर्मितं विस्तृतम् अस्ति । नवेगांव-जलबन्धः, सीताबुल्दी-दुर्गः, पेंच-राष्ट्रियोद्यानं च अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । नागपुर-नगरे “दीक्षाभूमिः” इत्येतत् स्थलं प्रसिद्धम् अस्ति । तस्मिन् स्थाने सहस्राधिकजनैः “डॉ. बी. आर्. अम्बेडकर” इत्याख्यम् अनुसृत्य बौद्धधर्मः आचरितः । नागपुर-नगरस्य मध्ये एकः पाषाणस्तम्भः स्थितः अस्ति । तस्मिन् स्तम्भे नागपुर-नगरात् भारतस्य प्रमुखनगराणाम् अन्तरम् उल्लिखितम् अस्ति । अस्य निर्माणं ब्रिटिश्-शासनकाले अभवत् । नगरेऽस्मिन् मानवनिर्मितः, प्राकृतिकः च तडागः अपि वर्तते । “सेमिनरी हिल्स्” इत्यत्र बालाजी-मन्दिरं स्थितम् अस्ति । ततः नागपुर-नगरस्य सम्पूर्णं दृश्यं दृश्यते । इदं पर्वतीयक्षेत्रं पर्वतारोहिणां मनोहरं स्थलम् अस्ति । 
अस्मिन् नगरे पोदेश्वर-मन्दिरं, वेङ्कटेश-मन्दिरं च स्थितम् अस्ति । तत्र भगवतः बुद्धस्य मन्दिरम् अपि विद्यते । तस्य नाम ड्रैगन्-मन्दिरम् अस्ति । नामानुसारम् अस्य मन्दिरस्य परिचयं ज्ञातुं न शक्यते । तत्र गुबलीगढ-दुर्गः स्थितः अस्ति । अयं दुर्गः ३०० वर्षेभ्यः पुरातनः अस्ति । नागपुर-नगरे नवरात्रिमहोत्सवः, विजयादशमी, गणेशमहोत्सवः, दुर्गामहोत्स्वः, मोहर्रम् च इत्यादयः उत्सवाः आचर्यन्ते । नागपुर-नगरं “नारङ्गफलस्य नगरी” इति कथ्यते । अस्मिन् नगरे प्रचुरमात्रायां नारङ्गफलस्य उत्पादनं क्रियते । नगरमिदं दक्कन-शैलप्रस्थस्य समीपे स्थितम् अस्ति । अतः तस्मिन् नगरे जलस्रोतांसि न सन्ति ।

नागपुर-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नागपुर-नगरस्य भ्रमणे सारल्यं भवति । मुम्बई-महानगराय, पुणे-महानगराय च नागपुर-नगरात् बसयानानि प्राप्यन्ते । नागपुर-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । नागपुर-नगरात् ६ किलोमीटर्मिते दूरे सोनेगांव-विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । सोनेगांव-विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण नागपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया नागपुर-नगरं गन्तु शक्नुवन्ति ।

नाशिक-नगरं महाराष्ट्र-राज्यस्य नाशिक-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं “मदिरायाः राजधानी” इति कथ्यते । यतः अस्मिन् नगरे द्राक्षाफलस्य उत्पादनम् अधिकमात्रायां क्रियते । नाशिक-नगरं मुम्बई-महानगरात् १८० किलोमीटर्मिते, पुणे-नगरात् २०० किलोमीटर्मिते च दूरे स्थितम् अस्ति । इदं नगरं “नापा घाटी” इत्यस्य पश्चिमघट्टे स्थितम् अस्ति । पुरा इदं नगरं सत्वहना-राजवंशस्य राजधानी आसीत् । षोडशशताब्द्याम् अस्मिन् नगरे मुगल-शासनम् आसीत् । तस्मिन् समये इदं “गुल्शानाबाद” इत्यपि कथ्यते स्म । एकोनविंशतितमशतब्द्याम् अस्मिन् नगरे आङ्ग्ल-शासनम् आसीत् । भारतीयस्वातन्त्र्यान्दोलने नैके क्रान्तिकारिणः नाशिक-नगरेण सह सम्बद्धाः आसन् । पुराणानुसारं ज्ञायते यत् – “भगवान् रामः चतुर्दशवर्षाणां वनवासस्य कानिचन वर्षाणि नाशिक-नगरस्य समीपे एकस्मिन् तपोवने यापितवान् । अत्रैव भगवता लक्ष्मणेन शूर्पणखायाः नासिकाछेदनं कृतम् आसीत् ।  अतः एव अस्य नाम “नाशिक” इत्यभवत् । नाशिक-नगरं महाराष्ट्रराज्यस्य विकासशीलनगरेषु अन्यतमं वर्तते । कालिदासेन, वाल्मीकिना अपि स्वस्य ग्रन्थेषु नाशिक-नगरस्य उल्लेखः कृतः अस्ति । नाशिक-नगरस्य समीपे त्र्यम्बकेश्वर-मन्दिरम् अस्ति । इदं मन्दिरं भारतस्य द्वादशज्योतिर्लिङ्गेषु अन्यतमं वर्तते । नगरेऽस्मिन् मुद्राणां सङ्ग्रहालयः अस्ति । अयं सङ्ग्रहालयः एशिया-खण्डस्य एकः एव मुद्रा-सङ्ग्रहालयः अस्ति । 
नगरमिदं मन्दिराणां नगरम् अस्ति । यतः अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । कालाराममन्दिरं नाशिक-नगरस्य विशिष्टमन्दिरेषु एकम् अस्ति । अस्मिन् मन्दिरे भगवतः रामस्य कृष्णपाषाणनिर्मिता प्रतिमा अस्ति । सीता-गुहा, पञ्चवटी च अस्य नगरस्य धार्मिकस्थले स्तः । अस्मिन् नगरे जनाः प्रतिचतुर्वर्षेषु नाशिक-नगरे कुम्भोत्सवम् आचरन्ति । जनाः उत्साहपूर्वकम् उत्सवम् आचरन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । महात्मना असहयोगान्दोलनस्य आरम्भः नाशिक-नगरादेव कृतः । “डॉ. बी. आर्. अम्बेडकर” महात्मनः समर्थनं प्रदत्तम् आसीत् । नाशिक-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः अस्य नगरस्य तापमानम् अधिकं भवति । अतः ग्रीष्मर्तौ अस्य नगरस्य यात्रा न कर्त्तव्या । शीतर्तौ अस्य नगरस्य यात्रा लाभकरी, स्वास्थ्यप्रदा च भवति । इदं नगरं भारतस्य केन्द्रे स्थितम् अस्ति । अतः अस्य नगरस्य यात्रा सरलतया भवितुं शक्नोति ।

नाशिक-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नाशिक-नगरस्य भ्रमणे सारल्यं भवति । पुणे-नगरात् नाशिक-नगरं २२० किलोमीटर्मिते दूरे अस्ति । मुम्बई-महानगराय, पुणे-महानगराय, नागपुर-नगराय च नाशिक-नगरात् बसयानानि प्राप्यन्ते । नाशिक-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । मुम्बई-नगरस्य “छत्रपति शिवाजी”- विमानस्थानकं नाशिक-नगरस्य समीपस्थम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अस्मात् विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण नाशिक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया नाशिक-नगरं गन्तु शक्नुवन्ति ।

वर्धा-नगरं महाराष्ट्र-राज्यस्य वर्धा-मण्डलस्य मुख्यालयः स्ति । वर्धा-नद्याः तटे स्थितम् इदं वर्धा-नगरम् । ई. स. १८५६ तमे वर्षे अस्य नगरस्य स्थापना जाता । इदं नगरं ६३१० किलोमीटर्मितं विस्तृतम् अस्ति । साम्प्रतम् इदं नगरं कार्पास-व्यापाराय भारते प्रसिद्धम् अस्ति । अस्य नगरस्य इतिहासः अपि महत्त्वपूर्णः वर्तते । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । तेषु चालुक्य-राजवंशः, मौर्य-राजवंशः, शतवाहन-राजवंशश्च मुख्यः अस्ति । ई. स. १३५१ तमे वर्षे नगरमिदं बहमनी-राजवंशजानाम् आधीन्ये आसीत् । समयान्तरे ब्रिटिश्-शासकैः अस्मिन् नगरे आधिपत्यं स्थापितम् । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । गीताई-मन्दिरं, लक्ष्मीनारायण-मन्दिरं, महाकाली-मन्दिरं, केल्जर्-मन्दिरं च अस्य नगरस्य प्रसिद्धानि मन्दिराणि सन्ति । “विश्वशान्तिस्तूपः”, परमधाम-आश्रमः, “गान्धी आश्रम बापू कुटी” च इत्यादिनी अस्य नगरस्य समीपस्थानि ऐतिहासिकानि पर्यटनस्थलानि सन्ति । वर्धा-नगरस्य वातावरणं सर्वदा सुखकरं, स्वास्थ्यकरं च भवति । 
महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः वर्धा-नगरस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्नुवन्ति । वर्धा-नगरात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । कोङ्कण-रेलमार्गे वर्धा-नगरस्य रेलस्थानकं स्थितम् अस्ति । इदं रेलस्थानकम् भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः प्रमुखनगरेभ्यः वर्धा-नगरात् रेलयानानि प्राप्यन्ते । नागपुर-नगरे स्थितं “डॉ. बी. आर्. अम्बेडकर”-विमानस्थानकं वर्धा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । वर्धा-नगरात् इदं विमानस्थानकं ७४ किलोमीटर्मिते दूरे स्थ्तम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । नागपुर-नगरस्य विमानस्थानकात् बसयानैः, भाटकयानैः वा वर्धा-नगरं गन्तुं शक्यते । अनेन प्रकारेण वर्धा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति ।

औरङ्गाबाद-नगरं महाराष्ट्र-राज्यस्य औरङ्गाबाद-मण्डलस्य केन्द्रं विद्यते । अस्य नगरस्य नाम औरङ्गजेब-राज्ञः नाम्ना अभवत् । खामनद्याः तटे स्थितम् इदं नगरम् । ई. स. १६८१ तमे वर्षे औरङ्गजेब-राज्ञा स्वस्य राज्यस्य राजनैतिकव्यवस्थायै, रणनैतिकव्यवस्थायै च इदं नगरम् आधारत्वेन स्थापितम् ।  औरङ्गजेब-राज्ञः मृत्योः अनन्तरम् अस्मिन् नगरे निजाम-शासकनाम् आधिपत्यम् अभवत् । ई. स. १९५६ तमे वर्षे अस्य नगरस्य महाराष्ट्रराज्ये विलयः जातः । अस्मिन् नगरे जनैः मराठी-भाषायाम्, उर्दू-भाषायां च व्यवह्रियते । औरङ्गाबाद-नगरं “सिटी ऑफ् गेट्स्” इति नाम्ना अपि ख्यातम् अस्ति । इदं स्थलं महाराष्ट्रराज्यस्य आधिकारिकी सम्पत्तिः वर्तते । यदा अस्मिन् नगरे मुगल-शासनम् आसीत्, तत्पूर्वं बौद्धधर्मस्य महत्प्रभावः वर्तते स्म । साम्प्रतम् अजन्ता-एलोरा-गुहाः अस्य प्रमाणिभूताः सन्ति । अस्य नगरस्य संस्कृतिः हैदराबाद-नगरस्य संस्कृत्या सह सम्बद्धा अस्ति । अस्मिन् नगरे “बीबी का मकबरा” इति नामकः प्रसिद्धं स्मारकं वर्तते । तत्र औरङ्गजेब-राज्ञः पत्न्याः समाधिः वर्तते । अस्य नगरस्य जलवायुः शीतोष्णः वर्तते । अतः वर्षर्तौ, शीतर्तौ च अस्य नगरस्य वातावरणं मनोहरं भवति । आवर्षं तत्र जनानां सम्मर्दः दृश्यते । मुम्बई-नगरात् इदं नगरं ३७५ किलोमीटर्मिते दूरे स्थितम् अस्ति । 
औरङ्गाबाद-नगरं महाराष्ट्रराज्यस्य बृहत्तमेषु नगरेषु अन्यततमं वर्तते । अस्मिन् नगरे बसयानानां, भाटकयानानां व्यवस्था पर्याप्तमात्रायाम् अस्ति । औरङ्गाबाद-नगरं महाराष्ट्र-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरात् १२० किलोमीतर्मिते दूरे मनमाद-रेलस्थानकम् अस्ति । तद्रेलस्थानकम् अपि भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे एकम् अन्ताराष्ट्रियविमानस्थानकम् विद्यते । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण इदं नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सरलतया सम्बद्धम् अस्ति ।

अहमदनगरं महाराष्ट्रराज्यस्य अहमदनगर-मण्डलस्य मुख्यालयः अस्ति । सिना-नद्याः तटे स्थितम् अस्ति इदं नगरम् । नगरमिदं ५०० वर्षेभ्यः पुरातनम् अस्ति । ई. स. १४९४ तमे वर्षे “अहमद निजाम शाह” इत्याख्येन राज्ञा अस्य नगरस्य स्थापना कृता । अतः एव अस्य नाम अहमदनगरम् अभवत् । प्रायः ई. स. १६३६ तमे वर्षे शाहजहां-राज्ञा अस्मिन् नगरे आधिपत्यं स्थापितम् । समयान्तरे अस्मिन् नगरे बहुभिः राजभिः शासनं कृतम् । कथ्यते यत् - “निजाम-शासकैः अस्मिन् नगरे १५० वर्षाणि शासनं कृतम् आसीत्” इति । ई. स. १७५९ तमे वर्षे पेशवा-राजवंशजैः, मराठा-शासकैः च अस्य नगरस्य स्वरूपं परिवर्तितम् । ई. स. १८१७ तमे वर्षे आङ्ग्लाः पराजयं प्राप्य अहमदनगरं समागतवन्तः । अहमदनगरे अहमदनगर-दुर्गः स्थितः अस्ति । अयं दुर्गः अस्य नगरस्य मुख्यं पर्यटनस्थलं वर्तते । “शलाबत खान का मकबरा”, “राउजा बाग”, “कोट बाघा निजाम” इत्यादीनि स्थलानि ऐतिहासिकानि सन्ति । नगरमिदम् एकं धार्मिकस्थलम् अपि अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि अपि सन्ति । मोहाता-देवीमन्दिरं, सिद्धेश्वर-मन्दिरं, श्रीगणपति-मन्दिरं च इत्यादीनि धार्मिकस्थलानि सन्ति । अस्मिन् नगरे ऐतिहासिकभवनानि, सङ्ग्रहालयाः, संशोधनकेन्द्राणि च सन्ति । तेषु टैङ्क-सङ्ग्रहालयः प्रसिद्धः अस्ति । अस्य पूर्णं नाम “कावालेरी टैङ्क सङ्ग्रहालयः” इति । ई. स. १९९४ तमे वर्षे “बी. सी जोशी” इत्याख्येन अस्य सङ्ग्रहालयस्य उद्घाटनं कृतम् आसीत् । अस्मिन् सङ्ग्रहालये अग्निगोलकाः, युद्धयानानि च सङ्गृहीतानि सन्ति । अस्मिन् सङ्ग्रहालये चत्वारिंशद् देशानां युद्धयानानि प्रदर्शितानि सन्ति । अहमदनगरस्य जलवायुः सामान्यः एव भवति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणं शुष्कम्, उष्णं च भवति । किन्तु वर्षर्तौ वातावरणं सुखदं भवति । अतः जनाः विहाराय तत्र गच्छन्ति । 
महाराष्ट्रराज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तेन जनाः अहमदनगरस्य समीपस्थानि वीक्षणीयस्थलानि प्राप्तुं शक्नुवन्ति । राष्ट्रियराजमार्गेण सह इदं नगरं सम्बद्धम् अस्ति । अहमद-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण, पुणे-नगरेण च इत्यादिभिः महाराष्ट्र-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । पुणे-नगरस्य विमानस्थानकम् अहमदनगरात् ११३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अहमदनगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयाननि प्राप्यन्ते । पुणे-विमानस्थानकात् बसयानैः भाटकयानैः वा अहमदनगरं प्राप्यते । अनेन प्रकारेण अहमदनगरं भारतस्य प्रमुखनगरैः सह भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया अहमदनगरं प्राप्नुवन्ति ।

कोल्हापुरं महाराष्ट्र-राज्यस्य कोल्हापुर-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्रराज्यस्य धार्मिकस्थलत्वेन सम्पूर्णे भारते प्रसिद्धम् अस्ति । प्रतिवर्षं लक्षाधिकजनाः दर्शनार्थं तत्र गच्छन्ति । महालक्ष्मीदेव्या कोलासुर-राक्षसः हतः । तावदेव अस्य नगरस्य नाम कोल्हापुरम् इत्यभवत् । अस्मिन् नगरे ऐतिहासिकानि स्थलानि अपि सन्ति । दुर्गाः, ऐतिहासिकभवनानि च अस्य नगरस्य पर्यटनस्थलानि सन्ति । इदं नगरम् अतीव प्राचीनं विद्यते । सह्याद्रिपर्वतशृङ्खलायाः समीपे स्थितम् इदं नगरम् । “छत्रपति ताराबाई” इत्याख्यया कोल्हापुरस्य विकासः कृतः । अनन्तरं “छत्रपति शाहु महाराज” इत्याख्यः राजा राज्यस्य सञ्चालनं कुर्वन् आसीत् । तेन अस्य नगरस्य सामाजिकः शैक्षणिकः च विकासः कृतः ।  पुराणानुसारं कथ्यते यत् – कोल्हापुरं भगवतः शिवस्य निवासस्थलम् मन्यते । इदं नगरं “दक्षिणकाशी” इत्यपि कथ्यते । शाहु-सङ्ग्रहालयः अस्य नगरस्य प्राचीनतमः सङ्ग्रहालयः अस्ति । कोल्हापुर-नगरे कुशबाग-प्राङ्गणम् अस्ति । अस्मिन् प्राङ्गणे मल्लयुद्धाभ्यासः क्रियते । नगरेऽस्मिन् तडागाः अपि सन्ति । कोल्हापुर-नगरस्य पादत्राणानि विश्वस्मिन् प्रसिद्धानि सन्ति । कोल्हापुर-नगरे चर्मणः श्रेष्ठवस्तूनि प्राप्यन्ते । “राजा हरिशचन्द्र” नामकं चलच्चित्रं भारतस्य सर्वप्रथमं चलच्चित्रम् अस्ति । अस्य चलच्चित्रस्य निर्माणं कोल्हापुर-नगरे एव अभवत् । 
महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः कोल्हापुर-नगरस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्नुवन्ति । कोल्हापुर-नगरात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । कोल्हापुरनगरे “छत्रपति शाहु महाराज टर्मिनस्” इति नामकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय च कोल्हापुर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । कोल्हापुर-नगरे एकं विमानस्थानकम् अपि अस्ति । इदम् उजलाईवाडी-स्थले स्थितम् अस्ति । इदं कोल्हापुर-नगरात् ९ किलोमीटरमिते दूरे स्थितम् अस्ति । ततः मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण इदं नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । यात्रिकाः सरलतया अस्य नगरस्य भ्रमणं कर्तुं शक्नुवन्ति । 

महाराष्ट्रे द्विसदनात्मकं विधानमण्डलं वर्तते । एकं विधानपरिषद्, अपरं विधानसभा च । विधानसभायाः आहत्य २८८ स्थानानि सन्ति । विधानसभायाः अध्यक्षः “स्पीकर्” इति कथ्यते । अस्य राज्यस्य विधानपरिषदः आहत्य ७८ सदस्याः सन्ति । परिषदः सर्वोच्चपदाधिकारी “सभापतिः” इति कथ्यते । “वाय्. वी. चौहान” इत्याख्यः अस्य राज्यस्य सर्वप्रथमः मुख्यमन्त्री आसीत् । ई. स. १९८० तमस्य वर्षस्य फरवरी-मासस्य अष्टादशदिनाङ्के (१८ फरवरी १९८०) अस्मिन् राज्ये सर्वप्रथमं राष्ट्रपतिशासनम् अभवत् । महाराष्ट्रराज्ये लोकसभायाः एकोनपञ्चाशत् (४९) स्थानानि, राज्यसभायाः एकोनविंशतिः (१९) स्थानानि च सन्ति । “शिवसेना”, “राष्ट्रवादी-कॉङ्ग्रेस्-पक्षः”, “भारतीय-राष्ट्रीय-कॉङ्ग्रेस्-पक्षः”, ”भारतीयजनतापक्षः”, “कम्युनिस्ट् पार्टी ऑफ् इण्डिया” च अस्य राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । मुम्बई-नगरे उच्चन्यायालयः स्थितः अस्ति । ई. स. १८६२ तमे वर्षे अस्य स्थापना जाता । नागपुर-नगरे, पणजी-नगरे, औरङ्गाबाद-नगरे च अस्य उच्चन्यायालयस्य खण्डपीठानि सन्ति । महाराष्ट्र-राज्यम् अस्य उच्चन्यायालयस्य अधिकारक्षेत्रम् अस्ति । अपि च गोवा-राज्यं, दादरा-नगरहवेली-केन्द्रशासितप्रदेशं, दमनदीव-केन्द्रशासितप्रदेशं च इत्येतानि प्रदेशानि अस्यैव उच्चन्यायालयस्य अधिकारक्षेत्रे सन्ति ।

महाराष्ट्र-राज्यस्य राजधानी मुम्बई-महानगरम् अस्ति । इदं महानगरं भारतस्य “वाणिज्यराजधानी” इति कथ्यते । अस्य प्रदेशस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ६५ प्रतिशतं जनाः कृषिकार्येषु आधारिताः सन्ति । तण्डुलाः, गोधुमः, हरिद्रा च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति । द्राक्षाफलम्, आम्रफलं, कदलीफलं, नारङ्गफलं च अस्य राज्यस्य प्रमुखाणि फलानि सन्ति । एतेषां फलानाम् उत्पादनं प्रचुरमात्रायां क्रियते । महाराष्ट्रराज्यस्य आहत्य कृषिक्षेत्रस्य १०.९८ हेक्टेयर् परिमिते कृषिक्षेत्रे फलानाम् उत्पादनं भवति ।

महाराष्ट्रराज्यम् औद्योगिकरूपेण, आर्थिकरूपेण च समृद्धम् अस्ति । इद् भारतस्य प्रमुखम् औद्योगिकं राज्यम् अस्ति । भारतस्य आहत्य औद्योगिकोत्पादनस्य २५ प्रतिशतम् उत्पादनं महाराष्ट्रराज्ये भवति । भारतस्य आहत्य वैद्युतकोत्पादनस्य १९ प्रतिशतम् उत्पादनम् अस्मिन् राज्ये भवति । पुणे-नगरं, मुम्बई-महानगरं, थाणे-नगर, च वैद्युतकोत्पादनानां केन्द्राणि सन्ति । खाद्योद्योगः, वैद्युतोद्योगः, मुद्रण-प्रकाशनोद्योगः, कर्गजोद्योगः, रसायनोद्योगः, वस्त्रोद्योगः, यन्त्रोद्योगः, वाहनोद्योगः च महाराष्ट्रराज्यस्य उद्योगाः सन्ति । मुम्बई-महानगरं चलच्चित्रोद्योगस्य गृहम् अस्ति । अस्मिन् महानगरे उच्चस्तरात्मकं चलच्चित्रनिर्माणं क्रियते । इदं “बॉलिवुड्” इति कथ्यते । महाराष्ट्र-राज्ये पर्यटनस्थलानि अपि बहूनि सन्ति । अतः पर्यटनस्थलेषु अपि जनाः व्यापारं कुर्वन्ति । 

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं महाराष्ट्रराज्यस्य साक्षरतामानं ८२.६५ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८९.८२ प्रतिशतं, स्त्रीणां साक्षरतामानं ७५.४८ प्रतिशतं च अस्ति । “मुम्बई-विश्वविद्यालयः”,मुम्बई ; “डॉ बाबा साहेब अम्बेडकर मराठवाडा विश्वविद्यालयः”, औरङ्गाबाद; “भारतीय प्रौद्योगिकी संस्थानम्” (I.I.T.), मुम्बई; “पुणे-विश्वविद्यालयः”, पुणे; “उत्तरी महाराष्ट्र विश्वविद्यलयः”, जलगांव; “शिवाजी-विश्वविद्यालयः”, कोल्हापुर; “अमरावती-विश्वविद्यालयः, अमरावती; “महात्मागान्धी-अन्ताराष्ट्रियहिन्दीविश्वविद्यालयः”, वर्धा; “भारतीयविद्यापीठं”, पुणे; “जनसङ्ख्या विज्ञान का अन्तरराष्ट्रीय संस्थानम्”, मुम्बई; “महाराष्ट्र युनिवर्सिटी ऑफ् मेडिकल् सायन्स्”, नाशिक; “टाटा इन्स्टीट्यूट् ऑफ् सोशल् सायन्स्”, मुम्बई; “यशवंतराव चौहान महाराष्ट्र मुक्त विश्वविद्यालय”, नाशिक; “इन्दिरा गान्धी इन्स्टीट्यूट् ऑफ् डेवलपमेण्ट् रिसर्च्”, मुम्बई; “केन्द्रीय मत्स्य पालन शिक्षा संस्थान”, मुम्बई; “गोखले इन्स्टीट्यूट् ऑफ् पॉलिटिक्स् एण्ड् इकोनॉमिक्स्”, पुणे च इत्यादीनि महाराष्ट्रराज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति ।

कलादृष्ट्या इदं राज्यम् अत्यधिकं समृद्धम् अस्ति । मुम्बई-महानगरं भारतस्य चलच्चित्रोद्योगस्य केन्द्रं विद्यते । मुम्बई-महानगरं भारतीयचलच्चित्रजगतः राजधानी” अस्ति । इदं नगरं “भारतस्य हॉलीवुड्” इत्यपि कथ्यते । “दादा साहेब फाल्के” इत्याख्येन ई. स. १९१३ तमे वर्षे “हरिशचन्द्र” नामकं भारतस्य सर्वप्रथमं चलच्चित्रं निर्मितम् आसीत् । अतः सः एव भारतीयचलच्चित्रोद्योगस्य संस्थापकः अस्ति । 
महाराष्ट्र-राज्यस्य नृत्यकलासु तमाशा, लावणी, पोवाडा इत्यादयः नृत्यकलाः प्रमुखाः वर्तन्ते । मराठी-भाषा महाराष्ट्रराज्यस्य मातृभाषा अस्ति । किन्तु लिपिः देवनागरी अस्ति । “स्वामी मुकुन्द राव” इत्याख्यः मराठी-भाषायाः साहित्यकारः आसीत् । सर्वप्रथमं तेन एव मराठी-भाषायां साहित्यिकरचना कृता आसीत् । समयान्तरे सन्तज्ञानेश्वरः, नामदेवः, तुकारामः, रामदासः इत्यादिभिः मराठी-भाषायाः साहित्ये योगदानं प्रदत्तम् । अतः एव मराठीभाषासाहित्यं समृद्धम् अस्ति । महाराष्ट्रराज्ये भारतीयशास्त्रीयसङ्गीतम् अपि प्रचलितम् अस्ति । “पं. विष्णु दिगम्बर पलुस्कर” इत्याख्यः भारतीयशास्त्रीयसङ्गीतस्य मूर्धन्येषु अन्यतमः आसीत् । “विष्णुदास भावे” इत्याख्यः महाराष्ट्रराज्यस्य प्रथमः नाट्यकारः आसीत् । “विष्णुदास भावे” इत्याख्येन एव मराठी-भाषायाः नाटकस्य आधारः संस्थापितः ।

गणेश-महोत्सवः महाराष्ट्रराज्यस्य महत्त्वपूर्णः उत्सवः अस्ति । अयम् उत्सवः दशदिवसात्मकः भवति ।  जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । एलिफेण्टा-उत्सवः, पुणे-उत्सवः, बाणगङ्गा-उत्सवः, एलोरा-उत्सवः, कालिद-उत्सवः इत्यादयः महाराष्ट्रराज्यस्य प्रमुखाः उत्सवाः सन्ति । एलिफेण्टा-उत्सवः औरङ्गाबाद-नगरस्य समीपे आचर्यते । नागपुर-नगरे कालिदासोत्सवः आचर्यते । महाराष्ट्रराज्ये दीपावलि-पर्व, रामनवमी, विजयादशमी च इत्यादीनि धार्मिकपर्वणि जनाः आचरन्ति । महाराष्ट्रराज्यस्य जनाः सर्वे उत्सवान् उत्साहपूर्वकम् आचरन्ति । तेन जनेषु प्रीतिः अपि वर्धते । जनाः सङ्घटिताः अपि भवन्ति ।  

महाराष्ट्र राज्यस्य लोकसंस्कृतिः विशिष्टा । राज्यस्य यथा पञ्चविभागाः भवन्ति, तत्र तत्र संस्कृत्याम् किञ्चित् भेदाः दृश्यन्ते, परं तदपि वैशिष्ट्यपूर्णमेव । महाराष्ट्रराज्यस्य संस्कृतिमध्ये काव्यं, शास्त्रं, विनोदः, नाटकं, चित्रपटः, नृत्यं, कला सर्वं द्रष्टुं शक्नुमः । वैविध्यपूर्णा एषा संस्कृतिः । इदानीं महाराष्ट्रराज्ये सर्वे भाषिकाः जनाः आगत्य निवसन्ति, परं मूलभाषा महाराष्ट्री-मराठी एव । महाराष्ट्रस्य विस्तारः अपि बृहत् अतः तावत् वैविध्यमपि अनुभवामः । राज्यमिदं कृषिप्रधानम् अतः तस्य प्रभावमपि दृश्यते ।  

ये पञ्चविभागाः, तेषु आहारसंस्कृत्यां भिन्नता दृश्यते । प्रत्येकस्मिन् विभागे कृष्युत्पादनरूपेण यत् किमपि उपलभ्यते तदनुसारं विकल्पमस्ति । सामान्यतः प्रतिदिने आहारे रोटिका 'भाकरी'वा, उपलब्धिनुसारं शाकं वा शाकानि, ओदनम्, अवलेहः, उपसेचनं, पर्पटश्च समाविष्टः अस्ति । इतोऽपि मिष्टान्नम्, समारोहदिने विशेषपदार्थान् यथा - पुरणपोळी, जिलेबी(कुण्डलिका),बुंदी इत्यादिकं खादन्ति । नगर, ग्राम निवसनपद्धत्यनुसारमपि आहारे वैविध्यम् अनुभवामः ।

महाराष्ट्र-राज्यं जनसङ्ख्यादृष्ट्या भारते द्वितीयम् अस्ति । अस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । अस्य राज्यस्य पश्चिमदिशि समुद्रः स्थितः अस्ति । अतः तत्र बहूनि मनोहराणि समुद्रतटानि सन्ति । इतः परं सङ्ग्रहालयाः, स्मारकाः, दुर्गाः, मन्दिराणि चापि सन्ति । तेन कारणेन इदं राज्यं समृद्धम् अस्ति । अजन्ता-एलोरा-गुहाः, “महाबलेश्वर माथेरान”, “पञ्चगनी”, “जवाहर माथेरान”, “मालशेज घाट”, “चिकलधारा”, “पन्हाला” च इत्यादयः महाराष्ट्र-राज्यस्य पर्यटनस्थलानि सन्ति । शिरडी, पंढरपुर, हरिहरेश्वर, कोल्हापुर, अम्बजोगई, शेगाँव, नासिक, त्र्यम्बकेश्वर च इत्यादयः महाराष्ट्रस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । महाराष्ट्र-राज्ये “गेटवे ऑफ् इण्डिया” अपि अस्ति । ई. स. १९११ तमे वर्षे “जॉर्ज् पञ्चम” इत्याख्यस्य ब्रिटिश्-शासकस्य, मेरी इत्याख्यायाः राज्ञ्याः च स्वागतार्थं तस्य निर्माणं कारितम् आसीत् । 

महाराष्ट्रराज्यस्य सर्वकारेण परिवहनाय बसयानानि प्रचालितानि सन्ति । बसयानैः एकस्मात् स्थानात् अन्यत्र गन्तुं शक्यते । भीमाशङ्कर-स्थलात् पुणे-नगरं १२७ किलोमीटर्मिते, मुम्बई-महानगरं २०० किलोमीटर्मिते च दूरे स्थितम् अस्ति । पुणे-नगरात्, मुम्बई-नगरात् च भीमाशङ्कर-स्थलाय बसयानानि, भाटकयानानि च प्राप्यन्ते । पुणे-नगरस्य रेलस्थानकं भीमाशङ्कर-स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । तद् रेलस्थानकं भीमाशङ्कर-स्थलात् ९५ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं बेङ्गळूरु, मुम्बई, देहली, इन्दौर, अहमदाबाद, वडोदरा, चेन्नै च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । पुणे-नगरे “लोहगांव” नामकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भीमाशङ्कर-स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । इदं भीमाशङ्कर-स्थलात् ९५ किलोमीटर्मिते दूरे स्थितम् अस्ति । लोहगांव-विमानस्थानकं मुम्बई, हैदराबाद, देहली च इत्यादिभिः अन्ताराष्ट्रियविमानस्थानकैः सह सम्बद्धमस्ति । अस्मात् विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया गन्तुं शक्नुवन्ति । 

मालशेज-घट्टः महाराष्ट्र-राज्यस्य प्रमुखनगरैः सह संलग्नः अस्ति । महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तानि बसयानानि सम्पूर्णे महाराष्ट्रराज्ये प्रचलन्ति । मुम्बई-नगरात्, पुणे-महानगरात् च इत्यादिभ्यः नगरेभ्यः “मालशेज-घट्टाय बसयानानि प्राप्यन्ते । भाटकयानैः अपि तत्र गन्तुं शक्यते । कल्याण-रेलस्थानकम् अस्य स्थलस्य निकटतमं रेलस्थानकम् अस्ति । इदं रेलस्थानकं महाराष्ट्र-राज्यस्य प्रमुखनगरैः, भारतस्य प्रमुखनगरैः च सम्बद्धम् अस्ति । मालशेज-घट्टात् कल्याण-रेलस्थानकं ८६ किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं मालशेज-घट्टात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्मात् विमानस्थानकात् भाटकयानैः बसयानैः वा मालशेज-घट्टः प्राप्तुं शक्यते ।

गुहागर-नगरं महाराष्ट्रराज्यस्य रत्नागिरि-मण्डले स्थितम् अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि, समुद्रतटानि सन्ति । अतः इदं “मन्दिराणां तटानां च नगरम्” इति कथ्यते । भारत प्रमुखेषु पर्यटनस्थलेषु नगरमिदं प्रसिद्धम् अस्ति । इदं नगरं महाराष्ट्रराज्यस्य पश्चिमतटे स्थितम् अस्ति । गुहागर-नगरस्य पश्चिमदिशि अरबसागरः अस्ति । अस्य पूर्वदिशि सह्याद्रिपर्वतशृङ्खला च वर्तते । अस्मिन् नगरे हिन्दुधर्माणां बहूनि मन्दिराणि सन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । बालकेश्वर-मन्दिरम्, उदसेश्वर-मन्दिरं, व्यादेश्वर-मन्दिरं, वेलनेश्वर-मन्दिरं, तालकेश्वर-मन्दिरं च एतानि अस्य नगरस्य शिवमन्दिराणि सन्ति । एतेषु मन्दिरेषु भगवतः शिवस्य विभिन्नरूपाणि दृश्यन्ते । गुहागर-नगरे चन्द्रिका-मन्दिरं स्थितम् अस्ति । मन्दिरमिदं सम्पूर्णे भारते विख्यातम् अस्ति । तस्य मन्दिरस्य समीपं भगवतः गणपतेः मन्दिरं विद्यते । यात्रिकाः गणेशदेवस्थानस्य, उमामहेश्वर-मन्दिरस्य च दर्शनं कुर्वन्ति । नगरेऽस्मिन् बहूनि समुद्रतटानि सन्ति । तानि सर्वाणि सुन्दराणि सन्ति । तत्र वर्जिन-समुद्रतटम् अस्ति । अयं तटः ६ किलोमीटर्मितः विस्तृतः वर्तते । तत्र नारिकेलस्य वृक्षाः पर्याप्तमात्रायां सन्ति । अस्मिन् नगरे कोङ्कण-संस्कृतेः प्रभावः अधिकः वर्तते । इदं नगरम् अरबसागरस्य तटे स्थितम् अस्ति । अतः अस्य नगरस्य तापमानं सर्वदा सामान्यम् एव भवति । मई-मासतः सितम्बर-मासपर्यन्तम् अस्य नगरस्य तापमानं सुखदं भवति । अस्य नगरस्य अधिकतमं तापमानं ३९ डिग्री सेल्सियस्-मात्रात्मकं, न्यूनतमं तापमानं १८ डिग्री सेल्सियस्-मात्रात्मकं च भवति । अस्मिन् नगरे सर्वाधिकम् औष्ण्यं मई-मासे भवति ।

गुहागर-नगरात् चिपलून-नगरं ४० किलोमीटर्मिते दूरे स्थितम् अस्ति । सर्वकारप्रचालितैः बसयानैः चिपलून-नगरं सरलतया प्राप्यते । चिपलून-नगरं महाराष्ट्रराज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । चिपलून-नगरे एकं रेलस्थानकम् अपि अस्ति । तस्मात् रेलस्थानात् पुणे-नगराय, मुम्बई-महानगराय, देहली-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय च रेलयानानि प्राप्यन्ते । रेलस्थानात् भाटकयानैः, बसयानैः वा गुहागर-नगरं गन्तुं शक्यते । मुम्बई-नगरे स्थितं “छत्रपति शिवाजी” इत्याख्यं विमानस्थानकं गुहागर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मुम्बई-नगरे वैयक्तिकवाहनानि, भाटकवाहनानि, बसयानानि च प्रचलन्ति । भूमार्गेण ततः गुहागर-नगरं गन्तुं शक्यते ।

जुन्नर-नगरे याः गुहाः सन्ति, तासां गुहानां वास्तुकला विश्वस्मिन् प्रसिद्धा वर्तते । अत एव तत्स्थलं वास्तुकलायाः केन्द्रत्वेन ख्यातम् अस्ति । तत्र गुहानां त्रयः समूहाः सन्ति । “मनमोदी-हिल-समूहः”, “गणेश-लेना-समूहः”, “तुलजा-लेना-समूहः” च । इतः परं लेन्याद्रि-गुहाः सन्ति । ताः गुहाः शिलाछेदनेन निर्मिताः सन्ति । तस्मिन् समूहे त्रिंशत् गुहाः सन्ति । ताः गुहाः अस्य नगरस्य आकर्षणकेन्द्रं वर्तते । अस्य स्थलस्य ५०० चतुरस्रकिलोमीटर्मितं क्षेत्रे बहवः चित्रकायाः (Panther) प्राप्यन्ते । अस्य स्थलस्य जलवायुः शीतलः अस्ति । अतः आवर्षं जनाः सुखेन भ्रमणं कुर्वन्ति ।

महाराष्ट्र-राज्यस्य सर्वकारेण सौकर्याय बसयानानि प्रचालितानि सन्ति । पुणे-नगरात् जुन्नर-नगरं ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-नगरात् बसयानैः जुन्नर-नगरं प्राप्यते । पुणे-नगरे रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकं जुन्नर-नगरस्य समीपस्थं रेलस्थानकं वर्तते । पुणे-नगरस्य रेलस्थानकात् भारतस्य प्रमुख-नगरेभ्यः रेलयानानि नियमितरूपेण प्रचलन्ति । तस्मात् रेलस्थानकात् भाटकयानैः जुन्नर-नगरं गन्तुं शक्यते । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं जुन्नर-नगरात् १७७ किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया जुन्नर-नगरं प्राप्तुं शक्नुवन्ति ।

ताभ्यां ग्रामाभ्यां पुणे-नगराय बसयानानि प्राप्यन्ते । पुणे-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । पुणे-नगरे एकं रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकं ताभ्यां ग्रामाभ्यां ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-नगरस्य रेलस्थानकात् ताभ्यां ग्रामाभ्यां भाटकयानानि, बसयानानि च प्राप्यन्ते । इदं रेलस्थानकात् मुम्बई-महानगराय, अहमदनगराय, नागपुर-नगराय, अहमदाबाद-नगराय च रेलयानानि प्राप्यन्ते । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया तौ ग्रामौ प्राप्तुं शक्नुवन्ति ।

कर्जत-नगरे महाराष्ट्र-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । कर्जत-नगरात् मुम्बई-महानगराय, पुणे-नगराय, पनवेल-नगराय च नियमितरूपेण बसयानानि प्राप्यन्ते । कर्जत-नगरे एकं रेलस्थानकम् अपि विद्यते । कर्जत-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । कर्जत-नगरं खण्डाला-नगरस्य, लोनावाला-नगरस्य च समीपे स्थितम् अस्ति । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं कर्जत-नगरात् ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया जुन्नर-नगरं प्राप्तुं शक्नुवन्ति ।

द्वादशशताब्द्यां सिद्दी-राजवंशेन अस्य दुर्गस्य निर्माणं कारितम् आसीत् । तस्मिन् समये मरुड-नगरं सिद्दी-राजवंशस्य राजधानी आसीत् । वैदेशिकशासकैः बहुवारम् अस्मिन् दुर्गे आक्रमणं कृतम्, किन्तु सर्वदा ते सर्वे वैफल्यं प्राप्तवन्तः । शिवाजी-राज्ञा अपि षड्वारम् आक्रमणं कृतम् आसीत् । किन्तु सः अपि निष्फलः जातः । पुरा अयं दुर्गः काष्ठैः निर्मितः आसीत् । पुरा ये मत्स्यपालकाः आसन्, समुद्रतस्करेभ्यः रक्षणाय तैः अयं दुर्गः काष्ठैः निर्मितः आसीत् । अनन्तरं “पीर खान” इत्याख्येन अस्मिन् दुर्गे स्वस्याधिकारः प्रस्थापितः । सः अहमदनगर-साम्राज्यस्य शासकः आसीत् । तेन अस्य दुर्गस्य दृढतया निर्माणं कारितम् । अतः अयं दुर्गः अभेद्यः अस्ति । “मालिक अम्बर” इत्याख्यः अहमदनगर-साम्राज्यस्य राजा आसीत् । तेन अस्य दुर्गस्य पुनर्निमाणं कारितम् ।

मुरुड-ग्रामः भूमार्गेण पुणे-नगरेण, कल्याण-नगरेण, मुम्बई-महानगरेण इत्यादिभिः महाराष्ट्र-राज्यस्य नगरैः सह सम्बद्धम् अस्ति । तत्र सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । रोहा-नगरस्य रेलस्थानकं मुरुड-नगरस्य समीपस्थं रेलस्थानकं वर्तते । इदं कोङ्कण-रेलमार्गे स्थितम् अस्ति । इदं रेलस्थानकं महाराष्ट्रराज्यस्य प्रमुकरेलस्थानकैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतत् विमानस्थानकं मुरुड-नगरात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्मात् विमानस्थानकात् भाटकयानैः बसयानैः वा मुरुड-नगरं प्राप्तुं शक्यते । पुणे-नगरस्य लोहगांव-विमानस्थानकं, नासिक-नगरस्य गान्धीनगर-विमानस्थानकं च अपि समीपस्थे विमानस्थानके स्तः । ताभ्यां विमानस्थानकां मुरुड-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते ।

खोडाला-ग्रामः महाराष्ट्रराज्यस्य ठाणे-मण्डले स्थितः अस्ति । अयं ग्रामः समुद्रतलात् १८०० पादोन्नतः अस्ति । खोडाला-ग्रामस्य वातावरणं शान्तम् अस्ति । वैतरना-तडागः, इगतपुरी-कसार-घट्टः, त्रिङ्गलवाडी-दुर्गः च इत्यादीनि अस्य ग्रामस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अयं ग्रामः पर्वतक्षेत्रे स्थितः अस्ति । अतः पर्वतारोहणाय अपि अयं ग्रामः विशिष्टः वर्तते । अस्मिन् ग्रामे आदिवासिनः निवसन्ति । साम्प्रतम् अपि ते पशुबलिं ददति । प्रतिवर्षम् आदिवासिनः स्वस्य पारम्परिकोत्सवान् आचरन्ति । तेषु उत्सवेषु आदिवासि-नृत्यं दर्शनीयं भवति । तत्र “अमला-वन्यजीवाभयारण्यम्” अस्ति । अस्मिन् अभयारण्ये बहवः वन्यपशवः दृश्यन्ते । 
खोडाला-ग्रामः पुणे-नगरेण, मुम्बई-नगरेण, इगतपुरी-नगरेण च भूमार्गेण सम्बद्धः अस्ति । तेभ्यः नगरेभ्यः खोडाला-ग्रामाय प्रतिदिनं नियमितरूपेण बसयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । इगतपुरी-नगरस्य रेलस्थानकं खोडाल-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । तस्मात् रेलस्थानकात् पुणे-नगराया, मुम्बई-महानगराय इत्यादिभ्यः महाराष्ट्र-राज्यस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतत् विमानस्थानकं खोडाला-ग्रामात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः वा खोडाला-ग्रामं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च खोडाला-ग्रामः सरलतया गन्तुं शक्यते ।

यवतमाल-नगरं महाराष्ट्रराज्यस्य यवतमाल-मण्डलस्य मुख्यालयः वर्तते । इदं नगरं समुद्रतलात् १४६० पादोन्नतं वर्तते । विदर्भक्षेत्रे गण्यते इदं यवतमाल-नगरम् । इदं नगरं परितः चन्द्रपुर-मण्डलं, परभणीमण्डलम्, अकोला-मण्डलम्, अमरावती-मण्डलं च स्थितम् अस्ति । यवत, माल इत्याभ्यां शब्दाब्यां “यवतमाल” इति शब्दस्य उत्पत्तिर्जाता । मराठी-भाषायां “यवत” इत्यर्थः पर्वतः, “माल” इत्यर्थः पङ्क्तिः च  । अस्य नगरस्य इतिहासः अति रोचकः वर्तते । तत्र बहुभिः शासकैः शासनं कृतम् आसीत् । पुरा इदं नगरं “यावाते चा महल”, “योत-लोहार” इति नामभ्यां ज्ञायते स्म । तस्मिन् समये यवतमाल-नगरं डेक्कन्-साम्राज्यस्य मुख्यनगरम् आसीत् । मुगल-शासकैः अहमदनगर-साम्राज्यस्य शासकाः पराजिताः । तदा मुगल-शासकैः शासनं कृतम् । मुगल-शासकस्य अन्तिमशासकस्य मृत्योः अनन्तरं मराठा-शासकैः अस्मिन् नगरे आधिपत्यं स्थापितम् । तदनन्तरं ब्रिटिश-शासकैः अधिकारः प्राप्तः । पुरा इदं नगरं मध्यभारतस्य किञ्चन नगरम् आसीत् । किन्तु समयान्तरे महाराष्ट्रराज्ये अस्य नगरस्य विलयः जातः । 
यवतमाल-नगरे बहूनि मन्दिराणि, वीक्षणीयस्थलानि च सन्ति । नरसिंह-मन्दिरं, दत्त-मन्दिरं, खाटेश्वरमहाराज-मन्दिरं, जगत-मन्दिरं, “खोजोची-मस्जिद्” च अस्य नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । अस्य नगरस्य समीपं कलम्ब-ग्रामः वर्तते । तस्मिन् ग्रामे चिन्तामणिगणेश-मन्दिरं विद्यते । इदं मन्दिरं प्राचीनं वर्तते । अस्य समीपे गणेश-कुण्डः अपि अस्ति । अस्मिन् नगरे द्वे प्रमुखे अभयारण्ये स्तः । बैनगङ्गा-वन्यजीवाभयारण्यं, तिपेश्वर-वन्यजीवाभयारण्यं च । एतयोः अभयारण्ययोः प्राकृतिकसौन्दर्यं महत्त्वपूर्णं वर्तते । शीतर्तौ जनाः यवतमाल-नगरस्य भ्रमणं कर्तुं गच्छन्ति ।

यवतमाल-नगरं महाराष्ट्रराज्यस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अमरावती-नगरात्, चन्द्रपुर-नगरात् च यवतमाल-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य सर्वकारेण अपि बसयानानि प्रचालितानि सन्ति । अतः इदं नगरं महाराष्ट्रस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अपि अस्ति । यवतमाल-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय, अहमदनगराय च रेलयानानि प्राप्यन्ते । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । नागपुर-नगरे “डॉ. बाबासाहेब आम्बेडकर” नामकं विमानस्थानकं वर्तते । इदं यवतमाल-नगरस्य समीपस्थं विमानस्थानकं वर्तते । यवतमाल-नगरात् नागपुर-नगरं १२६ किलोमीटर्मिते दूरे स्थितम् अस्ति ।  इदं विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । हैदराबाद-नगरस्य “राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकम्” अपि समीपे स्थितम् अस्ति । इदं यवतमाल-नगरात् ३५६ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

कर्नाला-नगरं महाराष्ट्रराज्यस्य रायगढ-मण्डले स्थितम् अस्ति । इदं नगरं समुद्रतलात् ४७.५ किलोमीटर्मितम् उन्नतं वर्तते । इदं नगरं परितः सघनानि वनानि, उन्नताः पर्वताः च स्थिताः सन्ति । तुगलक-वंशस्य राज्ञां शासनकाले कर्नाला-नगरं कोङ्कण-मण्डलस्य राजधानी आसीत् । ततः परं तस्मिन् “निजाम शाह” इत्याख्येन राज्ञा आधिपत्यं स्थापितम् । सः अहमदनगरस्य संस्थापकः आसीत् । समयान्तरे अस्मिन् क्षेत्रे “ईस्ट् इण्डिया कम्पनी” इत्याख्यायाः संस्थायाः स्थापना जाता । तत्र एकं विहगाभयारण्यं वर्तते । तस्मिन् अभयारण्ये विहगानां १५० जातयः सन्ति । ये जनाः पर्वतारोहणाय उत्सुकाः भवन्ति, तेभ्यः इदं स्थलम् अत्युत्तमं वर्तते । अस्य स्थलस्य वातावरणं सर्वदा सुखदं, स्वास्थ्यप्रदं, मनोहरं च भवति ।

इदं स्थलं मुम्बई-महानगरात् ६० किलोमीटर्मिते, पनवेल-नगरात् १२ किलोमीटर्मिते च दूरे स्थितम् अस्ति । पनवेल-नगरात् गोवा-राजमार्गेण अपि कर्नाला-नगरं गन्तुं शक्यते । महाराष्ट्र-राज्यस्य सर्वकारेण सौकर्याय बसयानानि  अपि प्रचालितानि सन्ति । अतः बसयानैः अपि भ्रमणे सारल्यं भवति । पनवेल-नगरस्य रेलस्थानकं कर्नाला-नगरस्य समीपस्थं रेलस्थानकं वर्तते । पनवेल-रेलस्थानकं मुम्बई-रेलविभागस्य मुख्यं रेलस्थानकं वर्तते । पनवेल-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं कर्नाला-नगरात् ६० किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । पुणे-नगरस्थं लोहगांव-विमानस्थानकम् अपि कर्नाला-नगरस्य समीपे एव अस्ति । लोहगांव-विमानस्थानकं कर्नाला-नगरात् १०० किलोमीटर्मिते दूरे स्थितम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया कर्नाला-नगरं प्राप्तुं शक्नुवन्ति ।

बोरदी-नगरं महाराष्ट्रराज्यस्य ठाणे-मण्डलस्य दहानू-नगरात् १७ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं नगरं समुद्रतटे स्थितः अस्ति । अतः जलक्रीडाः अपि कर्तुं शक्यन्ते । अस्य नगरस्य समुद्रतटं शान्तं, कृष्णवर्णीयं च वर्तते । अस्य समुद्रतटस्य जलस्तरः न्यूनः एव भवति । अतः अस्मिन् तटे जलक्रीडाः सुरक्षितरूपेण क्रियन्ते । महाराष्ट्र-राज्यस्य “वुड्स्-संरक्षणविभागः” अस्य समुद्रतटस्य निरीक्षणं करोति । बोरदी-नगरे पारसी-समुदायस्य बहूनि धार्मिकस्थलानि सन्ति । पारसी-जनैः अस्मिन् नगरे पर्यटकेभ्यः पारसी-भोजनस्य, निवासस्य च व्यवस्था कृता । बोरदी-नगरात् ८ किलोमीटर्मिते दूरे बहरोट-गुहाः स्थिताः सन्ति । ताः गुहाः अस्य स्थलस्य आकर्षणस्य केन्द्रं वर्तते । तत्र पर्वतीयक्षेत्रम् अस्ति । इदं क्षेत्रं पारसीसमुदायस्य पवित्रस्थलं वर्तते । इदं क्षेत्रं १५०० पादोन्नतं वर्तते । तत्र मल्लीनाथतीर्थं, कोदबाद-मन्दिरं च अस्ति । एते मन्दिरे जैनधर्मस्य तीर्थस्थले स्तः । बोरदी-नगरात् १० किलोमीटर्मिते दूरे कल्पतरू-उद्यानं स्थितम् अस्ति । अस्य नगरस्य समीपे वृन्दावन-चलच्चित्रनिर्माणगृहं स्थितम् अस्ति । तत्र “महाभारत”, “रामायण” इत्यादीनाम् ऐतिहासिकचलच्चित्राणां निर्माणं क्रियते स्म । बोरदी-नगरे दहानू-दुर्गः अस्ति । कथ्यते यत् – “एकवारं दहानू-दुर्गस्य उपयोगः कारागारत्वेन अपि कृतः” इति । अयं दुर्गः भारतस्य संस्कृतेः प्रतीकं वर्तते । वर्षतोः अनन्तरं, शीतर्तोः पूर्वं च अस्य नगरस्य वातावरणं लाभकरं, सुखदं च भवति । नवम्बर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य तापमानं १२ डिग्री सेल्सियस् मात्रात्मकं भवति । तस्मिन् काले जलवायुः अपि स्वास्थ्यकरः, समशीतोष्णः च भवति ।

महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । बोरदी-नगरात् दहानू-रेलस्थानकं १७ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं बोरदी-नगरस्य निकटतमं रेलस्थानकम् अस्ति ।  घोलवद-रेलस्थानकम् अपि समीपे एव स्थितम् अस्ति । बसयानैः भाटकयानैः वा ताभ्यां रेलस्थानकाभ्यां बोरदी-नगरं प्राप्यते । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । इदं बोरदी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकात् भाटकयानैः बसयानैः वा बोरदी-नगरं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च बोरदी-नगरं गन्तुं सारल्यं भवति ।

सतारा-नगरं महाराष्ट्र-राज्यस्य सतारा-मण्डलस्य मुख्यालयः अस्ति । सतारा-मण्डलस्य उत्तरदिशि, पुणे-मण्डलं, दक्षिणदिशि साङ्गली-मण्डलं, पूर्वदिशि सोलापुर-मण्डलं, पश्चिमदिशि रत्नागिरि-मण्डलं च अस्ति । एतत् परितः सप्तपर्वताः सन्ति । जरन्देश्वर-पर्वतः, यवतेश्वर-पर्वतः, जिङ्क्यात्रा-पर्वतः, “कित्लिचा डोङ्गर”-पर्वतः, सज्जनगढ-पर्वतः, “पैदयाचा बैरोबा”-पर्वतः, “नक्दिचा डोङ्गर”-पर्वतः, अतः एव इदं नगरं “सतारा” इति कथ्यते । पुरा अस्मिन् नगरे राष्टकूट-राजवंशस्य शासनम् आसीत् । अनन्तरं चालुक्यवंशस्य, मौर्यवंशस्य शासनम् आसीत् । सप्तदशशताब्द्याम् अत्र मराठा-वंशस्य शासनम् आसीत् । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । अस्य नगरस्य पर्यटनस्थलेषु जिङ्क्यात्रा-दुर्गः प्रसिद्धः अस्ति । अस्य दुर्गस्य निर्माणं भोज-राज्ञा कारितम् । अयं दुर्गः ३००० पादोन्नतः अस्ति । अस्मिन् दुर्गे मङ्गलाईदेव्याः मन्दिरम् अपि अस्ति । सतारा-नगरस्य इतिहासः समृद्धः वर्तते । अस्य नगरस्य दुर्गाः, मन्दिराणि, वन्याभयारण्यानि, प्राकृतिकसौन्दर्यं च आकर्षणस्य केन्द्रं विद्यते ।

सतारा-नगरं पुणे-बेङ्गळूरु-राजमार्गे स्थितम् अस्ति । सतारा-नगरात् पुणे-नगरं १२० किलोमीटर्मितं, मुम्बई-महानगरं २७० किलोमीटर्मितं च दूरे स्थितम् अस्ति । महाराष्ट्रस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । सतारा-नगरे एकं रेलस्थानकं वर्तते । इदं रेलस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण, बेङ्गळूरु-महानगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । पुणे-नगरस्य विमानस्थानकं सतारा-नगरस्य समीपस्थं विमानस्थानकं वर्तते । सतारा-नगरात् पुणे-विमानस्थानकं १०७ किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः विमानानि प्राप्यन्ते । अनेन प्रकारेण सतारा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः भ्रमणार्थम् इच्छुकाः यात्रिकाः सरलतया सतारा-नगरं गन्तुं शक्नुवन्ति । 

रत्नागिरि-नगरं महाराष्ट्रराज्यस्य रत्नागिरि-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्रराज्यस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अरबसागरस्य तटे स्थितमिदं नगरम् । ई. स. १७३१ तमे वर्षे शिवाजी-राज्ञः शासनानन्तरम् अस्मिन् नगरे सात्र-राजभिः स्वस्य आधिपत्यं स्थापितम् । ई. स. १८१८ तमात् वर्षात् ब्रिटिश्-शासकैः शासनं कृतम् । पुराणानानुसारं कथ्यते यत् – “यदा पाण्डवैः चतुर्दशवर्षाणां वनवासः कृतः । तदा तैः तेषु वर्षेषु कश्चित् कालः रत्नागिरि-नगरे यापितः । तस्मिन् समये यः राजा अत्र शासनं कुर्वन् आसीत् , तेन कौरवाणां विरोधाय पाण्डवानां साहाय्यं कृतम् । एवं च महाभारतयुद्धे अपि तेन भागः गृहीतः । रत्नागिरि-नगरे जयगढ-दुर्गः आकर्षणस्य केन्द्रम् अस्ति । अस्य नगरस्य समीपे रत्नादुर्ग-दुर्गः अपि अस्ति । अयं दुर्गः ६०० वर्षेभ्यः प्राचीनः अस्ति । 
रत्नागिरि-नगरे इतिहासस्य, धर्मस्य, प्रकृतेः इत्यादीनां सर्वेषां मिश्रणम् अस्ति । अत्र मराठासंस्कृतेः अत्यधिकः प्रभावः अस्ति । रत्नागिरि-नगरे माण्डवी-समुद्रतटम् अस्ति । अस्य समुद्रतटस्य सिकता कृष्णवर्णीया अस्ति । गणपतिपुले-समुद्रतटं, गणेशघुले इत्येते द्वे स्थले अपि मुख्ये स्तः । गणपतिपुले-समुद्रतटस्य समीपे स्वयंभूगणपतेः प्राचीनं मन्दिरं विद्यते । इदं मन्दिरं ४०० वर्षेभ्यः पुरातनम् अस्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् उष्णं भवति । अतः शीतर्तौ यात्रिकाः भ्रमणार्थं तत्र गच्छन्ति । किन्तु यदि येभ्यः जनेभ्यः आम्रं रोचते, तैः ग्रीष्मर्तौ तत्र गन्तव्यम् ।

रत्नागिरि-नगरं महाराष्ट्रराज्यस्य बृहत्तमनगरेषु अन्यतमं वर्तते । अतः अत्र परिवहनाय कष्टं नास्ति । इदं नगरं सप्तदशक्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय अल्पमूल्यकानि बसयानानि प्रचालितानि सन्ति । तैः बसयानैः यात्रिकाः रत्नागिरि-नगरस्य भ्रमणं कर्तुं शक्नुवन्ति । रत्नागिरि-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं कोङ्क-रेलमार्गे स्थितम् अस्ति । भारतस्य प्रमुखरेलस्थानकेषु अन्यतमम् अस्ति इदं रेलस्थानकम् । रत्नागिरि-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगरा, गोवा-नगराय, कोल्हापुर-नगराय, च नियमितरूपेण रेलयानानि प्राप्यन्ते । रत्नागिरि-नगरे एकं विमानस्थानकम् अपि स्थितम् अस्ति । रत्नागिरि-नगरात् इदं विमानस्थानकं १२ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं रत्नागिरि-ग्रामात् ३७० किलोमीटर्मिते दूरे स्थितः अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः, धूमशकटयानैः वा रत्नागिरि-ग्रामं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च रत्नागिरि-ग्रामः सरलतया गन्तुं शक्यते ।

सजन-नगरं महाराष्ट्रराज्यस्य ठाणे-मण्डले स्थितम् अस्ति । इदं नगरं मुम्बई-नगरात् १३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् नगरे “चीकू”-फलस्य, आम्रस्य च विपुलतया उत्पादनं क्रियते । पुर्तगाली-जनैः यदा भारते आक्रमणं कृतम् आसीत्, तदा तैः सजन-नगरं विश्रामस्थलत्वेन उपयुक्तम् । ई. स. १३०० तमवर्षतः १६६० तमवर्षपर्यन्तम् अस्मिन् नगरे मुस्लिम-शासनम् आसीत् । मराठा-शासकानां शासनकाले सजन-नगरस्य उन्नतिः जाता । अस्मिन् नगरे बहूनि धार्मिकस्थलानि स्थितानि सन्ति । अस्मिन् नगरे पलूसा-जलप्रपातः अस्ति । अयं जलप्रपातः ६० पादोन्नतः वर्तते । टाईगर-गुहाः, कोहेज-दुर्गः इत्येते अस्य नगरस्य ऐतिहासिके स्थले स्तः । 
महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः सजन-नगरं गन्तुं शक्यते । सजन-नगरं मुम्बई-नगरेण, पुणे-नगरेण, ठाणे-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ठाणे-नगरस्य रेलस्थानकं सजन-नगरस्य समीपस्थं रेलस्थानकं वर्तते । ठाणे-रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ठाणे-नगरात् भाटकयानैः, बसयानैः च सजन-नगरं गन्तुं शक्यते । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं सजन-नगरात् ३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः वा सजन-नगरं प्राप्तुं शक्यते । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सजन-नगरं सरलतया गन्तुं शक्नुवन्ति ।

अजन्ता-गुहाः महाराष्ट्र-राज्यस्य औरङ्गाबाद-मण्डले स्थिताः सन्ति । ई. स. २०० वर्षाणि पूर्वतः ई. स. द्वितीयशताब्दीपर्यन्तम् एतासां गुहानां निर्माणकाः मन्यते । एतासु गुहासु भगवतः बुद्धस्य मूर्तयः, चित्राणि च दृश्यन्ते । भगवतः बुद्धस्य जन्मकालस्य प्रसङ्गाः अपि चित्रेषु दृश्यन्ते । तत्र आहत्य नवविंशतिः गुहाः सन्ति । इमाः गुहाः ऐतिहासिक्यः सन्ति । अतः “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इमाः गुहाः वैश्विकसम्पत्तित्वेन उद्घोषिताः । एतासु गुहासु बौद्ध-धर्मस्य, हिन्दुधर्मस्य,. जैनधर्मस्य च कलाकृतयः सन्ति । एकोनविंशतितमायां शताब्द्यां ब्रिटिश्-सैनिकाः औरङ्गाबाद-नगरस्य समीपस्थानि वनानि आखेटाय गतवन्तः, तस्मिन् समये ते एताः गुहाः दृष्टवन्तः । तैः त्वरितमेव पुरातत्त्वविभागाय सन्देशः प्रेषितः । तत्पूर्वं न कोऽपि एतासां गुहानां विषये जानाति स्म ।

अजन्ता-स्थलात् औरङ्गाबाद-नगरं ९६ किलोमीटर्मिते दूरे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारप्रचालितैः बसयानैः, भाटकयानैः वा औरङ्गाबाद-नगरं प्राप्यते । अजन्ता-स्थलं मुम्बई-महानगरेण, पुणे-नगरेण, शिरडी-नगरेण, नासिक-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य नगरैः सह सम्बद्धम् अस्ति । औरङ्गाबाद-नगरस्य रेलस्थानकम् अजन्ता-स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तस्मात् रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, पुणे-नगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरस्य विमानस्थानकम् अपि अजन्ता-स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । तद् विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय बेङ्गळूरु-महानगराय वायुयानानि प्राप्यन्ते । अनेन प्रकारेण अजन्ता-स्थलं भूमार्गेण, धुमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया अजन्ता-स्थलं प्राप्तुं शक्नुवन्ति । 

एलोरा-गुहाः महाराष्ट्रराज्यस्य औरङ्गाबाद-मण्डले स्थिताः सन्ति । औरङ्गाबाद-नगरात् इदं स्थलं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । इमाः गुहाः ऐतिहासिक्यः सन्ति । अतः “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इमाः गुहाः वैश्विकसम्प्रतित्वेन उद्घोषिताः । मन्यते यत् – “इमाः गुहाः राष्ट्रकूट-राजवंशस्य शासनकाले निर्मिताः आसन्” इति । एतासां गुहानां भागत्रयं वर्तते । बौद्धभागः, हिन्दुभागः, जैनभागश्च । बौद्धभागे द्वादश गुहाः, हिन्दुभागे सप्तदश गुहाः, जैन भागे पञ्च गुहाः च सन्ति । एतासु गुहासु सुन्दरकलाकृतयः सन्ति । “सर्वासु गुहासु जलस्रोतांसि सन्ति” इति सर्वासां गुहानां वैशिष्ट्यम् अस्ति । अतः एव साधवः, भिक्षवः च एतासु गुहासु निवसन्ति स्म । यतः तत्र जलसौकर्यम् आसीत् ।

एलोरा-स्थलात् औरङ्गाबाद-नगरं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारप्रचालितैः बसयानैः, भाटकयानैः वा औरङ्गाबाद-नगरं प्राप्यते । एलोरा-स्थलं मुम्बई-महानगरेण, पुणे-नगरेण, शिरडी-नगरेण, नासिक-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य नगरैः सह सम्बद्धम् अस्ति । औरङ्गाबाद-नगरस्य रेलस्थानकम् एलोरा -स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तस्माद् रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, पुणे-नगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरस्य विमानस्थानकम् अपि एलोरा -स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । तद् विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय बेङ्गळूरु-महानगराय वायुयानानि प्राप्यन्ते । अनेन प्रकारेण एलोरा-स्थलं भूमार्गेण, धुमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया एलोरा-स्थलं प्राप्तुं शक्नुवन्ति ।

ई. स. २००५ वर्षस्य मार्चमासपर्यन्तं महाराष्ट्रराज्यस्य मार्गाणाम् आहत्य दैर्घ्यं २.२९ लक्षकिलोमीटरमितम् आसीत् । तेषु राष्ट्रियराजमार्गाणां दैर्घ्यं ४,३६७ किलोमीटरमितं, प्रान्तीयराजमार्गाणां दैर्घ्यं ३३,४०६ किलोमीटरमितं, प्रमुखमण्डलस्थमार्गाणां दैर्घ्यं ४८,८२४ किलोमीटरमितम्, अन्यमण्डलस्थमार्गाणां दैर्घ्यं ४४,७९२ किलोमीटरमितं, ग्राम्यमार्गाणां दैर्घ्यं ९७,९१३ किलोमीटरमितं च आसीत् । अस्य राज्यस्य पञ्च राजमार्गाः इदं राज्यं देहली-महानगरेण, इलाहाबाद-नगरेण, कोलकाता-महानगरेण, हैदराबाद-महानगरेण, बेङ्गळूरु-महानगरेण च सह योजयन्ति । सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति ।

महाराष्ट्रराज्ये रेलमार्गाणां दैर्घ्यं ५,५२७ किलोमीटरमितम् अस्ति । अस्मिन् राज्ये मुम्बई-नगरस्य, पुणे-नगरस्य, वर्धा-नगरस्य, नागपुर-नगरस्य इत्यादीनां नगराणां रेलस्थानकानि प्रमुखाणि सन्ति । एतैः रेलस्थानकैः इदं राज्यं भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति ।
 

महाराष्ट्रराज्ये सप्तदश-विमानस्थानकानि सन्ति । तैः महाराष्ट्रराज्यं भारतस्य विदेशस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरस्य “छत्रपति शिवाजी”-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तस्माद् विमानस्थानकात् अमेरिका, यूरोप, सिङ्गापुर, ऑस्ट्रेलिया इत्यादीन् देशान् गन्तुं वायुयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य विमानस्थानकानि महाराष्ट्रराज्यं भारतस्य सर्वैः राज्यैः सह सञ्योजयन्ति ।




#Article 54: राजस्थानराज्यम् (410 words)


राजस्थानराज्यं भारतस्‍य विशालतमं राज्यम् अस्ति । इदं भारतस्य पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे 'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लं वर्ग. कि. मी अस्ति । अस्य जनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव मौण्ट् अबु, दिल्वारा इत्येतौ पर्वतौ अपि सुप्रसिद्धौ स्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । रणथम्बोर, सारिस्का मृगधाम, भरतपुरपक्षिधाम इत्यादीनि राज्यस्यास्य प्रसिद्धानि वीक्षणीयस्थलानि । राज्येऽस्मिन् बहूनि पक्षिसंरक्षणाकेन्द्राणि सन्ति । तेषु संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।राजस्थानस्य प्रमुखभागेषु प्राक् मीनावंशीयानां शासनम् आसीत् । १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन् । गुजरातराज्यं तथा राजस्थानस्य अधिकभागः 'गुर्जरात्र/गुज्जर'-नामकैः गुर्जरशासकैः रक्षितप्रदेशः आसीत् । ३०० वर्षाणि यावत् गुर्जरशासकाः उत्तरभारतं यवनशासकेभ्यः रक्षितवन्तः आसन् । तदनन्तरं रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनम् आरब्धवन्तः । वंशस्य अथवा प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत् । राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे पाकिस्तानदेशः, पञ्जाबराज्यं, हरियाणाराज्यञ्च अस्ति । दक्षिणे मध्यप्रदेशराज्यं, गुजरातराज्यञ्च अस्ति । पूर्वे उत्तरप्रदेशः, मध्यप्रदेशश्च अस्ति । पश्चिमे पाकिस्तानदेशः अस्ति । सिरोही-तः आलवार गमनमार्गे ४८० कि. मी. विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभाजति । राज्यस्य पश्चिमभागे विद्यमाना 'थार' मरुभूमिः समग्रे भारते विशालतमा मरुभूमिः अस्ति । अस्मिन् भागे १२ से. मी. तः ३० से. मी. वृष्टिः भवति । अस्मिन् भागे लूनी, बाण्ड्यादिनद्यः प्रवहन्ति । राज्येऽस्मिन् ३.४२ लक्षवर्ग कि. मी. परिमिता भूमिः अस्ति । भारतस्य बृहत्तमं राज्यम् इदम् 

मुख्यराजस्थानराज्यं

मुख्यराजस्थानराज्यस्य भौगोलिकस्थानवर्णने स्वल्पानि स्थानानि सन्ति, परन्तु तानि राजस्थानराज्यस्य मुख्यस्थानानि सन्ति । मुख्यराजस्थानराज्यप्रदेशे उत्तरस्य समभूमिः, दक्षिणस्य लघुपर्वतमाला चान्तर्भवति । अपि चात्र राजस्थानराज्यस्य व्यापारोद्योगयोः मुख्यकेन्द्राणि, Jaipur-jodhpur-bharatpur सन्ति । लघुपर्वतमालायाम् आदिवासिनः निवसन्ति । दक्षिणे वर्षायाः आधिक्यत्वात् कृषिः विपुलतया भवति । वर्षाकाले अत्र कृषिक्षेत्रे उच्चगुणवत्तायाः मृत्तिका लभ्यते । एषा मृत्तिका कृषिक्षेत्रम् अधिकं फलदं करोति ।
राजस्थानराज्यस्य अन्यरीत्यापि विभागाः कृताः सर्वकारेण । परन्तु ते विभागाः केवलं व्यवस्थादृष्ट्या, न तु भौगोलिकद्ष्ट्या । ते अत्र चित्रमाध्यमेन ज्ञायन्ते । यथा – उत्तरराजस्थानमं, मध्यराजस्थानमं, दक्षिणराजस्थानमं  इति ।

वातावरणम्

भारतदेशे तु ऋतुत्रयं सर्वत्र दरीदृश्यते । एवमेव राजस्थानराज्यस्यऽप्यस्ति । अत्र सामान्यतः 'मार्च्’-तः 'मे’-पर्यन्तं ग्रीष्मर्तुः, 'जून्’-तः 'सेप्टेम्बर्’-पर्यन्तं वर्षर्तुः, 'नवम्बर्’-तः 'फेब्रुवरी’-पर्यन्तं शिशिरर्तुः भवति । 'जनवरी’, 'मे’ च क्रमेण शीततमः, ऊष्णतमश्च भवति । अत्र 'अक्टोबर्’-मासेऽपि कदाचित् ऊष्णता भवति, कारणम् एतस्मिन् मासे वातावरणम् आर्द्रयुक्तवर्षर्तोः परिवर्त्य शीत-शुष्कशिशिरर्तोः अनुकूलं भवति । राजस्थानराज्यमं भिन्नलक्षणयुक्तान् प्रदेशान् स्वस्मिन् धरते । अतः प्रदेशानुसारं वातावरणमपि भिन्नं-भिन्नं भवत्यत्र ।
अत्र ग्रीष्मर्तौ तापमानं २५0C तः ४३0C पर्यन्तं भवति । परन्तु 'मे’-मासे ४८0C पर्यन्तं तापमानं भवितुमर्हति । शिशिरर्तौ तापमानं १२0C तः २७0C पर्यन्तं भवति । वर्षर्तोः मुख्यप्रभावस्तु नैऋत्ये एवाधिकः । सर्वाधिकवृष्टिपातः १,५०० मि.मी. नैऋत्यस्थेषु मण्डलेषु भवति । सर्वापेक्षया न्यूनः वृष्टिपातः कच्छप्रदेशे २५० मि.मी. भवति । राजस्थानराज्यस्य अन्यभागेषु समवर्षा भवति ।

आङ्ग्लशासनम्




#Article 55: हिमाचलप्रदेशराज्यम् (871 words)


हिमाचलप्रदेशराज्यम् (Himachal Pradesh)  भारतस्‍य उत्तर भूभागे विद्यमानं किञ्चन राज्यम् । यत् राज्यस्य राजधानी  शिमला अस्ति । अस्मिन् प्रदेशे द्वादश जनपदाः सन्ति । अस्य क्षेत्रविस्तीर्णं ५५६७३व.कि.मी.। अधिकमस्ति हिमाचलप्रदेशः देवभूमिः इति नाम्ना अपि प्रसिद्धः । क्षेत्रे अस्मिन् आर्याणां प्रभावः ऋग्वेदकालादपि पुरातनः वर्तते । आङ्ग्लगोरखायुद्धात् परमिदं राज्यम् आङ्ग्लेयौपनिवेशकसर्वकारस्य अधीनं  जातम् । सा.श. १९४८ तमवर्षस्य एप्रिल् मासस्य १५तमे दिने हिमाचलप्रदेशस्य उद्घोषणम् अभवत् । एतत् राज्यं समुद्रस्तरात् ४५० तः ६५००मी. परिमिते औन्नत्ये वर्तते ।

पूर्वम् अस्य नगरस्य श्यामला इति नाम आसीत् । आङ्ग्लेयानां प्रशासनसमये शिम्ला ग्रीष्मकालीना राजधानी आसीत् । इदानीं हिमाचलप्रदेशस्य राजधानी शिमला सुन्दरं गिरिधाम इति अतिप्रसिद्धम् अस्ति । Queen of hills, Jewel of the orient  इति च प्रसिद्धम् अस्ति । सागरस्तरतः ७२६२ पादोन्नते प्रदेशे शीतलवातावरणे एतन्नगरम् अस्ति । अत्र बहवः विदेशीयाः आगन्तुम् इच्छन्ति । अत्र पैन् देवदारु ओक् इत्यादिवृक्षाः अतीव सुन्दराः सन्ति । प्रकृतेः सुन्दररुपं दृष्टुम् एतत् स्थलम् अतीव उत्तमम् अस्ति ।
(Mall) माल् मार्गः वाणिज्यकेन्द्रम् अस्ति । जाकुपर्वतः (८०० पादमितः), चाडलुक् जलपातः,  कुफ्रि, नालदेहरा, चैल, प्रास्टेक् हिल्स् इत्यादिस्थानानि दर्शनीयानि आकर्षकाणि स्थानानि सन्ति । जाकुपर्वततः हिमालयदर्शनम् अतीवानन्ददायकं भवति । चाड्लुक् सरोवरे नौकाविहारः काल्पितः अस्ति । कुफ्रिस्थाने हिमक्रीडा प्रसिद्धा अस्ति । ग्रीष्मकाले याक् प्राणिनः उपरि उपविश्य  प्रवासं कुर्वन्ति । नालदेहरास्थाने (२२ कि.मी) गाल्फ् क्रीडाङ्गणम् अस्ति । चैल् नदी पर्वतप्रपाते प्रवहति । प्रास्टेकहिल्स् (५ कि.मी) सूर्यास्तदर्शनाय, चन्द्रोदयदर्शनाय च प्रसिद्धं स्थानमस्ति । नालदेहराप्रदेशे क्रिकेट् क्रीडाङ्गणम् अस्ति । अत्र वस्तुसङ्ग्रहालयः अपि अस्ति । राजानः महाराजाः अङ्गलाः च अत्र क्रिकेट् क्रीडन्ति स्म ।

भारतसर्वकारस्य बृहत् रचनाकार्येषु विविधोद्देशयोजनासु एषः जलबन्धः अपि अन्यतमः अस्ति । सत्लज्नद्याः मार्गे एषः जलबन्धः अतीवव्ययेन निर्मितः अस्ति । पञ्जाबराज्ये जलसेचनकार्यार्थं ७४० पादोन्नतः जलबन्धः निर्मितः अस्ति । अनेन कृषिकार्ये महानुपकारः अभवत् । रात्रौ अत्र दीपालङ्कारं कुर्वन्ति । सायङ्काले वर्णमयदीपप्रकाशे अत्र अतीवसुन्दरं दृश्यं भवति ।

देहलीश्रीनगरचण्डीगढनगरेभ्यः विमानसम्पर्कः अस्ति । विमाननिस्थानं २५ कि.मी दूरे अस्ति ।

काल्का-शिम्लान्यारोगेज् धूमशकटमार्गे (९६ कि.मी) विशेषधूमशकटयानं गच्छति । प्रवासकालः अतीवमन्दः,तन्नाम षट् घण्टात्मकः अस्ति । प्रवाससमये उभयतः अपि दृश्याणि अतीव सुन्दराणि सन्ति ।

चण्डीगढतः ११७ कि.मी । मनालीतः २८० कि.मी,  देहलीतः ३८० कि.मी । वसत्यर्थम् आहारवसतिगृहाणि सन्ति ।

एप्रिल् मासतः अक्टोबरमासपर्यन्तम् अत्र आगमनाय उत्तमः कालः भवति । शीतकाले अतीव शैत्यं भवति ।

पूर्वम् अस्य स्थानस्य कुलन्तपित इति नाम आसीत् । अस्य अर्थः The end of the habitable world इति । हिमालयस्य उन्नतस्थले १२१९ मीटर् उन्नतस्थाने स्थितं पर्वतस्थानम् एतत् । बियास्(व्यासनदी)नदीतीरे स्थितम् एतत् स्थानं मण्डलकेन्द्रमस्ति । अत्र फलवाटिकाः पैनवृक्षाः च अतीव सुन्दराः सन्ति । पर्वतारोहणं पादचारणं मीनानां ग्रहणं च  अत्र मनोरञ्जनार्थं क्रीडारुपेण च  जनानां कार्याणि सन्ति । एतस्य  Silver Village  इति अपि नाम वर्तते ।
कुलुप्रदेशे दसरामहोत्सवं वैभवेण आचरन्ति । तदा जनाः काहलानि, तालवाद्यानि, शृङ्गवाद्यानि च गृहीत्वा स्थानीयदेवतायाः यात्रां कुर्वन्ति । प्रमुखाय देवाय रघुनाथाय वन्दनानि अर्पयन्ति । इतः बिजलीमहादेवमन्दिरस्य दर्शनमपि कर्तुं शक्यते । नग्गर (२४ कि.मी) मणिकर्ण (४५ कि.मी) इतरदर्शनीयस्थानानि सन्ति । मणिकर्णप्रदेशे उष्णजलनिर्झराणि सन्ति । नग्गर् पत्तनं पूर्वं राजधानी आसीत् । अस्मिन् दुर्गे राज्ञः निवासः प्रशासनम् इत्यादिकम् आसीत् । दुर्गसमीपे चतुर्भुजविष्णुदेवालयः, त्रिपुरसुन्दरीदेवालयः मुरलीधरकृष्णमन्दिरं च आकर्षकाणि सन्ति । शिवदेवालयः ११ शतके निर्मितः अस्ति ।

शिम्लातः २३५ कि.मी ।

शिमलातः २३५ कि.मी ।

भुन्तार् इति

चण्डीगढ समीपनिस्थानम् ।

जोगिन्दरनगरतः ४५ कि.मी । पठानकोटतः २८५ कि.मी । धर्मशालातः २१४ कि.मी । चण्डीगढतः ५१२ कि.मी । वसत्यर्थम् अनेकानि आहारवसतिगृहाणि सन्ति ।

शिम्लानगरं ये गच्छन्ति ते एतस्य विशिष्टस्य धूमशकटयानस्य प्रयाणम् अवश्यं स्मरन्ति । एतत् धूमशकटयानं सावधानेन गच्छत् ९६ कि.मी गमनाय षड्घण्टात्मकं समयं स्वीकरोति । पर्वतप्रदेशे वक्रमार्गे अस्य यानस्य गत्यर्थं न्यारोगेज् मार्गः निर्मितः अस्ति । क्रिस्ताब्दे १९०३ तमे वर्षे लार्ड कर्जन् नामकः आङ्गलाधिकारी एतत् यानम् आरब्धवान् ।
अस्मिन् याने प्रयाणसमये मनः उल्लसितं भवति । रोमाञ्चकारी अनुभवः अत्र भवति । शिवालिक् पर्वतप्रदेशे अस्य गमनम् अपूर्वम् अस्ति । चण्डीगढसमीपे स्थितात् काल्कानगरतः प्रयाणस्य आरम्भः भवति । सागरस्तरतः काल्कानगरं २२०० पादोन्नते स्थलेऽस्ति । ततः शिम्ला प्रति ७२६२ पादोन्नतं प्रदेश वक्रमार्गेण गच्छति ।
धूमशकटमार्गे अष्टादशनिस्थानानि सन्ति । सुरङ्गाः १०३ सङ्ख्याकाः, सेतवः ९८८ सन्ति । बारोगटनल् सुरङ्गमार्गः ३७५२ पादमितदीर्घः अस्ति । सेतवः इष्टिकाभिः निर्मिताः सन्ति । धूमशकटप्रयाणम् आह्लादकरं सुरक्षितं च अस्ति । मार्गे सेवफलवृक्षाणां दर्शनं भवति । मार्गः यदि हिमावृतः भवति तदा स्नोकर् यन्त्रेण हिमम् निष्कासयन्ति । एतत् धूमशकटयानं विश्वे एव अतिविशिष्टमिति गिन्नीस् बुक् आफ् रैल् एण्ड् फ्याक्ट्स् इत्यत्र वर्णितम् अस्ति ।

चण्डीगढतः काल्का प्रति प्रयाणम् । काल्कातः K.S.R. Train

हिमाचलप्रदेशराज्ये स्थितम् एतत् स्थानम् अनेकाश्चर्याणां अद्भुतस्थलमस्ति । उपरि वनभागे सवत्र भूप्रदेशे अतीव शीतलं वातावरणम् अस्ति । किन्तु अधः उष्णजलनिर्झराणि सन्ति । बदरीनाथः केदारनाथः इत्यादिप्रदेशेषु अपि एतादृशानि निर्झराणि सन्ति । हिमालयपर्वतश्रेण्यां पार्वतीप्रपाते दक्षिणभागे ४५ कि.मी गत्वा एतत् स्थान प्राप्तुं शक्यते । एतत् स्थानं अपूर्वम् अस्ति । एतस्य दर्शनार्थं यात्रिकाः विज्ञानिनः च कुलूहलेन आगच्छन्ति । अत्र पुराणकथा एवम् अस्ति । एकदा शिवः पार्वती च अत्र आगत्य स्थातुं निर्धारं कृतवन्तौ । निर्झरे स्नानं कर्तुं पार्वत्याः गमनसमये वस्त्रैः  साकम् एकं वज्रं स्थापितवती । शेषनागः सर्पः तत् वज्रम् अपहृत्य भूमिं प्रविश्य पातालं गतवान् । पार्वती  यदा स्नानं कृत्वा आगता तदा वज्रं न दृष्टवती । वज्रार्थं शिवं प्रार्थितवती । शिवः तृतीयं नयनम् उद्घाट्य वज्रं प्राप्तुम् इष्टवान् ।
शिवस्य तृतीयनयनस्य उद्घाटनेन विश्वं दग्घं भवति इति भीताः देवाः शोषनागं वज्रं समर्पयितुं प्रार्थितवन्तः । वज्रं प्राप्य पार्वती सन्तुष्टाभवत् । किन्तु शिवस्य कोपेन तत्रत्यं जलम् उष्णम् अभवत् । इदानीमपि तत्र जलम् अतीव उष्णम् एवास्ति । हिन्दवः सिक्खधर्मीयाः च अत्र यात्रार्थम् आगच्छन्ति । श्रीरामचन्द्रदेवालयः, सप्तस्तरीयं गुरुद्वारं च अत्र निर्मितानि सन्ति । सदा अत्र गुरुग्रन्थसाहेबस्य पठनं प्रचलति । सायं वाद्यैः साकं भजनं प्रचलति । अत्रत्यजले उष्णता९४.५ सेण्टिग्रेड भवति । तेन जलेनैव स्नानं भोजनं चायकरणं च अत्र भवन्ति । अनेन जलेन चर्मव्याधिः अपगता भवति । अत्र आगन्तु अतीव श्रमः अनिवार्यः अस्ति । सन्धाकालिका पूजा अत्र विशिष्टा ।

पठानकोट समीपस्थं धूमशकटनिस्थानम् अस्ति । धर्मशालातः  जोगीन्दरनगरात् च गन्तु शक्यते ।

कुलुतः ४० कि.मी । मनालीतः ८० कि.मी । वसत्यर्थम् अत्र अतिथिगृहाणि सन्ति ।




#Article 56: अण्डमाननिकोबारद्वीपसमूहः (307 words)


अण्डमान् निकोबार् च द्वीपौ
(संस्कृत: नारिकेलद्वीप) भारतस्‍य केन्द्रशासितप्रदेशौ स्तः।
अण्डमाननिकोबारद्वीपानां समूहे सहस्रशः लघुलघुद्वीपाः सन्ति । गङ्गासागरे (बङ्गालोपसागरे) एतानिमुक्ताहारः इव प्रकाशन्ते । अत्र ५७० तः अधिकाः द्वीपाः स्पष्टतया दृढीकृताः सन्ति । एतेषां विस्तीर्णता ८२४८ चतुरस्र कि.मीमिता। अतीव बृहत् द्वीपः नाम अण्डमानद्वीपः । अस्य राजधानी पोर्ट ब्लेयर । अस्य दैर्घ्यं ४६७ कि.मी । विस्तारः ५२ कि.मी । पर्वतप्रदेशे अनेकानि सुन्दराणि शिखरापि सन्ति । अत्र जनाः मलेशिया म्यान्मार्म्यान्मारवंशीयाः सन्ति । सा.श.१७-१८ शतके युरोप्रदेशीयाः अत्रागत्य स्थितवन्तः । भारतस्य लुण्ठकान् चोरान् अत्र कारागृहे स्थापयितुं विशालं कारागृहं निर्मितम् । तेषां कालापानी इति दण्डनं कुर्वन्ति स्म । आङ्गलाः स्वविरोधिनः अत्रैव प्रेषयन्ति स्म । इष्टिकाभिः निर्मिते लाघुकोष्ठे स्थापयन्ति स्म ।

कारागृहे ६९८ प्रकोष्ठाः आसन् । प्रमुखाः स्वातन्त्र्यवीराः वीरसावरकरः, सोहनसिंहः भायीपारमानन्दः, नन्दगोपालवामनजोशी इत्यादयः अत्र बद्धाः आसन् । अधुनापि एतत् भवनं स्वातन्त्र्यान्दोलनस्य प्रतीकत्वेन रक्षितम् । अत्र कारागृहे बन्द्यः अतीव कष्टम् अनुभवन्ति स्म ।  उत्तमाहारः न दीयते स्म । ताः बन्दयः प्राणिनः इव जीवनं यापयन्ति स्म । भूषण रे, किशोरनामधारी इत्यादयः भारतस्वातन्त्र्ययोद्धारः जुगुप्सया आत्महत्यां कृतवन्तः। सा.श.१९४२-४३ वर्ष समये एतत् कारागृहं जापानदेशीयानां वशे आसीत् । सुभाषचन्‍द्रबोसः अपि एतत् दृष्टवान् । स्वातन्त्र्यप्राप्तेः पश्चात् एतत् राष्ट्रियस्मारकम् अभवत् । सा.श.१९७९ तमे वर्षे प्रधानमन्त्री श्री मोरारजी देसायी अत्रागत्य हुतात्मभ्यः श्रध्दाञ्जलिम् अर्पितवान् । इदानीम् अत्र जनाः दर्शनार्थम् आगच्छन्ति । सायङ्काले अत्र दीपालङ्कारः भवति । सागरतीरे प्रकाशमानं भवनं मेरिनाबीच् गान्धीपार्क इत्यादीनि आकर्षणीयानि स्थानानि सन्ति । 

अत्र कश्चन वस्तुसङ्ग्रहालयः अस्ति । स्वातन्त्र्यवीराणां नामानि लिखितानि सन्ति । सदा स्वातन्त्र्यज्योतिः ज्वलन्ती अस्ति । सागरतीरे नारिकेलवृक्षाणा पङ्क्तिः प्रवलपर्वतः हरिद्वर्णवनपर्वताः सर्वाणि सुन्दराणि सन्ति । सागरे तरणं विहारः स्नानम् इत्यादीनि आनन्ददायकानि भवन्ति । द्वीपानां प्रवासः अत्रायोजितः भवति । द्वीपविहारिणां नौकाद्वारा ह्यावलाक् द्वीपः, चेतां सामिल्(एशियाखण्डे एव बृहत्), विङ्को कार्यागारः इत्यादीन् दर्शयन्ति  । त्रिषु दिनेषु एकवारं प्रवासव्यवस्था अस्ति । 

पोर्ट ब्लेयर पर्यन्तं विमानसम्पर्कःअस्ति । 

चेन्नैतः विशाखापत्तणतः कोलकातातः च नौकाः गच्छन्ति । द्वीपे सञ्चाराय फेर्रीसर्विस् नौकाव्यवस्थाः सन्ति । 

वसत्याः कृते अनेकानि उपाहारवसति गृहाणि सन्ति । सर्वकारीयवसतिगृहाण्यपि सन्ति । 

कोलकातातः १२०५ कि.मी. दूरे चेन्नैतः ११९१ कि.मी. दूरे एतदस्ति । 

अक्टोबरमसतः मेमासपर्यन्तं प्रवासार्थं सुकालः । 

सम्बद्धाः-विषया:




#Article 57: अरुणाचलप्रदेशराज्यम् (3087 words)


अरुणाचलप्रदेशः (Arunachal Pradesh) भारते विद्यमानेषु राज्येषु अन्यतमं राज्यम्। अयं प्रदेशः ईशान्य भारते अस्ति। अरुणाचलप्रदेशः दक्षिणास्सां तथा नागाल्याण्ड राज्ययोः सीमायाम् अस्ति । एवं पश्चिमे भूतान्, पूर्वे म्यान्मार् तथा उत्तरे चीना पीपल् रिपब्लिक् एतैः सह विभजितम् एवम् अन्ताराष्ट्रीय सीमासु अरुणाचलप्रदेशः अस्ति। इटानगरम् अरुणाचलप्रदेशस्य राजधानी अस्ति। अरुणाचलप्रदेशः “उषःकालस्य लिट् पर्वताणां भूमिः” इत्यर्थः । “आफ् दि रैसिङ्ग् सन्” इति अस्य प्रदेशस्य प्रसिद्धिरस्ति । अरुणाचलप्रदेशे विद्यमानाः ईशान्य भारतस्य, टिबेट प्रदेशस्य एवं बर्मन् देशस्यच जनाः भवन्ति । अस्य प्रदेशस्य मुख्यभाषे ’हिन्दी’ तथा असमिया च भवतः।  

अरुणाचलप्रदेशस्य अधिकः भागः हिमालये अस्ति । किन्तु लोहित,चाङ्गलाङ्ग, तिरपपतकाई इत्यादयाः प्रदेशाः पर्वतप्रदेशेषु सन्ति । काङ्ग्तो, न्येगीकाङ्गसाङ्ग, मुख्यगोरीचन चोटी तथा पूर्व गोरीचन चोटी इत्यादि क्षेत्रेषु हिमालयस्य उन्नत शिखराणि सन्ति । ४४ वर्षाणाम् अनन्तरं, प्रप्रथमवारं २००६ तमे संवत्सरे तवाङ्गे स्थित बुम्लापास् प्रदेशम् उद्घाटितवन्तः । उभयप्रदेशेषु विद्यमानेभ्यः व्यापारार्थम् अवकाशं कल्पितवन्तः। हिमालयस्य पर्वतमालाः चिनादेशात् विभागं कुर्वन्ति । अत्र विद्यमानाः पर्वताः हिमालयस्यापेक्षया कुब्जाः भवन्ति ।

अरुणाचलप्रदेशस्य वायुमण्डलस्य व्यत्यासः उन्नतप्रदेशेषु भवति । हिमालये स्थित टिबेट् प्रदेशस्य निकटक्षेत्रेषु अल्वैन् उत कर्सर् प्रकारयोः वातावरणं भवति । मध्यहिमालयस्य क्षेत्रेषु वातावरणं समशीतोष्णं भवति । अत्र सेब,नारङ्ग इत्यादि फलानां वृक्षाणि सन्ति । अरुणाचलप्रदेशे ८०तः १६०(२००० तः ४००० मि.मी.) अङ्गुलपरिमितवृष्टिः भवति । मे तथा सेप्टम्बरमासयोः अधिकवृष्टिः भवति । अत्र ओक्, फैन्, मेपल्, फर्, साल् तथा जुनिपर् इत्यादि वृक्षाः सन्ति। 

अरुणाचलप्रदेश-राज्यस्य ऐतिह्यविषयिणी काऽपि चर्चा न प्राप्यते । अस्य राज्यस्य इतिहासः केवलं कथारूपेण एव श्रूयते । इतः परम् तत्र ध्वंसावशेषाः अपि सन्ति । ते पर्वतीयक्षेत्रे प्राप्यन्ते । यदा पर्वतीयक्षेत्रे उत्खननम् अभवत्, तदा ज्ञातं यत् – “ते ध्वंसावशेषाः ख्रीष्टब्दात् पूर्वम् एव स्थिताः सन्ति । ऐतिहासिकप्रमाणैः ज्ञायते यत् – जनाः तत्र निवसन्ति स्म । भारतस्य समीपस्थैः राज्यैः सह तेषां जनानां सम्पर्कः अपि आसीत् ।

प्राप्तभग्नावशेषैः अनुमीयते यत् – ये जनाः ब्रह्मपुत्रा-नद्याः उत्तरीतटे निवसन्ति स्म, ते राजनैतिकक्षेत्रे, सांस्कृतिकक्षेत्रे, अन्यक्षेत्रेषु च प्रगतिशीलाः आसन् । प्रारम्भिकाभिलेखेषु अरुणाचलप्रदेश-असमराज्ययोः सम्बन्धः अपि आसीत् । पुरा अस्मिन् राज्ये अहोम-वंशजानां राज्ञां शासनम् आसीत् । तथापि स्वतन्त्रतायाः अनन्तरम् एव तत्र सुप्रशासनस्य आरम्भः जातः । ई. स. १८२६ तमस्यवर्षस्य फरवरी-मासस्य २४ तमे दिनाङ्के (२४ फरवरी १८२६) यण्डाबूसन्धिः समाप्तः जातः । तदनन्तरम् असम-राज्ये ब्रिटिश्-शासनम् आरब्धम् । तावदेव अरुणाचलप्रदेश-राज्यस्य आधुनिकेतिहासः आरब्धः ।

ई. स. १९६२ तमवर्षात् पूर्वम् अरुणाचलप्रदेश-राज्यं “पूर्वोत्तर सीमान्त एजेन्सी (North-East Frontier Agency - NEFA)” इति नाम्ना ज्ञायते स्म । यतः अस्य पश्चिमदिशि भूटान्-देशः, उत्तरपूर्वदिशि तिब्बत्-देशः, चीनदेशः च, पूर्वदिशि म्यान्मार-देशः, दक्षिणदिशि नागालैण्ड-राज्यम्, असम-राज्यं च स्थितम् अस्ति । संवैधानिकरूपेण अरुणाचलप्रदेश-राज्यम् असम-राज्यस्य भागः एव आसीत् । तथापि ई. स. १९६५ तमवर्षपर्यन्तम् अरुणाचलप्रदेश-राज्यस्य प्रशासनं विदेशमन्त्रालयस्य आधीन्ये आसीत् । ततः परम् असम-राज्यस्य राज्यपालस्य आदेशानुसारम् अस्य राज्यस्य प्रशासनं गृहमन्त्रालयस्य अधीने अभवत् । तदैव अस्य अरुणाचलप्रदेशः इति नामकरणं जातम् । 

ई. स. १९८७ तमे वर्षे फरवरी-मासस्य २० तमे दिनाङ्के (२० फरवरी १९८७) अरुणाचलप्रदेशेन भारतीयसङ्घस्य चतुर्विंशतितमं राज्यत्वं प्राप्तम् ।

अरुणाचलप्रदेशः १७ जनपदेषु (विभागेषु) विभक्तोऽस्ति। तेषु तेषु जनपदेषु जनपदाधिकारि एव मुख्यः भवति । जनपदेषु जनापेक्षित अंशान् सः एव पूरयति । सीमाप्रदेशेषु भारतीय सेनायाः रक्षणाकार्यम् अहर्निशं भवति । अन्तः आगन्तुकानां सर्वविधपरीक्षणं कुर्वन्ति।         

अरुणाचलप्रदेशस्य मण्डलानि
तिरप् मण्डलम्
अञ्जावमण्डलम्
चङ्लङ् मण्डलम् 
पूर्वकमेङ्गमण्डलम्
पूर्वसियाङ्गमण्डलम् 
कुरुङ्गकुमेमण्डलम् 
लोहितमण्डलम् 
दक्षिणदिबाङ्गव्यालीमण्डलम् 
दक्षिणसुबनसिरीमण्डलम् 
पपुम्पारेमण्डलम् 
तवाङ्गमण्डलम् 
उत्तरदिबाङ्गव्यालीमण्डलम् 
उत्तरसुबनसिरीमण्डलम् 
उत्तरसियाङ्गमण्डलम्
पश्चिमसियाङ्गमण्डलम् 
पश्चिमकामेङ्गमण्डलम् 
लोन्गडिङ्गमण्डलम्

ईटानगरम् अरुणाचलप्रदेश-राज्यस्य राजधानी अपि अस्ति । इदं नगरं हिमालयपर्वतस्य तले स्थितम् अस्ति । नगरमिदं पापुमपरेमण्डलस्य प्रशासनिकाधिकारक्षेत्रं वर्तते । ई. स. १९७४ तमस्य वर्षस्य अप्रैल-मासस्य विंशतितमे (२०) दिनाङ्के (२० अप्रैल १९७४) ईटानगरम् अरुणाचलप्रदेश-राज्यस्य राजधानीत्वेन उद्घोषितम् । अरुणाचलप्रदेश-राज्यस्य बृहत्तमं नगरम् अस्ति ईटानगरम् । ईटानगरं लघुभारतत्वेन अपि ख्यातम् अस्ति । यतः भारतदेशस्य प्रत्येकराज्यस्य जनाः तत्र निवसन्ति । अस्य नगरस्य बौद्धमन्दिरं यात्रिकाणाम् आकर्षकं केन्द्रं विद्यते | ईटानगरम् अरुणाचलप्रदेश-राज्यस्य राजधानी अस्ति अतः भूमार्गेण, वायुमार्गेण, धूमशकटमार्गेण वा ईटानगरं प्राप्तुं शक्यते । असम-राज्यस्य हरमूती-रेलस्थानकम् ईटानगरस्य निकटतमं रेलस्थानकम् अस्ति -देशः, पूर्वदिशि पश्चिमकमेङ्गमण्डलस्य सेलापर्वतशृङ्खला च विद्यते । तवाङ्ग-शब्दस्य व्युत्पत्तिः तवाङ्गमठाधारिता अस्ति । “ता” इत्युक्ते अश्वः, वाङ्ग इत्युक्ते चितः । अर्थात् “अश्वेन चितः” इत्यर्थः भवति । 

पौराणिककथानुसारं प्राप्यते यत् – “मेराग लामा लोड्रे ग्यामत्सो” इत्याख्यः मठं निर्मातुं योग्यस्थानम् अन्विषन् आसीत् । किन्तु सः तावत् योग्यं स्थलं न प्राप्तवान् । अन्ते तेन दिव्यशक्त्याः मार्गदर्शनं प्राप्तुं निर्णयः कृतः । अतः सः प्रार्थनां चकार । प्रार्थनं समाप्य यदा तेन नेत्रे उद्घाटिते, तदा तस्य अश्वः तत्र नासीत् । सः अश्वम् अन्वेष्टुं सर्वत्र भ्रमणं कृतवान् । पर्वतशिखरे तेन स्वस्य अश्वः प्राप्तः । तत्रैव तेन मठः निर्मितः । तदा एव “तवाङ्ग” इति शब्दस्य आविर्भावः जातः । प्राकृतिकसौन्दर्यदृष्ट्या तवाङ्ग-नगरं महत्समृद्धं वर्तते । अस्य सौन्दर्यं दृष्ट्वा जनाः मुग्धाः भवन्ति । सूर्यस्य प्रथमः किरणः सर्वप्रथमं तत्रैव निपतति । तद्दृश्यं दृष्टव्यं भवति । तवाङ्ग-नगरस्य वातावरणं सामान्यम् एव भवति । तथापि मार्च-मासतः अक्टूबर-मासपर्यन्तं तत्र गन्तव्यम् । तस्मिन् समये वातावरणं विशिष्टं भवति । भूमार्गेण, वायुमार्गेण, धूमशकटमार्गेण वा तवाङ्ग-नगरं प्राप्तुं शक्यते । असम-राज्यस्य गुवाहाटी-नगरं तवाङ्ग-नगरस्य निकटतमं नगरं वर्तते । गुवाहाटी-नगरस्य विमानस्थानकं समीपस्थं वर्तते ।

अरुणाचलप्रदेशे १९ प्रमुखजातीयाः तथा ८५ उपजातीयाः जनाः भवन्ति । प्रायशः अधिकाः जनाः टिबेट्-बर्मी उत ताई-बर्मी तः प्रव्रज्यागताः भवन्ति । प्रायः ३५% प्रतिशतं जनाः बङ्गालः, बोडो, हजोन्ग, बाङ्ग्लादेशादिभिः आगताः सन्ति । एवम् अस्साम्, नागाल्याण्ड तथा भारतस्य अन्येभ्यः राज्येभ्यः आगताः यात्रिकाः अपि भवन्ति । प्रसिद्धजातिषु आदि, गालो, निशि, खम्ति, मोंपा तथा अपातनि मुख्याः भवन्ति । अरुणाचलप्रदेशे १९९१ तमे संवत्सरे ४१.५९% प्रतिशतं जनाः साक्षराः आसन् । ४८७७९६ व्यक्तयः साक्षराः आसन् । २००१ तमे संवत्सरे कृत भारतसार्वकारस्य गणनानुसारं २०% प्रतिशतं प्रकृतिधर्मीयाः अर्थात् डोन्यी-पोलो तथा रङ्गफ्राह योः पालनं कुर्वाणाः जनाः सन्ति इति । मिरि तथा नोक्ते जनयोः मिलित्वा प्रायः ३५% प्रतिशतं जानाः हैन्दवः सन्ति । १३% प्रतिशतं जनाः बौद्धाः सन्ति । टिबेट् बौद्धधर्मः मुख्यतया तवाङ्ग, पश्चिम कामेङ्ग तथा टिबेट् पार्ष्वस्थ प्रदेशेषु प्रचलितम् अस्ति । थेरावादबौद्धधर्मः बर्मी सीमायाः समीपे विद्यमानैः जनैः पालितम् अस्ति। प्रायः १९% प्रतिशतं यवनाः सन्ति। 

अरुणाचलप्रदेशराज्ये विभिन्नानि क्षेत्राणि सन्ति । अतः राज्ये भाषाः अपि विविधानि सन्ति । यथा – निशिङ्ग, मोनपा, मिजी, अङ्का, शेरदुकपेन, अपतानी, तगिन, हिलमिरी, अदी गैलोङ्ग, दिगारू मिशमी, इदु-मिशमी, मिजु मिशमी, खामटी, नोकटे, तङ्गसा, वांचू च एताः भाषाः अरुणाचलप्रदेशराज्ये प्रचलिताः सन्ति ।

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारम् अरुणाचलप्रदेश-राज्यस्य साक्षरतामानं ६६.६३ प्रतिशतं वर्तते । पुरुषाणां साक्षरतामानं ७३.६९ प्रतिशतं, महिलानां च साक्षरतामानं ५९.५७ अस्ति । “अरुणाचलविश्वविद्यालयः”, अरुणाचलप्रदेश-राज्यस्य प्रमुखं शैक्षणिकसंस्थानं विद्यते । अयं विश्वविद्यालयः ईटानगरे स्थितः अस्ति । “नॉर्थ्-ईस्टर्न् रीजनल् इंस्टीट्यूट् ऑफ् साइन्स् एण्ड् टेक्नोलॉजी” इतीयं संस्था अपि अरुणाचलप्रदेशे शैक्षणिकसंस्थासु प्रमुखतमा वर्तते । इयम् अपि ईटानगरे स्थिता अस्ति ।

अरुणाचलप्रदेश-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्ये विधानसभायाः षष्ठीः (६०) स्थानानि (Seats), लोकसभायाः द्वे (२) स्थाने (Seats), राज्यसभायाः एकं (१) स्थानम् (Seat) एव अस्ति । ई. स. १९७५ तमे वर्षे विधानसभायाः, मन्त्रिपरिषदः व्यवस्था जाता । ई. स. १९८६ तमे वर्षे सर्वकारेण अस्मै राज्याय विशेषराज्यत्वेन स्थानं प्रदत्तम् आसीत् । यत्र जनसङ्ख्याघनत्वं न्यूनं भवेत्, यत्र आर्थिकविकासः अपि न स्यात्, यत्र पर्वतीयक्षेत्राणि भवेयुः, तादृशेभ्यः राज्येभ्यः विशेषराज्यस्य स्थानं प्रदीयते । तत्र प्रमुखाः त्रयः राजनैतिकपक्षाः सन्ति । ते  - राष्ट्रीय कॉङ्ग्रेस्-पक्षः, अरुणाचल कॉङ्ग्रेस्-पक्षः, भारतीयजनतापक्षः च ।

अरुणाचलप्रदेशराज्यस्य अर्थव्यवस्थायाः मूलाधारः कृषिः एव अस्ति । अस्य राज्यस्य अशीतिः प्रतिशतं जनाः कृष्या सह संलग्नाः सन्ति । राज्ये पर्वतरोधसि स्थानान्तरणकृषिः क्रियते । कुत्रचित् सोपानात्मिका कृषिः अपि क्रियते । पूर्वोत्तरपरिषदः साहाय्येन कृषिसम्बद्धानां गतिविधीनां प्रोत्साहनार्थं राज्ये तवाङ्ग-नगरे “रीजनल् सीड् फाउण्डेशन् पोटेटो फार्म्”, दीराङ्ग-नगरे “क्षेत्रीय सेब नर्सरी”, शेरगाँव इत्यत्र “राज्य बागबानी फार्म्” च उद्घाटितम् अस्ति ।

राज्येऽस्मिन् तण्डुलानां, लवेटिका (Corn), गोधूमः, लङ्गुरा (Millet) च इत्यादीनि सस्यानि प्रमुखाणि सन्ति । इतः परं निर्यासस्य (Rubber), कॉफी (Coffee), चाय (Tea) चेत्येतेषाम् अपि उत्पादनं भवति । राज्ये कदलीफलं, हरिद्रा, नारिङ्गफलं, द्राक्षाफलम्, अक्षोटं (Walnut), बीजपूरं (Guava) चापि उत्पाद्यन्ते । अरुणाचलप्रदेशीयाः जनाः कृषिमवलम्बैव जीवनं यापयन्तः सन्ति। अत्रत्य अर्थव्यवस्था “झूम” कृष्याश्रिता अस्ति। उन्नतपर्वतादिषु विद्यमानानां जनानां “झूम” कृषिप्रकारस्य पारंपरिकविधिः भवति। अस्य कृषिप्रकारस्य मुख्य फलचयाः तण्डुलम्,यावानलः,आर्द्रकः,तिलं तथा इक्षु इत्यादि भवन्ति। अद्यत्वे आलू एवं सेब,नारङ्गं तथा पनसादि फलानि अत्रत्य फलचयाः भवन्ति।  

अरुणाचलप्रदेश-राज्ये कुटीरोद्योगः प्रसिद्धः वर्तते  । कुटीरोद्योगः वनाधारितः भवति । इतः परं फलनिर्माणं, सिक्थवर्तिकानिर्माणम् (Candle), काष्ठकार्याणि, चायकृषिश्च प्रमुखोद्योगाः सन्ति । राज्ये शिल्पस्य, वयनस्य च बहूनि केन्द्राणि सन्ति । तेषु केन्द्रेषु दैनिकोपयोगीवस्तूनि सज्जीकर्तुं प्रशिक्षणं प्रदीयते । राज्ये प्रायः अष्टादश औद्योगिकघटकानि मध्यमस्तरीयानि सन्ति । ई. स. १९९१ तमे वर्षे “खनिज विकास और व्यापार निगम लिमिटेड्” इत्यस्याः संस्थायाः स्थापना अभवत् । राज्ये वज्रचूर्णस्य यन्त्रागारः अपि अस्ति । राज्ये प्रौद्योगिकशिक्षणसंस्थानद्वयम् अस्ति । तत्र यन्त्रसम्बन्धिनं शिक्षणं प्रदीयते । ये स्थानीयाः सन्ति, तेभ्यः चायस्य उद्यानाय प्रोत्साहनं प्रदीयते । तयोः एकं संस्थानं रोहङ्ग-नगरे, अपरं च तबीरीजो-नगरे च स्थितम् अस्ति । अरुणाचलप्रदेशस्य विशालस्य खनिजस्य रक्षणार्थं १९९१ तमे संवत्सरे “अरुणाचलप्रदेश खनिजविकासः तथा व्यापार निगम लिमिटेड्” इति संस्था सार्वकारेण स्थापिता । सार्वकारस्य पक्षतः “सार्वकार औद्योगिक प्रशिक्षण संस्थाः” सन्ति । क्रयविक्रयणप्रशिक्षणम्, रोयिङ्ग, टबारीजो, दिरांग, युपैया तथा मैओ इत्यादि प्रशिक्षणकेन्द्राणि सन्ति । 

ई. स. १९९८ तमवर्षपर्यन्तं राज्ये ८७,५७८ हेक्टेयर् परिमितायाः भूमेः सिञ्चनाय व्यवस्था जाता । अरुणाचलप्रदेश-राज्ये विद्युदुत्पादनस्य क्षमता अपि अधिका अस्ति । अरुणाचलप्रदेश-राज्यस्य विद्युदुत्पादनक्षमता ३०,७३५ मेगावाट् परिमिता जाता । सम्पूर्णे राज्ये ३,६४९ ग्रामाः सन्ति, तेषु २,५९७ ग्रामेषु विद्युतः व्यवस्था कृता ।

अरुणाचलप्रदेशे बह्वीनां जनजातीनां जनाः निवसन्ति । सर्वासां जनजातीनां भिन्नाः नृत्यशैल्यः सन्ति । अरुणाचलप्रदेश-राज्यस्य अधिकतमानि लोकनृत्यानि समूहे क्रियन्ते । अस्य राज्यस्य वस्त्राभूषणानि, सामाजिकस्थितिः, धर्मः, भाषाः च तिब्बत-देशेन प्रभाविताः सन्ति । तिब्बत-देशीयानां महत्त्वपूर्णः मठः ल्हासा-नगरे स्थितः अस्ति । अपरः महत्त्वपूर्णः मठः अरुणाचलप्रदेश-राज्यस्य तवाङ्ग-नगरे स्थितः अस्ति । अयं विश्वस्य बृहत्तमः मठः अस्ति । अरुणाचलप्रदेश-राज्ये बह्व्यः जातयः सन्ति । तासु ताङ्गसा-जातिः अपि अन्यतमा अस्ति । तस्यां जातौ विविधाः प्रथाः प्रचलिताः सन्ति । तासु प्रथासु एकस्याः प्रथायाः अनुसारं प्रत्येकस्य गृहस्य द्वितीयः पुत्रः भगवते बुद्धाय समर्प्यते । अस्मिन् राज्ये काष्ठकार्याणि, हस्तशिल्पकार्यं, मृत्पात्रनिर्माणकार्यम् इत्यादिकार्याणि प्रचलितानि सन्ति ।

अरुणाचलप्रदेश-राज्ये बहवः उत्सवाः आचर्यन्ते । तेषु उत्सवेषु परशुरामकुण्डमेला-उत्सवः, मालीनीयानमेला-उत्सवः च प्रमुखः वर्तते । इतः परम् अपि बहवः उत्सवाः सन्ति । यथा – सी-डोनची, सोलङ्ग, न्योकुम, बुरी-बूट, चालो-लोकु, सङ्गकोन, मोपीन, ओरिआ चेत्यादयः ।

अरुणाचलप्रदेश-राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । यतः इदं राज्यं पर्वतीयक्षेत्रं वर्तते । अपि च इदं सूर्यस्य प्रथमः किरणः अस्य राज्यस्य भूमौ एव निपतति । अतः एव अस्य राज्यस्य नामकरणम् अपि तथैव कृतम् । तेन जनाः पर्वतीयक्षेत्रस्य विहारार्थं तत्र गच्छन्ति ।

अरुणाचलप्रदेश-राज्यस्य लोहित-मण्डले तेजू-नामकः लघुग्रामः स्थितः अस्ति । इदं स्थलं सौन्दर्याय, नदीभ्यः च प्रसिद्धमस्ति । तत्र मिशमि-जनाजातेः जनाः निवसन्ति । इयं जनजातिः प्राचीना अस्ति । महाभारतकालादेव अस्य अस्तित्त्वं विद्यमानम् अस्ति । कथ्यते यत् – भगवतः कृष्णस्य राज्ञी रुक्मिणी मिशमि-जनजातेः युवती आसीत् । तेजू-ग्रामस्य जनैः मिशमि-उत्सवः आचर्यते । सः उत्सवः तमलाडू-पूजा इति ज्ञायते । अयमुत्सवः मिशमिजनजातेः प्रमुखोत्सवः अस्ति । प्रतिवर्षं फरवरी-मासस्य १५ दिनाङ्के अयमुत्सवः आचर्यते । उत्सवेऽस्मिन् प्रत्येकस्य समुदायस्य जनाः समुपस्थिताः भवन्ति । तेजू-ग्रामे प्रतिवर्षं जनवरी-मासे मेला-उत्सवः आयोज्यते । वायुमार्गेण, भूमार्गेण, धूमशकटमार्गेण च इदं स्थलं प्राप्तुं शक्यते । तिनसुकया-रेलस्थानकं तेजू-ग्रामस्य समीपस्थः रेलस्थानकं वर्तते । जनाः शीतर्तौ भ्रमणार्थं तत्र गच्छन्ति । तत्र बहूनि वीक्षणीयस्थलानि सन्ति । तेषु ‘ग्लो झील’, ‘हवा कैम्प’, ‘उष्णजलप्रपातः’, ‘परशुरामकुण्डः’ च प्रसिद्धः अस्ति । 

इदं स्थलं कोठार इति नाम्ना अपि ज्ञायते । अरुणाचलप्रदेश-राज्यस्य लोहित-मण्डले स्थितमिदं स्थलम् । तेझु-नगरात् २४ किलोमीटर्मितं दूरे स्थितम् अस्ति इदं वीक्षणीयस्थलम् । अयं कुण्डः परशुरामेण सह सम्बद्धः अस्ति । एकदा जमदग्नेः पत्नी रेणुका पतये स्नानार्थं जलमानेतुं गतवती आसीत् । कारणवशात् सा जलम् नीत्वा विलम्बेन आगतवती । तस्मात् खिन्नेन जमदग्निना परशुरामः मातुः वधाय आदिष्टः । पितुः आज्ञया परशुरामेण मातुः रेणुकायाः शिरः अच्छिद्यत । अनन्तरं परशुरामेण पापात् मुक्त्यर्थम् अस्मिन् कुण्डे स्नानं कृतम् आसीत् । ततः प्रभृतिः अयं कुण्डः परशुरामकुण्डः इति विख्यातः अस्ति ।

समयान्तरे इदं वीक्षणीयस्थलं प्रसिद्धं जातम् । साम्प्रतम् इदं स्थलं लोहित-मण्डलस्य परिचयत्वेन ज्ञायते । प्रतिवर्षं जनाः जनवरी-मासस्य १४ दिनाङ्के मकरसङ्क्रान्तौ स्नानार्थं तत्र गच्छन्ति । अतः अरुणाचलप्रदेश-राज्यस्य सर्वकारेण यात्रिकेभ्यः निवासाय धर्मशालायाः, भोजनाय भोजनशालायाः च व्यवस्था कृता अस्ति ।

अरुणाचलप्रदेशस्य राजधानी ईटानगरम् अस्ति । तस्मिन् नगरे ईटा-दुर्गः अस्ति । तेन एव अस्य नगरस्य नाम ईटानगरम् इत्यभवत् । चतुर्दशशताब्द्याम् ईटा-दुर्गस्य निर्माणं जातम् आसीत् । दुर्गेऽस्मिन् बहूनि प्राकृतिकदृश्यानि सन्ति । तानि दृष्टुम् आत्मानं नन्दयितुं च जनाः तत्र गच्छन्ति ।

इदं स्थलम् ईटानगरात् ६ किलोमीटर्मितं दूरे स्थितम् अस्ति । तस्य समीपं वनम् अपि वर्तते । इदं वनम् अतीव सुन्दरम् अस्ति । वने सुन्दराः वृक्षाः, पादपाः, वन्यजीवाः, पुष्पाणि, उद्यानानि च सन्ति । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति ।

इदं मन्दिरं प्राचीनं वर्तते । बौद्धधर्मस्य गुरुणा दलाई लामा इत्याख्येन अपि अस्य मन्दिरस्य यात्रा कृता अस्ति । अस्य मन्दिरस्य छदिः पीतवर्णीया अस्ति । मन्दिरस्यास्य निर्माणं तिब्बतीयशैलिभिः कृतम् अस्ति । अस्मिन् मन्दिरे एकः सङ्ग्रहालयः अपि अस्ति । तस्य नाम “जवाहरलालनेहरू-सङ्ग्रहालयः” अस्ति । इदं मन्दिरम् आकर्षणकेन्द्रम् अस्ति । यतः इतः सम्पूर्णस्य ईटानगरस्य सुन्दराणि दृश्यानि दृष्टुं शक्यन्ते ।

अरुणाचलप्रदेश-राज्ये पापुमपारेमण्डलं स्थितम् अस्ति । तस्मिन् मण्डले पापुमपारे-नगरं विद्यते । इदं नगरम् ईटानगरात् २० किलोमीटर्मितं दूरे स्थितम् अस्ति । इदं स्थलम् अत्यन्तं सुन्दरम् अस्ति । हिमालय-पर्वतस्य तले स्थितम् अस्ति इदं रमणीयस्थलम् । अतः वीक्षकाः पर्वतस्य शिखराणि दृष्टुं शक्यन्ते । इतः परं वनानि, नद्यः चापि सन्ति । तत्र निशीजातीयाः जनाः निवसन्ति । सम्पूर्णे राज्ये ते जनाः वीरतायै प्रसिद्ध्यन्ति ।

इदं नगरं दिबाङ्गवेलीमण्डले स्थितम् अस्ति । नगरमिदम् अरुणाचलप्रदेश-राज्यस्य लोकप्रियं, ऐतिहासिकं च स्थलं वर्तते । नगरेऽस्मिन् एकः दुर्गः अस्ति । सः दुर्गः राइङ्ग-नगरात् ३० किलोमीटर्मितं दूरे स्थितः अस्ति । अयं दुर्गः प्राचीनपुरातात्त्विकेषु दुर्गेषु अन्यतमः अस्ति । अष्टमशताब्द्यां पक्वेष्टिकाभिः अस्य दुर्गस्य निर्माणम् कृतम् आसीत् । इदं स्थलम् अरुणाचलप्रदेश-राज्यस्य “इदु मिस्मीस्” इति जनजातेः पवित्रतमं तीर्थस्थलम् अस्ति । यदा अत्र उत्खननं कृतम् आसीत्, तदा ततः कलाकृतयः, मृद्वस्तूनि, मृत्प्रतिमाः, मृत्पात्राणि च प्राप्तानि 

इदं स्थलं पौराणिकं स्थलं वर्तते । उच्यते यत् – “भगवान् शिवः सत्याः मृतशरीरं निधाय आकाशे भ्रमणं कुर्वन् आसीत् । अतः भगवता विष्णुना सुदर्शनचक्रेण सत्याः मृतशरीराङ्गानि छेदितानि । तत्र एकः कुण्डः अस्ति । सः कुण्डः अद्भुतः वर्तते । तस्य कुण्डस्य वस्तूनि शनैः शनैः अदृश्यानि भवन्ति । यदि स्नानं करणीयं चेत् १०० मीटर् मितम् अधः गत्वा कर्तुं शक्यते । इदं स्थलं ब्रह्मपुत्रा-नद्याः तटे स्थितम् अस्ति ।

रोइङ्ग-नगरम् अरुणाचलप्रदेश-राज्यस्य दियाङ्गवैली-मण्डलस्य मुख्यालयः वर्तते । इदम् अरुणाचलप्रदेश-राज्यस्य पूर्वभागस्य अंशः वर्तते । रोइङ्ग-नगरस्य उत्तरभागः दिबाङ्गपर्वतेन, नदिभिः च आश्लिष्टम् अस्ति । अस्य पूर्वदिशि लोहितमण्डलं, पश्चिमदिशि मैकमोहनरेखा च वर्तते । हिमाच्छादितानि शिखराणि, अशान्तनद्यः, रहस्यमयः पर्वतः, जीवजन्तवः, वनस्पतयः, जनजातयः, प्राचीनपुरातत्त्विकस्थलानि च इत्यादीनि रोइङ्ग-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । तत्र वन्यजीवाभयारण्यम् अपि विद्यते । रोइङ्ग-नगरं मिस्मीपर्वतस्य तले स्थितम् अस्ति । तत्र जनाः मैत्रीपूर्णं निवसन्ति । रोइङ्ग-नगरे प्रमुखत्वेन मिस्मीजनजातेः, अदिजनजातेः च जनाः निवासं कुर्वन्ति । मिस्मी-जनजातेः जनैः प्रतिवर्षं फरवरी-मासे रेह-उत्सवः आचर्यन्ते । अदि-जनजातेः जनाः प्रतिवर्षं सितम्बर-मासे सोलाङ्ग-उत्सवम् आचरन्ति । शीतर्तौ अक्टूबर-मासे, जनवरी-मासे च जनाः तत्र भ्रमणार्थं गच्छन्ति । जनाः तत्रत्यैः मनोहरदृश्यैः आकृष्टाः भवन्ति । असम-राज्यस्य तिनसुकिया-रेलस्थानकात् रोइङ्ग-नगरं गन्तुं शक्यते । यतः रोइङ्ग-नगरे परिवनाय रेलस्थानकं, विमानस्थानकं च नास्ति ।

अरुणाचलप्रदेशस्य चाङ्गलाङ्ग-मण्डालस्य उपसम्भागः अस्ति मियाओ-नगरम् । मियाओ-नगरे उत्तरपूर्वभारतस्य राज्यापेक्षया सर्वाधिकी वृष्टिः जायते । इदं नगरम् अरुणाचलप्रदेश-राज्यस्य प्रगतिशीलनगरेषु अन्यतमं वर्तते । नोआ-दिहिङ्ग-नदी ततः एव वहति । इयं नदी बृहत्तमासु नदीषु अन्यतमा अस्ति । तस्मिन् नगरे “पटकाई बुम” इत्याख्या पर्वतशृङ्खला अपि अस्ति । तत्र वातावरणं शीतलं भवति । वनानि अपि सघनानि सन्ति । अतः एव इदं नगरम् अरुणाचलप्रदेशराज्यस्य लोकप्रियवीक्षणीयस्थलं वर्तते । तत्र ‘नमदाफा बाघ परियोजना’, लघुप्राणीसङ्ग्रहालयः, सङ्ग्रहालयः च अस्ति । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । मियाओ-नगरे बहूनि हिन्दुमन्दिराणि, ख्रिस्त्-उपासनागृहाणि (Church) च सन्ति । 

मियाओ-नगरस्य समीपे अपि बहूनि दर्शनीयस्थलानि सन्ति । तानि – बोरदुमसा, नमसाई, नामपोङ्ग जैरमपुरं च । मियाओ-नगरं समीपस्थैः बृहन्नगरैः सह सम्बद्धम् अस्ति । अतः सरलतया तत्र गन्तुं शक्यते । वायुमार्गेण, धूमशकटमार्गेण भूमार्गेण वा मियाओ-नगरं प्राप्यते ।

नमदाफा-राष्ट्रियोद्यानम् अरुणाचलप्रदेशस्य आकर्षणकेन्द्रं वर्तते । इदम् उद्यानं चाङ्गलाङ्ग-मण्डले स्थितम् अस्ति । हिमालयस्य पूर्वभागः जैवविविधतायै विख्यातः अस्ति । नमदाफा पूर्वभागस्य संरक्षितं क्षेत्रं विद्यते । क्षेत्रफलदृष्ट्या अपि इदं भारतदेशस्य द्वितीयं बृहत्तमम् उद्यानं वर्तते । अतः इदं राष्ट्रियोद्यानत्वेन उद्घोषितम् । उद्याने बहूनि सुघनानि वनानि सन्ति । उद्यानं परितः मिश्मी-पर्वतशृङ्खला, पाटकी-पर्वतशृङ्खला च अस्ति । नमदाफा-स्थलं मियाओ-नगरस्य समीपे एव अस्ति । इदं राष्ट्रियोद्यानं भारतस्य १५१ तमं व्याघ्राभयारण्यं वर्तते । इदम् अभयारण्यं १९८५ चतुरस्रकिलोमीटर् मितं विस्तृतम् अस्ति । उद्याने नमदाफा-नदी वहति । अतः एव अस्य उद्यानस्य नाम नमदाफा-राष्ट्रियोद्यानम् अस्ति । येभ्यो जनेभ्यः वन्यजीवनं रोचते, तेभ्यः वीक्षणार्थम् इदं स्थलम् उत्तमं वर्तते । अस्मिन् उद्याने विविधाः पशवः, वनस्पतयः च प्राप्यन्ते । औषधयः अपि विविधप्रकारकाणि प्राप्यन्ते । उद्याने अपि काश्चन जनजातयः प्राप्यन्ते । यथा – चकमा, तङ्ग्सा, सिङ्ग्फो च ।

बोमडिला-स्थलम् अरुणाचलप्रदेश-राज्यस्य कामेङ्ग-मण्डले स्थितम् एकं रमणीयं स्थलं वर्तते । इदं कामेङ्ग-मण्डलस्य मुख्यालयः अस्ति । समुद्रतलात् इदं स्थलं ८००० पादपरिमिते औन्नत्ये अस्ति । हिमालस्य पूर्वभागस्य पर्वतशृङ्खलासु बोमडिला-स्थलं विद्यमानम् अस्ति । प्राकृतिकसौन्दर्याय, बौद्धमठेभ्यः इदं स्थलं प्रसिद्धम् अस्ति । पुरा मध्यकालीनयुगे बोमडिला तिब्बत-देशस्य राज्यम् आसीत् । कथ्यते यत् – भूटान-देशस्य शासकाः अपि अस्मिन् राज्ये शासनं कृतवन्तः । इदं स्थलं महत्वपूर्णं वीक्षणीयस्थलं वर्तते । अस्य नगरस्य प्राकृतिकं सौन्दर्यम् आश्चर्यमयम् अस्ति । अस्मिन् नगरे केचन बौद्धमठाः अपि सन्ति । बहवः यात्रिणः दर्शनार्थं तत्र गच्छन्ति । बोमडिला-नगरे दर्शनार्थिनः तिब्बत-देशीयानि मोमोस, थूपा इत्यादीनि व्यञ्जनानि खादन्ति । इदं स्थलं पारम्परिकहस्तशिल्पकलायाः कृते प्रसिद्धम् अस्ति । अतः जनाः स्मृतिचिह्नानि अपि क्रीणन्ति । बोमडिला-नगरे “सेसा आर्किड् अभयारण्यम्”, “ईगलनेस्ट् वन्यजीवाभयारण्यं”, “कामेङ्ग् गजाभयारण्यं” च अस्ति । बोमडिला-नगरं तेजपुर-नगरात् ८० किलोमीटरपरिमिते, तवाङ्ग-नगरात् १६० किलोमीटरपरिमिते च दूरे स्थितम् अस्ति । अतः तेजपुर-नगरात्, तवाङ्ग-नगरात् च बस-यानेन बोमडिला-नगरं प्राप्तुं शक्यते ।

इदं स्थलम् अरुणाचलप्रदेश-राज्यस्य पूर्वीकामेङ्गमण्डले स्थितम् अस्ति । इदम् अभयारण्यं ८६२ चतुरस्रकिलोमीटर मितं विस्तृतम् अस्ति । पुरा इदं खेलाङ्गवनविभागस्य क्षेत्रम् आसीत् । ई. स. १९७७ तमे वर्षे खेल-अभयारण्यत्वेन उद्घोषितम् आसीत् । तदनन्तरम् ई. स. २००२ तमे वर्षे टाईगर् रिजर्व् इति नाम्ना उद्घोषितम् । अस्मिन् अभयारण्ये बहवः वन्यपशवः निवसन्ति । अस्य अभयारण्यस्य वायुः प्रदुषणमुक्तः अस्ति । तथापि अक्टूबर-मासतः मार्च-मासपर्यन्तं यात्रायै वातावरणम् अनुकूलं भवति । 

अलोङ्ग इति एकः लघुग्रामः वर्तते । अयं ग्रामः अरुणाचलप्रदेशस्य पश्चिमसियाङ्ग-मण्डले स्थितः अस्ति । अयम् अतीव सुन्दरः ग्रामः विद्यते । योमगो, सीपू इत्यनयोः नद्योः तटे स्थितः अयं ग्रामः । समुद्रतलात् अयं ग्रामः ३०० मीटर मितम् औन्नत्ये वर्तते । तत्र पर्वतशृङ्खला विद्यते । अस्मिन् ग्रामे बह्व्यः जनजातयः सन्ति । तासां जनजातीनां जनाः विभिन्नान् उद्योगान् कुर्वन्ति । तत्र काफीपेयम् अत्यधिकं लोकप्रियं वर्तते । अलोङ्ग-ग्रामस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । यथा – पातुम ब्रिज्, हैङ्गिग् ब्रिज्, मेचुका की घाटी, आकाशीगङ्गा-मन्दिरं, डोनियो-मन्दिरं, मिथुन और जर्सी क्रॉस् ब्रीडिङ्ग् फर्म्, पुवकघाट, मालिनीथान, रामकृष्णाश्रमः, कमकी हाइड्रोपावर् डैम् चेत्यादयः । अलोङ्ग-ग्रामस्य जलवायुः उपोष्णकटिबन्धीयः अस्ति । शीतर्तौ अस्य ग्रामस्य वातावरणम् अपि आकर्षकं भवति । अतः जनाः शीतर्तौ भ्रमणार्थं तत्र गच्छन्ति ।

पासीघाट-नगरं पूर्वसियाङ्ग-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् अरुणाचलप्रदेशस्य प्राचीनतमं नगरं विद्यते । ई. स. १९११ तमे वर्षे इदं नगरम् आङ्ग्लैः स्थापितम् आसीत् । इदं नगरम् अरुणाचलप्रदेशस्य प्रवेशद्वारं विद्यते । नगरमिदं सियाङ्ग-नद्याः तटे स्थितम् अस्ति । समुद्रतलात् १५२ मी. उन्नतम् अस्ति इदं नगरम् । पासीघाट-नगरस्य जनानां मुख्यव्यवसायः कृषिः अस्ति । तत्र विशेषतः चायस्य कृषिः क्रियते । पासीघाट-नगरे डी एरिङ्ग् अभयारण्यं, केकर् मोइङ्ग्, कोंसिङ्ग्, पनगिन इत्यादीनि वीक्षणीयस्थलानि सन्ति । तत्रत्याः जनाः सोत्साहम् उत्सवम् आचरन्ति । मोपिन, सोलुङ्ग् इत्येतौ प्रमुखोत्सवौ स्तः । मोपिन्-उत्सवः दुष्टात्मानां निवारणार्थम् आचर्यते । सोलुङ्ग्-उत्सवः अगस्त-मासे पञ्चदिवसात्मकः आचर्यते । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । तत्र प्रत्येकमपि संवत्सरे सर्वाधिकी वृष्टिः भवति ।

अयं ग्रामः अरुणाचलप्रदेशस्य प्राचीनतमेषु स्थलेषु अन्यतमः वर्तते । अयं ग्रामः पर्वतीयवीक्षणीयस्थलं वर्तते । तत्र व्रीहेः कृषिः क्रियते । जाइरो-ग्रामं परितः खलिद्रुमाः (Palm Tree) सन्ति । अयं ग्रामः समुदतलात् १५०० मीटरमितम् उन्नतः अस्ति । तत्र विविधप्रकारकाः पादपाः, जन्तवश्च सन्ति । अतः ये प्रकृतिप्रेमिणः सन्ति, ते तत्र उत्साहपूर्वकं भ्रमणं कुर्वन्ति । जाइरो-ग्रामे “अपा टनी”-इत्याख्याः आदिवासिनः सन्ति । ते प्रकृतिं देवं मत्वा पूजयन्ति । तत्र कृषिः अपि क्रियते । इतः परम् अपि हस्तकलाकृतीनाम् उद्योगः क्रियते । जाइरो-ग्रामस्य समीपे अपि बहूनि वीक्षणीयस्थलानि सन्ति । यथा – टैली घाटी, जाइरो पुटु, तरीन मछली केन्द्र, कर्दो का शिवलिङ्ग चेत्यादीनि आकर्षणस्य केन्द्राणि सन्ति । “अपा टनी”-आदिवासिभिः बहवः उत्सवाः आचर्यन्ते । तेषु उत्सवेषु म्योको, मुरुङ्ग, द्री च प्रमुखाः उत्सवाः सन्ति । म्योको-उत्सवः मार्च-मासे, मुरुङ्ग-उत्सवः जनवरी-मासे, द्री-उत्सवः जुलाई-मासे च आचर्यते । जाइरो-ग्रामे वातावरणानुसारं जलवायुपरिवर्तनं भवति ।

अरुणाचलप्रदेशराज्यं परिवहनदृष्ट्या समृद्धम् अस्ति । अस्मिन् राज्ये द्वौ राष्ट्रियराजमार्गौ स्तः । तयोः ५२ क्रमाङ्कस्य राष्ट्रियराजमार्गः अस्ति । अयं मार्गः ३३६ किलोमीटरमितः दीर्घः अस्ति । अस्य ई. स. १९९८ तमे वर्षे अस्य मार्गस्य निर्माणकार्यं सम्पन्नम् । अयं जोनाई-नगरं दिराक-नगरेण सह सञ्योजयति । अपरः राजमार्गः तेजपुर-नगरं तवाङ्ग-नगरेण सह सञ्योजयति । केन्द्रियसर्वकारस्य साहाय्येन ई. स. २००७ तमे वर्षे अरुणाचलप्रदेशस्य सर्वे ग्रामाः भूमार्गेण सह सम्बद्धाः जाताः । प्रत्येकस्मिन् नगरे बस-स्थानकम् अस्ति । ततः नियमितरूपेण बसयानानि प्रचलन्ति । अरुणाचलप्रदेशास्य प्रत्येकं स्थलम् असम-राज्येन सह सलंग्नम् अस्ति । अरुणाचलप्रदेशस्य प्रमुखनगराणि राष्ट्रियराजमार्गेण सह सम्बद्धानि सन्ति । अरुणाचलप्रदेश-राज्यं भारतस्य सर्वैः राज्यैः सह श्रेष्ठतया सम्बद्धम् अस्ति । 

अरुणाचलप्रदेश-राज्यं धूमशकटमार्गेण अपि भारतस्य कैश्चित् नगरैः सह सम्बद्धम् अस्ति । यद्यपि अरुणाचलप्रदेश-राज्यं पर्वतीयक्षेत्रे स्थितम् अस्ति । अतः रेलमार्गनिर्माणाय काठिन्यं भवति । तथापि ई. स. २०१५ तमे वर्षे भारतस्य प्रधानमन्त्रिणः नरेन्द्रमहोदयस्य आदेशानुसारं दीर्घमार्गाय धूमशकटयानं प्रचालितम् आसीत् । शनैः शनैः अस्मिन् राज्ये अपि धूमशकटमार्गाः समृद्धाः भविष्यन्ति ।

अरुणाचलप्रदेश-राज्ये षड्विमानस्थानकानि प्रमुखाणि सन्ति । डापोरिजो-नगरे, ईटानगरे, तेजू-नगरे, अलोङ्ग-नगरे, पासीघाट-नगरे, जाइरो-नगरे च विमानस्थानकानि सन्ति । एतानि विमानस्थानकानि देहली-महानगरेण, मुम्बई-महानगरेण, बेङ्गळूरु-महानगरे, चेन्नै-महानगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अरुणाचलप्रदेशराज्यं वायुमार्गेण भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति ।




#Article 58: तमिळनाडुराज्यम् (1833 words)


तमिळनाडुराज्यम् (तमिऴ्: தமிழ்நாடு) भारतस्‍य दक्षिणभागे विद्यमानं राज्यम् अस्‍ति । भारतदेशे सुप्रसिद्धं तमिळुनाडुराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति । सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति । बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे अरब्बीसमुद्रः अस्ति । कावेरीनदीतीरे च अनेकदेवस्थानानि पुण्यक्षेत्राणि च सन्ति । तमिळ्नाडुराज्यं देवालयानां राज्यम् इति च कथयन्ति । प्राचीनशौल्या अत्र पूजाराधनोत्सवादयः प्रचलन्ति । जनाः प्रतिदिनं देवालयम् आगच्छन्ति । इति तु सर्वसाधारणः विषयः । परम्परया अत्र जीवनपद्धतिः यथापूर्वमेव अस्ति । द्राविडसंस्कृतिः अत्र दृष्टिगोचरा भवति । मुख्यतया तमिल्भाशया संवादं कुर्वन्ति । क्वचित् पूजासु अपि तमिळुभाषायाः प्रयोगं कुर्वन्ति। तमिळ् मुख्यभाषा अस्ति ।

तमिळुनाडु भारतद्वीपगर्भस्य दक्षिणकोट्याम् अस्ति । उत्तरे कर्णाटकम् आन्ध्रप्रदेशः च स्तः । पश्चिमे केरलम् अस्ति । तमिळ्नाडुराज्यस्य पूर्वदिशि पाण्डीचेरी अथवा पुदुचेरी अस्ति । एतस्य प्रान्तस्य दक्षिणे हिन्दुमहासागरः अस्ति । तत्रैव श्रीलङ्काद्वीपः अपि अस्ति । भारते तमिळ्नाडुराज्यस्य तस्य विस्तारानुसारम् एकादशं स्थानम् अस्ति । जनसङ्ख्यानुगुणं सप्तमं स्थानम् अस्ति । एतत् भारतस्य जनसङ्ख्यायाः ६% भवति । वाणिज्यक्षेत्रे एतस्य प्रान्तस्य भागः१०.५६% भवति ।
एतस्य राज्यस्य प्रमुखा नदी कावेरी। सा कर्णाटकस्य कोडगुमण्डलस्य तलकावेरीनामकात् स्थानात् उद्भूय तमिळ्नाडुराज्ये प्रवहति । वैगै,ताम्रबरणी, पालारु,तेन्पेण्णै,पोरुणै इत्यादय: अनेका: नद्य: अत्र प्रवहन्ति । चेन्नै एतस्य प्रान्तस्य राजधानी अस्ति । एतत् नगरं १९९६ तमवर्षात् पूर्वं मदरास् इति अह्वयन्ति स्म । १९९६ तमे वर्षे सर्वकारेण “चेन्नै” इति नाम दत्तम् । तमिळ्नाडु क्रि.श. ५०० वर्षेभ्यः तमिळ्जनानां भूमिः अस्ति । प्रायः २००० वर्षेभ्यः अत्र ग्रन्थाः, साहित्यानि च तमिळ्भाषया लिख्यमानाः सन्ति । एषः प्रदेशः बहुविधप्राकृतिकवस्तूनां, हैन्दवदेवालयानां, द्रविडसंस्कारस्य च उत्पत्तिस्थानं भवति । एतस्मिन् स्थाने पर्वताः,सुन्दरसमुद्र्तीराः, बहुमतानाम् देवालयाः , ८ युनेस्को स्थलानि(वर्ल्ड् हेरिटेज् सैट्स्) च सन्ति ।

तमिळ्नाडुराज्यं प्रायः वर्षाकालवृष्टिम् आश्रित्यैव अस्ति । तस्मिन् काले वृष्ट्यभावे जलसमस्या अनुभूयते तत्रत्यैः । सप्टम्बरमासात् डिसम्बर् मासाभ्यान्तरम् अत्र वर्षाकालः भवति । जनवरीमासत: जून-मासाभ्यान्तरम् शुष्कवातावरणं भवति ।

तमिळ्नाडुराज्यस्य चरितरस्य कालः पूर्वचरितकालादारभ्य अस्ति । अस्मिन् प्रान्ते दीर्घकालीना, निरन्तरासंस्कृतिः अस्ति इति पुरातत्त्वावशेषविभागस्य(आर्कियालजिकल् डिपार्ट्मेन्ट्) निरूपणानि सन्ति । तानि तिरुनेल्वेलीनगरात् २५ किलोमीटर् दूरे विद्यमाने आदिच्चनल्लूर् इत्यस्मात् प्रदेशात् प्राप्तानि । तत्र१६९ मनुष्यकपालानि मृत्पात्राणि ,अस्थीनि, विविधधान्यानि इत्यदीनि वस्तूनि च प्राप्तवन्तः । तानि ३८०० वर्षपूर्वतां निरूपयन्ति । तत्र तमिळ्ब्ब्राह्मिलिपिः प्रयुक्ता दृश्यते । आदिच्चनल्लूर् प्रदेशे इतोऽपि संशोधनानि करणीयानि इत्यतः तत् पुरातत्त्वावशेषविभागस्थानम् इति उद्घोषितवन्तः सन्ति । भौगोलिकशास्त्रनिपुणा: ६५ मिलियन् वर्षपूर्वतनडैनोसार् मृगस्य अण्डान् अरियलूर् मण्डले आविष्कृतवन्तः सन्ति ।

सङ्घकाले चोळानाम् आधिक्यम् आसीत् । तथापि ते कानिचन शतकानि यावत् न आसन् । पाण्ड्यानां ,पल्लवानां च मध्ये विद्यमानायाः स्पर्धायाः काले एव चोळानां शासनम् आरब्धम् । चोळाः महाशक्तिमन्तः आसन् । तेषां शक्तेः ह्राससमये  पुनरुत्थानं प्राप्तवन्त: । एषः कालः हिन्दुमन्दिराणां, साहित्यानां च निर्माणस्य अत्युत्तमः कालः आसीत् । चेराः सङ्घकालात् पूर्वं दक्षिणतमिळ्नाडुप्रदेशस्य शासनं क्रुतवन्तः । कोयम्बत्तूर् ,करूर् ,सेलम् ,इत्यादीनि स्थलानि,इदानीन्तनकेरले विद्यमानाः केचन भागा: च चेरानाम् अधीने आसन् । चेरानां राजधानी पश्चिमे विद्यमानं वाञ्चिमुत्तूर् आसीत् । ते धान्यानां ,गजदन्तानां , मौक्तिकानां , रत्नानां वाणिज्यं कुर्वन्ति स्म । ईजिप्तदेशः , ग्रीस , श्रीलङ्का , फ्रोनीसिया , अरेबिया , मेसफोटोमिया , पर्शिया इत्यादिभिः पौराणिकसाम्राज्यैः सह तेषां वाणिज्यसम्पर्कः आसीत् ।
कलभराणाम् आक्रमणेन तमिळ्वंशीयानां त्रयाणाम् अपि शासनस्य क्षयः अभवत् । कलभराः सङ्घकालस्य तृतीयशतकात् षष्टशतकपर्यन्तं शासनं कृतवन्तः । एषः कालः तमिळ्चरिते अधमकालः अथवा अन्धकारकालः इति कथ्यते । ते षष्टशतके पाण्ड्यैः , पल्लवैश्च पराजिताः अभवन् । कलभराणां काले तमिळ्भूमौ जैनमतस्य विकासः जातः । तस्य बोधनार्थम् “नालडियार्” नामकः कश्चन ग्रन्थ: रचित: । सः ग्रन्थः ४० अध्यायेषु ४०० श्लोकैः जैनतत्वानि बोधयति । ’वेण्पा’ इत्येकस्मिन् छन्दसि रचितः अस्ति । नालडियार् इन्द्रियनिग्रहं , सरलजीवनं , त्यागचिन्तनं च बोधयति । यतः कलभराः हैन्दवानां , बौद्धानाञ्च रक्षणं कृतवन्त: । केचन कलभराणाम् हिन्दुत्वविरोधताम् कल्पयन्ति । तत्र शङ्का वर्तते । पल्लवानाम् अभ्युदयः चतुर्थशतकात् अष्टमशतकपर्यन्तम् महेन्द्रवर्मणः , तस्य पुत्रस्य मामल्लनरसिंहवर्मणः , तस्य पुत्रस्य बोधिधर्मस्य च काले द्रष्टुं शक्नुमः ।  दक्षिणभारते काञ्चीपुरनगरं राजधानीं कृत्वा विस्तृतप्रदेशस्य शासनं कृतवन्तः । पल्लवानां कालः द्रविडभवननिर्माणकलायाः श्रेष्ठः कालः आसीत् । चेन्नैनगरस्थ महाबलिपुरे नरसिंहवर्मणा निर्मितं मन्दिरम् अस्ति । तत् युनेस्को स्थलम् (युनेस्को वर्ल्ड् हेरिटेज् सैट्) अस्ति । दशमशतके चोळैः पल्लवाः पराजिता: । त्रयोदशशतके पाण्ड्याः चोळान् जितवन्तः । पाण्ड्यानां राजधानी आसीत् मधुरै । तत् दक्षिणभारते समुद्रतटात् दूरे आसीत् । तथापि तेषां वाणिज्यसम्पर्क: विशालः आसीत् । तेषां वाणिज्यसम्पर्क: समुद्रतटस्थ साम्राजा श्रीविजयेन सह , रोमसाम्राज्येन सह च आसीत् । त्रयोदशशतके मार्कोपोलेन उल्लिखितं यत् पाण्ड्याः बहु धनिका: आसन् , पाण्ड्यसाम्राज्यं महत् धनिकसाम्राज्यम् आसीत् इति । मधुरै नगरस्थं मीनाक्षीमन्दिरं , तिरुनेल्वेलीनगरस्थं नेल्लैयप्पर् मन्दिरं च पाण्ड्यानां भवननिर्माणकलाया: उदाहरणम् । पाण्ड्यानां वाणिज्यसाहित्यक्षेत्रयोः नैपुण्यम् आसीत् । ते मौक्तिकस्य वाणिज्यं भारत- श्रीलङ्घयोः मध्ये उपस्थापितवन्तः। तानि मौक्तिकानि श्रेष्ठानि सुप्रसिद्धानि च आसन् तस्मिन् काले ।

नवमशतकानन्तरं द्वितीयः चोळः आसीत् चक्रवर्तिः आदित्यः । अस्य पुत्रः परान्तकचोळः । परान्तकचोळ: आन्ध्रप्रदेशस्य कांश्चन भागान् , कर्णाटकस्य भागान् च जित्वा स्वसाम्राज्यस्य विस्तारं कृतवान् आसीत् । राजराजचोळस्य , राजेन्द्र्चोळस्य च काले चोळवंशीया: दक्षिण-एशियायाम् उल्लेखार्हां शक्तिं प्राप्तवन्त: । चोळचक्रवर्ति: अतिदूरस्थबङ्गालपर्यन्तं स्वसाम्राज्यस्य विस्तारं कृतवन्तः आसन् । ३,६००,०००वर्गकिलोमीटर् परिमितस्थलानि तस्याधीने आसन् । राजराजचोळः दक्षिणभारतद्वीपगर्भं , श्रीलङ्कां च जितवान् । ततोऽपि अधिकः प्रदेशः राजेन्द्रचोळस्यवशे आसीत् । बर्मा(अधुना मियान्मर्) तः वियट्नां ,दक्षिणपूर्व-एशियायाम् अण्डमान् निकोबार् द्वीपाः ,  , सुमात्रा,माल्या,पेगु द्वीपा: च तस्याधीने आसन् । स: बङ्गागालदेशस्य महाराजस्य महिपालस्य पराजयम् कारितवान् । तस्य स्मारकरूपेण गङ्गैकोण्डचोळपुरम् नाम नूतनां राजधानीं सृष्टवान् । तस्याः समीपे मेलकडम्बूर् इत्यस्मिन् प्रदेशे मन्दिरमपि निर्मितवान् । तदेव अधुना  कर्कोविल्  इत्युच्यते । चोळानाम् मन्दिरनिर्माणकलायाः समुदाहरणम् अस्ति तञ्जावूर् बृहदीश्वरमन्दिरम् । तत् युनेस्को संरक्षितस्थलेषु अन्यतमम् । एतस्य गोपुरस्य छाया भूमौ न पतति । गोपुरस्य शिखरे विद्यमाना शिला अपि अखण्डा अस्ति । तिरुवण्णामलै नगरस्थम् अण्णामलैयार् मन्दिरं , चिदम्बरं नगरस्थं नटराजमन्दिरं च चोळनिर्मितेषु मन्दिरेषु सुप्रसिद्धे । राजराजचोळस्य, राजेन्द्रचोळस्य च कालः तमिळ्नाडुराज्यस्य सुवर्णकालः आसीत् । तयोः काले चोळसाम्राज्यं दक्षिणभारते शक्तियुक्तम् आसीत् । चोळानां क्षयकाल: १२३० तः १२८० पर्यन्तम् आसीत् । तदनन्तरं पुन: पाण्ड्यानाम् अभ्युदय: अभवत् मारवर्मा सुन्दरपाण्ड्यकाले, तस्यानुजः जातवर्मा पाण्ड्यकाले च । किन्तु तदा पाण्ड्यानां शासनम् अल्पकालं यावत् एव आसीत् । तदनन्तरम् १३१६ तमे वर्षे अल्लाविद्दीन् खिल्जेः सेना तस्य सेनधिपतेः मालिक् काफरस्य नेतृत्वे आक्रान्तवन्तः । मुसल्मान् जनानां शासनम् अपि अल्पकालिकम् एव आसीत् ।

यवनानाम् आक्रमणेन हिन्दुविजयनगरसाम्राज्यस्य संवर्धने निरोधः जात: । तस्मात् समग्रतमिळ्प्रदेशस्य ह्रासकालः आसीत् । १३७० तमवर्षतः यदा ताळीकोटेयुद्धे पराजयः अभवत् तावत् पर्यन्तं तन्नाम १५६५ तमवर्षपर्यन्तं प्रायः शतकद्वयं यावत् नष्टदिशि एव आसीत् । युद्धे पराजयानन्तरं बहूनां राज्ञां नियन्त्रणं विजयनगरीयाणां हस्तात् गतम् । मधुरै नायकाः , तञ्जावूरनायकाः च विजयनगरसाम्राज्यस्य सम्पर्कं निवारितवन्तः । तदनन्तरम् तौ द्वौ अपि आत्मानं स्वतन्त्रौ इति उद्घोषितवन्तौ । नायकाः पूर्वम् विजयनगरीयैः एव निर्वहणार्थं विभिन्नप्रदेशेषु नियुक्ताः आसन् । परन्तु विजयनगरीयाणां पराजयकाले ते स्वातन्त्र्यम् उद्घुष्टवन्तः । तमिळ्नाडुराज्ये १७ शतके मधुरैनायकाः ,तञ्जावूरुनायकाः च प्रधानाः आसन् । ते मधुरैमीनाक्षीमन्दिरसदृशपौराणिकमन्दिराणां पुनर्निर्माणं कृतवन्तः ।

१८शताब्देः आरम्भकाले तमिळ्नाडुराज्यस्य पूर्वदिशि विद्यमानाः केचन भागा: हैदराबाद् निजामस्य , कर्णाटकनवाबस्य अधीने अभवन् । वालाजा आङ्लेयानाम् आश्रयेन , चान्दसहिब् फ़्रेञ्चजनानाम् आश्रयेन च स्थितवन्तौ । १८शतकस्य आरम्भे तमिळ्नाडुराज्यस्य पश्चिमभागा:  तस्य पुत्रस्य टिप्पुसुल्तानस्य च अधीने आगता: । विशिष्य तयोः आङ्लो-मैसूरु युद्धानन्तरम् ।

१६०९तमे वर्षे डच्जनाः पुलिकाट् पर्यन्तं साम्राज्यस्य विस्तरणं प्राप्तवन्तः (यदा दानिश् जनाः तरङ्गम्पाडिपर्यन्तं विस्तीर्णतां प्रप्तवन्तः तदा )। १६३९तमेवर्षे आङ्लेया: ब्रिटिष् ईस्ट् इण्डिया संस्थायाः अधीने सन्तः स्वसीमाम् पुलिकाट् प्रदेशस्य दक्षिणभाग(इदानीन्तनचेन्नै)पर्यन्तं विस्तरणं कृतवन्त: । १८ शतकस्य अन्ते आङ्ग्लेयाः भारते पाण्डिचेर्यां फ़्रेन्चजनैः सह सङ्ग्रामं कृत्वा तेषां प्राबल्यस्य दमनं कृतवन्तः । ईस्ट् इण्डिया संस्थया यदा पोलिगार्युद्धे जयः प्राप्तः तदा दक्षिणभारतस्य अधिकाः भागाः तेषाम् अधीना: अभवन् । तस्य “मद्रस् प्रेसिडेन्सी” इति अपि नाम दत्तवन्तः । अवशिष्टभागा: पुदुकोट्टै “प्रिन्स्लि स्टेट्” इति अभवत् । 

१९४७तमे वर्षे भारतस्य स्वतन्त्र्यप्राप्तेः अनन्तरं “मद्रास् प्रेसिडेन्सी” “मद्रास् स्टेट्” अभवत् । तस्मिन् समुद्रतीरस्थः आन्ध्रप्रदेशः , ओरिस्सायाः गञ्जां मण्डलम् कर्णाटके दक्षिणकन्नडमण्डलपर्यन्तं, केरळस्य केचन भागा: च अन्तर्भूता: आसन् । १९६९ तमे वर्षे भारतस्य भाषानुसारविभजनसमये “मद्रास् स्टेट् “ इति नाम “तमिळ्नाडु” इति परिवर्तितम्। तस्यार्थ: तमिळ्देश: इति ।

गवर्नर् व्यवस्थानुगुणः अध्यक्ष: अस्ति । मुख्यमन्त्री शासनस्य मन्त्रीणां च अध्यक्षरूपेण भवति । मद्रास् उच्च न्यायालयस्य प्रधानन्यायादीश: एव न्यायसम्बद्धव्यवहारेषु अध्यक्ष: भवति । इदानीं गवर्नर् , मुख्यमन्त्री , न्यायाधीशश्च क्रमेण कोणीजेटि रोसैया , जे.जयललिता , एम्.आय्.इक्बाल् । निर्वहणदृष्ट्या एष: प्रान्त: ३२ मण्डलैः विभक्तः अस्ति । तस्मिन् १० महानगराणि , १२५ नगराणि , ५२९ नगरपञ्चायतस्थलानि ,१२५२४ ग्रामपञ्जायतस्थलानि च सन्ति । चेन्नै (पूर्वं मद्रास्) प्रान्तस्य राजधानी अस्ति । तत् भारते चतुर्थं बृहत् महानगरम् अस्ति । एतस्मिन् प्रान्ते ३९लोकसभास्थानानि, २३४ विधानसभास्थानानि च वर्तन्ते । भारतस्य अन्यप्रान्तेषु यथा पञ्जवर्षाणि शासनकाल: तथैव अत्रापि । अधुना ए.आय्.ए.डि.एम्.के. पक्षस्य शासनम् प्रचलति । ते २०११ तमे वर्षे अधिकारं प्राप्तवन्त: । तेषाम् ३३ मन्त्रिण: मुख्यमन्त्रिण्याः जे.जयललिताया: नेतृत्वे शासनं कुर्वन्त: सन्ति । विधानसभा( सट्टसभा)मेलनानि चेन्नैनगरे सेण्ट् जार्ज् दुर्गे प्रचलन्ति । पूर्वम् अत्र चतुर्वारं राष्ट्रपतिशासनम् आसीत् । प्रथमतया १९७६ वर्षत: १९७७ पर्यन्तम् ,१९८०तमे वर्षे अल्पकालम् , १९८८ वर्षात् १९८९ वर्षपर्यन्तम् , अन्ते १९९१ तमे वर्षे च । 
स्थानीयनिर्वहणं(राजस्वनिर्वहणम्) , संवर्धननिर्वहणम् इति द्विधा विभक्तं भवति । तमिळ्नाडुराजस्वनिर्वहणे राजस्वविभागा: , उपमण्डलानि च अन्तर्भवन्ति । निर्वहणविभाग: मण्डलानुसारेण विभक्तम् अस्ति । प्रत्येकं मण्डलम् उपमण्डलैः विभक्तम् । सर्वेषु अपि उपमण्डलेषु केचन राजस्वग्रामा: भवन्ति । तहसिल्दार् नामकः प्रमुख: एतेषाम् उपमण्डलानां प्रधानः अध्यक्ष: भवति । संवर्धननिर्वहणे ग्रामीणनिर्वहणार्थं पञ्चायतविभाग: भवति । पञ्चायत्विभागस्य अधीने द्वित्रा: पञ्चायत् ग्रामा: भवन्ति । नगरस्थलेषु स्थलस्य विस्तृतिम् अनुसृत्य महानगरसंस्थया वा नगरीयसम्स्थया वा ग्रामपञ्चायत् वभागेण वा निर्वहणम् क्रियते । तमिल्नाडु प्रान्ते १० महानगराणि सन्ति।तानि- चेन्नै,मदुरै,कोयम्बत्तूर्,तिरुच्चिराप्पल्ली,सेलम्,वेलूर्,तिरुनेल्वेली,ईरोड्,तिरुप्पूर्,तूत्तुकुडी । तमिल्नाडु शासका: ई-शासने अग्रेसरा: सन्ति । प्रभूतसर्वकार लेखा: (भू क्रयणस्य पञ्चीकरणपत्रादयः) सङ्गणकीकृतानि । सर्वकारकार्यालयेषु नगरस्थ स्थानीय कार्यालयाः,सर्वनगर,महानगर कार्याणि,राजस्वनिधेः सङ्ग्रहणम् इत्यादीनाम् व्यवहारः सङ्गणकद्वारा एव प्रचलति । अस्मिन् प्रान्ते न्यायपरिपालनमपि सुष्टु एव प्रचलति । अत्रत्य आरक्षकविभागस्य वयः १४० वर्षाणि । भारते प्रान्त आरक्षकेषु विस्त्रुतिम् अनुसृत्य पञ्चमम् स्थानम् अस्ति । देशे अत्यधिक आरक्षिका: अपि अत्रैव सन्ति । २००३ तमस्य वर्षस्य व्रुत्तानुसारम् ६६८ जनेभ्य: एकः इति रीत्या आरक्षकाः सन्ति अस्मिन् प्रान्ते । एतत् भारतस्य ७१७ जनेभ्यः एक: इत्यस्यापेक्षया अधिकम् ।

स्वातन्त्र्यप्राप्तेः पूर्वम् तमिल्नाडु आङ्ग्लेयानाम् शासने आसीत् । तदानीम् अखिलभारत काङ्गरेस् पक्षः एव सर्वत्रापि प्रधानतया आसीत् । प्रादेशिकपक्षाणाम् आधिक्यम् अपि १९१६ पर्यन्तम् आसीत् । तस्मिन्नेव वर्षे तमिल्नाडु प्रान्ते “द्रविडपक्षः” इति अधुना यत् उच्यते तस्य पूर्वभूमिका रूपेण “सौत् इन्डियन् वेल् फ़ेर् अस्सोसियेश्न्” नाम्ना आरब्धा । ते अनन्तरम् जस्टिस् पक्षः इति आहूताः । अनन्तरकाले ते एव पुन: औपचरिकतया “सौत् इन्डियन् लिबेरल् फ़ेडरेशन्”(दक्षिणभरत स्वातन्त्र्य सम्स्था) इति नाम स्वीकृतवन्तः । अखिलभारत काङ्ग्रेस् पक्षीयाः अखण्डभारतम्,सम्पूर्णभारतस्य स्वातन्त्र्यप्राप्तिश्च इति घोषितवन्त: इति कारणेन ते जेयम् प्राप्तवन्तः । स्वातन्त्र्य आन्दोलनसमये मुत्तुरामलिङ्गत्तेवर् ,के.कामराज् ,सुब्रह्मण्यभारती (स्वस्य कविता शक्त्या स्वतन्त्राय जनान् प्रेरितवान्) ,सुब्रह्मण्यशिवा , व.उ.चिदम्बरम् पिल्लै ,तिरुप्पूर् कुमरन् ,राजगोपालाचार्या(राजाजी) ,सत्यमूर्तिः इत्यादयाः नेताराः आसन् । पेरियार् ई.वे.रमस्वामि जस्टिस् पक्षस्य लक्ष्यमार्गम् परिवर्तितवान् । तस्य नेतृत्वे जस्टिस् पक्षस्य वर्धनम् सम्यक् अभवत् । १९४४ तमे वर्षे जस्टिस्पक्षः इत्यस्य “ द्राविडर्कळगम् “ इति नामपरिवर्तनम् कृतवान् ई.वे.रामस्वामि । ते द्राविडनाडु (द्रविडदेशः) नाम्ना पृथक् स्वतन्त्रप्रान्तम् प्रार्थितवन्त: । कालान्तरे पक्षस्य नायकद्वयोरभ्यन्तरे (ई.वे.रा--अण्णातुरै) अभिप्रायभेदकारणेन पक्षस्य विच्छेदः अभवत् । अण्णातुरै द्राविडर्कळगम् त्यक्त्वा “द्राविडमुन्नेट्रकळगम् “ इति एकम् नूतनम् पक्षम् आरब्धवान् । द्र.मु.क पक्ष: १९५६ तमे वर्षे राजनीतिक्षेत्रे तीव्रतया प्रवेष्टुम् निश्चितवन्तः ।
१९ शताब्दौ पाश्चात्यपण्डिता: द्रविडभाषाः प्रभूततया दक्षिणभारते व्यवहारे सन्ति इति , उत्तरभारते इन्दो-आर्य भाषाणाम् प्रभावः अस्ति इति आविष्कृतवन्तः । ते भारतीयान् द्रविडाः ,आर्याः इति विभज्य तयोरभ्यन्तरे स्पर्धाम् कारितवन्त: । एतस्याम् स्पर्धायाम् कृष्णत्वचयुक्ताः द्रविडाः पृथक् कृता: । एतेन जनानाम् मनस्सु प्रादेशिकानुसार भेदभावः आरूढः । अतः भारतस्य भाषानुसार प्रान्तनिर्माणावसरे द्रविडा: भारतदेशात् प्रुथक् भूत्वा द्रविडेभ्यः पृथक् देश: आवश्यकः इति आदेशितवन्त: । १९६० तमे वर्षे द्र.मु.क पक्षस्य शीघ्रवर्धनम् ,श्क्तिप्राप्तिश्च अभवत् । तस्य कारणम् आसीत् हिन्दीविरुद्धभावना तत् सम्बन्धितम् कलहाश्च । द्र.मु.क.पक्ष: १९६७ तमे वर्षे निर्वाचने अखिलभारतकाङ्ग्रेस्पक्षम् जितवन्त: । काङ्ग्रस्पक्षस्य द्रुढग्राहणम् तमिल्नाडु मध्ये तदानीम् समाप्तम् । सी.एन्.अण्णातुरै द्र्.मु.क पक्षस्य प्रथम मुख्यमन्त्री अभवत् ।
अण्णातुरै महोदयस्य मरणानन्तरम् १९६९ तमे वर्षे पक्षस्य नायकत्वम्, मुख्यमन्त्री पदवीञ्च मुत्तुवेल् करुणानिधि: आप्तवान् । शीघ्रमेव करुणानिधे: नेत्रुत्वेन सह स्पर्धी कर्तुम् एम्.जी.रामचन्द्रः आगतः। १९७२ तमे वर्षे सः द्र.मु.क पक्षात् प्रुथक् गत्वा “ अखिल भारतीयअण्णाद्राविडमुन्नेट्र्कळ्गम् “नाम नूतनम् पक्षम् आरब्धवान् । एम्.जी.रामचन्द्रः १९७७ तः१९८७ पर्यन्तम् मुख्यमन्त्री आसीत् । तस्य मरणानन्तरम् अ.भा.अ.द्र.मु.क पक्ष: जानकीरामचन्द्रस्य नेत्रुत्वे, जे.जेयललिताया: नेत्रुत्वे इति द्विधा विभक्तः । तेन कारणेन १९८९ तमे वर्षे निर्वाचने अ.भा.अ.द्र.मु.क पक्षस्य पराजेय: अभवत् । अनन्तरकाले जे.जेयललिताया: वशमेव पूर्णपक्षः अपि आगतः । सा सम्युक्तपक्षस्य कार्यदर्शी रूपेण चिता । अद्य पर्यन्तम् सा एव तस्य पक्षस्य कार्यदर्शी अस्ति । द्र्.मु.क पक्षे, अ.भा.अ.द्र.मु.क.पक्षे अपि विच्छेदाः बहुधा अभवन् । तथापि एतयोर्मध्ये एक: एव तमिल्नाडु राज्यस्य शासनम् करोति ।

तमीळुनाडुराज्ये पूर्वं चोळाराजाः प्रशासनं कृतवन्तः । तेषा राजधानी तञ्जावूरु आसीत् । अनन्तरम् पल्लववंशीयानां प्रशासनम् आसीत् । तेषां राजधानी काञ्चिपुरम् आसीत् । पाण्डयराजाः मधुरैनगरं राजधानीं कृत्वा शासकाः अभवन् ।
तमिलुनाडुराज्यस्य राजधानी ‘चेन्नै’ अस्ति । राज्ये युगादिः, पोङ्गल् , दीपावलिः इत्यादिपर्वाणि विशिष्टानि भवन्ति। 

ताम्रपर्णी, कावेरी, मणिकर्णिका, भवानी, अमृता, वेगै 

सम्‍बन्‍धितविषया:




#Article 59: त्रिपुराराज्यम् (130 words)


त्रिपुराराज्यम् (Tripura) भारतस्य किञ्चन राज्यम् । अगरतला त्रिपुराराज्यस्य राजधानी । अत्रत्या भाषा त्रिपुरीभाषा भवति ।

त्रिपुरा प्रदेशस्य उल्लेखः महाभारते विद्यते। एवम् अशोकस्य शिलाफलकेषु अपि त्रिपुरा प्रदेशस्य उल्लेखः अस्ति। स्वातन्त्र्यानन्तरं भारतीय गणराज्यस्य शासनात् पूर्वं राजप्रभुत्वस्य शासने आसीत्। उदयपुर अस्य राज्यस्य राजधानी आसीत्। १८ तमे शतमाने उदयपुर राजधानी आसीत्। अस्य राज्यस्य राजा वीरचन्द्रः महादुरदेववर्मा आसीत्। अयं ब्रिटिष् सार्वकारस्य शासनमीव अस्य शासनम् आसीत्। गणमुक्तिपरिषदया कृतान्दोलनेन सा.श. १९४९ तमे संवत्सरे गणराज्यम् अभवत्। सा.श. १९७१ तमे संवत्सरे बाङ्ग्लादेशस्य निर्माणम् अभूत्। समनन्तरं स्थानीय बङ्गालीय जनैः सह त्रिपुरा नेशनल वॉलेंटियर्स, नेशनल लिबरेशन फ्रंट ऑफ़ त्रिपुरा गणयोः सङ्घर्षः जातः। त्रिपुराराज्यात् बङ्गालि जनान् बहिः प्रेषणार्थं सङ्घर्षः आसीत्।

त्रिपुरसुन्दर्याः मन्दिरं तलवाडा ग्रामात् ५ कि.मि. दूरम् अस्ति । पुरातनं त्रिपुरसुन्दर्याः मन्दिरम् अस्ति । भारतीय शक्तिपीठेषु प्राचीनं, सुन्दरञ्च पीठम् अस्ति। मन्दिरे शिल्पकला अद्वितीया अस्ति। अष्टादशभुजयुक्तायाः देव्याः मूर्तिः अस्ति। प्रतिवर्षं नवरात्रिसमये उत्सवः भवति।




#Article 60: दादरा नगरहवेली च (123 words)


दादर नागर हवेली च भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति। एषः  पश्चिमतटे गुजरातराज्यस्य समीपे भवति।
क्रिस्ताब्दस्य १९५४ पर्यन्तम् एषः प्रदेशः पोर्तुगालदेशीयानां प्रशासने आसीत् । इदानीं भारतसर्वकाराधीनः अस्ति । अस्य विस्तारः ४९१ चतुरस्र कि.मी । सम्पूर्णप्रदेशः एव सुन्दरम् उद्यानमिवास्ति । उत्तमवाहनमार्गः अस्ति । मार्गपाश्वेः सुन्दरवृक्षाणां पङ्क्तिः अस्ति । मृगाः वने स्वतन्त्रतया विहरन्ति ।
हिरवावन् वाटिकाः अतीवाकर्षकाः सन्ति । लघु निर्झराः जलपाताः जलप्रवहणस्य मधुरध्वनिः एतेषां मध्ये मनोविहारः सुकरः अत्र । अत्र जनानां कालयापनम् अतीव आनन्ददायकम् इष्टं च भवति ।
वनगङ्गासरोरवस्य पार्श्वे सूर्यास्तोदयानां सुन्दरं दृश्यं प्रेक्षणीयं भवति । नौकाविहाराय अत्र उत्तमः अवसरः अस्ति । अत्र हरिद्वनानि उद्यानानि विहारस्थानानि अपूर्वाणि कल्मशरहितानि सन्ति । वनधारावाटिकायां हरित्तृणभूमौः गमनम् अतीव हर्षाय भवति ।
धामनगङ्गानदी, वनविहारस्य सानुप्रदेशः, विविधाः वाटिकाः मनोविनोदाय उत्तमानि सन्ति । वासाय उत्तमवसतिगृहाणि सन्त्ति । सिलवासा अस्य प्रदेशस्य राजधानी अस्ति ।




#Article 61: नागालैण्डराज्यम् (4339 words)


 
नागाल्याण्डराज्यं (Nagaland) भारतस्य ईशान्यदिशि विद्यमानं राज्यम् । अस्य राज्यस्य पश्चिमसीमायाम् असमराज्यम्, अरुणाचलप्रदेशराज्यम्, उत्तरदिशि असमभागः, पूर्वदिशि बर्मा, दक्षिणदिशि मणिपुरराज्यञ्च विद्यते । राज्यस्य राजधानी कोहिमा, बृहत्तमं नगरं दीमापुरम् । अस्य विस्तारः १६,५७९ च कि मी। २०११ तमे वर्षे जातायाः जनगणनायाः अनुसारम् अत्रत्या जनसङ्ख्या अस्ति १९, ८०, ६०१ । सीमायां विद्यमानम् असम-उपत्यकाप्रदेशं विहाय आराज्यं पर्वतप्रदेशैः युक्तमस्ति । इदं राज्यं समभाजकवृत्तस्य पूर्वदिशि ९८० ९६० रेखांशे उत्तरदिशि २६.६० - २७.४० अक्षांशे विद्यते । भारतस्य १६ तमं राज्यं नागाल्याण्ड् १९६३ तमे वर्षे डिसेम्बर्मासस्य १ दिनाङ्के प्रतिष्ठापितं जातम् । इदं ११ मण्डलैः युक्तम् - कोहिमा, फेक्, मोकोक्चङ्ग्, वोख, झन्हेबोटो, त्यून्साङ्ग्, मान्, दीमापुर्, किफिर्, लाङ्ग्लेङ्ग्, पेरेन् च । कृषिकार्यम् अत्रत्यं प्रमुखम् आर्थिकमूलम् । व्रीहिः, धान्यकं, तमाखुः, तैलबीजानि, इक्षुदण्डः, आलूकम् इत्यादयः अत्रत्याः फलोदयाः । सस्यविज्ञानम्, गृहोद्यमः, योगक्षेमयोजना, स्थावरसम्पदा, प्रवासोद्यमः च अन्यानि आर्थिकमूलानि ।

नागाल्याण्ड्राज्यं पर्वतीयराज्यम् । असमप्रदेशे ब्रह्मपुत्रस्य उपत्यकायां नागापर्वताः २००० पादमिताः उन्नताः । आग्नेयदिशी ६००० पादमिताः उन्नताः । १२,५५२ पादमितोन्नतः सारामतिपर्वतः राज्यस्य उन्नततमं स्थानम् । अत्रैव नागापर्वताः बर्मायाः पट्कै-आवल्या सह संयोजिताः भवन्ति । दोयाङ्ग्-दिफूनद्यौ उत्तरे, बारक्नदी नैरुत्ये, बर्मायाः चिन्द्विन्नदी आग्नेये च राज्यं विभजन्ति । राज्यस्य भूप्रदेशे २०% भागः विविधैः सस्यैः प्राणिभिः सह युक्तं घनारण्यं वर्तते । नागाल्याण्ड्राज्यं मान्सून्वातावरणेन युक्तम् आर्द्रताधिक्ययुक्तञ्च । वार्षिकवृष्टिः ७०-१०० इञ्च्मिता भवति आधिक्येन मेतः सेप्टेम्बर्मासं यावत् । तापः २१० से - ४०० सेण्टिग्रेड्मितः । शैत्यकाले तापः ४० से अपेक्षया न्यूनः तु न भवति । ग्रीष्मकाले तापः १६०-३१० सेण्टिग्रेड्मितः भवति । राज्यस्य केषुचित् भागेषु शैत्यस्य शीघ्रागमनं महत् शैत्यं शुष्कवातावरणञ्च अनुभूयते । फेब्रवरि-मार्चमासयोः महान् वातः दृश्यते ।

नागालैण्ड-राज्यं पर्वतीयप्रदेशः अस्ति । अतः नद्यः अपि बहव्यः सन्ति । धानसिरि-नदी,  झाँझी-नदी, दीसाई-नदी, लैनिपर-नदी, दोयाङ्ग-नदी, दीखो-नदी इत्यादयः नागालैण्ड-राज्यस्य प्रमुखाः नद्यः सन्ति । नागालैण्ड-राज्यस्य प्रमुखाः नद्यः शिवसागर-पर्यन्तं गच्छन्ति । मिलक-नदी, जुङ्गकी-नदी च अस्य राज्यस्य अन्ये नद्यौ स्तः । “लेचाम” इत्ययम् नागालैण्ड-राज्यस्य प्रमुखः तडागः अस्ति । राज्येऽस्मिन् बहवः जलप्रपाताः, तडागाः अपि सन्ति । राज्यमिदं पर्वतीयक्षेत्रम् अस्ति अतः जलप्रपाताः अधिकमात्रायां सन्ति । ।

नागावनवासिनां सम्प्रदायाः आर्थिककार्याणि एव अस्य पूर्वतनः इतिहासः । मूलतः बर्मीस्-भाषया एते जनाः आदौ नाकाः इति निर्दिश्यन्ते स्म । अस्य अर्थः विद्धकर्णाः जनाः इति । 'नाग'इति शब्दः ब्रिटिश्जनैः दत्तमिति श्रूयते अर्थः अस्ति 'नग्नः' इति । ब्रिटिश्जनाः मणिपुरस्य वनवासिनः स्थूलतया द्विधा विभक्तवन्तः 'नागाः' 'कुकीजनाः' इति । नागावनवासिनः असमप्रदेशस्य बर्माप्रदेशस्य वनवासिभिः सह सामाजिक-आर्थिक-राजनैतिकसम्पर्कं रक्षितवन्तः आसन् । अद्यत्वे अपि अधिकांशाः नागाः असमप्रदेशे निवसन्ति । १८१६ तमस्य उपप्लवस्य अनन्तरं असमप्रदेशेन सह इदं स्थलं बर्मायाः आधीन्ये अन्तर्भूतम् । १८२६ तमे वर्षे ब्रिटिश्-ईस्ट्-इण्डिया-संस्थया असमप्रदेशः आक्रान्तः । तदा ब्रिटनेन आधुनिक-नागापर्वताः आक्रान्ताः । १८९२ समये यून्सेङ्ग्प्रदेशं विहाय अवशिष्टाः नागापर्वतप्रदेशाः ब्रिटिशसर्वकारस्य अधीनाः आसन् । ते असमप्रदेशेन योजिताः आसन् । क्रिश्चियन्-मतप्रचारकाणां व्यापकप्रयत्नेन नागालेण्डस्य नागावनवासिनः क्रिश्चियन्मतस्थाः जाताः । ततः पूर्वतनः इतिहासः न ज्ञायते ।

प्रथमजागतिकयुद्धावसरे ब्रिटीश्जनाः नागाजनान् रहस्यकार्याय नियोजितवन्तः फ्रान्स्देशे । ततः तैः चिन्तितं यत् स्वस्य अस्तित्वस्य रक्षणाय अस्माभिः एकता रक्षणीया इति । १९१८ तमे वर्षे मातृभूमिं प्रति प्रत्यागमनानन्तरं ते सङ्घटिताः जाताः । आन्दोलनम् आरब्धवन्तः च। वर्षे स्वातन्त्र्यप्राप्तेः अनन्तरं सः प्रदेशः असमराज्ये अन्तर्भूतः जातः। नागाजनेषु केचन क्रान्तिकारिणः उत्पन्नाः। फिझोनायकत्वयुक्तः नागाराष्ट्रियायोगः मूलजनाः पूर्वजाः च राजनैतिकदृष्ट्या युक्ताः स्युः इति आग्रहम् अकरोत् । सर्वकारः विध्वस्तः, विप्लवः उत्पन्नः । १९५५ तमे वर्षे भारतीयसैन्यम् अत्र प्रेषितं शान्तिस्थापनाय। १९५७ तमे वर्षे सर्वकारेण सन्धानकार्यम् आरब्धम् । असमराज्ये स्थिताः नागापर्वतप्रदेशाः त्यून्सङ्ग्प्रदेशश्च संयोजितः । इदं केन्द्रसर्वकारेण एव शास्यते स्म । इदं नागाजनैः न इष्टम् इत्यतः शीघ्रमेव विरोधः अहिंसा च आरब्धा । १९६० तमे वर्षे भारतस्य प्रधानमन्त्रिणा नागागणस्य नायकैः च गभीरचर्चा कृता। ततः १६ बिन्दु-अङ्गीकारेण सह नागाग्याण्डराज्यस्य उगमः जातः। १९६१ तमे वर्षे विविधसम्प्रदाययुक्तैः वनवासिगणैः ४५ नागाः चिताः ये च अन्तर्गणे योजिताः जाताः । ततः तस्य राज्यत्वं प्राप्तम् । १९६३ तमस्य वर्षस्य नवेम्बर् ३० तमे दिनाङ्के अन्तर्गणस्य विलयनं जातं, विध्युक्तरीत्या राज्यत्वस्य घोषणं जातम् । १९६३ तमे वर्षे डिसेम्बर्मासस्य १ दिनाङ्के कोहिमा राजधानीत्वेन परिगणिता । १९६४ तमे वर्षे जातस्य निर्वाचनस्य अनन्तरं फेब्रवरी ११ दिनाङ्के प्रथमा विधानसभा संरचिता जाता ।

नागाल्याण्ड्राज्यस्य जनसङ्ख्या २० लक्षात्मिका । तेषु अधिकांशाः कृषकाः । ७५% जनाः ग्रामेषु निवसन्ति । एतेषु ग्रामनिवासेषु ३५% जनाः दारिद्र्यरेखातः अधः निर्दिष्टाः । नगरनिवासिषु पञ्चमांशाः परमदरिद्राः ।

कोहिमा-नगरं नागालैण्ड-राज्यस्य कोहिमा-मण्डलस्य केन्द्रम् अस्ति । इदं नगरं पूर्वोत्तर-भारतस्य सुन्दरस्थलेषु अन्यतमम् अस्ति । अतः जनाः आकृष्टाः भवन्ति । अस्मिन् मण्डले “केवही” नामकं पुष्पम् उत्पद्यते । अतः पुरा अस्य नाम केवहीमा, केवहीरा वा आसीत् । किन्तु आङ्ग्लजनाः इमं शब्दं वक्तुं न शक्नुवन्ति । अतः काठिन्ये सति ते “कोहिमा” इति उच्चारणं कुर्वन्ति स्म । तावदेव अस्य नाम कोहिमा इति अभवत् । “केवही-पुष्पं” समीपस्थेषु पर्वतप्रदेशेषु प्राप्यन्ते । पुरा अस्मिन् मण्डले अङ्गामी-जनजातिः निवसति स्म । किन्तु साम्प्रतं तु विभिन्नजनजातयः निवसन्ति । ई. स. १८४० तमे वर्षे ब्रिटिश्-जनाः तत्र गतवन्तः । नागा-जनैः ब्रिटिश्-जनानां विरोधः कृतः आसीत् । चत्वारिंशद्वर्षाणि यावत् नागा-जनैः तेषां विरोधः कृतः । अनन्तरं ब्रिटिश्-जनैः अस्मिन् मण्डले स्वस्याधिपत्यं स्थापितम् आसीत् । ततः परं कोहिमा-क्षेत्रं मुख्यालयत्वेन उद्घोषितम् । ई. स. १९६३ तमस्य वर्षस्य दिसम्बर-मासस्य १ दिनाङ्के (१ दिसम्बर १९६३) कोहिमा-नगरं नागालैण्ड-राज्यस्य राजधानीत्वेन उद्घोषितम् ।

अस्य नगरस्य प्राकृतिकं सौन्दर्यम् अपि अद्भुतम् अस्ति । अस्य नगरस्य प्राकृतिकदृश्यानि मनोहराणि भवन्ति । उच्चशिखराणि, पर्वताः, मेघाः, वनानि, नद्यः च अस्य नगरस्य प्राकृतिकदृश्यानि सन्ति । कोहिमा-मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । कोहिमा-प्राणीसङ्ग्रहालयः, राज्य-सङ्ग्रहालयः, चुफु-शिखरं च इत्यादीनि अस्य मण्डलस्य पर्यटनस्थलानि सन्ति । दझुलेकि-जलप्रपातः अपि कोहिमा-नगरस्य समीपस्थं स्थलम् अस्ति । कोहिमा-नगरे एकम् ईसाई-उपासनागृहम् (चर्च्) अस्ति । इदं भारतस्य ईसाई-उपासनागृहेषु बृहत्तमं, सुन्दरं च अस्ति । अस्य नगरस्य जनाः पर्यटकानां हृदयपूर्वकं स्वागतं कुर्वन्ति । अस्य नगरस्य नागा-जनेभ्यः भोजने मांसं, मत्स्यः च रोचते । नागालैण्ड-राज्यं सम्पूर्णे भारते संस्कृतयै प्रसिद्धम् अस्ति । अस्य नगरस्य नागा-जनानां संस्कृतिः अपि भिन्ना भवति । मृतजानां केशैः, विहगानां पक्षैः, गजदन्तैः च तेषां वस्त्राणि निर्मितानि भवन्ति । अस्य स्थलस्य पर्यटनाय सर्वकारस्य अनुमतिः आवश्यकी भवति । कोलकाता-नगरे, गुवाहाटी-नगरे, शिलाङ्ग-नगरे च अस्य कार्यालयाः सन्ति । तेभ्यः कार्यालयेभ्यः अनुमतिं प्राप्य जनाः अस्य मण्डलस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्नुवन्ति ।

कोहिमा-नगरं ३९ क्रमाङ्कस्य, ३७ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । एताभ्यां राजमार्गाभ्याम् इदं नगरं नागालैण्ड-राज्यस्य, असम-राज्यस्य च विभिन्ननगरैः सह सरलतया सम्बद्धम् अस्ति ।  कोहिमा-नगरात् गुवाहाटी-नगरं ३४५ किलोमीटरमिते दूरे स्थितम् अस्ति । कोहिमा-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं कोहिमा-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोहिमा-नगरात् दीमापुर-नगरं ७५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । कोहिमा-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं कोहिमा-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । कोहिमा-नगरात् दीमापुर-विमानस्थानकं ६८ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा कोहिमा-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया कोहिमा-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।

दीमापुर-नगरं नागालैण्ड-राज्यस्य दीमापुर-मण्डलस्य केन्द्रं विद्यते । नगरमिदम् उत्तर-पूर्वदिशः विकासशीलनगरेषु अन्यतमम् अस्ति । पुरा इदं नगरं दीमासास-साम्राज्यस्य राजधानी आसीत् । इदं नगरं नागालैण्ड-राज्यस्य प्रवेशद्वारम् अस्ति । साम्प्रतम् इदं नागालैण्ड-राज्यस्य राजधानी नास्ति । तथापि अत्र सर्वसौकर्याणि प्राप्यन्ते । दिमासा-शब्दात् दीमापुर-शब्दस्य उत्पत्तिर्जाता । दी अर्थात् जलं, मा अर्थात् विशालं च इत्यर्थः बोध्यते । बृहद्नद्याः तटे स्थितम् अस्ति इदं नगरम् । पुरा धनसिरि-नदी अत्र प्रवहति स्म । दीमापुर-नगरस्य इतिहासः अपि पुरातनम् अस्ति । दीमापुरस्य समीपे पुरावशेषाः प्राप्ताः । तैः अवशेषैः ज्ञायते यत् – “दिमासाम्राज्यं समीपस्थेषु क्षेत्रेषु स्थितम् आसीत् । नगरेऽस्मिन् मन्दिराणि, तटानि, तटबन्धाः इत्यादयः प्राप्यन्ते । दिमामास-जनाः अनार्याः आसन् । पुरा प्राचीनादिवासिनः शासनं कुर्वन्ति स्म । आधुनिकेतिहासे अपि दीमापुर-नगरस्य महद्योगदानम् अस्ति । द्वितीयविश्वयुद्धस्य समये इदं नगरं प्रशासनिकं केन्द्रम् आसीत् ।

दीमापुर-मण्डलं नागालैण्ड-राज्यस्य पश्चिमभागे स्थितम् अस्ति । अस्य मण्डलस्य दक्षिण-पूर्वदिशि कोहिमा-मण्डलं, पश्चिमदिशि असम-राज्यस्य कार्बी-आङ्गलोङ्ग-मण्डलम्, उत्तरदिशि असम-राज्यस्य गोलाघाट-मण्डलं च स्थितम् अस्ति । नागालैण्ड-राज्ये केवलं दीमापुर-नगरे एव रेलपरिवहनं, वायुपरिवहनं च अस्ति । “नागा” नामकानि हस्तनिर्मितानि वस्तूनि अस्मिन् राज्ये प्रसिद्धानि सन्ति । विश्वस्य बहवः जनाः इदं वस्तु धरन्ति । साम्प्रतम् अपि दीमापुर-नगरं हस्तनिर्मितेभ्यः वस्तुभ्यः भारते प्रसिद्धम् अस्ति । नगरेऽस्मिन् एकः सङ्ग्रहालयः अपि अस्ति । अस्मिन् सङ्ग्रहालये नागालैण्ड-राज्यस्य कलाकृतीनां सङ्ग्रहः अस्ति । नगरमिदम् ऐतिहासिकम् अस्ति । अतः अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । “दीज्फे-हस्तशिल्पग्रामः” हस्तनिर्मितवस्तूभ्यः नागालैण्ड-राज्ये प्रसिद्धम् अस्ति । “नागालैण्ड हैण्डलूम एण्ड् हैण्डीक्राफ्ट् डेवलपमेण्ट् कॉर्पोरेशन्” इत्यनया संस्थया अयं ग्रामः सञ्चालितः अस्ति । “राज्यस्य हस्तकलानां विकासः भवेत्” इति अस्य ग्रामस्य लक्ष्यम् अस्ति । हस्तकलायाः विविधाः प्रकाराः अस्मिन् ग्रामे दृश्यन्ते । “रङ्गापहाड रिजर्व् फॉरेस्ट्”, “चुमुकेदिमा”, “रुजाफेमा”, “ट्रिपल फॉल्स्” च इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । जनाः भ्रमणार्थं तत्र गच्छन्ति ।

दीमापुर-नगरं ३९ क्रमाङ्कस्य, ३६ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गः कोहिमा-नगरं, इम्फाल-नगरं, दीमापुर-नगरं च भारतस्य अन्यैः राज्यैः सह सञ्योजयति । नगरेऽस्मिन् नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । भूमार्गेण दीमापुर-नगरं सरलतया प्राप्यते । दीमापुर-नगरे नागालैण्ड-राज्यस्य एकाकि रेलस्थानकम् अस्ति । दीमापुर-रेलस्थानकात् गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय इत्यादिभिः भारतस्य विभिन्ननगरैः रेलयानानि प्राप्यन्ते । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । दीमापुर-नगरे एकं विमानस्थानकम् अपि अस्ति । नागालैण्ड-राज्यस्य एकाकी एव विमानस्थानकम् अस्ति । दीमापुर-विमानस्थानकात् गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । भारतस्य प्रमुखनगरैः सह इदं विमानस्थानकं सम्बद्धम् अस्ति । अनेन प्रकारेन दीमापुर-नगरं भूमार्गेण, धूमशकटामार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः जनाः सरलतया दीमापुर-नगरं प्राप्नुवन्ति ।

त्वेनसाङ्ग-नगरं नागालैण्ड-राज्यस्य त्वेनसाङ्ग-मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । ई. स. १९४७ तमे वर्षे “नॉर्थ् ईस्ट् फ्रण्टियर् एजेन्सी (NEFA)” इत्यनया संस्थया त्वेनसाङ्ग-नगरं स्थापितम् आसीत् । त्वेनसाङ्ग-मण्डलस्य पूर्वसीमा म्यान्मार-देशेन सह सम्बद्धा अस्ति । नगरमिदं नेफा (NEFA) इत्यस्याः संस्थायाः प्रशासनिकः मुख्यालयः आसीत् । ई. स. १९५७ तमे वर्षे त्वेनसाङ्ग-नगरं म्यान्मार-देशस्य, भारतस्य च भागः नासीत् । किन्तु यदा असम-राज्यम् अविभाजितम् आसीत्, तदा कोहिमा-मण्डले, मोकोकचुङ्ग-मण्डले त्वेनसाङ्ग-मण्डलस्य विलयः जातः । तस्मिन् समये इदं मण्डलम् औपचारिकत्वेन भारतीयक्षेत्रस्य भागः अभवत् । तस्मिन् काले त्वेनसाङ्ग-नगरं “नागाहिल्स्”-क्षेत्रस्य प्रशासनिकः मुख्यालयः आसीत् । अनन्तरम् ई. स. १९६३ तमे वर्षे त्वेनसाङ्ग-मण्डलं, कोहिमा-मण्डलं, मोकोकचुङ्ग-मण्डलम् एतैः त्रिभिः मण्डलैः नागालैण्ड-राज्यं सङ्घटितम् आसीत् ।

त्वेनसाङ्ग-नगरं समुद्रतलात् १३७१ मीटरमितम् उन्नतम् अस्ति । त्वेनसाङ्ग-नगरं “मिनी नागालैण्ड” अपि कथ्यते । यतः अस्मिन् नगरे बह्व्यः जनजातयः निवसन्ति । अतः सांस्कृतिकदृष्ट्या इदं नगरं समृद्धम् अस्ति । “चङ्ग्स”, “सङ्गताम”, “यिम्चुङ्गर”, “खिअम्निउन्गन” इत्यादयः अस्य नगरस्य प्रमुखाः जनजातयः सन्ति । इदं नगरं हस्तनिर्मितवस्तुभ्यः प्रसिद्धम् अस्ति । लोङ्ग्त्रोक, किफिर, पुन्ग्रो च इत्यादयः अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति ।

त्वेनसाङ्ग-नगरं १५५ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः त्वेनसाङ्ग-नगरं दीमापुर-नगरेण सह सञ्योजयति । नगरेऽस्मिन् सर्वकारप्रचालितानि बसयानानि प्राप्यन्ते । अतः जनाः त्वेनसाङ्ग-नगरस्य समीपस्थानि वीक्षणीयस्थलानि बसयानैः भ्रमन्ति । अमगुरी-रेलस्थानकं त्वेनसाङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । त्वेनसाङ्ग-नगरात् अमगुरी-नगरं ६५ किलोमीटरमिते दूरे स्थितम् अस्ति । अमगुरी-रेलस्थानकात् बसयानैः, भाटकयानैः वा त्वेनसाङ्ग-नगरं प्राप्यते । मरियानी-रेलस्थानकम् अपि समीपे एव वर्तते । दीमापुर-नगरस्य विमानस्थानकं त्वेनसाङ्ग-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । जोरहाट-नगरस्य विमानस्थानकम् अपि समीपे एव स्थितम् अस्ति । जोरहाट-विमानस्थानकं त्वेनसाङ्ग-नगरात् ११३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कोलकाता-नगराय, गुवाहाटी-नगराय, देहली-नगराय च अस्मात् विमानस्थाकात् वायुयानानि प्राप्यन्ते । अतः जनाः सरलतया त्वेनसाङ्ग-नगरं प्राप्तुं शक्नुवन्ति ।

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं नागालैण्ड-राज्यस्य साक्षरतामानं ७९.९९ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८३.२९ प्रतिशतं, स्त्रीणां च ७६.६९ प्रतिशतम् अस्ति । ई. स. १९७८ तमे वर्षे नागालैण्ड-राज्यस्य कोहिमा-नगरे एकस्य विश्वविद्यालयस्य स्थापना कृता । ई. स. १९९४ तमे वर्षे नागालैण्ड-विश्वविद्यालयः अपि स्थापितः ।

नागान्याण्ड्राज्यस्य एकैकस्य वनवासिगणस्य अपि विशिष्टा भाषा विद्यते । सिनो-टिबेटन्कुटुम्बे अन्तर्भूताः ६० विविधाः भाषाः अत्र विद्यन्ते । एतासां भाषाणां लिपिः न विद्यते । रोमन्लिप्या एताः लिख्यन्ते । १९६७ तमे वर्षे राज्यसर्वकारेण आङ्ग्लभाषा अधिकृतभाषात्वेन अङ्गीकृता । अत्रत्य शिक्षणमाध्यमम् अस्ति आङ्ग्लभाषा। नागमीस्भाषा आधिक्येन उपयुज्यते । प्रतिवनवासिगणः परस्परं मातृभाषया अन्यगणीयैः सह नागामीस्भाषया च भाषन्ते। किन्तु इयं भाषा कस्यापि गणस्य मातृभाषा न, लिपियुक्ता अपि न।

राज्यपालः राष्ट्रपतेः प्रतिनिधिः सन् राज्यस्य नायकः । शासनसम्बद्धैः दायित्वैः सह तस्य अनुष्ठानिकदायित्वानि भवन्ति । विधानसभायां ६० जनाः विद्यन्ते । ते एव कार्यनिर्वाहकाः चिताः सदस्याः । एतेषां प्रमुखः मुख्यमन्त्री । नागाल्याण्ड्राज्याय  विशिष्टं स्वातन्त्र्यम् अधिकाराः दत्ताः सन्ति । अत्रत्याः नागावनवासिनः स्वीया न्यायनिर्णयादिव्यवस्थां रक्षितवन्तः । तत्र विभिन्नेषु स्तरेषु स्थानीयाः विवादाः परिह्रीयन्ते ।

नागालैण्ड-राज्ये एकसदनात्मकं विधानमण्डलं विद्यते । राज्येऽस्मिन् विधानसभायाः ६० स्थानानि सन्ति । नागालैण्ड-राज्ये लोकसभायाः २ स्थाने, राज्यसभायाः च १ स्थानकम् एव अस्ति । ई. स. १९६९ तमे वर्षे इदम् राज्यं विशेषराज्यत्वेन उद्घोषितम् आसीत् । “नागालैण्ड पीपुल्स् फ्रण्ट्”, “नेशनलिस्ट् डेमोक्रेटिक् मूवमेण्ट्”, “जनता दल”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी” इत्यादयः नागालैण्ड-राज्यस्य राजनैतिकसमूहाः सन्ति । “पी. शीलु. आओ” इत्याख्यः नागालैण्ड-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् ।

नागालैण्ड-राज्यस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ७० प्रतिशतं जनाः कृषिकार्यं कुर्वन्ति । अस्मिन् प्रदेशे “झूम-कृषिः” अधिकमात्रायां क्रियते । तण्डुलाः अस्य राज्यस्य प्रमुखं सस्यम् अस्ति । अस्य राज्यस्य जलवायुः उष्णः आर्द्रश्च भवति । गोधूमः, लवेटिका च इत्यादयः अपि प्रमुखाणि सस्यानि सन्ति । कदलीफलं, नारङ्गफलं च इत्यादीनि फलानि उत्पाद्यन्ते । अस्य राज्यस्य प्रायः सर्वेषु ग्रामेषु विद्युत्सौकर्यं सम्प्राप्तम् अस्ति । औद्योगिकदृष्ट्या इदं राज्यम् अविकसितम् अस्ति । यद्यपि अस्मिन् प्रदेशे कर्गजोद्योगः विकसितः अस्ति । अस्मिन् राज्ये कौशेयोद्योगः अपि प्रचलति । अस्मिन् राज्ये लघूद्योगेषु हस्तनिर्मितानि वस्तूनि प्रसिद्धानि सन्ति ।

नागाल्याण्ड्राज्यं सस्यसम्पत्या युक्तं वर्तते । राज्यस्य षष्ठांशः घानारण्येन युक्तः वर्तते यत्र तालवृक्षः, वंशवृक्षः, वेतसवृक्षः, दारुवृक्षः च विद्यन्ते । गजाः, चित्रकाः, विविधजातीयाः वानराः, वृषभाः, महिष्यः च अत्र विद्यन्ते । भारतीयः चातकपक्षी अत्र दृश्यमानेषु प्रसिद्धपक्षिषु अन्यतमः। 'ब्रित्स् ट्रगोपन्' इत्येषः पक्षी राज्यपक्षी वर्तते। अयं पक्षी कोहिमामण्डलस्य जप्तु-झुकु-पर्वतयोः उपत्यकासु, जुन्हेबोटोमण्डलस्य् सटोप्रदेशे, फेक्मण्डले फुसेरोप्रदेशे च दृश्यते ।

नागल्याण्ड्राज्यस्य १६ वनवासिगणाः - अङ्गमि, ओ, छखेसङ्ग्, चाङ्ग्, खियम्नियुङ्गन्, कोन्याक्, लोथा, फोम्, पोचुरि, रेङ्ग्मा, सङ्ग्तम्, सुमि, यिम्चुङ्गर्, कुकि झिलियाङ्ग् च । वयनम् अत्रत्यानां साम्प्रदायिकी कला । एकैकस्य वनवासिगणस्य च विशिष्टः विन्यासः वर्णाश्च भवन्ति । तैः राङ्कवः, स्कन्दस्यूतः, उत्पीठिका-आवरणिका, काष्ठकृतिः , वंशिकला , आलङ्कारिकाणि वस्तूनि च निर्मीयन्ते । बहुषु वनवासिगणेषु तैः ध्रियमाणस्य राङ्कवस्य विन्यासः तेषां सामाजिकं स्तरं द्योतयति । जनपदगानं नृत्यञ्च नागासंस्कृतेः प्रमुखः भागः। जनपदकथानां गीतानां च द्वारा मौखिकीपद्धतिः रक्षिता अस्ति । नागाजनपदगीतानि शृङ्गारात्मकानि ऐतिहासिकानि च भवन्ति यत्र पूर्वजानां कथाः जीवनघटनाश्च भवन्ति । युद्धनृत्यानि अन्यानि च नागल्याण्ड्राज्यस्य प्रमुखः कलाप्रकारः । नागाल्याण्ड्वनवासिनः महता आनन्देन उत्साहेन च उत्सवान् आचरन्ति। ६०% जनाः कृषकाः इत्यतः उत्सवाः अपि कृषिसम्बन्धिनः । उत्सवाः पवित्राः अतः अनिवार्यतया एतेषु भागः वोढव्यः इति ते चिन्तयन्ति । एकैकोपि गणः स्वीयान् उत्सवान् श्रद्धया निष्ठया च आचरति इत्यनेन इदम् उत्सवराज्यं मन्यते। अत्र आचर्यमाणाः प्रमुखाः उत्सवाः सन्ति - जनवरिमासे चाकेसाङ्ग्स्जनैः आचर्यमाणः सुखेन्यी, कुकिभिः आचर्यमाणः मिङ्कुत्, कचरिभिः आचर्यमाणः बुषु, अङ्गमिभिः आचर्यमाणः सेकेन्यी, ओलिङ्ग्, मोत्सु, तुलुनि, न्यक्न्य्लुम्, माङ्ग्माङ्ग्, तोखु एमाङ्ग्, येम्शे इत्यादयः।

अयम् उत्सवः नागाल्याण्ड्सर्वकारेण डिसेम्बर् २००० तमे वर्षे आरब्धः। वनवासिगणानां परस्परस्नेहसम्बन्धः वर्धनीयः, राज्यस्य सांस्कृतिकी परम्परा रक्षणीया च इति धिया । अयम् उत्सवः डिसेम्बर्मासस्य १ तः ७ दिनाङ्केषु भवति । प्रवासोद्यम-कला-संस्कृतिविभागाः च अस्य आयोजनं कुर्वन्ति । तदा सांस्कृतिकप्रदर्शनानि एकस्मिन् छदि उपस्थाप्यन्ते । सप्ताहात्मकः अयम् उत्सवः कोहिमातः १२ कि मी दूरे स्थिते नागासाम्प्रदायिकग्रामे किसमायां प्रचलति । सर्वे वनवासिगणाः अस्मिन् भागं वहन्ति । उत्सवस्य लक्ष्यमस्ति यत् नागाल्याण्ड्राज्यस्य वैभवयुतसंस्कृतेः प्रदर्शनं रक्षणञ्च । हार्न्बिल्नाम्ना उत्सवः नामाङ्कितः यस्मिन् विषये सर्वेषु वनवासिगणेषु जनपदकथाः श्रूयन्ते । साप्ताहिके अस्मिन् उत्सवे सर्वे एकत्र मिलिताः भवन्ति । कला, क्रीडा, आहारः, मेला, गृहवैद्यम्, पुष्पप्रदर्शनम्, गीतम्, नृत्यम् इत्यादिषु सर्वे विनोदम् अनुभवन्ति । साम्प्रदायिकाः कलाः चित्रकला, काष्ठकृतिः इत्यादयः प्रदर्श्यन्ते । विविधाः साहसस्पर्धाः, साहित्यकूटम्, वाहनस्पर्धाश्च आयोज्यन्ते।

नागाल्याण्ड्राज्ये क्रिश्चियन्मतम् आधिक्येन विद्यते । जनसङ्ख्यायां ९०.०२% जनाः क्रैस्ताः एव । क्रिस्तमन्दिरगन्तॄणां सङ्ख्या अपि अत्यधिका विद्यते ग्रामेषु नगरेषु च । कोहिमा, दीमापुर, मोकोचङ्ग्प्रदेशेषु महाक्रिस्तमन्दिराणि विद्यन्ते । भारतस्य त्रिषु क्रैस्तजनसङ्ख्याधिकएषु राज्येषु अन्यतमम् वर्तते इदम्।

नागालैण्ड-राज्यं भारतस्य पूर्वदिशि स्थितम् अस्ति । राज्यमिदम् अत्यन्तं सुन्दरं दृश्यते । अस्य राज्यस्य वातावरणं शान्तं, सुखदं, स्वच्छं, प्राकृतिकं च वर्तते । अस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । कोहिमा-नगरस्य सङ्ग्रहालयः, जपकू, पीक, माता सीमिवयाङ्ग, वॉर सीमेट्री, मध्यकालीनस्य कचारी-राज्यस्य अवशेषाः, दीमापुरं, चुमुकेडीमा इत्यादीनि अस्य राज्यस्य पर्यटनस्थलानि सन्ति । कोहिमा-मण्डलस्य इनटानकी-राष्ट्रियोद्यानम् अपि आकर्षणस्य केन्द्रं विद्यते ।

मोकोकचुङ्ग-नगरं नागालैण्ड-राज्यस्य मोकोकचुङ्ग-मण्डलस्य मुख्यालयः अस्ति । अस्मिन् नगरे एओ-प्रजातिः निवसन्ति । इदं नगरं सांस्कृतिकदृष्ट्या, बौद्धिकदृष्ट्या च राज्ये प्रसिद्धम् अस्ति । इदं नगरं समुद्रतलात् १३२५ मीटरमितम् उन्नतम् अस्ति । नगरस्य समीपे बहवः जलप्रपाताः, पर्वताश्च सन्ति । मोकोकचुङ्ग-नगरस्य जनाः “क्रिसमस्”, नूतनवर्षं, “मोत्सू” इत्यादयः उत्सवाः आचरन्ति । तेषु मोत्सू-उत्सवः एओ-जातेः प्रमुखोत्सवः मन्यते । अस्य उत्सवस्य प्रमुखं केन्द्रं चुचुयिमलाङ्ग-ग्रामः अस्ति । अयं ग्रामः मोकोकचुङ्ग-नगरस्य समीपे एव अस्ति । अयम् उत्सवः मई-मासस्य प्रथमे सप्ताहे आचर्यते । उत्सवेऽस्मिन् एओ-जनाः सम्मिलन्ति । अस्मिन् नगरे ईसाईधर्मस्य प्रामुख्यं वर्तते । अस्मिन् नगरे ९५ प्रतिशतं जनाः ईसाई-धर्मम् आचरन्ति ।

मोकोकचुङ्ग-नगरं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः मोकोकचुङ्ग-नगरं कोहिमा-नगरेण, वोखा-नगरेण, चाङ्गटोङ्ग्या-नगरेण, तुली-नगरेण च सह सञ्योजयति । नागालैण्ड-राज्यस्य सर्वकारेण पर्यटकाणां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अस्मिन् नगरे रेलस्थानकं नास्ति । असम-राज्यस्य मरियानी-रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं समीपस्थराज्यानां प्रमुखनगरैः सह सम्बद्धम् अस्ति । मरियानी-नगरात् मोकोकचुङ्ग-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । दीमापुर-नगरस्य विमानस्थानकं, असम-राज्यस्य जोरहट-नगरस्य विमानस्थानकं च मोकोकचुङ्ग-नगरस्य समीपस्थे विमानस्थानके स्तः । मोकोकचुङ्ग-नगरात् दीमापुर-नगरं २१२ किलोमीटरमिते, जोरहट-नगरं १०५ किलोमीटरमिते च दूरे स्थितम् अस्ति । एते विमानस्थानके गुवाहाटी-नगरेण, कोलकाता-नगरेण च सह सम्बद्धम् अस्ति । भारतस्य प्रमुख-नगरेभ्यः अपि वायुयानानि प्राप्यन्ते । अनेन प्रकारेण मोकोकचुङ्ग-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति । जनाः सरलतया मोकोकचुङ्ग-नगरस्य भ्रमणं कर्तुं शक्नुवन्ति ।

पेरेन-नगरं नागालेण्ड-राज्यस्य पेरेन-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं वनेभ्यः प्रसिद्धम् अस्ति । यतः अस्य मण्डलस्य वनानि जनरहितानि सन्ति । आदिवासिनः एतेषां वनानां संरक्षणं कुर्वन्ति । अस्य मण्डलस्य पश्चिमदिशि असम-राज्यं, पूर्वदिशि कोहिमा-मण्डलं, दक्षिणदिशि मणिपुर-राज्यं च स्थितम् अस्ति । स्थलमिदं प्राकृतिकं वर्तते । पेरेन-नगरं पर्वते स्थितम् अस्ति । अतः पेरेन-नगरात् असम-राज्यस्य, मणिपुर-राज्यस्य च दृश्यं दृश्यते । इदं मण्डलं बरेल-पर्वतशृङ्खलायाः कस्मिँश्चिद्भागे  स्थितम् अस्ति । अस्मिन् मण्डले विविधाः वनस्पतयः, नद्यः, पर्वताः सन्ति । विहगाः, पशवः च अपि बहवः सन्ति । वनेषु ईक्षुवृक्षाः अधिकमात्रायां प्राप्यन्ते । एतेषु वनेषु विविधाः वृक्षाः दृश्यन्ते । मण्डलेऽस्मिन् खानिजाः अपि प्राप्यन्ते । किन्तु अधिकमात्रायां तेषां खानिजानाम् उत्पादनं न क्रियते । अस्मिन् मण्डले बहूनि पर्यटनस्थलानि सन्ति । “नताङ्गकी-राष्ट्रियोद्यानं”, “माउण्ट् पाओना”, “माउण्ट् कीसा”, “बेनरुइ”, “पुइलवा-ग्रामस्य गुहाः” च इत्यादीनि पेरेन-मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति ।

पेरेन-मण्डले जीलिङ्ग्स-जनजातिः निवसति । अस्याः जनजातेः उद्भवः मणिपुर-राज्यस्य सेनापति-मण्डले नकुइलवाङ्गदी-स्थले अभवत् । इयं जनजातिः “काचा नागा” इति नाम्ना ज्ञायते । ते कृषिं कुर्वन्ति । पेरेन-मण्डलस्य जलवायुः शान्तः, मृत्तिका उर्वरा च अस्ति । अतः इदं मण्डलं नागालैण्ड-राज्यस्य कृषिकार्ये उत्तमं मण्डलम् अस्ति । जीलिङ्ग्स-जनजातेः कलाकृतिः, नृत्यं, सङ्गीतं च भिन्नम् अस्ति । अतः इयं जनजातिः नागालैण्ड-राज्यस्य महत्त्वपूर्णा जनजातिः मन्यते । अस्मिन् राज्ये “मिशनरी-इन्स्टीट्यूट्” इतीयं संस्था स्थिता अस्ति । यदा आङ्ग्लानाम् आगमनम् अभवत् तदैव इयं संस्था अपि आरब्धा । अनया संस्थया अस्य राज्यस्य संस्कृतिः, जीवनशैली च प्रभाविता जाता । अस्मिन् मण्डले बहवः उत्सवाः आचर्यन्ते । “मिमकुट”, “चेगा गादी” “हेवा” इत्यादयः अस्य मण्डलस्य प्रमुखाः उत्सवाः सन्ति । एते सर्वे सस्योत्सवाः सन्ति । एवं च क्रिसमस्-उत्सवः पेरेन-मण्डलस्य जनानां मुख्योत्सवः अस्ति ।

अस्मिन् मण्डले भ्रमणं कर्तुम् अनुमतिः आवश्यकी भवति । देहली-नगरे, कोलकाता-नगरे, गुवाहाटी-नगरे अस्य अनुमतिं प्राप्तुं कार्यालयाः स्थिताः सन्ति । ततः सरलतया अनुमतिं प्राप्यते । ये वैदेशिकाः पर्यटकाः भवन्ति, तेभ्यः अनुमतेः आवश्यकता न भवति । तथापि तैः “फॉरेन् रजिस्ट्रार कार्यालये” पञ्जीकरणं करणीयम् भवति ।

पेरेन-मण्डले नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । अतः तैः बसयानैः पेरेन-मण्डलस्य भ्रमणं कर्तुं शक्यते । पर्यटकाः भाटकयानैः अपि पर्यटनं कुर्वन्ति । पेरेन-मण्डलस्य भूमार्गः समीपस्थैः मण्डलैः सह सम्बद्धः अस्ति । दीमापुर-नगरस्य रेलस्थानकम् पेरेन-मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । दीमापुर-नगरात् पेरेन-नगरं ७७ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-रेलस्थानकात् देहली-महानगराय, कोलकाता-महानगराय, गुवाहाटी-नगराय इत्यादिभिः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । दीमापुर-रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । दीमापुर-रेलस्थानकात् पेरेन-नगरं बसयानैः, भाटकयानैः वा गन्तुं शक्यते । पेरेन-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं पेरेन-नगरस्य निकटतमम् विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् कोलकाता-नगराय, गुवाहाटी-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पेरेन-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया गन्तुं शक्यते । विदेशस्य, भारतस्य च विभिन्ननगरेभ्यः जनाः भ्रमणार्थं तत्र गच्छन्ति ।

किफिर-नगरं नागालैण्ड-राज्यस्य किफिर-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं नागालैण्ड-राज्यस्य आकर्षकं स्थलम् अस्ति । नगरमिदम् उच्चपर्वते स्थितम् अस्ति । अस्मात् नगरात् नागालैण्ड-राज्यस्य मनोहरं दृश्यं दृश्यते । ई. स. २००४ तमे वर्षे किफिर-मण्डलं सङ्घटितम् । इदं मण्डलं त्वेनसाङ्ग-मण्डलस्य कश्चन भागः अस्ति । इदं नागालैण्ड-राज्यस्य नवमं मण्डलम् अस्ति । अस्य मण्डलस्य उत्तरदिशि त्वेनसाङ्ग-मण्डलं, पूर्वदिशि म्यान्मार-देशः, पश्चिमदिशि फेक-मण्डलं च स्थितम् अस्ति । मण्डलेऽस्मिन् काश्चित् नागा-जनजातयः निवसन्ति । “यिमचुङ्गर्स”, “खियमनिनगन”, “फोम”, “सङमा”, “सुमि” इत्यादयः जनजातयः प्राप्यन्ते । किफिर-नगरस्य समीपे “सारामाटी-पर्वतः” स्थितः अस्ति । अयं पर्वतः समुद्रतलात् ३८४१ किलोमीटरमितः उन्नतः अस्ति । अयं पर्वतः नागालैण्ड-राज्यस्य उच्चतमं शिखरम् विद्यते । अयं पर्वतः सर्वदा हिमाच्छादितः भवति । अतः तेन अयं पर्वतः अत्यधिकः सुन्दरः दृश्यते । मन्यते यत् – “सारामाटी-पर्वतः किफिर-मण्डलस्य रक्षणं करोति” इति । किफिर-मण्डले पर्यटनाय बहूनि स्थलानि सन्ति । “फाकिम-वन्यजीवाभयारण्यं” “सलोमी-मिमी-गुहाः”, “लवर्स् पैराडाइज्” च इत्यादीनि किफिर-मण्डलस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । किफिर-नगरस्य समीपे सिमी-ग्रामः अस्ति । तस्मिन् ग्रामे ववाडॆ-जलप्रपातः अपि अस्ति । इतः परं सङ्गथम-स्थले प्राचीनजनजातिः निवसति । तत्र “निङ्ग्थसलाङ्ग” इति नामकः शिलालेखः स्थितः अस्ति । अनेन प्रकारेण जनाः भारतस्य विभिन्ननगरेभ्यः भ्रमणार्थं किफिर-मण्डलं गच्छन्ति । एवं च तत्र गत्वा आनन्दं प्राप्नुवन्ति ।

किफिर-नगरं १५५ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः किफिर-नगरं कोहिमा-नगरेण, मेलुरी-नगरेण, दीमापुर-नगरेण, मोकोचुङ्ग-नगरेण च सह सञ्योजयति । नागालैण्ड-नगरस्य सर्वकारेण नागरिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः किफिर-मण्डलं गन्तुं शक्यते । किफिर-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं किफिर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । किफिर-नगरात् दीमापुर-नगरं ३१२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः भाटकयानैः वा किफिर-नगरं प्राप्यते । दीमापुर-नगरस्य विमानस्थानकं किफिर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, देहली-नगराय च दीमापुर-विमानस्थानकात् नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेन पर्यटकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण वा सरलतया किफिर-मण्डलं प्राप्तुं शक्नुवन्ति ।

मोन-नगरं नागालैण्ड-राज्यस्य मोन-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । मोन-नगरं गत्वा जनाः प्रकृतौ लीनाः भवन्ति । इदं मण्डलं नागालैण्ड-राज्यस्य पूर्वोत्तदिशि स्थितम् अस्ति । अस्य मण्डलस्य उत्तरदिशि असमराज्यं, दक्षिणदिशि म्यान्मारदेशः, पश्चिमदिशि मोकोकचुङ्ग-मण्डलं, त्वेनसाङ्ग-मण्डलं च स्थितम् अस्ति । मोन-नगरं “सांस्कृतिकस्वर्गः” इति नाम्ना विख्यातम् अस्ति । मोन-मण्डलं “कोन्यक्षस्य भूमिः” इति नाम्ना ज्ञायते । “कोन्यक्ष” इतीयं टैटू-योद्धाजनजातिः अस्ति । अस्य मण्डलस्य जनाः साम्प्रतमपि पारम्परिकापरिधानानि धरन्ति । तेषु परिधानेषु कुण्डलानि, वस्त्राणि इत्यादीनि भारसहितानि भवन्ति । कोन्यक्ष-जनजातिः द्वयोः भागयोः विभक्ता अस्ति । थेण्डु, थेन्थु च । पुरा अस्याः जनजातेः जनानां मुखे त्वगुत्किरणं (Tatoo) भवति स्म । किन्तु साम्प्रतं ते मुखे त्वगुत्किरणं न कारयन्ति । थेण्डु-समूहस्य जनाः मण्डलस्य अधस्थले निवसन्ति । किन्तु थेन्थु-समूहस्य जनाः मण्डलस्य उच्चस्थले निवसन्ति । तत्स्थलं “टोबू” इति कथ्यते । थेण्डु-समूहस्य शासकाः “अङ्ग्स्” इति नाम्ना ज्ञायन्ते । कोन्यक्ष-जनजातेः जनाः अप्रैल-मासे “आओलेन्योग मोनयू” इति उत्सवम् आचरन्ति । उत्सवः अयं साप्ताहिकः भवति । अतः अप्रैल-मासे मोन-मण्डलं गन्तव्यम् ।

मोन-मण्डलं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः मोन-मण्डलं नागालैण्ड-राज्यस्य अन्यैः मण्डलैः सह सञ्योजयति । नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितैः बसयानैः मोन-मण्डस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्यते । असम-राज्यस्य लकवा-नगरस्य रेलस्थानकं मोन-नगरस्य निकटतमं रेलस्थानकम् अस्ति । मोन-नगरात् लकवा-रेलस्थानकं ७५ किलोमीटरमिते दूरे स्थितम् अस्ति । लकवा-रेलस्थानकं भारतस्य प्रमुख-नगरैः सह सम्बद्धम् अस्ति । मोन-नगरात् दीमापुर-रेलस्थानकं २५१ किलोमीटरमिते दूरे स्थितम् अस्ति । अतः दीमापुर-नगरादपि मोन-नगरं बसयानैः, भाटकयानैः वा प्राप्यते । मोन-नगरात् गुवाहाटी-विमानस्थानकम् ४२३ किलोमीटरमिते, जोरहाट-विमानस्थानकं ११९ किलोमीटरमिते दूरे, दीमापुर-विमानस्थानकं २५१ किलोमीटरमिते दूरे च स्थितम् अस्ति । एतानि विमानस्थानकानि भारतस्य प्रमुख-नगरैः सह सम्बद्धानि सन्ति ।  तेभ्यः विमानस्थानकेभ्यः बसयानैः मोन-नगरं प्राप्यते । अनेन प्रकारेन जनाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण वा सरलतया मोन-नगरं प्राप्तुं शक्नुवन्ति ।

वोखा-नगरं नागालैण्ड-राज्यस्य वोखा-मण्डलस्य मुख्यालयः विद्यते । वोखा-मण्डले लोथा-जनजातिः निवसति । इयं जनजातिः बृहत्तमासु जनजातीषु अन्यतमा अस्ति । इदं मण्डलं परितः पर्वताः सन्ति । तेन इदं मण्डलं रमणीयं दृश्यते । अतः एव इदं मण्डलं जनेषु लोकप्रियम् अस्ति । अस्य मण्डलस्य उत्तरदिशि मोकोकचुङ्ग-मण्डलं, पूर्वदिशि जुन्हेबोटो-मण्डलं, पश्चिमदिशि असम-राज्यं च स्थितम् अस्ति । लोथा-आदिवासिनः पर्यटकानां सोत्साहेन स्वागतं कुर्वन्ति । “तोखू”, “पिखुचक”, “ईमोङ्ग” इत्यादयः अस्य राज्यस्य प्रमुखोत्सवाः सन्ति । अस्मिन् उत्सवे स्थानीयनृत्यानि, सङ्गीतानि च भवन्ति ।  वोखा-मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । तीयी-पर्वतः, तोत्सु-शिखरं, दोयाङ्ग-नदी इत्यादीनि अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । नागालैण्ड-राज्ये प्रवेशाय पर्यटकैः अनुमतिः आवश्यकरूपेण स्वीकर्त्तव्या भवति । कोलकाता-नगरे, गुवाहाटी-नगरे, शिलाङ्ग-नगरे च अस्य कार्यालयाः अपि सन्ति ।

वोखा-मण्डलं ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः वोखा-नगरं दीमापुर-नगरेण सह सञ्योजयति । नागालैण्ड-राज्यस्य राजधानी कोहिमा-नगरं वोखा-नगरात् ७५ किलोमीटरमिते दूरे स्थितम् अस्ति । नागालैण्ड-राज्यस्य सर्वकारप्रचालितैः बसयानैः अपि वोखा-मण्डलं प्राप्यते । वोखा-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं वोखा-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । वोखा-नगरात् दीमापुर-नगरं १५७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । वोखा-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं वोखा-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । वोखा-नगरात् दीमापुर-विमानस्थानकं १६२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगराद् बसयानैः, भाटकयानैः वा वोखा-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया वोखा-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।

जुन्हेबोटो-नगरं नागालैण्ड-राज्यस्य जुन्हेबोटो-मण्डलस्य केन्द्रत्वेन विद्यते । इदं नगरं समुद्रतलात् १८०० किलोमीटरमितम् उन्नतम् अस्ति । अस्य मण्डलस्य पूर्वदिशि मोकोकचुङ्ग-मण्डलं, पश्चिमदिशि वोखा-मण्डलं च स्थितम् अस्ति । अस्मिन् मण्डले सूमी-जनजातिः निवसन्ति । अस्याः जनजातेः जनाः यौधकलासु निपुणाः भवन्ति । सूमि-जनैः उत्सवेषु विविधानि नृत्यानि, सङ्गीतानि च प्रस्तूयन्ते । सूमि-जनानां परिधानानि अपि भिन्नानि भवन्ति । “अहूना” इत्ययं सूमी-जनानां प्रमुखोत्सवः मन्यते । सूमि-जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । जनाः जुलाई-मासे जुन्हेबोटो-मण्डलं गच्छन्ति । तस्मिन् समये सूमि-आदिवासिनः जनाः उत्सवान् आचरन्ति । मण्डलेऽस्मिन् विहगाभयारण्यं, विशालवनानि च सन्ति । तिजु-नदी, दोयाङ्ग-नदी, सुथा-नदी इत्येताः जुन्हेबोटो-मण्डलस्य प्रमुखाः नद्यः सन्ति ।

जुन्हेबोटो-नगरं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । नागालैण्ड-सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । जुन्हेबोटो-नगरात् कोहिमा-नगरं १५२ किलोमीटरमिते, मोकोकचुङ्ग-नगरं ७० किलोमीटरमिते  च दूरे स्थितम् अस्ति । ताभ्यां नगराभ्यां बसयानैः जुन्हेबोटो-नगरं प्राप्यते । जुन्हेबोटो-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं जुन्हेबोटो-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । जुन्हेबोटो-नगरात् दीमापुर-नगरं २०७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । जुन्हेबोटो-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं जुन्हेबोटो-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । जुन्हेबोटो-नगरात् दीमापुर-विमानस्थानकं २१० किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा जुन्हेबोटो-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया जुन्हेबोटो-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।  

फेक-नगरं नागालैण्ड-राज्यस्य फेक-मण्डलस्य मुख्यालयः अस्ति । स्थलमिदं नागालैण्ड-राज्यस्य अज्ञातस्थलेषु अन्यतमम् अस्ति । ये समीपस्थाः जनाः भवन्ति, ते एव अस्य स्थलस्य विषये जानन्ति । अस्मिन् मण्डले पर्वताः, नद्यः, क्षेत्राणि च सन्ति । फेक-नगरे अत्यधिकं प्राकृतिकं सौन्दर्यं वर्तते । फेक-मण्डलं नागालैण्ड-राज्यस्य दक्षिणपूर्वभागे स्थितम् अस्ति । अस्य मण्डलस्य पूर्वदिशि म्यामार-देशः, दक्षिणदिशि मणिपुर-राज्यं, पश्चिमदिशि कोहिमामण्डलं, उत्तरदिशि जून्हेबोटो-मण्डलं, त्वेनसाङ्ग-मण्डलं च स्थितम् अस्ति । पुरा फेक-मण्डलं कोहिमा-मण्डलस्य कश्चनभागः आसीत् । इदं नगरं कोहिमा-नगरात् १४५ किलोमीटरमिते दूरे स्थितम् अस्ति । “चाकेसङ्ग”, “पोचुरी” इत्येते फेक-मण्डलस्य जाती स्तः । चाकेसङ्ग-जातेः विभागत्रयम् अस्ति । “चोकरी”, “खेज्हा”, “साङ्ग” च ।  अस्मिन् मण्डले तेंयिदी-भाषा, नागामीस-भाषा च व्यवह्रियते । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । तिजू-नदी, लान्ये-नदी, सेद्जु-नदी च । मण्डलेऽस्मिन् बहूनि वीक्षणीयस्थलानि सन्ति । “शिल्लोई”, “चिडा”, “जुदु-तडागः” इत्यादीनि अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । “खुथोन्ये”, “थुरिन्ये”, “तुर्हिन्ये”, “गुन्ये”, “तुखन्ये”, “सुखरुन्ये” इत्यादयः अस्य मण्डलस्य प्रमुखाः उत्सवाः सन्ति । जनाः उत्साहपूर्वकम् एतान् उत्सवान् आचरन्ति ।

फेक-नगरं भूमार्गेण कोहिमा-नगरेण, दीमापुर-नगरेण, जून्हेबोटो-नगरेण इत्यादिभिः नागालैण्ड-राज्यस्य नगरैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । तैः बसयानैः सरलतया फेक-नगरस्य समीपस्थानि वीक्षणीयस्थलानि गन्तुं शक्यन्ते । अस्मिन् मण्डले भाटकयानानि अपि प्रचलन्ति । फेक-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं फेक-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । फेक-नगरात् दीमापुर-नगरं ३७७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । फेक-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं फेक-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । फेक-नगरात् दीमापुर-विमानस्थानकं ३७२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा फेक-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया फेक-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।

लॉङ्गलेङ्ग-नगरं नागालैण्ड-राज्यस्य लॉङ्गलेङ्ग-मण्डलस्य मुख्यालयः अस्ति । ई. स. २००४ तमस्य वर्षस्य जनवरी-मासस्य २४ तमे दिनाङ्के (२४ जनवरी २००४) “लॉङ्गलेङ्ग” क्षेत्रं मण्डलत्वेन उद्घोषितम् । इदं मण्डलं समुद्रतलात् १०६६ मीटरमितम् उन्नम् अस्ति । अस्मिन् नगरे भ्रमणाय सर्वकारस्य अनुमतिः आवश्यकी भवति । लॉङ्गलेङ्ग-मण्डलं पर्वतीयक्षेत्रम् अस्ति । इदं क्षेत्रं नागालैण्ड-राज्यस्य उत्तरदिशि स्थितम् अस्ति । अस्मिन् मण्डले पर्यटकाः पर्वतारोहणाय अपि गच्छन्ति । स्थलमिदम् अत्यन्तं शान्तम् अस्ति । “फोम नागस” लॉङ्गलेङ्ग-मण्डलस्य जनजातिः अस्ति । एते जनाः मृत्पात्राणि निर्मान्ति । एते आदिवासिनः पाषाणकालीनाः सन्ति । एतेषु जनेषु बहुभिः जनैः ईसाई-धर्मः आचरितः । अस्य जनजातेः जनाः ग्रीष्मर्तोः स्वागतार्थं मोन्यु-उत्सवम् आचरन्ति । अयम् उत्सवः अप्रैल-मासे षड्दिनात्मकः आचर्यते । जनाः इमम् उत्सवं दृष्टुं लॉङ्गलेङ्ग-मण्डलं गच्छन्ति ।

लॉङ्गलेङ्ग-नगरं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः लॉङ्गलेङ्ग-नगरं नागालैण्ड-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितैः बसयानैः लॉङ्गलेङ्ग-नगरं गन्तुं शक्यते । लॉङ्गलेङ्ग-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं लॉङ्गलेङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । लॉङ्गलेङ्ग-नगरात् दीमापुर-नगरं ६४२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । लॉङ्गलेङ्ग-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं लॉङ्गलेङ्ग-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । लॉङ्गलेङ्ग-नगरात् दीमापुर-विमानस्थानकं ६४२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा लॉङ्गलेङ्ग-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया लॉङ्गलेङ्ग-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।

नागालैण्ड-राज्यस्य परिवहनं मुख्यत्वे भूमार्गेषु आधारितम् अस्ति । नागालैण्ड-राज्यस्य आहत्य मार्गाः ९,८६० किलोमीटरमिताः दीर्घाः सन्ति । एतेषु राष्ट्रियराजमार्गाः, प्रान्तीयराजमार्गाः, ग्राम्यमार्गाः च सम्मिलिताः सन्ति । अस्य राज्यस्य राष्ट्रियराजमार्गाः नागालैण्ड-राज्यं मणिपुर-राज्येन, असम-राज्येन च सह सञ्योजयति । नागालैण्ड-राज्यं गन्तुं भूमार्गः सर्वोत्तमः अस्ति ।

नागालैण्ड-राज्यं पर्वतीयक्षेत्रम् अस्ति । अतः अस्य राज्यस्य एकमेव रेलस्थानकं दीमापुर-नगरे अस्ति । दीमापुर-नगरम् असम-राज्येन सह श्रेष्ठतया सम्बद्धम् अस्ति । दीमापुर-नगरस्य रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । जनाः दीमापुर-नगरात् बसयानैः भाटकयानैः वा नागालैण्ड-राज्यस्य अन्यानि नगराणि गन्तुं शक्नुवन्ति ।

नागालैण्ड-राज्यस्य एकमात्रं विमानस्थानकम् अपि दीमापुर-नगरे एव अस्ति । अस्माद् विमानस्थानकात् गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । जनाः सरलतया दीमापुर-नगरं प्राप्नुवन्ति ।

अनेन प्रकारेण नागालैण्ड-राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्नराज्यैः सह सम्बद्धम् अस्ति ।




#Article 62: पञ्जाबराज्यम् (5914 words)


  
पञ्जाबराज्यम् (पञ्जाबी: ਪੰਜਾਬ) भारतस्य् किञ्चन राज्यम् । सिख्-मतस्य दशभिः गुरुभिः संस्थापितं राज्यम् एतत् पञ्जाब्-राज्यम् । एतत् राज्यम् इदानीन्तने पञ्जाब्-राज्ये एव आसीत् । महाराजस्य रणजित्-सिङ्गस्य शासनकाले काश्मीरं, पेशावरं, हरियाणा, हिमाचलप्रदेशः च अस्य राज्यस्य भागाः आसन् । ब्रिटिशैः सह निरन्तरं युद्धम् अस्य राज्यस्य अवनतेः मूलं कारणम् । ब्रिटिश्-शासनान्तर्गतेषु राज्येषु अन्तिमं राज्यम् एतत् । पञ्चानां नदीनां भूमिः इत्यतः पञ्जाब् इति कथ्यते ।

चंडीगढ़ (ਚੰਡੀਗੜ੍ਹ) पञ्जाबराज्ये अनेकानि निसर्गरमणीयानि सांस्कृतिकानि ऐतिहासिकानि धार्मिकानि च प्रेक्षणीयस्थानानि सन्ति । सिन्धूप्रपातसंस्कृतेः अवशेषस्थानं रुपारः सिक् जनानां पवित्रदेवालयः स्वर्णमन्दिरं सरोवराणां नगरम् अमृतसरः प्राचीनदुर्गयुक्तं भरिण्डानगरं शिल्पकलानामागरः कपूरथलम्, उद्याननगरमिति ख्यातं र्पाटयालानगरम्, राजधानी चण्डीगडः उद्यमनगरं लूधियाना इत्यादिनि मुख्यानि सन्ति ।

पञ्जाब-राज्यं हिन्दुघाटीसभ्यतया सम्बद्धम् अस्ति । भारतीयपुरातात्त्विकसर्वेक्षणानुसारं पञ्जाब-राज्ये हिन्दुघाटीसभ्यतया सम्बद्धानां नगराणाम् अवशेषाः प्राप्ताः । अस्मिन् सर्वेक्षणे हडप्पासभ्यतायाः, मोहनजोदडोसभ्यताया अपि अवशेषाः प्राप्ताः । किन्तु वर्तमानकाले इमे द्वे सभ्यते पाकिस्तान-देशे स्थिते स्तः । पञ्जाब-राज्यस्य वर्णनं महाभारते अपि प्राप्यते । ई. पू. ३२६ वर्षे सिकन्दर-राज्ञा पञ्जाब-राज्ये आक्रमणं कृतम् आसीत् । तेन पौरव-राजा पराजितः । समयान्तरे मौर्य-वंशस्य, शुङ्ग-वंशस्य, गुप्त-वंशस्य राजभिः अस्मिन् राज्ये आक्रमणानि कृतानि आसीत् । मध्यकाले अस्मिन् राज्ये मुस्लिम-शासकानां शासनम् आसीत् । “महमूद गजनवी” इत्याख्येन मुस्लिम-राज्ञा पञ्जाब-राज्ये आक्रमणं कृतम् आसीत् । अयं प्रथमः मुस्लिमशासकः आसीत् । ई. स. १२०० तमवर्षतः देहली-साम्राज्यस्याधीन्ये आसीत् । अष्टादशशताब्दीपर्यन्तम् इदं राज्यं मुगल-साम्राज्यस्य कश्चन भागः आसीत् । अफगान-शासकाः, मराठा-शासकाः, सिक्ख-शासकाः च अस्य राज्यस्य शासनाय युद्धम् अकुर्वन् । ई. स. १७६४ पर्यन्तं सिक्ख-शासकैः पञ्जाब्-राज्ये स्वस्य आधिपत्यं स्थापितम् । अस्य राज्यस्य विकासः अपि कृतः । ई. स. १८४९ तमे वर्षे अस्मिन् राज्ये “ईस्ट् इण्डिया कम्पनी” अस्याः संस्थायाः आधिपत्यम् अभवत् । ई. स. १९३७ तमे वर्षे इदं राज्यं ब्रिटिश्-साम्राज्यस्य प्रान्तत्वेन स्थितम् आसीत् । स्वातन्त्र्यानन्तरं पञ्जाब-राज्यस्य विभाजनं कृतम् । अस्य राज्यस्य कश्चन भागः पाकिस्तान-देशे विलीनः जातः । अपरः भागश्च भारतदेशे अस्ति । ई. स. १९६६ तमस्य वर्षस्य नवम्बर-मासस्य १ दिनाङ्के (१ नवम्बर १९६६) पञ्जाब-राज्यस्य पुनर्गठितम् ।

प्राकृतिकरूपेण पञ्जाब-राज्यं त्रिषु भागेषु विभक्तम् अस्ति । प्रथमः शिवालिकक्षेत्रं, द्वितीयः थार-मरुभूमिः, तृतीयः च उर्वरक्षेत्रम् । अस्य राज्यस्य पश्चिमदिशि पाकिस्तान-देशस्य अन्ताराष्ट्रियसीमा अस्ति । अस्य राज्यस्य उत्तरदिशि जम्मू-काश्मीर-राज्यं, दक्षिणदिशि हरियाणा-राज्यं, राजस्थान-राज्यं च, पूर्वोत्तरदिशि हिमाचलप्रदेश-राज्यं च स्थितम् अस्ति । रावी-नदी, ब्यास-नदी, सतलुज-नदी, सिन्धु-नदी, घग्घर-नदी च अस्य राज्यस्य प्रमुखाः नद्यः सन्ति ।

अस्य राज्यस्य जलवायुः उपोष्णकटिबन्धीयः भवति । पञ्जाब-राज्ये प्रमुखाः त्रयः ऋतवः सन्ति । तासु अप्रैल-मासतः जून-मासपर्यन्तं ग्रीष्मर्तुः भवति । अस्मिन् ऋतौ अस्य राज्यस्य तापमानं प्रायः ४५ डिग्रीसेल्सियस् मात्रात्मकं भवति । जुलाई-मासतः सितम्बर-मासपर्यन्तं वर्षर्तुः भवति । अस्मिन् ऋतौ उपपर्वतीयक्षेत्रेषु ९६० मिलिमीटरमिता, अन्यक्षेत्रेषु ५८० मिलिमीटरमिता च वर्षा भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं शीतर्तुः भवति । अस्मिन् ऋतौ अस्य नगरस्य तापमानं प्रायः ४ डिग्रीसेल्सियसमात्रात्मकं भवति ।

पञ्जाबराज्ये आहत्य द्वाविंशतिः मण्डलानि सन्ति ।

पञ्जाब-राज्ये मुख्यानि त्रीणि महानगराणि सन्ति । तानि – अमृतसर-नगरं, लुधियाना-नगरं, पटियाला-नगरं च । एतानि अस्य राज्यस्य बृहत्तमानि नगराणि सन्ति ।

अमृतसर-नगरं भारतस्य पञ्जाब-राज्यस्य अमृतसर-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं सिक्खधर्मस्य आध्यात्मिकं सांस्कृतिकं च केन्द्रं वर्तते । भारतस्य उत्तर-पश्चिमभागस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति इदं नगरम् । षोडशशताब्द्यां “रामदासः” इत्याख्येन चतुर्थसिक्खगुरुणा इदं नगरं स्थापितम् आसीत् । अस्मिन् नगरे अमृतसरोवरः स्थितः अस्ति । अतः एव अस्य नगरस्य नाम “अमृतसर” इति अभवत् । ई. स. १६०१ तमे वर्षे रामदासस्य उत्तराधिकारिणा अर्जुनदेवेन अमृतसर-नगरस्य विकासः कृतः । रामदासेन तत्र एकस्य मन्दिरस्य निर्माणकार्यम् आरब्धम् आसीत् । अनन्तरम् अर्जुनदेवेन तस्य मन्दिरस्य निर्माणकार्यं समापितम् । ई. स. १९४७ तमस्य वर्षस्य विभाजनात् पूर्वम् अमृतसर-नगरम् अविभाजितस्य पञ्जाब-राज्यस्य व्यापारिकं केन्द्रम् आसीत् । किन्तु विभाजनानन्तरम् अमृतसर-नगरं पाकिस्तान-भारतयोः सीमायां स्थितम् अस्ति । अमृतसर-नगरे बहूनि सिक्खधर्मस्य उपासनागृहाणि सन्ति । तेषु “हरमन्दिर साहिब” महत्त्वपूर्णम् अस्ति । इदं “स्वर्णमन्दिरम्” इति नाम्ना सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । “बिबेकसर साहिब”, “बाबा अटल साहिब”, “रामसर साहिब”, “सन्तोखसर साहिब” च अस्य नगरस्य अन्यानि पर्यटनस्थलानि सन्ति । अमृतसर-नगरे हिन्दुधर्मस्य मन्दिराणि अपि सन्ति । दुर्गियाना-मन्दिरं, मातालालदेवीमन्दिरं, इस्कॉन्-मन्दिरं, हनुमन्-मन्दिरं, रामतीर्थमन्दिरम् इत्यादीनि हिन्दुधर्मस्य स्थलानि सन्ति ।

ई. स. १९१९ तमे वर्षे अस्मिन् नगरे एका दुर्घटना जाता । सा दुर्घटना पौनःपुन्येन स्मरणीया भवति । सा अतीव दुःखदः दुर्घटना आसीत् । इयं घटना अमृतसर-नगरस्य “जलियांवाला बाग” इत्यस्मिन् स्थले अभवत् । तदा बहवः क्रान्तिकारिणः हुतात्मनः अभवन् । तेषां स्मारकाणि अपि तत्र निर्मापितानि सन्ति । एतादृशानि बहूनि ऐतिहासिकानि स्थलानि तत्र स्थितानि सन्ति । भारत-पाकिस्तानयोः सीमारेखायाम् आरक्षकालयः स्थितः अस्ति । सा रेखा “वाघा-सीमारेखा” (Wagah Border बॉर्डर्) इति नाम्ना विख्याता अस्ति । तत्र प्रतिदिनं सैनिकैः पदसञ्चलनं क्रियते । तत्पदसञ्चलनं दर्शनीयं भवति । बहवः जनाः तत्र दृष्टुं गच्छन्ति । अमृतसर-नगरस्य वातावरणम् आवर्षं सामान्यम् एव भवति । किन्तु अक्टूबर-मासतः मार्च-मासपर्यन्तं वातावरणम् उत्तमम् भवति ।

अमृतसर-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं मार्गः “ग्रेण्ड ट्रङ्क रोड” इति नाम्ना अपि ज्ञायते । अयं राष्ट्रियराजमार्गः अमृतसर-नगरं भारतस्य विभिन्नराज्यैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अमृतसर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । अमृतसर-नगरात् देहली-नगराय, चण्डीगढ-नगराय जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् अपि अस्ति । इदं श्रीगुरुरामदास-अन्ताराष्ट्रियविमानस्थकं कथ्यते । अमृतसर-नगरात् इदं ११ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण अमृतसर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया अमृतसर-नगरं प्राप्नुवन्ति ।

लुधियाना-नगरं पञ्जाब-राज्यस्य लुधियाना-मण्डलस्य मुख्यालयत्वेन् स्थितम् अस्ति । नगरमिदं सांस्कृतिककेन्द्रं विद्यते । ई. स. १४८० तमे वर्षे अस्य नगरस्य स्थापना कृता । लोधी-राजवंशस्य नाम्ना अस्य नगरस्य नाम “लुधियाना” इत्यभवत् । अस्य नगरस्य स्थानीयजनाः “लुधियानवी” इति नाम्ना ज्ञायन्ते । ते आगतानाम् अतिथीनां स्वागतं विशिष्टं कुर्वन्ति । अस्मिन् नगरे बहूनि धार्मिकस्थलानि, ऐतिहासिकस्थलानि च सन्ति । “गुरुद्वारा मञ्जी सहिब”, “गुरुनानकभवनम्”, “फिल्लौर-दुर्गः”, “महाराजा रज्जीत सिंह युद्धसङ्ग्रहालयः”, “गुरुनानक-क्रीडाङ्गनं” इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । एवं बहूनि उद्यानानि, प्राणीसङ्ग्रहालयाः च सन्ति । चण्डीगढ, कसौली, मेक्लोद्गज्ज, धरमशाला, शिमला, कुफरी इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्मिन् नगरे बहवः उत्सवाः आचर्यन्ते । पोष-मासस्य अन्तिमेषु दिनेषु लोहडी-उत्सवः आचर्यते । अस्मिन् उत्सवे भारतस्य विभिन्ननगरेभ्यः जनाः समगच्छन्ति । उत्सवेऽस्मिन् लोकनृत्यानि, क्रीडाः, लोकसङ्गीतानि इत्यादयः कार्यक्रमाः भवन्ति । शीतर्तौ अस्य नगरस्य वातावरणं सुखदं, शान्तं च भवति । फरवरी-मासतः अप्रैल-मासपर्यन्तं  जनाः सुखेन भ्रमणं कुर्वन्ति ।

लुधियाना-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः लुधियाना-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः लुधियाना-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । लुधियाना-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । लुधियाना-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । लुधियाना-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, जयपुर-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । लुधियाना-नगरे साहनेवाल-नामकं विमानस्थानकम् अस्ति । लुधियाना-नगरात् इदं विमानस्थानकं १२.३ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण लुधियाना-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया लुधियाना-नगरं प्राप्नुवन्ति ।

पटियाला-नगरं भारतस्य पञ्जाब-राज्यस्य पटियाला-मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । इदं पञ्जाब-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । समुद्रतलात् इदं नगरं २५० मीटरमितम् उन्नतम् अस्ति । “सरदार लखना”, “बाबा आला सिंह” इत्येताभ्याम् अस्य नगरस्य स्थापना कृता आसीत् । अनन्तरं राज्ञा नरेन्द्रसिंहेन इदं नगरं संरक्षितम् । अस्मिन् नगरे पञ्जाबी-भाषा व्यवह्रियते । हिन्दी-भाषा, आङ्ग्ल-भाषा च अपि अस्य नगरस्य अपरे व्यवहारिकभाषे स्तः । अस्य नगरस्य जनाः उत्सवान् सोत्साहेन आचरन्ति । “दीपावलिः”, “होलिका”, “विजया दशमी”, “गुरूपर्व”, वैशाखी पर्व” इत्यादयः अस्य नगरस्य प्रमुखाः उत्सवाः सन्ति । “पटियाला विरासत महोत्सवः” इत्ययम् उत्सवः अस्मिन् नगरे एव आचर्यते । प्रतिवर्षं फरवरी-मासे जनाः अस्योत्सवस्य आयोजनं कुर्वन्ति । अस्मिन् उत्सवे विभिन्ननगरेभ्यः जनाः अस्मिन् उत्सवे भागं वहन्ति । तत्र दशदिवसात्मकः हस्तकलायाः उत्सवः अपि भवति । पटियाला-नगरं “शास्त्रीयसङ्गीतस्य केन्द्रं” मन्यते । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । “शीश महल”, “बारादरी-उद्यानानि”, “किला अन्दरून”, “रङ्ग महल”, “मज्जी दि सराय”, “माल रोड”, “दरबार हॉल्” इत्यादीनि अस्य नगरस्य आकर्षणकेन्द्राणि विद्यन्ते । समाना”, “बनूर”, “सानौर” इत्येतानि अपि पटियाला-नगरस्य समीपस्थानि स्थलानि सन्ति । अस्य नगरस्य वस्त्राणि, आभूषणानि, खाद्यानि च सम्पूर्णे भारते प्रसिद्धानि सन्ति । पटियाला-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । तत्र ग्रीष्मर्तुः, वर्षर्तुः, शीतर्तुः इत्येते त्रयः ऋतवः भवन्ति । तेषु शीतर्तौ अस्य नगरस्य भ्रमणम् उत्तमम् । अक्टूबर-मासतः मार्च-मासपर्यन्तं भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति ।

पटियाला-नगरं १ क्रमाङ्कस्य, ६४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ पटियाला-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजतः । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः पटियाला-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । पटियाला-नगरात् लुधियाना-नगराय, देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । पटियाला-नगरात् देहली-नगरं २५० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । पटियाला-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । पटियाला-रेलस्थानकात् अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय, देहली-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । पटियाला-नगरे विमानस्थानकं नास्ति । चण्डीगढ-नगरस्य विमानस्थानकम् पटियाला-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । पटियाला-नगरात् इदं विमानस्थानकं ६३ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पटियाला-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया पटियाला-नगरं प्राप्नुवन्ति ।

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारम् अस्य राज्यस्य साक्षरतामानं ७७.४१ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८१.४८ प्रतिशतं, स्त्रीणां च साक्षरतामानं ७१.३४ प्रतिशतम् अस्ति । पञ्जाब-राज्ये बहूनि शैक्षणिकसंस्थनानि सन्ति । बठिण्डा-नगरे “सेण्ट्रल् युनिवर्सिटी ऑफ् पञ्जाब”, चण्डीगढ-नगरे “पञ्जाब युनिर्वसिटी”, फरीदकोट-नगरे “बाबा फरीद युनिवर्सिटी ऑफ् हेल्थ् सायन्स्”, अमृतसर-नगरे “गुरुनानक देव युनिवर्सिटी”, लुधियाना-नगरे “पञ्जाब-कृषिविश्वविद्यालयः”, जालन्धर-नगरे “आई. के. गुजराल पञ्जाब टेक्नीकल् युनिवर्सिटी”, बठिण्डा-नगरे “महाराजा रणजीत सिंह स्टेट् टेक्निकल् युनिवर्सिटी”, पटियाला-नगरे “पञ्जाबी युनिवर्सिटी”, होशियारपुर-नगरे “गुरु रविदास आयुर्वेद युनिवर्सिटी”, लुधियाना-नगरे “गुरु अङ्गद देव वेटेरनरी एण्ड् एनिमल् सायन्स् युनिवर्सिटी”, पटियाला-नगरे “राजीव गान्धी नेशनल युनिवर्सिटी ऑफ् लॉ”, पटियाला-नगरे “थापर-युनिवर्सिटी” इत्यादीनि पञ्जाब-राज्यस्य शैक्षणिकसंस्थानानि सन्ति ।

पञ्जाब-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः ११७ स्थानानि सन्ति । पञ्जाब-राज्ये लोकसभायाः १३ स्थानानि, राज्यसभायाः ७ स्थानानि च सन्ति । “गोपीचन्द भार्गवः” अस्य राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “शिरोमणि अकाली दल” अयम् अस्य राज्यस्य प्रमुखः राजनैतिकसमूहः अस्ति । “भारतीय जनता पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्” च अस्य नगरस्य अन्यौ सक्रियौ समूहौ स्तः । ई. स. १९६६ तमे वर्षे चण्डीगढ-नगरे उच्चन्यायालस्य स्थापना कृता आसीत् । पुरा अयं न्यायालयः पञ्जाब-राज्यस्य उच्चन्यायालयः कथ्यते स्म । किन्तु अयं पञ्जाब-हरियाणा-राज्ययोः उच्चन्यायालयः” इति कथ्यते ।

पञ्जाब-राज्यस्य अर्थव्यवस्थायाः मुख्याधारः कृषिः एव । अस्य राज्यस्य भौगोलिकक्षेत्रस्य ८५ प्रतिशतं क्षेत्रे कृषिः क्रियते । अस्य राज्यस्य अधिकतमाः जनाः कृषिसम्बद्धानि कार्याणि कुर्वन्ति । सम्पूर्णभारतस्य तण्डुलोत्पादनेषु ४० तः ५० प्रतिशतं तण्डुलोत्पादनं पञ्जाब-राज्ये क्रियते । एव च सम्पूर्णभारतस्य गोधूमोत्पादनेषु ५० तः ६० प्रतिशतं गोधूमोत्पादनम् अस्मिन् राज्ये एव क्रियते । अस्मिन् राज्ये यान्त्रिकोत्पादनानाम् अपि आधिक्यम् अस्ति । गोधूमः, तण्डुलाः, कार्पासः इत्येतानि सस्यानि पञ्जाब-राज्यस्य प्रमुखाणि सस्यानि सन्ति । राज्येऽस्मिन् इक्षुदण्डस्य अपि उत्पादनं क्रियते । अत्र दुग्धस्य, अण्डस्य च अपि उत्पादनम् अन्यराज्यानाम् अपेक्षया अधिकं भवति । लघुस्तरीयोद्योगेभ्यः इदं राज्यं प्रसिद्धम् अस्ति । सम्पूर्णभारतस्य ९० प्रतिशतम् उर्णवस्त्राणाम् उद्योगः अस्मिन् राज्ये एव भवति । राज्येऽस्मिन् बहवः यन्त्रागाराः सन्ति । “साल्त् पीटर्” इत्ययं खानिजः अस्य राज्यस्य प्रमुखः वर्तते । किन्तु इतः परम् अस्मिन् राज्ये खानिजानाम् अभावः अस्ति ।

पञ्जाब-राज्यस्य लोकसंस्कृतिः अत्याकृष्टा अस्ति । अस्य राज्यस्य निवासिनां नृत्यसङ्गीतयोः अभिरुचिः भवति । भाङ्गडा-नृत्यम् अस्य राज्यस्य प्रमुखं नृत्यं वर्तते । इदं नृत्यं वीरतायाः प्रतीकं वर्तते । अपरं च गिद्दा-नृत्यं स्त्रीणां नृत्यम् अस्ति । इदं नृत्यं सस्यकर्तनसमये क्रियते । “वैशाखीपर्व”, “लोहरी” इत्येतौ पञ्जाब-राज्यस्य प्रमुखौ उत्सवौ स्तः । वैशाखीपर्व प्रतिवर्षम् अप्रैल-मासस्य १३ दिनाङ्के आचर्यते । एवं च लोहरी-उत्सवः शीतर्तोः समापनस्य प्रतीकत्वेन आचर्यते । पञ्जाब-राज्यस्य विवाहेषु विभिन्नानि गीतानि गीयन्ते । सुहाग-गीतं, सेहरा-गीतं, घोडी-गीतं, सिथनिया-गीतम् इत्यादीनि प्रमुखाणि गीतानि सन्ति । पटियाला-नगरं मुक्तसर-नगरम् इत्येते नगरे स्त्रीणां पादत्राणाय सम्पूर्णे भारते प्रसिद्धे स्तः । पञ्जाब-राज्यस्य जनाः सर्वान् उत्सवान् अपि उत्साहपूर्वकम् आचरन्ति । पञ्जाब-राज्यस्य जनानाम् आतिथ्यम् अपि सम्पूर्णे भारते विख्यातम् अस्ति ।

पञ्जाब-राज्ये बहूनि धार्मिकस्थलानि, सांस्कृतिकस्थलानि, पर्यटनस्थलानि च सन्ति । अमृतसर-नगरे स्थिताय स्वर्णमन्दिराय पञ्जाब-राज्यं विश्वस्मिन् प्रसिद्धम् अस्ति । मन्दिरमिदं सिक्खधर्मस्य धार्मिकस्थलं वर्तते । चण्डीगढ-नगरम् अपि पर्यटनस्थलं वर्तते । “ली काबुजियर्” इत्याख्येन फ्रांस-देशीयेन वास्तुकारेण अस्य नगरस्य आदर्शस्वरूपं निर्मापितम् आसीत् । “जलियाँवाला बाग”, आनन्दपुर साहिब, तरन-तारन-सरोवरः, दरबारा साहिब, पटियाला, भटिण्डा-दुर्गः, कपूरथला-नगरस्य वास्तुकलायाः स्मारकाः, रोपड इत्यादीनि पञ्जाब-राज्यस्य महत्त्वपूर्णानि पर्यटनस्थलानि सन्ति ।

विश्वप्रसिध्दम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । एतत् पाकिस्तानदेशस्य सीमासमीपे (२८ कि.मी) अस्ति । भारतदेशे स्थितेषु श्रेष्ठनगरेषु अमृतसरनगरम् अन्यतमम् ।  एतन्ननगरं रायदासः इति कश्चित् श्रेष्ठः सा.श.१५७७ तमे वर्षे निर्मितवान् । नैकेवैदेशिकाक्रमणशीलाः आक्रान्ताः । तथापि पुनर्निर्मितमस्ति । इदानी अपूर्व सौन्दर्ययुक्त सरोवरमध्ये स्थित सिख् जनाना पवित्र यात्रा स्थल च अस्ति । नगरस्य प्राचीनभागे एतत्  मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानामपि ६८ क्षेत्र समानमिति प्रसिध्दिः अस्ति । देवालयस्य बहिर्भागे स्वर्ण लोहपत्रैः आवृतमस्ति । एतदर्थ ४००० किलोमितस्वर्णम् उपयुक्तमस्ति । एतत् कार्यं रणजित् सिहः इति कश्चित् भक्ताग्रेसरः कारितवान् । सूर्यकिरणैः अतीव प्रकाशमानं मन्दिरं मनोहरम् अस्ति । अस्य प्रतिबिम्बं परितः विद्यमाने सरसः जले स्पष्टं दृश्यते । देवालयस्य अन्तः सिख्खमतस्य पवित्रग्रन्थस्य गुरुग्रन्थसाहेत् पुस्तकस्याराधनं भवति । एषः ग्रन्थः सिख्खगुरुनानकस्य उपदेशयुक्तः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरव प्रदास्यन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन यात्रा भविष्यति । अत्र देवालयसमीपे सुन्दरोद्यानं रामगुरियास्तम्भाः वस्तुसङ्ग्रहालयः इत्यादीनि दर्शनीयानि स्थानानि सन्ति । यात्रिकाः एतत् सिख्खमतस्य वैभवम् अमृतसरनगरस्य महोन्नतं स्थानम् इति वदन्ति । अत्र अमृतसरनगरे अन्यत् स्वर्णमन्दिरं दुर्गीयानमन्दिरम् इति अस्ति । सिख्खमतीयानां स्वर्णमन्दिरमिव एतदपि सरोवरे अस्ति । यात्रिकाः अत्रापि सगौरवम् आगच्छन्ति । एतत् सा.श.१६ शतके निर्मितम् इति विश्वासः। अमृतसरनगरे लक्ष्मीनारायणमन्दिरं बाबातलगोपुरं, रायबागृद्योनं , रण्जित्सिंहराजगृहं, गोविन्दगहदुर्गः इत्यादयः सन्ति । अयं दुर्गः रणजितसिंह महोदयेन क्रि.श.१८०५ -१८०९ तमे वर्षेषु निर्मितः । विमानमार्गः – अत्र आगन्तुं देहलीतः अमृतसर श्रीनगर मार्गे विमानसौकर्यम् अस्ति । धूमशकटमार्ग –देहलीतः अमृतसरनगरपर्यन्तं ४४७ कि.मी. दूरस्य मर्गे धूमशकटयानस्य सम्पर्कः अस्ति । अमृतसरनगस्य सम्पर्कः येदानी लाहोरतः अपि अस्ति । भूमार्गः चण्डीगडः, लाहोरः लुधियाना, देहली इत्यादिभिः नगरैः वाहनसम्पर्कः अस्ति एव । वासार्थ स्वर्णमन्दिरस्य वसतिगृहेषु निश्शुल्कव्यवस्था अस्ति । अनेकानि उपाहारवसतिगृहाणि अमृतसरनगरे सन्ति । तरन्तराना पवित्रसरोवरः (२३ कि.मी), डेरबाबानानक् स्थल ३२ कि.मी) दूरे च सन्ति ।

अमृतसरस्य स्वर्णमन्दिरस्य समीपे एव जलियन् वालाबाग् उद्यानमस्ति । क्रिस्ताब्दे १९१९ तमे वर्षे एप्रिल् मासस्य १३ तमे दिने अत्रागत्य अहिंसात्मकान्दोलने स्थिताना उपरि जनरल् डैयर् घोर गोलिकावर्षण कारितवान् । ४७१ जनाः तध्दिने मृताः अभवन् । आङ्ग्लाधिकारिणः एतत् क्रूरकर्म अधुनापि जनाः भयेन स्मरन्ति । इतिहासानुसारम् अस्योद्यानस्य प्रवेशार्थम् एकम् एव द्वारमस्ति । मध्याह्ने ४.३० वादनसमये अत्र सभा आयोजयिष्यते इति पूर्वमेव सूचितमासीत् । किन्तु सभारम्भस्य पश्चात् जनरल् डैयर् इत्येकः सैनिकैः साकम् आगत्य जनानामुपरि १०० मीटर् दूरतः गोलिकावर्षम् अकरोत् । सभायाः पूर्वनिषेधं न कृतवान् । सहस्रशः जनाः अत्र मृताः इति अधिकृततया पत्रिकासु वार्ता आगता । भारतीयस्वातन्त्यान्दोलने प्रविष्टान् विरुद्ध्य आङ्ग्ल सर्वकारस्य दानवीयकृत्यम् एतत् दुःस्मरणम् अस्ति । इदानीमपि एका वापीं दृष्वा जनाः अश्रुपूर्णाः भवन्ति । यस्यां वाप्याम् अनेके जनाः गिलिकभयेन कूर्दित्वा मृताः । इदानी अत्रोद्याने अमरज्योतिः मृताना संस्मरणार्थ स्थापिता अस्ति ।

पठानकोट-नगरं भारतस्य पञ्जाब-राज्यस्य पठानकोट-मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । नगरमिदं पञ्जाब-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं हिमालयपर्वतशृङ्खलायाः प्रवेशद्वारम् अस्ति । ई. स. १८४९ तमवर्षात् पूर्वं पठानकोट-नगरं नूरपुर-नगरस्य भागः आसीत् । इदं नगरं पठानिया-वंशेन स्थापितम् आसीत् । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । नूरपुर-दुर्गः अपि महत्त्वपूर्णं स्थलं वर्तते । ९०० वर्षाणि पूर्वं पठानिया-वंशजैः अयं दुर्गः निर्मापितः । शाहपुर कण्डी दुर्गः, शिवमन्दिरं, जुगिया-नगरी इत्यादीनि पठानकोट-नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । तत्र ज्वालाजी, चिन्तपूर्णि इत्येते अपि प्रसिद्धे स्थले वर्तेते । जनाः भ्रमणार्थम् अपि तत्र गच्छन्ति । पठानकोट-नगरं भारतस्य उत्तरभागे स्थितम् अस्ति । अतः ग्रीष्मर्तौ औष्ण्यं, शीतर्तौ च शैत्यं भवति । अक्टूबर-मासे नवम्बर-मासे वा पठानकोट-नगरस्य भ्रमणं कर्त्तव्यम् । तस्मिन् समये     अस्य नगरस्य वातावरणं सुखदं, स्वास्थ्यकरं च भवति ।

पठानकोट-नगरं १५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः पठानकोट-नगरं पञ्जाब-राज्यस्य विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः पठानकोट-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । पठानकोट-नगरात् देहली-नगराय, चण्डीगढ-नगराय शिमला-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे द्वे रेलस्थानके स्तः । एकं “पठानकोट”, अपरं च “चक्की बैङ्क” । चक्कीबैङ्क-रेलस्थानकम् उत्तररेलविभागे अस्ति । पठानकोट-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् अपि अस्ति । किन्तु अस्मात् विमानस्थानकात् अधिकानि वायुयानानि न प्राप्यन्ते । अतः अमृतसर-नगरस्य श्रीगुरुरामदास-अन्ताराष्ट्रियविमानस्थकं पठानकोट-नगरस्य समीपस्थम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । पठानकोट-नगरात् इदं १०८ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पठानकोट-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया पठानकोट-नगरं प्राप्नुवन्ति ।

फतेहगढ साहिब-नगरं भारतस्य पञ्जाब-राज्यस्य फतेहगढ साहिब-मण्डलस्य मुख्यालयः अस्ति । नगरमिदम् ऐतिहासिकम् अस्ति । पञ्जाब-राज्यस्य इतिहासे अस्य नगरस्य महत्त्वपूर्णं स्थानम् अस्ति । इदं “युद्धभूमिः” अपि कथ्यते । इदं नगरं “फतेहगढ साहिब” इत्यस्मै सिक्खधर्मस्य उपासनागृहाय प्रसिद्धम् अस्ति । तत्र “गुरु गोविन्द सिंह” इत्याख्यस्य “फतेह सिंह”, “जोरावर सिंह” इत्येतौ पुत्रौ हुतात्मानौ अभवताम् । “फतेहगढ साहिब” इत्यस्य अर्थः भवति यत् – “विजयाणां नगरम्” इति । नगरमिदं सिक्खाणां विजयस्य प्रतीकं वर्तते । इदं नगरं परितः चत्वारि द्वाराणि सन्ति । एतेषां द्वाराणां पुरातात्त्विकं महत्त्वं वर्तते । “फतेहगढ साहिब” इत्यत्र बहूनि प्रसिद्धानि पर्यटनस्थलानि सन्ति । “सङ्घोल”, “आम खास बाग”, “माता चक्रेश्वरी देवी”, “जैन-मन्दिरं” इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । जनाः विभिन्नान् उत्सवान् अपि आचरन्ति । तेषु “होलिका”, “दीपावलिः”, “विजयादशमी”, “वैशाखी पर्व” इत्यादयः प्रमुखाः उत्सवाः सन्ति । नगरेऽस्मिन् बहवः धार्मिकोत्सवाः अपि आयोज्यन्ते । दिसम्बर-मासे “शहीदी जोर मेला” इत्ययम् उत्सवः प्रमुखरूपेण आचर्यते । अस्य नगरस्य वातावरणं ग्रीष्मर्तौ अत्यधिकम् उष्णं, शीतर्तौ च अत्यधिकं शीतलं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं “फतेहगढ साहिब”-नगरस्य भ्रमणं करणीयम् । तस्मिन् काले तस्य नगरस्य वातावरणं सामान्यं, सुखदं च भवति ।

मोहाली-नगरं भारतस्य पञ्जाब-राज्यस्य “साहिबजादा अजितसिंह नगर मण्डलस्य” केन्द्रं विद्यते । साम्प्रतम् इदं नगरम् “अजीतगढ” इति नाम्ना अपि ज्ञायते । नगरमिदं चण्डीगढ-नगरस्य उपग्रहः अस्ति । “गुरु गोविन्द सिंह” इत्याख्यस्य “साहिबजादा अजीत सिंह” इत्याख्यस्य पुत्रस्य स्मृतौ मोहाली-नगरस्य आधिकारिकं नाम “साहिबजादा अजीत सिंह नगर” इति अस्ति । यदा पञ्जाब-राज्यस्य विभाजनम् अभवत्, तदा मोहाली-नगरं रूपनगर-मण्डलस्य कश्चन भागः आसीत् । ई. स. २००६ तमे वर्षे पञ्जाब-सर्वकारेण मोहाली-नगरं स्वतन्त्रमण्डलत्वेन उद्घोषितम् । इदं नगरं चण्डीगढ-नगरस्य भागः आसीत् । अतः अस्य नगरस्य विकासः तीव्रतया अभवत् । साम्प्रतं बहवः औद्योगिकाः समूहाः मोहाली-नगरे व्यवसायार्थं प्रयासान् कुर्वन्तः सन्ति । मोहाली-नगरे पर्यटनस्थलानि अपि बहूनि सन्ति । मोहाली-नगरस्य क्रिकेट्-क्रीडायाः क्रीडाङ्गणं विश्वस्मिन् प्रसिद्धं वर्तते । सुखना-तडागः मोहाली-नगरस्य मनोहरं स्थलं वर्तते । रॉक्-उद्यानं, छतबीर-प्राणीसङ्ग्रहालयः, सुखना-वन्यजीवाभयारण्यं, रोज-उद्यानं, “भाखडा नङ्गल-जलबन्धः” इत्यादीनि मोहाली-नगरस्य समीपस्थानि प्रमुखाणि पर्यटनस्थलानि सन्ति । मोहाली-नगरे बहूनि धार्मिकस्थलानि अपि सन्ति । नगरेऽस्मिन् सिक्ख-धर्मस्य उपासनागृहाणि अधिकानि सन्ति । “गुरुद्वारा अम्ब साहिब”, “गुरुद्वारा नाडा साहिब”, “गुरुद्वारा नाभा साहिब” इत्येतानि मोहाली-नगरस्य सिक्ख-उपासनागृहाणि सन्ति । मनसादेवीमन्दिरं मोहालीनगरस्य हिन्दुधर्मस्य मन्दिरं विद्यते । अस्य नगरस्य समीपे अपि बहूनि वीक्षणीयस्थलानि सन्ति । पञ्चकुला, शरणपुरं च अस्य नगरस्य समीपस्थे पर्यटनस्थले स्तः । मोहाली-नगरस्य जलवायुः उपोष्णकटिबन्धीयः भवति । तत्र ग्रीष्मर्तौ अत्यधिकम् औष्ण्यं भवति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं, सुखदं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं मोहाली-नगरस्य भ्रमणम् उत्तमं भवति ।

मोहाली-नगरं १ क्रमाङ्कस्य, ९५ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ मोहाली-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः मोहाली-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । मोहाली-नगरात् देहली-नगराय, चण्डीगढ-नगराय अम्बाला-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । मोहाली-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । समीपे चण्डीगढ-नगरस्य रेलस्थानकं स्थितम् अस्ति । मोहाली-नगरात् चण्डीगढ-रेलस्थानकं १९ किलोमीटरमिते दूरे स्थितम् अस्ति । चण्डीगढ-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । मोहाली-नगरे विमानस्थानकं नास्ति । चण्डीगढ-नगरस्य विमानस्थानकं मोहाली-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण मोहाली-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया मोहाली-नगरं प्राप्नुवन्ति ।

बठिण्डा-नगरं भारतस्य पञ्जाब-राज्यस्य बठिण्डा-नगरस्य मुख्यालयः वर्तते । इदं नगरं पञ्जाब-राज्यस्य पुरातनेषु नगरेषु अन्यतमम् अस्ति । नगरमिदं “मालवा-क्षेत्रस्य हृदयं” कथ्यते । षष्ठ्यां शताब्द्याम् अस्मिन् नगरे भाटी-राज्ञां शासनम् आसीत् । अतः अस्य नगरस्य नाम “बठिण्डा” इत्यभवत् । अस्मात् नगरात् पाकिस्तान-देशस्य सीमा १०० किलोमीटरमिते दूरे स्थिता अस्ति । अस्मिन् नगरे एशिया-खण्डस्य बृहत्तमं सैनिकशिबिरम् अस्ति । इदं नगरं सांस्कृतिकं वर्तते । अस्य नगरस्य संस्कृतिः समृद्धा अस्ति । भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः जनाः बठिण्डा-नगरं गच्छन्ति । बठिण्डा-नगरे बहूनि धार्मिकस्थलानि सन्ति । “किला मुबारक” इत्ययं दुर्गः अस्य नगरस्य प्रमुखम् आकर्षणकेन्द्रं विद्यते । दुर्गोऽयं लघ्वीभिः इष्टिकाभिः निर्मितः अस्ति । अस्य दुर्गस्य वास्तुकला अपि विशिष्टा वर्तते । अतः अयं दुर्गः प्रसिद्धः अस्ति । तत्र “गुरुद्वारा लाखी जङ्गल साहिब” इत्येतत् सिक्ख-उपासनागृहं प्रमुखम् अस्ति । यतः इदं वने स्थितम् अस्ति । “चेतक-उद्यानं”, “दमदमा साहिब”, “बठिण्डा-तडागः”, “मैसर खाना”, “प्राणि-उद्यानं”, “धोबी बाजार”, “पीर हाजी रतन की मजार” इत्यादीनि बठिण्डा-नगरस्य आकर्षणकेन्द्राणि सन्ति । शीतर्तौ अस्य नगरस्य वातावरणम् उत्तमं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं बहवः जनाः बठिण्डा-नगरं भ्रमणार्थं गच्छन्ति । तस्मिन् समये जलवायुः शान्तः, सुखदः, स्वास्थ्यकरश्च भवति ।

बठिण्डा-नगरं १५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः बठिण्डा-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः बठिण्डा-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । बठिण्डा-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । बठिण्डा-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । बठिण्डा-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । बठिण्डा-नगरे विमानस्थानकं नास्ति । लुधियाना-नगरस्य विमानस्थानकं बठिण्डा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । बठिण्डा-नगरात् लुधियाना-विमानस्थानकं १५१ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण बठिण्डा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया बठिण्डा-नगरं प्राप्नुवन्ति ।

सङ्गरूर-नगरं पञ्जाब-राज्यस्य सङ्गरूर-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं ४०० वर्षेभ्यः प्राचीनम् अस्ति । नगरमिदं तत्कालीनस्य जिन्द-राज्यस्य राजधानीत्वेन आसीत् । सङ्गरूर-नगरं पटियाला-नगरात् ४८ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे बहूनि सिक्ख-उपासनागृहाणि विद्यन्ते । अतः “गुरुद्वाराणां नगरम्” इत्यपि कथ्यते । अस्मिन् नगरे विंशत्यधिकानि सिक्ख-उपासनागृहाणि सन्ति । अतः नगरमिदं लोकप्रियम् अस्ति । विभिन्नदेशेभ्यः पर्यटकाः अस्य नगरस्य भ्रमणं कर्तुं गच्छन्ति । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “शीश महल”, “बनसार बाग”, “गुरुद्वारा जन्म स्थान”, “गुरुद्वारा नानक झिरा साहिब”, “गुरुद्वारा अकोई साहिब” इत्यादीनि सङ्गरूर-नगरस्य पर्यटनस्थलानि सन्ति । नगरेऽस्मिन् बहवः उत्सवाः आयोज्यन्ते । गूगानवमी-उत्सवं प्रतिवर्षं जनाः सोत्साहेन आचरन्ति । अस्मिन् उत्सवे विदेशात् अपि बहवः जनाः समागच्छन्ति । “जामा मस्जिद”, “किला मुबारक”, “कालीमन्दिरं” च अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य वातावरणं सर्वदा सामान्यं भवति । ग्रीष्मर्तौ वातावरणम् उष्णं शुष्कं च भवति । शीतर्तौ च शीतलं वातावरणं भवति । दिसम्बर-मासतः मार्च-मासपर्यन्तं जनाः सङ्गरूर-नगरस्य भ्रमणार्थं गच्छन्ति ।

सङ्गरूर-नगरं १० क्रमाङ्कस्य, ६४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ सङ्गरूर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः सङ्गरूर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । सङ्गरूर-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । सङ्गरूर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । सङ्गरूर-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । सङ्गरूर-नगरे विमानस्थानकं नास्ति । लुधियाना-नगरस्य विमानस्थानकं सङ्गरूर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । सङ्गरूर-नगरात् लुधियाना-विमानस्थानकं ७८ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण सङ्गरूर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया सङ्गरूर-नगरं प्राप्नुवन्ति ।

फिरोजपुर-नगरं पञ्जाब-राज्यस्य फिरोजपुर-मण्डलस्य केन्द्रं विद्यते । इदं नगरं सतलज-नद्याः तटे स्थितम् अस्ति । तुगलक-वंशस्य “सुल्तान फिरोज शाह तुगलक” इत्याख्येन शासकेन नगरमिदं स्थापितम् आसीत् । अतः अस्य नाम “फिरोजपुर” इत्यभवत् । अस्मिन् नगरे धार्मिकस्थलानि , प्राकृतिकस्थलानि च बहूनि सन्ति । “जैनमन्दिरं”, “पोथीमाला”, “गुरुद्वारा गुरूसार” इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । नगरमिदं भारत-पाकिस्तानदेशयोः सीमायां स्थितम् अस्ति । ब्रिटिश-शासनकाले एङ्ग्लो-सिक्ख-युद्धे अस्य नगरस्य महद्योगदानम् आसीत् । अस्मिन् नगरे अन्ये नैकाः सङ्ग्रहालयाः, स्मारकाणि च सन्ति । ते अस्य नगरस्य ऐतिह्यं प्रदर्शयन्ति । एङ्ग्लो-सिक्ख-युद्ध मेमोरियल, साराग्रही मेमोरियल्, शहीद स्मारकः, बारकी स्मारकः इत्यादीनि पर्यटनस्थलानि अपि अस्मिन् नगरे सन्ति । शीतर्तौ फिरोजपुर-नगरस्य वातावरणं शान्तं, सुखदं च भवति । जनः अक्टूबर-मासतः दिसम्बर-मासपर्यन्तम् भ्रमणार्थं तत्र गच्छन्ति ।

फिरोजपुर-नगरं ९५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः फिरोजपुर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः फिरोजपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । फिरोजपुर-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । फिरोजपुर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । फिरोजपुर-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, लुधियाना-नगराय, जयपुर-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । फिरोजपुर-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य विमानस्थानकं फिरोजपुर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । फिरोजपुर-नगरात् अमृतसर-विमानस्थानकं १२६ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण फिरोजपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया फिरोजपुर-नगरं प्राप्नुवन्ति ।

मानसा-नगरं भारतस्य पञ्जाब-राज्यस्य मानसा-मण्डलस्य मुख्यालयः वर्तते । नगरमिदम् अत्यन्तं शान्तं वर्तते । इदं पञ्जाब-राज्यस्य पूर्वभागे स्थितम् अस्ति । अस्य दक्षिणभागे हरियाणा-राज्यं स्थितम् अस्ति । इदं “श्वेतस्वर्णस्य क्षेत्रम्” अपि कथ्यते । ई. स. १७२२ तः १९४८ तमवर्षपर्यन्तम् इदम् क्षेत्रं फुल्कियासिक्ख-राजवंशस्य भागः आसीत् । इदं नगरं पुरातात्त्विकम् अस्ति । “भारतीयपुरातत्त्वसर्वेक्षण (ASI)”-संस्थया अस्मात् नगरात् हडप्पा-सभ्यतायाः, मोहनजोदडो-सभ्यतायाः च अवशेषाः प्राप्ताः । मन्यते यत् “गुरदासेन अस्य नगरस्य स्थापना कृता आसीत्” इति । अतः तस्य सम्माननाय प्रतिवर्षं मार्च-मासे अप्रैल-मासे वा अस्मिन् नगरे मेला-उत्सवः आयोज्यते । तस्मिन् उत्सवे गुरदासस्य भक्ताः तस्य समाधौ मोदकानि, गुडं च अर्पयन्ति ।  होलिका, दीपावलिः, विजयादशमी, वैशाखी पर्व इत्यादयः उत्सवाः सोत्साहेन आचर्यन्ते । मानसा-नगरं “श्वेतस्वर्णस्य क्षेत्रं (सफेद सोने का क्षेत्र)” इति कथ्यते । यतः इदं नगरं पञ्जाब-राज्यस्य सर्वाधिकम् उर्वरक्षेत्रम् अस्ति । कृषिः अस्य नगरस्य प्रमुखः व्यवसायः वर्तते । अस्मिन् क्षेत्रे कार्पासस्य कृषिः सर्वाधिकतया क्रियते । कार्पासः अस्य नगरस्य प्रमुखं सस्यं विद्यते । 	अस्य नगरस्य समीपे बहूनि पर्यटनस्थलानि सन्ति । बुधलाडा, दलेलवाडा, सरदूलगढ इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः उपोष्णकटिबन्धीयः वर्तते । अक्टूबर-मासे, नवम्बर-मासे च मानसा-नगरस्य तापमानं सामान्यं भवति । अतः जनाः भ्रमणार्थं तस्मिन् काले गच्छन्ति ।

मानसा-नगरं १ क्रमाङ्कस्य, ७१ क्रमाङ्कस्य, ७०३ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः मानसा-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः मानसा-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । मानसा-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । मानसा-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । मानसा-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । मानसा-नगरे विमानस्थानकं नास्ति । लुधियाना-नगरस्य विमानस्थानकम् मानसा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मानसा-नगरात् इदं विमानस्थानकं १२६ किलोमीटरमिते दूरे स्थितम् अस्ति । लुधियाना-नगरे साहनेवाल-नामकं विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण मानसा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया मानसा-नगरं प्राप्नुवन्ति ।

जालन्धर-नगरं भारतस्य पञ्जाब-राज्यस्य जालन्धर-मण्डलस्य केन्द्रं विद्यते । अस्य नगरस्य इतिहासः अत्यन्तः प्राचीनः वर्तते । जालन्धर-नामकस्य असुरराज्ञः नाम्ना अस्य नगरस्य नाम “जालन्धर” इत्यभवत् । अस्य उल्लेखः महाभारते, पुराणेषु च अपि प्राप्यते । इदं नगरं ब्यास-सतलुज-नद्योः मध्ये स्थितम् अस्ति । ई. स. १९५३ तमवर्षपर्यन्तम् इदं नगरं पञ्जाब-राज्यस्य राजधानीत्वेन आसीत् । अस्य नगरस्य संस्कृतिः समृद्धा वर्तते । तत्र पर्यटनस्थलानि अपि बहूनि सन्ति । “शिव-मन्दिरं”, “तुलसी-मन्दिरं”, “देवी तालाब मन्दिरं”, “सेण्ट् मेरी कैथेड्रल्”, “पुष्पा गुजराल सायन्स् सिटी”, “भगतसिंह-संग्रहालयः”, “वण्डरलैण्ड् थीम पार्क्” इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । नगरेऽस्मिन् सिक्खधर्मस्य उपासनागृहाणि अपि सन्ति । तानि नगरस्य विभिन्नक्षेत्रेषु स्थितानि सन्ति । जालन्धर-नगरस्य जलवायुः उपोष्णकटिबन्धीयः भवत् । शीतर्तौ अस्मिन् नगरे शैत्यम् अधिकं, ग्रीष्मर्तौ च औष्ण्यं चापि अधिकं भवति । अक्टूबर-मासे, नवम्बर-मासे, फरवरी-मासे, मार्च-मासे च अस्य नगरस्य वातावरणं सामान्यं, शान्तं, सुखदं च भवति । तस्मिन् समये जनसम्मर्दः अपि अधिकः भवति ।

जालन्धर-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः जालन्धर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जालन्धर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । जालन्धर-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । जालन्धर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । जालन्धर-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, अहमदाबाद-नगराय, मैङ्गलोर-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । जालन्धर-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” जालन्धर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । जालन्धर-नगरात् इदं विमानस्थानकं ९० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जालन्धर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया जालन्धर-नगरं प्राप्नुवन्ति ।

फरीदकोट-नगरं भारतस्य पञ्जाब-राज्यस्य फरीदकोट-मण्डले स्थितम् अस्ति । इदं पञ्जाब-राज्यस्य पश्चिमदिशि स्थितम् अस्ति । ई. स. १९७२ तमे वर्षे बठिण्डा-फिरोजपुरनगरयोः विभागाभ्याम् इदं नगरं स्थापितम् । कस्यचित् “शेख फरीदुद्दीन गञ्जशाकर” इत्याख्यस्य साधोः नाम्ना अस्य नगरस्य नामकरणम् अभवत् । नगरेऽस्मिन् बहवः सिक्ख-धर्मानुयायिनः निवसन्ति । अतः तत्र बहूनि सिक्खधर्मस्य उपासनागृहाणि सन्ति । अस्मिन् नगरे दुर्गाः अपि बहवः विद्यन्ते । एते अस्य नगरस्य आकर्षणस्य केन्द्राणि सन्ति । अस्य नगरस्य समीपे पर्यटनस्थलानि अपि बहूनि सन्ति । “राज महल”, “फेयरी कॉटेज्”, “किला मुबारक”, “गुरुद्वारा टिल्ला बाबा फरीद” इत्येतानि फरीदकोट-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । एतानि सम्पूर्णे भारते लोकप्रियाणि सन्ति । नगरमिदम् ऐतिहासिकम् अपि अस्ति । अतः येषाम् इतिहासे अभिरूचिः अस्ति तेभ्यः इदं स्थलम् अत्यन्तं महत्त्वपूर्णं वर्तते । फरीदकोट-मण्डलस्य सांस्कृतिकसमाजः प्रतिवर्षं सितम्बर-मासस्य १५ दिनाङ्कतः सितम्बर-मासस्य २३ दिनाङ्कपर्यन्तम् एकं वार्षिकोत्सवम् आयोजयति । भारतस्य विभिन्ननगरेभ्यः बहवः जनाः तत्र गच्छन्ति, उत्सवस्य आनन्दं प्राप्नुवन्ति च । फरीदकोट-नगरस्य जलवायुः प्रायः सामान्यः भवति । किन्तु अक्टूबर-मासतः दिसम्बर-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । भारतस्य बहुभ्यः नगरेभ्यः जनाः तत्र गच्छन्ति ।

फरीदकोट-नगरं १५ क्रमाङ्कस्य, ९५ क्रमाङ्कस्य, ७१ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः जालन्धर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजन्ति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः फरीदकोट-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । फरीदकोट-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । फरीदकोट-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । फरीदकोट-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । फरीदकोट-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” फरीदकोट-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । फरीदकोट-नगरात् इदं विमानस्थानकं ९.५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण फरीदकोट-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया फरीदकोट-नगरं प्राप्नुवन्ति ।

गुरदासपुर-नगरं भारतस्य पञ्जाब-राज्यस्य गुरदासपुर-मण्डलस्य केन्द्रं विद्यते । सप्तदशशताब्द्यां “गुरियाजी” इत्याख्येन अस्य नगरस्य स्थापना कृता आसीत् । अतः एव अस्य नाम “गुरदासपुर” इत्यभवत् । इदं नगरं रावी-सतलज-नद्योः मध्ये स्थितम् अस्ति । अस्मिन् नगरे जनैः पञ्जाबी-भाषा व्यवह्रियते । किन्तु अस्मिन् नगरे आधिकारिकरूपेण हिन्दीभाषा, आङ्ग्लभाषा च उपयुज्यते । अस्मिन् नगरे पञ्जाबी-संस्कृत्याः प्रभावः अधिकः वर्तते । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “डेरा बाबा नानक”, “गुरदास नङ्गल”, “महाकालेश्वर-मन्दिरं”, “माधोपुरं”, “शाहपुरकण्डी-दुर्गः”. “मछली-उद्यानं”, “अचलेश्वर-मन्दिरं”, “गुरुद्वारा चोला साहिब”, “गुरुद्वारा थाडा साहिब” इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ अत्यधिकम् औष्ण्यं, शीतर्तौ च अत्यधिकं शैत्यं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति ।

गुरदासपुर-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः गुरदासपुर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः गुरदासपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । गुरदासपुर-नगरात् लुधियाना-नगराय, देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । गुरदासपुर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । गुरदासपुर-रेलस्थानकात् अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । गुरदासपुर-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” गुरदासपुर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । गुरदासपुर-नगरात् इदं विमानस्थानकं ७० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण गुरदासपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया गुरदासपुर-नगरं प्राप्नुवन्ति ।

रूपनगरं भारतस्य पञ्जाब-राज्यस्य रूपनगर-मण्डलस्य मुख्यालयः वर्तते । नगरमिदं पुरा “रोपड” इति नाम्ना ज्ञायते स्म । इदं नगरम् ऐतिहासिकं वर्तते । सतलुज-नद्याः तटे स्थितम् अस्ति इदं नगरम् । एकादशशताब्द्याम् अस्मिन् नगरे रोकेश्वर-राजा शासनं करोति स्म । तस्य “रूपसेन” इत्याख्यः पुत्रः आसीत् । तस्य नाम्ना एव अस्य नगरस्य नामकरणम् अभवत् । अस्य नगरस्य उत्खनने सिन्धुघाटीसभ्यतायाः अवशेषाः प्राप्ताः । भारतीयपुरातात्त्विकसर्वेक्षणसंस्थया इदं कार्यं कृतम् आसीत् । अनया संस्थया उत्खनने प्राप्तकलाकृतीनां संरक्षणाय तत्र सङ्ग्रहालयः अपि स्थापितः । अयं सङ्ग्रहालयः रूपनगरस्य पर्यटनकेन्द्रं वर्तते । इदं नगरं शिवलिकपर्वतशृङ्खलायाः समीपे स्थितम् अस्ति । नगरेऽस्मिन् “आनन्दपुर साहिब”, “भाखडा नङ्गल जलबन्धः”, “जटेश्वरमहादेवमन्दिरं”, “कीरतपुर साहिब” इत्यादीनि अस्य नगरस्य पर्यटनस्थलानि सन्ति । रूपनगरात् शिमला-नगरं  १२५ किलोमीटरमिते, कासौली-नागरं ९८ किलोमीटरमिते च दूरे स्थितम् अस्ति । एते अपि अस्य नगरस्य समीपस्थे वीक्षणीये स्थले वर्तेते । अस्य नगरस्य जनाः सर्वान् उत्सवान् उत्साहेन आचरन्ति । नगरेऽस्मिन् “होल्ला मोहल्ला” इत्ययम् उत्सवः अस्य नगरस्य प्रमुखः उत्सवः मन्यते । अयं त्रिदिवसात्मकः उत्सवः भवति । इमम् उत्सवम् आचरितुं दूरनगरेभ्यः अपि जनाः आगच्छन्ति । अस्मिन् नगरे विभिन्नानि खाद्यानि प्राप्यन्ते । अस्मिन् नगरे अपि ऋतुत्रयं भवति । किन्तु अस्य नगरस्य वातावरणं सामान्यं भवति । सितम्बर-मासतः नवम्बर-मासपर्यन्तम् अस्य नगरस्य वातावरणम् अत्युत्तमं भवति । अतः तस्मिन् काले जनाः रूपनगरं गच्छन्ति । अस्य नगरस्य समीपस्थानि स्थलानि चापि गच्छन्ति ।

रूपनगरं २१ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः रूपनगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः रूपनगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । रूपनगरात् लुधियाना-नगराय, देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । रूपनगरात् देहली-नगरं २९७ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । रूपरेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । रूपरेलस्थानकात् अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय, देहली-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । रूपनगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” रूपनगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । रूपनगरात् इदं विमानस्थानकं २०० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । चण्डीगढ-नगरस्य विमानस्थानकमपि समीपे एव स्थितम् अस्ति । रूपनगरात् चण्डीगढ-नगरं ५५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकमपि भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण रूपनगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया रूपनगरं प्राप्नुवन्ति ।

एतस्य विशिष्टनगरं सुन्दरनगरं, इति प्रसिद्धिः अस्ति । नगरनिर्माणस्य कश्चन विशिष्टः इतिहासः अस्ति । भारतपाकिस्तानयोः विभागसमये लाहोरनगरं पाकिस्तानदेशे गतमभवत् । तदा उत्तमनगरं निर्मीय पञ्जाबप्रान्ते राजधानी निर्माणाय चिन्तम् आरब्धा अभवत् । एव नगरारम्भः भारतसर्वकारेण चिन्तितः अभवत् । प्रथमप्रधानमन्त्री श्री जवहरलाल महोदयः क्रिस्ताब्दे १९५३ तमे वर्षे नगरारम्भ कृतवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्योदयः अभवत । त् अस्यापि राजधानी आवश्यकः आसीत् । एव उभयोः राज्ययोः एकनगरे राजधानीकार्याणि’ प्रचलन्ति उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् । नगरनिर्माता अभियन्ता वास्तु शिल्पी कार्बुसियर् नगरयोजनां रूपितवान् । प्रतिकालम् अनुरूपाः सूचनाः दत्तवान् । एतेन अद्यपि नगरयोजना निर्मातारः नगरभ्यासि जनाः नूतनवास्तुसिला ज्ञातुम् इच्छुकाः अत्रागत्य अध्ययनं कुर्वन्ति । मरुस्थले पुष्पाणि कथं विकासितानि इति कुतूहलेन वास्तुतन्त्रज्ञाः  अद्यापि चकिताः सन्ति । चण्डीगडनगरस्य रचनं ग्रिड् स्टैल् सेक्तर्युक्तम् । हरिद्विभागः अत्याधुनिकः । अस्य नगरस्य विस्तारः ११४ चतुरस्र कि.मी. अस्ति । मुख्यतः त्रीणिनगराणि, २७ ग्रामाः नगरक्षेत्रे मिलितानि सन्ति । वायव्ये सिवालिक् पर्वतावली अस्ति । अस्य नगरस्य पेयजलसमस्यां परिहर्तुं नूतनप्रकल्पेन सुखानम् इति विशालं सरः निर्मितः। भारते कृतेषु कृत जलाशयेषु एषः जलाशयः अप्यकेः अस्ति । चण्डीगडनगररचनायां फलपुष्पविभागस्य महत्वपूर्णं योगदानम् अस्ति । फलपुष्पानां विषये आसक्तानां चण्डीगडनगरमेव नन्दनवनमिव निर्मितम् अस्ति । अलङ्कारिकपुष्पाणां वस्तुसङ्ग्रहालयः इति एतत् नगरं सम्बोधयन्ति । एवं सप्तविभागेषु व्याप्तम् उद्यानम् उत्तरभारते अन्यत्र कुत्रापि न द्रष्टुं शक्यते । उद्यानानि डा. झकिर् हुसेन्, रोजगार्डन्, इत्यादीनि शान्तिकुञ्जानि सन्ति । विविधस्तरेषु वाटिकाः निर्मिताः । टोपिनीवाटिकाः इति नाम्ना तन्त्रीजालैः निर्मिताः प्राणिनामाकृतयः  स्थापिताः । आम्रोद्यानम् उत्तमं प्रेक्षणीयं स्थलमस्ति । पार्श्वे राक् गार्डन् म्यूज़ियं कलासङ्ग्रहालयः च सन्ति । सप्ताहे सोमवासरः विरामदिनम् । जवाहरलालनेहरु चण्डीगडनगरं प्राचीनवैभवदर्शकं भविष्यत्कालीनं विश्वासपात्रं नवीनं नगरं इति वर्णितवान् । नवीनशिल्पस्य एतत् नगरं विश्वस्य परम्परानगरम् इति उद्घुष्टम् ।

अस्मिन् नगरप्रदेशे निष्प्रयोकानि वस्तूनि सङ्गृह्य सुन्दरकलाकृतयः उद्याने निर्मिताः । नेकचन्दमहोदयः एतत् विस्मयकारिकार्यं कृतवान् NekChand’s Kingdom (नेकचन्दस्य साम्राज्यम्) इति नाम्ना जपि एतत् उद्यानं पसिद्धम् । भारते एव न विश्वेऽपि एतादृशोद्यानम् अन्यत्र कुत्रापि नास्ति । भग्नस्थालिकभिः, चीनीमृन्निर्मितभग्नपात्रैः खण्डितनालिकाभिः निर्मितम् । खण्डितकङ्कणैः व्यर्थविद्युत्तन्त्रिभिः च  विविधविचित्रशिलाखण्डैः च सुन्दरकलाकृतयः अत्र रचिताः । सः एकाकी एव अद्भुत वाटिकामिमां निर्मितवान् । सा.श.१९५० तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यस्य निरीक्षकः आसीत् । अधिकम् अध्ययनमपि न कृतवान् आसीत् । नगरस्य त्याज्यवस्तूनि उपयुज्य किमपि कर्तु शक्यते इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षपर्यन्तं कार्यं कृत्वा शिलोद्यानम् (राक्गार्डन्) रचितवान् । सा.श.१९७६ तमे वर्षे एतत् कार्यं सम्पन्नम् । महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एषां बहिः नयनमपि दुःस्साध्यम् । भवननिर्माणभागाः अयसा निर्मितासनानि गृहोपयोगीवस्तूनि शिल्पखण्डाः कूप्यः इत्यादि एकस्योपरि अन्यं योजयित्वा अपूर्व वस्तूनि निर्मितवान् । अतः एतत् उद्यानं विश्वविख्यातम् अस्ति । अत्रोद्याने कृतकपर्वताः गुहाः तदुपरि गृहगोधिकाः  इत्यादीनि शताधिकानि दर्शनीयानि चित्राणि वस्तूनि स्थानानि निर्मितानि । अस्य विस्तारः दश हेक्टर् अस्ति ।  विमानमार्गः - दिल्लीतः विमानसञ्चारस्य सम्पर्कः अस्ति । धूमशकटमार्गः – दिल्लीतः चण्डीगडपर्यन्तं २५४ कि.मी.  दीर्घलोहमार्गः अस्ति । भूमार्गः – प्रति अर्धहोरासमये एकं वाहनं देहलीतः प्रस्थास्यति । शिम्ला,मनाली, धर्मशाला इति नगरैरपि वाहनसम्पर्कः अस्ति । वासार्थम् अनेकधर्मशालाः उपाहारवसतिगृहाणि सन्ति ।

पञ्जाब-राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च समृद्धम् अस्ति । एतैः मार्गैः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः पञ्जाब-राज्यं गन्तुं शक्नुवन्ति । अतः जनाः सरलतया पञ्जाब-राज्यं प्राप्नुवन्ति ।

पञ्जाब-राज्यं भूमार्गेण सम्पूर्णभारतस्य विभिन्नराज्यैः सह सम्बद्धम् अस्ति । अस्मिन् राज्ये आहत्य ५०,५०६ किलोमीटरमिताः दीर्घाः मार्गाः सन्ति । अस्य राज्यस्य सर्वेषु लघुग्रामेषु अपि भूमार्गस्य सौकर्यं लभ्यते । पञ्जाब-राज्यस्य सर्वे ग्रामाः, नगराणि, महानगराणि च परस्परं सम्बद्धानि सन्ति । पञ्जाब-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः पञ्जाब-राज्यस्य विभिन्ननगराणां, ग्रामाणां च भ्रमणं कर्तुं शक्नुवन्ति । ई. स. १९९८ तमे वर्षे पञ्जाब-राज्ये “पञ्जाब सडक और बाँध विकास बोर्ड्” अस्याः संस्थायाः स्थापना अभवत् । “पञ्जाब-राज्यस्य मार्गाणां विकासः” इत्येव अस्याः संस्थायाः उद्देश्यम् आसीत् ।

पञ्जाब-राज्यं भारतीयरेलविभागस्य उत्तरविभागे विराजते । पञ्जाब-राज्यस्य रेलविभागः व्यापकः वर्तते । अस्मिन् राज्ये रेलमार्गाः ३,७२६ किलोमीटरमिताः दीर्घाः सन्ति । पञ्जाब-राज्यं पाकिस्तान-देशेन सह अपि धूमशकटमार्गेण सम्बद्धम् अस्ति । अमृतसर-नगरं, पटियाला-नगरं, लुधियाना-नगरं, बठिण्डा-नगरं, कपूरथला-नगरं च पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमानि रेलस्थानकानि सन्ति । पञ्जाब-राज्यं धूमशकटमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्य राज्यस्य रेलविभागः सन्देशसेवा अपि क्रियते । एतेभ्यः रेलस्थानकेभ्यः बसयानानि भाटकयानानि वा प्राप्यन्ते । तैः बसयानैः भाटकयानैः वा पञ्जाब-राज्यस्य नगराणि गन्तुं शक्यन्ते ।

पञ्जाब-राज्ये अमृतसर-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अपि च लुधियाना-नगरे, पटियाला-नगरे, जालन्धर-नगरे इत्यादिषु नगरेषु विमानस्थानकानि सन्ति । अमृतसर-नगरस्य अन्ताराष्ट्रियविमानस्थानकं भारतस्य, विदेशस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । अन्यानि विमानस्थानकानि भारतस्य प्रमुखनगरैः सह सम्बद्धानि सन्ति । एतैः विमानस्थानकैः देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, पूणे-नगराय, चेन्नै-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि नियमितरूपेण प्राप्यन्ते । पञ्जाब-राज्यस्य विमानस्थाकेभ्यः बसयानानि भाटकयानानि च प्राप्यन्ते । तैः बसयानैः, भाटकयानैः च पञ्जाब-राज्यस्य नगराणि गन्तुं शक्यन्ते । भारतस्य विभिन्ननगरेभ्यः वायुमार्गेण पञ्जाब-राज्यं प्राप्यते ।




#Article 63: लक्षद्वीपाः (142 words)


लक्षद्वीप: भारतस्‍य कश्चित् केन्द्रशासितः प्रदेशः अस्‍ति।
एतत् भारतीयप्रशासनाधीनद्वीपानां समूहस्थानम् । अत्र ३६ द्वीपाः सन्ति । एतेषां द्वीपानां पाङ्क्तिः एव जले अतीव सुन्दरतया प्रकाशते । लक्षद्वीपस्य ल्याक्डीव् इति अपि नाम अस्ति । अस्य विस्तारः ५० चतुरस्रकि.मीमितः । शतशः  द्वीपाः अत्र सन्ति । तेषु ५० द्वीपेषु केवलं जनाः निवसन्ति ।
एते द्वीपाः अग्निपर्वतैः निर्मिताः इति कथयन्ति । उत्तरभागे स्थितानां द्वीपानाम् अमिण्डिवि इति नाम अस्ति ।  मिनिकायद्वीपः एतेषु द्वीपेषु बृहत् अस्ति । एषः तिरुवनन्तपुरम् दिशि अस्ति । भारतीयाः अत्र मुक्ततया गत्वा आगच्छन्ति । अत्र बहुजनाः महम्मदीयाः सन्ति । विदेशीयानां अत्र गमनाय अनुमति पत्रम् आवश्यकम् अस्ति ।
अत्र विशेषाकर्षणम् सागरजले निमज्यखेलनं लक्ष्यद्वीपस्य राजधानी कवरट्टी अस्ति । अत्र नारिकेलवृक्षाणां वाटिकाः सन्ति । बङ्गारम् द्वीपे प्रवासिनाम् उपाहारगृहाणि सन्ति । अत्र स्कुबा डैविङ्ग् (जलस्य अन्तः प्रविश्य तरणम्), स्नोरकेलिङ्ग(नलिकायाः साहाय्येन जले तरणम्)च विशेषाः सन्ति ।

विमानसेवा, हेलिकाप्टरसेवा, नौकायानं च प्रतिदिनं कार्यरतानि सन्ति । अत्र गमनार्थम् प्रवासोद्यमविभागतः अनुमतिस्वीकारः आवश्यकः अस्ति ।




#Article 64: सिक्किमराज्यम् (495 words)


सिक्किमराज्यम् भारतदेशस्य ईशान्यदिशि विद्यमानं लघुराज्यम् । अस्य राज्यस्य केन्द्रं गङ्गटोक इत्येतन्नगरम् । एषः पर्वतीयप्रदेशः वर्तते । १९७५ तमे वर्षे जनमतं सङ्गृह्य भारतदेशे समाविष्टः जातः अयं प्रदेशः । अङ्गुष्ठाकारराज्यम् इति प्रसिद्धं राज्यमिदम् । काञ्चनजङ्गा (८५८५ मी.) नामकं जगति तृतीयम् उच्चतरं शिखरम् अस्मिन्नेव राज्ये राराजते । राज्यमिदं भारतदेशे पर्यटनस्य प्रमुखकेन्द्रमपि मन्यते ।

सिक्किमराज्यस्य विस्तारः ७,०९६ चतुरस्रकिलोमीटर्मितः अस्ति। क्षेत्रफलदृष्ट्या अस्य स्थानं भारतदेशस्य राज्येषु निम्नतमाद् द्वितीयम् अस्ति। अस्य राज्यस्य पश्चिमदिशि नेपालदेशः, उत्तरदिशि चीनदेशः, पूर्वदिशि तिबेट्, आग्नेयदिशि भूतानदेशः दक्षिणदिशि पश्चिमवङ्गराज्यम् च अस्ति। अत्र सिङ्गलिला-चोला पर्वतावली स्तः। तिस्ता, रङ्गीत रङ्गपो च अस्य राज्यस्य प्रमुखनद्यः विद्यन्ते। अत्रस्थं वनस्पति-प्राणिवैविध्यं महत्त्वपूर्णम्।

अस्य राज्यस्य जनसङ्ख्या न्यूनतमा अस्ति । सिक्किमराज्यस्य जनसङ्ख्या(२०११) ६,१०,५७७ अस्ति । अस्मिन् ३,२३,०७० पुरुषाः, २,८७,५०७ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ८६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९० अस्ति । अत्र साक्षरता ८१.४२ % अस्ति । मण्डलेऽस्मिन् ७४.८५% जनाः ग्रामेषु निवसन्ति ।

कृषिः, उद्यमः, उद्यानपालनं, पर्यटनव्यवसायः इत्येते व्यवसायाः अत्रस्थजनानाम् उपजीविकां कल्पयन्ति । पर्यटनव्यवसायः अस्य राज्य-अर्थव्यवस्थायाः कशेरुका मन्यते । एला(cardamom)उत्पादने मण्डलमिदम् अग्रगण्यम् । तथा चायं, काफीबीजं च प्रमुखसस्योत्पादनानि । अस्मिन्मण्डले खनिजसम्पत्तिः अधिका वर्तते परं सम्पत्तेः शुद्धीकरणोद्यमानां सङ्ख्या तावती नास्ति ।

लेप्चा, नाओङ्ग, चङ्ग, मोन इत्यादयः अत्रस्थपुरातन्यः जनजातयः सन्ति। एतेषां जनजातीनाम् सामोपचारेण एकत्र निवासार्थं तुर्-वे-पा-नो अर्थात् पुनू अयं यतितवान्। १७ शतके तिबेटन् स्थलान्तरम् अभवत्। तदा भूतिया इति तत्रस्थाः जनजातिजनाः बहुसङ्ख्यया सिक्किम राज्यं प्रविष्टवन्तः। सिक्किमनिवासिजनाः प्रमुखतया निसर्गपूजकाः आसन्। यदा भूतियाजनानाम् आगमनम् अभवत् तदा तैः मूलसिक्किमजनानां बौद्धमतान्तरणाय यतितम्। दक्षिणसिक्किमप्रदेशे तदा 'सक्य' राज्ञः आधिपत्यमासीत् । अनन्तरं १६४२ तमवर्षतः ३३२ वर्षाणि यावत् नामग्यालवंशस्य प्रशासकानाम् आधिपत्यमासीत्। १८ शतके नेपालीजनानां विस्तारवादीभूमिका वर्धमाना आसीत्। नेपालजनाः चीनदेशस्योपरि आक्रमणं कर्तुं यतितवन्तः। परं चीनजनैः नेपालजनानां पराजयः कृतः। नेपालजनाः सिक्किम-राज्य-आक्रमणाय अपि यतितवन्तः। परं तदा भारतदेशे आङ्ग्लानाम् आधिपत्यम् आसीत्। आङ्ग्लप्रशासकैः स्वार्थरक्षणाय सिक्किम जनेभ्यः साहाय्यं दत्तम्। १८१४ तमे वर्षे आङ्ग्ल-नेपालयुद्धम् अभवत्। नेपालदेशः पराजितः। १८१७ तमे वर्षे आङ्ग्लैः सिक्किम प्रशासकैः सह 'Treaty Of Titalia'-सन्धिः कृता। आङ्ग्लानां डार्जीलिङ्ग स्थलविषये रुचिः आसीत्, कारणं दार्जिलिङ्ग स्थलतः तिबेट, नेपाल, सिक्किम इत्येतेषु प्रदेशेषु व्यापारः, प्रशासनं च समीचिनं भवेत्। अतः आङ्ग्लानां तथैव व्यवहारः आसीत्। अन्ततः १८३५ तमे वर्षे नामग्यालप्रशासकेन दार्जिलिङ्ग स्थलम् आङ्ग्लप्रशासकेभ्यः निश्चितं धनं स्वीकृत्य दत्तम्। एषः व्यवहारः चोग्याल-नामग्याल इत्यनेन प्रशासकेन कृतः। १९४७ तमवर्षपर्यन्तम् अयमेव क्रमः आसीत्। १९४७ तमे वर्षे भारत-संयुक्त-राष्ट्रनिर्माणसमये सिक्किमराज्यस्य स्वतन्त्रम् अस्तित्वं संस्थाप्य भारतदेशः रक्षणकर्ता (Protectorate) भविष्यति एवं योजनां कृत्वा स्वस्थानं संरक्ष्य अयं प्रदेशः भारतदेशे समाविष्टः जातः। तदा ताशी-नामग्याल इति शासकस्य आधिपत्यमासीत्। अनन्तरं प्रशासकयोः मध्ये सङ्घर्षः जातः। १९७० तमे वर्षे एषः सङ्घर्षः उच्चतमः आसीत् अन्ते १९७३ तमे वर्षे नामग्यालशासकानां प्रशासनं समाप्तिं गतम्। १६ मे १९७५ दिनाङ्के सिक्किम भारत देशस्य २२ तमराज्यत्वेन समाविष्टं जातम्।

अत्र बहूनां जनजातीनां वैविध्यपूर्णम् एकत्र वास्तव्यं भवति । लेप्चा, भूतिया, नेपाली जनजातयः तेषु प्रमुखाः । अत्रस्थजनाः उत्सवप्रियाः सन्ति । उत्सवदिनेषु सिक्किमराज्यस्य छद्ममुखधारकाणां नृत्यप्रकारः प्रसिद्धः । उत्सवदिनेषु बाजरी इत्यस्य 'चङ्ग' इति विशिष्टसंस्कृतपदार्थः जनैः वेणुस्थाल्यां भुज्यते । 'फाङ्ग ल्हाब्सोल' इति विशिष्टोत्सवः । एतम् उत्सवं काञ्चनजङ्गा इति अत्रस्थदेवतायै धन्यवादवितरणार्थं जनाः विशिष्टतया आचरन्ति । सिक्किमनूतनवर्षस्य २८,२९ तमे च दिने 'कग्यत' इति नृत्यं विशिष्टत्वेन नृत्यन्ति । 'दसेन'(दसरा) इति बृहत्तमः उत्सवः अत्रस्थाः नेपाळी, हिन्दुजनाः च ओक्टोबर् मासे आचरन्ति । अत्रस्थानि वेणुकाष्ठैः तक्षितानि वस्तूनि, पटाः, चित्राणि च विशिष्टाः सन्ति ।    

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि - 

 




#Article 65: हरियाणाराज्यम् (2840 words)


हरियाणाराज्यं (Haryana) भारतस्य किञ्चन राज्यम् अस्ति ।  क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । हरियाणा राज्यं प्रवासाय उत्तमम् अस्ति । सर्वत्र उत्तममार्गाः निर्मिताः सन्ति । प्रवासिजनानाम् उत्तमभोजनवसत्यादिव्यवस्था प्रमुखस्थलेषु कल्पिता अस्ति । चण्डीगढ हरियाणाराज्यस्य राजधानी अस्ति । काल्का, अम्बाला, सूरजकुण्ड, कुरुक्षेत्रं, रेवारी, मुख्यनिस्थानानि सन्ति । अम्बाला, भिवानी, कुरुक्षेत्रं सूरजकुण्ड प्रेक्षणीयस्थलानि सन्ति । पानीपत्, गुड़गांव, फरीदाबाद औद्योगिकस्थलानि सन्ति।  वस्तुतः तु चण्डीगढनगरं पञ्जाबहरियाणाराज्ययोः राजधानी अस्ति । चण्डीगढनगरस्य स्वच्छनगरं तथा उत्तमतया योजितनगरम् इति प्रसिद्धिः अस्ति । पाणिपतनगरेण एतिहासिकमहत्वं प्राप्तम् अस्ति । हिस्सार राजगृहाणि दुर्गं च अतीवाकर्षकाणि सन्ति । पिञ्जोरप्रदेशे सुन्दरवाटिकाः सन्ति।

कुरुक्षेत्रं महाभारतयुद्धस्थलमिति  प्रख्यातम् अस्ति । पौराणिक पुण्यस्थलम् चास्ति । अत्र वाहनसञ्चारः सुगमः कल्पितः अस्ति । हरियाणाराज्ये सूरजकुण्ड, कर्नाल्, बडकल् लेक्, पिप्ली, पञ्चकुल इत्यादि प्रेक्षणीयानि स्थानानि सन्ति ।

हरियाणा-राज्यस्य नामकरणे विभिन्नमतानि सन्ति । 

ई. स. १३२८ तमस्य वर्षस्य कस्मिँश्चित् संस्कृताभिलेखे हरियाणा-शब्दस्य उल्लेखः दृश्यते । 

हरियाणा-राज्यस्य उत्तरदिशि हिमाचलप्रदेश-राज्यं, दक्षिणदिशि, पश्चिमदिशि च राजस्थान-राज्यम्, उत्तर-पश्चिमदिशि पञ्जाब-राज्यं, पूर्वदिशि उत्तरप्रदेश-राज्यम्, उत्तराखण्ड-राज्यं, देहली-राज्यं च स्थितम् अस्ति । यमुना-नदी हरियाणा-राज्यस्य प्रमुखा नदी अस्ति । इयं नदी हरियाणा-राज्यस्य पूर्व-भागे प्रवहति । घग्गर, टङ्गरी, मरकण्डा इत्यादयः नद्यः अपि प्रवहन्ति ।

हरियाणा-राज्यं भौगोलिकदृष्ट्या द्वयोः प्राकृतिकक्षेत्रयोः विभक्तम् अस्ति । प्रथमं - हिमालयस्य क्षेत्रं, द्वितीयं – सिन्धु-गङ्गानद्योः स्थलीयक्षेत्रेषु विभक्तम् अस्ति । अस्य राज्यस्य स्थलीयक्षेत्रम् अत्यधिकम् उर्वरम् अस्ति । किन्तु दक्षिण-पश्चिमभागः शुष्कः, सिकतामयः च अस्ति । अस्य राज्यस्य चत्वारि प्रमुखाणि भौगोलिक वैशिष्ट्यानि सन्ति । प्रथमम् - उत्तर-दिशि शिवालिक-पर्वतशृङ्खला अस्ति । द्वितीयं – घग्गर-यमुनानद्योः स्थलीयभागः द्वयोः भागयोः विभक्तः अस्ति । बाङ्गर, खादर च । तृतीयं – मरुस्थलीयः अर्धभागः । चतुर्थं – दक्षिणदिशि अरावलीपर्वतशृङ्खला । 

हरियाणा-राज्ये ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं, शीतर्तौ अत्यधिकं शीतलं च भवति । ग्रीष्मर्तौ हरियाणा-राज्यस्य तापमाम् अधिकतमं ५० डिग्री मात्रात्मकं भवति । वर्षतौ हरियाणा-राज्यस्य केषुचित् क्षेत्रेषु अधिकमात्रायां वर्षा भवति, केषुचित् क्षेत्रेषु अल्पमात्रायां वर्षा भवति । शिवालिक-क्षेत्रे अत्यधिकं वर्षा भवति । किन्तु अरावली-पर्वतीयक्षेत्रं शुष्कं भवति । तत्र अल्पवर्षा भवति ।

गुडगांव-नगरं हरियाणा-राज्यस्य औद्योगिकनगरं विद्यते । अतः इदं नगरं हरियाणा-राज्यस्य आर्थिकराजधानी कथ्यते । नगरमिदं देहली-महानगरात् ३० किलोमीटर्मितं दूरे स्थितम अस्ति । तत्र “नया गुडगांव”, “पुराना गुडगांव” इत्येते द्वे नगरे स्तः । किन्तु तयोः नगरयोः भिन्नता दृश्यते । यतः “पुराना गुडगांव”-नगरे पुरातनानि भवनानि सन्ति । किन्तु “नया गुडगांव”-नगरे उच्चभवनानि दृश्यन्ते । नया गुडगांव”-नगरं विकाशीलं दृश्यते । गुडगांव-नगरं देहली-नगरस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । पुरा गुडगांव-नगरे कृषिः क्रियते स्म । किन्तु साम्प्रतं तस्य नगरस्य जनसङ्ख्या अपि अधिका अस्ति । अस्मिन् नगरे अशीत्यधिकानि बृहद्क्रयणकेन्द्राणि (Shoping Centre) सन्ति । तानि – एम्बिएन्स् मॉल्, सिटी सेन्टर् मॉल्, प्लाजा मॉल् च । तेषु “एम्बिएन्स् मॉल्” भारतस्य बृहद्क्रयणकेन्द्रेषु दितीयः अस्ति । गुडगांव-नगरे भ्रमणार्थं बहूनि उद्यानानि अपि सन्ति । लीशर् वेली पार्क्, किङ्गडम् ऑफ् ड्रीम्स्, अप्पू घर, सुल्तानपुर पक्षी अभयारण्य, पटौदी महल च इत्यादीनि पर्यटनस्थलानि सन्ति ।

पुरा गुडगांव-नगरम् आर्थिकदृष्ट्या अविकसितम् आसीत् । किन्तु समयान्तरे अस्य नगरस्य आर्थिकः विकासः अभवत् । नगरेऽस्मिन् डी. एल्. एफ्. (DLF) इत्यनया संस्थया जनेभ्यः वृत्तिः प्रदत्ता । तेन स्थानीयजनाः धनिकाः अभवन् । गुडगांव-नगरस्य कृषकाः अपि धनिकाः अभवन् । तैः कृषकैः स्वस्य कृषिभूमिः उद्योगपतिभ्यः विक्रीता । अनेन कारणेन इदं नगरम् औद्योगिकगतिविधीनां महत्त्वपूर्णं केन्द्रं विद्यते । अस्मिन् नगरे बहुराष्ट्रियाणाम्, अन्ताराष्ट्रियाणां च व्यावसायिकसंस्थानां मुख्यालयाः अपि सन्ति । अतः इदं नगरं विकासशीलनगरेषु गण्यते ।

आवर्षं तत्र पर्यटकाः भ्रमणार्थं गच्छन्ति । किन्तु शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं भवति । अतः तस्मिन् समये अधिकमात्रायां वीक्षणार्थिनः आनन्दप्राप्तये गुडगांव-नगरं गच्छन्ति । देहली-महानगरस्य “इन्दिरागान्धीराष्ट्रियविमानस्थानकं” गुडगांव-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अपरं च रेलमार्गेण, भूमार्गेण च नगरमिदं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

पौराणिककथानुसारं कुरुक्षेत्रं पौराणिकस्थलेषु अन्यतमम् अस्ति । अस्यां भूमौ पाण्डवकौरवाणां महाभारत-युद्धम् अभवत् । नगरमिदं हरियाणा-राज्यस्य मण्डलं विद्यते । कुरुक्षेत्र-मण्डलस्य मुख्यालयः कुरुक्षेत्रे एव अस्ति । नगरमिदं हरियाणा-राज्यस्य प्रसिद्धं स्थलं वर्तते । इदं नगरं हरियाणा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । इदं नगरं परितः अम्बाला-नगरं, यमुनानगरं, करनाल-नगरं, कैथल-नगरं च स्थितम् अस्ति । इदं नगरं देहली-नगरेण, अमृतसर-नगरेण च सह सम्बद्धम् अस्ति । नगरमिदं राष्ट्रियराजमार्गे, रेलमार्गे च स्थितम् अस्ति । इदमेकम् ऐतिहासिकं हिन्दुतीर्थस्थलम अस्ति ।

समयान्तरे अस्य नगरस्य इतिहासस्य प्रभुत्वं वर्धमानम् अस्ति । भगवान् बुद्ध, नैकाः सिक्खधर्मगुरवः च अपि तत्र गतवन्तः आसन् । तत्र गत्वा तैः बहूनि सामाजिककार्याणि कृतानि सन्ति । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । यथा – मन्दिराणि, सिक्खोपासनागृहाणि च । एतैः स्थलैः कुरुक्षेत्रस्य आकर्षणे वृद्धिर्भवति । तत्र “ब्रह्मा सरोवर टैङ्क्” अस्ति । सूर्यग्रहणसमये श्रद्धालूनां सम्मर्दः भवति । समीपे सरोवरः अपि अस्ति । तस्मिन् सरोवरे श्रद्धालवः स्नानं कुर्वन्ति । जनाः तेषां मृतपितॄणां मोक्षार्थं पिण्डदानं कुर्वन्ति । इदं स्थलं विश्वस्य पुण्यतीर्थस्थलेषु अन्यतमम् अस्ति । यतः अस्य नगरस्य ज्योतिसार-क्षेत्रे भगवता कृष्णेन अर्जुनाय गीतोपदेशः प्रदत्तः आसीत् ।

ई. स. १९८७ तमे वर्षे “कुरुक्षेत्र विकास बोर्ड्” इत्याख्येन कृष्णा सङ्ग्रहालयः स्थापितः आसीत् । अस्मिन् सङ्ग्रहालये भगवतः श्रीकृष्णस्य प्रसङ्गात्मकानि चित्राणि, कलाकृतयः, मूर्तयः, स्मृतिचिह्नानि च सन्ति । तैः कृष्णस्य कुशलराजनीतिः, दार्शनिकता, आध्यात्मिकता, प्रेम च ज्ञायते । तत्र कृष्णसम्बद्धाः पाण्डुलिपयः अपि सन्ति । “कल्पना चावला” इत्याख्यायाः स्मृतौ “कल्पना चावला प्लानेटेरियम्” इत्याख्यं संस्थापितम् आसीत् । अनेन कृत्रिमग्रहमण्डलमाध्यमेन “कल्पना चावला” इत्याख्यायै श्रद्धाञ्जलिः प्रदीयते । अस्य नगरस्य एकस्मिन् क्षेत्रे “शेख चेहली” इत्याख्यस्य समाधिः अपि अस्ति । तत्र स्थानेश्वरमहादेवमन्दिरं विद्यते । तस्मिन् मन्दिरे शिवलिङ्गं स्थितम् अस्ति । इदं मन्दिरं कुरुक्षेत्रस्य थानेसर-क्षेत्रे स्थितम् अस्ति । तत्र नाभिकमलमन्दिरम् अपि विद्यते । तस्मिन् मन्दिरे द्वयोः भगवतोः प्रतिमे स्थिते स्तः । कुरुक्षेत्रे श्वेतशैलैः निर्मितं बिरला-मन्दिरम् अपि अस्ति । तत्र भीष्मकुण्डः अस्ति । अयं कुण्डः महाभारतकालीनः अस्ति । अयं कुण्डः ऐतिहासिकः अस्ति । अपि च कुरुक्षेत्रमण्डलस्य नारकतारी-ग्रामः विद्यते । तस्मिन् एव ग्रामे महाभारतयुद्धे भीष्मपितामहः शरशय्यायाम् आसीत् । तत् स्थानम् अपि पवित्रतमम् अस्ति । वायुमार्गेण, धूमशकटमार्गेण, भूमार्गेण च कुरुक्षेत्र-नगरं प्राप्यते । अस्य नगरस्य समीपस्थं विमानस्थानकं चण्डीगढ-नगरे स्थितम् अस्ति ।

ई. स. १९६६ तमस्य वर्षस्य नवम्बर-मासस्य प्रथमे दिनाङ्के (१ नवम्बर १९६६) हरियाणा-राज्यस्य स्थापना अभवत् । हरियाणा-राज्यस्य इतिहासः सिन्धुघाटीसभ्यतया सह सम्बद्धः अस्ति । हस्तिनापुरतः गान्धारपर्यन्तम् इदं सप्तसिन्धुक्षेत्रम् आसीत् । आर्याणाम् आगमनानन्तरम् अस्मिन् क्षेत्रे आर्याणां जनानां सङ्ख्या वर्धिता । अनन्तरं बहूनि राज्यानि स्थितानि, वैदिकसंस्कृतीनां विकासश्चाभवत् । प्रागैतिहासिककाले इदं राज्यम् आर्यसंस्कृतेः मुख्यकेन्द्रम् आसीत् । वैदिकवाङ्मये इदं राज्यं देवभूमिः कथ्यते । अस्मिन् राज्ये सरस्वती-नदी प्रवहति । सा वैदिकनदी कथ्यते । अस्मिन् राज्ये वैदिकमन्त्राणां रचना जाता । महाभारतकाले कौरव-पाण्डवानां युद्धं कुरुक्षेत्रे अभवत् । तत् कुरुक्षेत्रं हरियाणा-राज्ये स्थितम् अस्ति । मध्यकाले मुस्लिम-शासनकाले अस्मिन् प्रदेशे त्रीणि युद्धानि अभवन् । तेषु ई. स. १५२६ तमे वर्षे प्रथमं पानीपत-नामकं युद्धम् अभवत् । तस्मिन् समये बाबर-इत्याख्येन राज्ञा भारते मुघल-साम्राज्यं स्थापयितुम् इब्राहिम लोदी इत्याख्येन राज्ञा सह युद्धं कृतम् आसीत् । द्वितीयं युद्धम् ई. स. १५५६ तमे वर्षे अभवत् । तस्मिन् समये अकबर-इत्याख्येन अफगान-राजा पराजितः । एवं च तृतीयं युद्धम् ई. स. १७६१ तमे वर्षे अभवत् । ई. स. १८५७ तमे वर्षे स्वातन्त्र्यान्दोलने हरियाणा-राज्यस्य महद्योगदानम् आसीत् । ई. स. १९१९ तमे वर्षे पलवल-रेलस्थानके आङ्ग्लैः महात्मा परासेधितः  ।

हरियाणा-राज्यम् एकविंशतिः मण्डलेषु विभक्तम् अस्ति ।

 

 

२०११ जनगणनानुगुणं हरियाणा-राज्यस्य साक्षरतामानं ७६.१० प्रतिशतम् अस्ति । पुरुषस्य साक्षरतामानं ८५.५० प्रतिशतं, महिलानां साक्षरतामानं ६६.८० प्रतिशतं च अस्ति । हरियाणा-राज्यस्य गुडगांव-मण्डलस्य साक्षरतामानं सर्वाधिकम् अस्ति । तस्य मण्डलस्य साक्षरता ८४.२ प्रतिशतम् अस्ति । किन्तु मेवात-मण्डलस्य साक्षरतामानम् न्यूनतमम् अस्ति । २०११ जनगणनानुसारं मेवात-मण्डलस्य साक्षरतामानं ५६.१ प्रतिशतम् अस्ति । हरियाणा-राज्यस्य विकासाय सर्वकारेण बहवः महाविद्यालयाः, विश्वविद्यालयाः च स्थापिताः । शैक्षणिकविकासाय हरियाणा-राज्यस्य वैयक्तिकसंस्थानानाम्  अपि महद्योगदानम् अस्ति । ई. स. १९६६ तमे वर्षे कलाविज्ञानयोः ४० महाविद्यालयाः आसन् । ई. स. १९९७ तमे वर्षे १४० महाविद्यालयाः अभवन् । राज्ये ३५१७ उच्चतरमाध्यमिकविद्यालयाः सन्ति । एवं च १०,१३४ आधारभूताः पाठशालाः सन्ति । एतानि सर्वाणि संस्थानानि हरियाणा-राज्यस्य ६,७५९ ग्रामेषु, ९४ पत्तनेषु च स्थितानि सन्ति । हरियाणा-राज्ये चत्वारः विश्वविद्यलयाः सन्ति । कुरुक्षेत्र-नगरे “कुरुक्षेत्र विश्वविद्यालयः”, रोहतक-नगरे “महर्षि दयानन्द विश्वविद्यालयः”, हिसार-नगरे गुरु जम्भेश्वर-विश्वविद्यालयः, हिसार-नगरे “चौधरी चरण सिंह कृषि विश्वविद्यालयः” च । अपरं च दुग्धोत्पादकानां विकासाय करनाल-नगरे “राष्ट्रीय डेयरी अनुसन्धान संस्थानं” स्थितम् अस्ति   ।

हरियाणा-राज्यस्य सांस्कृतिकजीवने लोककथाः, लोकनृत्यानि, लोकगीतानि दृश्यन्ते । वसन्तर्तौ होली-उत्सवे जनाः परस्परं गुलालं प्रक्षिपन्ति । गुलालेन जनेषु प्रीतिः वर्धते । अस्मिन् उत्सवे जनेषु वयभेदः, जातिभेदः न भवति । हरियाणा-राज्ये भगवतः कृष्णस्य जन्मदिवसः अपि उत्साहपूर्वकम् आचर्यते । यतः अस्य राज्यस्य कुरुक्षेत्र-युद्धस्थले एव भगवता कृष्णेन अर्जुनाय श्रीमद्भगवद्गीतायाः उपदेशः प्रदत्तः आसीत् । हिसार-नगरस्य समीपे अग्रोह-तीर्थं, पेहोवा-तीर्थं च स्थितम् अस्ति । अग्रोह-तीर्थं भगवतः अग्रसेनस्य जन्मस्थलं वर्तते । अग्रसेनः अग्रवाल-समाजस्य पूर्वजः, प्रवर्तकः वा मन्यते । अग्रवाल-समाजस्य जनाः सम्पूर्णे भारते व्यापारं कुर्वन्ति । अयं समाजः सम्पूर्णे भारते विस्तृतः अस्ति । भारतस्य व्यापारिवर्गेषु अग्रवाल-समाजः प्रमुखः वर्तते । अग्रोहा-तीर्थम् अग्रसेनस्य जन्मभूमिः अस्ति । अतः अग्रवाल-समाजेन अग्रसेनस्य सम्मानत्वेन तत्र चिकित्साविद्यालयः स्थापितः । पेहोवा-तीर्थस्थलं सरस्वती-नद्याः तटे स्थितम् अस्ति । इदं स्थलं पितृश्राद्धकर्मणे महत्त्वपूर्णं पवित्रस्थलं वर्तते । 
हरियाणा-राज्ये जनैः विभिन्नाः उत्सवाः आचर्यन्ते । तेषु होली, दीपावलिः, वैशाखीपर्व, गणगौर, गुग्गा पीर, साँझी च इत्यादयः उत्सवाः मुख्याः सन्ति । अस्मिन् राज्ये आवर्षं नैके उत्सवाः आचर्यन्ते । तेषु सूरजकुण्ड शिल्प मेला, गोपाल मोचन मेला, मसानी मेला च इत्यादयः प्रमुखाः उत्सवाः सन्ति । “सूरजकुण्ड शिल्प मेला” इत्यस्य उत्सवस्य प्रतिवर्षं फरवरी-मासे आयोजनं भवति । कुरुक्षेत्र-नगरे अपि प्रतिवर्षं मेला-उत्सवः आयोज्यते । अयम् उत्सवः लोकप्रियः अपि अस्ति । हरियाणा-राज्ये सूर्यग्रहणे कुरुक्षेत्रे मेला-उत्सवः आयोज्यते । बहुत्र “पशुमेला” अपि आयोज्यते । हरियाणा-राज्यस्य पारम्परिकावासानां वास्तुशिल्पकला भारते ख्याता अस्ति । तेषाम् आवासानां द्वाराणां संरचना अपि विशिष्टा वर्तते ।

हरियाणा-राज्यं धार्मिकदृष्ट्या, ऐतिहासिकदृष्ट्या च समृद्धम् अस्ति । अस्मिन् राज्ये पौराणिककालीनानि बहूनि स्थलानि सन्ति । तत्र श्रीकृष्णेन कुरुक्षेत्रे अर्जुनाय गीतायाः उपदेशः प्रदत्तः आसीत् । अपरं च तत्र पानीपत-युद्धस्य इतिहासः अपि दृश्यमानः भवति । अतः अस्मिन् राज्ये पर्यटकाणां भ्रमणार्थं बहूनि ऐतिहासिकस्थलानि, धार्मिकस्थानानि च सन्ति । अस्मिन् राज्ये अधिकमात्रायां पर्यटकाणाम् आवागमनं भवति । अस्मिन् राज्ये मन्दिराणि, तडागाः, जलाशयाः चापि सन्ति । हरियाणा-राज्ये चत्वारिंशदधिकानि वीक्षणीयस्थलानि सन्ति । तेषु केषाञ्चित् स्थलानां सामान्यपरिचयः अधः प्रदत्तः अस्ति -मासतः नवम्बर-मासपर्यन्तं बहवः जनाः भ्रमणार्थं तत्र गच्छन्ति । तस्मिन् समये नूह-नगरस्य वातावरणं मनोहरं भवति । गुडगांव-रेलस्थानकं नूह-नगरस्य समीपस्थं रेलस्थानकं वर्तते । गुडगाव-रेलस्थानकम् नूह-नगरात् ४५ किलोमीटर्मिते दूरे स्थितम् अस्ति । 

होडल-नगरं हरियाणा-राज्यस्य पलवल-मण्डले स्थितम् अस्ति । इदं नगरम् उत्तरप्रदेशस्य सीमायां स्थितम् अस्ति । होडल-नगरं देहली-नगरात् ८८ किलोमीटर्मिते, आग्रा-नगरात् १५० किलोमीटर्मिते च दूरे स्थितम् अस्ति । अस्मिन् नगरे चमेली-वनं, हनुमन्-मन्दिरं च स्थितम् अस्ति । विशेषतः मङ्गलवासरे बहवः श्रद्धालवः दर्शनार्थं तत्र गच्छन्ति । तत्र “त्यागी बाबा” इत्याख्यः अपि प्रसिद्धः अस्ति । फरवरी-मासतः अप्रैल-मासपर्यन्तं, अगस्त-मासतः नवम्बर-मासपर्यन्तं वसन्तर्तौ अधिकमात्रायां जनाः भ्रमणार्थं गच्छन्ति । राष्ट्रियराजमार्गेण इदं होडल-नगरं देहली-नगरेण, गुडगांव-नगरेण च सह सम्बद्धम् अस्ति ।   

हरियाणा-राज्यस्य एकं लघुनगरम् अस्ति अम्बाला-नगरम् । इदं नगरं द्वयोर्भागयोः विभक्तम् अस्ति । एकम् अम्बाला-नगरम्, अपरं च अम्बाला छावनी च । अम्बाला-नगरात् अम्बाला-छावनी इत्येतत् ३ किलोमीटर्मितं दूरे अस्ति । अम्बाला-नगरं गङ्गा-सिंधु-नद्यौ पृथक्करोति । अस्य नगरस्य दक्षिणदिशि टाङ्गडी-नदी, उत्तरदिशि च घग्गर-नदी च वहति । अत्र कानिचन एव पर्यटनस्थलानि सन्ति । तानि – बादशाह बाग गुरुद्वारा, शीश गञ्ज गुरुद्वारा, लखी शाह, टकवाल शाह, सेण्ट् पॉल् चर्च्, काली माता मन्दिरं च । इदं नगरं पञ्जाब-हरियाणा-राज्ययोः सीमायां स्थितम् अस्ति । “भवानी अम्बा मन्दिरम्” अस्मिन् नगरे लोकप्रियम् अस्ति । तस्य मन्दिरस्य नाम्ना एव अस्य नगरस्य नामकरणं कृतम् आसीत् । अम्बाला-नगरं रेलस्थानकानां सम्भागीयः मुख्यालयः अपि अस्ति । अनेन प्रकारेण हरियाणा-राज्यस्य प्रमुखरेलस्थानकम् अपि अस्ति । 
अम्बाला-नगरे वस्त्र-हट्टः भवति । सः हट्टः हरियाणा-राज्ये प्रसिद्धः अस्ति । अस्मिन् हट्टे वस्त्राणि अल्पमूल्येषु प्राप्यन्ते । तस्मिन् हट्टे सहस्राधिकाः आपणाः सन्ति । तत्र हस्तनिर्मितानि वस्त्राणि, कौशेय-वस्त्राणि च प्राप्यन्ते । अम्बाला-नगरे विज्ञान-आपणः अपि अस्ति । तस्मिन् आपणे वैज्ञानिकशल्योपकरणानि सन्ति । अतः एव नगरमिदं “वैज्ञानिकोपकरणानां नगरम्” इति कथ्यते । जनाः अक्टूबर-मासतः नवम्बर-मासपर्यन्तम् अम्बाला-नगरं गच्छन्ति । चण्डीगढ-नगरे अम्बाला-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । एवं च रेलमार्गेण, भूमार्गेण च अम्बाला-नगरं विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

जगाधरी-नगरं हरियाणा-राज्यस्य यमुनानगर-मण्डले स्थितम् अस्ति । नगरमिदं धातुपात्रनिर्माणाय, एल्यूमीनियम्-धातूत्पादनाय, स्टील्-धातूत्पादनाय च प्रसिद्धम् अस्ति । अपरं च अस्मिन् नगरे काष्ठस्य व्यापारः अपि क्रियते । जगाधरी-नगरे बहूनि मन्दिराणि सन्ति । तानि- लठमार-मन्दिरं, खेडा-मन्दिरं, गौरीशङ्कर-मन्दिरं, मनसादेवी-मन्दिरं, गुगामादी-मन्दिरं च । जगाधरी-नगरे वीक्षणीयस्थलानि अपि बहूनि सन्ति । कलेसर-वन्यजीवाभयारण्यं, बिलासपुरं, पञ्चमुखीहनुमन्-मन्दिरं, कपाललोचन, छछरौली, तेजवाला, आदि बद्री, चनेटी च इत्यादीनि जगाधरी-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । जगाधरी-नगरस्य जलवाष्पः उष्णकटीबन्धीयः भवति । अतः जनाः भ्रमणार्थं शीतर्तौ तत्र गच्छन्ति । जगाधरी-नगरं गन्तुं बस-यानानि प्राप्यन्ते । इदं नगरं समीपस्थैः विमानस्थानकैः, रेलस्थानकैः च सह सम्बद्धम् अस्ति । 

इदं नगरं हरियाणा-राज्यस्य मण्डलत्वेन अपि स्थितम् अस्ति । रेवाडी-नगरं देहली-नगरात् ८२ किलोमीटर्मिते दूरे स्थितम् अस्ति । “हेमचन्द्र विक्रमादित्यः” भारतस्य अन्तिमः हिन्दुसम्राट आसीत् । सः अस्मिन् नगरे एव शिक्षणं प्राप्तवान् । राज्ञा हेमचन्द्रेण ताम्रपात्राणां, पीतलधातूनां च उद्योगाय यन्त्रागाराः स्थापिताः । अतः साम्प्रतमपि इदं नगरं धातूत्पादनाय प्रसिद्धम् अस्ति । रेवाडी-नगरे “रेवाडी हेरिटेज् स्टीम् लोकोमोटिव् सङ्ग्रहालयः” स्थितः अस्ति । तस्मिन् सङ्ग्रहालये बाष्पयन्त्राणि सन्ति । रेवाडी-नगरस्य जलवायुः अर्धशुष्कः अस्ति । तत्र त्रयः ऋतवः समानाः एव भवन्ति । रेवाडी-नगरं प्रमुखं रेलस्थानकम् अस्ति । नगरमिदं वायुमार्गेणम् भूशकटमार्गेण, भूमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

पञ्चकूला-नगरं चण्डीगढ-नगरस्य उपग्रह-नगरम् अस्ति । अस्य नगरस्य सीमा मोहाली-नगरेण सह सम्मिलति । चण्डीमन्दिर-नामकं सेनाशिबिरं पञ्चकूला-नगरे स्थितम् अस्ति । इदं शिबिरं भारतीयसेनायाः मुख्यालयः अपि अस्ति । घग्गर-नद्याः तटे स्थितम् अस्ति इदं पञ्चकूला-नगरम् । अस्मिन् नगरे घग्गर-नद्याः पञ्च कुल्याः सन्ति । एताः कुल्याः स्थानीयजनेभ्यः अर्थसाधिकाः भवन्ति । ग्राम्यजनाः तासां कुल्यानां संरक्षणं कुर्वन्ति । पञ्चकूला-नगरस्य पूर्वदिशि, पश्चिमदिशि च हिमाचलप्रदेश-राज्यं, पश्चिमदिशि पञ्जाब-राज्यं, दक्षिणदिशि चण्डीगढ-नगरं च स्थितम् अस्ति । अस्य नगरस्य समीपे शिवालिक-पर्वतशृङ्खला अपि अस्ति । नगरेऽस्मिन् “ताऊ देवीला-क्रीडाङ्गणम्” अस्ति । इदं क्रीडाङ्गणम् “आई. पी. एल्. (IPL)” इत्यस्यै क्रीडायै प्रसिद्धम् अस्ति । अस्य नगरस्य समीपे पिञ्जौर-क्षेत्रम् अस्ति । क्षेत्रमिदम् औद्योगिकं वर्तते । तत्र “एच्. एम्. टी (HMT)” इत्याख्यः यन्त्रागारः अपि अस्ति । तत्र बहवः स्थानीयजनाः कार्यरताः सन्ति । 
पञ्चकूला-नगरे “मोरनी हिल्” इत्येतत् पर्वतीयक्षेत्रम् अस्ति । इदं प्राचीनस्थले स्थितम् अस्ति । शिवालिक-पर्वतशृङ्खलायाः कश्चन भागः अस्ति इदं क्षेत्रम् । शिवालिक-पर्वतशृङ्खलायाः तले बहूनि मन्दिराणि अपि सन्ति । पिञ्जौर-क्षेत्रे मुघल-उद्यानम् अस्ति । तद् उद्यानं यादवेन्द्र-उद्यानम् इति नाम्ना अपि ज्ञायते । घग्गर-नद्याः तटे सिक्ख-उपासनागृहम् अस्ति । ई. स. १८१५ तमे वर्षे निर्मितं मनसादेवी-मन्दिरं चण्डीगढ-नगरात् ८ किलोमीटर्मिते दूरे स्थितम् अस्ति । इयं देवी वरदायिनी अस्ति इति मन्यते । ३६० वर्षेभ्यः पूर्वं निर्मितं रामगढ-दुर्गम् अपि तत्र स्थितम् अस्ति । पञ्चकूला-नगरस्य जलवायुः उपोष्णकटिबन्धीयः अस्ति । अक्टूबर-मासतः नवम्बर-मासपर्यन्तं जनाः पञ्चकूला-नगरं गच्छन्ति । चण्डीगढ-नगरस्य विमानस्थानकं पञ्चकूला-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । एवं च रेलमार्गेण, भूमार्गेण च देशस्य विभिन्ननगरैः सह इदं नगरं सम्बद्धम् अस्ति । 

हरियाणा-राज्यस्य द्वितीयं बृहत्तमं नगरम् अस्ति फरीदाबाद-नगरम् । “बाबा फरीद” इत्याख्येन इदं नगरं स्थापितम् । अतः तस्य नाम्ना फरीदाबाद-नगरम् इति नामकरणम् अभवत् । “बाबा फरीद” इत्याख्येन तत्र एकः दुर्गः, मुस्लिम-उपासनागृहं च निर्मापितम् आसीत् । अधुनापि तेषां भग्नावशेषाः प्राप्यन्ते । इदं नगरं परितः देहली-महानगरं, गुडगांव-नगरम् उत्तरप्रदेश-राज्यं च स्थितम् अस्ति । अतः अस्य नगरस्य भौगोलिकस्थितिः महत्त्वपूर्णा अस्ति । देहली-नगरात् फरीदाबाद-नगरं २५ किलोमीटर्मिते दूरे अस्ति । इदं नगरं यमुना-नद्याः केषुचित् क्षेत्रेषु व्याप्तम् अस्ति । फरीदाबाद-नगरं हरियाणा-राज्यस्य औद्योगिककेन्द्रम् अपि अस्ति । तन्नगरे विभिन्नवस्तूनाम् उत्पादनं भवति ।

बदखल झील, सूरज-कुण्डः, राजा नाहर सिंह पैलेस, शिरडी-सांईबाबा-मन्दिरं, शिवमन्दिरं, सेण्ट् मेरी चर्च्, धौज झील, अरावली गोल्फ् कोर्स्, नाहर सिंह क्रिकेट् स्टेडियम्, टाउन् पार्क्, झरना मन्दिर गांव, मोहब्बताबाद, फरीदखान का मकबरा, वैष्णोदेवी-मन्दिरसंस्थानं, फरीदाबाद-तापीय-विद्युत्गृहं च इत्येतानि फरीदाबाद-नगरस्य समीपस्थानि प्रमुखाणि वीक्षणीयस्थलानि सन्ति । वर्षर्तुं विहाय फरीदाबाद-नगरस्य जलवायुः अर्द्धशुष्कः, उष्णः, शुष्कश्च भवति । वर्षर्तौ फरीदाबाद-नगरस्य वातावरणम् आर्द्रमयं भवति ।

नारनौल-नगरं हरियाणा-नगरस्य महेन्द्रगढ-मण्डले स्थितम् अस्ति । इदम् ऐतिहासिकनगरं विद्यते । महाभारते अपि अस्य नगरस्य नामोल्लेखः प्राप्यते । अकबर-राज्ञः नवरत्नेषु अन्यतमस्य बीरबल-इत्याख्यस्य जन्मस्थलं मन्यते इदं नारनौल-नगरम् । “शेर शाह सूरी” इत्याख्यस्य जन्म अपि अस्मिन् नगरे अभवत् । अस्मिन् नगरे विभिन्नौषधिभिः च्यवनप्राशः निर्मीयते । आयुर्वेदिकच्यवनप्राशाय इदं नगरं सम्पूर्णभारते प्रसिद्धम् अस्ति । “धौसी हिल्” इत्येतत् पर्वतीयक्षेत्रं नारनौल-नगरस्य प्रमुखं वीक्षणीयस्थलं वर्तते । इदं स्थलं लुप्तज्वालामुखीत्वेन मन्यते । यतः साम्प्रतमपि ततः लाक्षा प्राप्यते । वैदिककालीनस्य च्यवनर्षेः आश्रमः अपि नारनौल-नगरे स्थितः अस्ति । अतः एव इदं नगरं भारते प्रसिद्धम् अस्ति ।

नारनौल-नगरे चामुण्डादेव्याः विशिष्टं मन्दिरं विद्यते । इदं मन्दिरं प्राचीनम् अस्ति । मुघल-शासनकाले अस्मिन् मन्दिरे मुस्लिम-उपासनागृहं निर्मापितम् आसीत् । किन्तु स्वन्त्रतानन्तरम् उत्खननेन मन्दिरमिदं पुनः प्राप्तम् । भारतस्य प्रत्येकेभ्यः स्थानेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । नारनौल-नगरस्य उत्तरभागे एकस्मिन् शैले “चोर गुम्बद” इत्येतत् प्रसिद्धस्थलम् अस्ति । तदपि नारनौल-नगरस्य पर्यटनस्थलं वर्तते । “इब्राहिम खान सूर् की कब्र”, “जल महल”, त्रिपोलिया गेटवे च इत्यादीनि अपि पर्यटनस्थलानि सन्ति । त्रिषु ऋतुषु अस्य नगरस्य वातावरणं सामान्यं भवति । अतः जनाः आवर्षं भ्रमणार्थं तत्र गच्छन्ति । नारनौल-नगरं हरियाणा-राज्यस्य अन्यनगरैः, प्रतिवेशिराज्यैः च सह भूमार्गेण सम्बद्धम् अस्ति । देहली-नगरात् नारनौल-नगरं १६८ किलोमीटर्मिते दूरे स्थितम् अस्ति । देहली-नगरे स्थितम् विमानस्थानकं नारनौल-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं नगरं रेलमार्गेण, भूमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

सोहना-नगरं हरियाणा-राज्यस्य गुडगांव-मण्डले स्थितम् अस्ति । अत्र बहूनि पर्यटनस्थलानि सन्ति । अतः जनाः सप्ताहान्ते वीक्षणार्थं तत्र गच्छन्ति । इदं स्थलम् अरावली-पर्वतशृङ्खलासु स्थितम् अस्ति । तत्र उष्णजलस्य जलप्रपाताः अपि सन्ति । सोहना-नगरे शिवस्य एकं प्राचीनं मन्दिरं विद्यते । प्रतिवर्षं तत्र गङ्गास्नानम् इति नामकः उत्सवः आयोज्यते । सोहना-नगरस्य पर्वतशिखरे एकम् उद्यानम् अपि अस्ति । “दमदम झील” इत्येतत् स्थलं सोहना-नगरस्य प्रसिद्धम् वीक्षणीयस्थलं वर्तते । तस्य स्थलस्य प्राकृतिकं सौन्दर्यं मनोहरं वर्तते । तत्र प्रतिवर्षस्य फरवरी-मासे “विण्टेज् कार् रैली” इत्यस्याः स्पर्धायाः आयोजनम् अपि क्रियते । फरवरी-मासतः अप्रैल-मासपर्यन्तम्, अगस्त-मासतः नवम्बर-मासपर्यन्तं च वसन्तर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति । देहली-नगरात्, गुडगांव-नगरात्, पटलव-नगरात् च सोहना-नगराय बसयानानि प्राप्यन्ते । सोहना-नगरं देहली-राज्येन, राजस्थान-राज्येन, उत्तरप्रदेश-राज्येन च सह भूमार्गेण सम्बद्धम् अस्ति ।

फतेहाबाद-नगरं हरियाणा-राज्यस्य मण्डलत्वेन अपि स्थितम् अस्ति । मन्यते यत् – आर्यजनाः पुरा सरस्वती-नद्याः, दृषद्वती-नद्याः तटे निवसन्ति स्म । समयान्तरे ते हिसार-नगरे, फतेहाबाद-नगरे निवासाय गतवन्तः । पुराणेषु अपि अस्य नगरस्योल्लेखः दृश्यते । पुराणेषु कथ्यते यत् – “इदं नगरं नन्दी-साम्राज्यस्य कश्चन भागः आसीत् । फतेहाबाद-नगरे अशोकस्तम्भः अपि अस्ति । तेन ज्ञायते यत् – “इदं नगरं मौर्यसाम्राज्यस्य अपि अंशः आसीत्” । पुरातत्त्वविभागेन तत्र उत्खननं कृतम् । उत्खनने प्राचीनाः पुरावशेषाः प्राप्ताः । अतः ज्ञायते यत् – “अस्मिन् नगरे प्राचीनभारतीयसंस्कृतेः प्रभावः अपि आसीत्” । चतुर्दशशताब्द्यां फिरोजशाह तुगलक इत्याख्येन शासकेन इदं नगरं स्थापितम् आसीत् । फिरोजशाह इत्याख्यस्य “फतेह खान” इत्याख्यः पुत्रः आसीत् । अतः तस्य नाम्ना अस्य नगरस्य नाम फतेहाबाद-इति कारितम् ।

फतेहाबाद-नगरे बहूनि पर्यटनस्थलानि सन्ति । तेषु अशोकस्य कीर्तिस्तम्भः प्रसिद्धम् अस्ति । किन्तु फिरोजशाह तुगलक इत्याख्येन राज्ञा अयं स्तम्भः नाशितः । फिरोजशाह इत्याख्यः स्तम्भस्य अधोभागं फतेहाबाद-नगरं नीतवान् आसीत् । अस्मिन् नगरे “हुमायूं मस्जिद्” इति मुस्लिम-उपासनागृहम् अस्ति । हुमायूम् इत्याख्येन राज्ञा एव अस्य निर्माणं कारितम् आसीत् । हुमायूम् इत्याख्यः राजा प्रतिशुक्रवासरं तत्र प्रार्थनां कर्तुं गच्छति स्म । अस्य उपासनागृहस्य निर्माणं मुघल-स्थापत्यशैल्यनुसारं कारितम् । ई. स. १५२६ तमे वर्षे अस्य निर्माणकार्यम् आरब्धम् । ई. स. १५५६ तमे वर्षे अस्य निर्माणकार्यं सम्पूर्णं जातम् । फतेहाबाद-नगरे कुणाल-क्षेत्रम् ऐतिहासिकं स्थलं वर्तते । तत्स्थलं हडप्पासंस्कृत्या सह सम्बद्धम् अस्ति । 
फतेहाबाद-नगरस्य समीपे बन्वाली-नामकं स्थलम् अपि अस्ति । वन्वाली इति नाम्ना अपि तत्स्थलं ज्ञायते । इदं स्थलं फतेहाबाद-नगरात् १५ किलोमीटर्मिते दूरे स्थितम् अस्ति । बन्वाली-स्थलस्य उत्खनने अपि हडप्पा-युगस्य ऐतिहासिकाः अवशेषाः प्राप्ताः । ते अवशेषाः प्रायः ४००० वर्षेभ्यः पुरातनानि सन्ति । सितम्बर-मासतः नवम्बर-मासपर्यन्तं फतेहाबाद-नगरस्य वातावरणं मनोहरं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति । फतेहाबाद-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

इतः परम् अपि हरियाणा-राज्ये बहूनि पर्यटनस्थलानि सन्ति । हरियाणा-नगरस्य समालखा-नगरे “ब्लू जे”, पानीपत-नगरे “स्काईलार्क्”, उचाना-नगरे “चक्रवर्ती झील”, पीपाली-नगरे “पराकीट”, अम्बाला-नगरे “किङ्गफिशर्”, फरीदाबाद-नगरे “मैगपाई”, होडल-नगरे “दबचिक”, धारूहेडा-नगरे “जङ्गल बबलर”, हिसार-नगरे “रेड बिशप्”, गुडगांव-नगरे “शमा”, बहादुरगढ-नगरे “गौरैया” च इत्यादीनि वीक्षणीयस्थलानि सन्ति ।




#Article 66: कोलकाता (546 words)


कोलकाता  (,  ) भारतस्य पूर्वाञ्चलीयस्य पश्चिमवङ्गराज्यस्य राजधानी, प्रधानवानिज्यकेन्द्रं तथा वृहत्तमनगरम् । हुगलीनद्याः पूर्वतीरे अवस्थिते नगरेऽस्मिन् पञ्चाशताधिकलक्षजनाः निवसन्ति । परन्तु कोलकातानगरसंलग्नानां प्रदेशानाम् अंशविषेशेन निर्मितस्य वृहत्तरकोलकातानगरस्य जनसंख्या प्रायः १ कोटि ४० लक्षपरिमितम् । जनसंख्याविचारे नगरमिदं भारतस्य तृतीयवृहन्नगरं तथा द्वितीयमहानगरम् । समग्रविश्वे कोलकातामहानगरं अष्टमस्थानम् (जनसंख्याविचारे) आवहति ।   

१७७२ तमे संवत्सरे वङ्गस्य राजधानी प्रथमवारं मुर्शिदाबादतः कोलकातां प्रति स्थानान्तरिता आसीत् । न केवलं वङ्गस्य अपि तु १९११ वर्षपर्यन्तं समग्रभारतस्य राजधानी आसीत् । १९२३ तमे वर्षे क्यालकाटा म्युनिसिपल् एक्ट् माध्यमेन कोलकातनगरस्य स्वायत्वशासनकर्ती एका पौरसंस्था स्थापिताऽसीत् । १९४७ वर्षे भारतविभाजनान्तरं कोलकाता नवनिर्मितस्य पश्चिमवङ्गराज्यस्य राजधानी घोषिता जाता आसीत् । तस्मिन् समये कोलकाता आधुनिकभारतस्य शिक्षा-विज्ञान-शिल्प-संस्कृति-राजनीतेः पीठस्थानमासीत् । १९५४ तमवर्षानन्तरं राजनैतिकास्थिरतया तथा अर्थनैतिकावक्षयेन प्राचीनगौरवस्थानं खर्वितम् आसीत् । 

वैप्लविकान्दोलननिमित्तम् एवञ्च सुदीर्घसांस्कृतिक-ऐतिह्यनिमित्तम् अस्य कोलकातानगरस्य प्रसिद्धिः । भारतस्य स्वाधीनतान्दोलने तथा परवर्तीकाले वामपन्थीनः गणान्दोलने नगरमिदं  प्रमुखभूमिकाम् अवहत् । अपरपक्षे आधुनिकभारतस्य प्रधानसांस्कृतिककेन्द्रेषु अन्यतमा कोलकाता  जाता । एतस्मात् कोलकाता भारतस्य सांस्कृतिकराजधानी इत्याख्यया अभिहिता । अपरेपक्षे कोलकातायाः आनन्दनगरी(City of Joy) इत्यपि सुप्रसिद्धनाम विद्यते । राजा राममोहन राय, रवीन्द्रनाथ ठाकुर्, स्वामी विवेकानन्दः, सुभाष चन्द्र बसु, मादार् तेरेसा, सत्यजीत् राय, सी वी रमन्, अमर्त्य सेन् प्रमुखाणां विश्ववरेण्यव्यक्तीनां कर्मभूमिः कोलकाता महानगरी । समृद्धसांस्कृतिक-ऐतिह्यनिमित्तं एषा नगरी आ विश्वे उन्नतस्थानम् आप्नोति ।

वर्तमानकोलकाता नगरी भारते ब्रिटिशानां आगमनात् प्राक् 'सुतानुटि', 'गोविन्दपुर' तथा 'कलकाता' इति त्रिधा विभक्ता आसीत् । बाङ्गलाशब्दः कलकाता तथा आङ्ग्लशब्दः क्यालकाटा नामपदयोः उत्सः कलिकाता इति शब्दः । कलिकाता इति नामपदस्य व्युत्पत्तिः व्युत्पत्तिप्रसङ्गे विद्वत्सु नास्ति मतैकम् । प्रसिद्धमतमस्ति यत् कालीक्षेत्रम् इति शब्दात् कलिकातापदम् आगतम् । कालीक्षेत्रमित्येन पदेन देव्याः काल्याः राज्यमिति अर्थः द्योत्यते । मतान्तरं पोषयन्ति केचनाः यत् किलकिला इति बाङ्गलाशब्दात् कोलकाताशब्दः आगतः । अपरेकं मतानुसारं खाल(नलः) काट्टा(खननम्) इति पदयोः संयोगात् इदानीन्तन-नामपदमागतम् ।

२००१ तमे वर्षे नगरस्य आधिकारिक-आङ्ग्लनाम क्यालकाटा-तः (Calcutta) परिवर्त्य कोलकाता (Kolkata) अभवत् । केचनाः मन्वन्ति यत्  अस्य नगरस्य ब्रिटिशोत्तराधिकारसूत्रं विलोपं नामपरिवर्तनकरणेन जातम् । वैदेशीयगणमाध्यमाः इदं नामकरणं नाङ्गीकारं कृतवन्तः । परन्तु बि बि सी इति गणमाध्यमेन बोम्बाई स्थले मुम्बई  तथा क्यालकाटा स्थले कोलकाता इति नामद्वयम् अङ्गीकृतम् । 

कोलकतानगरस्य समीपे चन्द्रकेतुगढनामकस्थाने प्रत्नतात्त्विकखननात् प्रमाणितं यत् अयं प्रदेशः द्विसहस्रवर्षं पूर्वमपि वस्तिपूर्णमासीत् । मध्ययुगीय-नैकेषु ग्रन्थेषु(बाङ्गला) हुगलीनद्याः तीरवर्तीग्रामस्य कोलकातायाः उल्लेखमस्ति । एतेषु विप्रदासस्य मनसामङ्गलकाव्यम्(१४९५ क्रै.स), मुकुन्दराम-चक्रवर्तिना रचितं चण्डीमङ्गलकाव्यम्(१५९४-१६०६), सैयद् आलाओलस्य पद्मावती(१६४५-५२), कृष्णराम महोदयस्य कालिकामङ्गलकाव्यम्(१६७६-७७) सनातन घोषाल महोदयस्य भाषा-भागवत्(१६७९-८०) इति अन्यतमाः ग्रन्थाः भवन्ति ।

१५८२ तमे वर्षे राज्ञः टोडरमलस्य निर्देशानुसारं समग्रवङ्गप्रदेशस्य(अविभक्तवङ्गः) भूमिमापनकार्यम् अभूत् । ओयालिश्-ए-जमा तुमार् इति नाम्ना मापनकार्यस्य एका आवली प्रकाशिता आसीत् । 'आबुल् फज़ल्' महोदयस्य आइन्-ए-आकबरी(१५९० क्रै स) इति ग्रन्थे उद्धृता इयं आवली । अस्याम् आवल्यां कलिकाता इति ग्रामस्य उल्लेखः अस्ति  । १६९० तमे वर्षे ब्रिटिश् ईष्ट् इण्डिया संस्थायाः वाणिज्यकाः प्रथमवारं वाणिज्यविस्ताराय ’कलिकाता’नगरीम् आगतवन्तः . इतःपरमेव कलिकातायाः लिखितेतिहासस्य प्रारम्भः आसीत् . साम्राज्यवादी ऐतिहासिकगणस्तु ’जब् चार्णक्’ इति ब्रिटिशप्रशासकं कोलकातानगर्य्याः प्रतिष्ठातारूपेण स्वीकरोति स्म . यद्यपि आधुनिकैः गवेषकैः मतमिदं खण्डितम् अस्ति . २००३ तमे वर्षे कोलकाता-उच्चन्यायालयेन जनस्वार्थपरिप्रेक्षिते सूचितं यत् कामपि व्याक्तिं कोलकातायाः प्रतिष्ठाता इत्यभिधया अभिहितं कर्तुं न शक्यते .

कोलकाता नगरी पूर्वदिशि २२°३३′ उत्तरगोलार्धे तथा ८८°२०′ पूर्वद्राघिमांशे विद्यते . इयं नगरी गाङ्गेय-त्रिकोणाकारे द्वीप्रदेशे अवस्थिता अस्ति . समुद्रपृष्ठतः कोलकातायाः औन्नत्यं प्रायः १.५(५ फुट्) – ९(३० फुट्) मिटर् पर्यन्तम् भवति .  उत्तर-दक्षिणदिशि अस्य नगरस्य विस्तारः हुगलीनद्याः तटीयप्रदेशानुभूमिकः आसीत् . वस्तुतः स्थलमिदं जलपूर्णमासीत् . नगरस्य जनसंख्यायाः वृद्ध्यानुगुणं वसतिनिमित्तं अवतलभूमिः जनैः पूरिमासीत् .  अवशिष्टा पूर्वकोलकाता-जलभूमिः नाम्ना परिचिता । 'रामसार् कन्भेन्सन्' अनुसारं इयं जलभूमिः अन्ताराष्ट्रिय-गुरुत्वसम्पन्ना । 

सिन्धु-गाङ्गेय समभूमेः सदृशः अयं प्रदेशोऽपि पलिजया(alluvial) मृत्तिकया निर्मिता । अस्मिन् प्रदेशे कोवाटारनारियुगस्य मृत्तिकास्तरः दृश्यते । मृत्तिकास्तरे कर्दमास्तरद्वयम् अस्ति । अधस्तनस्य कर्दमास्तरस्य गहनता २५० मीटर्-तः (८२० फूट्) ६५० मीटर् (२,१३३ फूट्) पर्यन्तम् । तथा उपरितनस्य स्तरस्य गहनता १० मीटर्-तः (१३१ फूट्) ४० मीटर् (१३१ फूट्)-पर्यन्तम् । ब्युरो इण्डियन् स्ट्यान्डार्स् संस्थायाः अभिलेखनुसारं कोलकाता तृतीयस्तरीया भू-कम्पनक्षेत्रम् ।




#Article 67: चेन्नै (248 words)


चेन्नै (சென்னை) तमिलनाडु राज्यस्‍य राजधानी अस्‍ति।
चैन्नैनगरं (तस्य पूर्वनाम मदरास्) भारते स्थितेषु महानगरेषु अन्यतममस्ति । अत्र स्थित्वा दर्शनीयानि स्थानानि बहूनि सन्ति ।

एतत् सागरतीरस्थं विहारधाम अस्ति । विनोदाय विहाराय च अत्र ‘बीचरेसार्ट’ अस्ति एम्यूसमेण्ट् उद्यानमस्ति । वसत्यर्थम् ६५ कुटीराः सन्ति कुटुम्बस्य सर्वे जनाः आगत्य अत्र विरोमदिनेषु सन्तोषम् अनुभवितुम् उत्तमं स्थानमेतत् ।
मार्गः –चैन्नैतः २९ कि.मी मामल्लपुरम् मार्गः ।....

एतत् मुत्तकाडु इति प्रसिद्धं विश्रामस्थानमस्ति । बालानां वयस्कानां च अत्र अनेकविधक्रीडाः सन्ति । अप्सरालोके(fairy tale) वर्णितानि पात्राणि हम्प्टी, डम्प्टी, ब्याटमन् , क्रूकड्  ट्रि, टोरेण्डो कोस्टल् रैड इत्यादीनि सन्ति । पाश्चात्यदेशे दृश्यमानानि कतिचन दृश्याणि अपि अत्र द्र्ष्टुं  शक्नुमः । कौबाय् ल्याण्ड् , विण्डमिल्  शिप् व्रेक इत्येतानि अतीवसुन्दराणि सन्ति । सुन्दरे प्यारिसमार्गे  चलितुं शक्यते । क्रीडासु बम्पर् कार्, स्लैड्, आन्दोलिकाः च सन्ति ।
अत्र मनोरञ्जनद्वारा शिक्षणमपि साध्यमस्ति । 
इतरस्थानानि नाम डाष् अण्ड् स्प्ल्याष्  तथा किष्किण्ट् (१२२ कि.मी दूरे अस्ति) 

चैन्नैनगरस्य उत्तरभागे स्थितं प्रेक्षणीयं स्थानम् एतत् । अत्र तरणं मत्स्यग्रहणं  च मनोहरं भवति । चैन्नैनगरतः एतेषां प्रवासार्थं दर्शनार्थं व्यवस्था कल्पिता अस्ति । चैन्नैनगरे वासः कर्तुं शक्यते ।

चेन्नै नगरे अनेके देवालयाः विद्यन्ते । तेषु कपालीश्वर-मरुन्धीश्वर-देवालयौ अन्यतमौ ।

अत्र कोरमण्डलसागरतीरम् अत्यन्तं सुन्दरम् अस्ति । मरिना सागरतीरम् अतीव जनप्रियम् । एतत् ४.५ कि.मी दीर्घम् । प्रपञ्चे दीर्घतीरेषु द्वितीयम् इति प्रसिद्धम् अस्ति । प्रतिदिनम् अत्र सहस्रशः जनाः आगच्छन्ति । बिहारं समुद्रस्नानम् च कुर्वन्ति ।
ईलियट्स् बीच् (बेसेण्ट्नगर), कोवलाङ्गबीच् चैन्नैतः ४० कि.मी. दूरे स्तः । मुत्तुकाडुप्रदेशे सागरपूर्व जले विहारः नौकायानं, मत्स्यग्रहणं च कर्तुं शाक्यते । मामल्लपुरमपि सागरतीरे एव अस्ति । देशीयानां विदेशीयानां च प्रमुखम् आकर्षणकेन्द्रमेतत् । अत्र तरणं कदाचित् अपायाय भवति । तरङ्गाः अत्र वेगेन आगच्छन्ति ।




#Article 68: तिरुवनन्तपुरम् (1006 words)


तिरुवनन्तपुरम् (मलयाळम्: തിരുവനന്തപുരം) केरळराज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।

अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति । केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण नित्यहरितनगरम् इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।

तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम । सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।  

तिरुवनन्तपुरतः १८ कि.मी दूरे विद्यमानं समुद्रतीरसुखबासकेन्द्रम् । समुद्रयुखास्थिताः महाशिलाः तरणाय अचिता अननाधता, आतपसेवायै उचितं सिकतामयं विशालं तीरम् इत्येतानि आकर्षकाणि ।
नेटयार डाम्-नगरात्, २९ कि.मी, उत्तरपूर्वादिशि । लधुवन्यभृगर्सरक्षणकेन्द्रम् । निटिनिकरमध्यसंस्थः तडाणः आकर्षकः ।

श्रीनारायणगुरुदेवस्य समाधिस्थानम् ।

श्रीपद्मनाभस्वामिमन्दिरम् सुवर्णनिर्मिता अन्तशाचिनो विष्णोः मूर्तिरेव प्रतिष्ठा । भारते संपत्समृद्धौ प्रथमस्थानं वर्तते अस्य मन्दिरस्य् ।

तुम्पायाम् तुम्पा इळवट्टोरियल् रोकट भोञ्चिङ स्टेशन् १९६९ आणस्त १५ राष्ट्राय अर्पितम् ।
केरलस्र्वकलाशालायाः (विश्वविद्यालयस्य) आटलनम् कार्यवट्टं नाम ग्रामं ।
विषिञ्चम् –आय राज्ञाम् आस्थानम् । अद्य इदं मस्यबन्धनकेन्द्रम् भारतस्य प्रथमा समुद्रदतलाय –विद्युन्निर्माणपद्धतिः अत्रैव ।
दूरदर्शनसंप्रेषण्निलयः -१९८२ नवम्बरमासे आरब्धः

राज्यस्य सर्वोत्तमम् आधुनिकाचिकित्साकेन्द्रम्

वलियतुरायाम् ।

केरळराज्यस्य राजधानीस्थाने स्थितम् एतत् नगरम् त्रिवेण्ड्रम् इत्यपि ख्यातम् अस्ति । भारते दक्षिणपूर्वप्रदेशे अरब्बीसागरपश्चिमघट्टयोः मध्ये सप्तपर्वतानाम् उपरि विद्यमानम् एतत् नगरं रमणीयम् अस्ति । अस्य पौराणिकं नाम शयना नन्दूरपुरमिति ।
इतिहासानुसारं तिरुवनन्तपुरं तिरुवाङ्कूरुसंस्थानस्य भागः आसीत् । महाराजः मार्ताण्डवर्मा एतत् नगरं राजधानीम् कृतवान् । प्रसिद्धस्य काव्यकर्तुः स्वातितिरुनाळ् महोदयस्य श्रमेण तिरुवनन्तपुरस्य सांस्कृतिकतया अभिवृद्धिः जाता अस्ति ।
स्वातितिरुनाळ् क्रिस्ताब्दे १८३४ तमे वर्षे आङ्गलभाषाशिक्षणार्थं विद्यालयं संस्थापितवान् । अनन्तरम् अनेकैः महाराजैः कलाविद्यालयाः विश्वविद्यालयाः च स्थापिताः सन्ति । स्वातन्त्र्यप्राप्तेरनन्तरम् भारतेन सम्मिलितं तिरुवाङ्कूरुसंस्थानम् अग्रे केरळराज्यम् इति प्रसिद्धम् अभवत् । आधुनिककाले तिरुवनन्तपुरनगरं  उत्तमा, सुन्दरी राजधानी इति प्रख्यातम् अस्ति ।

तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वकारस्य च अनेके कार्यालया: वर्तन्ते । विविधव्यवसायशृङ्खलायाः मुख्यकार्यालयाः च अस्मिन् नगरे तिष्ठन्ति । केरलराज्यस्य राष्ट्रियसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम् । उन्नतविद्याभ्याससंस्थाः च अत्र वर्तन्ते । प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादयः तेषु प्रमुखाः । भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते ।

ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थितिः भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् । 
आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरं तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।

भारतस्य दक्षिणाग्रे पश्चिमपार्श्वे 8.5° N 76.9° E अक्षांशरेखांशेन तिरुवनन्तपुरं विराजते । अस्य जनपदस्य पश्चिमभागे आरबसागरः पूर्वभागे सह्यपर्वतः च वर्तते । नद्यः लघुपर्वताः च देशे तत्र तत्र विद्यन्ते । वेल्लायणी ह्रदः, करमना नदी, किल्लियार्, आक्कुळं, तिरुवल्लं च तिरुवनन्तपुरे प्रवहन्त्यः प्रमुखाः जलाशयाः भवन्ति । समुद्रात् 1890 मी. उपरि स्थितः अगस्त्यकूटम् इति प्रसिद्धः पर्वतः एव अस्य नगरस्य परमोन्नतप्रदेशः । पोन्मुटि, मुक्कुन्निमला च अत्रत्य पर्सिद्धगिरिरिसोर्ट्स् (Hill Resorts)भवति ।
	उष्णमेखलाप्रदेशे वर्तते इत्यतः तिरुवनन्तपुरे विभिन्नकालावस्थाः प्रत्यक्षतया न अनुभूयन्ते । उष्णधर्मपरिमाणं 34 °C तथा 21 °C च मध्ये वर्तते । वायो: आर्द्रता वृष्टिकाले अत्र नवति प्रतिशतं वर्धते । दक्षिणपश्चिममन्सून् (south-west monsoon) मार्गे आद्ये विद्यमाने अस्मिन् नगरे वृष्टिः अपि आद्यमागच्छति । प्रतिवर्षं 1700 mm वृष्टिः अत्र पततीति शास्त्रज्ञानां गणना । जून् मासे वृष्टि: आरभ्यते, डिसम्बर् मासत: फेब्रुवरी पर्यन्तं शीतमनुभूयते । मार्च् तः मेय् पर्यन्तम् उष्णमनुभूयते ।

	पूर्वकाले तिरुवनन्तपुरस्य साम्पत्तिकावस्था सेवनमेखलायामाधारितमासीत् । नागरिकेषु षष्ठिप्रतिशतं सर्वकारीयकर्मकारा: आसन् । किन्तु अद्य विवरसाङ्केतिकविद्या, बयो टेक्नोलजि, वैद्यशास्त्रमेखला च अत्रत्य साम्पत्तिकमेखलां नयति । भारतस्य प्रथम आनिमेषन् पार्क् (Animation Park) किन्फ्रा फिल्म् आन्ट् वीडियो पार्क् Kinfra Film and Video Park अस्मिन् नगरे तिष्ठति ।

भारते विवरसाङ्केतिकमेखलायाम् अनुबन्धकार्येषु च तिरुवनन्तपुरं चतुर्थस्थाने वर्तते । अस्यां मेखलायां नगरस्य केन्द्रं भवति टेक्नोपार्क । १९९५ वर्षे इदं स्थापितम् । केरलस्य तन्त्रांशनिर्याते ८० प्रतिशतम् अस्य नगरस्य योगदानं वर्तते । टेक्नोपार्क केन्द्रे २५० संस्थाः विद्यन्ते । तेषु ३५,००० जनाः च कर्म कुर्वन्ति । Oracle Corporation, Infosys, TCS, HCL, Visual Graphics Computing Services, Ernst  Young Global Shared Services Center, Allianz Cornhill, RR Donnelley, UST Global, Tata Elxsi, IBS Software Services, NeST Software, SunTec Business Solutions इत्यदि अन्ताराष्ट्रियसंस्थानां शाखाः टेक्नोपार्क केन्द्रे वर्तन्ते ।

तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला । अनेके देशविदेशयात्रिकाः प्रतिदिनमत्र पर्यटनं कुर्वन्ति । आयुर्वेदः, समुद्रतीरः, गिरिप्रदेशीयसुखवासकेन्द्राणि च अस्य नगरस्य विनोदसञ्चारकेन्द्रेषु अन्यतमानि वर्तन्ते ।

तिरुवनन्तपुरं नगरसभाया: भरणं मेयर् इति प्रसिद्धस्य नगरपितु: नेतृत्वे करोति । केरलीयनगरसभासु अस्यां नगरसभायामेव जनसंख्या अधिका वर्तते । अस्यां नगरसभायां १०० अङ्गानि विद्यन्ते । तिरुवनन्तपुरं नगरविकसनसमितिः, तिरुवनन्तपुरं मार्गविकसनसमितिः इत्याद्यनेक्यः समित्यः नगरसभायाः साहाय्यार्थं प्रवर्तन्ते । केरलनियमसभायाः ४ नियिजकमण्डलानि अस्यां नगरसभायां वर्तन्ते । तानि कषक्कूट्टं, वट्टियूरकाव्, तिरुवनन्तपुरं,  नेमं च भवन्ति ।
भारतीयकरसेनाया: एकं बृहत्केन्द्रं नगरे पाङोड् इति स्थाने वर्तते । नगरसमीपे पल्लिपपुरम् इति स्थाने CRPF आस्थानं तिष्ठति । केरलनियमसभामन्दिरं तिरुवनन्तपुरं नगरस्य हृदयभागे विराजते ।

अनेके मार्गाः, रेल् पाता च नगरे सर्वत्र जनान् योजयन्ति । सेलम्-कन्याकुमारी देशीयपाता NH-47 तिरुवनन्तपुरं नगरमार्गेषु प्रधाना । नगरहृदये तम्पानूर् स्थाने रेल निस्थानकं, केरलसर्वकारीयबस्याननिस्थानकं च राजते । समीपे एव तिरुवनन्तपुरं अन्ताराष्ट्रियविमाननिस्थानकं च वर्तते ।

२००१ भारतीयजनगणनानुसारं तिरुवनन्तपुरे ७४४७३९ जनाः वसन्ति । ९० प्रतिशतं जनाः साक्षराः । जनेषु ६५% हैन्दवा:, १८% क्रैस्तवा:, १५% इस्लामिका: च भवन्ति ।

अत्र प्रेक्षणीयानि बहूनि स्थलानि सन्ति । तेषु शङ्गुमुगं (शङ्खुमुखम्) सागरतीरम् (८ कि.मी), विमाननिस्थानं, नौकानिस्थानं, मत्स्यागारः , विक्रमसाराभाई स्पेस् सेण्टर् , प्राणिपक्षिसङ्ग्रहालयः,  नेपियर्वस्तुसङ्ग्रहालयः (१४५३), चित्रकलासङ्ग्रहालयः (१९३५) इत्यादिस्थानानि प्रमुखानि सन्ति ।
चित्रकलासङ्ग्रहालये राज्ञः रविवर्मणः चित्राणां रोरिच् महोदयस्य च चित्राणां प्रदर्शनव्यवस्था अस्ति । एतेषु प्राचीनकालीनानि तथा आधुनिककालीनानि आभरणानि सन्ति । सूक्ष्मगजदन्तशिल्पानि, मोगल् तञ्जावूरु-शैल्या लिखितानां चित्राणां सङ्ग्रहः  अस्ति । एकस्मिन् भागे रविवर्मणः चित्राणां विशेषप्रदर्शनं कृतमस्ति ।
तिरुवनन्तपुरनगरे श्रीपद्मनाभस्वामिदेवालयः सुन्दरः प्राचीनः विश्वे एव समृद्धः इति ख्यातः अस्ति । पूर्वाभिमुखः अयं देवालयः । देवालयं परितः श्रीबलिपुरंनामकः प्रावारः अस्ति । अस्य देवालयस्य गोपुरं सप्तस्तरीयं -३० मीटरोन्नतमस्ति । अन्तर्भागे सुन्दरशिल्पानि ३६८ स्तम्भेषु चित्रितानि सन्ति ।
द्वितीये अन्तर्भागे श्रीपद्मनाभस्वामिनः गर्भगृहम् अस्ति । श्रीअनन्तपद्मनाभस्वामी शयानः अस्ति । अस्य सुदीर्घा मूर्तिः अस्ति । त्रिभिः द्वारैः द्रष्टव्या अस्ति । विग्रहादुत्थिते कमले ब्रह्मदेवस्य मूर्तिरस्ति । देवालये अष्टादशपादपरिमिता शिलामूर्तिः स्वर्णमूर्तिः च स्तः । हिन्दूनां कृते एव दर्शनाय अवसरः अस्ति । पुरुषाः धवलवेष्टिधारणं कृत्वा एव दर्शनं कुर्युः ।

पध्मनाभपुरं महल् तिरुवनन्तपुरतः ५३ कि.मी दूरे अस्ति । एतस्य निर्माणं राजा मार्ताण्डवर्मा कारितवान् । भव्यं भवनं वास्तुशिल्पयुक्तं शिल्पकलायुक्तं च अस्ति । ९ कि.मी दूरे व्याली ल्यागून् प्रदेशे नौकायानव्यवस्था अस्ति । जलक्रीडापि अत्र कर्तुं शक्या ।

तिरुवनन्तपुरं निस्थानम् ।

तमिळ्नाडुकर्णाटककेरळराज्यानां सर्वेभ्यः महानगरेभ्यः वाहन- सम्पर्कः अस्ति ।
धूमशकटनिस्थानमपि तिरुवनन्तपुरनगरे अस्ति ।
वसत्यर्थं ‘चैत्रम्’ केरलप्रवासोद्यमाभिवृद्धिनिगमस्य उपाहारगृहं धूमशकटनिस्थानसमीपेऽस्ति। बेङ्गळूरुतः ७३८ कि.मी, कन्याकुमारीतः १८ कि.मी,  कोयम्बत्तूरुतः ४३६ कि.मी । चैन्नैतः ७४६ कि.मी मधुरैतः ३०५ कि.मी । मङ्गळूरुतः ७०६ कि.मी, मैसूरुतः ६४६ कि.मी । नगरदर्शनव्यवस्थास्ति ।




#Article 69: आस्ट्रेलिया (761 words)


७,६८६,८४९ च कि मी विस्तारयुतः अस्ति आस्ट्रेलियाखण्डः । तास्मेनिया अस्मिन् अन्तर्भवति । अस्मिन् खण्डे ६ राजनैतिकविभागाः सन्ति । मांसं, क्षीरं, गोधूमः, फलानि, खनिजाः, कार्यागारः इत्येतैः आधारिता आर्थिकी व्यवस्था अत्र विद्यते । 

अस्य खण्डस्य महान् भागः मरुभूमिः इत्यतः शुष्कवातावरणम् अस्ति । वार्षिकवृष्टिः सामान्यतह् ५०० मि मीटर्मितम् । पर्थ, एडिलेड्, अल्बेनि, मेल्बर्न्, सिड्नि, ब्रिस्टेन्प्रदेशेषु वृष्टिः १०००-१५०० मि मीटर्मितं भवति । डार्विन्, यार्क भूशिरः, केर्क्स्, अल्बेनि, तास्मेनियायाः पश्चिमभागे वृष्टिः १५०० मि मी अपेक्षया अधिका भवति । खण्डस्य मध्यभागः पश्चिमभागश्च शुष्कौ स्तः । मध्यभागे ५००-२५० मि मी अपेक्षया न्यूना वृष्टिः भवति । अस्ट्रेलियायाः आल्प्स्-प्रदेशे हिमपातः भवति । खण्डस्य मध्यभागे मकरवृत्तं सञ्चरति । 

जनवरीमासे अत्र ग्रीष्मकालः । दक्षिण-उत्तरभागेषु २५० -३०० सेण्टिग्रेड्मितम् औष्ण्यं भवति । मध्यभागे वायव्यभागे च ३०० -३५० सेण्टिग्रेड्मितं भवति । नैऋत्य-आग्नेयकरावलीप्रदेशेषु १०० - १५० सेण्टिग्रेड्मितं भवति । विशेषतया विशालस्याण्डिमरुभूमौ औष्ण्यं भवति ४०० सेण्टिग्रेड्मितम् । जुलैमासे अत्र शैत्यकालः भवति । तदा उत्तरकरावलीप्रदेशेषु औष्ण्यं भवति २५० -३०० सेण्टिग्रेड्मितं भवति । दक्षिणदिशि १०० सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । विशेषतया तास्मेनिया, विक्टोरिया, न्यू सौथ् वेल्स् प्रदेशेषु औष्ण्यं ५० सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । 

वातावरणानुगुणं सस्यानि अपि अत्र विविधानि भवन्ति । विक्टोरिया न्यू सौथ् वेल्स्भागेषु समशीतोष्णवलयस्य पर्णपातारण्यानि सन्ति । अत्र मरुद्रुमः नीलगिरिश्च अधिकप्रमाणेन वैविध्यमयरीत्या वर्धन्ते । निर्यास-वृक्षाः अपि अत्र वर्धन्ते । ब्रिस्टेन्तः डार्विन्पर्यन्तं करावलीप्रदेशः, उष्णवलयस्य अरण्यानि च विद्यन्ते । अत्र ओक्, फर्न्, ताडजातिवृक्षः, आर्चिड् इत्यादयः उष्णवलयस्य सस्यानि वर्धन्ते । अस्मिन् खण्डे कृष्यर्थं विद्यमाना भूमिः अत्यल्पा । अधिकांशः भागः उष्णवलयस्य तृणवर्धनसमतलप्रदेशः अस्ति । क्वीन्स्लेण्ड्, उत्तरभूप्रदेशस्य उत्तरार्धं, पश्चिमवलयस्य उत्तरार्धम् इत्येते तृणवर्धनप्रदेशाः । मरे-डार्लिङ्ग्-खातेषु च तृणानि वर्धन्ते ।

गोधूमः अत्रत्यः प्रमुखः फलोदयः । चीन-भारतयोः कृते इतः गोधूमस्य निर्यातः भवति । ओट्स्, बार्ले, सोरगम्, यावानलः, लघुप्रमाणेन व्रीहिश्च अत्र वर्धन्ते । समृद्धायाम् उत्तरभूम्यां कदली, आम्रम्, बीजपूरम्, मधुकर्कटी, अनानस्फलानि वर्धन्ते । दक्षिणभूम्यां नारङ्गम्, लिम्बूकम्, सेवम्, शुष्कद्राक्षा, बीजरहितानि वनफलानि च वर्धन्ते । अत्र ५५% भूभागः शाद्वलं १८% भूभागः अरण्यञ्च वर्तते ।

अयः, खनिजाङ्गारम्, बाक्सैट् इत्येतेषां खनिः प्रमुखतया अत्र विद्यन्ते । स्वर्णखनिः विक्टोरियायां पश्चिमास्ट्रेलियायाञ्च विद्यते । विक्टोऱिया, क्वीन्स्लेण्ड् न्यू सौथ वेल्स् प्रदेशेषु खनिजाङ्गारस्य खनिः विद्यते । न्यू सौथ् वेल्स् प्रदेशे रजतं, पुष्पाञ्जनं, सीसम्, अयः इत्येते विद्यन्ते । क्वीन्स्लेण्ड्प्रदेशे ताम्रं, युरेनियं, तैलेन्धनानि सन्ति । विक्टोरियायाम् इन्धनतैलम्, अनिलः, जिप्सम्, टिन्, स्वर्णञ्च उपलभ्यते । दक्षिणास्ट्रेलियायां सीसम्, अयः, युरेनियं खनिजाः सन्ति । उत्तरभूप्रदेशेषु ताम्रं, स्वर्णं, युरेनियं, मेङ्गनीस्, बाक्सैट्, रजतं, मैका, टङ्ग्स्टन् इत्यादीनां खनिजाः विद्यन्ते । पश्चिमास्ट्रेलिया स्वर्णाय प्रसिद्धा अस्ति । अत्रत्ययोः कालगूर्ली कूलगार्डी प्रदेशयोः स्वर्णोत्पादनं भवति । तास्मेनियायां खनिजाङ्गारं, ताम्रं, दास्ता, टिन्, रजतम् इत्यादीनां खनिजाः लभ्यन्ते ।

ग्रेट्-डिवैडिङ्ग्-श्रेण्यः अत्र विद्यमानाः दीर्घाः विस्तृताः श्रेण्यः । सिड्नेः दक्षिणतः उत्तरस्य कुक्टौन्पर्यन्तं करावलेः समानान्तररूपेण विस्तृताः एताः सस्यानां वन्यप्राणिनाञ्च वरायते । होवेभूशिरसः वायव्यभागे आस्ट्रेलियायाः आल्प्स्-पर्वतश्रेण्यः विद्यन्ते । अत्र विद्यमानं २२३४ मी उन्नतं कोसियस्कोशिखरम् अस्मिन् खण्डे विद्यमानम् अत्युन्नतं शिखरं वर्तते । न्यूक्यासलस्य पश्चिमदिशि ब्लूपर्वताः सन्ति । एडीलेड्तः दक्षिणोत्तरदिशि फ्लैण्डर्स्-श्रेण्यः विद्यन्ते । ऐरिसरोवरस्य पूर्वभागेषु स्टुवर्ट्-मरुभूमिः, उत्तरदिशि सिम्प्सन्-मरुभूमिश्च विद्यते । अलीस्-स्प्रिङ्ग्सस्य उत्तरे मेक्डोनेल्-श्रेण्यः सन्ति । दक्षिणे मस्ग्रेव्-श्रेण्यः सन्ति । अस्याः श्रेण्याः दक्षिणभागे दक्षिण-पश्चिमभूप्रदेशेषु विक्टोरियामरुभूमिः विद्यते । अस्याः दक्षिणदिशि नल्लर्बार्-क्रीडाङ्गणं विद्यते । पश्चिमभूप्रदेशस्य मध्ये उत्तरभागे च गिब्सन्-मरुभूमिः, विशालस्याण्डि-सिकतामरुभूमिः च विद्यते । पर्थस्य समीपे डार्लिङ्ग्-श्रेण्यः सन्ति । वायव्यभागे हेमर्स्ले श्रेणी, राबर्ट्सन् श्रेणी च विद्यते । उत्तरे डर्बिप्रदेशस्य ईशान्यभागे किङ्ग् लियोपोल्ड् श्रेणी, ततः किम्बर्लि प्रस्थभूमिश्च विद्यते । उत्तरभूप्रदेशस्य उत्तरसमुद्रतीरभागे अर्न्हेम्-भूमिः विद्यते । अस्य दक्षिणभागे तनामिमरुभूमिः विद्यते । क्वीन्सलेण्ड्-प्रदेशस्य उत्तरभागे यार्क्-भूशिरसः प्रस्थभूमिः विद्यते । ऐरिसरोवरस्य कारणतः अत्र अन्तर्जलस्य लाभः विद्यते ।

अस्मिन् खण्डे विद्यमाना प्रमुखा नदी वर्तते मरेनदी । इयं विक्टोरिया-न्यू सौथ् वेल्स् प्रदेशयोः प्रवहति । अस्याः उपनद्यः सन्ति - डार्लिङ्ग्, मुर्रुम्बिजी, गौल्बर्न् च । अर्धमार्गे शुष्कतां गच्छन्त्यः काश्चन नद्याः सन्ति । पर्वतप्रदेशतः प्रवहन्त्यः पेसिफिक्-समुद्रेण मिलन्तः लघुनद्यः सन्ति । ऐरिसरोवरः दक्षिण-अस्ट्रेलियायां विद्यमानः कश्चन शुष्कः सरोवरः । फ्लैण्डर्स्-श्रेणीनां पश्चिमदिशि मधुरजलस्य सरोवराः सन्ति । पश्चिम-आस्ट्रेलियायाः कालगूर्लियां परितः प्रदेशेषु विशालविक्टोरिया-मरुभूमिप्रदेशेषु च लघुसरोवराः सन्ति । मध्य-आस्ट्रेलियायाम् अन्तर्जलं विद्यते । आर्टीसियन्-कूपैः जलं लभ्यते । 

अयं खण्डः विचित्र प्राणिनां पक्षिणां च वासभूमिः । अत्र विद्यमानाः अनेके प्राणिनः अन्यत्र न विद्यन्ते । शरीरे विद्यमानेषु स्यूतेषु श्रावकान् नयन्तः प्राणिनः अत्र अधिकतया दृश्यन्ते । काङ्गरू, वल्लाबि, पोसम्, वोम्ब्याट्, चिक्रोडः, महामूषिकः, तास्मेनियावृकाश्च एवं स्यूतवन्तः भवन्ति । कोलाभल्लूकः, प्लाटिपस्-नामकः जलचरप्राणी, पिपीलिकाभक्षी एचिड्ना इत्येते अत्रत्याः विशिष्टाः प्राणिनः । वनशुनकः 'डिङ्गो' मेषानां मृगयां करोति । शशाः अत्र अत्यधिकाः । कोकाबुर्रा-पक्षी, उड्डयननर्हः एमु, केसोवेरि, विविधशब्दान् अनुकुर्वन् लैर्-पक्षी च अत्रत्याः विशेषाः । आकर्षकवर्णयुताः शुकाः, मधुभक्षी पक्षी, तीक्ष्णपुच्छयुतः गृध्रः, बकः, कदम्बः, पेलिकन्, कृष्ण-हंसपक्षी च अत्र वसन्ति ।

पर्थ, मेल्बर्न्, ब्रिस्टेन्, सिड्नि च अत्रत्याः प्रमुखानि उद्यमकेन्द्राणि । स्वर्णं खनिजाङ्गारयोः खन्युद्यमः अत्र पुरातनीयः महाप्रमाणकश्च वर्तते । अत्र मेषपालनं, ततः मेषमांस-ऊर्णयोः उत्पादनं, निर्यातः, क्षीरं, क्षीरकृषिः, उद्यानकर्म, गोधूमकृषिः च अत्रत्यप्रमुखकार्याणि । तान्त्रिकवस्तूनि, यन्त्रोपकरणानि, वस्त्रोत्पादनम्, आहारसंस्करणम्, अरण्यवृद्धिश्च अत्रत्याः प्रधानोद्यमाः ।

काङ्गरू, डिङ्गो, वल्लाबि, कोलाभल्लूकः प्रमुखाः प्राणिनः । एमु लैर् च प्रमुखपक्षिणौ । अत्रत्यमूलनिवासिनां साधनम् अस्ति बूमराङ्ग् इत्येतत् (क्षिप्यते चेत् भ्रमणानन्तरं प्रयोक्तारं प्रत्येव आगच्छति) । आर्टिसियन्कूपाः, विशालमरुभूमिः, फलयुक्ता पूर्वकरावली, ग्रेट् बेरियर्नामिका प्रवालभित्तिः च अत्रत्य विशेषः । जनपद-आर्थिक-स्वावलम्बनयुक्तः प्रजाप्रभुत्वयुक्तः अस्ति अयम् । विमानयानद्वारा भवति अत्र आरोग्यसंरक्षणम् । टेन्निस्, क्रिकेट् च अस्य खण्डस्य विशिष्टक्रीडे । सिड्निप्रदेशे विद्यमानः अयःसेतुः ५०२ मीटर्मितं दीर्घं विद्यते ।

राजधानी - कन्बेरा

महाद्वीपः




#Article 70: अण्डोरा (142 words)


अण्डोरा () अथवा प्रिन्सिपालिटी आफ् अण्डोरा, इत्येतत् यूरोपभूखण्डस्य दक्षिणभागे, पैरनीस् पर्वतश्रेण्याः पूर्वस्यां दिशि स्थितं किञ्चन स्वतन्त्रं लघु राज्यम् । एतत् राज्यं परितः फ्रान्स्-स्पैन् देशयोः सीमा वर्तते । इदं राज्यं क्रिस्तीये ९८८ तमे वर्षे उत्पन्नम् । किन्तु एतस्य इदानीन्तनं स्वरूपं क्रिस्तीये १२७८ तमे वषे प्राप्तम् । रोमन् केथोलिक् बिषप् आफ् अर्जेल् इत्येतेन फ्रान्स् देशस्य राष्ट्राध्यक्षेण च एतत् राज्यं निरङ्कुशं शास्यते इत्यतः एतत् प्रिन्सिपालिटी व्यपदिश्यते । 

अण्डोरा-राज्यं यूरोप्-खण्डस्य लघुतमेषु राज्येषु षष्ठं स्थानं भजते। एतस्य राज्यस्य विस्तारः ४६८ चतरस्रकिलोमीटर्परिमितः तथा च जनसंख्या उपपञ्चाशीतिसहस्रं विद्यते । एतस्य राजदानी 'अण्दोरा ला वेल्ला' सर्वाभ्यः यूरोपीयदेशानां राजधानीभ्यः उन्नतस्थाने वर्तमाना यस्याः औन्नत्यं समुद्रस्तरात् १०२३ मीटर् भवति । अत्रत्या प्रमुखा भाषा तु  ’कतलान्’  नामिका किन्तु स्पानीष्-पोर्चुगीस्-फ्रेञ्च्-भाषाभिरपि बहवः व्यवहरन्ति ।
प्रतिवर्षम् अत्र दशलक्षाधिकाः आगच्छन्ति । एतत् यूरोपिय-राष्ट्रसङ्घस्य सदस्यं न , किन्तु ’ यूरो ’ इत्येत एतस्य राजस्य धनम् । १९९३ तः आरभ्य एतत् “ युनैटेड् नेषन्स् “ इत्यस्य राष्ट्रसमुदायस्य सदस्यम् अस्ति ।




#Article 71: महात्मा गान्धी (4920 words)


महात्मा  गान्धी इति प्रसिद्धः मोहनदासकरमचन्द गान्धी ( ()) (, ) (क्रि.श.१८६९-१९४८) गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा  गान्धी इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा  गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा  गान्धी उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्द गान्धी राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी  व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदास गान्धी साधारणबालकः आसीत् । मोहनदास गान्धी राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदयः सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत् । सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।

गान्धिवंशीया बनियाख्यवैश्यवर्णाः । तेऽमी पुरास्तोकानापणान्प्रतिष्ठाप्य वाणिज्यं कुर्वते स्मेति प्रतिभाति । किन्त्वस्मत्तातमारभ्यैते त्रिपौरुषपर्यन्तं काठियावाडदेशस्य कतिपयसंस्थानेषु प्रधानसचिवा बभूवुः । ओतागान्ध्यपराख्येनोत्तमचन्दगान्धिनाखण्डितवादिना भाव्यम् । तस्यास्य पोरबन्दरसंस्थाने प्रधानपदमारूढस्य क्वचित्कूटनीतिवशात्तत्संस्थानं परित्यज्य जूनागढसंस्थान आश्रयः समन्वेषणीयोऽभूत् । तदा तत्रत्यनवाबप्रभोरयं सव्यहस्तेन सभाजनं चकार । तत्प्रेक्षकेण केनचित्पुरुषेण तावदविनीतवर्तनस्य हेतुं पृष्टः स प्रत्याह इतः पूर्वमेव मम दक्षिणो हस्तः पोरबन्दरसंस्थानस्य वशवर्ती भवतीति ॥

मृतजानिरोतागान्धिद्वितीयां भार्यामुवाह । अस्य प्रथमभार्यायां चत्वारः पुत्रा द्वितीयायां च द्वौ बभूवुः । एते भिन्नोदरा इति बाल्य नाहमवेदम् । न च तद्वृत्ततो वा प्रकाशितम् । षण्णामेषां करमचन्द गान्धी कबागान्ध्यपराख्यः पञ्चमः । तुलसीदासगान्धिश्चरमः । द्वावेतौ भ्रातरौ पोरबन्दरसंस्थाने क्रमशः प्रधानसचिवावभूताम् । कबागान्धिर्हि मे पिता । स च राजास्थानिकन्यायसभायां सदस्योऽभूत् । सा सभा साम्प्रतं न विद्यते । पुरा खलु सा राज्ञश्च तद्वंश्यानां च विवादव्यवस्थापनाय प्रतिष्ठापिता भूत्या गौरवास्पदमासीत् । अपि च मे तातः कियन्तं कालं राजकोटसंस्थाने क्वचिद्वाङ्कानेरसंस्थाने च प्रधानसाचिव्यमकोरत् । अस्य निर्याणकाले राजकोटसंस्थानाद्विश्रान्तिवेतनं लभ्यते स्म ॥

कबागान्धिरनुक्रमेण चतस्रो भार्या उदवहत् । द्वयोर्द्वयोर्दवे दुहितरौ चरमायां पूतलीबाईनाम्न्यामेका पुत्री त्रयः पुत्राश्च समजायन्त । एतेषामहमेवान्तिमः ॥ मम पिता कुटुम्बवत्सलः सत्यप्रियः शूर उदारश्च । परन्तु क्रोधनः । मनाग्विषयासक्त इत्यपि वक्तव्यम् । स किल व्यतिक्रान्तचत्वारिंशद्वत्सरोऽपि चतुर्थी भार्यामुपायस्त । किन्त्वयमुत्कोचादिलोभपरवशो नाभूत् । यथा स्वकुटुम्बे तथा बहिरप्ययं निष्पक्षपातीति प्रथां सम्पादितवान् । अस्य राजनिष्ठा सर्वलोकविदिताभवत् । कदाचिदयं निजस्वामिनो राजकोटप्रभोष्ठाकूराह्वयस्य कृतापमानं 'असिस्टेण्ट्र पोलिटिकल् एजेण्ट्’ इति व्यपदिश्यमानराजकीयप्रतिनिधिं प्रत्यवतस्थे । क्रुद्धेन तेन प्रतिनिधिना क्षमामभ्यर्थयस्वेति कबा गान्धी समादिष्टोऽपि न तथाकर्तुं प्रत्यपद्यत । ततस्तेन कतिपयहोराकालपर्यन्तमसाववष्टभ्य स्थापितोऽभवत् । परन्तु वज्रकठोरमनस्कतामस्यावबुध्य स राजकीयप्रतिनिधिर्विमुच्यतामयमित्यादिदेश ॥

मम पितुर्द्रव्यसङ्ग्रहलोभो न कदाप्यासीत् । तदस्माकं पैतृकं रिक्थमल्पमल्पमागतम् ॥ अनुभवमेकं मुक्त्वा तस्य शिक्षाक्रमः कोऽपि नासीत् । अध्ययनमपि भूयसा गुजरातीपञ्चमश्रेणीपर्यन्तमेव तस्य प्रवृत्तम् । चरित्रभूगोलपरिज्ञानं तस्य न कञ्चित् । तथाप्यस्य व्यावहारिकज्ञानसम्पन्नत्वादतिसूक्ष्मप्रश्नानां निर्णये परःशतानां जनानां शासनेऽपि प्रगल्भोऽभवत् । तेन लब्धं धार्मिकशिक्षणमत्यल्पम् ।तथाप्यसंख्यातैर्हिन्दुजनैर्देवस्थानगमनपुराणपुण्यकथाश्रवणादिभिर्यावती धार्मिकज्ञानसम्पत्तिरधिगन्तुं शक्या तावती तेनापि सम्पादिता । स्वस्य मरणात् कतिपयवत्सरेभ्यः पूर्वमस्मदीयकुटुम्बमित्रेण केनचिद्ब्राह्मणविदुषा बोधितो मे पिता गीतापारायणं कर्तुमारभत । अपि च प्रत्यहं पूजासमये कतिपयश्र्लोकानुच्चैः पठति स्म ॥ 

	मम मातुर्विषये कदाप्यविस्मणीयतया यन्मे मनसि निरूढस्थितं तत्खलु सा पतिव्रता स्त्रीति । सेयं धर्मभीरुः । प्रतिदिनमापूजापाठावसानं भोजनचिन्तामपि न कलयति स्म । हवेल्याख्यवैष्णवदेवालयगमनं तस्याः प्रात्याहिककर्तव्येष्वेकतममासीत् । स्मारं स्मारमपि तस्याश्चातुर्मास्यव्रताचरणलोपः कदाचित्कोऽपि मम स्मृतिपथं नायाति । अत्यन्तकृच्छव्रतान्यपि सा सर्वात्मना समापयते स्म । आरब्धव्रतं व्याधिवशान्न कदापि पर्यत्यजत् । एकदा चान्द्रायणव्रतमाचरन्त्या रोगपीडीतयाप्यपरित्यज्य व्रतं यथावत्समापितं मम स्मृतिमुपैति । द्वित्रदिनानि यावदुपवासो नाम तस्या ईषत्करः । चातुर्मास्ये प्रतिदिनमेकमुक्तं तयाभ्यस्तमासीत् । इयताप्यपरितृप्य चातुर्मास्ये क्वचिदेकाहिकमुपवासं कुर्वती व्रतं समापयत् । अपरस्मिंश्चातुर्मास्ये सूर्यनारायणदर्शनं विना नाहारं स्वीकरिष्य इति व्रतमग्रहीत् । तदास्माभिर्बालकैर्बहिः स्थित्वा गगनैकद्रष्टिभिः सूर्यदर्शनं मात्रे निवेदयितुमवसरः प्रतीक्ष्यते स्म । वर्षाकालमध्ये सूर्यदर्शनमतीवविरलमिति सर्वेषामपि विदितमेव । बहुषु दिवसेषु सहसा प्रत्यक्षीभवति सूर्ये यथा वयं 'अम्ब अम्ब सूर्यो दृश्यते’ इति ससम्भ्रममवोचाम कदाचन यावदम्बा स्वयं द्रष्टुं बहिरूपधावति तावत्सूर्यस्तिरोहितोऽभूत् यथा चानेन तस्यास्तस्मिन्दिने भोजनाभावः प्राप्तस्तथा सर्वं स्मरामि । ईदृक् सम्भवेष्वस्माताम्लानमुखी 'न कापि चिन्ता । ममाद्य भोजनं देवता न रोचते’ इति वदन्ती स्वकार्यमनुष्ठातुं प्रतिनिवर्तते स्म ॥

	सा व्यवहारकुशला । राजास्थानसम्बन्धिनामखिलवृत्तान्तानामप्यभिज्ञाभवत् । अस्या बुद्धिकौशलमवरोधजनस्य सुविदितमासीत् । अहमनेकशो बाल्ये वयसि जनन्या सह राजमन्दिरं गत्वा तत्र मदम्बाठाकूरप्रभुजनन्योः संवृत्तं कथालापं श्रुतवानित्यद्यापि स्मरामि ॥ अनयोर्मातापित्रोर्गर्भादहं संवत् १८३५ भाद्रपदबहुलद्वादश्यां (तथा च श्रीशालिवाहनशकस्य द्विनवत्युत्तरसप्तशताधिकैकसहस्रतमे शुक्लनाम्नि संवत्सरे भाद्रपदकृष्णद्वादशीतिथौ) अधुना पोरबन्दरेतिप्रसिद्धे सुदामापुर्यां जन्माग्रहीषम् ॥

पोरबन्दरे मया बाल्यमतिवाहितम् । कामप्येकां प्रति मया गम्यते स्मेति ज्ञप्तिरस्ति । गणितकोष्टकानां घट्टीकरणं मम क्लेशावहं संवृत्तम् । अपि च सहपाठिभिः सहास्मदुपाध्यायनिन्दामशिक्षिषि । इदमुक्त्वा नान्यत् किञ्चिदपि स्मरामि । एतेन तदानीं मे बुद्ध्‌या मन्दया भवितव्यं ज्ञापकशक्त्या चापक्वया भाव्यमिति तर्कये ॥

यदा मे पिता राजास्थानिकन्यायसभासदस्यत्वमिच्छू राजकोटं प्रति प्रस्थितस्तदा मया सप्तवर्षदेशीयेन भाव्यम् । तत्राहं प्राथमिकशालां प्रवेशितोऽभवम् । तदात्वे पाठयितॄणामुपाध्यायानां नामानि सम्यगहं स्मरामि । यथा पोरबन्दरपुरे, तथैवात्रापि मम पाठलेखनादिषु न कोऽपि विशेषो दृष्टः । न चाहमितरापेक्षया बुद्धिमत्तर इति गणनीयोऽभवम् । एनां शालामतिक्रम्य नगराबाह्यवर्तिन्यां पाठशालायां दिनकतिपयान्यावदध्यगीषि । तदनु द्वादशे वर्षे हाईस्कूलाख्यमुच्चविद्यालयमहं प्रविष्टः । अस्मिन्नल्पीयसि कालेऽस्मदुपाध्यायान् वा सहपाठिनो वा नाहमनॄतं कदाप्यचकथम् । अतीव लज्जालुतया परगोष्ठीं पर्यहार्यम् । मदीयपुस्तकपाठा एव मे सहायाः । घण्टावादनसमये पाठशालोपस्थानं शालाविरामे च गृहाभिमुखीभवनं-एवं हि मेऽभ्यासः । अन्यैः सह कथालापनिस्सहेन गृहं प्रति त्वरित गतिना गम्यते स्म मा कोऽपि द्रष्ट्वा मां परिहसीदिति ॥

उच्चविद्यालये मम प्रथमवर्षपरीक्षायां यत् संवृत्तं सा घटनाद्य कथनीया भवति । तदानीन्तनविद्याभ्यासपरीक्षको जैईल्सनामा समागतः । अस्मत्परीक्षणार्थं पञ्च शबसानमस्माभिरलेखयत् । तेषामेकतमः 'केटल' इति  पदमासीत् । तस्य लेखनेऽहं स्खलितमकार्षम् । अस्मदुपाध्यायः स्वपारदरक्षाग्रेण मत्पादमभिस्पृश्य स्खालित्यसूचनाय महान्तं यत्नमकरोत् । तथापि तत्संविदं नाहमग्रहीषम् । मत्पार्श्वस्थितबालकस्य फलकं निरूप्य तल्लिखितानुकारेण स्खलितं मदीयं समीकर्तव्यमित्यस्मदुपाध्यायस्याशयोऽभवत् । तदेतन्मनसो मे नास्फुरत् । अन्योन्यलिखितानुकरणस्य निवारणमेवोपाध्यायानां कर्तव्यमिति मया हि गृहीतम् । मदेकवर्जमन्ये सर्वेऽपि शब्दान्निर्दोषेण व्यलेखिषुः । अहमेक एव मूर्खः । ततः परमुपाध्यायो मम मुग्धतां दर्शयितुं प्रायतिष्ट । तेन तस्यैव वृथाश्रमो जातो न पुनर्मया लिखितानुकरणमशिक्षि ॥

अथाप्येतेनोपाध्यायं प्रति मे गौरवं नाहीयत। ज्येष्ठगतानां हि दोषाणां यदुद्भावनं तन्मे स्वभावदूरमासीत् । यद्यपि तदुपाध्यायस्येतरे दोषा मया क्रमेणोपलब्धास्तथापि तन्निष्ठभक्तिभावो मे नान्यथा पर्यवर्तत । ज्येष्ठानामाज्ञानुवर्तनमेवास्मत्कर्तव्यं न पुनस्तेषां चारित्रपरिशोधनमित्यर्थो मम हृदयंगतोऽभूत् ॥ एतस्मिन्नेव समये संवृत्तं घटनाद्वयमपि मे मनसि लग्नं भवति । शालापुस्तकानि मुक्त्वा पुस्तकानन्तरपठनं मम नेष्टमासीत् । उपाध्यायादाक्षेपवचनं वा मया तत्प्रतारणं वा न मे रोचते स्म । अतो मया दैनन्दिनीयपाठाः शिक्षणीया एवापतिताः । तथाप्येवं शिक्षमाणस्य मानसं सर्वदा पाठैकव्यग्रमासीदिति वक्तुं न शक्यते । एवं मयि पाठ्यपुस्तकेऽपि निरवधाने सति पुस्तकानन्तरं न हि पठ्यते स्मेति किमु वक्तव्यम् । किन्तु मम पित्रा क्रितस्थापितस्य श्रवणपितृभक्त्याख्यनाटकग्रन्थस्योपरि कथमपि मे द्रष्टिरपतत् । तमेनं तत्परतयाहमपाठिषम् । तत्कालमेव ग्रामाद्ग्रामं पर्यटन्तः पुत्तलिकाप्रदर्शनोपजीविनः केचिदस्मद्ग्राममुपागमन् । तत्प्रदर्शितपुत्तलिकासु यात्रामुद्दिश्य स्कन्धावलम्बिवीवधेन स्वमातापितरौ वहमानस्य श्रवणस्य प्रतिकृतिरेका व्यलोकि । एतत्पुस्तकं पुत्तलिकाचेति द्वयं मिलित्वा श्रवणकथां मे मनसः कदाप्यप्रमार्जनीयामकरोत् । श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम् । श्रवणस्य मरणेन सन्तप्यमानयोस्यत्पित्रोर्विलापोऽद्यापि मे मनसि शोश्रूयत इव । मदर्थे पित्रा वितीर्णया रागमालिकया तमहमालापयम् । स रागो मे ह्रदयं व्यलीनयदिव ॥

नाटकान्तरसम्बन्धिन्यपरा तत्सदृशी घटनैका संवृत्ता । एतत्कालमेव कयापि नाटकमण्डल्या प्रयुक्तं नाटकमवलिकयितुं पितुरनुज्ञामध्यगच्छम् । तन्नाटकं हरिश्चन्द्रचरितात्मकमासीत् । तदेतल्लोचनासेचनकं मम मानसमकर्षत् । किन्त्वनुज्ञां कतिकृत्वः प्राप्य गन्तुं शक्येत । तथाप्येतन्निमित्तं व्यसनं नैव माममुञ्चत् । निस्संख्यवारमिदं नाटकं मया स्वयं मनसा प्रयुक्तं स्यात् । हरिश्चन्द्रेणेव सर्वैरपि कस्मात्सत्यवद्भिर्न भवितव्यम् । इत्येष प्रश्नो दिवानिशं मे मनसि पुस्फोर्यते स्म । सत्यानुसरणं सत्यस्यार्थे हरिश्चन्द्रवन्निर्विकल्पेन मनसा क्लेशानामनुभवः । इत्येष आदर्श एक एव मे मनस्याविरभूत् । हरिश्चन्द्रकथायामक्षरशः सत्यत्वप्रतीतिर्मयासीत् । सर्वस्यास्य स्मरणमनेकशो मे नेत्रोभ्यामश्रूणि निरसारयत् । कथाहरिश्चन्द्रः कश्चिद्वस्तुतो न जीवन् स्थित इत्यधुना मम लौकिकज्ञानमाख्याति । किन्तु हरिश्चन्द्रश्रवणावुभावपि मम ह्रदये नित्यसंनिहितौ स्तः । अद्यापि तन्नाटकपाठेन पूर्ववन्मे ह्रदयं विलीयत इत्यहं जाने ॥

एतदध्यायलेखनसन्दर्भो मा सम्भवत्विति बहुतरमाशंसमानस्याप्येतद्वृत्तान्तं कथयिष्यतो मे विदितमेवेदं यदेतत्सदृशास्तिक्तगुलिका इतोऽपि भूयस्यो मया निगरीतव्याः सन्तीति । यद्यहं परमार्थेन सत्योपासकोऽस्मि तदा मे नान्या गतिः । मम त्रयोदशे वयसि संवृत्तविवाहवृत्तान्तवर्णनरूपं मनस्सन्तापकरं कर्तव्यमिदानीं प्राप्तम् । मत्पोष्यवर्गस्थितानेतद्वयस्कान्बालकान्विलोक्य मद्विवाहः स्मर्यते यदि तदाहमात्मन एव न केवलं दयनीयो भविष्यामि परन्तु परिह्रतबाल्यविवाहान्बालकान्प्रति यूयमेव भाग्यशालिन इति विवक्षा मे जायते । एवमतिबाल्ये वयसि विवाहकरणं नाम नीत्यनुरोधीति किमपि प्रमाणं नोपलभे ॥

अत्र विषये पाठकं मान्यथा विदाड्कुर्वन्तु । मम यत्संवृत्तं स विवाह एव न पुनर्भाविनं विवाहं प्रति संमतिमात्रम् । काठियावाडदेशे विवाहः संमतिरिति द्वौ पृथक् संस्कारौ स्तः । संमतिर्नाम बालकबालिकयोर्मातापितृभिभाविनं विवाहं प्रति परस्परं वाग्दानम् । संमतिरियं नोल्लड्घनीयेति निर्बन्धः कोऽपि न हि । न च मृते बालके बालिकाया वैधव्यप्राप्तिः । बालिकाबालकौ न खलु तत्रे भागिनौ भवतः । बहुशस्तद्विचारोऽपि तयोरविदितो भवेत् । एष संमतिसंस्कारो मम त्रिवारं समपद्यतेति प्रतिभाति । अपि तु कदा सम्पन्न इति न जाने । मदर्थनिश्चिते द्वे बालिके क्रमशोऽम्रियेतामिति कथितोऽस्मि । तृतीया संमतिर्मम सप्तमे वयसि संवृत्तेति क्वचित्स्मरामि । न तावत्स्मर्यते तदिदं केनापि मे निवेदितमिति । इह लेखिष्यमाणो वृत्तान्तो मद्विवाहविषयः स तु स्पष्टतरं स्मर्यते ॥

उक्तपूर्वं खल्विमे वयं त्रयो भ्रातर इति । तत्र प्रथमः पूर्वमेवोढः ।  मदपेक्षाया द्वित्रवर्षज्येष्ठस्य द्वितीयभ्रातुरेकवत्सरज्येष्ठस्य मे कस्यचिद्दायादस्य मम च त्रयाणामेकदा विवाहः करणीय इति वृद्धैर्निरणायि । एवंविधप्रवृत्तेरस्मत्सुखदुःखचिन्ता  वास्मदिष्टानिष्टभावना वा न हेतुरासीत् । एतेन स्वानुकूल्यं मितव्ययश्च सिध्यत इत्यभिप्रायेणैव तथा संविहितम् ॥ हिन्दुजनेषु विवाहो नाम न खलु साधारणो विषयः । विवाहेन वधूवरयोर्माता पितरोऽनेकशो निर्धना भविष्यन्ति । अस्य कृते निजस्वं नाशयन्ति । कालं वृथा क्षिपन्ति । एतदावश्यकानां वस्त्राभरणवस्तूनां सज्जीकरणाय भोजनोपचारव्ययपट्टिकालेखनाय च मासशः कालोऽपेक्ष्यते । विविधभक्ष्याद्युपकल्पने वरपक्षीयाणां वधूपक्षीयाणां च स्पर्धा जरीजृम्भ्यते । ध्वनिमाधुर्यं तावदस्तु वा न वा स्त्रियः पुनराकण्ठशोषं गायन्ति । एतेन व्याधिसम्भवेऽपि न हि चिन्ता । प्रातिवेशिकजनानान्तु विश्रान्तिरेव नास्ति । तेऽपि तत्कलकलमुच्छिष्टकच्चरं च तूष्णीं सहन्ते । यतस्तैरपि करिष्यमाणविवाहप्रसड्गेष्वेवंविधैव प्रवृत्तिराश्रयणीया भविष्यतीति तेषां विदितम् ॥
सर्वस्यास्य क्लेशस्यैकदैव परिहारोऽस्त्वित्यस्मज्ज्येष्ठा व्यचिन्तयन् । समष्टया व्ययोऽल्पः । उत्कावस्तु महान् । त्रिः पृथग्व्ययस्थाने सकृदेव व्ययसम्भवः । ततो मुक्तहस्तेन धनं विकरीतुं शक्यते । मम पिता ज्येष्ठपितृव्यश्च वाधकं प्राप्तौ । अस्मद्विवाहा एव ताभ्यां निर्वर्तनीयेषु चरमाः। चरमाड्कः कुतो विभवोत्तरं न प्रयोक्तव्य इति तेषां मनसि विद्येत । सर्वमेतेदभिसमालोच्य विवाहत्रयमेकदा निर्वर्तनीयमिति निश्चितमभूत् । पूर्वोक्तरीत्या वैवाहिकसंविधानं कियद्भिरपि मासैः समाप्तिमगात् ॥ प्रचलद्वैवाहिककार्यविशेषैरेव विवाहो भावीत्यस्माभिरवगतम् । विवाह इत्येतेन धारणार्थे प्रशस्तवस्त्रलाभः । वाद्यतम्मटघोषः । वधूवरप्रदर्शनोत्सवः । महाभोजनसन्तर्पणनम् । मया सह क्रीडितुमेककन्याप्राप्तिश्च । इत्येतावन्मुक्त्वा नान्यो विचारो मम मनस्यस्फुरत् । विषयसुखापेक्षा त्वनन्तरमागता । मुक्त्वा कतिचिदवश्यवर्णनीयान्विषयानेतदधिकृत्य नान्यत्किमपि लिलेखिषामि ।  ते च विषया अग्रे निरूपयिष्यन्ते । तेऽप्येतद्वृत्तान्तलेखने यन्मम मुख्योद्देश्यं तस्य भूयसा नोपकारका भवेयुः ॥ साग्रजं मां राजकोटात्पोरबन्दरपुरमनैषुः । सन्ति केचिच्चरमदृश्यात्पूर्वभावितो हरिद्राचूर्णेन सर्वाड्गलेपाविका विनोदावहा विषयाः । ते पुनः सर्वे वर्णयितुं न शक्यन्ते ॥

अस्मत्पिता प्रधानसचिव इति यद्यपि सत्यं तथापि किमयं न परोपजीवी । ठाकोरप्रभोर्विश्वासपात्रतया तस्य परतन्त्रता समाधिकैवेति वक्तव्यम् । अतिप्रत्यासन्नेऽपि विवाहदिवसे ठाकोरप्रभुरस्मत्पितरं नैवाऽमुचत् । ततो मुक्तस्यास्य दिनद्वयात्पूर्वमेव यथा प्रयाणं समाप्येत तथा मार्गयानानि पृथगस्थाप्यन्त । परन्तु किमनेन । अन्या ह्येवासीदीश्वरेच्छा । सुदामापुरं राजकोटाद्विंशत्युत्तरैकशतपाषाणदूरे वर्तते । शकटेन पञ्चर्भिर्दिनैर्निर्वर्त्यं प्रयाणम् । तदेतत्प्रयाणमस्मत्पिता त्रिभिरेव दिनैः समापयत् । किन्तु तृतीयदिवसे यानं पर्यस्तपतितमभूत् । एतेन तस्य बहुनि क्षतान्यजायन्त । असौ सर्वाड्गबद्धपट्टकः सदनमागतः । एतेन तस्य चास्माकं चोत्साहो यद्यप्यर्थे न ह्रासमगच्छत् पितृक्षतनिमित्तं मे दुःखं वैवाहिकविनोदसंरम्भमध्ये सर्वं विस्मृतमभूत् ॥

अहं मातापित्रोरतीव भक्तिमानासम् । किन्तु मे भोगासक्तिरासीत्ततोऽपि नाल्पीयसी । मातापित्रोः शुश्रूषमाणेन जनेन परित्यक्तनिजसुखसन्तोषेण भवितव्यमिति नाहमद्याप्यवेदम् । भोगासक्तस्य मे दण्डरूपेणेव संवृता काचिद्घटना मम मानसमद्यापि कृन्ततीव । एतद्वृत्तान्तस्तु पुरस्तान्निरूपयिष्यते । श्रीनिष्कुलानन्दो गायति यथा-

भोगतृष्णामनिर्धूय भोग्यमात्रं विमुञ्चतः । त्यागोऽयं सर्वथा न स्याच्चिरस्थायीति निश्चयः ॥ इति ॥ अभव्यः शोचनीयोऽयं वृत्तान्तो गीतिमेनां स्वयं पठतो वा गीयमानामितरैः श्रुतवतो वा मम ह्रदयकुहरं प्रविश्य तत्स्मारणेन मामवनतमुखं करोति ॥व्रणपीडितोऽपि मे पिता वेदनां बहिरप्रकटयन् विवाहं साड्गं निरवाहयत् । विवाहे स्मर्यमाणे तत्तद्विधिकर्माणि यत्र स्थलेष्वनुष्ठीयन्ते स्मेत्यद्यापि मे मनश्चक्षुषः पुरस्ताच्चित्रयितुं शक्रोमि । निष्पन्नबाल्यविवाहहेतोः कदाचित्पितरं  निष्ठुरखण्डनस्य विषयीकरिष्यामीति न हि स्वप्नेऽपि मया व्यचिन्ति । तदानीं सम्भवन्तोऽर्थाः सर्वेऽपि सुसड्गता लोकसिद्धाः सुखदायकाश्चेति प्रत्यभासन्त । किं च ममाप्यासीत्परिणयनकुतूहलम् । अस्मत्पित्रानुष्ठितस्य सर्वस्यापि निर्दोषत्वेन मया गृहीतत्वात्सर्वमिदानीं स्पष्टमेव स्मर्यते । यथावाभ्यां विवाहवेदिकायामुपविषिटं यथावाभ्यां सप्तपदी रचिता यथा नवोढाभ्यामावाभ्यां कंसाराख्यमधुर गोधूमभक्ष्यविशेषोऽन्योन्ययोर्मुखे विन्यासि यथा चावाभ्यां सहावस्थानमारब्धं तथा सर्वमेतदिदनीमपि मे मनसि चित्रयितुं शक्नोमि । अहो सा प्रथमा रात्रिर्यस्यामत्यन्तमुग्धापत्ययोरायति परिज्ञानशून्ययोर्द्वयोरावयोः सहसा संसारसागरे निपातः समजनि । प्रथमरात्रौ यथा वर्तितव्यमिति प्रजावत्या सम्यगुपदिष्टोऽभवम् । मम भार्या तु केनोपदिष्टेति न जाने । मया सा न तत् पृष्टा । न चाद्य मे तस्य जिज्ञासा । आदावन्योन्यमुखदर्शनेऽप्यधीरा बभूवेति पाठकैर्निस्संशयं विज्ञायेत । लज्जा हि प्रबला स्थिता । कथमहं तया सम्भाषेय । किं वा सम्भाषितव्यम् । अस्मत्प्रजावत्या यदुपदिष्टं तेन नातिदूरमाकृष्टोऽभवम् । किन्त्वेवविधप्रसड्गेषु परोपदेशो नावश्यकः । प्राग्जन्मवासना प्राबल्याद्दैहिकशिक्षणसापेक्षता नास्त्येव । शनैः शनैरन्योन्यसंस्तवो जातः । परस्परमालपितुं प्रावर्तावहि । उभावपि समानवयसावभूव । तथापि पत्यधिकारवहने न मया कृतो विलम्बः । वृत्तान्तोऽयमुत्तराध्याये वर्णयिष्यते ॥

मांसाशनकालिकानाम् तत्पूर्वकालिकानां च मम केषांचिद्दुरभ्यासानामुपवर्णनमवशिष्टं भवति । ते च मद्विवाहप्राक्कलिका वा विवाहोत्तरकालीनकतिपयदिनान्तर्भाविनो वा भवन्ति ॥ मम च मम बन्धोरेकस्य च कदाचिद्धूमवर्ति सेवनोपेक्षा जाता । अस्मिन्निकटे पणस्तु नासीत् । तत् सेवने किमपि प्रयोजनमस्तीति नावामजीगणाव । न च वा तत्परिमलोऽस्मदीयं मनः समाकर्षति स्म । किन्तु मुखाद्धूममोक्षे कोऽप्यानन्दविशेषोऽनुभूयत इत्यमंस्वहि । अस्मत्कनिष्ठपितृव्यः पूर्वमेव तदभ्यासी । तत्प्रभृतिभिर्जनैः सेव्यमानं धूमपानमवलोकमानयोरावयोरपि तत्सिसेविषा समजनि । किंत्वस्मदीयकञ्चुककोशे पणाभावात्पितृव्येन सेवितमुक्तानि वर्तिशकलानि गुप्तमेवोच्चित्य गृहीतुं प्रावर्तावहि ॥
किन्त्वेतानि शकलानि सर्वदा न लभ्यन्ते स्म । न हि तेभ्यः प्रकामं धूमोऽपि निरसरत् । तस्माद्गृहभृत्यस्य कञ्चुककोशान्मुषितलब्धाभिः पञ्चषकाकिणीभिर्धूमवर्तीः क्रीत्वा सम्पादयितुमारप्स्वहि । परं त्वेता वर्तयः कुत्र निगूहितव्याः । ज्येष्ठसमक्षं तु तत्सेवनमशक्यमेव । एवं चोर्यमाणद्रव्येण कथंचित्कतिपयदिवसान्निरवाहयाव । एतन्मध्ये कस्यचिद्वृक्षविशेषस्य रिक्तकनालानि धूमवर्तिपानोपयोज्यानि भवन्तीत्यश्रौष्व । ततस्तान्येवानीय सेवितुमुपाक्तमावहि । किन्त्वेतदावयोर्न परितोषमजनयत् । अस्मत्पारतन्त्र्यमावां तुदति स्म । ज्येष्ठानुज्ञां विना न किञ्चिदनुष्ठातव्यमिति निर्बन्धो दुस्सहोऽभवत् । पर्यन्ते  परमजुगुप्सया स्वात्महत्यां विधातुं निश्चयमकार्ष्व । किन्तु कथमिदं साधयितव्यम् ? विषं कुतः सम्पादनीयम् ? धातुरबीजभक्षणं प्राणहरमिति पूर्वमावाभ्यां श्रुतमासीत् । वनं गत्वा तद्बीजमानैष्व । सायं प्रतीक्ष्य केदारेश्वरदेवालयं गत्वा देवाग्रस्थितदीपे घृतं दत्त्वा निष्पन्नदेवतादर्शनौ किंचिद्विविक्तस्थानमगाव । परं तु विषप्राशनाय न धैर्यमागतम् । सद्यः प्राणानामनपगमे का गतिः ? आत्महत्यया वा तावत्को हि लाभः ? पराधीनतापि कस्मान्न सोढव्या । अथापि त्रिचतुरबीजानि गिलितानि । ततोऽप्यधिकभक्षणाय न धैर्यमलप्स्वहि । उभावपि मरणपराङ्मुखावभूव । श्रीरामदेवालयं गत्वा देवदर्शनं प्राप्य शान्तचित्ताभ्यामात्महत्याप्रसड्गो विस्मर्तव्य इति निरणायि ॥
आत्महत्यासड्कल्पस्तावत्सुकरः । परं तत्साधनं दुष्करमित्यनुभवाद्विदितमभूत् । तदाप्रभृत्यात्महत्यासड्कल्पघोषणेन यः कोऽपि मां भीषयति चेत्तदहं नैवाद्रिये ॥

एवंविधप्रयत्नस्य फलितांशस्तु धूमवर्तिशकलसेवनाभ्यासस्य भृत्यकञ्चुकाद्द्रव्यमोषणप्रसड्गस्य चात्यन्तिकः परित्यागः ॥
प्राप्तवयसो मम धूमपानेच्छा न कदापि जाता । अपि चाभ्यसोऽयमनागरिकश्च मलीमसश्चानर्थप्रदश्चेति सदा प्रत्येमि । लोके सर्वत्राप्यस्मिन्नभ्यासे कुतो हि जनानां तत्तादृश्यासक्तिरित्यद्यापि मया नावगतम् । धूमवर्तिसेविभिर्जनैः सम्बाधायां धूमशकट्यां प्रयाणं मे दुष्करम् । तद्धूमेन मम श्वासः प्रतिबद्धो भवति ॥ इतो दिनकतिपयात्परं यच्चौर्यमकारि तत्खलु पूर्वतनमप्यत्यशेत । काकिणीचौर्यकालेऽहं द्वादशत्रयोदशवर्षदेशीयोऽभवम् । ततोऽपि न्यूनवया वा । द्वितीयचौर्यकालेऽहं पञ्चदशाब्दवयस्कः । मांसाहारिण पूर्वोक्तमदग्रजस्य हस्तगतसुवर्णकटकात्  खण्डमेकमहमचोरयम् । अयमग्रजः कस्मैचिज्जनाय पञ्चविंशतिरूप्यकानधारयत् । सौवर्णं घनकटकं तदीयहस्तगतमासीत् । ततः शकलमेकमुत्पाट्य स्वीकरणं नाम नाभूद्दुष्कारो व्यापारः ॥

अथ कृतं तदुत्पाटनम् ऋणं च निर्यातितम् । परं त्वेतदकृत्याचरणं मम दुस्सहं जातम् । इतः परं नैव चौर्यं करिष्य इति निश्चयमकरवम् । अपि च पितुरग्रे स्वापराधमड्गीकरिष्यामीति मतिमकरवम् । किन्तु तत्समक्षं वक्तुमधीरोऽभवम् । न तावत्स मां ताडयिष्यतीति भयादपि तु तस्य दुःखप्रदो माभूवमिति । अस्मन्मध्ये कमपि तेन ताडितं न हि स्मरामि । पर्यन्ते च यद्भवतु सर्वथा तं विदितार्थं करिष्यामीति निर्धारितवान् । अन्यथा तु स्वदोषस्यानड्गीकारे नान्तःशुद्धिर्भवितेति मया व्यचिन्ति ॥ मदपराधवृत्तान्तमखिलमेकस्मिन् पत्रे विलिख्य तत्तस्मै प्रदाय क्षमाभ्यर्थनीयेत्यवधार्य तथा च लिखितपत्रखण्डं तस्य हस्ते न्यधाम् । तत्र न केवलं स्वापराधाभ्युपगतिरूपन्यस्ता परं स्वस्मिन्दण्डपातनमपि प्रार्थितमभूत् । अपि चास्य कॄते भवता विषादो न कर्तव्य इत्यभ्यर्थ्य न पुनरेवमपरात्स्यामीति प्रतिज्ञाक्षरमप्यलेखि ॥ जनकाय पत्रिकां ददानस्य मम शरीरं कम्पते स्म । तत्कालमसौ भगन्दरव्याधिना सन्तप्यमानः शयनपतितोऽभवत् । तदानीं तु फलकमेकध्यशेत । पत्रं समर्प्य तदग्रेऽहमुपाविशम् ॥

स च पत्रमवाचयत् । नयनाभ्यां मुक्ताफलसन्निभा अश्रुबिन्दवो निःसृत्य पत्रमार्द्रीकुर्वन्ति स्म । कंचित्कालं पर्याकुलीभूय चक्षुषी न्यमीलयत् । तदनु पत्रमुत्पाट्य प्राक्षिपत् । अथोत्त्थाय पठितुमुपविष्टः क्षणात्पुनः शयनमभजत । अहमप्यरुदम् । पितुः सड्कटं तु प्रत्यक्षमालक्ष्यते स्म । यद्यहं चित्रकरोऽभविष्यं तदा तत्कालीनदृश्यमचित्रयिष्यम् । तच्चित्रमद्यापि मे मनश्चक्षुषः स्पष्टतरं भासतो ॥ तेऽमी मुक्ताबिन्दवो मम ह्रदयकालुष्यं निरसारयन् । तत्प्रेमबाणो मम पापानि निरभिनत् । स च प्रेम स्वानुभवैकवेद्यः । तथा हि प्रेमबाणाविषयीभवन्नरस्तस्य तीक्ष्णगतिविन्न चापरः ॥ इत्याहुः ॥ अयमेव ममाहिंसावस्तुपाठः संवृत्तः । तस्मिंन्किलावसरे पितुः प्रेमैकमन्तरा न किंचिदपरं भासते स्म । अद्य हि सैष शुद्धाहिंसाप्रयोग इत्यवगच्छामि । सेयमहिंसा विश्वव्यापिनी कस्य वा शीलं न परिवर्तयेत् । अपरिमेयः खलु तस्याः प्रभावः ॥ ईदृक् शान्तिमयी महनीया क्षमा मम पितुर्निसर्गसिद्धा नाभवत् । मया हि चिन्तितं यदसौ सललाटघातं क्रोधेन मां शप्स्यतीति । परन्त्वयमगाधशान्तिरसपरिप्लुतोऽभवत् । इदं हि विशुद्धान्तःकरणेन मया स्वापरधाड्गीकरणस्य फलमिति तर्कयामि । इदं हि मन्ये कृतापराधस्य शुद्धतमं प्रायश्चित्तं यत् क्षमितुरग्रे स्वापराधातां प्रकटमड्गीकृत्य पुनस्तदकरणे प्रतिज्ञानं नाम । जानेऽहमेवंविधया मम प्रवृत्त्या पिता निःशड्कः समजनीती । मद्विषयिणी च तत्प्रीतिरमेया पर्यवर्धतेति ॥

मया तदाधिकार्युपसर्पणं सर्वथा दोष एव । परन्तु तदीयाग्रहक्रोधगर्वानपेक्ष्य मदीयोऽपराधस्तावदत्यल्प आसीत् । न खल्वयं बहिर्निष्कालनमार्हित् । पञ्चनिमेषाधिकः  कालस्तदीयो मया न क्षपितः । तथापि मद्वचनोपन्यास एव तस्य दुस्सहोऽभवत् । गम्यतामिति सभ्यरीत्या वक्तव्यमुचितमासीत् । किन्तु तस्याधिकारदर्पोऽत्यारूढ स्थितः । क्षमायास्तस्मिन्नामापि न श्रूयते स्मेति पश्चादवगतोऽस्मि । स्वपार्श्वमुपागतानां यदवहेलनं तत्किल तस्य साधारणो विषयः । अणुमात्रविपर्यणाप्यसौ रोषेण ज्वलति स्म ॥ प्रायेण मम कार्याणां भूयिष्ठोंऽशस्तदीयन्यायसभायामेव परीक्षणीयोऽभवत् । न्यायतस्तस्याधिकारिणः समाधानकरणं ममाशक्यमासीत् । तस्य प्रसादनाय नीचैः प्रह्वताश्रयणं न मेऽभिमतमासीत् । किं बहुना । व्यवहारेण त्वामभियोक्ष्य इति प्रथममेनं भीषयित्वा पश्चात्तूष्णीमासिका न मे समञ्जसा प्रत्यभासीत् ॥

	अत्रान्तरे तत्रत्यराजकीयप्रपञ्चस्य कार्यगतिविशेषाणामनुभवो मया बहुशः समपादि । काठियावाडदेशस्य प्रायेणाल्पाल्पराज्यभूयिष्ठतया स्वभावादेव तत्र राजनीतिकुशलैर्भूयोभिर्भवितव्यम् । संस्थानानां मध्ये परस्परं कूटनीतिप्रचारः सेवकजनानामप्यधिकारप्रेप्सयान्योन्य द्रोहचिन्तनमित्येतत्तदानीं सुप्रचरितमासीत् । राजानश्च मधुरवाचां कर्णेजपानां वचनमाकर्ण्य पराधीनप्रवृत्तयोऽभवन् । मुख्याधिकारिणः प्रागलभ्यतः स्वामिनप्यशेत । यतः स एव निजस्वामिनश्चक्षुः । स एव तस्य श्रोत्रम् । स एव तस्य मुखम् । तस्येच्छैव सर्वनियामिका । तस्य द्रव्यादायः स्वामिनो द्रव्यायतेरप्यधिकतरः । नन्वत्र काचिदतिशयोक्तिः स्यात् परन्तु तस्य वेतनादप्यधिक आसीत्तदीयव्यय इत्यत्र न कोऽपि सन्देहः । वातावरणमिदं विषयमलक्ष्य । एतदीयसम्स्पर्शं कथं वा परिहरेयमित्येषैव मे सार्वदिकी चिन्ताभवत् ॥ 

एतेनाहं परं खेदभवापम् । इदं ममाग्रजोऽलक्षयत् । यत्र काप्युद्योगलाभे तदड्गीकरणेन मयादितः प्रपञ्चाद्विमुक्तिः स्यादित्युभावचिन्तयाव । किन्तूपप्रदानं विना प्रधानसाचिव्यं वा न्यायाधीशपदं वा कथं लभ्येत । मुख्याधिकारिणा सह कलहप्रसड्गान्मम व्यवहारेषु हानिरुदपद्यत ॥ तदानीं पोरबन्दरसंस्थानमाड्ग्लसाम्राज्येन नियमितस्याधिकारिणाः  शासने स्थितम् । तत्रत्यराणाप्रभोरधिकारवृद्धये मया प्रयत्नः करणीय आपतितः । मेराख्येभ्यस्तत्रत्यकृषीवलेभ्योऽत्यधिकः करो गृह्यते स्म । अस्मिन्विषयेऽपि मया (अडमिनिस्ट्रेटर इत्येतदाख्यः) शास्तिकर्ता द्रष्टव्योऽभवत् । सोऽधिकारी देशीयोप्याड्ग्लाधिकारिणं दर्पतोऽतिशयान इवालक्ष्यत । स च स्वकार्ये विचक्षणः परन्तु तदीयकार्यकौशलात् कृषिकाणां न कोऽपि लाभः समजनि । राणाप्रभोरधिकारस्य काचिद्वृद्धिप्रापणे मम प्रयत्नः सफलोऽभवत् । किन्तु कर्षकसार्थस्य भारो न लघूकृतः । तदीयकष्टविचारो यथावदधिकारिणा न पर्यशोधीति मन्ये ॥  

एवं च प्रसक्तविषये श्रमानुरूपं फलं मया न लब्धम् । मदीयकार्यिणां च न्यायलाभो नासिध्यत् । तदर्थे न्यायसम्पादनाय यक्तिमपि साधनं मयि नासीत् । बहुकृत्य 'पोलिटिकलएजेण्ट' इत्येतदाख्यराजकीयप्रतिनिधेर्वा 'गवर्नर' इत्येतदाख्यराजप्रतिनिधेर्वा सन्निधाने प्रार्थनापत्रं समर्पणीय मासीत् । एवं कृतेऽपि 'वयमत्र प्रस्तावे न हि प्रवेक्ष्यावः’ इति तेनाधिकारिणा विलिख्य प्रार्थनापत्रं निरकासयिष्यत । एवंविधार्थनिर्णयः कमपि शासननियमं प्रमाणीकृत्य यदि क्रियते तदा स साधुरेव स्यात् । परन्त्वत्र तस्याधिकारिणः स्वेच्छैव नियमिकाभवत् । ततो विनष्टक्षान्तिरहं संवृत्तः ॥अत्रान्तरे पोरबन्दरवर्ती वणिक्‌सार्थ एको मदग्रजस्य पत्रमेवं व्यलिखत् -

अस्य कृते मदग्रजो मया साकममन्त्रयत । प्रस्तुतोऽर्थो न हि मया स्पष्टमबोधि । व्यवहारमधिकृत्य न्यायवादिषु विषयनिरूपणमात्रं मया कर्तव्यमुताहो न्यायसभापि मयोपस्थातव्येत्यहं नाज्ञासिषम् । तथापि गमनोत्साहो मामग्रहीत् ॥ 'दादा’ अबदुल्ला-वाणिज्यशालाव्यस्थापकानामेकतमं शेठ-अबदुल-करीम-झवेरीमहाशयं मदग्रजो मां पर्यचाययत् । स च श्रेष्ठी मह्यामित्थं न्यवेदयद्यथा- भवद्भिस्तावदतिश्रमो न वोढव्यो भवति । सन्ति नः सुह्रदो महान्त ऎरोप्यजनाः । तै सहापि परिचयो वः सम्पत्स्यते । अस्मद्विपणिकार्येऽपि साहाय्यं कर्तुं भगवतामवकाशो भविष्यति । अस्मदीयलेख्यपत्राणां भूयिष्ठो भाग आड्ग्लभाषामयो वर्तते । तत्सम्बद्धकार्येष्वस्माकं भवद्भिरूप कर्तुं शक्यते । युष्मन्निवासोऽस्मदीयहर्म्यान्तर एव वसतिः परिकल्प्यते । तस्माद्वसतिनिमित्तव्ययभारो युष्यदुपरि न पतिष्यतीति ॥ अथाहमपृच्छम् - ‘ कियन्ति दिनानि मया वः सेवा कर्तव्या । कियद्वेतनं मे प्रदीयत इति ।’ समयस्तावदेकवत्सरं नातिवर्तेत । युष्मदीयगतागतस्य प्रथमश्रेणीभाटिका प्रदीयते । किञ्च भोजनोपहारव्ययेन सह पञ्चोत्तरशतं सुवर्णमुद्राश्च प्रदीयन्ते” ।

तदेतदुद्दिष्टं मदीयगमनं न खलु न्यायवादिकार्यार्थमिति वक्तुं शक्येत । तद्धि केवलं तदीयविपण्यां भृत्यत्वस्वीकारार्थमेवेति स्पष्टम् । परं तु यथा तथा वा हिन्दुस्थानाद्बहिर्गन्तुमिच्छा मां नुदति स्म । गमनान्न केवलं नवीनदेशदर्शनं नवनवानुभवश्च सिध्यतः परन्तु मदग्रजस्य कुटुम्बव्ययार्थे पञ्चोत्तरशतं सुवर्णमुद्राः प्रेषयितुं शक्यं भविष्यति । तस्मात्किञ्चिदप्यविब्रुवंस्तदुक्तवेतनेन तदीयकार्यमनुष्ठातुं प्रतिपद्य दक्षिणाफ्रिकादेशं प्रति प्रस्थातुं सज्जोऽभवम् ॥

प्रायः षण्णवत्युत्तराष्टशताधिकैकसहस्रतमस्य कैस्तशताब्दस्य मध्यभागे 'पोंगोला’ नाम-कनौकायानेन स्वदेशं प्रति प्रयाणमड़्‌गीकृतवान् । एषा तरणिः कलकत्तानगरगामिन्यासीत् ॥  अस्यां नौकायां केचिदेव पान्था अविद्यन्त । तेषामांग्लाधिकारिणौ द्वावास्ताम् । ममैताभ्यामधिकपरिचयो जातः । अनयोरेकेन सह चतुरंगक्रीडया प्रत्यहमेकहोराकालमत्यवाहयम् । नौकायां वैद्यमहाशयो मे द्राविडभाषास्वयंबोधिनीमदात् । तत्पुस्तकेन तालिमभाषां शिक्षितुमुपाक्रमे । मुसलमानजनैर्निकटसम्बन्धाधिगमायोर्दूभाषाशिक्षणं तथा च मद्रासप्रदेशवर्तिनां भारतीयानां स्नेहसंपादनाय तामिलभाषाशिक्षणं चावश्यकमिति नातालदेशे मदनुभवाद्विदितमासीत् ॥

	उर्दूभाषां मया सह शिक्षमाणेनाड्ग्लेयामित्रेणानुबोधितः सन्नौकाबाह्यशालामध्युषितेषु पथिकेषूर्दूमहापण्डितमेकमन्विष्याग्रहीषम् । आवयोरध्ययनव्यासड्गः सम्यगेव प्राचलत् । अधिकारी मदपेक्षया प्रकृष्टतरमेधाशक्तिमानभूत् । सकृदवलोकनादसौ नैकमप्युर्दूशब्दं व्यस्मरत् । मम तावदक्षरपाठ एवानेकशः क्लिष्टतरोऽलक्ष्यत । तदपेक्षया भूयः प्रयस्यन्नपि नाहं तत्समानकोटिमारोढुमशकम् ॥ द्राविडभाषाभ्यासो मे प्रचलित स्म । अभ्यासेऽस्मिन्न किमपि साहाय्यं मयालभ्यत । किन्तु मन्निकटस्थिता 'तामिलस्वयंबोधिनी’ समीचीनं पुस्तकमासीत् । अतः साहाय्यान्तरं नात्यन्तमावश्यकमासीत् ॥

अथेदानीं पाठकाः पोंगोलाख्यनौकाप्रवहणस्य मुख्याधिकारिणः परिचयं कारयितव्याः । आवयोर्मैत्री परस्परं समवर्धत । आसीदयं प्लीमथभ्रातृसंप्रदायानुवर्ती । अस्मदीयकथालापविषयस्तु न तावज्जलयानविद्याज्ञानं यावदाध्यात्मिको विचारः । स किल नीतिधर्मश्रद्धयोर्भेदं प्रत्यपादयत् । तदीयद्रष्टया कैस्तवेदोपदेशो लेशतोऽपि क्लिष्टवाड़्‌म्यो नाभूत् । तस्य सौन्दर्यं नाम तद्गता सरलता आबालस्त्रीपुरुषमखिलजनैरापि कैस्ते तन्महाबलिदाने च यदि विश्वासः क्रियते नूनं तर्हि तत्पापानां परिहारो भविष्यतीति कथयति स्म । तमेनमनुचिन्तयतो मम प्रिटोरियाभ्रातरः स्मरणमागताः। नीतिनियमोपेताः  सर्वेऽपि धर्मास्तस्य नीरसा अभूवन् ॥

अस्याः सर्वस्या अपि धर्मचर्चाया मदीयशाकाहारित्वमेव हेतुरासीत् । कुतो मांसं भवता न भक्षणीयम्। गोमांसमक्षणे को दोषः । यथा सस्यवृक्षादयः फलमूलादयश्च मनुष्योपभोगायैव देवेन निर्मितास्तथापि ननु हीनजातयः सर्वेऽपि प्राणिनो मनुष्यजातेरूपभोगायैव सृष्टोः । एवंविधा प्रश्नमाला आध्यात्मिकवार्ताप्रवेशमपरिहार्यमकरोत् ॥ आवयोरभिप्रायसांगत्यं नैवासिध्यत् । धर्मनीत्योर्नास्ति पारमार्थिको भेद इत्यभिप्रायो मयि दार्ढ्यमापद्यत । किन्तु मुख्याधिकारी तद्विरुद्धं निजाभिप्रायमेव निःसंशयेन संगतममन्यत ॥ गतेषु चतुर्विंशतिदिनेषु प्रमोदावहमिदं समुद्रयानं समाप्तिमगमत् । हुगलीनदीसौन्दर्यावलोकनेनान्दमनुभवन् कलकत्तानगरे नौकायानादवतीर्य तस्मिन्नेव दिने धूमशकट्या मोहमयीनगरं प्रायासिषम् ॥

न्यायाधिदेवतामविषमतुलाधरीं निष्पक्षपातिनीमन्धामपि कुशलां वृद्धवनितां सांप्रदायिका - श्चित्रयन्ति । न खलु मनुष्याणां मुखदर्शनेन परन्तु पारमार्थिकयोग्यतानुगुण्येन न्यायनिर्णयो देय इति बोधयितुमेव दैवेन सा द्रष्टिविधुरा न्यधायि । नातालदेशस्य न्यायवादिसभा यथा तत्प्रत्यन्यायस्थानमेतत्तत्प्रतिकूलमाचरेत्तथा कारयितुं प्रवृत्ता ॥ तस्मिन्न्यायस्थाने मया न्यायवादित्वेन प्रवेशो लिप्सितः मन्निकटे मोहमयीनगरस्योच्चन्यायस्थानेन प्रदत्तं प्रमाणपत्रं स्थितम् । तत्र न्यायवादित्वेन प्रवेशावसरे विदेशलब्धं प्रमाण पत्रमर्पणीयमासीत् । नातालदेशे न्यायसभां प्रविविक्षुणा प्रार्थनापत्रेण सह चारित्रप्रशंसापत्रद्वयमवश्यमेव प्रेषयितव्यमासीत् । तदेतदैरोप्यजनप्रदत्तं चेत् प्रशस्यतरमित्यालोच्य शेठअबदुल्ला महाशयद्वारा कृतपरिचयाभ्यामैरोप्यजनाभ्यां प्रमाणपत्रं समपादयम् । प्रार्थनापत्रं च केनापि न्यायवादिना मदर्थे समुपस्थापनीयमासीत् । प्रायशः प्रार्थनापत्राण्येवंविधानि राजकीयमहान्यायवादिनैव (अटर्नी जनरल) विनार्थग्रहणं समर्प्यन्ते स्म । एस्कूंबमहाशयस्तदानीं तत्पदमध्यास्त । स किल दादा- अबदुल्ला-कंपनीपक्षेऽपि न्यायवाद्यभूत् । स एष मया द्रष्टः। सोऽपि मम प्रार्थना पत्रिकां समर्पयिष्यामीति हर्षुलः प्रतिज्ञातवान् ॥ अत्रान्तरे न्यायवादित्वेन मम प्रवेशं प्रत्यवतिष्ठमानन्यायदिसभायाः सकाशात्सूचना पत्रमेकमागतम् । प्रत्यवस्थानहेतुश्च मम प्रार्थनापत्रेण सहाड्ग्लविदेशीयलब्धं प्रमाणपत्रं न प्राहायीति । किन्तु प्रधानहेतुरन्योऽभूत् पुरा खलु न्यायवादिप्रवेशनियामकशासनस्य निर्माणाकाले कृष्णवर्णा वा हरिद्रवर्णा वा मनुष्या न्यायवादित्वाड्गीकाराय प्रार्थनापत्राण्येवं समर्पयेरन्निति केनापि स्वप्नेपि न चिन्तितम् । नातालदेशो हि श्वेतजनानां साहसेनैवाभिवृद्धि मागतः । अतस्तत्रत्यन्यायसभासु  प्राधान्यमैरोप्याणामेव रक्षणीयम्  । कृष्णवर्णेषु प्रवेशितेषु शनैः शनैराड्ग्लेयानां प्राधान्यमल्पीभूय स्वात्मरक्षापि तेषां दुष्कार स्यात् ॥

	एतदर्थं न्यायवादिसभया कश्चित्प्रख्यातन्यायवादी नियुक्तः । स च दादा-अबदुल्ला-कम्पनीजनैः कार्यवान् । तस्मादयमबदुल्लाशेठमहाशयद्वारा मामाकार्य प्रस्तुतार्थमधिकृत्य मया सह निर्व्याजस्पष्टमभाषत । तस्मै मदीयपूर्वचरित्रजिज्ञासवे सर्वं न्यवेदयम् । अथ सोऽब्रवीत् - भवत्प्रतिकूलतया वक्तव्यं किमपि नास्ति । अत्रैव लब्धजन्मनां धूर्तानामेकतमैर्भवद्भिर्भवितव्यमिति मे शड्का । किं च भवता प्रार्थनापत्रस्य मूलप्रमाणपत्रराहित्यात् स संशयो बलवत्तरोऽभूत  । अन्यदीयप्रमाणपत्रयोजका जना न किलात्र दृश्यन्ते । ऎरोप्यजनसकाशादानी  तप्रशंसापत्रद्वयहमकिंचित्करं मन्ये । भवद्विषयमेतौ किं वा विधाताम् । तयोर्भवत्परिचयोऽपि  कीद्रयो  व स्यादिति ॥

अहमवोचम् - अत्र सर्वेऽपि मम नूतना एव। अबदुल्लाशेठमहाशयस्य परिचयोऽपि मे प्रथमं जात इति । तेन पुनः कथितम् - उक्तपूर्वं हि भवद्भिः यदबल्लाशेठमहाशयो भवन्तश्चैकस्थलादागता इति । तत्र भवत्पितरि प्रधानसचिवे सति नूनमबदुल्लाशेठमहाशयेन युष्मत्कुटुम्बपरिचयवतैव भाव्यम् । तत्सकाशाद्भवद्भिः प्रशंसापत्रमानीयते यदि न मे किंचित्प्रतिबंधकं तिष्ठेत् । अथाहमपि भवत्प्रवेशं प्रतिरोद्धुं न शक्नुयामिति न्यायवादिसभां प्रति सप्रमोदं लिखेयमिति ॥

अहमेतदाकर्ण्य क्रोधमूर्च्छितोऽभवम् । परन्तु मया निगृहीतः स कोपः । अथाहमात्मन्येवाचिन्तयम् । अबदुल्लाशेठमहाशयादेव यद्यपि प्रशंसापत्रमानेष्यत तथाप्यांग्लमहापुरुषात्पत्रमेतदा नेतव्यमित्यवदिष्यन् । मदीयन्यायवादित्वांगीकारस्य मदीयजन्मचरित्रयोश्च कः संबन्धः ? दारिद्र्याद्वा दुश्चरित्राद्वा लब्धजन्मा भवत्वयं जनः । तदेतत्कथमप्रतिकूलतया प्रयुज्यत इति । किन्तु सर्वमेतन्निगीर्य प्रत्यवोचम् - यद्यप्येनमर्य्थविस्तरं न्यायवादिसभा जिज्ञासितुमधिकारिणीति नाहमड्गीकरोमि तथापि भवदपेक्षानुसारेण प्रशंसापत्रमेकं अबदुल्लाशेठमहाशयादानेतुं सज्जोऽस्मि स्थित इति ॥ अथाबदुल्लाशेठप्रदत्तं प्रमाणपत्रं तस्मै न्यायवादिने प्रादायि । तेन चाड्गीकृतम् । परंत्वेतन्न्यायवादिसभायै नारोचत । तत्सदस्या मम प्रवेशयोग्यतां प्रति प्रत्यवातिष्ठन्त । प्राड्विवाकश्च श्रीएस्कूंबमहाशयस्य प्रत्युत्तरमशुश्रूषुरेव प्रार्थनापत्रं निरकासयत् ॥ ततः प्रधानप्राड्विवाकेनेत्थमभ्यधायि । प्रार्थयिता मूलप्रमाणपत्रं नोपस्थापितवानिति फल्गुरयं वादः । यद्यनेन प्रेषितं प्रमाणपत्रं मृषात्मकं स्यात् तदासौ व्यवहारेणाभियुक्तः सन्निर्णीतस्वापराधश्चेत् न्यायदिवर्गान्निष्कासनमर्हति । धर्मतः परीक्ष्यमाणे कृष्णो जनः श्वेतो जन इति भेदो न ग्राह्यः । न्यायवादित्वेन श्रीगांधेः प्रवेशं निरोद्धुं न्यायसभा नाधिकारिणी । तस्य प्रार्थना पत्रमड्गीक्रियतेऽस्माभिः । गांधिमहाशय क्रियतामद्यप्रमाणवचनव्याहार इति ॥

ततोऽहमुत्थाय 'रजिस्ट्रार' इति व्यपदिश्यमानं न्यायाधिकरणकार्यदर्शिनमुपसृत्य प्रमाणवचनोच्चारमकार्षम् । अवसितेऽस्मिन्कर्मणि न्यायाधीशो मामाहूय प्राह-भवतः शिरो-वेष्टनमिदानीमपनीयताम् । न्यायदिमिर्धार्यवेषसंबन्धिनो नियमा भवताप्यनुवर्तनीया इति ॥ अथ मया निरूपिता तादात्विकी मदीयपरिस्थितिः । डरबननगरस्य न्यायसभायां यदेव शिरोवेष्टनं नापनेष्यामीति बद्धाग्रहोऽभवं तदेवात्राहमपनीतवान् । नैवापनेष्य इत्यभिनिवेशबंधस्यात्रापि न किल कारणानि नाविद्यन्त । किंत्वेतदपेक्षया महत्तरायोधनमुमुद्यमाय मामकी शक्ती रक्षितव्याभवत् । शिरोवेष्टनधारणाभिनिवेशमात्रे न खलु युद्धाभियोगकुशलता व्ययीकर्तव्या । तत्कौशलप्रयोगाय प्रशस्यतरः समयः प्रतीक्षणीयः ॥

एवंविधा मदनुमतिः (मदीयनिर्बलता वा) अबदुल्लाशेठप्रभृतिमित्राणामनभिमताभवत् । न्यायवादिना मया शिरोवेष्टनधारणाधिकारो न परित्याज्य इति तेऽमन्यन्त । अहमेतान्बोधयितुं प्रवृत्तः देशानुरूपरिधानमावश्यकमिति तेभ्यो न्यवेदयम् । पुनरप्येतानवोचम्-हिन्दु-प्रत्यवस्थातव्यम् । किन्तु नातालसदृशविदेशवर्तिनीन्यायसभाकृत्यकारिणो मम न्यायसभासंप्रदायविरूद्धमाचरणं न खल्वनुमोदनीयमित्यादिसयुक्तिकवादैः मदीयमित्राण्यहं समादधि । किन्तु विषयस्तावदेकोऽपि संदर्भभेदात् भिन्नद्रष्ट्यावेक्षणीय इति यत्तत्त्वं तदत्र प्रसंगेऽप्युपयोक्तव्यमित्युपदेशो मदीयस्तेषां हृदयंगमोऽभूदिति वक्तुं न शक्यते । अन्याभिप्राये सहिष्णुतामूलं यत्सुखं तन्मदीयजीवने सत्यानुवर्तिनो मम सम्यग्यिदितमभूत् । तदेवत्तत्त्व सत्याग्रहस्य जीवितमित्यनुभवसिद्धमासीत् । ईदृशक्षमावृत्तिवशादनेकशो मम प्राणापायः सृह्रदसंतापश्च समजनि । परन्तु सत्यं वज्रकठोरं कमलवत्कोमलं च भवति ॥ एवं न्यायवादिसभया प्रत्यवस्थितोऽहं भूयः ख्यातिमगमम् । बहूनि वृत्तपत्राणि न्यायवादिसभयानुष्ठितमकृत्यमसूयानिमित्तकमिति च प्राहुः । किं च व्याख्यानटीकादिभिरीदृशैर्मम कार्यं भूयः सुकरमासीत् ॥

पंचदशोत्तरैकोनविंशतिसहस्रतमे वर्षे दक्षिणाफ्रिकादेशतोऽहं पश्चाद्वृत्तः । तदा मया वस्तुतः 'चरखो’ न द्रष्टः । साबरमत्यां सत्याग्रहाश्रमनिर्माणकाले कतिपयान् वायदंडान् वयं प्रावेशयाम । तत्प्रवेशनादनंतरमेव प्रातिकूल्यमुत्थितम् । सर्वे वयमुदारवृत्तिग्राहिणोऽथवा कार्यपराः । नैकोऽप्यस्माकं शिल्पी बभूव । वायदंडेषु कार्यकरणात्पूर्वमस्माकमेको वयनकुशलो वयनं शिक्षयितुमावश्यक आसीत् । पर्यंते पालनपुरग्रामादेको लब्धः । किंतु तस्य सर्वं शिल्पिज्ञानमस्माकं न ददौ । परंतु मगनलालगांधिमहाशयः शीघ्रमेव निराशो न संवृत्तः । शिल्पयंत्रकार्ये स्वभावतः समर्थोऽचिराच्छिल्पविद्यामग्रहीत् । अपि चैकैकशः कतिपयनूतनवायकाः शिक्षिता आश्रमे । स्वहस्तनिर्मितवस्त्रेणात्मानं वासयितुं शक्यं यथा स्यात्तथा भवितुमस्माकमुद्देश आसीत् । अतो वयं तत्क्षणमेव यंत्रनिर्मितवस्त्राणि परित्यज्याश्रमस्य सर्वे जना स्वदेशीयसूत्रैर्निर्मितानि वस्त्राण्येव धारयितुं निश्चिता बभूवुः । एतदभ्यासस्वीकारो महान्तमनुभवमानिनाय । वायकानां जीवितनियमान् साक्षात्संपर्केणावगन्तुं शक्तानकरोत् । अपि  चोत्पन्नस्य प्रमाणं सूत्रसंपादनमार्गे स्थितानंतरायान् वंचना-ग्रस्ताः भवितुं मार्गोऽपि च पर्यन्ते सर्वदा वर्धमानं ऋणित्वं एतत्सर्वं ज्ञातुं शक्तांश्चकार । यादवस्माकमावश्यकं तावत्सर्वं लब्धुं न समर्था अभूम । अतोऽवशिष्टः पक्षो हस्तवेम्नस्तंतुवायाद्वस्त्रं संभरणीयम् । परंतुः  सज्जस्थितवस्त्रं भारतीययंत्रसूत्रनिर्मितवस्त्रविक्रयिभ्यो वा तंतुवायेभ्यो वा लब्धुं न सुकरम् । तंतुवायैर्निर्मितं वस्त्रं सर्वं समीचीनं विदेशीयसूदेव । यतो भारतीययंत्राणि तर्कुद्वारेण तंतून्न चक्रुः । अद्यापि यंत्राणामुत्पादनमत्यल्पं स्वदेशीयसूत्राणां तंतुवायान् पर्यन्ते महता प्रयत्नेन लब्धुमशक्नुम । नियमस्तु तैरुत्पादितं सर्वमस्मद्धारणवस्त्राणामिति यंत्रनिर्मितसूत्राणां वस्त्रस्वीकारेण सुह्रदां च मध्ये प्रसारणेन भारतीयसूत्रकरणयंत्राणामैच्छिकप्रतिनिधीभूताः । एतद्यंत्रैः सह संपर्कमजनयत् । तेन तेषां  कार्यसंविधानं कार्यप्रत्यूहांश्च ज्ञातुमवकाशो लब्धः । यंत्राणामुद्देशे निर्मितसूत्रेण तंतुवायानधिकं कर्तुमासीत् । हस्तमेवतंतुवायैस्तेषां सहकारः यथेप्सितो नासीत् । किंत्वपरिहार्योऽनित्यश्च । अस्मत्स्वकीयसूत्रस्य तांतवकरणे वयमातुराः स्थिताः । यावद्वयमेतत् कर्तुमवस्थितास्तावद्यंत्राणामालंबनं स्थास्यतीति स्पष्टम् । भारतीययंत्राणां प्रतिनिधीभूय देशसेवां कर्तुं समर्था भवेमेति नान्वभूम ॥

सप्तदशोत्तरैकोनविंशे वर्षे भरूचपत्तने संवृत्तशिक्षणपरिषदध्यक्षो भवितुं सुह्रदस्तत्र मामनैषुः । तत्रैवाहं तां महासाहसिनीं गंगाबाईमहाशयामदर्शम् । सा विधवा । तथापि तस्याः साहसं निरवधिकमासीत् । सामान्यगणनया सा यद्यपि तावच्छिक्षिता नासीत्तथापि धैर्ये ज्ञाने च सास्मत्-सुशिक्षितस्त्रीजनमतीवातिक्रान्ता । सा न केवलमस्पृश्यताकलंकं परित्यकवती परं निर्भयेनास्पृश्यैर्मिलित्वा तत्सेवामकरोत् । तस्याः स्वीयं विषयमासीत् । यदस्या आवश्यकं तदत्यल्पम् । सा सुघटितशरीरा सहचरं विना सर्वत्र संचारं करोति स्म। अश्वारोहणं नाम तस्याः सामान्यम् । गोधरानगरे संवृत्तपरिषदि मम तया सह गाढः परिचयोऽभूत् । 'चरखा’ संबंधे मम दुःखमस्यै न्यवेदयम् । अहं राटं परिशोधयितुं निरंतरं प्रयतिष्य इत्युक्त्वा सा मम भारमल्पीचकार ॥

बाल्ये एकदा मोहनदास गान्धी 'श्रवणपितृभक्तिः ‘सत्यहरिश्चन्द्रः’ च इति नाटाकद्वयं दृष्टवान् । तदा बालकस्य मनसि महान् परिणामः दृष्टः आसीत् । मोहनदासः “श्रवणकुमारः इव भक्तियुक्तः तथा हरिश्चन्द्रः इव सत्यप्रियः भवामि “ इति निश्चितवान् । आजीवनं सत्यप्रियतां त्यक्तुं न इष्टवान् । मोहनदास गान्धी बाल्ये मातुः सकाशात् पुराणकथाः श्रुतवान् । सदा निष्कपटः सन् स्वकृतं दोषमपि मात्रे कथयति स्म । ग्रामजीवनं तस्य इष्टम् आसीत् । अतः एव स्वदेशीवस्तुषु मोहनदासगान्धिमहोदयस्य अतीव प्रीतिः आसीत् । त्रयोदशे वयसि मोहनदास गान्धी कस्तूरबा इति कन्यया सह विवाहं कृतवान् । त्रयाणां भ्रातॄणां विवाहः एकदा एव कृतः आसीत् । बाल्ये मोहनदासः कदापि असत्यं न वदति स्म । एकदा प्राथमिकविद्यालये निरीक्षकाः आगच्छन् । ते शब्दान् लेखितुम् अवदन् । बालकः मोहनदासः एकं शब्दं दोषपूर्णं लिखितवान् । अध्यापकः समीकर्तुं संज्ञया सूचितवान् तथापि मोहनदासः स्वापराधम् अङ्गीकृतवान् आसीत् । भारतदेशात् आङ्गलान् उच्चाटयितुं प्रबलानां सैनिकानां यूनाम् आवश्यकता अस्ति । अतः शरीरं बलिष्ठं कर्तुं मांसाहारः उत्तमः इति मित्रवचनात् अनिच्छन्नपि मांसाहारं स्वीकृतवान् । भ्रातुः ऋणविमोचनार्थं गृहे सुवर्णं चोरितवान् । किन्तु एतत् सर्वं दुष्टं  कार्यम् इति मत्वा पित्रे पत्रमेकं लिखितवान् । अग्रे दुष्टं कार्यं न करोमि इति प्रतिज्ञां कृतवान् तथैव अग्रे अनुसरन् आसीत् ।

एतस्मिन् समये दक्षिणआफ्रिकादेशे विवादे आङ्ग्लन्यायवादिने साहाय्यकरणस्य अवसरः प्राप्तः अभवत् । एतदर्थं भ्रात्रा अनुमतिं प्राप्य मोहनदास गान्धी दक्षिणआफ्रिकादेशं गतवान् । तत्र कार्यकरणसमये रेलयानेन यात्रासमये यानात् निष्कासितः सन् अतीव दुःखितः अभवत् । दक्षिणआफ्रिकादेशे अनेके भारतीयाः श्रमिकाः पीडिताः आसन् । दादा अब्दुल् सेटनामकस्य विवादः परस्परं वार्तालापेन द्वयोः पक्षयोः इच्छानुसारं समाप्तः आसीत्  किन्तु भारतीयानां श्रमिकाणां समस्याः परिहर्तुं कार्यं कर्तुं तत्रैव स्थातव्यम् इति निर्धारं कृतवान् । एतदर्थं नेटाल्-इण्डियन्-काङ्ग्रेस इति संस्थां स्थापयित्वा कार्यरतः अभवत् । तत्र आन्दोलनद्वारा भारतीयानां कष्टपरिहारकार्ये यशस्वी अभवत् । तेन गान्धिमहाभागस्य विश्वे एव प्रसिध्दिः अभवत् । अहिंसारीत्या सत्याग्रहः सफलः आसीत् । क्रि.श.१९२५ तमे वर्षे मोहनदासगान्धिी भारतदेशं प्रत्यागतवान् ।

भारतदेशे काङ्ग्रेससंस्था क्रि.श.१८८५ तमे वर्षे एव स्थापिता आसीत् स्वातन्त्र्यान्दोलनकार्यं करोति स्म ।  गान्धी काङ्ग्रेससंस्थायां प्रविष्टः अहमदाबादसमीपे सत्याग्रहार्थम् आश्रमं स्थापयित्वा अत्यन्तसरलरीत्या वासं कर्तुम् इष्टवान् । सरलजीवनम् उदात्तचिन्तनं राष्ट्रसेवा स्वातन्त्र्यलाभाय कार्यकरणं गान्धिमहात्मनः कार्यम् अभवत्। अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः इति महात्मा  गान्धी सरदारपटेलः जवाहरलालनेहरुः लालबहादुरशास्त्री राजेन्द्रप्रसादः इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । लाला लजपतरायः सुभाषचन्द्रबोसः इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् । एवं सर्वेषां प्रयत्नेन भारतदेशः क्रि.श.१९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् । डा बाबूराजेन्द्रप्रसादः राष्ट्राध्यक्षः, श्री सर्वपल्ली राधाकृष्णन् महोदयः उपराष्ट्रपतिः अभवत् । प्रधानमन्त्रिरूपेण श्रीजवाहरलालनेहरु-महोदयः अधिकारं स्वीकृतवान् । महात्मा  गान्धी अधिकारं न स्वीकृतवान् । महात्मगान्धी भारतपाकिस्तानविभागे विरोधं प्रकटितवान् आसीत् । किन्तु भारतेन साकं पाकिस्तानदेशे अपि स्वातन्त्र्यं प्राप्तम् इति तु बहुजनानां दुःखकारणम् अभवत् । क्रि.श.१९४८ तमे वर्षे जनवरी ३० तमे दिने नाथूरामगोडसे इति कश्चित् भारतीयः मोहनदासगान्धिमहोदस्य हत्यां कृतवान् । भारतदेशे  मोहनदासकर्मचन्दगान्धिमहोदयस्य जन्मदिनं गान्धिजयन्ती इति अक्टोबरमासस्य द्वितीये दिने आचरन्ति । तस्मिन् दिने रघुपतिराघव राजाराम पतितपावन सीताराम ॥ इत्यादिकीर्तनैः कुर्वन्ति जनाः । श्रमदानं, पथसञ्चारः, गान्धिमहोदयस्य पुष्पाञ्जलिप्रदानं महात्मगान्धिमहोदयस्य कार्याणां स्मरणं, रक्तदानम् इत्यादयः नैके कार्यक्रमाः प्रचलन्ति ।

महात्मनो गान्धिनः सम्पूर्ण चिन्तनं दैवीय-आदर्शैः परिपूर्णमस्ति । अत एवेदं स्वाभाविकमस्ति यत् महात्मा गान्धी व्यक्तिसमाजयोरुभयोः कृते धर्मस्य अनिवार्यतां स्थापितवान् । गान्धिमते धर्मस्यानिवार्यतायाः कश्चिद् विकल्पो नास्ति । आस्तिकता, विश्वासो धर्मश्च गान्धिनः कृते अविभाज्यम् चरमं सत्यं वर्तते । “ हिन्दु –स्वराज नाम्न्यां कृतौ तेनोद्दिष्टं यत् कश्चिदपि जनः धर्मं विना जीवितस्तिष्ठतीति भवददृष्टावसम्भवमेवास्ति”।
	
गान्धिमते ईश्वरे जीवे च मिथः प्रगाढः सम्बन्धोऽस्ति । गान्धी कथयति यत् जीवः आत्मनः स्वं समुन्नीय ईश्वरत्वम् आपाद्येत । गान्धिनः कल्पनायाम् ईश्वरोऽनादिः निर्गुणो निराकारश्चास्ति । सः सर्वव्यापकः सर्वशक्तिमान् च वर्तते ।ईश्वरस्य मूलस्वरूपं ब्रह्मणि विलीनीकरणमात्रं विद्यते । एवञ्चेत् प्राणिनो मौलिकं कर्त्तव्यं वर्तते यत् सः ईश्वरे आस्थां विश्वासं च दृढयेत् ।
	
गान्धिनो मनोवृत्तिरस्मिन् तथ्ये आधारिताऽस्ति यत् ईश्वरः सत्यात् पृथक् नास्ति । सः तु पुनः कथितवान् यत् सत्यमेव ईश्वरो वर्तते । यंग इण्डिया” ग्रन्थे सः लिखति-“ यत्कृते ईश्वरः सत्यं प्रेमरूपं चास्ति स नीतिरूपः नैतिकतापूर्णश्चास्ति । अभयस्य पूर्णता केवलम् ईश्वरे एव दृश्यते । ईश्वरस्तु जीवनस्य अनन्यं स्रोतोऽस्ति । स एवात्मा उच्यते” । प्राणी स्वस्मिन्नेव ईश्वरस्यान्वेषणं कुर्यात्, यतो हि स ईश्वरः प्राणिषु प्रत्येकस्मिन् आत्मरूपेण तिष्ठति ।
	
गान्धिमते आत्मानुभूतेः उद्देश्यमपीदमेवास्ति यत् प्राणी ईश्वरस्य साक्षात्कारं कुर्यात् । एवञ्चेश्वरेण साक्षात्कृतो भवेत् । तदानीमेव स सत्यं अर्थात् यथार्थं ज्ञातुं शक्नोति, अन्यथा न । सत्यानुभूत्यै गान्धी प्राणिनः आत्मनो दृढताया अपेक्षां कामयते । दृढात्मा एव जनः स्वान्तः स्थानि अनात्मतत्त्वानि जेतुं क्षमते । अनात्मतत्त्वानां निराकरणाय महात्मा गान्धी अन्तरात्मानं निर्देष्टुं उपदिशति । एवं गान्धिमतानुसारेण यदि प्रत्येकं जनः स्वान्तरात्मनः प्रेरणया कर्मणि अग्रेसरो भवेत् तदा निश्चितमेव सः धर्मानुपालनेऽपि तत्परो भविष्यति ।
	
सत्यमेवेश्वरोऽस्तीति चेत् सत्यस्य संज्ञाने सति प्राणी प्रकृतेर्नियमान् गतींश्च अवगन्तुम् क्षमते । यदा च प्राणी कर्त्तव्यपरायणो भूत्वा नैतिकतादिभिः सद्गुणैश्च सहितः कर्म करोति तदा तस्यायमादर्शः स्थिरीभवति यत् आत्मोन्नत्यै सततम् अभिवर्धेत । एतादृश आदर्शः स्वान्तःप्रेरणयैव जायते । एवं गान्धिमते सत्यमेव आदर्शस्योपस्थापकोऽस्ति । सत्यं स्वस्मिन् परिपूर्णं नितान्तं सापेक्षं चास्ति । ईश्वरस्तु परमं सत्यं वर्तते, अपरिमितं सर्वव्यापकं परिपूर्णं च विद्यते । मानवस्य चिन्तनं तु सीमितं अपूर्णं च भवति । अस्यां स्थितौ ईश्वरान्वेषणं प्राणिनः पुनीतं शाश्वतञ्च कर्त्तव्यमस्ति ।
	
गान्धिमहोदयः धर्मं ईश्वरप्राप्त्यै मार्गरूपं स्वीकरोति । तन्मतेन विविधा धर्माः ईश्वरं प्राप्तुमुपदिष्टा विभिन्ना मार्गा एव सन्ति । यतः सर्वेषां धर्माणां प्रयोजनं तु ईश्वरप्राप्तिरित्येकमेवास्ति तथापि प्राणिनः स्वधर्म एव उत्तमो भवति । गान्धिमते धर्मपरिवर्तनं अनावश्यकम् अनुचितं चास्ति । यतो हि तेन ईश्वरे अनास्थाया अविश्वासस्य वा पुष्टिर्भवति । अतः एतादृशं कार्यं अनैतिकम् अमानवीयञ्च प्रतीयते । धर्मान्तराणां याथार्थ्यम् अवगन्तुं स्वधर्मपरित्यागः आवश्यको नास्ति । अत एव धर्मान्तरणस्यापेक्षया विविधधर्मेषु सामञ्जस्यं सहिष्णुता वा एव अधिकां सार्थकतामादत्ते ।
	
नैतिकता धर्मात् भिन्नास्ति । यतो धर्महीनोपि कश्चिद् जनः नैतिको भवितुमर्हति । तथापि धार्मिकजनस्य धर्माचरणानां धर्मकृत्यानां च चरमप्रयोजनम् ईश्वरसाक्षात्कार एव भवति । अतः इदं वक्तुं शक्यते यत् धार्मिको जनः नैतिको भवति, किन्तु नैतिको भवति, किन्तु नैतिको जनः धार्मिको भवेदेवेति आवश्यकं नास्ति । धर्मप्रभावात् नैतिकः प्राणी आत्मानुभूतिदिशायां कृतप्रयासो जायते । स अस्यामेव दिशि स्वसद्गुणात्मकप्रवृत्तीनां विस्तारमपि करोति, किन्तु धर्मशून्यो नैतिकोऽपि प्राणी ईश्वरं साक्षात्कर्त्तुं नैरन्तर्येण प्रयासं कुर्यादेवेति बन्धनं नास्ति ।
	
यद्यपि आत्मकथायां गान्धिमहोदयः स्वयं स्वीकरोति यत् धर्मो नैतिकता चेति उभयमेव तत्त्वद्वयं यथार्थतो भिन्नं नास्ति । सः अस्मिन् परिप्रेक्ष्यें धर्मं परिभाषते –ते सर्वे प्रयासाः, सर्वे विचाराः, सर्वाः क्रियाः ईश्वरसाक्षात्काराय उद्देश्यं निर्धारयन्ति । अतः धर्मपदवाच्या भवन्ति । अतः धार्मिकः कर्मण्यो भवति, न तु अकर्मण्य इति तस्य सिद्धान्तः । गान्धिप्रतिपादितः कर्मवादोऽपि मूलरूपेण धार्मिकमान्यताभिः प्रेरित आसीत् । कर्मण्यतायाः क्षेत्रे महात्मा गान्धी सर्वेषु स्तरेषु स्वगतिविधीनां माध्यमेन ईश्वरप्राप्त्यै सप्रयासोऽतिष्ठत् । एवञ्चेत् गान्धिदर्शने स्वधर्म एव कर्मयोग आसीत् । कर्मयोगस्य उद्देश्यमासीत्- मोक्षप्राप्तिरिति ।

	
मोक्षप्राप्तिः ईश्वरसाक्षात्कारेण भवति । ईश्वरश्च सत्यमेवासीत् । अतः तेनोक्तम् –न हि सत्यात् पर्ः ईश्वरः । सत्यस्य विषये गान्धिमहोदयस्य एतत् चिन्तनं वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमहोदयस्य एतत् चिन्तनं वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमतेन ईश्वरः तर्कात् पर अस्ति । अतः तार्किकेण युक्तिकरणेन ईश्वरस्य प्रामाण्यं नैव स्थापयितुं शक्यते । गान्धी अकथयत् यत् ईश्वरस्य बोधस्तु सम्भवोऽस्ति किन्तु तस्य तार्किकं युक्तिकरणम् अनुचितमेवास्ति । एवं गान्धिमहोदयः बोधरूपेण विश्वासरूपेण अनुभूतिरूपेण एव ईश्वरास्तित्त्वं स्वीकरोति ।
	
गान्धिनः चिन्तने विभिन्नधर्माणां प्रभावो दृश्यते । जन्मतो भारतीय संस्कृतेः सम्बन्धवशात् वैष्णवधर्मस्य प्रभावो मूलरूपेण अवर्तत । गान्धिनः परिवारोऽपि वैष्णवधर्मेण प्रभावित आसीत् । विशेषेण तत्पितरौ वैष्णवधर्मस्य नैतिकतादिभिर्जीवनमूल्यैः प्रेरितावास्ताम् । हिन्दुधर्मस्य प्रभाववशात् गान्धिचिन्तने मानववादस्य अवधारणा बलीयसी वर्तते, धर्मसहिष्णुतायाः कृतेऽपि अत्र पर्याप्तं स्थानमस्ति । जैनधर्मस्य प्रभावात् अहिंसाया अवधारणा गान्धिदर्शने सर्वोपरी स्थानमलभत । जैनदर्शनप्रेरणया गान्धिना लिखितम् यत् पञ्चमहामन्त्रैरेव जीवनं सृजनशीलं  परोपकारि च विधातुं शक्यते । एते पञ्च महामन्त्राः सन्ति- अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यम् अपरिग्रहश्चेति । श्रीमद्भगवद्गीतायाः उपनिषदां च कर्मवादस्य प्रभावोऽपि गान्धिदर्शने विद्यमानः अस्ति । बौद्धदर्शनस्य प्रभाववशात् गान्धी स्वयं साधनानां प्राथमिकतां शुद्धिं च सर्वोपरित्वेन स्वीकृतवान् । एवं गान्धिदर्शने चिन्तनस्य व्यापकता परिलक्षिता भवति ।




#Article 72: राजेन्द्र प्रसाद (508 words)


डाक्टर् बाबू राजेन्द्रप्रसादः(जीवितकालः - क्रि.श. १८८४तमवर्षस्य डिसेम्बर्मासस्य तृतीयदिनतः क्रि.श. १९६३तमवर्षस्य फेब्रवरीमासस्य २८तमदिनपर्यन्तम् ) भारतस्य प्रथमो राष्ट्रपति: आसीत् । भारतीयस्वतन्त्रतायाः अन्दोलने प्रमुखनेतृषु अन्यतमः । अपि च भारतीयराष्ट्रियकाङ्ग्रेस् इति राजनैतिकपक्षस्य अध्यक्षस्य भूमिकां सम्यक् निर्वूढवान् । भारतीयसंविधानस्य निर्माणे अपि अस्य प्रधानं योगदानम् अस्ति यस्य परिणामेन क्रि.श. १९५०तमवर्षस्य जनवरिमासस्य २६तमे दिने भारतं गणतन्त्रम् अभवत् । राष्ट्रपतिपदम् अतिरिच्य एषः भारतस्य केन्द्रीयमन्त्रिणः पदे अपि कञ्चिक्तालं व्यराजत । समग्रे देशे अत्यन्तं लोकप्रियः भूत्वा जनैः राजेन्द्रबाबू अथवा देशरत्न इति आहूयते स्म ।

भारतदेशस्य बिहारराज्ये महादेवसहायस्य पुत्ररूपेण राजेन्द्रपसादस्य जन्म अभवत् । किन्तु अस्य पूर्वजाः उत्तरप्रदेशराज्यस्य अमोडाप्रदेशस्य निवासिनः । अस्य कुटुम्बिनः कायस्थाः आसन् । अस्य पिता संस्‍कृतभाषायां पारसीभाषायां च प्रवीणः आसीत्‌ । राजेन्द्रस्य पितामहः विद्यावान् आसीत् । अतः देशान्तरगतेन तेन हटुवा संस्थाने दिवानस्य कार्यं प्राप्तम् । त्रिंशत् वर्षाणि तस्मिन् संस्थाने कार्यं कृतवान् । तदा स्वयं किञ्चिद्भूभागं क्रीतवान् । अस्य पिता महादेव सहायः कृषिकर्म करोति स्म । राजेन्द्रस्य पितृव्यः जयदेव सहायः अपि क्षेत्रकर्मणि सहायः भवति स्म । जयदेवस्य किमपि सन्तानं नासीत् । अतः एषः अपि राजेन्द्रं स्वपुत्रः इव पश्यति स्म । पितुः पितृव्यस्य पितामहस्य च प्रेम्णा राजेन्द्रः सुखेन पालितः । पितामह्याः मातुः च प्रीतिरपि निरतिशया आसीत् । माता प्रभाते अनेन सह शीघ्रं शयनादुत्थाय प्रभागतीतानि भजनं कीर्तनं रामयणमहाभरतादीनां कथाः च श्रावयति स्म ।

राजेन्द्र बाबू बिहारराज्यस्य सीवनमण्डलस्य जीरादेयी इति ग्रामे क्रि.श. १८८४तमे वर्षे डिसेम्बर मासस्य तृतीये दिने अजायत । अस्य पिता श्री महादेव सहायः संस्कृतभाषा पारसीभाषायः पण्डितः आसीत् । अस्य माता श्रीमती कमलेश्वरी देवी काचित् धर्मपरायणा महिला आसीत् । पञ्चवर्षीयः राजेन्द्रः मौलवी सहाब इत्यनेन फारसीभाषया शिक्षायाः आरम्भं कृतवान् । पश्चात् प्राथमिकशिक्षाप्राप्तये मण्डलस्य सर्वकारीयविद्यालयं प्रविष्टवान् । तत्कालीनस्य सम्प्रदायानुगुणं राजेन्द्रस्य विवाहः बाल्ये एव अभवत् । यदा एषः १३वर्षीयः आसीत् तदा राजवंशीदेवी इत्यनया सह विवाहः अभवत् । विवाहसस्य पश्चात् पटनानगरस्य टि.के.घोष अकादमी इति शिक्षासंस्थायां विद्याभ्यासम् अनुवर्तितवान् । अस्य वैवाहिकं जीवनम् अतीव सुखमयम् आसीत् । अस्य अध्ययने अथवा अन्यकार्ये विवाहः बाधकः नाभवत् । शीघ्रमेव मण्डलस्य शालां त्यक्त्वा स्वस्य अष्टदशे वयसि कोलकाताविश्वविद्यालयस्य प्रवेशपरीक्षाम् अलिखत् । प्रथमश्रेण्या तां परीक्षां समुत्तीर्य क्रि.श. १९०२तमे वर्षे कोलकोतायाः प्रसिद्धे प्रेसिडेन्सी महाविद्यालये प्रवेशं प्राप्तवान् । राजेन्द्रः स्वप्रतिभया गोपालकृष्ण गोखले विहारविभूतिः डा. अनुग्रह नारायण सिन्हा इत्यादीन् पण्डितान् आकृष्टवान् । क्रि.श. १९१५तमवर्षे सस्वर्णपदकं विधिपरास्नतकपदवीं (एल्.एल्.बि.) उत्तीर्णवान् । पश्चात् आधुनिकन्यायक्षेत्रे (ला) शोधपत्रं प्रस्तुत्य डाक्टरेट् उपाधिमपि प्राप्तवान् ।

यद्यपि राजेन्द्रस्य अध्ययनं फारसीभाष्या उर्दूभाषया च आरब्धं तथापि स्नातकपरीक्षां हिन्दी भाषया लिखितवान् । एषः हिन्दी, उर्दू, फारसी, आङ्ग्लं, बङ्गाली भाषाणां साहित्येन परिचितः आसीत् । अपि च एताभिः भाषाभिः सुललितं प्रभावकारि व्याख्यानं करोति स्म । अस्य गुजरती भाषायाः अपि व्यावहारिकं ज्ञानम् आसीत् । एम्.एल्.परीक्षानिमित्तं हैन्दवशासनविषये संस्कृतग्रन्थान्अपि पठितवान् । हिन्दीभाषायाः विषये अस्य प्रेम अगाधम् आसीत् । भारमित्र, भारदोदय, कमला इत्याद्यसु तत्कालीनप्रसिद्धासु दिनपत्रिकासु अस्य लेखाः प्रकाशिताः भवन्ति स्म ।

भारतस्य स्वातन्त्र्यसङ्ग्रामे अस्य प्रवेशः न्यायवादिनः रूपेण वृत्तिभूमिप्रवेशेन सह एव अभवत् । चम्पारणसत्याग्रहे महात्मा गान्धिः कस्यचित् सत्यान्वेषणस्य समूहस्य प्रेषणावसरे स्वस्य स्वयंसेवकगणे अन्तर्भवितुं सूचितवान् । राजेन्द्रः महात्मा गान्धेः त्यगेन निष्ठया च बहुधा प्रभावितः अभवत् । क्रि.श. १९२१तमे वर्षे एषः कोलकताविश्वविद्यालयस्य सिनेटर् पदस्य त्यागम् अकरोत् । गान्धिमहोदयः यदा विदेशीय संस्थानां बहिष्कृतवान् तदा राजेन्द्रः स्वपुत्रं मेधाविनं मृत्युञ्जयप्रसादं कोलकोताविश्वविद्यायतः निष्कास्य बिहारविद्यापीठे प्रवेशितवान् ।

क्रि.श.१९६२तमे वर्षे भारतसर्वकारः राजेन्द्रप्रदं भारतरत्नम् इति सर्वश्रेष्ठेन उपाधिना सममानयत् । एतत् तु अस्मै भारतस्य कृतज्ञता यः आन्तरङ्गिकध्वनिं श्रुत्वा अर्धशताब्धं यावत् मातृभूमेः सेवामकरोत् ।

राजेन्द्रप्रसादः स्वस्य जीवनस्य अन्तिमदिनानि यापयितुं पाटनासमीपस्थं सदाकत इति आश्रमं चितवान् । तत्र क्रि.श. १९६३तमवर्षस्य फेब्रवरिमासस्य २८तमे दिने देहत्यागं कृतवान् ।




#Article 73: सर्वपल्ली राधाकृष्णन् (530 words)


सर्वपल्ली राधाकृष्णन् (Sarvepalli Radhakrishnan) (१८८८-१९७५) भारतवर्षस्य विख्यातः तत्त्वशास्त्रज्ञः गौरवान्वितः राजनीतिज्ञः च आसीत् । सः भारतस्य द्वितीयः राष्ट्रपतिः आसीत्। सः भारतीयदर्शनानां पाश्‍चात्‍यदर्शनानां  च पण्‍डितः आसीत्‌ । सः अनेकानि वर्षाणि यावत् शिक्षकः सन्  सः आदर्शशिक्षकः इति प्रसिद्धः आसीत् ।  अत एव भारतीयाः तस्य जन्मदिनं शिक्षकाणां दिनमिति आचरन्तः शिक्षणक्षेत्रे तस्य सेवां स्मरन्तः तस्मै गौरवं समर्पयन्ति ।

सर्वपल्ली राधाकृष्णन् दक्षिणभारतस्य तमिळनाडुराज्यस्य तिरुत्तणीनामके मण्डले १८८८ तमस्य वर्षस्य सेप्टेम्बर्मासस्य पञ्चमे दिनाङ्के जनिम् अलभत । सर्वपल्ली इति तस्य कुलस्य नाम इति प्रतीयते । राधाकृष्णन् इति पितृभ्यां प्रेम्णा  नामकरणं कृतम् आसीत् । तस्य पिता सर्वपल्ली वीरस्वामी,  क्षेत्राधिपतेः सकाशे दैनिकवेतनाश्रितः कर्मकरो भूत्वा कार्यं कुर्वन् पुत्रस्य सर्वविधश्रेयसे कारणीभूतः अभवत् । यदा पिता दैनिकवेतनम् एव अवलम्ब्य जीवन् कुटुम्बभरणार्थम् अतिक्लेशम् अनुभवति स्म तदा एव अयं बालः राधाकृष्णः पठने उत्सुकः आसीत् । शिष्यवेतनेनैव प्राथमिकं तथा प्रौढशिक्षणं समाप्य मड्रास्(इदानीन्तनं चेन्नै) क्रिश्चियन् कलाशालायां  तत्त्वज्ञानविषयम् आश्रित्य पदवीं स्नातकोत्तरपदवीं च सम्पादितवान् । स्नातकोत्तरपदव्यां तेन मण्डितः  ”दि एथिक्स् आफ् वेदान्त” प्रबन्धः तस्य  जीवनदिशम् एव पर्यवर्तयत् । विंशतिवर्षीयस्य युवकस्य प्रतिभां, ज्ञानम्, वेदान्तविचारान् च समीक्ष्य 'भविष्ये एषः श्रेष्ठस्थानं प्राप्स्यति' इति तेषां कलाशालायाः अध्यापकाः परस्परं वदन्ति स्म ।

वेल्लूरुमध्ये वसनावसरे षोडशवर्षीयः युवा सः शिवकामम्मानामिकां कन्याम् ऊढ्वान् । १९०९  तमे वत्सरे मद्रास्नगरे विद्यमानायां प्रेसिडेन्सी-कलाशालायां साहाय्यकोपन्यासकः सन् अभीप्सितां वृत्तिम् आरभत । तेन संस्‍कृतभाषायाः हिन्‍दीभाषायाः च अध्‍ययनं कृतम्‌ । भारतस्‍य प्राचीनासु भाषासु तस्य अभिरुचिः आसीत्‌ । भारतस्य सनातनहिन्दूधर्मस्य सारं, वेदोपनिषदः, जैनतत्त्वज्ञानम्, शङ्कर -रामानुज-मध्व-प्लेटो-प्लाटिनेस्-कान्त्-ब्र्याड्ले इति अनेकेषां महनीयानां तत्त्वं गाढतया अधीतवान् सः । सतताध्ययनेन कठिनपरिश्रमेण च क्रमशः सोपानानि आरोहन् अग्रे सरन् १९१८ तमे वर्षे मैसूरुविश्वविद्यालयस्य तत्त्वज्ञानविभागस्य उपन्यासकत्वेन चितः अभवत् । १९३१ तमे वर्षे आन्ध्रविश्वविद्यालयस्य उपकुलपतित्वेन चितः राधाकृष्णन् पञ्चवर्षाणि यावत् स्वसेवावधौ आत्मानम् उत्तमप्रगतिनिष्ठः इति  निरूपयन् तस्य विश्वविद्यालयस्य परिवर्तने प्रधानपात्रम् अवहत्। १९३९ तमे वर्षे बनारस्-विश्वविद्यालयस्य कुलपतित्वेन चितः अभवत् । तत्रापि स्वानुभवस्य प्राबल्येन विश्वविद्यालयस्य सर्वविधाभिवृद्धौ परिश्रमं कृतवन्तं राधाकृष्णन्-महाभागं सर्वकारः १९४८ तमे वर्षे विश्वविद्यालयशिक्षणायोगस्य  मुख्यस्थरूपेण नियुक्तिम् अकरोत् । १९४९ तमे वर्षे सोवियत्-रशिया-देशस्य राजदूतत्त्वेन नियुक्तः रधाकृष्णन् साल्टिन् सदृशमेधाविभिः समं स्वव्यक्तित्वम् अभ्यवर्धयत् ।

१९५२ तमे वर्षे शिक्षकः एषः ऐदम्प्राथम्येन भारतस्य उपराष्ठ्रपतित्वेन नियुक्तः । राधाकृष्णन् राज्यसभायां संस्कृतश्लोकानाम्  उद्धरणेन संसत्सदस्यान् आत्माभिमुखान् कर्तुं समर्थः भवति स्म । राधाकृष्णन्-महाभागस्य अपारसेवां परिगणय्य भारतसर्वकारः १९५४ तमे वर्षे प्रतिष्ठितं भारतरत्नोपाधिं तस्मै प्रदाय तं सभाजयामास । अस्मिन् एव सन्दर्भे अमेरिकादेशे राधाकृष्णम् उद्दिश्य लिखितस्य ”फिलासफि आफ् डा सर्वपल्ली राधाकृष्णन्”इति पुस्तकस्य  विमोचनमभवत् । डा राजेन्द्रप्रसादस्य पश्चात् १९६२ तमे वर्षे भारतस्य द्वितीयराष्ठ्रपतित्वेन चितः राधाकृष्णन् स्वाधिकारावधौ देशस्य सर्वविधोन्नत्यै श्रमं व्यदधात् । अन्ताराष्ट्रियस्तरे अपि भारतस्य सम्बन्धं संवर्धयन् देशस्य आन्तरिककलहविषये अधिकं व्यवधानम् अयच्छन् 'देशस्य प्रगतेः प्रवर्तकः' आसीत् इत्यत्र नास्ति सन्देहः। भारतीयशिक्षणक्षेत्राय  सार्थकपरिधिंप्रदानेन शिक्षाक्षेत्रे  तत्त्वज्ञाने देशस्य अभिवृद्ध्यर्थम् आत्मानं पूर्णतया समर्पयत् सः। भारतीयानां सवेर्षां चित्ते सर्वदा स्थानम् अवाप्नुवत्। एषः शिक्षणतज्ञः अपि आसीत्। अतः एतस्य जन्मदिनं प्रतिवर्षं सप्टम्बरमासस्य पञ्चमे दिनाङ्के शिक्षकाणां दिनम् इति आचर्यते ।

देश-विदेशानां पत्रिकासु तेन लिखिताः स्वाध्ययनभूयिष्ठाः बहवः विचाराः प्रकशिताः अभवन् ।  दि फिलासफि आफ् रवीन्द्रनाथ ठ्यागोर्  इत्येतत् तेन लिखितं प्रथमं पुस्तकम् ।  एषः तेलगुभाषया  राधाकृष्णय्य इति हस्ताङ्कनं करोति स्म । मैसूरुनगरे एतस्य नाम्ना कश्चन मार्गः वर्तते । भारतस्य पत्रिकोद्यमक्षेत्रे प्रकाशमानः एषः अग्रे जिनीन् मेनिफेस्टेषन् आफ् इण्डियन् स्पिरिट् एवं रीजन् आफ् इण्डियन् काण्टेम्पररि फिलासफि इति पुस्तकम् अलिखत् । स्वपाण्डित्यप्रभावेण देशविदेशेष्वपि प्रख्यातिमलभत । एतस्य तत्त्वज्ञानस्य प्रभया आकृष्टः आक्सफर्ड् विश्वविद्यालयः 'धर्मः तथा नीतिशास्त्रम्'इति विषये उपन्यासं प्रदातुं तं समाह्वयत् । तदा स्वविचारं मण्डयन् एषः सप्तसागरमतीत्य अपि भारतस्य किर्तिध्वजमुदतोलयत् । भारतीयानां स्वातन्त्र्यार्थमपि आन्दोलनं कुर्वन् भारतीयसनातनधर्मविषये तथा तत्त्वज्ञानस्य विषये तान् उदबोधयन् तान् पर्यवर्तयत् । १९६७ तमे वर्षे राष्ट्र्पतिस्थानस्य  अधिकारावधेः परिसमाप्त्यनन्तरं निवृत्तिजीवनं मड्रासनगरस्थे मैलापुरे विद्यमाने स्वनिवासे यापयन् आसीत् सः । १९७५ तमवर्षस्य एप्रिल्- मासस्य १९ दिनाङ्के सः इहलोकयात्रां समाप्य परलोकं प्रातिष्ठत ।




#Article 74: ज्ञानी जैल सिंह (2438 words)


श्रीज्ञानी जैल सिंह ( ) (, , ) भारतस्य सप्तमः राष्ट्रपतिः । अस्य नाम्ना ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खविरोधिहिंसायाः च स्मरणं भवत्येव । भारतस्य तयोः हृद्व्रणयोः दोषी कः इति पञ्चत्रिंशत्वर्षपश्चाद् अद्यापि प्रश्न एवास्ति । अतः देशजनाः खिन्नमनसा श्रीज्ञानी जैल सिंह इत्येनं स्मरन्तः सन्ति । परन्तु सत्यता तु अस्ति यत्, देशस्य हृदि यथा ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खहिंसायाः च पीडा अस्ति, तथैव तस्य हृदि अपि आसीत् । स्वयं सः, तस्य पुत्री च बहुवारं तयोः व्रणयोः विषये स्वपीडां देशस्य सम्मुखम् उपास्थापयत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।) सः देशभक्तः, धार्मिकसिक्ख-जनः, योग्यराष्ट्रपतिः च आसीत् ।

१९१६ तमस्य वर्षस्य ‘मई’-मासस्य पञ्चमे (५/५/१९१६) दिनाङ्के पञ्जाबराज्यस्य फरीदकोटमण्डलस्य कोटपुरा-पत्तनात् किञ्चित् दूरस्थे सन्धवान-ग्रामे श्रीज्ञानिनः जन्म अभवत् । तस्य पितुः, मातुः च नाम क्रमेण किशन सिंह, बीबी इन्द कौर च आसीत् । तयोः कनिष्ठतमः पुत्रः एव श्रीज्ञानी जैल सिंह ।

किशन सिंह अत्यन्तः निर्धनः आसीत् । अतः स्वपरिवारस्य पोषणं सः परिश्रमेण करोति स्म । श्रीज्ञानी यदा एकादशमासीयः आसीत्, तदैव तस्य मातुः देहान्तः अभवत् । परिवारस्य स्थितिः सुदृढा नासीत् इत्यतः पत्न्याः निधनेन सम्पूर्णस्य परिवारस्य दायित्वं किशन सिंह इत्यस्योपरि आपतितम् । सः कृषिकार्यस्य, परिवारस्य च दायित्वं ओढुं प्रयासम् अकरोत्, परन्तु असफलः अभवत् । अन्ततो गत्वा सः स्वश्यालीं (wife’s sister) स्वपुत्रस्य पालनार्थं न्यवेदयत् । तस्य श्याली बीबी दया कौर श्रीज्ञानिनः पालनस्य दायित्वं स्व्यकरोत् । सा तं पुत्रवदेव पालयन्ती आसीत् । पञ्चदशवर्षवयसः पर्यन्तं श्रीज्ञानी स्वमातृभगिनीम् एव मातृत्वेन पश्यति स्म । ततः तस्य ज्ञानमभूत् यत्, एषा तु मम मातृभगिनी इति ।

किशन सिंह धार्मिकस्वभावी आसीत् । सः नित्यं गुरुग्रन्थसाहिब पठति स्म । तस्य संस्काराः तस्य पुत्रे अपि आसन् । गुरुग्रन्थसाहिब अनुसारं मुगल-राज्ञाम् अत्याचारात् हिन्दुधर्मस्य रक्षणं कर्तुं खालसासम्प्रदायस्य स्थापना अभवत् इति गुरुग्रन्थसाहिब इत्यस्य मर्मं श्रीज्ञानी बाल्यकालादेव जानाति स्म । सिक्खगुरूणां जीवनचरित्रस्य श्रावणकाले गुरून् प्रति आदरभावेन तस्य पितुः अक्षिणि अश्रूणि दृष्ट्वा श्रीज्ञानी अपि धर्मस्य दायित्वं सम्यक् अवगच्छति स्म । पितुः धर्मभावना, देशभक्तिः श्रीज्ञानिनः शरीरे रक्तत्वेन सञ्चरति स्म ।

पठने श्रीज्ञानिनः रुचिः नासीत् । अतः बाल्यकाले श्रीज्ञानिनः औपचारिकशिक्षा तु सम्यग्तया न जाता एव । परन्तु पितुः धर्मशिक्षा तेन सम्यक् अधीता । सः नित्यं स्वपित्रा सह गुरुग्रन्थसाहिब इत्यस्य पठनम् आरभत । स्वल्पे काले एव गुरुग्रन्थसाहिब-पुस्तकं कण्ठस्थं जातं तस्य । पित्रा सह सोऽपि कीर्तनं प्रारभत । पितुः सान्निध्ये तेन सिक्खसम्प्रदायस्य इतिहासः, सिक्खसिद्धान्तश्च अधीतः । अतः तस्य औपचारिकशिक्षणस्य अभावः न केनापि अनुभूतः ।

१९२७ तमे वर्षे द्वादशवर्षीयः श्रीज्ञानी केनचित् आत्मघातिरोगेण ग्रस्तः अभवत् । कोऽपि वैद्यः तं रोगमुक्तं कर्तुं न शक्तः । एकस्मिन् दिने वैद्यः तस्य पितरम् अवदत्, “अहं यावत् कर्तुं शक्नोमि स्म, तावदमहम् अकर्वम् । परन्तु अधुना मम हस्ते किमपि नास्ति” इति । वैद्यस्य गमनानन्तरं किशन सिंह गुरुग्रन्थसाहिब इत्यस्य समीपम् उपविश्य प्रार्थयत्, “हे वाहे गुरो ! मम पुत्रं रक्षस्व । मम पुत्रस्य रक्षा यदि करोषि, तर्हि तं तुभ्यमेव समर्पयिष्ये इति प्रतिज्ञां करोम्यहम्” । आर्तभावेन तेन कृता ईश्वरप्रार्थना भगवता श्रुता । श्रीज्ञानी स्वस्थः अभवत् । ततः तस्य पिता वचनानुसारं तं भजन-कीर्तन-सेवादिकार्येषु न्ययोजयत् । शनैः शनैः श्रीज्ञानिनः धर्मस्य ज्ञानम् एतावत् दृढम् अभूत् यत्, सर्वे तस्मै ज्ञानी इति उपाधिम् अयच्छन् । सः यदा चतुर्दशवर्षीयः आसीत्, तदारभ्य ज्ञानी इति उपाधिना सह एव तम् आह्वयन्ति स्म जनाः ।

श्रीज्ञानी ग्रामं ग्रामं भ्रमन् कीर्तन-गुरुचरित्रकथन-सेवादिकार्याणि करोति स्म । तेन सह बहूनि धर्मप्रियाणि मित्राणि अपि संलग्नानि आसन् । यत्र कुत्रापि कीर्तनं भवति स्म, तत्र सर्वाणि मित्राणि एकसाकमेव गच्छन्ति स्म । मार्गे धर्मस्य, देशस्य च चर्चाः अपि भवन्ति स्म । १९३१ तमस्य वर्षस्य 'मार्च'-मासस्य त्रयोदशे (२३/३/१९३१) दिनाङ्के यदा भगत सिंह इत्यस्य हननं कृतम् आङ्ग्लैः, तदा सर्वैः मित्रैः क्रान्तिकारिभिः मिलित्वा देशस्वतन्त्रतायाः कार्यं कर्तव्यम् इति निश्चितम् । परन्तु श्रीज्ञानिनः आयुः न्यूनः आसीत् । अतः क्रान्तिकारिणां दले सः अन्तर्भवनाय अयोग्यः सिद्धः । क्रान्तिकारिणां दले पुत्रस्य रुचिः उद्भूता इति समाचारान् अश्रृणोत् किशन सिंह । पुत्रस्य निर्णयं ज्ञात्वा श्रीज्ञानिनः पिता तस्य विवाहस्य निर्णयम् अकरोत् । श्रीज्ञानी यदा पञ्चवर्षीयः आसीत्, तदैव तस्य विवाहः बीबी प्रधान कौर इत्यनया सह निश्चितः आसीत् । युवा श्रीज्ञानी बाल्यकाले निश्चितं तं विवाहं न अङ्ग्यकरोत् । परन्तु मातृभगिनी वात्सल्येन तम् अबोधयत् । ततः १९३४ तमे वर्षे अष्टादशवर्षस्य वयसि सः बीबी प्रधान कौर इत्यनया सह विवाहम् अकरोत् । तयोः चत्वारः शिशवः जाताः । एकः पुत्रः, त्रिस्रः पुत्र्यः च ।

आदरणीयानाम् आग्रहेण श्रीज्ञानिना विवाहस्तु कृतः, परन्तु देशस्वतन्त्रतायाः विचाराः तस्य मानसपटलात् न गताः । भारतस्य पराधीनता तम् अशान्तं, क्षुब्धं च करोति स्म । तस्य दुःखे वर्धनं तु तदा भवति स्म, यदा देशस्य जनाः एव आङ्ग्लानां साहाय्यं कुर्वन्तः आसन् इति सः पश्यति स्म । पारिवारिकबन्धनात् बद्धः सः आङ्ग्लविरोधाय क्रान्तिकारिवत् कार्यं कर्तुं न शक्नोति स्म । परन्तु तस्य पार्श्वे धर्मस्य शक्तिः तु आसीदेव । सः यत्र कुत्रापि कीर्तनाय गच्छति स्म, तत्र देशस्वतन्त्रतायै जनजागृतिं करोति स्म । फरीदकोट-पत्तनस्य राजा दमनकारी आसीत् । सः आङ्ग्लानां साहाय्यं कुर्वन् देशजनान् एव पीडयति स्म । अतः श्रीज्ञानी मुहुर्मुहुः जनसामान्यानाम् आह्वानम् अकरोत् । सः स्वभाषणे फरीदकोट इत्यस्य राज्ञः, आङ्ग्लानां च विरोधं कर्तुं जनसामान्यान् अबोधयत् । तस्य भाषणं श्रोतुं बहवः जनाः गच्छन्ति स्म । तत् दृष्ट्वा एकेन देशभक्तेन अकाली-दलस्य सदस्यः भवतु इति परामर्शः तस्मै दत्तः । अतः १९३७ तमे वर्षे सः अकाली-दलस्य सदस्यः अभवत् ।

श्रीज्ञानिनः भाषणैः प्रभाविताः अकाली-दलस्य सदस्याः तस्मै अध्यक्षस्य स्थानम् अयच्छन् । अकाली-दलस्य मुख्यवक्तिः तदा मास्टर् तारा सिंह आसीत् । तस्य सम्पर्केण श्रीज्ञानिनः बोधः जातः यत्, “देशेऽस्मिन् राजशासनस्य अन्तः करणीयश्चेत् कोङ्ग्रेस-पक्षस्य सदस्यः भवितव्यम्” इति । अकालीदलस्य, कोङ्ग्रेसपक्षस्य च सदस्यो भूत्वा सः नित्यम् एकम् आङ्ग्लविरोधिभाषणं करोति स्म । तस्य भाषणे आङ्ग्लविरोधेन सह राजशासनस्य विरोधः अपि भवति स्म । श्रीज्ञानिनः भाषणैः भीतः फरीदकोट इत्यस्य राजा तं बन्दिनम् अकरोत् । सः श्रीज्ञानिने पञ्चवर्षं यावत् कारावासस्य दण्डम् अयच्छत् ।

पञ्चवर्षानन्तरम् अर्थात् १९४३ तमे वर्षे श्रीज्ञानी कारागारात् मुक्तः अभवत् । सः यदा कारागारात् बहिः आगतः, तदा देशे भारतस्वतन्त्रतायाः वातावरणमासीत् । महात्मना “भारत छोडो”-आन्दोलनस्य घोषणा कृता आसीत् । सर्वेषाम् अक्षिणि भारतस्वतन्त्रतायाः स्वप्नः आसीत् । परन्तु आङ्ग्लैः राजशासितेभ्यः प्रदेशेभ्यः क्रान्तिकारिदमनस्य आज्ञा दत्ता आसीत् । अतः श्रीज्ञानी दलं निर्मितुम् अशक्तः अभवत् । सः अन्यजनानां साहाय्यं प्राप्तुं लाहोर-महानगरम् अगच्छत् । तदा तस्य पुरातनेन मार्गदर्शकेन मास्टर् तारा सिंह इत्यनेन सह तस्य पुनः सम्पर्कः अभवत् । सः सिक्ख मिशनरी कॉलज् इत्यस्य प्रधानाचार्यस्य समीपं श्रीज्ञानिनं प्रैषयत् । तत्र श्रीज्ञानी वर्षत्रयं यावत् स्थित्वा सिक्खसम्प्रदायस्य प्रचारस्य कार्यम् अकरोत् ।

१९४६ तमे वर्षे भारतस्य स्वतन्त्रतायाः दिनस्य यदा घोषणा अभवत्, तदा श्रीज्ञानी पुनः फरीदकोट अगच्छत् । सः तत्र लोकहितकारिसर्वकाररचनायाः सङ्कल्पम् अकरोत् । तस्य सङ्कल्पस्य जनाः स्वागतम् अकुर्वन् । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतस्य स्वतन्त्रतानन्तरमपि राजशासितप्रदेशाः क्रान्तिकारिणां दमनं नास्थगयन् । राज्ञः अत्याचारैः त्रस्तः श्रीज्ञानी अभूतपूर्वं निर्णयम् अकरोत् । १९४८ तमस्य वर्षस्य 'मार्च'-मासस्य प्रथमे दिनाङ्के फरीदकोट इत्यस्य न्यायालय-कोषागार-सचिवालय-आरक्षकभवनानि जनाधिकारे कर्तुं तानि भवनानि स्वस्य अधिकारे अनयत् सः । फरीदकोट इत्यस्य राजा तदा मलेरकोटला इत्येतत् स्थलं गतः आसीत् । ततः प्रतिगत्वा सः पुनः सर्वं स्वाधिकारम् अकरोत्, श्रीज्ञानिने च सश्रमकारागारस्य दण्डम् अयच्छत् । लोहपुरुष-नेहरू इत्यनयोः हस्तक्षेपेण विंशतिदिनानन्तरमेव राजा श्रीज्ञानिनं कारागारात् प्रामुञ्चयत् । ततः लोहपुरुषस्य सत्प्रयासैः १९४८ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्ये फरीदकोट विलीनम् अभवत् ।

सर्वेषां हृदि भारतस्वतन्त्रतायाः उल्लासः आसीत् । परन्तु देशविभाजनेन सः उल्लासः शोके परिवर्तितः । धर्माधारितेन देशविभाजनेन देशस्य प्रशासनिकव्यवस्था शिथिला अभवत् । आभारते अराजकतायाः वातावरणमासीत् । परन्तु सीमाप्रदेशत्वात् पञ्जाबराज्ये अराजकता अधिका आसीत् । पाकिस्थानात् भारतम् आगच्छन्तः जनाः पञ्जाबराज्ये एव निवसन्ति स्म । पञ्जाबराज्यस्य समस्यां निराकर्तुं भारतसर्वकारेण ‘पेप्सू’-नामकस्य (पेप्सू (PEPSU) – पटियाला एण्ड ईस्ट पञ्जाब स्टेट्स यूनियन्) राज्यस्य रचना कृता । तस्य राज्यस्य मुख्यमन्त्री ज्ञान सिंह रारेवाला आसीत् । परन्तु भारतसर्वकारेण महत्वपूर्णस्य 'राजस्व'-मन्त्रालयस्य दायित्वं श्रीज्ञानिने प्रदत्तम् । ततः तत् पेप्सू-राज्यं पञ्जाबराज्ये अन्तर्निहितं सर्वकारेण । ततः १९५१ तमे वर्षे पञ्जाबराज्ये कोङ्गेस-पक्षस्य सर्वकारस्य रचना अभवत् । तस्मिन् सर्वकारे श्रीज्ञानी कृषिमन्त्री आसीत् । १९५६ तमे वर्षे राज्यसभायाः सदस्यत्वं सम्प्राप्य श्रीज्ञानी देहली-महानगरे स्वनिवासं निश्चितम् अकरोत् । १९६२ वर्षपर्यन्तं देहली-महानगरे स्थित्वापि सः पञ्जाबराज्यस्य विकासार्थम् अविरतं प्रयत्नशीलः आसीत् । १९६० तः १९७२ पर्यन्तं सः पञ्जाबराज्यस्य विभिन्नेषु स्थानेषु कार्यम् अकरोत् । १९७२ तमस्य वर्षस्य 'मार्च'-मासस्य सप्तदशे (१७/३/१९७२) दिनाङ्के सः पञ्जाबराज्यस्य मुख्यमन्त्रिपदं व्यभूषयत् ।

यदा श्रीज्ञानी पञ्जाबराज्यस्य मुख्यमन्त्री आसीत्, तदा पञ्जाबराज्यस्य औद्योगिकप्रगतिः अवर्धत । तस्य कार्यकालः कृषिक्षेत्रे हरितक्रान्तेः (green revolution) कालः आसीत् । भारतस्वतन्त्रतासङ्ग्रामे ये क्रान्तिकारिणः भागम् अवहन्, तेषां गृहं गत्वा तेषां सम्मानम् अकरोत् सः । भारतस्वतन्त्रतासङ्ग्रामाय ये क्रान्तिकारिणः स्वप्राणाहुतिम् अयच्छन्, तेषां परिवारेभ्यः योग्यधनराशिः प्रदत्ता तेन । सिक्खसम्प्रदायं प्रति स्वादरं प्रकटयितुं पञ्जाबराज्ये गोविन्द सिंह-मार्गस्य निर्माणं कारितं तेन । सः गोविन्द सिंह-मार्गः पञ्जाबराज्यस्य नवतिः (९०) पवित्रधामानि योजयति । सः मार्गः त्रिशताधिकद्वात्रिंशत् (३३२) ग्रामान् अपि योजयति । सिक्खसम्प्रदायस्य द्वे अत्यन्तपवित्रस्थाने अर्थात् आनन्दपुरे स्थितं श्रीकेशगढ-गुरुद्वारं (तत्र श्रीगुरु गोविन्द सिंह इत्यनेन खालसा-सम्प्रदायस्य स्थापना कृता आसीत् ।) दमदमा-गुरुद्वारं च योजयति सः मार्गः ।

१९८० तमे वर्षे भारतस्य गृहमन्त्रिपदं व्यभूषयत् सः । परन्तु गृहमन्त्रित्वेन सः वर्षद्वयम् एव कार्यम् अकरोत् । १९८२ तमे वर्षे श्रीनीलं सञ्जीव रेड्डि इत्यस्य राष्ट्रपतित्वेन कार्यकालः पूर्णः अभवत् । अतः तत्कालीनः प्रधामन्त्री इन्दिरा गान्धी स्वपक्षस्य राष्ट्रपतिप्रत्याशित्वेन श्रीज्ञानिनः नाम औद्घोषयत् । तस्याः उद्देशः स्पष्टः आसीत् यत्, “अल्पसङ्ख्यकसिक्खजनेषु यदि कोऽपि राष्ट्रपतिः भविष्यति, तर्हि पक्षस्य मतसङ्ख्यायां वृद्धिः भविष्यति” इति । एवं विचिन्त्य सा राष्ट्रपतिप्रत्याशित्वेन श्रीज्ञानिनः नाम औद्घोषयत् । ततः श्रीज्ञानी गृहमन्त्रिपदस्य त्यागपत्रम् अयच्छत्, राष्ट्रपतिप्रत्याशित्वेन नामाङ्कनञ्च अकरोत् । श्रीज्ञानिनः नामोद्घोषानन्तरं विपक्षेणापि हंसराज खन्ना-नामकः राष्ट्रपतिप्रत्याशित्वेन घोषितः । १९८२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चदशे (१५/७/१९८२) दिनाङ्के राष्ट्रपतिनिर्वाचने श्रीज्ञानी पादोनपञ्चलक्षमतैः विजयी अभवत् । १९८२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशति(२५)तमे दिनाङ्के उच्चतमन्यायालयस्य मुख्यन्यायाधीशः श्री वी. वी. चन्द्रचूड श्रीज्ञानिना राष्ट्रपतित्वेन शपथम् अकारयत् । एवं श्रीज्ञानी भारतगणराज्यस्य सप्तमः राष्ट्रपतिः अभवत् ।

कर्मनिष्ठया, ईश्वरस्योपरि श्रद्धया, व्यावहारिकज्ञानेन च लघुकुटीरे प्राप्तजन्मः श्रीज्ञानी भारतगणराज्यस्य सर्वोच्चसांविधानिकपदे आरूढः । सः भारतगणराज्यस्य उत्कृष्टतमेषु भवनेषु अन्यतमे राष्ट्रपतिभवने न्यवसत् । राष्ट्रपतित्वेन वर्षद्वयमेव सः शान्त्या कार्यम् अकरोत् । ततः श्रीज्ञानिनः राष्ट्रपतित्वेन वर्षत्रयस्य कार्यकालस्य जनसामान्यैः, राजनीतिज्ञैः च कठोरनिन्दा कृता अस्ति ।

राजनैतिकस्वार्थेन ग्रस्ताः नेतारः देशद्रोहिनाम्, उत्कोचकानाम्, आतङ्कवादिनाञ्च साहाय्येन स्वसत्तायाः रक्षणं, वर्धनं च साधयन्ति इत्यस्य प्रमुखोदाहरणत्वेन 'ऑपरेशन् ब्लू स्टार्', सिक्खविरोधिहिंसा च अस्ति । पञ्जाबराज्ये अकालीदलस्य वर्चस्वम् आसीत् । कोङ्ग्रेस-पक्षस्य विजयस्य आशा अपि नासीत् । तस्मिन् काले कोङ्ग्रेस-सर्वकारेण यः व्यक्तिः अकालीदलविरुद्धं कोङ्ग्रस-पक्षाय मतवृद्धिं कर्तुं शक्नुयात्, तादृशस्य व्यक्तेः अन्वेषणं प्रारब्धम् । अकालीदलस्य विरोधी भिण्डरवाला इत्यस्य व्यक्तेः परिचयः अभवत् तेषाम् । पञ्जाबराज्ये कोङ्ग्रेस-पक्षः भिण्डरवाला इत्यस्य समर्थनं करोति चेत्, कोङ्ग्रेस-पक्षस्य विजयः भवति इति आशा आसीत् । अतः इन्दिरा गान्धी राजनैतिकरीत्या, आर्थिकरीत्या च भिण्डरवाला इत्यस्य समर्थनम् अकरोत् । पञ्जाबराज्यस्य निर्वाचने भिण्डरवाला बहुमतेन अजयत । सः जानाति स्म यत्, “मम पृष्ठे यावत् इन्दिरा गान्धी अस्ति, तावत् मम कोऽपि अहितं कर्तुं न शक्ष्यति” इति । अतः सः स्वस्य महत्वाकाक्षां पूरयितुम् असांविधानिककार्याणि, सिक्खसम्प्रदायविरोधीनि कार्याणि च प्रारभत । मुगल-राज्ञाम् अत्याचारात् हिन्दुधर्मस्य रक्षणं कर्तुं खालसासम्प्रदायस्य स्थापना अभवत् इति गुरु ग्रन्थ साहिब इत्यस्य मर्मं सः व्यस्मरत् । भारतगणराज्यात् पञ्जाबराज्यं भिन्नं, हिन्दुधर्मात् सिक्खजनाः भिन्नाः इति सः प्रचारं प्रारभत । 'खलिस्थान' इति भिन्नस्य राष्ट्रस्य सः घोषणाम् अकरोत् ।

इन्दिरा गान्धी इत्यनया या धनराशिः भिण्डरवाला इत्यनेन प्राप्ता आसीत्, तस्याः धनराशेः उपयोगः सः आयुधक्रयणाय, आतङ्कवादिदलं निर्मितुं च अकरोत् । सायुधं गुरुद्वारप्रवेशे निषेधः अस्ति । सिक्खसम्प्रदायस्य कृते कार्यं कुर्वन् अस्मि इति मिथ्या आडम्बरं कुर्वन् भिण्डरवाला धर्मविरोधी, राष्ट्रविरोधी च कार्यम् अकरोत् । सः आयुधानि गुरुद्वारस्य पवित्रे परिसरे गौपयत् । तस्मिन् परिसरे अनेकाः आतङ्कवादिनः अपि आसन् । पञ्जाबराज्यस्य जनाः भिण्डरवाला इत्यस्य बहुविरोधम् अकुर्वन् । परन्तु ये केऽपि तस्य सम्मुखं विरोधं प्रादर्शयन्, तान् सर्वान् सः अमारयत् । पञ्जाबराज्यस्य अत्यन्तहिंसकवातावरणस्य सूचना केन्द्रसर्वकारेण प्राप्ता । केन्द्रसर्वकारस्य अनेकैः जनैः तस्य एतादृशस्य दुःसाहसस्य कृते साम-दान-भेदादीनाम् उपयोगः कृतः । परन्तु केन्द्रात् प्राप्तसंरक्षणः सः केन्द्रसर्वकारमेव युद्धाय आह्वयन् आसीत् । बहवः नेतारः, समाचारपत्रस्य सम्पादकाः, धर्मगुरवः तं मिलित्वा देशद्रोहम्, अधर्माचरणं च मा कुरु इति अबोधयन् । परन्तु सः न कस्यापि कथनम् अङ्ग्यकरोत् । अन्ततो गत्वा इन्दिरा गान्धी आतङ्कवादशमनार्थं सैन्यस्य साहाय्यं स्वयकरोत् । सैन्यबलं गुरुद्वारस्य पवित्रपरिसरं प्रविश्य आतङ्कवादिनः मारयेयुः इति आदेशः इन्दिरा गान्धी इत्यनया दत्तः । सैन्यबलेन गुरुद्वारे स्थितानाम् आतङ्कवादिनाम् उन्मूलनं कर्तुम् एका योजना कृता । तस्याः योजनायाः नाम आसीत् ‘ऑपरेशन् ब्लू स्टार्’ इति । ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्यै योजनायै इन्दिरा गान्धी सैन्यबलस्य सेनापतेः अर्थात् राष्ट्रपतेः अङ्गीकारं स्वयकरोत् । (प्रमाणं नास्ति ।)

१९८४ तमस्य वर्षस्य 'जून'-मासस्य तृतीये (३/६/१९८४) दिनाङ्के ‘ऑपरेशन् ब्लू स्टार्’ इति योजनायाः प्रारम्भः अभवत् । षड् दिनानि यावत् अर्थात् अष्टम(८)दिनाङ्कपर्यन्तं भारतीयसैन्यस्य, गुरुद्वारे निगूढानां (hidden) आतङ्कवादिनां च मध्ये सशस्त्रयुद्धम् अभूत् । तस्मिन् युद्धे भारतीयसैन्येन शतघ्न्याः (cannon), युद्धविमानानां, रासायणिकशस्त्राणां चोपयोगः कृतः । ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्याः योजनायाः प्रमुखः कुलदीप सिंह बरार अकथयत्, “एतस्मिन् युद्धे दव्यशीतिः (८२) सैनिकाः स्वप्राणाहुतिम् अयच्छन्, विंशत्यधिकद्विशतं (२२०) सैनिकाः आहताः (injure) अभवन्, द्विनवत्यधिकचतुःशतं (४९२) नागरिकाः मृताश्च” इति । (परन्तु संशोधने सा सङ्ख्या पञ्चसहस्राधिका (५०००) इति सिद्धम् अभवत् ।) ।

भिण्डरवाला इत्यस्य मृत्योः अनन्तरम् एव समाप्ता ‘ऑपरेशन् ब्लू स्टार्’ इतीयं योजना । तस्याः योजनायाः समाप्त्या सह भिन्नराष्ट्रस्य 'खलि'स्थानस्य निराधारयाचना अपि मृता । परन्तु षड्दिनं यावत् सुवर्णमन्दिरे याः गोलिकाः अचलन्, ताभिः अकाल तख्त-नामकं गुरुद्वारस्य पवित्रस्थानं नष्टम्, अपवित्रं चाभवत् । तेन सिक्खसम्प्रदायस्य जनेषु बहुरोषः आसीत् । साप्रदायिकभावनायाः हननस्य, गुरुद्वारस्य पवित्रस्थलस्य नाशस्य च दण्डत्वेन इन्दिरा गान्धी इत्यस्याः हननं तस्याः सिक्ख-आरक्षकाभ्यां कृतम् । तौ आरक्षकौः त्रयस्त्रिंशत् (३३) गोलिकाः अचालयन् इन्दिरा गान्धी इत्यस्याः उपरि । तासु त्रयस्त्रिंशत् (३३) गोलिकासु त्रयोविंशतिः (२३) तस्याः शरीरं विभेद्य गताः, सप्त गोलिकाश्च (७) तस्याः शरीरे एव आसन् । १९८४ तमस्य वर्षस्य 'अक्तूबर'-मासस्य एकत्रिंशत्तमे दिनाङ्के इन्दिरा गान्धी इत्यस्याः मृत्युः तस्याः निवासस्थाने एव अभवत् । तस्याः करुणहत्यानन्तरं देशे सिक्खविरोधिभावः उद्भूतः इति कथनमासीत् केन्द्रसर्वकारस्य । तस्य सिक्खविरोधिभावस्य फलमेवासीत् १९८४ तमस्य वर्षस्य सिक्खविरोधिनी साम्प्रदायिकहिंसा ।

१९८४ तमस्य वर्षस्य सिक्खविरद्धहिंसायाम् अनेकाः सिक्खजनाः मृताः । आलोचकानां कथनमस्ति यत्, “जलियावाला-नरहत्याः अपि भयावहः आसीत्, १९८४ तमस्य वर्षस्य सिक्खविरोधिनरहत्या” इति । हिन्दुधर्मस्य रक्षणार्थं यस्य सम्प्रदायस्य स्थापना अभवत्, तस्य सम्प्रदायस्य जनानां हननं हिन्दुजनाः एव अकुर्वन् इति सत्तालोलुपाः नेतारः आक्षिपन् । परन्तु सत्यता तु भिन्ना एवासीत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।)

इन्दिरा गान्धी इत्यस्याः मृत्योः अनन्तरं तस्याः पुत्रः राजीव गान्धी भारतस्य प्रधानमन्त्री अभवत् । इन्दिरा गान्धी यस्मिन् दिने मृता, तस्मिन् दिने सायं सार्धपञ्चवादने एव सः प्रधानमन्त्रित्वेन शपथम् अकरोत् । भारतगणराज्यस्य सम्मानरक्षणस्य, प्रधामन्त्रिपदस्य गौरवस्य रक्षणस्य च शपथं श्रीज्ञानी एव अकारयत् । परन्तु तस्माद्दिनादेव देहली-महानगरे सिक्खजनानां निर्ममहननस्य प्रारभन्त । दिनत्रयं यावत् आरक्षकाः, सैनिकाः, व्यवस्थापकाश्च देहली-महानगरं हिंसकजनानां हस्ते अयच्छन् । तेषां क्रूराणां पार्श्वे मतदातॄणां सूचिः आसीत् । मतदातॄणां सूचिं पश्यन्तः ते हिंसकजनाः सिक्खजनानां गृहं प्रविश्य बाल-वृद्ध-महिलानां हननम् अकुर्वन् । या मतदातॄणां गुप्तसूचिः सर्वकारस्य पार्श्वे एव भवेत्, सा सूचिः तैः हिंसकजनैः कुतः प्राप्ता इत्यस्य आलोचकानां प्रश्नस्य अद्यापि उत्तरं न लभ्यते । तस्यां साम्प्रदायिकहिंसायां अष्टसहस्राधिकाः (८०००+) निर्दोषसिक्खजनाः मृताः इति सर्वकारेण उद्घोषितम् । परन्तु संशोधनेन देशस्य ज्ञानम् अभवत् यत्, “तस्यां हिंसायां त्रिसहस्राधिकानां (३०००+) जनानां हननं तु देहली-महानगरे एव अभवत्” इति ।

बहूनाम् आलोचकानां कथनमासीत् यत्, “सिक्खजनानां प्रतिनिधिः अर्थात् श्रीज्ञानी जैल सिंह भारतगणराज्यस्य सर्वोच्चसंविधानिकस्थाने स्थित्वापि सिक्खविरोधहिंसायाः विषये कमपि निर्णयं नाकरोत्” इति । परन्तु सत्यता भिन्ना एव आसीत् । राष्ट्रपतिः सेनात्रयस्य सेनापतिः अस्ति । परन्तु साक्षात् सः कमपि कस्मिंश्चित् कार्ये सल्लग्नयितुम्, अपाकर्तुं च न प्रभवति । सः हिंसायाः विषये बहुवारं प्रधामन्त्रिकार्यालयं दूरवाणीम् अकरोत् । परन्तु तस्य दूरवाण्याः उत्तरम् एव न कोऽपि अयच्छत् । दिनत्रयं तस्य मानसिकस्थितिः अतीव दयनीया आसीत् । भारतगणराज्यस्य सर्वोच्चसंविधानिकस्थाने स्थित्वापि सः असांविधानिकं कार्यं स्थगयितम् अशक्तः आसीत् । सिक्खविरोधहिंसासमये तस्य स्थितिः किदृशी आसीत् इत्यस्य वर्णनं तस्य पुत्री एकस्मिन् साक्षात्कारे अकरोत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।)

१९८४ तमस्य वर्षस्य हिंसायाः दोषिणः शिक्षां प्राप्नुयुः इति देहली उच्चन्यायलये एकः अभियोगः पीडितैः कृतः । देहली उच्चन्यायालयेन एतावता एकमेव उल्लेखनीयं वाक्यम् उक्तमस्ति यत् -

ततः अद्यपर्यन्तम् अस्य अभियोगस्य कृते न्यायप्रक्रिया अग्रे नाभवत् । त्रिंशद्वर्षानन्तरम् २०१४ तमे वर्षे U.P.A. उपाध्यक्षेण राहुल गान्धी इत्यनेन अङ्गीकृतं यत्, “१९८४ तमस्य वर्षस्य सिक्खविरोधिहिंसायां कोङ्ग्रेसपक्षस्य तत्कालीनाः नेतारः सम्मिलिताः आसन्” इति । तस्य अङ्गीकरणानन्तरमपि दोषिणः शिक्षां न प्राप्नुवन् इति खेदस्य विषयः ।

श्रीज्ञानी ‘ऑपरेशन् ब्लू स्टार्’ इत्यनया योजनया, सिक्खविरोधिहिंसया च दुःखितः आसीत् । सः स्वस्य दुःखं पत्रमाध्यमेन राजीव गान्धी इत्यस्य सम्मुखं प्रकटम् अकरोत् । परन्तु स्वस्य पत्रस्य उत्तरं सः कदापि न प्रापत् । १९८७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के राष्ट्रपतित्वेन कार्यकालसमाप्त्यनन्तरम् उद्विग्नमनसा सः राष्ट्रपतिभवनम् अत्यजत् । परन्तु गमनकाले तस्य मुखे चिन्ता-शोक-क्रोधान् सर्वे सहसा अपश्यन् ।

राष्ट्रपतिभवनात् निर्गत्य सः देहली-महानगरस्य सर्क्युलर्-मार्गस्थे स्वगृहे वासम् आरभत । सः राजनीतिक्षेत्रेऽपि सक्रियः आसीत् । परन्तु १९९४ तमस्य वर्षस्य 'नवम्बर'-मासस्य पञ्चविंशतितमे दिनाङ्के मार्गदुर्घटनायां सः आहतः अभवत् । सप्तविंशतिदिनं यावत् सः मूर्च्छितः (in coma) आसीत् । ततः १९९४ तमस्य वर्षस्य 'दिसम्बर'-मासस्य पञ्चविंशतितमे दिनाङ्के तस्य मृत्युः अभवत् ।

सिक्खविरोधिनी साम्प्रदायिकहिंसा

ऑपरेशन् ब्लू स्टार्

इन्दिरा गान्धी

राजीव गान्धी

राष्ट्रपतिः

सर्वोच्चन्यायालयः

राष्ट्रपतिभवनम्




#Article 75: ए पि जे अब्दुल् कलाम् (837 words)


अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः  ( (; १५ अक्टोबर् १९३१ – २७ जुलै २०१५)
अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळळ्नाडुराज्यस्य रामेश्वरम् इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् । लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् ।  कलामः   
                                  प्रसिद्धः वैज्ञानिकः अभियन्ता अविवाहितः च आसीत् ।

अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् । अस्य पिता जैनुलाब्दीन् तु धनवान् विद्यावान् च नासीत् । सः शुद्धहस्तः अनुशासितः नाविकः आसीत् । धीवरेभ्यः नौकाः भाटकरूपेण यच्छाति स्म । अविभक्ते कुटुम्बे अब्दुल कलामः पालितः । अस्य पञ्च सहोदराः पञ्चसहोदर्यः सन्ति । एवं गृहे त्रयाणां कुटुम्बाः वसन्ति स्म । अब्दुल् कलामस्य जीवने अस्य पितुः प्रभावः अधिकः अस्ति । सः सम्पूर्णतया शिक्षितः नास्ति तथापि तस्य कार्यबद्धता दत्तः संस्कारः च कलामस्य जीवने बहूपकारकः अभवन् ।

पञ्चवर्षीयः कलामः रामेश्वरस्य पञ्चायतप्राथमिकशालयां प्रविष्टः । प्रारम्भिकशिक्षां अनुवर्तयितुम् आवश्यकं धनसङ्ग्रहं प्रातः प्रतिगृहं वृत्तपत्रिकानां   वितरणद्वारा करोति स्म । क्रि.श. १९५८तमे वर्षे कलामः मद्रास-इंस्टीट्यूट-आफ् टेकनालजी इति महाविद्यालयतः अन्तरिक्षविज्ञाने स्नातकपदवीम् प्राप्तवान् । पश्चात् हावरक्राफ्ट् इति परियोजनायाम् उद्योतं प्राप्तवान् । ततः भारतीयरक्षानुसन्धान तथा विकास इत्येतस्यां संस्थायां प्रवेशं प्राप्तवान् । क्रि.श. १९६२तमवर्षतः तस्यां संस्थायाम् उपग्रहप्रक्षेपणस्य विविधासु परियोजनासु स्वभूमिकां समर्थरूपेण निरूढवान् । परियोजनायाः निदेशकत्वेन भारतस्यएस्.एल्.वि.३ इति प्रथमं स्वदेशीयम् उपग्रहं निर्मीय प्रक्षेपितवान् । क्रि.श. १९८०तमवर्षे रोहिणीति उपग्रहं सफलतया अन्तरिक्षं प्रापितवान् ।

क्रि.श. १९६२तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटने सेवायां नियुक्तः । डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य (एस्.एल्.वी. तृतीयः)प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । क्रि.श. १९८०तमवर्षस्य जुलैमासे रोहिणी इति उपग्रहं प्रथिव्याः कक्षस्य निकटे एव स्थापितवान् । अनेन भारताय अपि अन्ताराष्ट्रियान्तरिक्षसमाजस्य सदस्यत्वं दत्तम् अभवत्। इसरो संस्थायाः व्योमवाहनसंप्रेषणस्य कार्यक्रमस्य अनुमतिप्राप्तेः श्रेयः अपि अस्य एव । कलामः स्वदेशीयलक्ष्यभेद्यस्त्रस्य विन्यासं कृतवान् । स्वदेशीयतन्त्रज्ञानेन अग्निः इति पृथ्वीति क्षिपणी विन्यासं कृतवान् । डा. कलामः क्रि.श. १९९२तमवर्षस्य जुलैमासतः क्रि.श. १९९९ डिसेम्बर् पर्यन्तं भारतस्य रक्षणामन्त्रिणः विज्ञानमार्गदर्शकः  सुरक्षाशोधविकासविभागस्य सचिवः चाभवत् । एषः स्टेटेजिक् मिसाय्ल् सिस्टम् इत्यस्य उपयोगम् आग्नेयास्त्रस्य रूपेण कृतवान् । अनेन कारणेन भारतदेशः परमाण्वस्त्राणाम् उत्पादनस्य क्षमताप्रापणे सफलः अभवत् । डा.कलामः क्रि.श. २०२०तमवर्षपर्यन्तं भारतं वैज्ञानिकक्षेत्रे अत्यधुनिकं कर्तुं  विशिष्टां योजनां निरूप्य सर्वकाराय समर्पितवान् । तदानीम् एषः भारतसर्वकारस्य प्रधानवैज्ञानिकोपदेशकः आसीत् । क्रि.श. १९८२तमवर्षे डा. कलामः भारतीयरक्षानुसन्धान एवं विकास इत्यस्याः संस्थायाः निदेशकत्वेन पुनरागतः । तदा एषः स्वस्य सम्पूर्णं लक्ष्यं निदेशितक्षिपणेः विकासार्थं केन्द्रीकृतवान् । अग्निक्षिपणिः पृथ्वीक्षिपणिः इत्यनयोः परीक्षणसाफल्यस्य श्रेयसः बहुभागः डा. कलामस्य एव भवति । क्रि.श. १९९२तमवर्षे भारतीयरक्षणामन्त्रालयस्य वैज्ञानिकोपदेशकः इति नियुक्तः । अस्य परिवीक्षणे एव क्रि.श. १९८८तमे वर्षे पोखराण इति स्थाने द्वितीयं परमाणुपरीक्षणम् उपपन्नम् । अनया घटनया भारतं परमाणुशक्तिसम्पन्नराष्ट्रस्य आवल्याम् अन्तर्भावितम् अभवत् ।

डा. अब्दुल् कालामः भारतस्य एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । भारतीयजनतापक्षेण समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना अन्ये सर्वे अकुर्वन् । क्रि.श. २००२तमवर्षस्य जुलैमासस्य १८तमे दिने डा. कलामः ९०%बहुमतेन भारतस्य राष्ट्रपतिः अभवत् । तस्मिन् एव वर्षे जुलैमासस्य २५तमे दिने संसद्भवनस्य अशोकसभाङ्गणे राष्ट्रपतिपदस्य प्रमाणशपथम् बोधितम् । अस्मिन् संक्षिप्ते समारोहे अटलबिहारीवाजपेयी तस्य मन्त्रिमण्डलस्य सदस्याः तथा अधिकारिणः उपस्थिताः आसन् । डा.कलामस्य कार्यकालः क्रि.श. २००७तमवर्षस्य जुलै २५तमे दिने समाप्तः अभवत् । डा.कलामः राजनैतके वैयक्तिके च जीवने अतीव अनुशासितः अस्ति । अयं सर्वदा शाकाहारी मद्यपानव्यसनरहितः अस्ति । अस्य विङ्ग्स् आफ् फायर् इति आत्मकथनग्रन्थे भारतीययूनां मार्गदर्शनम् अस्ति । गैडिङ्ग् सोल्स् - डायलाग्स् आफ् दि पर्पस् आफ् दि लैफ् इति अस्य द्वितीये ग्रन्थे अध्यात्मिकविचाराः उल्लिखिताः सन्ति । अनेन तमिळुभाषाया अनेकानि पद्यानि विरचितानि । दक्षिणकोरियादेशे अस्य पुस्तकानाम् अभ्यर्थना अधिका अस्ति अस्य विषये अपि महान् आदरः अस्ति इति ज्ञायते । सामान्यतः पश्यामः चेत् डा.कलामः राजनैतिकव्यक्तिः न किन्तु अस्य मनसि राष्ट्रवादी विचाराः अमिताः सन्ति । एषः राष्ट्रपतिः भूत्वा भारतदेशस्य अभिवृद्धिनीतेः संस्थापनस्य कारणेन राजनीतिज्ञः इत्यपि वक्तुं शक्यते । इण्डिया २०२० इत्याख्ये स्वरचिते पुस्तक्ते एषः भारतस्य अभिवृद्धिविषये स्वदृष्टिदिशां स्पष्टं कृतवान् । एषः अन्तरिक्षक्षेत्रे भारतं जगदुरुत्वेन दृष्टुम् इच्छति । एतत् साधयितुम् अस्य मस्तके नैकाः योजनाः सन्ति । पर्माण्वस्त्रस्य क्षेत्रे एष भारतं परमशक्तिशालिनं कर्तुम् इच्छति । विज्ञानस्य अन्यक्षेत्रेषु अपि विकासः भवेदिति अस्य परमाशयः । डा.कलामः वदति यत् तन्त्रांशस्य क्षेत्रे सर्ववर्जनानि विमुक्तानि भवेयुः येन अधिकाधिकजनाः अस्य प्रयोजनं प्राप्नुयुः । एवं चेत् सूचनातन्त्रांशः तीव्रगत्या विकसितः भवति । यदि कोऽपि देशस्य अभिवृद्धिमिच्छति देशे शान्तेः संरक्षणार्थं प्रयत्नः विधेयः । शान्तिः आवश्यक्ती इति शक्तिसङ्ग्रहः न कर्तव्यः इति भावः न । अस्माकं शक्तेः अभावादेव गतेषु २०००वर्षेषु ६००वर्षणि वयम् अन्यैः प्रशासिताः इति सधैर्यम् अण्वस्त्रसङ्ग्रहविषये जागरयति ।

 अवुल पकीर जैनुलबीदीन अब्दुल कलामाय भारतसर्कारस्य क्रि.श. १९८१तमे वर्षे प्रशासकीयसेवाक्षेत्रस्य पद्मभूषणप्रशस्तिः प्रदत्ता । अपि च डा.कलामः भारतसर्कारस्य सर्वोच्चेन नागरिकसम्माननेन भारतरत्नेन अलङ्कृतः ।

डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया अध्ययनं करोति । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव । राजनैतिकेस्तरे अस्य अभिप्रायः अस्ति यत् भारतस्य अपि भूमिपा अन्ताराष्ट्रियस्तरे  विस्तृता भवेत् इति । भारतदेशः महाशक्तिः जगद्गुरुः च भवितुं तत्पथे गच्छन्तं दृष्टुम् अस्य मनः बहुधा इच्छति । अस्यां दिशायां प्रेरणां जनयितुम् एषः अनेकान् ग्रन्थन् अपि व्यरचयत् । तन्त्रांशः भारतस्य सर्वसाधारणस्यापि जनस्य हस्तगतः भवेत् इति सर्वदा आग्रहं कृतवान् । बालानां वृद्धानां च कलामः अतीव प्रयः अस्ति । अधुना एषः भारतीयान्तरिक्षविज्ञानम् तथा प्रौद्योगिकसंस्थानम् इत्यस्य कुलपतिः अस्ति ।

डा. कलामः साहित्यिकरूपेणापि स्वशोधसारं चतृषु ग्रन्थेषु आनीतवान् । विंग्स् ऑफ़ फैर्', 'इण्डिया २०२०- ए विषन् फ़ॉर दि न्यू मिलेनियम्', 'माई जर्नी' तथा 'इग्नाटिड् माइण्ड्स्- अनसैसिङ्ग् दि पवर् विदिन् इण्डिया । एतानि पुस्तकानि भारतीयभाषाभिः विदेशीयभाषाभिः च अनूदितानि । एषः कश्चित् विशिष्टः वैज्ञानिकः यस्मै ३०विश्वविद्यालयाः गौरवपूर्वकं डाक्टरेट् उपधिं दत्तवन्तः । 

२०१५ वर्षस्य जुलै मासस्य २७ तमे दिनाङ्के डॉ. अब्दुल् कलाम्-महोदयस्य हृदयाघातेन निधनम् अभवत् । तस्मिन् दिने सायं काले भारतीय-प्रबन्ध-संस्थानस्य (Indian Institute of Management Shillong) एकस्यां व्याख्यानसभायां व्याख्यारते सन् हृत्पीडया पीडितः जातः आसीत् । 




#Article 76: के आर् नारायणन् (1457 words)


श्रीकोचेरिल् रामन् नारायणन् ( ) (, ) भारतगणराज्यस्य दशमः राष्ट्रपतिः । राष्ट्रपतेः कार्ये पारदर्शिता भवतु इति विचारस्य जनकः, अनुगामी च श्रीनारायणन् देशहिताय बहूनि कार्याणि अकरोत् । भारतगणराज्यस्य प्रप्रथमः दलित-राष्ट्रपतिः एषः । प्रतिभावत् व्यक्तित्वं, ज्ञानस्य तीव्रपिपासा, कर्मनिष्ठा तस्य सफलतायाः मूलकारणानि । अन्ताराष्ट्रियविषय-शिक्षा-राजनीति-विज्ञान-दर्शन-साहित्य-कला-नृत्य-सङ्गीत-पर्यटनादीनां विषयाणां गहनतया अध्ययनं कृतमासीत् तेन । सर्वेषु विषयेषु नैपुण्यं प्राप्तः सः स्वस्य ज्ञानस्य लाभं पुस्तकमाध्यमेनापि जनसामान्येभ्यः अयच्छत् । सः स्वस्य जीवनविषये कथयति स्म यत्,

१९२० तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तविंशतितमे (२७/१०/१९२०) दिनाङ्के केरलराज्यस्य कोट्टयममण्डलस्य उळवूर-ग्रामे श्रीनारायणस्य जन्म अभवत् । तस्य पिता कोचेरिल् प्रतिष्ठितः वैद्यः आसीत् । तस्य माता पापियम्म निरक्षरासीत्, परन्तु व्यावहारिकजीवनस्य बहुज्ञानम् आसीत् तस्याः । तयोः सप्त शिशवः आसन् । तेषु श्रीनारायणः चतुर्थः । कोचेरिल् इत्यस्य आर्थिकस्थितिः सुदृढा नासीत् । सः वनेषु उपलब्धौषधीनाम् उपयोगेन आयुर्वैदिकरीत्या रोगिणाम् उपचारं करोति स्म । सामान्यतः तस्य औषधकार्यं सेवाभावेन एव चलति स्म । निर्धनग्रामीणाः वैद्याय कियत् धनं दातुं शक्नुयुः ? मध्याह्न-सायङ्कालयोः भोजनमपि बहु परिश्रमेण एकत्रितं भवति स्म ।

पठने श्रीनारायणस्य बहुरुचिः आसीत् । बालकस्य पठनरुचिं पश्यन् पिता तम् उळवूर-ग्रामस्थं विद्यालयं पठितुं प्रैषयत् । पठनपिपासोः श्रीनारायणस्य प्राथमिकशिक्षणं परिश्रमयुक्तं, दुष्करं चासीत् । पञ्चदश कि.मी. दूरे स्थितं विद्यालयं श्रीनारायणः चलित्वा नियततया गच्छति स्म । निर्धनपिता विद्यालयस्य मासिकशुल्कं (monthly fees) दातुं न शक्नोति स्म । अतः शिक्षकाः मुहुर्मुहुः श्रीनारायणं वर्गात् बहिः प्रेषयन्ति स्म । परन्तु ज्ञानस्य उपरि कस्यापि अधिकारः न भवति । श्रीनारायणः वर्गात् बहिस्स्थित्वापि शिक्षकस्य पाठम् अवधानेन शृणोति स्म । श्रीनारायणस्य पितुः पार्श्वे पुस्तकं क्रेतुं धनमपि नासीत् । अतः श्रीनारायणस्य अग्रजः अन्यविद्यार्थिभ्यः पुस्तकानि याचयित्वा तस्य प्रतिलिपिं करोति स्म । अग्रजेन कृताभ्यः प्रतिलिपिभ्यः श्रीनारायणः स्वाध्ययनं करोति स्म । स्वस्य उच्चपठननिष्ठया सः महात्मना स्थापितात् हरिजन-सेवक-सङ्घात् छात्रवृत्तिं प्रापत् । ततः परं तेन छात्रवृत्त्या एव अध्ययनं कृतम् । १९३६-३७ वर्षे सः कुरविलङ्गडु-ग्रामस्य 'सेण्ट मेरीस्'-उच्चविद्यालयात् प्रथमश्रेण्या उत्तीर्णः अभवत् । ततः १९४० तमे वर्षे कोच्चायम-ग्रामस्य 'सी. एम्. एम्.'-महाविद्यालयात् 'इण्डरमीडिएट्' मध्ये उत्तीर्णः अभवत् । 'इण्डरमीडिएट' उत्तीर्णः विंशतिवर्षीयः श्रीनारायणः त्रावणकोर-विश्वविद्यालयात् (अधुना केरलविश्वविद्यालयः) 'बी.ए. ऑनर्स्, एम्. ए.' (आङ्ग्लसाहित्यं) च प्रापत् ।

उच्चशिक्षां प्राप्तुं श्रीनारायणस्य बहु इच्छा आसीत् । परन्तु परिवारस्य निर्धनताम् अपाकर्तुं सः जीविकोपार्जनं प्रारभत । तस्य रुचिः पत्रकारितायाम् (journalism) आसीत् । अतः सः देहली-महानगरं गत्वा ‘द हिन्दू’, ‘द टाइम्स् ऑफ् इण्डिया’ समाचारपत्रयोः कृते कार्यं प्रारब्धम् । १९४५ तमस्य वर्षस्य 'अप्रैल'-मासस्य दशमे (१०/४/१९४५) दिनाङ्के महात्मनः साक्षात्कारम् अकरवम् । सः पत्रकारत्वेन मम उत्तमतमः अवसरः आसीत् इति सः स्वस्य जीवन्याम् अलिखत् ।

सः यावत् धनम् अर्जयति स्म, तावत् तु परिवारस्य पोषणाय एव पर्याप्तम् आसीत् । परन्तु विदेशं गत्वा पठितुं यावत् धनम् आवश्यकम् आसीत्, तावत् धनं सः सङ्गृहीतुं न शक्तः । तस्य हृदि स्थिता विदेशे पठनस्य इच्छा तं व्याकुलं करोति स्म । तदैव तेन कश्चित् मार्ग प्राप्तः । बाल्यकालात् युवावस्थापर्यन्तं यत् अध्ययनम् अकरोत्, तस्य विवरणम् एकस्मिन् पत्रे लिखित्वा सः श्रीजे.डी.आर. ताता इत्यस्मै प्रैषयत् । तेन पत्रेण सह विदेशे पठनस्य व्ययस्य विवरणमपि प्रैषयत् सः । श्रीताता स्वस्य आशीर्वादेन सह श्रीनारायणस्य विदेशे अध्ययनाय यावत् धनम् आवश्यकम् आसीत्, तावत् तस्मै अयच्छत् । १९४५ तमे वर्षे सः विदेशं गत्वा 'लण्डन् स्कूल् ऑफ् इकनॉमिक्स्'-महाविद्यालये प्रवेशं प्रापत् । तस्मात् महाविद्यालयात् 'बी.एस.सी. ऑनर्स्'-राजनीतिविज्ञान-इत्यनयोः विषयोः नैपुण्यम् आर्जयत् सः ।

यस्मिन् 'लण्डन् स्कूल् ऑफ् इकनॉमिक्स्'-महाविद्यालये श्रीनारायणः पठति स्म, नेहरू तस्य महाविद्यालयस्य प्राच्यछात्रः आसीत् । श्रीनारायणः यस्मात् प्राध्यापकात् राजनीतिविषयम् अपठत्, तस्मात् प्राध्यापकात् नेहरू अपि राजनीतिं पठितवान् आसीत् । तस्य प्राध्यापकस्य ख्यातिः चतसृषु दिक्षु आसीत् । तस्य ज्ञानं, चिन्तनशक्तिः विद्यार्थिनः आकर्षयति स्म । तस्य नाम आसीत् गेरॉल्ड् लॉस्की । सः गेरॉल्ड लॉस्की श्रीनारायणात् प्रभावितः आसीत् । श्रीनारायणस्य राजनीतिविषयकं ज्ञानं तेन सम्यक् अनुभूतम् आसीत् । अतः सः स्वस्य प्राच्यछात्राय नेहरू इत्यस्मै एकं पत्रं श्रीनारायणस्य माध्यमेन प्रैषयत् । तस्मिन् पत्रे तेन श्रीनारायणस्य राजनीतौ आधिपत्यविषये, कुशलतायाः विषये लिखितम् आसीत् ।

स्वमातृभूमिं सम्प्राप्य श्रीनारायणः नेहरू इत्यस्य कार्यालयम् अगच्छत् । काश्चन सामान्याः चर्चाः कृत्वा सः प्राध्यापकेन दत्तं पत्रं नेहरू इत्यस्मै दत्त्वा कार्यालयात् निर्गतः । श्रीनारायणस्य विषये पत्रे यत् लिखितम् आसीत्, तत् पठित्वा नेहरू श्रीनारायणं पुनराह्वयत् । किञ्चित् दूरं गतः श्रीनारायणः कार्यालयं यदा पुनः प्रविष्टः, तदा नेहरू तं कांश्चन प्रश्नान् अपृच्छत् । ततः नेहरू तस्मै विदेशसेवायाः दायित्वम् अयच्छत् । एवं श्रीनारायणस्य राजनीतिप्रवेशः अभवत् ।

१९४९ तमे वर्षे श्रीनारायणेन विदेशसेवायाः कार्यं प्रारब्धम् । तस्य प्रथमनियुक्तिः सचिवत्वेन बर्मा-देशस्य रङ्गून-महानगरस्थे भारतीयदूतावासे अभवत् । यदा सः भारतीयदूतत्वेन रङ्गून-महानगरे कार्यरतः आसीत्, तदा तस्य सम्पर्कः बर्मीकन्यया मा टिण्ट टिण्ट इत्यनया सह अभवत् । सा रङ्गून-महानगरे YWCA संस्थायां कार्यकर्ता आसीत् । मा टिण्ट टिण्ट जानाति स्म यत्, श्रीनारायणः लॉस्की इत्यस्य शिष्यः इति । अतः सा तं ‘राजनैतिकस्वतन्त्रता’-विषये वक्तुम् आह्वयत् । क्रमशः वारं वारं मेलनेन तौ प्रेमपाशेन बद्धौ अभवताम् । प्रेम तु अभवत्, परन्तु विवाहं कर्तुं भारतीयसंविधानम् अनुमतिं न यच्छति स्म । यतो हि विदेशसेवायां रतः अधिकारी विदेशस्य नागरिकेण सह विवाहं कर्तुं न शक्नोति इति नियमः भारतीयसंविधाने उल्लिखितः । अतः श्रीनारायणः प्रधानमन्त्रिकार्यालयं विवाहानुमत्यै विनतिपत्रं प्रैषयत् । प्रधानमन्त्रिकार्यालयात् श्रीनारायणेन अनुमतिः प्राप्ता । १९५१ तमस्य वर्षस्य 'जून'-मासस्य अष्टमे दिनाङ्के श्रीनारायणस्य मा टिण्ट टिण्ट इत्यनया सह विवाहः अभवत् । विवाहानन्तरं मा टिण्ट टिण्ट स्वनाम परिवर्त्य उषा अभवत् । भारते उषा नारायणन् महिलाकल्याणस्य कार्ये सल्लग्ना अभवत् । तयोः पुत्र्योः नाम क्रमेण चित्रा, अमृता च ।

भारतस्य विदेशसेवायाः दायित्वं वहन् श्रीनारायणः रङ्गून-टोकियो-लण्डन्-कॅनबेरा-हनोई इत्येतेषु स्थानेषु स्थितेषु दूतावासेषु कार्यम् अकरोत् । सः थाईलेण्ड्(१९६७-६९)-टर्की(१९७३-७५)-चीन(१९७६-७८)-देशेषु अपि भारतीयदूतत्वेन दायित्वम् अवहत् । १९७४ तमे वर्षे पाकिस्थानस्य विभाजनान्तरम् अमेरिका-देशेन सह भारतस्य सम्बन्धाः सम्यक् नासन् । अतः इन्दिरा गान्धी श्रीनारायणं वाशिङ्गटन-महानगरे स्थितं भारतीयदूतवासं प्रैषयत् । १९८४ वर्षपर्यन्तं श्रीनारायणः अमेरिका-देशे एव आसीत् । १९४९ तः १९७८ पर्यन्तं विदेशसेवायां रतः श्रीनारायणः भारतस्य सम्मानं सर्वत्र अवर्धयत् । १९४९ तमे वर्षे नेहरू यदा प्रधानमन्त्री आसीत्, तदा श्रीनारायणेन विदेशसेवायाः दायित्वं स्वीकृतम् आसीत् । १९८४ तमे वर्षे यदा विदेशसेवायाः दायित्वात् श्रीनारायणः विमुक्तः अभवत्, तदा इन्दिरा गान्धी भारतगणराज्यस्य प्रधानमन्त्री आसीत् ।

विदेशसेवायाः कार्ये सल्लग्नः श्रीनारायणः कार्यानुभवं, कार्यकुशलतां तु प्रापत् । परन्तु देशस्य दलित-वर्गस्य कृते किमपि विशेषं कर्तुं न शक्तः । भारतीयसंविधाने दलित-वर्गाय आरक्षणस्य सुविधा तु आसीत् । परन्तु समाजस्य केचन जनाः दलित-वर्गस्य उपेक्षां कुर्वन्ति स्म । आरक्षणस्याधिकरे सत्यपि दलित-वर्गः स्वाधिकारं प्राप्तुं सङ्घर्षरतः आसीत् । तस्मिन् सङ्घर्षे जात्याधारितहिंसायाः बाहुल्यमासीत् । परन्तु श्रीनारायणः असांविधानिकसङ्घर्षस्य विरोधी आसीत् । तस्य मनसि भारतीयसंविधानं प्रति दृढनिष्ठा आसीत् । तस्य चिन्तनम् आसीत् यत्, “राजनैतिकसत्तायाः उपयोगं कुर्वन्, जात्याधारितहिंसाम् अकृत्वा च दलित-वर्गस्य विकासः कर्तव्यः । राजनीत्यादिक्षेत्रेषु सक्रियाः भूत्वा दलित-जनाः अपि उच्चस्थानेषु आरूढाः भवितुम् अर्हन्ति” इति । एतत् लक्ष्यं हृदि निधाय श्रीनारायणेन १९८४ तमे वर्षे संसद्प्रवेशस्य निर्णयः कृतः ।

१९८४, १९८९, १९९१ वर्षाणां निर्वाचने केरलराज्यस्य ओट्टपाळम्-संसदीयक्षेत्रात् बहुमतेन निर्वाचितः श्रीनारायणः वारत्रयं लोकसभायाः सदस्योऽभवत् । भारतसर्वकारस्य अनेकेषु विभागेषु मन्त्रित्वेन तेन कार्यं कृतम् । केन्द्रिययोजनामन्त्री, विदेशमन्त्री, विज्ञापन-प्रौद्योगिकीमन्त्री, अन्तरिक्ष-समुद्र-अणुशक्ति-विकासमन्त्री भूत्वा सः देशसेवाम् अकरोत् ।

१९९२ तमे वर्षे उपराष्ट्रपतिपदं रिक्तमभवत् । अतः तत्कालीनः प्रधानमन्त्री श्रीनारायणस्य नाम उपराष्ट्रपतिप्रत्याशित्वेन अघोयत् । ततः विपक्षसहितम् अन्यपक्षाः अपि श्रीनारायणस्य समर्थनम् अकुर्वन् । १९९२ तमस्य वर्षस्य 'अगस्त'-मासस्य एकविंशतितमे (२१/८/१९९२) दिनाङ्के श्रीनारायणः भारतगणराज्यस्य उपराष्ट्रपतित्वेन दायित्वं स्वयकरोत् ।

उपराष्ट्रपतिः राज्यसभायाः अध्यक्षोऽपि भवति । श्रीनारायणः विनम्रतया, निर्भयतया, नियमानुसारं, तटस्थतया च राज्यसभायाम् अध्यक्षत्वेन कार्यम् अकरोत् । राज्यसभायाम् अनुशासनसम्बद्धां नीतिं रचितुं तेन 'एथिक्स्'-समित्याः कार्यं वेगवन्तं कारितम् । तस्याः समित्याः विषये कोऽपि अध्यक्षः बहु महत्वं नायच्छत् । परन्तु अनुशासनसल्लग्नायै तस्यै समित्यै श्रीनारायणः बहुगभीरतया कार्यम् अकरोत् । तेन तस्य प्रशंसा अपि अभवत्  ।

श्रीनारायणः यदा उपराष्ट्रपतित्वेन कार्यरतः आसीत्, तदा १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के श्रीशङ्करस्य कार्यकालः पूर्णः अभवत् । शिवसेना-पक्षं विहाय सर्वे पक्षाः श्रीनारायणस्य नाम राष्ट्रपतिप्रत्याशित्वेन समर्थितवन्तः । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के यत् राष्ट्रपतिनिर्वाचनम् अभवत्, तस्मिन् श्रीनारायणस्य विरोधित्वेन टी एन् शेषन् आसीत् । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य सप्तदशे (७/७/१९९७) दिनाङ्के ९५% मतैः श्रीनारायणस्य विजयः अभवत् । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः श्री जे ए वर्मा श्रीनारायणेन राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकारयत् ।

भारतस्वतन्त्रतायाः सुवर्णजयन्तीदिवसः राष्ट्रपतित्वेन श्रीनारायणस्य महत्वपूर्णदिवसः आसीत् । भारतस्वतन्त्रतादिवसस्य उत्सवः हर्षोल्लासेन सह आचरितः देशजनैः । भारतवासिनः सम्बोद्ध्य तत्कालीनप्रधानमन्त्री गुजराल अवदत्, “महात्मनः कथनम् आसीत् यत्, अहं तदा सन्तुष्टो भवामि, यदा भारतगणराज्यस्य सर्वोच्चपदे अर्थात् राष्ट्रपतिपदे कोऽपि दलित-जनः आरूढो भवति । महात्मनः इच्छा पूर्णा अभवत् इति अहं देशजनान् वक्तुम् इच्छामि । अद्य अस्माकं देशस्य सर्वोच्चपदे कश्चित् दलित-जनः आरूढोऽस्ति । अस्माकं राष्ट्रपतिः श्रीनारायणः अत्यन्तनिर्धनपरिवारे जन्म प्रापत् । अद्य सः भारतविकासस्य मूख्यधारायाम् आगत्य देशस्य विकासे महत्वपूर्णं योगदानं कुर्वन् अस्ति” इति । भारतीयलोकतन्त्रदिवसस्य सुवर्णजयन्ती अपि श्रीनारायणस्य अध्यक्षतायामेव आचरिता देशजनैः ।

श्रीनारायणस्य राष्ट्रपतित्वेन कार्यकाले वारद्वयं लोकसभायाः भङ्गः अभवत् । प्रथमवारं १९९७ तमस्य वर्षस्य 'दिसम्बर'-मासस्य चतुर्थे (४/१२/१९९७) दिनाङ्के गुजराल-रचितस्य सर्वकारस्य पतनम् अभवत् । १९९८ तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे (२६/४/१९९८) दिनाङ्के वाजपेयी-रचितस्य सर्वकारस्य पतनम् अभवत् ।

केन्द्रे यः पक्षः शासनं करोति, सः राष्ट्रपतिपदस्य दुरुपयोगं करोति इति सर्वेषां ज्ञानमस्ति । राष्ट्रपतिपदारूढः व्यक्तिः देशात् अधिकं कस्यचित् पक्षस्य कृते ऋणी भवति चेत्, न केवलं तस्य पक्षस्य लाभाय अपि तु देशविरोधिनिर्णयकरणे अपि सः सङ्कोचं नानुभवति । परन्तु श्रीनारायणः स्वस्य कार्यकाले राष्ट्रपतिपदस्य गौरवरक्षणेन सह तस्य पदस्य गौरववर्धनमपि अकरोत् । तस्य शासनकाले वारद्वयं राज्यसर्वकारात् शासनं कर्षयित्वा तस्मिन् राज्ये राष्ट्रपतिशासनस्य घोषणार्थं प्रस्तावः आसीत् । १९९७ तमस्य वर्षस्य 'अक्तूबर'-मासस्य द्वाविंशतितमे (२२/१०/१९९७) दिनाङ्के गुजराल-सर्वकारेण कल्याण सिंह इत्यनेन उत्तरप्रदेशराज्ये चालितस्य शासनस्य विरोधं कृत्वा राष्ट्रपतिशासनस्य प्रस्तावः कृतः । ततः १९९८ तमस्य वर्षस्य 'दिसम्बर'-मासस्य पञ्चविंशतितमे (२५/११/१९९८) दिनाङ्के वाजपेयी-सर्वकारेण अपि राष्ट्रपतिशासनस्य प्रस्तावः कृतः आसीत् । तस्य सर्वकारेण बिहारराज्यस्य राबडी देवी इत्यस्याः सर्वकारस्य निरस्ततायाः याचना कृता आसीत् । परन्तु विवेकी, देशभक्तः श्रीनारायणः देशहिताय तटस्थनिर्णयं स्व्यकरोत् । सः तयोः राज्ययोः राष्ट्रपतिशासनस्य घोषणां नाकरोत् । एवं भारतगणराज्यस्य तयोः राज्ययोः सङ्घीय(Federalism)अधिकारस्य रक्षणम् अभवत् ।

२००२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/२००२) दिनाङ्के राष्ट्रपतित्वेन श्रीनारायणस्य कार्यकालः पूर्णः अभवत् । “इतोऽपि बहूनि कार्याणि मया कर्तव्यानि आसन् । परन्तु मम कार्यकालसमाप्तिकारणत्वात् अहं तानि कार्याणि कर्तुं न शक्तवान्” इति एकस्मिन् साक्षात्कारे श्रीनारायणेन उक्तम् आसीत् । तस्य साक्षात्कारस्य कश्चित् अंशः अत्र लिखितः ।

२००५ तमस्य वर्षस्य 'नवम्बर'-मासस्य नवमे (९/११/२००५) दिनाङ्के भारतगणराज्यस्य दशमराष्ट्रपतेः श्रीनारायणस्य देहावसानम् अभवत् । पञ्चाशीतिवर्षीयस्य श्रीनारायणस्य अन्तिमसंसारः देहली-महानगरे स्थितस्य शान्तिवनस्य समीपं यमुनानद्याः तीरे अभवत् ।

दलित

राष्ट्रपतिः

सर्वोच्चन्यायालयः

राष्ट्रपतिभवनम्

जवाहरलाल नेहरु




#Article 77: शङ्कर दयाल शर्मा (1004 words)


श्रीशङ्कर दयाल शर्मा ( ) (, ) भारतगणराज्यस्य नवमः राष्ट्रपतिः । श्रीशङ्करः उपराष्ट्रपतित्वेन, राष्ट्रपतित्वेन च कार्यरतो भूत्वा दशवर्षाणि यावत् भारतमातुः सेवाम् अकरोत् । महात्मनः आरभ्य के पी सिंह पर्यन्तं उत्कृटैः नेतृभिः सह तेन कार्यं कृतम् । स्वतन्त्रतान्दोलनं, स्वतन्त्रताप्राप्तिः, देशस्य नवनिर्माणं, देशसेवाधारितराजनीतिः, स्वार्थपूर्तेः राजनीतिः च सर्वं तस्य नेत्रयोः सम्मुखं घटितम् आसीत् । कर्मठता, देशभक्तिः च तस्य शक्तिः आसीत् ।

१९१८ तमस्य वर्षस्य 'अगस्त'-मासस्य एकोनविंशति(१९)तमे दिनाङ्के मध्यप्रदेशस्य भोपाल-महानगरे श्रीशङ्करस्य जन्म अभवत् । तस्य पित्रोः नाम खुशी लाल, सुभद्रा च । प्रथमपत्न्याः मृत्योः अनन्तरं खुशी लाल इत्यनेन पुनर्विवाहः कृतः । प्रथमपत्न्याः गर्भादेव श्रीशङ्करस्य जन्म अभवत् । खुशी लाल इत्यस्य द्वितीयपत्न्त्याः चत्वारः पुत्राः आसन् । तेषां नामानि क्रमेण शम्भु लाल, शिव दयाल, ईश दयाल, सोमेश दयाल च । आहात्य तस्य पञ्चपुत्राः आसन् । श्रीशङ्करस्य पिता शिवभक्तः आसीत्, अतः सः सर्वेषां पुत्राणां नामकरणं शिवनाम्ना अकरोत् । सामान्यतः विमातुः (stepmother) कारणेन बालकस्य बाल्यं सुखेन, आनन्देन च न गच्छति इति श्रूयते । परन्तु श्रीशङ्करस्य विमाता तं बहुना प्रेम्णा अपालयत् । कारणं श्रीशङ्करस्य विमाता सम्पत बाई तस्य मातुः (सुभद्रायाः) पितृव्यपुत्री (Cousin) एव आसीत् । सा श्रीशङ्करं पुत्रवदेव प्रेम अकरोत् । विदेशं गन्तुं यदा श्रीशङ्करः ऐच्छत्, तदा तस्य विमाता स्वसुवर्णाभूषणानि विक्रीय तस्मै धनम् अयच्छत् ।

श्रीशङ्करस्य प्राथमिकशिक्षणं भोपाल-महानगरे अभूत् । 'इण्टरमीडिएट्'-शिक्षणं समाप्य उच्चशिक्षां प्राप्तुं भोपाल-महानगरात् आगरा-महानगरम् अगच्छत् सः । आगरा-महानगरस्य 'सेण्ट जॉन्स्'-महाविद्यालयात् 'बी ए' उपाधिं प्राप्य इलाहाबाद-महानगरे, लखनऊ-महानगरे च सः 'एम ए' उपाधिं प्रापत् । संस्कृतभाषा, हिन्दीभाषा श्रीशङ्करस्य प्रियभाषे आस्ताम् । तेन तयोः भाषयोः प्रावीण्यमपि प्राप्तमासीत् । लखनऊ-महाविद्यालयात् तेन एल् एल् बी इत्यस्य अध्ययनमपि सामापितम् आसीत् । छात्रकालादेव सः राजनीतिक्षेत्रे सक्रियः आसीत् । ततः एल् एल् बी इत्यस्य अधिकाध्ययनार्थं सः इङ्ग्लैण्ड-देशम् अगच्छत् । 'फिट्ज विलियम्'-महाविद्यालये 'डॉक्टरेट्' इति उपाधिं प्रापत् सः । ततः तेन लोकप्रशानस्य (public management) अध्ययनमपि कृतम् । रतनकुमार इति श्रीशङ्करस्य बालमित्रं स्वजीवन्यां श्रीशङ्करस्य ज्ञानपिपासायाः विषये अलिखत्, “श्रीशङ्करः एकैकस्य विषयस्य गहनाध्ययनं करोति स्म इति तस्य ज्ञानवैशिष्ट्यस्य मूलकारणम् आसीत् । गभीरतया, गहनतया विषयस्य हार्दं ज्ञात्वा सः तद्विषये प्रावीण्यं प्राप्नोति स्म । एतत् सर्वं तस्य कृते सहजकार्यम् आसीत्” इति ।

छात्रकालादेव सः राजनीतिक्षेत्रे सक्रियः आसीत् । अतः विदेशात् भारतं पुनरागत्य सः राजनीतिक्षेत्रे पुनः सक्रियः अभवत् । विदेशात् आगमनानन्तरं बहुकालं यावत् लखनऊ-महानगरस्य महाविद्यालये डॉ. शर्मा अध्यापयति स्म । परन्तु भोपाल-महानगरस्य तस्य राजनैतिककेन्द्रत्वात् सः वारं वारं तत्र गच्छति स्म । राजनैतिकक्षेत्रे स्वस्य कृते अधिकाः अवसराः सन्ति इति विचिन्त्य १९४२ तमे वर्षे सः भारतस्वतन्त्रतान्दोलनाय योगदानम् अकरोत् । महात्मना उद्घोषिते “भारत छोडो”-आन्दोलने श्रीशङ्करः स्वयोगदानम् अयच्छत् । तस्मिन् आन्दोलने भागगृहीतॄन् अनेकान् क्रान्तिकारिणः आङ्ग्लाः कारागारं प्रैषयन् । तेषु क्रान्तिकारिषु श्रीशङ्करः अन्यतमः आसीत् । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चविंशतिदिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभूत् । तत्कालीनः उपप्रधानमन्त्री सरदार वल्लभभाई पटेल लघुराज्याणि भारते अन्तर्भवन्तु इति न्यवेदयत् । परन्तु भोपालराज्यस्य राजा भारते अन्तर्भवितुं सिद्धः नासीत् । अतः लोहपुरुषस्य नेतृत्वे भोपालराज्ये विरोधसभा अभवत् । तस्यां सभायां श्रीशङ्करः अपि आसीत् । ततः विरोधं प्रदर्शयितुं श्रीशङ्करः एकस्याः पदयात्रायाः आयोजनम् अकरोत् । तेन कुपितः राजा तं कारागारं प्रैषयत् । जनसहयोगेन, लोहपुरुषस्य परिश्रमेण च १९४९ तमस्य वर्षस्य 'जून'-मासस्य प्रथमे दिनाङ्के भोपालराज्यं भारतदेशे अन्तरभवत् । १९५० तमे वर्षे कोङ्ग्रेस-पक्षस्य विधिवत् सदस्यता श्रीशङ्करेण प्राप्ता ।

१९७१ तमे वर्षे सः प्रथमवारं लोकसभायाः सदस्यः अभवत् । १९७२ तमे वर्षे सः कोङ्ग्रेस-पक्षस्य अध्यक्षपदं व्यभूषयत् । १९७४ तमे वर्षे इन्दिरा गान्धी द्वारा रचिते मन्त्रिमण्डले सञ्चारविभागस्य दायित्वम् अवहत् । १९८४ तमे वर्षे श्रीशङ्करः आन्ध्रप्रदेशराज्यस्य राज्यपालः अभवत् । तस्मिन् वर्षे पञ्जाबराज्ये भिण्डरवाला इत्यस्य आतङ्कः आसीत् । तस्य आतङ्कस्य दमनं कर्तुं इन्दिरा गान्धी इत्यनया ऑपरेशन् ब्लू स्टार् इत्यस्याः योजनायाः घोषणा कृता । तस्यां योजनायां सिक्खजनानां पवित्रतमं सुवर्णमन्दिरं ध्वस्तमभूत् । सुवर्णमन्दिरस्य ध्वस्तेन दुःखितौ इन्दिरा गान्धी इत्यस्याः सिक्ख-अङ्गरक्षकौ तस्याः हत्याम् अकुरुताम् । ततः राजीव गान्धी भारतस्य प्रधानमन्त्री अभवत् । तेन पञ्जाबराज्यस्य स्थितिः अवलोक्य आन्ध्रप्रदेशात् श्रीशङ्करः आहूतः । सः श्रीशङ्करं पञ्जाबराज्यस्य राज्यपालत्वेन अघोयत् । ततः महाराष्ट्रराज्यस्य राज्यपालत्वेनापि तस्य नियुक्तिः अभवत् ।

महाराष्ट्रराज्ये यदा श्रीशङ्करः राज्यपालः आसीत्, तदा उपराष्ट्रतिपदं रिक्तम् अभूत् । सर्वैः नेतृभिः श्रीशङ्करः उपराष्ट्रपतित्वेन चितः । १९८७ तमस्य वर्षस्य 'सितम्बर'-मासस्य तृतीये दिनाङ्के उपराष्ट्रपतित्वेन श्रीशङ्करः शपथम् अकरोत् । उपराष्ट्रपतिः राज्यसभायाः अध्यक्षोऽपि भवति । स्वस्य वाक्पटुता-योग्यता-अनुभवैः राज्यसभायाः दायित्वम् ऊढं तेन । श्रीशङ्करः यदा उपराष्ट्रपतिः आसीत्, तदा चत्वारः प्रधानमन्त्रिणः तेन दृष्टाः । १९८७ तः १९९२ पर्यन्तं राज्यसभाध्यक्षत्वेन श्रीशङ्करस्य कार्यकालः राज्यसभायाः सुवर्णकालत्वेन परिगण्यते ।

नरसिंह राव यदा प्रधानमन्त्री आसीत्, तदा राष्ट्रपतित्वेन श्रीवेङ्कटरामन् इत्यस्य कार्यकालः समाप्तः अभवत् । अतः १९९२ तमस्य वर्षस्य 'जून'-मासस्य अष्टादशे (१८) दिनाङ्के नरसिंह राव श्रीशङ्करस्य नाम राष्ट्रपतिप्रत्याशित्वेन अघोषयत् । परन्तु श्रीशङ्करस्य विरोधे अन्येषां प्रत्याशिनां नामानि विपक्षेण उद्घोषितानि । मेघालयराज्यस्य जी.जी. स्वैल इत्यस्य नाम 'मार्क्सवादी कम्युनिस्ट्'-पक्षेण उद्घोषितम् । तस्मिन् राष्ट्रपतिनिर्वाचने श्रीशङ्करस्य विजयः अभवत् । १९९२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशति(२५)तमे दिनाङ्के सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः श्रीशङ्करेण राष्ट्रपतिपदस्य, भारतीयसंविधानस्य च गौरवरक्षणाय शपथम् अकारयत् ।

राष्ट्रपतित्वेन प्रप्रथमं भाषणं कुर्वन् श्रीशङ्करः अवदत्, “मम प्रियदेशवासिनः ! भारतगणराज्यस्य सर्वोच्चपदाय मम चयनं कृत्वा मह्यं बहुसम्मानः दत्तः भवद्भिः । अस्य पदस्य गौरवं डॉ. राजेन्द्र प्रसाद, सर्वपल्ले राधाकृष्णन्, जाकिर हुसैन सदृशाः महान्तः व्यक्तयः अवर्धयन् । अहं पूर्णबलेन अस्य पदस्य गौरवं रक्षितुं प्रयासं करिष्ये” इति । श्रीशङ्करः वारं वारम् एकं वाक्यं सर्वैभ्यः वदति स्म । सः वदति स्म यत्, “एषः देशः युवकेभ्यः, युवतीभ्यः, सर्वेभ्यः च विकासाय अवसरं यच्छति । भाटकस्य गृहे निवसितः मत्सदृशः जनः अपि भारतगणराज्यस्य सर्वोच्चपदे आरूढोऽभवत् इत्येव प्रमाणम्, इत्येव वैशिष्ट्यं च” इति ।

श्रीशङ्करस्य राष्ट्रपतित्वेन कार्यकालः बहु अस्तव्यस्तः आसीत् । तस्य कार्यकालस्य प्रथमे वर्षे एव १९९२ तमस्य वर्षस्य 'दिसम्बर'-मासस्य षष्ठे दिनाङ्के अयोध्यायां स्थितं बाबरी मस्जिद इति मुस्लिमजनानां प्रार्थनास्थानं ध्वस्तम् अभूत् । ततः आभारते साम्प्रदायिकहिंसा अभवत् । साम्प्रदायिकहिंसां स्थगयितुं श्रीशङ्करेण योग्यनिर्णयाः कृताः । ते निर्णयाः सफलाः अपि अभूवन् । राष्ट्रपतित्वेन श्रीशङ्करस्य कार्यकालस्य अन्तिमे वर्षे अर्थात् १९९६ तमे वर्षे भारतीयराजनीतेः अस्तव्यस्ततायाः स्थितिः आसीत् । १९९६ तमे वर्षे यत् निर्वाचनम् अभवत्, तस्मिन् कस्यापि पक्षस्य बहुमतं नासीत् । तस्मिन् निर्वाचने भारतीयजनतापक्षस्य संसदसदस्याः अधिकाः आसन् । अतः सः अटल बिहारी वाजपेयी इत्येनं मन्त्रिमण्डलं रचितुम् आह्वयत् । परन्तु दुर्भाग्यवशात् संसदि बहुमतं सिद्धे न जाते सति त्रयोदशदिनेषु एव वाजपेयी द्वारा रचितस्य मन्त्रिमण्डलस्य विर्जनम् अभूत् । ततः देवे गौड अपि दशमासं (१/६/१९९६ तः ३०/३/१९९७ पर्यन्तं) यावत् प्रधानमन्त्रित्वेन कार्यम् अकरोत् । परन्तु ततः इन्द्र कुमार गुजराल प्रधानमन्त्री अभवत् । एवं स्वस्य कार्यकालस्य अन्तिमे वर्षे श्रीशङ्करः त्रिभिः संसद्सदस्यैः प्रधानमन्त्रिशपथम् अकारयत् । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य चतुर्विंशतितमे दिनाङ्के श्रीशङ्करस्य राष्ट्रपतित्वेन कार्यकालः पूर्णः अभवत् ।

श्रीशङ्करस्य जीवनं देशसेवायै एव आसीत् । तस्य व्यक्तित्वं सर्वदा देशयूनां मार्गदर्शनं करोति । श्रीरामस्वामी वेङ्कटरामन्-महोदयेन स्वस्य कार्यकालसमाप्त्यवसरे श्रीशङ्करस्य विषये यत् उक्तमासीत्, तेन श्रीशङ्करस्य व्यक्तित्वस्य बोधः भवति । १९९२ तमे वर्षे स्वस्य कार्यकालसमाप्त्यवसरे श्रीरामस्वामी वेङ्कटरामन् अवदत् ,

जीवनस्य अन्तिमेषु दिनेषु श्रीशङ्करः सन्धिरोगेण (Arthritis) ग्रस्तः अभवत् । तेन रोगेण तस्य मृत्युः तु नाभवत् । परन्तु तस्मात् रोगात् बहुपीडा सोढिता श्रीशङ्करेण । १९९९ तमे वर्षे एकाशीति-वर्षीयः श्रीशङ्करः देहम् अत्यजत् ।

राष्ट्रपतिः

सर्वोच्चन्यायालयः

राष्ट्रपतिभवनम्




#Article 78: कन्नडभाषा (361 words)


भारतदेशस्य दक्षिणराज्येषु अन्यतमम् अस्ति कर्णाटकम् । कर्णाटकस्य प्रादेशिकभाषायाः नाम कन्नड(Kannada) इति । प्राचीनतमासु द्राविडभाषासु (दाक्षिणात्यभाषासु) अन्यतमा कन्नडभाषा स्वस्य विविधैः रूपैः ५०दशलक्षजनैः भाष्यते । भारतदेशस्य अधिकृतासु २३भाषासु इयम् अन्यतमा अस्ति । अपि च कर्णाटकराज्यसर्वकारस्य व्यावहारिकी भाषा अस्ति । सर्वसधारणं 1५०० वर्षेभ्यः कन्नडं सम्भाषणभाषारूपेण प्रचलिता अस्ति । कन्नडभाषायाः लिपिः लेखनपद्धतिः च 1५०० वर्षेभ्यः पूर्वम् एव आसीदिति शोधकानाम् अभिप्रायः । अस्याः भाषायाः प्राथमिकं संवर्धनं तु अन्यद्राविडीयाः (दाक्षिणात्यम्) भाषाभिवृद्धेः सादृश्यम् अस्ति । तदनन्तरस्य भाषाभिवृद्धौ संस्कृतस्य प्राकृतस्य मराठेः पारस्याः च प्रभावः दृश्यते ।

कन्नडभाषायां संस्कृतभाषायां यथा तथा सप्त विभक्तयः सन्ति चेदपि प्रथमविभक्तेः पञ्चमविभक्तेः च उपयोगः अतिविरलः । अस्यां भाषायां विभक्तिप्रत्ययं नामपदस्यान्ते प्रत्ययरूपेण योजयन्ति । संस्कृतस्य कारकविभक्त्याः उपयोगः कन्नडस्य विभक्तिप्रयोगावसरः विभिन्नः भवति । ग्रामं गतः इति संस्कृतवाक्ये 'ग्राम'पदस्य द्वितीया विभक्तिः भवति ।  कन्नडभाषायाम् अस्मिन् एव अर्थे चतुर्थी विभक्तिः प्रयुज्यते । पुँल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गम् इति कन्नडे लिङ्गत्रयम् अस्ति संस्कृते यथा तथा । किन्तु लिङ्गनिर्धारः संस्कृतभाषायां यथा क्रियते तथा न । मूले कन्नडे लिङ्गचतुष्टयं भवति । पुँल्लिङ्गं स्त्रीलिङ्गं मानुषम् अमानुषं चेति ।  पुमान् स्त्री मानुषम् अमानुषम् च इति । अस्यां भाषायां मानवेतरजीविनः नपुंसकलिङ्गिनः इति व्यवहारः । कन्नडभाषायाम् एकवचनं बुहुवचनं चेति वचनद्वयम् एव भवति ।  एकवचनरूपाणि पुमान् स्त्रीः मानुषम् अमानुषम् इति चतुर्षु लिङ्गेषु अपि भवन्ति । सः पुँल्लिङ्गः मानुषः, सा स्त्रीलिङ्गः मानुषः, तत् नपुंसकलिङ्गः अमानुषः इति ।

दक्षिणभारतीयभाषाणां मूलमिति निर्दिश्यमाणस्य मूलद्राविडतः कन्नडभाषा कदा सम्भाषणभाषा जाता इति निर्दुष्टतया वक्तुं न शक्यते । तमिलुभाषा यदा पृथक् जाता तदा एव कन्नडभाषा अपि पृथक् जाता इति विश्वस्यते । अस्याः भाषायाः लिपिः सामान्यतः १५००-१६०० वर्षपुरातनी विद्यते । ५ शतके हल्मिडिशासनकाले कन्नडभाषा प्रवृद्धा आसीत् । लिपेः इतिहासं यदि अवलोकयामः तमिलुलिपेः अपेक्षया कन्नडलिपिः एव शीघ्रं प्रवृद्धा इति भासते ।
कन्नडभाषातज्ज्ञाः कन्नडसाहित्यस्य वर्धनस्य अवगमनाय कालमानम् एवं निर्दिशन्ति - 

गते शतके कन्नडभाषाभिवृद्धिः व्यापकतया जाता इति अवगम्यते । २० शतकस्य अनन्तरीयं कालम् आधुनिककन्नड् इति मत्वा नूतनयुगमिति परिगणनीयं भवेत् । अन्तर्जाले कन्नडभाषायाः उपयोगः व्यापकतया दृश्यते ।

कन्नडभाषा प्रमुखतया कर्णाटकराज्ये उपयुज्यते । अल्पप्रमाणेन प्रतिवेशिराज्येषु (आन्ध्र, तमिळुनाडु, महाराष्ट्रम्) अपि उपयुज्यते । अमेरिकासंयुक्तसंस्थाने इङ्ग्लेण्ड्देशे च कन्नडजनानां सङ्ख्या अधिका अस्ति ।

कन्नडभाषा भारतदेशस्य २२ अधिकृतभाषासु अन्यतमा । कर्णाटकराज्यस्य अद्वितीया अधिकृतभाषा । २००८ तमे वर्षे अक्टोबर्मासस्य ३१ तमे दिनाङ्के भारतसर्वकारः कन्नडभाषायाः कृते शास्त्रियं स्थानम् अयच्छत् ।

कन्नडवर्णमालायां ४९ अक्षराणि विद्यन्ते । अत्रत्याणि अक्षराणि सर्वासु भारतीयभाषासु विद्यन्ते । तेलुगुलिपिः कन्नडलिपेः सादृश्यं भजते । संयुक्ताक्षरैः कागुणितेन च युक्ता लिपिः सङ्कीर्णा विद्यते । कन्नडलिपेः प्रत्येकं चिह्नं शाब्दिकमात्रां सङ्केतयति ।




#Article 79: सलमान रश्दी (113 words)


सलमान रश्दी (१९४७ - ) मुम्बई-नगरे जात:. स: एक: प्रतिभाशाली लेखक: अस्ति.

Grimus Gollancz, 1975

Midnight's Children Cape, 1981

Shame Cape, 1983
The Jaguar Smile Picador, 1987

The Satanic Verses Viking, 1988

Haroun and the Sea of Stories Granta, 1990

In Good Faith Granta, 1990

Imaginary Homelands: Essays and Criticism 1981-1991

Granta, 1991

The Wizard of Oz British Film Institute, 1992

East, West Cape, 1994

The Moor's Last Sigh Cape, 1995

The Vintage Book of Indian Writing (co-editor with Elizabeth West) Vintage, 1997

The Ground Beneath Her Feet Cape, 1999

Fury Cape, 2001

Step Across This Line: Collected Non-fiction 1992-2002

Cape, 2002

Shalimar The Clown Cape, 2005

The Enchantress of Florence Cape, 2008




#Article 80: जगदीश चन्द्र बसु (786 words)


अयं जगदीशचन्द्रबोसः (Jagadishchandra Bose, ; ३० नवेम्बर् १८५८- २३ नवेम्बर् १९३७) प्रसिद्धः भौतविज्ञानी, सस्यविज्ञानी च । अयं १८५८ तमे वर्षे नवेम्बर्-मासस्य ३० तमे दिनाङ्के भारतस्य मेमेन्सिङ्ग् इति प्रदेशे (इदानीं बाङ्ग्लादेशे अस्ति) जन्म प्राप्नोत् ।

अस्य पिता भार्गवचन्द्रः फरीदपुरम् इति मण्डले सहायकन्यायाधीशः आसीत् । अनेन जगदीशचन्द्रबोसेन आरम्भिकं शिक्षणं बङ्गालीभाषया एव प्राप्तम् । अनन्तरं सः शिक्षणार्थाय भारतस्य कोल्कत्तानगरम् अगच्छत्    । तदवसरे तत्र ग्रामप्रदेशात् आगतम् एतं जगदीशचन्द्रबोसम् अन्ये छात्राः उपहसन्ति स्म । कदाचित् कुपितः सः जगदीशचन्द्रबोसः तेषु बलाढ्यं कञ्चित् सम्यक् प्रहृत्य उन्नीय अक्षिपत् । तदनन्तरं कोऽपि छात्रः अस्य उपहासं न अकरोत् । महाविद्यालयस्य शिक्षणं समाप्य जगदीशचन्द्रबोसेन अग्रिमस्य शिक्षणस्य निमित्तम् इङ्ग्लेण्ड्देशं प्रति गन्तव्यम् आसीत् । किन्तु गृहे आर्थिकी परिस्थितिः तावती उत्तमा न आसीत् । अनन्तरं तस्य माता आभरणानि विक्रीय तं वैद्यशिक्षणार्थं विदेशं प्रति प्रेषितवती । तत्र इङ्ग्लेण्ड्देशे लण्डन् तथा केम्ब्रिड्ज् विश्वविद्यालयेषु अयं जगदीशचन्द्रबोसः अध्ययनम् अकरोत् । तत्र भौतविज्ञानिना लार्ड् लेलिङ्गेन प्रभावितः सन् भौतशास्त्रे आसक्तः अभवत् । ततः सः भौतशास्त्रं, रसायनशास्त्रं, सस्यशास्त्रं च अपठत् ।

इङ्ग्लेण्ड्देशतः पदवीं प्राप्य भारतं प्रत्यागतः जगदीशचन्द्रबोसः कोल्कत्तानगरस्य प्रेसिडेन्सिमहाविद्यालये १८८५ तः १९१५ पर्यन्तं भौतशास्त्रस्य अध्यापकरूपेण कार्यम् अकरोत् । तत्र तादृशं गौरवं प्राप्तवत्सु भारतीयेषु अयं जगदीशचन्द्रबोसः एव प्रथमः । तदवसरे भारते ब्रिटिश्जनानां शासनम् असीत् । प्रेसिडेन्सिमहाविद्यालये ब्रिट्श्–अध्यापकेभ्यः अधिकं वेतनं, भारतीयाय अस्मै जगदीशचन्द्रबोसाय च न्यूनं वेतनं दीयते स्म । तां पद्धतिं विरुध्य सः अहिंसात्मकं प्रतिभटनम् अपि अकरोत् । बहुकालं यावत् वेतनं विना कार्यं कुर्वन् न्यायार्थं प्रतिभटनम् अकरोत् । अन्ते ब्रिटिश्–सर्वकारः सर्वेषाम् अपि समानां व्यवस्थाम् अकल्पयत् । तदनन्तरं सः जगदीशचन्द्रबोसः बोस् संशोधनसंस्थां” प्रतिष्ठाप्य १९१७ तः १९३७ पर्यन्तं तस्याः निदेशकत्वेन कार्यम् अकरोत् ।

प्रकाशस्य किरणान् स्फटिकद्वारा यदा प्रवाहयामः तदा ते किरणाः वक्राः सन्तः चलनगतिं परिवर्त्य प्रतिबिम्बन्ते । केषुचित् स्फटिकेषु ते किरणाः यदा प्रवाहिताः तदा तेषां प्रतिबिम्बद्वयं दृष्टम् । सः तद्विषये एव संशोधनम् अनुवर्तितवान् । तस्य जगदीशचन्द्रबोसस्य तद्विषयकः प्रथमः लेखः द्विप्रतिबिम्बम्” बेङ्गालसङ्घस्य एष्या-सञ्चिकायां प्रकाशितः । मैक्रो–तरङ्गानाम् उत्पादकं वेव्-गैड्”, आकाशवाण्याः तरङ्गानाम् अपेक्षया अधिकसंवेदनायुक्तं कोहेरर्” नामकं साधनं चापि अनेन जगदीशचन्द्रबोसेन एव निर्मितम् । तस्मिन् काले संशोधनार्थम् अपेक्षितानि उपकरणानि, प्रयोगालयाः, आधारभूतानि पुस्तकानि वा न आसन् । तथापि तस्य मेधाशक्तिः तादृशी आसीत् । अस्य जगदीशचन्द्रबोसस्य प्रतिभाम् अभिज्ञातवन्तः बहवः आङ्ग्लेयाः तम् आदरेण पश्यन्ति स्म । लार्ड् केल्विन् तथा सर् ओलिवर् इत्याख्यौ जगदीशचन्द्रबोसं लण्डन्–नगरे एव वसतु इति आह्वानम् अपि दत्तवन्तौ आस्ताम् । परन्तु देशाभिमानी जगदीशचन्द्रबोसः भारते एव अवसत् ।

अग्रे अयं जगदीशचन्द्रबोसः सस्यानां विषये संशोधनम् आरब्धवान् । विद्युत्–प्रेरणान्तर्गतेषु जीविषु निर्जीविषु च यत् साम्यम् आसीत् तदपि संशोधितवान् । प्राणिनाम् इव सस्यानाम् अपि जीवः अस्ति । तानि अपि व्रणितानि भवन्ति । तेषाम् अपि आघातः भवति । रासायनिकानां प्रयोगेण सस्यानि अपि प्रज्ञाहीनानि कर्तुं शक्यन्ते । इति १९०१ वर्षे लण्डन्–नगरस्थायाः रायल्–सोसैट्याः अन्ताराष्ट्रिय–विज्ञानसम्मेलने प्रत्यपादयत् । ब्रोमेट्”युक्तं द्रवम् आचूषितस्य सस्यस्य प्रतिक्रियां प्रायोगिकरूपेण अपि अदर्शयत् । सस्यानां सूक्ष्मं संवेदनम् अपि अभिज्ञातुं रेसोनेण्ट्” नामकम् उपकरणम् अपि निर्मितवान् । अयं जगदीशचन्द्रबोसः सस्यजीवनस्य विषये स्वेन कृतान् प्रयोगान्, तेषां प्रयोगाणां फलं चापि जीविनां निर्जीविनां च प्रतिक्रिया” (The Reaction of Living  Nonliving) इति पुस्तके उल्लिखितवान् अस्ति । तत् पुस्तकं १९०२ वर्षे प्रकाशितम् ।

सस्यानां क्रियाणां, प्राणिनां शरीरे प्रचलन्तीनां क्रियाणां च साम्यम् अपि जगदीशचन्द्रबोसः प्रयोगाणां द्वारा एव प्रत्यपादयत् । सस्यानि श्वासकोशाणां साहाय्यं विना एव श्वासोच्छ्वासं कुर्वन्ति । जठरं विना एव आहारं जीर्णीकुर्वन्ति । स्नायुं विना, नाडीव्यूहं विना एव कार्याणि कुर्वन्ति । इत्यादीन् अंशान् अपि अयं जगदीशचन्द्रबोसः संशोधितवान् । आप्टिकल् पल्स् रेकार्डर्” (Optical puls Recorder) नामकम् उपकरणं निर्माय सस्येषु प्रचलन्तीनां क्रियाणां संशोधनम् अकरोत् । तेन प्रयोगेण सस्यानि अपि विद्युत्–तरङ्गान् उत्पादयन्ति । तानि अपि श्रान्तानि भवन्ति । म्रियमाणं सस्यम् अत्यन्तम् अधिकप्रमाणेन प्रबलं विद्युत्–प्रवाहम् उत्पादयति । इङ्गालस्य डै आक्सैड्” विना सस्यानि न जीवन्ति । किन्तु तस्य प्रमाणम् अधिकं भवति चेदपि म्रियन्ते । म्रियमाणं सस्यम् आम्लजनकस्य पूरणेन जीवयितुं शक्यते । इत्यादयः विषयाः ज्ञाताः अभवन् । मादकवस्तूनां सेवनेन सस्यानि अपि मदयुक्तानि समत्वहीनानि वा भवन्ति । तदवसरे निद्राय अनन्तरं जागरितानि भवन्ति च । जागरणस्य अनन्तरं तानि समस्थितिम् आप्नुवन्ति । सस्यानि अपि परिसरतः शक्तिं प्राप्य कार्याणि कुर्वन्ति । अवशिष्टां शक्तिं तथैव सङ्गृह्णन्ति इत्यपि सः जगदीशचन्द्रबोसः संशोधितवान् ।

अयं जगदीशचन्द्रबोसः १९१८ वर्षे क्रेस्कोग्राफ्” नामकम् उपकरणं निर्माय सस्यानां चलनं संशोधितवान् । एकनिमेषाभ्यन्तरे सस्यस्य शरीरे याः क्रियाः सम्भवन्ति ताः अपि अभिज्ञातुं समर्थम् आसीत् तत् यन्त्रम् । प्रख्यातः फ्रेञ्च् विज्ञानी अस्य जगदीशचन्द्रबोसस्य संशोधनानां फलितांशम् अवलोक्य “मूकान् अपि प्राणिनः अयं जगदीशचन्द्रबोसः वाक्चतुरान् अकरोत्” इति उक्तवान् आसीत् । सस्येषु जलस्य ऊर्ध्वचलनस्य सम्बद्धं स्पन्दनसिद्धान्तं” (Pulsation theory) १९२३ तमे वर्षे अमण्डयत् । सस्येषु जलं जीवकोषाणां द्वारा एव ऊर्ध्वमुखं गच्छति । तदवसरे सस्येषु प्राणिनां हृदये इव सङ्कुचनं विकसनं च जायते इत्यपि तस्य यन्त्रस्य द्वारा संशोधितवान् । तेषां सर्वेषां विषयाणां प्रचारार्थं पुनः पुनः बहून् देशान् अगच्छत् । १८९७ तम् वर्षे ६ मासान् यावत् इङ्ग्लेण्ड्देशे आसीत् । अयं जगदीशचन्द्रबोसः १९०० तमे वर्षे प्यारिस्–नगरे प्रचलिते यूरोपस्य विज्ञानगोष्ठ्याम्” अपि भागम् अवहत् । तेन जापान्, अमेरिका, यूरोप् इत्यादिषु देशेषु अपि सस्यविज्ञानं प्रसृतम् । अयं जगदीशचन्द्रबोसः न केवलं विज्ञानक्षेत्रे कार्यम् अकरोत् अपि तु बङ्गालीसाहित्यक्षेत्रे अपि महत् कार्यं कृतवान् आसीत् । १९११ वर्षे प्रवृत्तस्य बङ्गालीसाहित्यसम्मेलनस्य अध्यक्षः अपि आसीत् । तदवसरे तेन जगदीशचन्द्रबोसेन “विज्ञानं तथा साहित्यम्” इति विषयम् अधिकृत्य भाषणं कृतम् आसीत् । अस्मै जगदीशचन्द्रबोसाय लण्डन्–नगरस्य रायल्-सोसैटी १९२० तमे वर्षे फेलोशिप्” दत्त्वा सम्माननम् अकरोत् । ब्रिटिश्–जनाः अपि तस्मै सर्” इति बिरुदम् अदास्यन् । अयं जगदीशचन्द्रबोसः १९३७ तमे वर्षे नवेम्बर्–मासस्य २३ तमे दिनाङ्के इहलोकम् अत्यजत् ।




#Article 81: भरतः (नाट्यशास्त्रप्रणेता) (1212 words)


भरत मुनिः (Bharathamuni) ५०० ई पू काले जीवन् नाट्यशास्त्रम् लिखितवान् । नाट्यशास्त्रे त्रयोदशाध्यायः : समीक्षात्मकमालोचनम् । नाट्यशास्त्रस्य रचनाकारः भरतः अत्र अभिप्रेतः । एते भारतीयपण्डिताः स्वविषये कुत्रापि अधिकं न लिखन्ति, अतः तेषां विषये व्यक्तिगतं विवरणं न लभ्यते।न तस्य माता ज्ञाता, न पिता ज्ञातः,न गुरुर्ज्ञातः, न वा पत्नी ज्ञाता।तस्य पुत्रस्य नाम कोहलः आसीदिति एतावदेव ज्ञायते।अस्य कालविषये अपि मतभेदाः सन्ति।केचन पण्डिताः चतुर्थं शतकमिति तस्य कालं मन्यन्ते।केचन पञ्चमं शतकं तथा केचन षष्ठं शतकं तस्य कालं मन्यन्ते।

मूलतः भरतस्य ग्रन्थसय विषयः नाट्यशास्त्रम्।तथाप्यत्र अन्तिमेषु षट्सु अध्यायेषु सङ्गीतसय विवेचनमस्ति।एतेन ज्ञायते यत् तदानीमपि सङ्गीतं तथा नाट्यमिति द्वयोः विद्ययोः सम्मेलः आसीत्।अनयोः द्वयोः विद्ययोः अद्यापि भरतस्य वचनानि प्रमाणभूतानि सन्ति। नाट्यक्षेत्रे भरतस्य रससिद्धान्तः अद्यावधि अतुलनीयः अपराजितः च विद्यते।	

सङ्गीतेऽपि भरतस्य विवेचनं मूलभूतं वर्तते।तेन ९स्वराणां सप्तकमङ्गीकृतम्।तत्र ७ शुद्धस्वराः सन्ति तथा द्वौ विकृतस्वरौ (अन्तरगन्धारः काकलीनिषादः च)स्तः।भरतस्य ग्रन्थः उत्तरभारतीयसङ्गीते तथा दक्षिणभारतीयसङ्गीतेऽपि आधारभूतः।

नाटकं तावद्भद्वति परा विद्या। तत्र नाटके क्रियापक्षं (प्रयोगपक्षम्) यथा भवति तथैव ज्ञानपक्षमपि भवति। ज्ञानपक्षस्याधारेण नाटकं भवति वेदस्तथा क्रियापक्षस्याधारेण शास्त्रम्। नाट्यवेदस्य क्षेत्रं तावद्भवति अभिज्ञानशकुन्तलादीनि आलेखानि यानि भरतमुनिना नाट्यशास्त्रस्यादितः अन्त्यं यावत् ’काव्यम्’-इति परिभाषितानि। एतेष्वेव भवति संसारे कर्तव्याकर्तव्यविधिनिर्देशविधानम्। तस्मादेव वेदस्य स्थानं शीर्षे निर्धारितम्-

एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता॥” इति।
विधिनिषेधनिर्देशविधौ सहायपरकं भवति नाट्यशास्त्रम्। अयं जातो नट्यवेद-नाट्यशास्त्रयोर्भेदः।
भरतस्य नाट्यशास्त्रे कदाचिदेवमेव संकेतः प्राप्यते यत् नाट्यप्रवृत्तिर्जगति सृष्टेरादिकालमेव सञ्जाता। अत एव नाट्यशास्त्रे स्थाने स्थाने नाट्यशास्त्रस्य प्रथमाचार्यः सृष्टिकर्ता स्वयम्भूः पितामह स्वीकृतः।
 नाट्यतत्त्वम्
ननु किमिदं नाट्यं नाम? नाट्यशब्दे मूलं तावद्धातुः ’नट’ इति। “अवस्पन्दः” “किञ्चित्स्पन्द” इति वा तदर्थः। अवस्पन्दः किञ्चित्स्पन्दः वा तथा स्यात् यः अर्थद्योतको भवेत्। किमिदं प्रतिपाद्यं वस्तु? अस्योत्तरमेवमुक्तं – रसाः भावाः कर्तव्यतावोधश्च। तत्र ष्यञ्प्रत्ययेन, ण्यत्प्रत्ययेन, ञ्यप्रत्ययेन च सिद्ध्यति नाट्यशब्दनिष्पत्तिः।
ष्यञ्प्रत्ययेन निष्पन्नस्य नाट्यशब्दस्यार्थो भवति नटस्य गुणाः तथा कर्म (क्रिया), ण्यत्प्रत्ययनिष्पन्नस्य नाट्यशब्दस्यार्थस्तावद् नाट्यव्यापारः, किन्तु ञ्यप्रत्यययोगेन नटानामाम्नायमिति। अतो त्रीनर्थानेकत्रीकृत्य नाट्यशब्दस्यार्थो भवति नाटानां स्वाम्नायानुसारं विहिता अभिनयव्यापारः। अर्थोऽयं भरतमुनिनापि समर्थितः।
 नाट्यशास्त्रे त्रयोदशाध्यायः
नाट्यशास्त्रस्य द्वितीये तावदध्याये अष्टमे तावच्छ्लोके नाट्यमण्डपस्य त्रैविध्यं वर्णितं भरतेन -

त्रिविधः सन्निवेशश्च शास्त्रतः परिकीर्तितः॥”
अत्र नाट्यमण्डपस्य आकारत्रयं भवति १. विकृष्टं नाम प्रेक्षागृहम्, २.चतुरस्रं नाम प्रेक्षागृहम्, ३. त्र्यस्रं नाम प्रेक्षागृहम्। एतेषां च प्रमाणमपि भवति त्रिविधं ज्येष्ठमध्यमाधमभेदेन। अत्र त्रयोदशे तावदध्याये प्रथममुच्यते यत् प्रेक्षागृहस्य भेदत्रयान् सम्यगवबुद्ध्य तत्पश्चात् कक्ष्यानिश्चयो विधेयः इति। द्वितीयाध्याये नाट्यमञ्चस्य द्वारसंस्थपनविषये उक्तं भरतेन-

कार्यद्वारद्वयं चाऽत्र नेपथ्यगृहकस्य तु॥”

नेपथ्यगृहम्
रङ्गशीर्षम्
दारुस्थम्भाः
ऊपरि दारु
निचला दरु

रङ्गशीर्षं तु भवेत् अतिसज्जितं षड्दारुसमन्वितम्। तेन एव नेपथ्यगृहं प्रति गमनार्थं द्वारद्वयस्य निर्माणमावश्यकम्। इदानीमत्र त्रयोदशेऽध्याये उच्यते भरतेन मुनिना यदत्र तयोः द्वारयोर्मध्ये एव भाण्डस्य वाद्ययन्त्राणां विन्यासः करणीयः इति। कक्ष्याविभागो भवति रङ्गपीठस्य चतुसॄषु दिक्षु एव। किन्तु मत्तवारिणीरङ्गशीर्षयोर्मेलनेन या परिक्रमाभूमिः शिष्यते सा तु द्वितीया कक्षा बोद्धव्या। अर्थात् प्रथमा तावत् कक्षा एव रङ्गपीठम्।
नाट्याभिनयसमये प्रस्तूयमानायाः घटनायाः सम्बन्धिनः नगर-वन-देश-पर्वतान् कक्षाद्वारेण एव प्रयोजयेत्। कक्ष्याविभागे ते एव आभ्यन्तरा उच्यन्ते ये हि पूर्वमेव मञ्चं प्रविष्टाः। एवमेव बाह्यास्ते ये अनन्तरं प्रविष्टाः। यस्यां दिशि भाण्डस्य मुखं भवेत् तस्यामेव दिशि नेपथ्यगृहस्यापि मुखं स्यात्। सा च पूर्वस्यां दिशि एव भवेत् इति नाट्यशास्त्रस्य नियमः। तेन द्वारेण यः नेपथ्यात् रङ्गपीठं प्रति गमिष्यति, स तु तेनैव मार्गेण प्रत्यागच्छेत्। तथैव विधानं प्रदत्तं नाट्यशास्त्रे भरतेन मुनिना-

यतस्तस्य कृतं तेन पुरुषेण निवेदनम्॥” इति।
नाटके दिव्यपुरुषाणां यातायातं नगरे वा वने वा भवतु, उत, पर्वते सागरे वा, सदा तु आकाशयानेन एव उपस्थापितव्यम्। तदिदं गमनं एकवर्षाभ्यन्तरे भवतु, अन्यस्मिन् वा वर्षे; तथैव एकस्मिन्नेव द्वीपे भवतु द्वीपान्तरे वा भवतु तद्गमनम्।
नाटके दिव्ययोनिपात्राणि एव भूमौ विचरन्ति, किन्तु गुप्तरूपेण प्रच्छन्नरूपेण वा। तस्मादेव देवयोनीनां सर्वस्मिन्नेव काले देशे च गमनं सुकरमेव। मनुष्याणां गमनागमनं तु भारतवर्षे एव सीमीतं भवति, आधिक्येन तु मनुष्याणां यातायातं हिमालयस्य श्रेष्ठं पर्वतं कैलासनामकं यावद्भवितुमर्हति। अत एव निर्दिष्टं भरतेन तदीये नाट्यशास्त्रे-

हिमवत्पृष्ठसंस्थे तु कैलासे पर्वतोत्तमे॥” इति।
नाट्यशास्त्रे यक्ष-गुह्याक-कुवेराश्च हिमवतो वर्षस्य प्राणित्वेन स्वीकृताः। तथाहि भरतमुनिभणितिः नाट्यशास्त्रे-

रक्षोभूतपिशाचाश्च सर्वे हैमवताः स्मृताः॥” इति।
गन्धर्वाणामप्सरसां च निवासः हेमकूटे पर्वते। नागानां समेषां तु निवासस्थलं निर्धारितं निषधपर्वतः। तत्रैव च वासुकिः शेषनागश्च निवसतः। पुनश्च, महामेरुपर्वते निवासः त्रयस्त्रिंशद्देवानाम्। ते हि त्रयस्त्रिंशद्देवाः-
१२ आदित्याः (प्रत्येकस्य मासस्य एकैक आदित्यः)
११ रुद्राः
८ वसवः
३१
२ सन्धिदेवते (१- आदित्यः+रुद्रः
२- रुद्रः+वसुः+रुद्रः)

३३ देवाः
दैत्यानां दानवानां च कृते वासस्थानमस्ति निर्धारितं श्वेतपर्वते। शृङ्गवान्-पर्वते च निवासः पितरदेवस्य। अयमेवास्ति पर्वतश्रेष्ठः। अस्मिन्नेव दिव्ययोनयः प्राणिनो निवसन्ति।
एतेषां दिव्यभावानां दिव्यचेष्टानां स्वचेष्टितानीति न मन्तव्यं, नापि तेषां पराक्रमं स्वपरक्रमं मन्यमानैर्मनुष्यैः तेषामनुकरणं विधातव्यम् इति नाट्यशास्त्रकारभणितिः। नाटके मनुष्याणां सर्वे एव गुणास्तु देवेषु आरोपणीया एव। किन्तु तेषाम् अनिमिषत्वस्योपस्थापनं नोचितं नाट्यमञ्चे-”तेषां त्वनिमिषत्वं यत् तत्र कार्यं प्रयोक्तृभिः” इति नाट्यशास्त्रे। तत्र देवानामनिमिषत्वप्रदर्शननिषेधकारणं तावदुच्यते भरतेन-

द्रुष्ट्या हि सूचितो भावः पश्चादङ्गैर्विभाव्यते॥” इति।
ये खल्वस्माकं भावाः सन्ति ते त्वस्माभिः दृष्ट्या एव अभिनीयन्ते। अतो दृष्ट्यभिनयाश्रितास्ते भावाः। एवमेव रसप्रसङ्गेऽपि। आङ्गिकाभिनयेन स एवाभिप्रायः अभिनीयते यद्धि पूर्वं दृष्ट्याभिनयेन सूचितम्।
एवं नाट्यशास्त्रस्य त्रयोदशेऽध्याये प्रथमतः कक्ष्याविभागं प्रदर्श्येदानीं प्रवृत्तिं प्रदर्शयितुं प्रवर्तते मुनिर्भरतः-

 प्रवृत्तिः
नाट्यप्रयोक्तृभिः प्रोक्ताः प्रवृत्तयश्चात्र चत्वारः -
१. आवन्ती,
२. दाक्षिणापत्या,
३. पाञ्चाली,
४. ऊढ्रमागधी च।
ननु केयं वृत्तिरिति प्रश्ने प्रथमं वृत्तिस्वरूपं स्पष्टयति भरतमुनिः। पृथीव्यां नानादेशस्य ननाभाषावेषभूषणादिनां वैचित्र्यं वर्तत एव। अत्र तेषां वार्ताः नाटके ख्यापयति वृत्तिः। अपरतो निवृत्तिश्च भवति निवेदनम्। “प्रवृत्तिश्च भवति निवेदनम्” इति नाट्यशास्त्रे भरतमुनिनोक्तम्। पुनरत्र सन्देहोऽयमुदेति य पृथीव्यां तु देशस्य संख्या बह्वी एव। अपि चाप्यपरतः एतेषां प्रयोगव्यवहारोऽपि सादृश्यमेवावहति। तथापि कथं चत्वार एव भेदाः तदाचारभेदप्रदर्शिण्याः प्रवृत्तेरिति। अत्र नाट्यसास्त्रकृतोत्तरम् एवम् उपस्थाप्यते-

नाट्यशास्त्रकृता तदीयग्रन्थस्य पञ्चविंशतितमेऽध्याये प्रमाणत्रयस्योल्लेखः कृतः। तदनुसारं लोक एवैकं प्रमाणम्।

अत्र प्रमाणत्रयं भवति १. लोकः, २. वेदः, तथा ३. अध्यात्मम्। पुनर्नाटकं भवति लोकात्मकम्। लोके यद्भवति सिद्धं तदेव नाटकेऽपि सिध्यति। लोके एतेषां चतुर्णामेव अनुमोदनमस्ति, तस्मादेव प्रवृत्तेः भेदाश्चत्वारः समुपस्थापिताः नाट्यशास्त्रकृता-
१. भारतीवृत्तिः
२. आरभटीवृत्तिः
३.सात्त्वतीवृत्तिः
४.कौशिकी वृत्तिश्च।
वृत्तिमादाय प्रचलति चेत् प्रयोगः तस्मादेव प्रयोगात् तद्देशस्य परिचयो ज्ञायते। तत इदानीं प्रवृत्तीनां चतूर्णां वृत्तीनां व्याख्यानमुपस्थापयति नाट्यशास्त्रकारः।

 दाक्षिणात्या
दाक्षिणात्या हि लोका कौशिकीवृत्तेः प्रयोगमधिकं विदधन्ति। तथा नाट्यप्रयोगेषु नृत्यगीतवाद्यानामुपयोगस्तत्राधिक्येन भवति। तेषामाङ्गिकाभिनयोऽपि चातुर्यमाधुर्यललित्यसमन्वितं भवति। दाक्षिणात्यमित्युक्ते केषां क्षेत्राणां तावद्ग्रहणमिति स्पष्टीक्रियते नाट्यशास्त्रे-

एतेषु संश्रिता देशास्ते ज्ञेया दक्षिणापथाः॥ इति।

द्रमिडन्ध्रमहाराष्ट्रा वैण्णा वै वानवासजाः॥” इति।
महेन्द्र-मलय-सह्य-मेखल-कालमञ्जराः पर्वतः दाक्शिणात्ये देशेऽन्तर्भवति। कोसल-तोसल-कलिङ्ग-यवन-खस-द्रमिड-आन्ध्र-महाराष्ट्र-वैण्ण-वाराण्सीत्येतेऽपि दाक्षिणात्ये। अत्र कोस्लेत्यनेन दक्षिणकोसलो बोध्यव्यः । दाक्षिणात्यप्रदेशस्य विस्तारस्तावद् विन्ध्यपर्वतादारभ्य दक्षिणसमुद्रपर्यन्तम्। नियमोऽयं नित्य एव यदस्मिन् भूभागान्तर्वर्तिन्यः देशास्तु दाक्षिणात्या इति कथयिष्यन्ते।

आवन्तिकावृत्तेः प्रयोगो भवत्याधिक्येन उज्जयिन्यां विदिशादेशे, सौराष्ट्रीयैः, मालववासिभिः, सैन्धवे देशे, सौवीरैः, आनर्त्ते, तथा च त्रैपुरैः मार्तिकावतैश्च। एतेषु देशेषु नाटकप्रयोगविषये विशेषमिदमस्ति यत् अत्रत्यैस्तु नाटके सात्त्वतीवृत्तिं तथा कौशिकवृत्तिं चाश्रित्य प्रयोगो विधीयते प्रयोगः। अन्यत्र प्रदेशेषु नैवं व्यवहारो भवति। तथाहि भरतमुनिभणितिः -

आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा।
सैन्धवास्त्वथ सौवीरा आनर्त्ताः सर्बुदेयकाः ॥ इति।

औढ्रमागधीप्रवृत्तिस्तावद्व्यवह्रियते अङ्ग-वङ्ग-कलिङ्ग्-वत्स-उढ्रमागध-पौण्ड्र-नेपाल-अन्तर्गिर-बहिर्गिर-प्लवङ्गम-मलद-मल्लवर्त्तक-भार्गव-मार्गव-प्राग्ज्योतिष-पुलिन्द-वैदेह-ताम्तलिप्तक-प्राङ्ग-प्रवृत्त्यादिषु स्थलेषु।

यानि तावत्स्थानानि पाञ्चालदेशे, शूरसेनदेशे, काश्मीरप्रदेशे, हस्तिनापुरे बाह्लीकप्रदेशे (आफगानिस्तानप्रदेशे वा) वर्तन्ते, तथा च ये देशाः शाकलमद्र-कुशनीर-गङ्गायाया उत्तरस्यां दिशि हिमवति पवते अवतिष्ठन्ते तेषु एव प्रदेशेषु प्रवर्तते पाञ्चाली-वृत्तिः।

बाह्लीकाः शाकलाश्चैव मद्रकौशीनरश्च॥” इति।

पाञ्चालमध्यमायां प्रवृत्तौ वृत्तिर्भवति सात्त्वती आरभटी च। रङ्गपीठस्य जर्जरपूजाया अनन्तरं या परिक्रमा भवति तस्या द्वैविध्यमुक्तं नाट्यशास्त्रे। तत्र प्रथमस्तावत्प्रकारो यत्र प्रवेशः वामपार्श्वतः क्रियते, द्वितीये च प्रकारे प्रदक्षिणं न भवत्येव। अवन्त्यां दाक्षिणात्यां च प्रवृत्त्यां प्रदक्षिणं वामपार्श्वतः क्रियते। तद्विरुद्ध्यां पाञ्चाल्यां तथा औढ्रमागध्यां दक्षिणपाश्वतः प्रदक्षिणविधिः। अवन्त्यां दाक्षिणात्यां च पार्श्वद्वारो भवेदुत्तरी, पाञ्चाल्यां औढ्रमागध्यां च स दक्षिणी। प्रयोक्तारः आदौ एतान् सर्वान् विषयान् एकत्रीकृत्य प्रयोजयेत् कर्मणि, तदा तु ध्यानं तेषां अर्थयुक्तौ तथा पर्षदि तथा देशकालेऽपि इति निर्देशः नाट्यशास्त्रकारस्य। अपि च यस्मिन् देशे यस्याः प्रवृत्तेः विधानं विद्यते तत्र तस्यैवानुसरणं कर्तव्यम्। यदा च सर्वाः वृत्तयः प्रवृत्तयश्च एकत्रीभवन्ति तदा तु वृत्तिवाहुल्यं विचार्य कर्मणि प्रयोजयेत् विज्ञः।
अत्रायं प्रयोगः पुनः द्विविधः
१. सुकुमारः
२. आविद्धश्च
३. आविद्धानि
आविद्धानि हि तानि उच्यन्ते यत्र छिन्नभिन्नात्मकं भयंकरं युद्धं प्रस्तूयते। यद्भवति मायेन्द्रजालादिवृत्तपूर्णम्, यत्र च पुरुषपात्राणामधिक्यं स्यात्, नारीपात्राणाञ्च अनाधिक्यम्। अतोऽत्र सात्त्वती आरभटी च वृत्तिः। एतादृशं नाटकं भवति आविद्धम्। अस्य प्रयोगह् कर्तव्यः देवदानवराक्षसपात्रद्वरेण। शौर्यवीर्यबलसमृद्धः पुरुषोऽपि अत्र योजयितुं शक्यः।

मनुष्यैरुपस्थाप्यन्ते सुकुमारप्रकृतिकानि नाटकानि हि- नाटकं, प्रकरणम्, भाणम्, तथा वीथिः, अङ्कश्च।

सुकुमारप्रयोगाणि मानुषेष्वाश्रितानि॥” इति।

यत्र नाटकस्य वाह्यप्रयोगो विधीयते नाटकस्य, तत्र तु नाट्यशास्त्रोक्तदिशि नापि भवितुमर्हति रङ्गपीठम्। तत्र तु स्वामिन इच्छा एव बलीयसी।
एवं नाट्यप्रयोगमुक्त्वा धर्मीविभागं दशयति भरतमुनिः

लोकैकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम्” इति।
धर्मी तावद्द्विविधा लौकिकी नाट्यधर्मी च। इतिप्रकारं नाटकभेदमुक्त्वा तद्भेदान् प्रदर्शयति नाट्यशास्त्रकारः।
 लोकधर्मी प्रवृत्तिः
लोकधर्मिप्रवृत्तौ नाटकं यद्भवति तत्र अभिनयस्तथा अभिनेयं स्वाभाविकमेव अविकृतं विद्यते। अत्र नाटकीयपात्राणि बहूनि एव भवन्ति। अत्र लोके साधारणतया घटिताः घटना एवोपस्थाप्यन्ते। अत्राङ्गहाराः लीलारहिता एव भवन्ति।

नाट्यधर्मिप्रवृत्त्यौ पात्राणि स्वाद्बहिरेव कल्प्यन्ते। अत्र गतिक्रिया वाद्यादिक्रियापि भवन्ति। अस्याङ्गहारे लीला भवन्ति, नट्यं ताललयादीनामपि तत्र विद्यमानत्वम्।
त्रयोदशाध्यायस्यान्ततः अभिनयविषये कथयति भरतमुनिः यत् जनानां सहजो भाव एवाभिनयः इति। तस्मिन्नेव सहजे भावे अङ्गादीनामलंकाराणां समावेश एव नाट्यधर्मी प्रवृत्तिः। एवमत्र नाट्यशास्त्रीये त्रयोदशेऽध्याये प्रयुक्तानां कक्ष्याविभागविषयान् सम्यगवधार्य नाटकं प्रयोजयेत् धीमान् इति नाट्यशास्त्रकारनिर्देशः।
एवं नाट्यशास्त्रे त्रयोदशे तावदध्याये ग्रन्थकृता भरतेन कक्ष्याविभागविषये सविस्तारं स्वमतमुपस्थाप्य प्रवृत्तिभेदान् तत्स्वरूपञ्च सम्यगुपस्थापितमिति शिवम्।




#Article 82: अमिताभ बच्चन (1782 words)


अमिताभ बच्चन: (१९४२ - ) प्रमुखः हिन्दी-अभिनेता अस्ति ।
१९४२तमे वर्षे अक्टोबर् ११ दिनाङ्के अमिताभ-हरिवंश-बच्चनस्य जननम् । एषः ‘बिग् बि’ तथा ‘षहेन् षा’ इत्यपि कथ्यते । १९७०तमस्य दशके आरम्भे “आङ्ग्रि यङ्ग् म्यान्”(Angry Young Man) मानसचित्रेण सह अमिताभः बच्चनः बालिवुड् चलनचित्रे आरम्भिकतया जनप्रियतां गतः । पश्चात् सः भारतीयचलनचित्रस्य इतिहासे अत्यन्तं प्रमुखेषु जनेष्वन्यतमः जातः ।

बच्चनः स्वीये चलच्चित्रवृत्तिजीवने त्रिस्रः राष्ट्रिय-चलनचित्रप्रशस्तीः द्वादश फिलंफेर् प्रशस्तीः च आसादितवान् । न केवलं तावत् इतराः अनेकाः अपि प्रमुखाः प्रशस्तीः तेन अर्जिताः । अत्युत्तमनट इति क्षेत्रे “फिलंफेर्-प्रशस्ति”निमित्तम् अत्यधिकवारम् अयमेव नामकरणं प्राप्तवान् इति अभिलेखे अङ्कनम् अस्य नाम्नि एव अस्ति । 

बच्चनेन न केवलं नटनक्षेत्रे कार्यं कृतम् अपि तु पृष्ठभूमिका-गायकत्वेन चित्रनिर्मापकत्वेन ‘टि.वि’निरूपकत्वेन अपि कार्यं कृतम् । अमिताभः १९८४तः १९८७तमवर्षपर्यन्तं यावत् भारतस्य संसत्-सदस्यः अपि आसीत् । नटीं जयाबादुरि इत्येतां सः वृतवान् अस्ति । एतयोः दम्पत्योः श्वेतानन्दा अभिषेक-वच्चनः इति द्वौ पुत्रौ । नटः अभिषेकः नटीम् ऐश्वर्या रै इत्येताम् ऊढवान् अस्ति ।

अमिताभः मूलतः हिन्दू-सिख् कुले जातः । तस्य जननम् उत्तरप्रदेशस्य अलहाबाद् प्रदेशे अभवत् । अस्य पिता डा ॥ हरिवंशराय बच्चन हिन्दीभाषायाः प्रख्यातः कविः । माता तेजिबच्चनः फैसलाबाद्-प्रदेशस्य (अधुनातने पाकिस्थानदेशः) सिख्-पञ्जाबिकुटुम्बतः अस्ति ।

भारतस्य स्वातन्त्र्यसङ्ग्रामस्य वेलायां प्रसिद्धिं गतायाः इन्‌खिलाब् जिन्दाबाद् इति घोषणायाः स्फूर्त्या अमिताभस्य नामकरणं पूर्वम् इन्‌खिलाब् इत्येव कृतमासीत् । ततः परम् अमिताभः इति पुनर्नामकरणं जातम् । तस्य अर्थः “शाश्वतदीपः” इति । बच्चन्-वंशस्य नाम यद्यपि श्रीवास्तव इति वर्तते तथापि तस्य पिता बच्चन् इति नाम एव चित्वा तेनैव नाम्ना सर्वाणि पुस्तकानि प्राकाशयत् ।

अमिताभः चित्ररङ्गं तस्य नाम्नः उत्तरार्धभागद्वारा एव प्राविशत् । सार्वजनिकानाम् उद्देशानां निमित्तं तस्य कुटुम्बस्य सर्वे सदस्याः बच्चन् इत्येतदेव नाम अरक्षन् । हरिवंशरायबच्चनस्य पुत्रद्वये अमिताभः ज्येष्ठः अजिताभः कनीयान् । बच्चनस्य मातुः रङ्गभूमिक्षेत्रे अत्यन्तम् आसक्तिरासीत् । चलनचित्रे अभिनेतुम् अवसरोऽपि प्राप्तः आसीत् । किन्तु सा प्रवेशम् अकृत्वा गृहिणी एव अतिष्ठत् । अमिताभस्य चित्र-वृत्तिजीवनचयने तस्य मातुः प्रभावोऽप्यासीदेव । यतो हि तया पुत्रः सर्वेषाम् आकर्षणकेन्द्रबिन्दुतां प्राप्नुयात् इति काङ्क्षितमासीत् । 

स्वस्य आरम्भिकं शिक्षणम् अलहाबाद् प्रदेशस्य ज्ञानबोधिनी तथा बालक-प्रोढ-शालायाम् (BHS) असमापयत् एषः । अग्रे कलाविषयं प्रधानतया चित्वा नैनिताल् प्रदेशस्य शेर्‌वुड्महाविद्यालये अधीतवान् । तत्पश्चात् पदवी-विद्याभ्यासाय देहली-विश्वविद्यालयस्य किरोरि-माल्-कालेज् इति स्थलं गत्वा 'ब्याचलर् आफ् सैन्स्' (B.Sc.) पदवीं प्राप्नोत् । कल्कत्ता (अधुना कोल्कता) ‘मूलस्य बर्ड् अण्ड् को’ इत्याख्यायाः संस्थायाः वाणिज्य-नौकासामग्रि-सम्प्रेषणस्य मध्यवर्ती-कार्यं कुर्वता अनेन स्वीये विंशतितमे वयसि अभिनयवृत्तिं सारयितुम् इच्छता उद्योगात् विश्रान्तम् ।

१९६९तमे वर्षे ‘सात् हिन्दूस्तानि’ चित्रस्य सप्त नायकेष्वन्यतमः भूत्वा बच्चनः चित्ररङ्गं प्रविष्टवान् । उत्पलदः मधुः जलालः आघा इयादीनां तारागणेन युक्तं चित्रमिदं ख्वाजा अहमद् अब्बास् इत्येतस्य महाशयस्य निर्देशनयुक्तं वर्तते । आर्थिकदृष्ट्या यद्यपि चित्रमिदं यशस्वितां नाप्नोत् तथापि तस्य चित्रेऽस्मिन् नटनाय प्रथमवारम् ‘अत्युत्तमः नवनटः’ इति राष्ट्रियप्रशस्तिं अमिताभः आसादितवान् ।

तत्पश्चात् राजेश् खन्ना इत्येतेन सह अभिनीतम् 'आनन्द' (१९७१) चित्रं वाणिज्योद्देश्येन यशस्वितां विमर्शकानां प्रशंसां चापि आप्नोत् । अस्मिन् चित्रे अनेन निरूढं जीवनस्य विषये विभिन्नदृष्टिकोणयुतं वैद्यस्य पात्रं तस्मै फिल्म्‌फेर्-अत्युत्तम-पोषकनटप्रशस्तिं समानयत् । पश्चात् अमिताभः 'पर्वाना' (१९७२) चित्रे नवीन्‌निस्कोलः योगिताबालि ॐप्रकाशः इत्यादीनां तारागणे अविवेकिनः प्रेमिणः पात्रे अभिनीतवान् ।

अमिताभस्य खलनटस्य पात्रे अभिनयाय इदमपरूपमुदाहरणम् । तत्पश्चात् निर्मितानि रेश्मा और् शेरा(१९७१) इत्यादि बच्चनेन अभिनीतानि अनेकानि चित्राणि चित्ररङ्गक्षेत्रे विशेषं यशः नाविन्दन्त । अस्मिन् एवावसरे नटेन धर्मेन्द्रेण तथा भाविन्या पत्न्या जयाबादुर्या सह गुड्डि इति चित्रे अतिथिनटो भूत्वा बच्चनः अदृश्यत । आरम्भिके वृत्तिजीवने स्वस्य अपूर्वेण ध्वनिना सर्वेषां ध्यानम् आकृष्टः अयं ‘बावर्चि’ चित्रस्य भागमेकमपि निरूपितवान् वर्तते । १९७२तमे वर्षे प्रयाणस्य सन्निवेशयुक्ते, साहसमये हास्यमये च एस्.रामनाथन् महाशयेन निर्देष्टे बाम्बे टु गो‌आ चित्रे असावभिनीतवान् । अस्मिन् चित्रे अरुणा इरानी मेह्‌मूद् अन्वर् अलि नासिर् हुसेन् इत्यादिभिः सह बच्चनः अनटत् ।लण्डन्-नगरे बच्चनस्य ‘व्याक्स्’ इति वस्तुना निर्मिता प्रतिमा काचिद्वर्तते ।

१९७३तमे वर्षे प्रकाश् मेह्रा इत्येतेन निर्देष्टे जञ्जीर् चित्रे इन्स्पेक्टर् विजय् खन्ना इति पात्रम् अमिताभस्य वृत्तिजीवनाय महत्तं परिवर्तनम् अदात् । इदं चलनचित्रं तस्य पूर्वतन-चित्राणां प्रणयमयपात्राणां तद्विरुद्धं पात्रयुतमासीत् । एतदनन्तरम् एतत्सदृशाणि अन्यानि बहूनि चलनचित्राणि प्रदर्शितानि यानि च तं बालिवुड् चलनचित्रस्य 'आङ्ग्रि यङ्ग् म्यान्' स्थानं प्रायच्छत् । अस्मात् चित्रात् एव अग्रनायकस्य पात्रे अमिताभः चित्ररङ्गे ख्यातः जातः । इदमेव चित्रं फिल्म्‌फेर्‌प्रशस्त्यै अत्युत्तमनटविभागे नामाङ्कितमपि जातम् । १९७३तमे अस्मिन्नेव वत्सरे अमिताभः जयाबादुरीं वृणीतवान् । बहुशः अमिन्नेव समकाले विवाहात् परं मासाभ्यन्तरे एव प्रदर्शितेषु जञ्जीर् अभिमान् इत्यादिषु चित्रेषु जया अमिताभः च मिलित्वा एवाभिनीतवन्तौ ।

पश्चात् हृषिकेश् मुखर्जि इत्येतेन निर्दिष्टे मित्रतायाः कथावस्तुयुते सामाजिके चित्रे नमक् हराम् नामके चित्रे ‘विक्रम्’ इत्येतस्य पात्रे अमिताभेन अभिनीतम् । अस्य कथावस्तुरचयिता ‘बीरेश् चटर्जि’ इत्येषः वर्तते । अस्य चित्रस्य पोषकपात्रे अभिनीतस्य अमिताभस्य नटनं न केवलं सर्वेषां प्रशंसापात्रं जातम् अपि तु फिल्म्‌फेर्-अत्युत्तम-पोषकनटप्रशस्तिम् अपि आनयत् । अस्मिन्नेव चित्रे रेखा राजेश् खन्ना चापि अभिनीतवन्तौ ।

१९७४तमे वर्षे कुंवारा बाप् तथा दोस्त् इत्यादिषु चित्रेषु अनेकवारम् अतिथिनटत्वेन बच्चनः अदृश्यत । अस्मात् पूर्वमेव तस्य वर्षस्य अतिसम्पादनपरकस्य चित्रे रोटी कपडा और् मकान् नामके चित्रे पोषकपात्रे अभिनयः कृतः । अस्य चित्रस्य कथां विरचय्य निर्देशनमकरोत् मनोज्‌कुमारः । स्वार्थलाभाय उपयोगः तथा आर्थिकभावनात्मकयोः सङ्कटस्य मध्ये प्रामाणिकतायाः मुखावरणस्य कथावस्तुसहितमिदं चित्रं विमर्शकानां प्रशंसापात्रं भूत्वा वाणिज्यदृष्ट्या यशः आसादयत् । न केवलं तावत् किन्तु स्वतः ‘कुमार्’ रिशिकपूरः जीनत्-अमान् इत्येतेषां पङ्क्तौ बच्चनं चित्रमिदम् अयोजयत् ।

पश्चात् नायकपात्रे अभिनीतं मज्बूर् चित्रं १९७४तमस्य डिसम्बर्‌मासे ६ दिनाङ्के प्रदर्शनाय उन्मुक्तं जातम् । जार्ज् केनडि इत्येतस्य अभिनयस्य हालिवुड् चित्रस्य जिग्‌ज्याग् इत्येतस्य पुनर्निर्माणम् आसीत् एतत् चित्रम् । धनार्जने सामान्यतः यशः सम्पादितं चित्रेण अनेन । ततः परं १९७५तमे वर्षे चुप्के चुप्के नामकात् चलच्चित्रात् अपराधकथावस्तुयुतात् फरार् चित्रादपि आरभ्य प्रणयमयस्य मिलि चित्रस्य पर्यन्तं वैविध्यमयेषु प्रकारेषु चित्रेषु बच्चनेनाभिनीतम् ।

एतन्मध्ये १९७५तमे वर्षे बच्चनेन केवलं चित्रद्वये एव अभिनीतम् । एते द्वेऽपि चित्रे चित्ररङ्गे अति-प्रमुखतया परिगण्यते । यश् चोप्रा इत्यस्य निर्देशनस्य दीवार् इति चित्रे शशिकपूर् निरुपराय् नीतुसिङ्ग् इत्येतैः सह तेन अभिनीतम् । अस्मिन् चित्रे तस्य अभिनयः अत्युत्तम-नट-विभागे फिल्म्‌फेर् प्रशस्त्यर्थं नामकरणमार्जयत् । इदं चित्रं १९७५तमे वर्षे अपारं यशः आसादयत् । धनार्जनेऽपि चतुर्थं स्थानमाप्नोत् । ‘बालिवुड्’क्षेत्रस्य दर्शनीयेषु अत्युन्नतचित्रेषु अन्यतममिदम् इति ‘इण्डिया टैम् मूवीस्’ कथयति । १९७५तमे आगस्ट्मासे प्रदर्शितं “शोले” नामकं चलच्चित्रम् अत्यधिकं २,३६,४५,००,००० तन्नाम ‘यू.एस्’देशस्य षष्टिदशलक्ष ‘डालर्’ मूल्यं यावत् धनम् अर्जित्वा भारते एव सार्वकालिकं विक्रमम् अरचयत् । अस्य चित्रस्य अर्जनं आर्थिकस्फीतिः इत्येतया स्थित्वा तोलितमस्ति ।

बच्चनः अस्मिन् चित्रे जैदेव् इत्येतस्य पात्रं निरूढवान् । हिन्दीचित्ररङ्गस्य ख्याताः नटाः धर्मेन्द्रः हेमामालिनी सञ्जीवकुमारः जयाबादुरी तथा अम्जद् खानः इत्यादयः अत्र अभिनीतवन्तः । १९९९तमे वर्षे भारतस्य बि.बि.सि. विभागः इदं चित्रं “शतमानस्य चित्रम्” इत्यघोषयत् । शोले नामकं चित्रमपि यथा दीवार् नामकं चित्रं तथा बालिवुड्-क्षेत्रस्य दर्शनीयेषु अत्युन्नतेषु २५ चित्रेष्वन्यतममिति इण्डियाटैम्स् मूवीस् इत्येतेन समायोजितम् । तस्मिन्नेव वर्षे शोले नामकस्य चित्रस्य कृते पञ्चाशत्तमैः फिल्म्‌फेर्‌प्रशस्तीनां निर्णायकैः पञ्चाशद्वर्षेषु-अत्युत्तम-फिल्म्‌फेर्‌चित्रम् इति प्रशस्तिः प्रदत्ता । शोले नामकं चित्रं यदा धनार्जने अत्यन्तं यशः आसादयत् तदारभ्य बच्चनस्य स्थानं चित्ररङ्गे सुभद्रं जातम् । तदारभ्य १९७६तः १९८४तमवर्षाणामवधौ बच्चनस्य कृते फिल्म्‌फेर्-अत्युत्तम-नट-प्रशस्तयः तथा नामकरणानि च विपुलतया समागताः ।

सर्वोत्कृष्टः साहसनायकः इति ख्यातिं गतं प्रख्यातं नाम यद्यपि शोले सदृशचित्रैः सम्प्रतिष्ठितं तथापि कभी कभी(१९७६) सदृशेषु चित्रेषु प्रेमिणः पात्रे, १९७७तमस्य अमर् अक्बर् अन्तोनि सदृशेषु चित्रेषु, तथैव तत्पूर्वकालिकेषु १९७५तमस्य वर्षस्य चुप्के चुप्के सदृशेषु हास्यमयेषु चित्रेषु अपि सम्यक् अभिनीय अभिनयपरिणतिः निरूपिता एतेन बच्चनेन । १९७६तमे वर्षे निर्देशकस्य यश्‌चोप्रा इत्यस्य द्वितीये ‘कभी कभी’ नामके चित्रे बच्चनः अभ्यनयत् । प्रणयकथाविताने अस्मिन् चित्रे यूनः कवेः अमित् मल्होत्रा इत्यस्य पात्रे अस्य अभिनयः आसीत् । ‘पूजा’नामिकां सुन्दरीं प्रीणयति अयं कविः । पूजायाः पात्रे राखी गुल्जार् अभ्यनयत् । अस्मिन् चित्रे मृदुत्वयुतस्य तथा विशालदृष्टेः भावनात्मकं सम्भाषणम् अवर्तत । इदं चित्रम् अमिताभस्य पूर्वतनसाहसमयानां चित्राणां तथा अग्रे अभिनीतानां चित्राणां च तद्विरुद्धमासीत् । धनार्जने महत् यशः सम्पाद्य इदं चित्रम् अमिताभस्य फिल्म्‌फेर्-अत्युत्तम-नट प्रशस्त्यर्थं नामकरणमपि समार्जयत् ।

१९७७तमे वर्षे ‘अमर् अक्बर् अन्तोणि’ चित्रस्य नटनार्थम् अमिताभः ‘फिल्म्‌फेर्-अत्युत्तम-नट-प्रशस्तिं प्राप्नोत् । अस्मिन् चित्रे विनोद्खन्ना रिषिकपूर् इत्येताभ्यां सह तृतीयनायकस्य ‘अन्तोणि गोन्साल्विस्’ इत्यस्य पात्रे अमिताभः अभिनीतवान् । १९७८तमं वर्षं तस्य वृत्तिजीवने एव किरीटप्रायम् इति वक्तुं शक्यते । यतो हि तस्मिन् वर्षे धनार्जने अतिसमर्थेषु चतुर्षु चित्रेष्वपि अमिताभः अनटत् । कस्मे वादे चित्रे अमितस्य शङ्करस्य च पात्रे तथा डान् चित्रे भूगतप्रभोः तत्सदृशदर्शनस्य विजयस्य च पात्रे नटनेन द्विपात्रनटने अनेन प्रत्यागतम् ।

'त्रिशूल्' तथा 'मुखद्दर् का सिकन्दर्' चित्रयोः अभिनयः विमर्शकैः अवधानार्हां प्रशंसां प्राप्य फिल्म्‌फेर्-अत्युत्तम-नट-प्रशस्तिम् अमिताभाय समानयत् । तथैव फिल्म्‌फेर्-अत्युत्तम-नट-प्रशस्त्यै अनेकानि नामकरनानि समार्जयत् । अस्मिन् घट्टे वृत्तिजीवने अमिताभेन समार्जितम् अभूतपूर्वं यशः आधृत्य तं फेञ्च्-निर्देशकः फ्राम्कोयिस् ट्रफौट् इत्ययं “वन्-म्यान्-इण्डस्ट्रि”(One man industry) इति अघोषयत् । 

१९७९तमे वर्षे प्रथमवारम् अमिताभस्य सङ्गीतध्वनेः उपयोगाय आवश्यकता आपतिता । 'मिस्टर् नट्वरलाल्' चित्रे नायक्या रेखा इत्येतया सह अभिनीय तेन स्वध्वनेः सङ्गीतार्थम् उपयोगः कृतः । अस्य चित्रस्य निर्वहणेन सः फिल्म्‌फेर्-अत्युत्तम-नट-प्रशस्त्यै तथा फिल्म्‌फेर्-अत्युत्तम-पुरुष-पृष्ठभूमिका-गायन-प्रशस्त्यै च नामकरणं समार्जयत् ।

१९७९तमे वर्षे कालापत्थर् चित्रस्य अभिनयार्थं अत्युत्तम-नट-प्रशस्त्यै तथा १९८०तमे वर्षे राज्‌खोसला निर्देशनस्य 'दोस्ताना' चित्रस्य अत्युत्तमाभिनयार्थं पुनः नामकरणं प्राप्नोत् बच्चनः । 'दोस्ताना' इति चित्रे शत्रुघ्नसिन्हा तथा जीनत् अमान् इत्येताभ्यां सह बच्चनेनाभिनीतम् । 

१९८०तमे वर्षे 'दोस्ताना' इत्येतत् चित्रम् आर्थिकदृष्ट्या महत् लाभकरं चलनचित्रं वर्तते । 

१९८१तमे वर्षे पत्न्या जयया सह यश्‌चोप्रा इत्यस्य प्रेमकथानके 'सिल्‌सिला' इति चित्रे अमिताभः अनटत् । एतन्मध्ये नटीं रेखां सः प्रीणयति इति मिथ्या प्रचारः अपि आसीत् । अस्मिन्नवधौ प्रदर्शितेषु अन्येषु चित्रेषु राम् 'बलराम्'(१९८०) 'शान्'(१९८०) 'लावारिस्'(१९८१) तथा 'शक्ति'(१९८२) इत्येतेषु नटनेन अमिताभः ‘बालिवुड्’ क्षेत्रस्य सुविख्यातेन दिलीपकुमारेण सह तुलनां प्राप्तवान् । अमिताभः तस्य कालस्य महान् तथा अनर्घः नटः इत्यत्र न कोऽपि सन्देहः ।

१९८४तमे वर्षे नटनात् तात्कालिकं विरामं प्राप्य अमिताभः दीर्घकालस्य कुटुम्बमित्रेण राजीवगान्धी इत्येतस्य साहाय्येन राजकीयक्षेत्रं प्रविश्य स्वल्पकालं सक्रियः आसीत् । सार्वत्रिकनिर्वाचन-इतिहासे एव जयस्य इतिहासः पुनरपि तदा निर्मितः अभवत् यदा अमिताभः अलहाबाद् लोकसभाक्षेत्रे उत्तरप्रदेशस्य प्राक्तनमुखमन्त्रिणः एच्.एन्.बहुगुण इत्येतस्य विरुद्धं स्पर्धित्वा जयं प्राप्नोत् । उल्लेखार्हात् (आहत्य मतदानस्य ६८.२%) अन्तरात् प्राप्तः अयं विजयः अविस्मरणीयः । परं बच्चनस्य राजकीयवृत्तिजीवनं स्वल्पकालमात्रमासीत् । वर्षत्रयानन्तरं सम्पूर्णं राजकीयक्षेत्रं मलिनकूपः इति विनिन्द्य तस्मात् निवृत्तिः प्राप्ता तेन । “बोफोर्स्-कोलाहले” बच्चनः तस्य सहोदरश्च संलग्नौ स्तः इति कस्याश्चित् पत्रिकायाः इतिवृत्तस्य प्रकटनस्य पश्चात् राजकीयनिवृत्तिः प्राप्ता एनेन । तस्याः पत्रिकायाः विरुद्धं न्यायालयं गन्तुमपि निर्धारितवान् । क्रमशः विचारणं यदा प्रवृत्तं तदा बच्चनस्य पात्रं तत्र न वर्तते इत्येतन्निरूपितम् ।

एतन्मध्ये अमिताभस्य ‘ए बि सि एल्’ इत्याख्या संस्था यदा अतिदरिद्रतावशाम् आप्नोत् तदा तत्रत्यम् आर्थिकं सङ्कष्टं समीकर्तुं तस्य पुरातनसुहृद् अमरसिङ्ग् साहाय्यमकरोत् । तस्मात् बच्चनः अमरसिंहस्य समाजवादिपक्षं प्रोत्साहयितुमारब्धवान् । जयाबच्चनः न केवलं समाजवादिपक्षं प्राविशत् अपि तु राज्यसभायाः सदस्यत्वम् अपि अवाप्नोत् ।

राजकीयप्रचारः तथा विज्ञापिकादिकमपि योजयित्वा इतरेषु राजकीयविचारेषु समाजवादिपक्षस्य कार्येषु सक्रियं भागं स्वीकर्तुं बच्चनः अनुवर्तितवान् । एतानि कार्याणि पुनः तं सङ्कष्टे अपातयन् । स्वयं कृषकः इति अभिप्रायः प्रकटितः इति कृत्वा न्यायालयं प्रति अवास्तवविधिपत्राणि समार्पयत् इति च आरोपस्य आधारेण पुनः न्यायालयस्य साक्षिस्थानं गन्तव्यम् आपतितम् ।
एतन्मध्ये अमिताभः अभिनयवृत्तिजीवनस्य उत्तुङ्गे यदा आसीत् तदा स्टार् डस्ट् तथा इतराभिः काभिश्चित् पत्रिकाभिः १५ वर्षाणां पत्रिकानिषेधं प्राप्तवान् । अस्य प्रतीकाररूपेण बच्चनेन नट्येषु चलच्चित्रेषु चित्रीकरणस्य आरम्भे पत्रिकाप्रतिनिधीनां प्रवेशं निषिद्धवान् आसीत् इति श्रूयते । एषा पद्धतिः १९८९तमवर्षपर्यन्तमपि चालने आसीदित्यपि श्रूयते ।

१९८८तमे वर्षे षहेन् षा इति चित्रस्य शीर्षिकापात्रे नटनद्वारा बच्चनः चित्ररङ्गं पुनरागतः । बच्चनस्य प्रत्यागमनस्य प्रचारद्वारा चित्रमिदं धनार्जने समर्थमभूत् । किन्तु अस्य यशसः परं विमोचितानि प्रदर्शितानि च चित्राणि सर्वाणि धनार्जने सर्वथा असमर्थानि इति कृत्वा तस्य तारापट्टस्य वर्चसि ह्रासः सञ्जातः । १९९१तमस्य यशस्वि चित्रं “हम्” पराजयस्य प्रवृत्तिपरिवर्तकत्वेन अभात् चिदपि तस्य इतराणां चित्राणां धनार्जने पराजयस्य कारणतः यशसः क्षणाः अल्पकालमात्रमतिष्ठन् । अत्र गमनार्हो विचारो नाम १९९०तमे वर्षे “अग्निपथ्” इत्यस्मिन् चित्रे निरूढस्य पात्रस्य कृते द्वितीयवारं राष्ट्रिय-चलनचित्र-प्रशस्तिः तेन आसादिता । तत्र तस्य पात्रं भूगत-दुष्ट-प्रपञ्चस्य अधिपतेः आसीत् । अग्रे कानिचन वर्षाणि यावत् अमिताभस्य चलच्चित्रलोके अदर्शनम् अधुनैव सम्भवति इति सर्वैरपि चिन्तितम् ।

१९९२तमे वर्षे खुदा गवाह् चित्रस्य प्रदर्शनस्य पश्चात् पञ्चवर्षाणि यावत् बच्चनः चित्रेषु न दृष्टः एव । विलम्बेन निर्मितम् इन्सानियत् चित्रं यद्यपि १९९४तमे वर्षे प्रदर्शनाय वुमुक्तं तथापि धनार्जने सम्पूर्णतया असफलं जातम् ।

	
२०००तमे वर्षे ब्रिटिष् दृरवीक्षणस्य कार्यक्रमस्य हू वाण्ट् टु बि मिलियनेर्? इत्यस्य भारतीयं रूपान्तरम् अमिताभः सञ्चालितवान् । अस्य कार्यक्रमस्य नाम कौन् बनेगा क्रोर्‌पति इत्यासीत् । अस्य रूपान्तरं कृतवन्तः अन्ये अनेके देशाः एतत्सदृशं नाम एव अरक्षन् । अयं कार्यक्रमः अभूतपूर्वं यशः समार्जयत् । २०००तमस्य वर्षस्य नवेम्बर्-मासे केनरा ब्याङ्क् इत्येतस्य वैधं व्यवहारं प्रतिस्वीकृतिद्वारा समापयत् । 

बच्चनः पूर्वोक्तं 'कौन् बनेगा क्रोर्‌पति' इत्याख्यं कार्यक्रमं २००५ नवम्बर्-मासपर्यन्तमपि सञ्चालितवान् । एतेन यशः सम्पाद्य जनप्रियतां चित्ररङ्गं प्रत्यागन्तुं वेदिकां च समार्जयत् एषः । २००९तमस्य आस्कर् इत्यस्याः प्रशस्तेः विजेतस्य चित्रस्य स्लं डाग् मिलियनेर् हू वाण्ट् टु बि मिलियनेर् कार्यक्रमस्य स्पर्धायां ‘जञ्जीर्’ इति चित्रस्य नायकः कः? इत्यस्य प्रथमस्य प्रश्नस्य ‘अमिताभः वच्चनः’ इत्येतदेव अतिसमीचीनमुत्तरमासीत् । चित्रे फेरोज् अब्बास् खान् अमिताभस्य पात्रं निरूढवानासीत् । स्पर्धायाः निरूपकत्वेन अनिल् कपूर् अनटत् । एवम् अमिताभः बच्चनः इत्येषः भारतीयचलनचित्रस्य इतिहासे प्रख्यातः आसीत् ।
					




#Article 83: चन्द्रशेखर वेङ्कटरामन् (341 words)


चन्द्रशेखर वेङ्कटरामन् (तमिळ् சந்திரசேகர வெங்கடராமன்) (जीवितकालः - क्रि.श. १८८८तः १९७०पर्यन्तम्) कश्चन प्रख्यातः भारतीयः भौतशास्त्रज्ञः । १९३० तमे वर्षे तेन नोबेल्पुरस्कारः प्राप्तः । एशियाखण्डे एव नोबेल्-पुरस्कारं प्राप्तवान् प्रथमः विज्ञानी अयम् । पारदर्शकवस्तुनः द्वारा प्रकाशः यदा सञ्चरति तदा व्याकुञ्चितस्य प्रकाशस्य तरङ्गदैर्घ्यं परिवर्त्यते इत्येतत् 'रामन्-परिणामः' इति कथ्यते । एतस्य संशोधनाय एव तेन नोबेल्पुरस्कारः प्राप्तः ।
तस्‍य जन्‍म दक्षिणभारतस्‍य तिरुचिरापल्‍लीनामके स्‍थाने अभवत्‌। अध्ययनस्य पश्चात् एषः राजकीयवित्तविभागे कार्यम् अकरोत्‌। आशुतोष मुखोपाध्‍यायः तं कोलकत्ताम्‌ अनयत्‌। प्रकाशस्य प्रकीर्णविषये उत्कृष्टकार्यनिमित्तं क्रि.श. १९३०तमे वर्षे श्रेष्ठतमः नोबेल्पुरस्कारः प्रदत्तः । अस्य परिशोधनं तु अस्य नाम्नि एव रामन् प्रभावः इत्येव प्रसिद्धम् अस्ति । तस्य 'रामन् प्रक्रियायाः' शोधनदिनाङ्क: (फ़ेब्रवरिमासस्य २८तमदिनम्)। अद्य भारते 'राष्ट्रियविज्ञानदिनम्' इति आचरन्ति z

वेङ्कटरामः तमिलुनाडुराज्ये तिरुचिरपळ्ळिमण्डले तिरुवानैकावल्प्रदेशे जातः । पिता आर् चन्द्रशेखर ऐय्यर्, माता पार्वती अम्माळ् च । पञ्चसु पुत्रेषु अयं द्वितीयः । लघुवयसि एव रामः आन्ध्रप्रदेशस्य विशाखपत्तनं प्रति गतः । तत्र सैण्ट् अलोशियस् आङ्ग्लो-इण्डियन् प्रौढशालायाम् अपठत् । तस्य पिता मदरासुनगरस्थे प्रेसिडेन्सीमहाविद्यालये गणित-भौतशास्त्रयोः प्राध्यापकः आसीत् । रामः स्वस्य त्रयोदश्यां वयसि १९०२ तमे वर्षे इमं महाविद्यालयं प्राविशत् । १९०४ तमे वर्षे बि ए परीक्षां प्रथमस्थानेन उत्तीर्णः, भौतशास्त्रे स्वर्णपदकं प्राप्तवान् च । १९०७ तमे वर्षे तेन अत्युत्तमैः अङ्कैः स्नातकोत्तरपदवी प्राप्ता ।
 

चन्द्रशेखरवेङ्कटरामन् वर्यस्य प्रारम्भिकी शिक्षा वाल्टियत् इति स्थाने अभवत् । तस्य द्वादशे वयसि प्रवेशपरीक्षाम् उत्तीर्य भौतिकविज्ञानविषये स्नातकपदवीं तथा स्नातकोत्तरपदवीं च मद्रासुनगरस्य प्रेसिडेन्सीमहाविद्यालयतः प्राप्तवान् । अस्मिन् महाविद्यालये क्रि.श. १९०२तमे वर्षे प्रविश्य क्रि.श. १९०४तमे वर्षे सम्पूर्णविद्यालयस्य प्रथमस्थानं प्राप्तवान् । एषः क्रि.श. १९०६तमे वर्षे मद्रासुविश्वविद्यालयतः गणितविषये प्रथमश्रेण्यां स्नातकोत्तरपदवीं प्राप्तवान् ।  पश्चात् वेङ्कटरामन्वर्यः कोलकत्तायाः भारतीयवित्तीयनिगमे सहायकवित्तीयव्यवस्थापकत्वेन उद्योगम् आरब्धवान् । किन्तु अस्मिन् कार्ये अस्य रुचिः नासीत् । अतः क्रि.श.१९१७तमे वर्षे सर्वकारीयसेवार्थं त्यागपत्रं दत्तवान् । पश्चात् इण्डियन् असोसियेषन् फार् कल्टिवेशन् आफ् सैन्स् इति स्वीयं भौतिकविज्ञानसङ्घटनम् आरब्धवान् । शोधकर्ये अस्य अतीव रुचिं दृष्ट्वा कोलकत्ताविश्वविद्यालयस्य कुलपति: सर् आशुतोषमुखर्जी भौतिकविज्ञानस्य विभागप्रमुखत्वेन कार्यं कर्तुम् अनुरोधं कृतवान् । भौतिकविज्ञानस्य संशोधस्य फलरूपेण कलकताविश्वविद्यालयात् डि.एस्सी पदवीं प्राप्तवान् । क्रि.श. १९२४तमे वर्षे फेलो आफ् रायल् सोसैटी इत्यस्य सदस्यत्वेन निर्वाचितः अभवत् । क्रि.श. १९३०तमे वर्षे रामन्प्रभावः इति अस्य संशोधनार्थं नोबेल्पारितोषिकम् इति जगतः सर्वश्रेष्ठं पुरस्कारं 
एषः क्रि.श. १९४८तमे वर्षे सेवायाः निवृत्तः रामन्शोधसंस्थानम् इति सङ्घटनं बेङ्गळूरुनगरे संस्थाप्य तत्र शोधरतः अभवत् । क्रि.श. १९५४तमे वर्ष् भारतसर्वकारेण भारतरत्नम् इति प्रशस्त्या भूषितः । क्रि.श. १९५७तमे वर्षे लेनिन् शान्तिपुरस्कारः अपि अस्य कण्ठं समलङ्करॊत् ।

 




#Article 84: सुब्रह्मण्यन् चन्द्रशेखर (687 words)


सुब्रह्मण्यन् चन्द्रशेखर: भारतमूलः अमेरिकादेशे नोबेल् प्रशस्तिभाक् भौतविज्ञानी । मित्राणि सर्वे तं चन्दः इत्येव सम्बोधयन्ति स्म । क्रि.श. १९५५तमे वर्षे डा.चन्द्रः अमेरिकादेशस्य विल्लि पौलर् च मिलित्वा नोबेल् प्रशस्तिभाजौ अभवताम् । विश्वस्य श्रेष्ठः विज्ञानलेखकः आर्थर् मिल्लर् एषः कश्चित् खभौतविज्ञानि नक्षत्रलोकस्य अनभिषिक्तसाम्राट् इति अवदत् ।

एषः नोबेल् प्रशस्तिभाजः सर्.चन्द्रशेखर वेङ्कटारमन्वर्यस्य निकटबन्धुः । अस्य जननं क्रि.श.१९१०तमवर्षस्य अक्टोबर् मासस्य १९तमे दिने प्राचीनभारतस्य लाहोर् नगरे अभवत् । अस्य पिता सुब्रह्मण्य अय्यरः भारतीयरेल्वे विभागे आडिटर् जनरल् इति कार्यं करोति स्म । पिता उद्योगस्थानान्तरेण चेन्नैनगरम् आगतवान् । अतः चन्द्रशेखरः तत्र ट्रिप्लिकेन् हिन्दुप्रौढशालां प्रविष्टवान् । एषः गणितविशये अप्रतिमप्रतिभासम्पनः अनुपमस्मरणशक्तिमान् आसीत् । एतयोः रत्नप्राया विज्ञानविषेये अतीव श्रद्धा । क्रि.शा. १९२५तमे वर्षे प्रेसिडेन्सी महाविद्यालयं प्रविश्य भौतविज्ञानम् ऐच्छिकविषयत्वेन स्वीकृतवान् । क्रि.श. १९३०तमे वर्षे पदवीधरः अभवत् । आङ्ग्लभाषासाहित्ये तत्रापि विक्टोरियन् कालस्य आङ्ग्लसाहित्ये विशेषतया आसक्तः आसीत् । तत्कालीनानाम् आङ्ग्लभाषापण्डितानां साहित्यं सम्यक् अध्ययनं कृतवान् । स्वस्य वैज्ञानिके साहित्ये अपि आङ्ग्लभाषासाहित्यसौन्दर्यं रक्षितवान् । तदानीन्तनकालस्य नोबेल् प्रशस्तिभाक् ह्यान्स् बेत् एवम् अवदत्... चन्द्रवर्यस्य लेखनं नाम विक्टोरियन् युगस्य सौन्दर्याणां राशिः अस्य लेखने सम्मिलितं भवति  इति । चन्द्रशेखरः छात्रत्वकाले एव वैज्ञानिकविषान् आधृत्य प्रबन्धान् रचितवान् ।

मद्रास् नगरस्य प्रेसिडेन्सीमहाविद्यालये अध्ययनकाले एकवर्षनिम्नकक्ष्यायां पठन्त्याः शोधच्छात्रायाः ललिता दोरेस्वामी इत्यस्याः परिचय अभवत् । तयोः कालक्रमेण अनुरागः उत्पन्नः पतिपत्नी अभवताम् ।

क्रि.श. १९३०तमवर्षस्य मे मासे इङ्ग्लेण्डनगरे संशोधनं कर्तुं भारतसर्वकारः विद्यार्थिप्रोत्साहधनम् अयच्छत् । अनेन चन्द्रशेखरः केम्ब्रिज़् विश्वविद्यालये शोधच्छात्रः अभवत् । क्रि.श. १९३१तमे वर्षे मे मासे लण्डन् नगरस्य रायल् अस्ट्रानामिकल् सोसैटि इति सङ्घटनस्य सभायां भागी सन् स्वप्रबन्धान् प्रस्तुतवान् । क्रि.श. १९३१तमे वर्षे जुलै मासे जर्मनदेशं गत्वा वर्गनियमः, क्वाण्टम् मेक्यानिक्स्, नक्षत्राध्ययनम्, इत्यादिषु विषयेषु संशोधनं कृतवान् । क्रि.श. १९३२तमे वर्षे जनवरि मासे आदर्शद्युतिगोलः इति विषयमधिकृत्य रायल् अस्ट्रनामिकल् सोसैटि इत्यत्र विशिष्टं प्रबन्धं प्रस्तुत्य एडिङ्ग्टन् तथा मिल्स् इत्यादीनां प्रशंसां प्राप्तवान् । बेल्जियं लीड् विश्वविद्यानिलये खभौतशास्त्रे कृताः उपन्यासमालिका ग्रन्थरुपम् आप्नोत् ।

क्रि.श. १९३४तमे वर्षे श्वेतकुब्जानि (White Dwarf) तथा मितराशिः अधिकृत्य रशियादेशस्य पुल्कोवो ग्रहवीक्षणालये उपन्यस्तवान् । श्वेतकुब्जानां विषये तस्य संशोधनं क्रि.श. १९४४तमवर्षात् परं पुरस्कारम् आनयत् । नक्षत्रेषु विद्यमनस्य जलजनकस्य यथा यथा क्षीयते तथा तथा तेषां स्थानेषु १:४अनुपातेन हीलियं रूपमाप्नोति । तेन नक्षत्राणि क्षीनानि भवन्ति । अतः द्रव्यराशिः स्थिरा भूत्वा सान्द्रता वर्धिता नक्षत्रे निपीडनम् अधिकं भवति । अस्य फलरूपेण परमाणोः व्यवस्था बलहीना सती एलेक्ट्रान् तथा न्यूक्लियस् पृथक् भवतः । एषा प्रक्रिया अनुवृत्य श्वेतकुब्जानि निरूपितानि भवन्ति । नक्षत्राणां भारः वृद्धः चेदपि तदन्तर्गता द्रव्यराशिः परिमितौ भवति । तादृशं नक्षत्रं सूर्यस्य १.४४तः अधिकं न भवति इति चन्द्रशेखः प्रतिपादितवान् । यस्य कस्यापि नक्षत्रस्य द्रव्यराशिः एतस्मान् नियमात् अधिकं भवति चेत् तदा विस्फोटनेन किञ्चिद्भागं विसृज्य श्वेतकुब्जं भवति इति चन्द्रशेखरस्य विवरणम् । किन्तु कस्यचिदपि श्वेतकुब्जस्य द्रव्यराशिः १.४४मानात् अधिका न भवति । एतां मितिम् एव चन्द्रशेखरस्य मितिः इति कथयन्ति । चन्द्रशेखरः एतां मिति गणितस्य सङ्गणनेन एव आविष्कृतवान् । अनया मित्याः अधिकं विकस्यमानानि नक्षत्राणि अणुप्रस्फोटाः इव् विस्फोट्य सूपर् नोवा इति जाज्वल्यमनं नक्षत्रं भवति ।

अमेरिकासंयुक्तसंस्थानस्य विस्कान्सिन् इति स्थानस्य येर्क्स् बाह्याकाशनिरीक्षणालये संशोधनसंयोजकत्वेन उद्योगं कर्तुं चन्द्रशेखरः आमन्त्रणम् आप्नोत् । येर्क्स् इति स्थाने विश्वस्य अत्यन्तं बृहत् वक्रीभवदूरदर्शकम् आसीत् । अत्र चन्द्रशेखरः बहुशः २७ वर्षाणि सेवामकरोत् । अध्यपकवृत्त्या सह शोधकार्यमपि समचलत् । क्रि.श. १९३८तमवर्षात्  १९४४पर्यन्तं नक्षात्रचलनशास्त्रम्, चलनघर्षणम् इत्यादीनां विषये संशोधनम् अकरोत् । क्रि.श. १९४३तमे वर्षे तत्रैव प्राध्यापकः अभवत् । क्रि.श. १९५२तमवर्षतह् ७१पर्यन्तम् आस्ट्रोफिसिकल् जर्नल् इत्यस्याः पत्रिकायाः व्यवस्थापाकः सम्पादकः अभवत् ।

क्रि.श.१९४२तमवर्षम् - केम्ब्रिज़् विश्वविद्यालयस्य डि.एस्सि.पदवी ।

क्रि.श.१९४४ तमवर्षम् - इङ्ग्लेण्डस्य रायल् सोसैटि सदस्यत्वेन चयनम् ।

क्रि.श.१९५० तमवर्षम्  -  प्रकाशितस्य रेडियो एक्टिव् ट्रन्स्फर् इति ग्रन्थस्य केम्बिज़् विश्वविद्यालयस्य अत्युन्नतप्रशस्तिः आडम् पुरस्कारः ।

क्रि.श.१९५२ तमवर्षम् - ब्रूस् पदकप्राप्तिः ।

क्रि.श.१९५२ तमवर्षम् - रायल् अस्ट्रानामिकल् सोसैटि स्वर्णपदकप्राप्तिः ।

क्रि.श.१९५७ तमवर्षम्- रम्फर्ड् प्रशस्तिः ।

क्रि.श.१९६८ तमवर्षम्  - भारतसर्वकारस्य पद्मभूषणप्रशस्तिः

क्रि.श. १९८२ - श्वेतकुब्जसंशोधनार्थं नोबेल् प्रशस्तिः

अस्मिन् समये डा.चन्द्रशेखरः नक्षत्राणां संरचनस्य विषये नूतनविषयान् उपहृतवान् । तस्य परिपूर्णतायाः दर्शनार्थं २०अधिकाः ग्रन्थाः शताधिकाः संशोधनलेखाः साक्षिणः भवन्ति । अत्यन्तम् उच्चस्तरस्य शिक्षकचन्द्रशेखस्य शिष्यसोमः अपि यशसि अग्रगण्याः अभवन् । डा.चन्द्रशेखरस्य मार्गदर्शनेन ५०अधिकाः छात्राः डाक्टरेट् पदवीम् आप्नुवन् । येर्क्स् संशोधनालये चन्द्रस्य शिष्यौ ली तथा याङ्ग् अग्रे क्रि.श. १९५७तमे वर्षे गुरोः पूर्वमेव कणभौतविज्ञाने संशोध्य नोबेल् प्रशस्तिं प्राप्तवन्तौ ।

चन्द्रशेखरः प्रिन्सिपल्स् आफ् स्टेलार् डैनामिक्स् इति विशिष्टं ग्रन्थं लोकार्पितवान् । क्रि.श. १९८०तमे वर्षे स्वेच्छया कार्यात् विरतः संशोधनम् अन्ववर्तत । साहित्यासक्तः चन्द्रशेखरः अमेरिकादेशे वसन् अपि दक्षिणभारतस्य कच्छां कञ्चुकं च धरति स्म । कर्णाटकसङ्गीतं केवलं शृणोति स्म । ६५वर्षाणि निरन्तरं संशोधनरतः ड. सुब्रह्मण्यन् चन्द्रशेखरः क्रि.श. १९५५तमवर्षस्य अगस्ट् मासस्य २१तमदिनाङ्के रात्रौ इहलोकं त्यक्तवान् ।

क्रि.श. २०१०तमवर्षस्य अक्टोबर् मासस्य १९तमदिने विश्वे सर्वत्र सुब्रह्मण्यन् चन्द्रशेखरस्य १००तमः जन्मोत्सवः आचरितः । अनेकवारं चन्द्रशेखरः स्वजन्मदिनाङ्कसस्य विषये मित्रैः सह विस्मयं वितीर्णवान् । १९.१०.१९१० इति दिनाङ्कः अस्य जन्मदिनं भवति । क्रि.श. १९८३तमे वर्षे तस्य जन्मदिनोत्सवस्य उपायनरूपेण नोबेल् प्रशस्तिः प्रदत्ता ।




#Article 85: नेताजी सुभाषचन्द्र बोस (428 words)


सुभाष चन्द्र बसु (१८९७-१९४५) विश्वस्मिन् नेताजी इति प्रसिद्धः । सः भारतभूमेः स्वतन्त्र्यार्थं प्राणार्पणम् अकरोत् । सः बाल्यकालादेव बुद्धिमान् आसीत् । तस्य पिता आङ्लशासनस्य समर्थकः परन्तु सुभाषः बाल्यकालादेव आङ्लशासनस्य विरोधी आसीत् । सुभाषः स्वतन्त्रभारतम् ऐच्छत्। 
द्वितीयविश्वयुद्धे सः आज़ादहिन्दफ़ौज़स्य सर्वोच्चसेनापतिः आसीत् । रासबिहारीबोसः सुभाषाय दक्षिणोत्तरजम्बुद्वीपस्य क्रान्तेः नेतृत्वम् अयच्छत् । सः दक्षिणोत्तरजम्बुद्वीपात् पूर्वोत्तरभारते आङ्गलराज्ये आक्रमणम् अकरोत् । 

ओड़िशायाः प्रसिद्धनगरे कटके सः अजायत ।  तस्य पितुः नाम जानकीनाथः, मातुः नाम प्रभावती च ।
 
सुभाषस्य कुटुम्बः विशालः आसीत् । कुटुम्बे १४ बालाः आसन् । पञ्चमे वयसि सुभाषः कटकस्य आङ्गलभाषाविद्यालयं प्राविशत् । विद्यालयस्य दृष्टिः आङ्गलजनानां दृष्टिः इव एव आसीत् । तत्र विद्यमानं जातीयभेदभावं सः न असहत । तत्र आङ्गलबालकानां स्थानं भारतस्य बालकानां स्थानस्य अपेक्षया उच्चतरम् आसीत् । ततः सः भारतीयविद्यालयं प्राविशत् । विद्यालयस्य प्रधानः बेनीमाधवः सुभाषस्य मनसि महान्तं प्रभावम् अजनयत् ।

१५ वयसि सुभाषः विवेकानन्दस्य विचारधारातः प्रभावितः जातः । १६ वयसि सुभाषः मैट्रिक्-परीक्षाम् उत्तीर्णः । तत्पश्चात् सः आङ्ग्लदेशे आई०सी०एस्० परीक्षामपि उत्तीर्णवान् ।

चित्तरञ्जनदासः सुभाषस्य राजनीतेः गुरुः आसीत्। १९२३ तमे वर्षे सः अखिलभारतीययुवाकाङ्ग्रेसस्य अध्यक्षः अभवत् । सः देशबन्धुनामकस्य समाचारपत्रस्य सम्पादकः अपि अभवत् । १९२५ तमे वर्षे सः कारागृहवासी जातः ।
१९२७ तमे वर्षे सः कारागृहात् मुक्तः जातः । अग्रिमेषु वर्षेषु सः फिरङ्गद्वीपे अभ्रमत् । १९३८ तमे वर्षे सः काङ्ग्रेसपक्षस्य अध्यक्षः अभवत् । 

युद्धेनैव भारतस्य स्वातन्त्र्यप्राप्तिः इत्येषा आसीत् तस्य विचारधारा । अतः महात्मा गान्धिः तस्य विरोधी आसीत् । गान्धेः विरोधेन सः काङ्ग्रेसपक्षस्य अध्यक्षपदात् निष्क्रान्तः जातः । सः समतावादी प्रभावशाली क्रान्तिकारी नेता च आसीत् ।

सुभाषः इव अन्ये अपि समकालीननेतारः रूसस्य क्रान्तिविचारात् प्रभाविताः अभवन् ।

तत्पश्चात् सः फ़ार्वर्ड ब्लाकस्य नाम्नः राजनैतिकदलम् अघटयत् । द्वितीयविश्वयुद्धे सः अफ़गानिस्तानस्य रूसस्य च मार्गेण जर्मनीम् अगच्छत्। तत्र सः हिटलरस्य समर्थनात् भारतस्य युद्धबद्धान् सेना अघटयत् । शनैः शनैः सः आनुभवत् जर्मन्याः युद्धे विजयः न सम्भवति। तदा एव सः रासबिहारी बोसस्य संदेशम् लभते। संदेशः दक्षिणोत्तर जम्बुद्वीपस्य भारतस्य स्वातन्त्र्यान्दोलनस्य नेतृत्वस्य प्रार्थना आसीत्। तत्पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापानं अगच्छत्। तत्र जापानस्य प्रधानमन्त्री सेनापति तोजो सुभाषेण आकर्षणं अकरोति। तोजो सुभाषस्य मित्र: अभवत्। तत्पश्चात् सः सिंगापोरम् अगच्छत्। तत्र सः आज़ादहिन्दफ़ौज़स्य भारतस्य स्वातन्त्र्यसंघस्य च नेता अभवत्।

सुभाषः अति प्रभावशाली नेता आसीत्। अतः सर्वेषाम् जनानाम् सेनाम् प्रति असङ्गच्छत्। सुभाषः तेन अवदत्- यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।

जापानस्य सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरोत्। जापानम् अण्डमान-निकोबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत्पश्चात् इदम् स्वतन्त्रभारतस्य प्रथम राज्य अभवत्।
सुभाषस्य सेनायाः अधुना मणिपुरस्य कोहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सेना आज़ादहिन्दफ़ौज़म् जापानस्य सेनाम् जयति। तत्पश्चात अमेरीका जापाने अण्वस्त्रस्य प्रयोगम् अकरोत्। अतः जापानम् स्व पराजयम् आदत्ते।

परन्तु आज़ादहिन्दफ़ौज़ः स्व पराजयम् आदत्ते! सुभाषः विमानात् रूसम् गमतुम् अइच्छत्। परन्तु विमानदुर्घाटनया स्वर्गवासं अभवत्। अतः अधुना आज़ादहिन्दफ़ौज़ः अपि समर्पणम् अकरोत्। परन्तु अखिलभारतस्य विरोधेण अङ्गलसरकार आज़ादहिन्दफ़ौज़स्य सैनिकाः मुक्तम अकरोत्।

भारतस्य स्वाधीनतायां सुभाषस्य योगदानम् अद्वितीयम् अस्ति । केचित् बुधाः अवदन् यत् सुभाषस्य भयात् एव भारतं स्वाधीनतां प्राप्नोत् इति ।




#Article 86: श्रीनगरम् (190 words)


श्रीनगरं भारतस्य जम्मूकाश्मीरराज्यस्य ग्रीष्मकालीना राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । राज्ञा प्रवरसेनेन २००० वर्षेभ्यः पूर्वं  श्रीनगरं संस्थापितम्‌ । श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति । जम्मूतः  बनिहाल् मार्गेण सुरङ्गद्वारा श्रीनगरं प्रति आगन्तव्यं भवति । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं झेलम्नदीतीरे स्थितं सुन्दरं नगरम् । अस्मिन् नगरे अनेकानि सरोवराणि सन्ति । तेषु दालसरोवरं वूलार् सरोवरं च मधुरजलयुक्ते स्तः । अनयोः  सरोवरयोः  ‘शिकार’नामिकासु  नौकासु विहारं  कुर्वन्तः आदिनं स्थातुं शक्यते । जले प्लवमाना नौका वासगृहमिव सुव्यवस्थिता भवति । भोजनशयनव्यवस्थापि एतासु नौकासु भाटकेन लभ्यते ।
काश्मीरं आगताः जनाः एतासु नौकासु वासं कृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्रत्यासु नौकासु लघु उद्यानानि सन्ति । दालसरोवरे द्वीपाः  सन्ति । तत्र विश्रान्तिः स्वीकर्तुं शक्या अस्ति । द्वीपे पादचारणम् अपि कर्तुं शक्यते । द्विचक्रिकायानेनापि सञ्चारः कर्तुं शक्यते ।
श्रीनगरे अनेकानि वीक्षकस्थानानि सन्ति । अत्र दर्शनीयानि स्थलानि नाम काष्ठनिर्मितानि मुस्लिं प्रार्थनामन्दिराणि, शङ्कराचार्यपर्वतः, मोगल् उद्यानं, निशात बाग्,  शालिमारबाग नसीमाबाग् हजरतबाल् प्रार्थनामन्दिरम् च ।

चण्डीगढ –देहलीतः श्रीनगराय विमानसम्पर्कः अस्ति । विमाननिस्थानं १३ कि.मी दूरे अस्ति ।

देहलीतः सुरङ्गमार्गतः जम्मूपर्यन्तम् आगन्तव्यम् । जम्मुतावीनिस्थानतः वाहनेन गन्तव्यं भवति । 

पठानकोटतः २५० कि.मी,  देहलीतः ८८० कि.मी, चण्डीगढअमृतसरनगरेभ्यः वाहन सम्पर्कः अस्ति । वसत्याः कृते प्लवमाननौकागृहाणि, उपाहारवसतिगृहाणि च सन्ति ।




#Article 87: जम्मू (230 words)


जम्मू भारतस्य जम्मूकाश्‍मीरस्य द्वितीय राजधानी अस्‍ति । जम्मूकाश्मीरराज्यस्य द्वितीयं महत् पत्तनमेतत् । पर्वतप्रदेशे स्थितम् अतीव सुन्दरं स्थानम् एतत् अस्ति । मार्गे पर्वताः, शिखराणि, प्रपाताः, नद्यः, नालाः च मनमोहकानि सन्ति । हिन्दुजनानां देवालयाः अत्र अधिकसङ्ख्यया सन्ति । श्रेष्ठं प्रवासिस्थानम् एतत्  ।
	जम्मूनगरस्य मध्यभागे रघुनाथमन्दिरमस्ति । क्रिस्ताब्दे १८३५ तमे वर्षे निर्मितम् एतत् मन्दिरम् अतीवविशालम् अस्ति । गर्भगृहे सीतारामचन्द्रयोः मूर्ती स्तः । भूमौ लक्षशः सालिग्रामाः सन्ति । राजा रणबीरसिङ्गः एतत् निर्मितवान् ।
	रणवीरेश्वरमन्दिरे षट्पादमितानि ११ बाणलिङ्गानि, ११ स्फटिकलिङ्गानि च सन्ति । सहस्रशः शिवलिङ्गानि सन्ति । क्रिस्ताब्दे १८८३ तमे वर्षे अस्य निर्माणमभवत् । गान्धिभवने डोग्राकलासङ्ग्रहालयः अस्ति ।  अत्र सुन्दरचित्राणां सङ्ग्रहः अस्ति । फेञ्चवास्तुशैल्या निर्मितम् अमरमहल् राजगृहं नगरात् बहिः अस्ति । अत्र अपि चित्र सङ्ग्रहालयः अस्ति ।
जम्मूतः ३५ कि.मी दूरे पर्वतप्रदेशे वैष्णोदेवीदेवालयः अतीवसुन्दरः अस्ति । जनाः अत्र समुद्ररुपेण नामस्मरणं कुर्वन्तः पर्वतारोहणाय सोपानमार्गेन गच्छन्तः भवन्ति । “जय माता की” घोषणा सर्वत्र श्रोतुं शक्या । अतीवोन्नतप्रदेशे मन्दिरमस्ति । इतः दृश्यवीक्षणम् अतीवानन्दाय भवति ।
जवाहरसुरङ्गमार्गः जम्मुतः २०० कि.मी श्रीनगरतः ९३ कि.मी दूरे अस्ति । एतस्य सुरङ्गमार्गस्य निर्माणात् गमनकालः ह्रस्वः  अभवत् ।
पहलगांव – सागरस्तरतः ५०० पाद परिमितोन्नते स्थितम् एतत् नगरम् अतीव सुन्दरम् अस्ति । अत्र लिडडार्, तथा शेषनाग नद्यौ प्रवहतः । लिड्डारप्रपाते पर्वतारोहणं कर्तुं शक्यते । वृत्ताकारकः अत्रत्यः कश्चन वाहनमार्गः १० कि.मी दीर्घः  अस्ति । पैनवृक्षैः आवृतः एषः प्रदेशः सदा स्वर्णवर्णमयः अस्ति । इतः काश्मीर-उपत्यकायाः दर्शनं कर्तुं शक्यते । जनाः अमरनाथयात्रार्थं एतेन मार्गेण गच्छन्ति । अमरनाथगुहा ४७ कि.मी दूरे अस्ति।

श्रीनगरतः लोकयानानि सन्ति । श्रीनगरतः ९५ कि.मी




#Article 88: शिमला (176 words)


शिमला हिमाचलप्रदेशस्‍य राजधानी अस्‍ति ।१८६४तमे वर्षे आंग्लप्रशासनेन शिमलानगरं भारते ब्रिटिशशाशनस्य ग्रीष्मकालीन राजधानी घोषिता। नगरमेतद् लोकप्रियं रमणीयं पर्यटनस्थलमस्ति। शिमलानगरं बहुधा (पर्वतानां साम्राज्ञी)इत्यापि कत्थयते।
पूर्वम् अस्य नगरस्य श्यामला इति नाम आसीत् । आङ्लाध्नां प्रशासनसमये शिम्ला ग्रीष्मकालीना राजधानी आसीत् । इदानीं हिमाचलप्रदेशस्य राजधानी शिम्ला सुन्दरं गिरिधाम इति  अतिप्रसिद्धम् अस्ति ।Queen of hills, Jewel of the orient  इति च प्रसिद्धम् अस्ति ।
सागरस्तरतः ७२६२ पादोन्नते प्रदेशे शीतलवातावरणे एतन्नगर अस्ति । अत्र बहवः विदेशीयाः आगन्तुम् इच्छन्ति । अत्र पैन् देवदारु ओक् इत्यादिवृक्षाः अतीव सुन्दराः सन्ति । प्रकृतेः सुन्दररुपं दृष्टुम् एतत् स्थलम् अतीव उत्तमम् अस्ति ।
Mall  मार्गः वाणिज्यकेन्द्रम् अस्ति । जाकुपर्वतः (८०० पादमितः) , चाडलुक् जलपातः, कुफ्रि, नालदेहरा, चैल, प्रास्टेक् हिल्स् इत्यादिस्थानानि दर्शनीयानि आकर्षकाणि स्थानानि सन्ति । जाकुपर्वततः हिमालयदर्शनम् अतीवानन्ददायकं भवति ।
चाड्लुक् सरोवरे नौकाविहारः काल्पितः अस्ति । कुफ्रिस्थाने हिमक्रीडा प्रसिद्धा अस्ति । ग्रीष्मकाले याक् प्राणिनः उपरि उपविश्य  प्रवासं कुर्वन्ति । नालदेहरास्थाने (२२ कि.मी) गाल्फ् क्रीडाङ्गणम् अस्ति । चैल् नदी पर्वतप्रपाते प्रवहति । प्रास्टेकहिल्स् (५ कि.मी) सूर्यास्तदर्शनाय, चन्द्रोदयदर्शनाय च प्रसिद्धं स्थानमस्ति ।
नालदेहराप्रदेशे क्रिकेट् क्रीडाङ्गणम् अस्ति । अत्र वस्तुसङ्ग्रहालयः अपि अस्ति । राजानः महाराजाः अङ्गलाः च अत्र क्रिकेट् क्रीडन्ति स्म ।




#Article 89: देहरादून (110 words)


उत्तराखण्डराज्ये किञ्चनमण्डलम् अस्ति देहरादूनमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति डेहराडूननगरम् । देहरादून् नगरम् उत्तराखण्डस्य राजधानी प्रवासिजनाः एतं प्रदेशं द्रष्टुं मस्सूरीप्रदेशं गन्तुं च अत्र आगच्छन्ति । अत्यन्तम् उत्तमं वीक्षणस्थानमेतदस्ति। अत्रत्य अरण्यसंशोधनाकेन्द्रं विश्वे एव प्रसिद्धम् अस्ति । सर्वे आफ् इण्डिया केन्द्रमप्यस्ति । इतः ८ कि.मी. दूरे चोरगुहा(राबर्सकेव्) इति स्थलम् अपूर्वमस्ति। एतत् स्थलम् सुप्रसिद्धं प्रवासिस्थलम् भवति। भव्यानि अरण्यानि, पर्वतप्रदेशाः,नदीतीरप्रदेशाः अस्मान् आकर्षयन्ति । अत्र विद्यमानयाः नद्यायाः वैशिष्ट्यम् अस्ति। तत् किमितिचेत्, नदीतीरे विद्यमानं जलं क्षणाभ्यन्तरे अदृश्यं भवति। किञ्चित् कालानन्तरं किञ्चित् दूरं गत्वा अनन्तरम् फेनरूपेण बहिरागच्छति।

समीपे [१४ कि.मी.] उष्णजलस्थानानि सहस्रधारा-प्रदेशे सन्ति। मालसिहरिणवनम् आकर्षणीयमस्ति ।

हरिद्वारतः ५६ कि.मी दूरे अस्ति। 

डून् एक्सप्रेस् , मसूरी  एक्सप्रेस् तः देहरादून् पर्यन्तम् गन्तुं शक्यते ।

वासार्थम् उत्तमोपहारवसतगृहणि च सन्ति ।




#Article 90: मुम्बई (1114 words)


मुम्बई () महाराष्ट्रराज्यस्य राजधानी अस्ति । एतन्नगरं भारतदेशस्य विशालं, प्रगतं च नगरम् । भारते लोकसङ्ख्यादृष्ट्या प्रथमस्थाने, पृथिव्यां द्वितीयस्थाने च वर्तते एतन्नगरम् । भारतस्य पश्चिमे, समुद्रतटे एतद् नगरं स्थितम् । अरबी-समुद्रतटे यानि नौकास्थानानि सन्ति तेषु अन्यतमं सर्वोत्कृष्टमिदम् । इदं मुम्बई महानगरं गगनस्पर्शिभवनैः आभारतम् एव अद्वितीयम् अस्ति । विश्वे २५ बृहन्नगरेषु अन्यतममिदम् । भारतदेशे वर्तमानेषु नगरेषु द्वितीयं बृहन्नगरम् । 'बोलिवुड्' नाम्ना प्रसिद्धः हिन्दी-चलच्चित्रोद्यमः इतः एव प्रवर्तते । मुम्बादेव्याः देवालयः अत्र अस्ति । अतः नगरस्य 'मुम्बापुरी' इति नाम आसीत् इति कथ्यते । आङ्गलानां प्रशासनकाले 'बॉम्बे' नाम्ना प्रख्यातम् अभवत् । लघु-’धाकटा’ कुलाबा, बृहत्-'मोठा' कुलाबा, मुम्बई, माझगाव, परळ, वरळी, माहीम इत्येतानां द्वीपानां एकत्रीकरणेन मुम्बईनगरं निर्मापितम् । इदानीं मुम्बई इति अधिकृततया नाम दत्तम् अस्ति ।

मुम्बई नगरस्य जनसङ्ख्या (२०११) १,८४,१४,२८८ अस्ति । अत्र ९८,९४,०८८ पुरुषा:, ८,५२०,२०० महिला: च सन्ति । अत्र पुं-स्त्री अनुपातः १०००-८६१ अस्ति । अत्र साक्षरता ९०.७८% अस्ति । 
मुम्बई नगरस्य जनसङ्ख्या तु इदानीं जनानां चिन्ताविषय: । अस्याः समास्यायाः निवारणार्थं कार्यरतमस्ति बृहन्मुम्बईनगरप्रशासनम् ।

टोलेमि इत्यस्य प्रवासवर्णने ‘हेप्टानेशिया’ इति यः उल्लेख: दृश्यते स: मुम्बईसम्बद्ध: इति मन्यते । अत्यन्तपुरातनानि पाषाणसाधनानि, पुरातनाः अवशेषाश्च उपलभ्यन्ते । अस्मिन् विभागे पञ्चमशतकात् आरभ्य क्रमश: आभीर-त्रैकूटक-मौर्य-चालुक्य-राष्ट्रकूट-शिलाहार-यादवराजानां च आधिपत्यमासीत् । शिलाहारराजानाम् आधिपत्ये वाळकेश्वरमन्दिरस्य स्थापना जाता इति जना: मन्यन्ते । यादवानां समनन्तरं २५ वर्षेभ्य: एव मुम्बईपरिसरे हिन्दुसाम्राज्यस्यान्त: जात: । 
कोळी इति अत्रस्था: मूलजना: आसन् । मच्छगाव इदानीन्तन माझगाव, कोळघाट इदानीन्तन कुलाबा, माण्डवी, माहीम, शीव इत्येतेषु स्थानेषु ’कोळीवाडे’ मत्स्यव्यवसायिकानां निवासस्थानानि आसन् । कोळीजनै: सह आगरी, भण्डारी, माध्यन्दिनी-ब्राह्मणजना: अत्रस्था: पुरातनजना: । यादवानां कालखण्डे अत्र मत्स्यव्यवसाय:, कृषि:, लवणोत्पादनं च प्रचलत् आसीत् । पञ्चदशे शतके अत्र गुजरात-सुलतान इत्यस्य आधिपत्यमासीत् । साष्टी द्वीपे अभवत् युद्धम् इतिहासे प्रसिद्धम् । तस्मिन् युद्धे पुर्तगालप्रशासका: अपि भागम् ऊढवन्त: । तदा षोडश-शतके मुम्बई, वसई च पुर्तगाल-आधिपत्ये निर्गते । अस्मिन् काले क्रैस्तधर्मप्रसार:, चर्च इत्येतानां वास्तूनां निर्माणं जातम् । सप्तदशशतकस्य प्रारम्भे आङ्ग्लजनानाम् आगमनमत्राभवत्, डचप्रशासकानां साहाय्येन आङ्ग्ला: मुम्बईप्रदेशं जेतुं इच्छां धृतवन्त: । एकवारं मुम्बईप्रदेशं लुण्ठितवन्त: अपि । अन्ते आङ्ग्लराजा द्वितीय चार्ल्स इत्येतस्य पुर्तगाल-राजकन्यया केथरिन इत्यनया सह विवाह: जात: । तस्मिन् प्रसङ्गे उपहारत्वेन मुम्बईनगरं आङ्ग्लराजाय दत्तवन्त: पुर्तगाल प्रशासका: ।  जेराल्ड आञ्जिअर(१६७२) इत्यनेन अत्र बहु सुधारणाकार्यं कृतम् । जेराल्ड इत्यनेनैव सप्तद्वीपानां योजनेन एकसन्धपरिसरः  निर्मापितः । द्वीपेषु गोलनजी हिल्स(परळ), शिव इत्यत्र कोट:, कान्हेरी लयनानि इत्येतेषां स्तरा: दृश्यन्ते । आङ्ग्लप्रशासनेऽपि बहुवारं हस्तान्तरणम् अभवत् । अष्टादशशतके मराठाप्रशासनाधिपत्ये मुम्बई स्थैर्यम् अलभत् । परं १८१८ तमे वर्षे पेशवे-सत्ताधीशानां पराभवं कृत्वा आङ्ग्लप्रशासनेन आधिपत्यं संस्थापितम् । तदा 'बोम्बे प्रेसिडेन्सि' इति राज्यस्य स्थापना कृता । १८५७ तमे वर्षे आभारतं चलत्-स्वातन्त्र्य-सङ्ग्रामस्य प्रभाव: मुम्बईनगरे किञ्चिदिव आसीत् । १८५७ तमे वर्षे मुम्बई विद्यापीठस्य स्थापना जाता तत: शैक्षणिककेन्द्रत्वेन नगरस्य विकास: प्रारब्ध: । १८६५ तमे वर्षे मुम्बई-नगरपालिकाया: स्थापना कृता । अस्मिन्नेव कालखण्डे जलनिर्गमयोजना, व्यापारकेन्द्रं, रञ्जनकेन्द्रं,  रक्षकदलः, न्यायव्यवस्था इत्येतेषां पुनारचना कृता । वस्त्रोद्यमा:, धूमशकटमार्गाश्च आरब्धा: । बहूनां प्रसिद्धानां वास्तूनां निर्माणकार्यमपि तदानीमेव जातम्, यथा - जे.जे.स्कूल औफ़् आर्ट्स्, पुरातन-सचिवालय:, मुम्बई-विद्यापीठ-वास्तु इत्यादय: । १९४७ तमे वर्षे स्वतन्त्र-भारतदेशे 'बोम्बे प्रेसिडेन्सि' इति राज्यस्य विलीनिकरणं जातम् । १९६० तमे वर्षे महाराष्ट्रराज्ये मुम्बई-नगरस्य समावेश: जात: । एवं बहुपुरातन: समृद्धश्च इतिहास: मुम्बईनगरस्य ।

मुम्बई नगरस्य विस्तार: ६०३ कि.मी. मित: अस्ति । नगरस्य पश्चिम-दक्षिण-आग्नेय-भागेषु सागरतट: अस्ति, ईशान्यदिशि ठाणेमण्डलमस्ति ।  इदानीमपि द्वीप-योजनस्य चिह्नानि दृश्यन्ते । मुम्बईनगरं सागरतटे अस्ति अत: साधारणतया उष्णम्, आर्द्रं च वातावरणम् अत्र भवति । जून मासत: सप्टेम्बर-मासाभ्यान्तरं नैऋत्य-मान्सून-वायुना वृष्टिपात: भवति । १८० से.मी. वार्षिकवृष्टिपातः भवति ।
नगरेऽस्मिन् नारिकेल:-‘ताड’-आम्रफलं-तिन्त्रिणी-वट-वृक्षा: अधिका: सन्ति । 

१९९० तमे वर्षे प्रशासनसौकर्यार्थं मुम्बईनगरस्य मण्डलद्वये विभाजनं जातम् । मुम्बईमण्डलं, मुम्बई-उपनगर-मण्डलं च इत्येतौ विभागौ स्त: । तथापि सामान्यत: मुम्बई नगरस्य केचन विभागा: भवन्ति । ते यथा - 'फोर्ट', बाजार इति क्रयविक्रयणकेन्द्रं, परळ-भायखळाविभागे धनिकानां निवासस्थानानि, 'बन्दर' नौकास्थानकविभाग:, मध्यमवर्गीयजनानां निवासस्थलं, उपनगराणि च ।

आधुनिकभारतनिर्माणे मुम्बई नगरस्य सहभाग: महत्वपूर्ण: । नैकानां राजकीय-सामाजिक-सांस्कृतिक-आर्थिकान्दोलनानाम् आरम्भस्थलमिदम् । 'रॉयल एशियाटिक सोसायटी'(१८०५), 'स्ट्यूडन्ट्स लिटररी एण्ड सायण्टिफिक सोसायटी'(१८४८), 'सर जे. जे. स्कूल ऑफ आर्ट'(१८५७), 'प्रार्थना समाज:' (१८६७), 'आर्य समाज:' (१८७५), 'थिऑसॉफिकल सोसायटी'(१८७५), 'भारतीय राष्ट्रीय काङ्ग्रेस' (इण्डियन नेशनल काङ्ग्रेस) इत्यस्य प्रथमम् अधिवेशनं(१८८५), 'कामगार चळवळ'- कर्मकराणाम् आन्दोलनम्(१८८५), 'भारत छोडो आन्दोलनम्'(१९४२) इत्येतासां घटनानां प्रमुखस्थानमासीत् मुम्बई नगरम् । मुम्बई नगरे नैके राजकीय नेतारः, उद्योगपतयः, सामाजिक कार्यकर्तार:, विद्वज्जना: संशोधका:, लेखका:, कलावन्त: च आसन्, सन्त्यपि । तेषां जन्म वा कार्यस्थलमस्ति नगरमिदम् ।
सांस्कृतिकदृष्ट्याऽपि वैविध्यपूर्णमिदं नगरम् । भाषा-धर्म-सम्प्रदाय-आर्थिकस्तरे भिन्नता अस्ति चेदपि व्यवसायकारणात् जना: अत्र आगच्छन्ति निवसन्ति च । मुम्बई नगरे तासां सर्वासां संस्कृतीनां समाहार: दृश्यते । मराठी, हिन्दी, गुजराती, आङ्ग्ल, सिन्धी, उर्दू इत्येतासु भाषासु जनाः वदन्ति । मराठी रङ्गभूमि-हिन्दीचलच्चित्रनिर्माणव्यवसाययोः(बोलिवुड्) जनाः विशेषत्वेन कार्यरताः दृश्यन्ते ।    

नैकानां विभूतिनां जन्मस्थलं, कार्यस्थलं वा नगरमिदम् । यथा राजा भीमदेव, पुर्तगालप्रशासक: फ्रान्सिस् अल्मेडा, जेराल्ड आञ्जियर्, डा हाफकिन्, रुदियार्ड् किप्लिङ्ग, फिरोजशहा मेहता, दादाभाई नौरोजी, महादेव रानडे, डेविड् ससून, जगन्नाथ शङ्कर शेठ, जमशेठजी टाटा, होमी भाभा, मादाम कामा च ।

भारतस्य प्रवेशद्वारत्वात् अस्य नाम 'गेटवे ऑफ इण्डिया' इति । पूर्वं विदेशेभ्यः जनाः नौकायानेन अत्रैव आगच्छन्ति स्म । विशेषतः आङ्ग्लाः मुम्बईनगरम् आगत्य भारतदेशे कार्यप्रवृत्ताः भवन्ति स्म । अतः एव एतत् स्मारकम् अतीव विशिष्टं सञ्जातम् इति मन्यते ।
पीतवर्णयुक्तैः 'बेसाल्ट्' शिलाभिः एतत् महाद्वारम् 'अपोलो' नौकास्थानकसमीपे निर्मापितम् अस्ति । द्वारं परितः विशालप्राङ्गणम् अस्ति । सागरतीरसमीपे अस्मिन् स्थले प्रातः सायं च विहाराय बहवः जनाः आगच्छन्ति ।

अयं सङ्ग्रहालयः पूर्वम् 'प्रिन्सवेल्स् म्यूजियम्' इति नाम्ना प्रसिद्ध: आसीत् । मुम्बईनगरे कोलाबाप्रदेशे एषः वस्तुसङ्ग्रहालयः अस्ति । क्रिस्ताब्दे १९०५ तमे वर्षे पञ्चमः जोर्ज भारतम् आगतवान् । एतत्स्मरणार्थम् 'इण्डो-सार्सेनिक' शैल्या विशिष्टं भवनं निर्मापितम् आसीत् । अत्र एलिफण्टा गुहागतवास्तुकृतयः प्राच्यवस्तूनि च सङ्गृहीतानि सन्ति ।
गौतमबुद्धस्य अपूर्वः विग्रहः अत्र अस्ति । अत्र आवरणे ’जहाङ्गीर आर्ट ग्यालरि' नामकः कलासङ्ग्रहालयः अस्ति । अत्र कलाप्रदर्शनानि वर्तन्ते ।

हुतात्मा चतुष्पथः इत्यपि अस्य अपरनाम । मुम्बईनगरस्य एकं जनभरितं वाणिज्यकेन्द्रस्थानम् एतत् । क्रिस्ताब्दे १८६२ तः १८६७ पर्यन्तं बॉम्बे प्रान्तस्य अधिकारी सर् बार्टल् फ्रियर अस्य प्रशासकः आसीत् । तस्य स्मरणार्थम् अस्य निर्माणम् कृतम् । फ्लोरामूर्तेः वैभवः दर्शनीयः अस्ति ।

एषः कश्चन मत्स्यागारः । मुम्बईनगरे मरीन ड्राइव इति सागरतीरसमीपे एषः विशिष्टः मत्स्यागारः अस्ति । अत्र विविधजातीयाः वर्णमयाः मत्स्याः सङ्गृहीताः सन्ति । अत्र मीनाः उत्तमतया संरक्षिताः सन्ति ।

मलबारहिल्स् पर्वतप्रदेशः मुम्बईनगरसमीपे अस्ति । शीतलः अयं प्रदेशः मुम्बईनगरवासिनां विहारस्थलमस्ति । वाळकेश्वर-महालक्ष्मीदेवालयौ अपि अत्रैव स्तः । मलबारपर्वताग्रे ‘हेङ्गिङ्ग गार्डन्’ क्रिस्ताब्दे १८८१ तमे वर्षे निर्मापितम् । वाळकेश्वरमन्दिरस्य स्थापना श्रीरामेण एव कृतम् इति जनानाम् अभिप्रायः ।
जलाशयस्य अग्रतः उद्यानं निर्मितम् अस्ति । अस्य फिरोजशाह मेहता उद्यानम् इत्यपि नाम । अत्र उद्यानवने सस्यानि प्राणिनाम् आकारैः कर्तितानि सन्ति । अधः कमलानेहरु उद्यानमपि अस्ति । एतदुद्यानं क्रिस्ताब्दे १९५२ तमे वर्षे निर्मितम् । रात्रौ मलबारहिलतः नगरदर्शनम् अतीव सुन्दरं भवति ।

मुम्बईमहानगरे स्थितं विक्टोरिया गार्डन् वीरमाता जीजाबाई उद्यानवनम् इत्यपि प्रसिद्धम् अस्ति । अत्र सुन्दरः मृगालयः, आल्बर्ट ’म्यूसियम्’ च आकर्षणं अस्ति । वस्तुसङ्ग्रहालयस्य बाह्यप्रदेशे एलिफेण्टाद्वीपात् आनीतः बृहत्शिलागजः स्थापितः अस्ति । डा एनिबेसेन्टमार्गसमीपे नेहरू 'प्लानेटेरियम्'-ताराङ्गणम् आकर्षकम् अस्ति ।

मुम्बईनगरं पश्चिमसागरतीरे अस्ति । 
सागरतीरेषु सामान्यतः वालुकाः सन्ति ।
जनाः विहाराय अत्र आगच्छन्ति । राष्ट्रियनायकानां महापुरुषाणां भाषणकार्यक्रमाः अत्र भवन्ति ।

मुम्बई न केवलं महाराष्ट्रराज्यस्य राजधानी, अपि तु भारतदेशस्य वित्तराजधानी, मनोरञ्जनराजधानी च वर्तते । 'भारतीय रिजर्व बैङ्क', मुम्बई ’शेअर बाजार’, राष्ट्रीय शेअर बाजार इत्येतादृश्यः नैकाः महत्वपूर्णाः संस्थाः अत्र सन्ति । मुम्बईनगरं हिन्दीभाषायां-चलच्चित्रनिर्माणस्यापि केन्द्रम् । सञ्जय गान्धी राष्ट्रियोद्यानं, लवणक्षेत्राणि इत्यादीनि प्राकृतिकस्थलानि नगरसमीपे सन्ति । एवं समृद्धमिदम् नगरम् ।

१.	विमानमार्गा: - छत्रपति-शिवाजी-राष्ट्रिय,अन्ताराष्ट्रियविमानस्थानकम् अस्ति । सर्वेभ्य: प्रमुखविमानस्थानकेभ्य: मुम्बईनगरं प्रति विमानव्यवस्था: सन्ति । सर्वा: विमानसेवा: मुम्बईनगरं प्रति गमनार्थं सेवां यच्छन्ति ।      
२.	धूमशकटमार्गा: - छत्रपति-शिवाजी-’टर्मिनस्’, ’बोम्बे सेण्ट्रल्’, दादर, कल्याण इत्येनानि प्रमुखरेलस्थानकानि सन्ति । मध्य-पूर्व-पश्चिम-दक्षिणरेलयानानां स्थानकानि सन्ति । अत: कुतश्चिदपि अत्र प्राप्तुं शक्यते ।
  
३.	भूमार्गा: - सर्वेभ्य: प्रमुखस्थलेभ्य: मुम्बई नगरं गन्तुं बसयानानि प्राप्यन्ते ।




#Article 91: पणजी (175 words)


पणजी ( ) (, )नगरं गोवाराज्यस्य उत्तरगोवामण्डलस्य केन्द्रमस्ति । एतत् नगरं माण्डवीनद्याः तीरे विकसितमस्ति । गोवाराज्यस्य तृतीयं बृहत्तममेतन्नगरम् गोवाराज्यस्य राजधानी अस्ति ।

पणजी-नगरस्य इतिहासः बहु पुरातनः अस्ति । कदम्बवंशीयः सत्यदेवनामकः राजा (१००७-१०५०) अस्य नगरस्य निर्माणं कारयित्वा अस्य पहजनीखली इति नामकरणं कृतवान् । कोङ्कणी-पुर्तगालीभाषयोः भिन्नोच्चारणत्वात् नगरस्यास्य पोन्नजी, पोङ्गीम इत्येते नामान्तरे स्तः । पणजी इति नाम तु संस्कृतापभ्रंशशब्दः । पहजनी, खली इत्येताभ्यां संस्कृतशब्दाभ्यां व्यत्पुनः पञ्जखली इति मूलशब्दः कदम्बवंशीयस्य त्रिभुवनमल्ल इत्यस्य राज्ञः शासनकाले लिखितताम्रपत्रेषु उल्लिखितः अस्ति । तयोः शब्दयोः अर्थः पहजनी = नौ (Ship), खली = कुल्या (creek) च भवति । पुर्तगालीजनाः गोवाराज्यं यदा स्वाधीनं कृतवन्तः, तदा १८४३ तमस्य वर्षस्य ‘मार्च्’-मासस्य द्वाविंशतितमे (२२) दिनाङ्के नामपरिवर्तने सति अस्य नाम ‘नोवा गोवा’ इति अभूत् । १९६१ तमे वर्षे महाराष्ट्रात् भिन्ने सति अस्य नगरस्य नाम पणजी इति जातम् ।

वास्को द गामा इत्यस्मिन् नगरे स्थितं 'डाबोलिम'-विमानस्थानकम् पणजी-तः त्रयोविंशतिः (२३) कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गोवाराज्याय वायुयानानि सन्ति ।

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय 'बस्'यानानि अपि सन्ति । मुख्यतः मडगांव-मुम्बई-वास्को द गामा -आदिनगरेभ्यः 'बस्'यानानि सन्ति ।

www.ccpgoa.com




#Article 92: कोहिमामण्डलम् (137 words)


कोहिमामण्डलं () नागाल्याण्डराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोहिमा इत्येतन्नगरम् ।

कोहिमामण्डलस्य विस्तारः १२६७ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पश्चिमदिशि दिमापुरमण्डलं, पूर्वदिशि फेकमण्डलं, दक्षिणदिशि मणिपुरराज्यं, पेरेनमण्डलं च, उत्तरदिशि वोखामण्डलम् अस्ति । अस्य मण्डलस्य वातावरणं सामान्यतः आर्द्रं भवति ।

कोहिमामण्डलस्य जनसङ्ख्या(२०११) २,६७,९८८ अस्ति । अस्मिन् १,३८,९६६ पुरुषाः, १,२९,०२२ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे १८३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०.००% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२८ अस्ति । अत्र साक्षरता ८५.२३% अस्ति । मण्डलेऽस्मिन् ५४.८२% जनाः ग्रामेषु निवसन्ति ।

१ डिसेम्बर् १९६३ दिनाङ्के नागाल्याण्डराज्यस्य स्थापना जाता । तदा एव कोहिमा नगरं राजधानीत्वेन चितम् ।

कोहिमामण्डलस्य अङ्गमी-नागा, रेङ्गमा-नागा च पुरातनजनजातिः अस्ति । कोहिमा नगरम् नागल्याण्डराज्यस्य राजधानी, cosmopolitan city अपि वर्तते अतः कोहिमामण्डलस्य विकासः जायमानः अस्ति । 

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -




#Article 93: भोपाल (788 words)


भोपाल ( ) (, ) इत्येतन्नगरं भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य दशविभागेषु अन्यतमस्य भोपालविभागस्य भोपालमण्डलस्य केन्द्रमस्ति । इदं नगरं मध्यप्रदेशराज्यस्य राजधानी अस्ति । भोपाल-नगरं सरोवराणां नगरम् (City of lakes) इत्यपि प्रख्यातम् अस्ति ।

२०११ जनगणनानुगुणं भोपाल-नगरस्य जनसङ्ख्या १७,९५,६४८ अस्ति । अत्र ९,३९,५६० पुरुषाः, ८,५६,०८८ महिलाः च सन्ति । भारतस्य महानगरेषु भोपाल-नगरस्य सप्तदशः क्रमाङ्कः अस्ति । अस्मिन् नगरे प्रतिचतुरस्रकिलोमीटर्मिते १६० जनाः वसन्ति । अत्र पुं-स्त्री अनुपातः १०००-९११ अस्ति । अत्र साक्षरता ८५.२४% अस्ति । 

भोपाल-नगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २३º १५ उ. एवं ७७º २५ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं ४२७ मी. अस्ति । एतत् नगरं विन्ध्यपर्वतशृङ्खलायाः पूर्वे स्थितम् अस्ति । इदं नगरं पर्वतक्षेत्रे स्थितम् अस्ति परन्तु अत्र तापमानं उष्णतरमेव भवति । अत्र भूभागः असमतलः अस्ति । अत्र बहवः लघुपर्वताः अपि सन्ति, यथा – श्यामला हिल, ईदगाह हिल, अरेरा हिल, कतारा हिल इत्यादयः । अत्र ग्रीष्मर्तौ उष्णता, शीतर्तौ सामान्यशीतलता भवति । वर्षर्तुः सामान्यतः जून-मासतः सितम्बर-मासाभ्यान्तरं भवति ।

भोपाल-नगरस्य प्राचीनं नाम भूपालः इति । उच्यते यत् अस्य नगरस्य नामकरणं कस्यचित् भूपाल-नामकस्य राज्ञः नामोपरि कृतमासीत् । समयान्तरे इदं नगरं नष्टं जातम् । अष्टादशे शतके एतन्नगरं गोण्ड-राज्यस्य लघुग्रामः एव आसीत् । मुगल-शासकेन अफगान राजा दोस्त मुहम्मद खान इत्याख्येन वर्तमानभोपाल-नगरस्य स्थापना कृता । मुगलसाम्राज्यस्य विघटनसमये दोस्त खान इत्याख्येन छलेन बेरासिया-उपमण्डलं वशीकृतम् । एकदा गोण्ड-राज्यस्य राज्ञ्याः कमलापत्याः साहाय्यं दोस्त मुहम्मद खान इत्यनेन कृतमासीत् । अतः राज्ञ्या कमलापत्या गोण्ड-राज्यं दोस्त मुहम्मद खान इत्यस्मै प्रदत्तम् आसीत् । राज्ञ्याः मरणात् परं दोस्त मुहम्मद खान इत्यनेन गोण्ड-राज्यम् वशीकृतम् ।
१७२०-१७२६ काले दोस्त मुहम्मद खान इत्याख्येन भोपालं दुर्गवत् निर्माय तत्र नगरम् अन्तर्कृतम् । एवं रीत्या दोस्त मुहम्मद खान भोपाल-नगरस्य राजा बभूव । तदा भोपाल-नगरस्य स्थापना जाता । सिद्दीकी-बन्धू इति इमे दोस्त मुहम्मद खान इत्याख्यस्य मित्रे आस्ताम् । मित्रताकारणात् दोस्त मुहम्मद खान इत्ययं हैदराबाद्-नगरस्य निजाम मीर कमर उद्दीन (निजाम उल मुल्क) इत्यनेन सह युद्धमकरोत् । तदा दोस्त मुहम्मद खान इत्ययं पराजितो जातः । भोपाल-नगरं मीर कमर उद्दीन इत्याख्यस्य आधिपत्ये गतम् । 
मराठा-राजभिः भोपाल-प्रान्तात् करः सङ्गृहीतः । १७३९ तमे वर्षे मराठा-राजभिः मुगल-शासकाः पराजिताः । दोस्त मुहम्मद खान इत्यस्य उत्तराधिकारिणः ब्रिटिश-शासकैः सह सन्धिं कृतवन्तः आसन् । तदा भोपाल-प्रान्तः ब्रिटिश-शासनस्य एकः मुख्यालयः अभवत् । १९४७ तमे वर्षे भारतं स्वतन्त्रं जातम् । तत्समये भोपाल-प्रान्तस्य उत्तराधिकारी आबिद सुल्तान आसीत् । किन्तु सा सर्वं त्यक्त्वा पाकिस्तान-देशं गतवती । ततः परम् आबिद सुल्तान इति इयं स्वस्याः अनुजां भोपाल-प्रान्तस्य उत्तराधिकारिरूपेण उद्घोषितवती । १९४९ तमे वर्षे भारते भोपाल-प्रान्तस्य विलयः जातः ।

भोपाल-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । तेषु – लघुतडागः, भीम बेटका, अभयारण्यं, भारतभवनम् इत्यादीनि सन्ति । नगरेऽस्मिन् सरोवराः प्रसिद्धाः सन्ति । भोपाल-नगरात् २८ कि. मी. दूरे भोजपुर-मन्दिरम् अस्ति । भोजपुर-मन्दिरम् एकम् ऐतिहासिकं दर्शनीयस्थलम् अस्ति ।

भोपाल-नगरस्य अरेरा-पर्वतक्षेत्रे एकं बिडला-मन्दिरम् अस्ति । इदं मन्दिरं पञ्चाशत्वर्षपुरातनम् अस्ति । अस्मिन् मन्दिरे भगवतः विष्णोः, लक्ष्म्याः च मनोहरा प्रतिमा अस्ति । इदं मन्दिरं धार्मिकास्थायाः एकं केन्द्रम् अस्ति । बहवः जनाः तत्र दर्शनार्थं गच्छन्ति । इदं मन्दिरं बहुविस्तृतम् अस्ति । इदं मन्दिरम् आभारते प्रसिद्धमस्ति ।

उच्यते यत् अस्य मन्दिरस्य शिलान्यासः १९६० तमे वर्षे अभवत् । तत्कालीनेन मुख्यमन्त्रिणा डॉ. कैलाशनाथ काटजू इत्याख्येन शिलान्यासः कृतः आसीत् । अस्य मन्दिरस्य उद्घाटनं १९६४ तमे वर्षे तत्कालीनेन मुख्यमन्त्रिणा द्वारका प्रसाद मिश्र इत्याख्येन कृतम् आसीत् । मन्दिरेऽस्मिन् श्वेतशैलेषु पौराणिकदृश्यानां प्रदर्शन्यः सन्ति । तेषु श्वेतशैलेषु गीतायाः रामायणस्य उपदेशाः सन्ति ।
मन्दिरेऽस्मिन् जगदम्बाशिवयोः अपि प्रतिमे स्तः । मन्दिरस्य परिसरे हनुमतः प्रतिमा शिवलिङ्गं च स्थापितम् अस्ति । मन्दिरस्य मुख्यप्रवेशद्वारे एकः विशालः शङ्खः अस्ति । अस्मिन् मन्दिरे नगरवासिनः कृष्णजन्माष्टमीमहोत्सवे श्रीकृष्णस्य जन्ममहोत्सवस्य आयोजनं कुर्वन्ति, यस्मिन् बहवः श्रद्धालवः गत्वा भगवतः विष्णोः आराधनां कुर्वन्ति ।

भोजपुरं भोपाल-नगरात् २८ कि. मी. दूरे स्थितमस्ति । अस्मिन् नगरे भगवतः शङ्करस्य एकं मन्दिरं वर्तते । अस्य मन्दिरस्य भोजेश्वर इति नाम । इदं मन्दिरं प्राचीनं, प्रसिद्धं च अस्ति । अस्य मन्दिरस्य निर्माणं परमार-वंशीयेन राज्ञा भोजेन कारितम् । अतः अस्य नगरस्य भोजपुर इति नाम । अस्मिन् मन्दिरे विशालं शिवलिङ्गम् अस्ति । भारतस्य विशालशिवलिङ्गेषु अन्यतमम् अस्ति इदं शिवलिङ्गम् । 

मोती मस्जिद इत्यस्य निर्माणं १८६० तमे वर्षे कदसिया बेगम इत्याख्यायाः पुत्र्या सिकन्दर जहां बेगम इत्यनया कारितम् ।

ताज उल मस्जिद इतीदं भारतस्य एकं विशालं मस्जिद अस्ति । अस्य निर्माणकार्यं भोपाल-नगरस्य अष्टमशासकस्य शाह जहाँ इत्यस्य शासनकाले प्रारम्भं जातम् आसीत् किन्तु तस्य जीवनपर्यन्तम् अपि निर्माणं न अभवत् ।

भारत-भवनम् भारतस्य विशिष्टराष्ट्रियसंस्थानेषु अन्यतमं वर्तते । १९८२ तमे वर्षे अस्य भवनस्य निर्माणम् अभवत् । अस्मिन् भवने रचनात्मककलानां प्रदर्शनानि सन्ति |

भीमबेटका इति इदं भोपाल-नगरात् ४६ कि. मी. दूरे स्थितमस्ति । भीमबेटका-गुहासु प्रागैतिहासिकाः चित्रकलाः सन्ति, येन इमाः गुहाः प्रसिद्धाः सन्ति । इमाः गुहाः परितः विन्ध्यपर्वतशृङ्खला अस्ति । एतासु गुहासु बहूनि चित्राणि सन्ति, यानि प्रागैतिहासिककालस्य जीवनस्य विवरणं कुर्वन्ति । अत्रत्या प्राचीनतमा चित्रकला द्वादशसहस्र(१२०००)वर्षपुरातना अस्ति ।	

भोपाल-नगरे राजाभोज-नामकं विमानस्थानकम् अस्ति । तत् विमानस्थानकं भोपाल-नगरात् द्वादश (१२) कि. मी. दूरे स्थितम् अस्ति । देहली, मुम्बई, इन्दौर, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, कोलकाता, रायपुर इत्यादिभ्यः नगरेभ्यः भोपाल-नगरं प्राप्तुं शक्यते । 

भोपाल-नगरस्य रेलस्थानकं देहली-चेन्नै-मुख्यमार्गे स्थितमस्ति । अतः प्रायशः सर्वाणि रेलयानानि इतः एव गच्छन्ति । मुम्बई, आगरा, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, ग्वालियर, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः भोपाल-नगरं प्राप्तुं शक्यते । 

सांची, इन्दौर, खजुराहो, पचमढी, जबलपुरम् इत्यादिभ्यः नगरेभ्यः बस-यानेन भोपालं प्राप्तुं शक्यते । मध्यप्रदेशस्य अन्येभ्यः मण्डलेभ्यः, नगरेभ्यः, ग्रामेभ्यः च नियमितरूपेण भोपाल-नगराय बस-यानानि प्राप्यन्ते ।




#Article 94: जयपुरम् (663 words)


जयपुरं (, ) भारतस्‍य राजस्थानराज्यस्य राजधानी अस्‍ति । इदं नगरं राजस्थानराज्ये स्थितस्य जयपुरमण्डलस्य केन्द्रमपि । 'गुलाबीनगर' इति प्रसिद्धम् एतन्नगरम् । ऐतिहासिकम् आमेरनामकं नगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ तमे वर्षे संस्थापितवान् ।

 
राजस्थानराज्यस्य राजधानी अस्ति जयपुरनगरम् । क्रिस्ताब्दात् १८ शतकादपि एतत् नगरम् अतीव समृद्धम् अस्ति । एतत् नगरं पाटलनगरम् ('पिङ्कसिटी') इत्यपि कथयन्ति । महाराजः सवाई जयसिंहः क्रिस्ताब्दस्य १७२७-२८ तमे वर्षे अस्य नगरस्य निर्माणं कृतवान् । नगरस्य विन्यासः चतुर्भुजाकारे अस्ति । नगरप्रवेशाय सप्त द्वाराणि सन्ति । चान्दपोल, सङ्गनेरी, अजमेरी च मुख्यद्वाराणि सन्ति । जयपुरनगरे उष्ट्रवाहनानि दृश्यन्ते । सर्वत्र पाटलवर्णयुक्तानि भवनानि सन्ति । राजगृहाणां नगरमिदम् । राजगृहाणि राजस्थानी तथा 'मुघल' संयुक्तशैल्या निर्मितानि सन्ति । अनेकानि सुन्दराणि उद्यानानि नगरे सन्ति । नगरस्य त्रिदिशासु पर्वतावल्यः सन्ति । नगरस्य मध्यभागे राजगृहम् अस्ति । नगरे विस्तृताः राजमार्गाः निर्मिताः सन्ति । अनेकत्र वृत्तानि ('चौपड') निर्मितानि सन्ति । उत्तरतः दक्षिणं, पूर्वतः पश्चिमं सुव्यवस्थिततया मार्गाः निर्मिताः सन्ति । नगरस्य भवनानि रक्तानि अथवा पाटलवर्णयुक्तानि सन्ति । सूर्यास्तसमये एतानि सुन्दरतया प्रकाशन्ते । प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय गच्छन्ति । जयपुरस्य आभूषणानि न केवलं भारते, अपि तु समग्रे विश्वे सुप्रसिद्धानि सन्ति ।

नगरे स्थितं राजगृहम् एतत् । एतत् 'राजमहल्' इत्यपि कथयन्ति । सप्तस्तरीयं राजगृहमेतत् । 'चन्द्रमहल्' इति अस्य अपरं नाम । राजगृहे एकत्र युद्धसामग्र्यः सङ्गृहीताः सन्ति । अन्यत्र वस्तुसङ्ग्रहालये कलावस्तूनि, मुघलचित्राणि, वस्त्रोद्यमसम्बद्धानि वस्तूनि, आभूषणानि, राजपुत्राणां शस्त्रास्त्राणि च सङ्गृहीतानि सन्ति ।
राजगृहे 'दिवान् –ए-खास्' नामकं सार्वजनिकसभाङ्गणं रमणीयम् अस्ति । अस्य भवनस्य विविधभागेषु भित्तिचित्राणि, लताः, पुष्पाणि, दर्पणविशिष्टालङ्करणानि, घटीयन्त्राणि, घटीयन्त्रगोपुरं, 'मुबारकमहल्' च आकर्षणीयानि । अत्र जलपानपात्राणि रजतनिर्मितानि सुन्दराणि सन्ति ।
राजगृहं परितः तृणावृतस्थलं, लघुसरोवराः, मकरालयसरः, शिलानिर्मितखाताः, 'वेनिस्'-देशस्य St Marks वृत्तस्य स्मरणं कारयन्ति । जलोत्सांसि जलपाताः कृतकतया निर्मितानि सन्ति । एतानि सायङ्काले अतीव मनमोहकानि भवन्ति ।

 
जयपुरनगरे अत्यन्तं प्रसिद्धं जन्तर-मन्तर भवनं (ज्यौतिषसम्बन्धी यन्त्रालयः, खगोलवीक्षणालयः च) महाराजः जयसिंहः निर्मितवान् । जयसिंहः स्वयं गणितज्योतिषविद्वान् आसीत् । अत्र ग्रहाणां चलनं, ग्रहणदर्शनं, सूर्यप्रकाशेन समयज्ञानम् इत्यादिकं ज्ञानं प्राप्तुं शक्यते । एतादृशानि खगोलवीक्षणभवनानि देहली, वाराणसी, उज्जयिनी इत्येषु नगरेषु अपि सन्ति ।

'आल्बर्ट् हाल् म्यूसियम्' इति अस्य अपरं नाम अस्ति । जयपुरे दक्षिणभागे रामविलास-उद्यानवनमस्ति । अत्र 'आल्बर्टहाल्' नामकः सुन्दरः वस्तुसङ्ग्रहालयः क्रिस्ताब्दे १८३३ तमे वर्षे स्थापितः अस्ति । अत्र आभरणानि, काष्ठशिल्पानि, लोहशिल्पानि, मृन्निर्मितानि वस्तूनि, वेषभूषणानि च सन्ति । एकः मृगालयः अपि अत्र अस्ति । समीपे एव आधुनिकः वस्तुसङ्ग्रहालयः अपि अस्ति । अत्र राजस्थानस्य संस्कृतिदर्शकानि नाणकानि, लोहपात्राणि, हस्तिदन्तेन निर्मितानि वस्तूनि, शिलामूर्तयः, काष्ठदन्तयुक्तानि शिल्पानि सन्ति ।

एषः दुर्गः प्राचीनराजधानी आसीत् । जयपुर-तः ११ कि मी दूरे पर्वतप्रदेशे अम्बरदुर्गः अस्ति । प्राचीनकाले एतत् स्थलं महाराजानां राजधानी आसीत् । पर्वतारोहणाय अनेकानि द्वाराणि प्रविश्य पर्वतारोहणं करणीयं भवति । राजा सवाई मानसिंहः क्रिस्ताब्दे १५९२ तमे वर्षे एतं दुर्गं निर्मितवान् । एषः अक्बरनामकमुघलराज्ञः सेनायां सेनापतिः आसीत् । अत्र पर्वतप्रदेशे हरितरक्तशिलाभिः निर्मितानि भवनानि सन्ति । विविधवर्णैः निर्मितः कदलीवृक्षः अतीवसुन्दरः अस्ति । 'दिवान् ए खास्' (अन्तर्भवनं), 'शीशमहल्' इत्यादीनि अपूर्वाणि सन्ति । शिलादेवीमन्दिरम् अपि अतीवसुन्दरम् अस्ति । एतेषां प्रतिबिम्बानि पुरतः स्थिते सरोवरेऽपि दृष्टुं शक्यन्ते । सरोवरमध्ये 'जलमहल्' अस्ति । अम्बरपर्वते गजारोहणपूर्वकं वा पादचारणेन वा पर्वतारोहणं कर्तुं शक्यते । पर्वते स्थितं कनकवृन्दावनं मथुरावृन्दावनमिवास्ति । मन्दिरस्य द्वाराणि, अट्टः च वास्तुशिल्पयुक्तानि सन्ति । समीपे 'गयटोर्', 'जलमहल्', विद्याधरवाटिका इत्यादीनि आकर्षकस्थानानि सन्ति । जयपुरे सर्वत्र राजपुत्राणां, महाराजानां च शिलाप्रतिमाः स्थापिताः सन्ति ।

'शीशमहल्' समीपे महाकालीमन्दिरमस्ति । कृष्णशिलामूर्तिः आकर्षणीयास्ति । अम्बरपर्वतस्य पश्चात् भागे अधः गिरिधरगोपालमन्दिरमस्ति । परमभक्ता मीराबाई अत्रैव गिरिधरगोपालरूपस्य श्रीकृष्णस्याराधनां कृतवती । देवालये नर्तनशीलाः बालिकाः, अश्वपङ्क्तिः, गजपङ्क्तिः इत्यादिकं सुन्दरम् अस्ति । गर्भगृहे विष्णोरवतारस्य कृष्णस्य, तस्य परमभक्तायाः मीरायाः च विग्रहः अतीवसुन्दरः अस्ति ।

जयपुरे जैनमन्दिराणि अपि सन्ति । महावीरमन्दिरं सुन्दरं, प्राचीनं च मन्दिरम् अस्ति ।

जयपुर-तः अष्ट कि. मी. दूरे पर्वतप्रदेशे सुन्दरः दुर्गः अस्ति । ५०० पादोन्नतप्रदेशे स्थितः एषः दुर्गः ‘जयपुरस्य स्वर्णकिरीटम्’ इति कथ्यते । विशेषसमये अत्र दीपालङ्कारं कुर्वन्ति । द्विस्तरे राजगृहेऽस्मिन् नव अन्तःपुराणि सन्ति । तेषां नामानि 'ललितप्रकाश', 'चन्द्रप्रकाश', 'सूर्यप्रकाश' इत्येवं काव्यमयानि सन्ति । नाहरगढ-समीपे सिसोदियाराज्ञी-उद्यानं, जयगढदुर्गः च अस्ति ।

जयपुराय देहली, मुम्बई, अहमदाबाद, कोलकता, औरङ्गाबाद् (महाराष्ट्रम्) इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति ।

देहली-तः 'पिङ्कसिटी एक्स्प्रेस्' यानम् अस्ति । मुम्बई-तः 'चेतकएक्स्प्रेस्' धूमशकटयानमस्ति । चेन्नै, अजमेर इत्यादिनगरेभ्यः साक्षात्सम्पर्कः अस्ति ।

'पिङ्कलैन्', 'सिल्वर्लैन' वाहनानि अहोरात्रं राजस्थानराज्ये, राजस्थानतः देहली, आग्रा इत्यादीनां नगराणां दर्शनाय च सञ्चरन्ति । जयपुरनगरे उत्तमवसतिभोजनादिव्यवस्था अस्ति । मुम्बई-तः ११७६ कि.मी, देहली-तः ३०६ कि.मी, आग्रा-तः २३६ कि.मी, अहमदाबाद-तः ७०७ कि.मी दूरे अस्ति इदं नगरम् । प्रवासव्यवस्थापि अस्ति अत्र ।




#Article 95: अमृतसर (345 words)


अमृतसर पञ्जाबराज्ये विद्यमानं प्रमुखं नगरम् अस्‍ति । अत्र सिक्खधर्मस्य हरिमन्दिरं स्थापितम् अस्‍ति ।
विश्वे प्रसिद्धम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । पाकिस्तानदेशस्य सीमायाः समीपे २८ कि.मीटर् दूरे अस्ति । भारतदेशे विद्यमानेषु श्रेष्ठनगरेषु अमृतसरनगरम् अन्यतमम् अस्ति। एतत् नगरं  सिक्खगुरु राम दासमहोदयः क्रिस्ताब्दे १५७७ तमे वर्षे निर्मितवान् । अनेके आक्रमणकाराः अत्र आक्रमणं कृतवन्तः । तथापि पुनः एतस्य निर्माणम् अभवत् । इदानीम् एतत् अपूर्वसौन्दर्ययुक्तं,  सरोवरे स्थितं सिक्खजनानां पवित्रयात्रास्थलं च अस्ति ।
नगरस्य प्राचीनभागे एतत् मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानां ६८ क्षेत्र समानमिति एतस्य प्रसिद्धिः अस्ति । देवालयस्य बहिर्भागः स्वर्णपत्रैः आवृतः अस्ति । एतदर्थं ४००० किलोमितं स्वर्णम् उपयुक्तमस्ति । एतत् कार्यं रणजितसिङ्गमहोदयः कारितवान् । सूर्यकिरणैः अतीवप्रकाशमानम् एतत् मन्दिरं बहु सुन्दरं दृश्यते । अस्य प्रतिबिम्बं जले साक्षात् दृष्टुं शक्यते ।
देवालयस्य अन्तः सिक्खधर्मस्य पवित्रग्रन्थस्य गुरुग्रन्थसाहिबस्य’ पुस्तकस्य आराधनं भवति । अस्मिन् ग्रन्थे गुरुनानकस्य उपदेशः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरवम् अर्पयन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन शोभायात्रा भवति ।

अमृतसरस्य स्वर्णमन्दिरस्य समीपे एव जलियन् वालाबाग् नामकम् उद्यानमस्ति । क्रिस्ताब्दे १९१९ तमे वर्षे एप्रिल् मासस्य १३ तमे दिने अहिंसात्मकान्दोलने निरतानाम् उपरि जनरल् डायर् घोरं गोलिकावर्षणं कारितवान्  ४७१ जनाः तद्दिने मृताः अभवन् । आङ्गलाधिकारिणाम् एतत् भीकरं कृत्यम् अधुनापि जनाः न विस्मृतवन्तः सन्ति।
इतिहासानुसारम् अस्य उद्यानस्य प्रवेशाय एकम् एव द्वारम् अस्ति । मध्याह्ने ’४.३० वादनसमये अत्र सभा आयोजयिष्यते’ इति पूर्वमेव सूचितमासीत् । किन्तु सभायाः आरम्भानन्तरं डायर सैनिकैः साकमागत्य जनानामुपरि १०० मीटर् दूरतः गोलिकवर्षणस्य आदेशं कृतवान्  ।पूर्वं सभायाः निषेधं न कृतवान् ।
सहस्रशः जनाः अत्र मृताः इति अधिकृततया पत्रिकासु वार्ता आगता । भारतीयस्वातन्त्यान्दोलने प्रविष्टाना विरुद्धम् आङ्ग्लसर्वकारस्य पाशवीयकृत्यम् एतत् अविस्मरणीयम् अस्ति ।
इदानीमपि अत्रत्यां  वापीं दृष्वा जनाः अश्रुपूर्णाः भवन्ति । यतः अत्र वाप्यां अनेकेषां जनानां शरीराणि आसन् । इदानीम् अस्मिन् उद्याने मृतानां संस्मरणार्थ ’अमरज्योतिः’ स्थापिता अस्ति ।

अत्र देवालयस्य समीपे सुन्दरम् उद्यानं , रामगुरियास्तम्भाः, वस्तुसङ्ग्रहालयः च  दर्शनीयानि सन्ति ।
अमृतसरनगरे एव अन्यत् दुर्गीयानानामकं स्वर्णमन्दिरमित्यस्ति । सिक्खधर्मीयानां मन्दिरसह्रशमेव एतदपि सरोवरे अस्ति । यात्रिकाः अत्रापि सगौरवम् आगच्छन्ति । एतत् क्रिस्ताब्दे १६ शतके निर्मितमस्ति ।

देहली-श्रीनगरमार्गः 

देहलीतः अमृतसर ४४७ कि.मी । अमृतसरनगरं प्रति इदानीं लाहोरतः अपि सम्पर्कः अस्ति । 

चण्डीगढलाहोरलुधियानादेहली- इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति  । 

वासार्थं गोल्डन् टेम्पल् वसतिगृहाणि निश्शुल्कतया सन्ति । अनेकानि उपाहारवसतिगृहाणि अमृतसरनगरे सन्ति । तरन्तरानापवित्रसरोवरः (२३ कि.मी), डेरबाबानानकस्थानं ३२ कि.मी दूरे सन्ति ।




#Article 96: उदयपुरम् (442 words)


उदयपुरं (, ) राजस्थानराज्ये स्थितस्य उदयपुरमण्डलस्य केन्द्रम् अस्ति । राजस्थानराज्यस्य प्रमुखनगरेषु नगरमिदम् अन्यतमम् । इदं जलाशयानां, सरोवराणां च नगरम् इति प्रसिद्धम् अस्‍ति । उदयपुरं राजस्थानराज्यस्य नैऋत्यभागे स्थितम् अस्ति । श्वेतनगरम् इत्यपि नगरस्यास्य ख्यातिरस्ति । एतत् नगरं 'सिटि आफ् ड्रीम्स्', 'वेनिस् आफ् दि ईस्ट', 'सिटि आफ् दि लेक्स्', 'सिटि आफ् डान्', 'जुवेल् आफ् मेवाड' इत्यादिनामभिः अपि प्रसिद्धम् अस्ति । 
इतिहासानुसारं सिसोदियाराजपूतवंशीयः उदयसिंहः क्रिस्ताब्दे १५६८ तमे वर्षे एतन्नगरं निर्मापितवान् आसीत् । राणाप्रतापसिंहस्य जन्मस्थलम् एतत् प्राक् मेवाडराज्यस्य राजधानी आसीत् । भारतस्य सुन्दरनगरेषु अन्यतमम् अस्ति नगरमिदम् । नन्दनवनस्य खण्डः अत्र पतितः इव अस्ति इति कवयः इदं नगरं वर्णयन्ति ।
अरावलीपर्वतश्रेण्याः पार्श्वे विद्यमानं नगरमेतत् । अत्र त्रयः सरोवराः, अमृतशिलया निर्मितानि राजगृहाणि, हरितवाटिकाः, देवालयाः च सन्ति ।

'सिटी प्यालेस्' सरोवरे स्थितं प्रकाशमानवज्रमिव अस्ति । इदं राजगृहं लण्डन् इत्यस्य नगरस्य 'विण्ड्सन्' राजगृहसदृहशम् अस्ति इति विमर्शकाः वदन्ति । अत्र 'छोटी चित्रसाली मनकमहल्, मोतीमहल्, बारामहल् इत्यादीनि भवनानि वर्णमयैः वस्तुभिः, वर्णचित्रैः च पूर्णानि सन्ति । अनेकानाम् आङ्ग्लभाषाचित्राणां चित्रीकरणम् अत्र अभवत् । तेषु Octopussy, Jewel in the Crown प्रसिद्धनामद्वयम् । 
गोपुराणि आकर्षकानि सन्ति । राजगृहाणां प्रमुखः भागः वस्तुसङ्ग्रहालयः अस्ति । 'मोरचौक', 'रुबीमहल्', 'कृष्णविलास्', 'बारीमहल्' इत्यादयः विभागाः राजगृहे सन्ति । कृष्णविलासविभागे सूक्ष्मचित्राणि सन्ति । 'जनानामहल्' इत्यस्मिन् विभागे वर्णचित्राणि, 'मोतीमहल'विभागे दर्पणविशिष्टानि वस्तूनि, 'चीनीमहल'विभागे अलङ्कृतकरवस्तूनि,  'रूबीमहल'विभागे काचनिर्मितानि वस्तूनि च सन्ति ।
सरोवरे जगनिवासः, जगमन्दिरम् इति द्वीपद्वयमस्ति । जगनिवासराजगृहं क्रिस्ताब्दे १७५४ तमे वर्षे महाराणा जगतसिंहः-२ निर्मापितवान् आसीत् । किन्तु तत् इदानीं उपाहारवसतिमन्दिरम् (Five Star Hotel) अस्ति । जगमन्दिरमपि इदानीं वैभवोपेतम् उपाहारवसतिगृहम् इति प्रसिद्धम् अस्ति ।

पिछोलसरोवरः षोडशे शतके एव प्रसिद्धम् आसीत् । महाराणा उदयसिंहः पिछोलसरोवरं जलबन्धद्वारा विस्तृतवान् आसीत् । 'बाडीपोल्' जलबन्धात् सरोवरस्य विस्तारः ४ कि.मी दीर्घः, ३ कि.मी विस्तृतः च अभवत् । राजगृहं वामपार्श्वे अस्ति ।
पिछोलसरोवरस्य उत्तरभागे फतेहसागरनामकः सरोवरः क्रिस्ताब्दे १६७८ तमे वर्षे निर्मितम् अभवत् । एतत् महाराणा जयसिंहः निर्मापितवान् । महाराणा फतेहसिंहः पुनरेकवारं अधिकवृष्टिकारणेन विनष्टं जलबन्धं पुननिर्मापितवान् । फतेहसागरः २४ कि.मी दीर्घः अस्ति । सदा स्वर्णवर्णैः प्रकाशमानाः एते सरोवराः राजस्थानराज्ये प्राकृतिकं सौन्दर्यं वर्धयन्ति ।

उदयपुरे क्रिस्ताब्दे १७१० -३४ वर्षावधौ निर्मितम् उद्यानमेतत् अतीव सुन्दरमस्ति । बालेभ्यः पारितोषिकरूपेण फतेसागरतीरे राजपुत्रैः उद्यानमेतत् निर्मितम् । अत्र तृणावृतप्रदेशाः, जलोत्सांसि, पादचरणमार्गः च आकर्षणीयः अस्ति ।
'विक्टोरिया म्यूसियं', भारतीयलोककल्पसङ्ग्रहालयः, अहरवस्तुसङ्ग्रहालयः, सज्जननिवासः, उद्यानं, मृगालयः, श्र्वेतगुलाबपुष्पवाटिका इत्यादीनि आकर्षणीयानि स्थलान्यपि अत्र सन्ति । नेहरू-उद्यानं विहारस्थानमस्ति ।

उदयपुरे जगदीशदेवालयः महाराणाजगतसिंहेन क्रिस्ताब्दे १६५१ तमे वर्षे निर्मापितम् । 'इण्डो आर्यन्'-शैल्या निर्मितः देवालयः एषः । अत्र विष्णोः कृष्णशिलामूर्तिः आकर्षणीया अस्ति । उदयपुरसमीपे नाथद्वारदेवालयः (४८ कि.मी ), एकलिङ्गी (२२ कि.मी), रजकपुरजैनमन्दिरं (९६ कि.मी), रिषभदेव(६५ कि.मी), रणकपुरचौमुखमन्दिरं भव्यशिलाकलायुक्तम् आदिनाथाय अर्पितं च अस्ति । क्रिस्ताब्दे १४३९ तमे वर्षे निर्मितमेतत् २९ सभाङ्गणयुक्तं १४४४ स्तम्भयुक्तं च अस्ति । प्रत्येकोऽपि स्तम्भः भिन्नशिल्पकलायुक्तः अस्ति । समीपे नेमिनाथ-पार्श्वनाथ-सूर्य-अम्बामातादेवालयाः सन्ति ।

राणाप्रतापविमाननिस्थानं २५ कि.मी दूरेऽस्ति । देहली-जयपुर-मुम्बई-अजमेरादिनगरेभ्यः विमानसम्पर्कः अस्ति ।

प्यालेस् आन् दि व्हील्स् इत्येतत् सुप्रसिद्धं रैलयानम् अस्ति । देहली-तः चेतक-एक्स्प्रेस् यानमस्ति । देहली हजरतनिजामुद्दीन-तः अपि रैलयानसम्पर्कः अस्ति ।

अहमदाबाद-मौण्ट् अबु-अजमेर-जोधपुरादिनगरेभ्यः राष्ट्रियराजमार्गः - ८ द्वारा वाहनसम्पर्कः अस्ति ।
 




#Article 97: बीकानेर (142 words)


बीकानेर (, ) राजस्थानराज्ये स्थितस्य बीकानेरमण्डलस्य केन्द्रम् अस्ति ।

राजस्थानराज्ये उत्तरभागे मरुभूमिप्रदेशे स्थितम् एतत् नगरम् राजगृहैः दुर्गैः शिल्पैः च प्रसिद्धम् अस्ति रावबिकाजी महोदयः क्रिस्ताब्दे १४८८ तमे वर्षे एतत् नगरं निर्मितवान् । नगरं परितः उन्नताः भित्तयः सन्ति । नगरस्य मुख्यम् आकर्षणं जुनागडदुर्गमस्ति । राजा रायसिङ्गः क्रिस्ताब्दे १५८८ तः १५९३ तमवर्षावधौ एतत् दुर्गं निर्मितवान् ।
दुर्गं ९८६ मीटरदीर्घं, ३७ वीक्षकस्थानैः युक्तं च अस्ति । द्वारद्वयमस्ति । एक सूरजपोल् इति प्रसिद्धम् अस्ति । दुर्गे चन्द्रमहल्, फूलमहल्, कर्णमहल्, रङ्गमहल् विजयमहल् इत्यादीनि सन्ति । राजगृहाणि सुन्दराणि सन्ति । एतेषु आयुधसङ्ग्रहः सभाङ्गणं राज्ञाम् आस्थानम्  इत्यादिकानि सन्ति । दुर्गानिवास, गङ्गानिवास इति द्वे सभाङ्गणे विशिष्टौ स्तः । एतेषां पुरतः रक्तवालुकमये प्रदेशे शिल्पानि सन्ति ।
रक्तदुर्गे राजानः सपरिवारं वसन्ति स्म । रक्तवालुकाशिलाभिः निर्मिते रक्तदुर्गे छायाचित्राणां प्रदर्शनालयः आयोजितः अस्ति ।

जयपुर-तः ३७९ कि.मी दूरे तिष्ठति इदं नगरम् । बिकानेरसमीपे ३३. कि.मी दूरे देशनोकनामकं मूषकाणां मन्दिरम् अस्ति । एतत् कारनीदेवीमन्दिरमिति प्रसिद्धम् अस्ति ।




#Article 98: जैसलमेर (107 words)


जैसलमेर (, ) राजस्थानराज्ये स्थितस्य जैसलमेरमण्डलस्य केन्द्रम् अस्ति ।

जैसलमेर – 'Island in the sand' , 'poem in sand', 'fort city' इत्यादिभिः नामभिः ख्यातम् अस्ति ।

राजस्थानराज्ये उत्तरभागे थारमरुभूमिः अस्ति । तत्रैव एतत् ऐतिहासिकं, सुन्दरं नगरं निर्मितमस्ति । पीतशिलाभिः निर्मितानि कलात्मकभवनानि अत्र सन्ति इति कारणात् स्वर्णनगरी इत्यपि प्रसिद्धम् अस्ति नगरमिदम् । 'म्यूसियं' नगरं, प्राचीनभवनानां नगरं, 'महल'नगरम् इत्यपि ख्यातम् अस्ति एतत् । अत्रत्यानि वातायनानि सुन्दराणि सन्तीति वातायनानां नागरमित्यपि ख्यातम् अस्ति । अत्र नैकाः दुर्गाः, देवालयाः, राजगृहाणि च दृश्यन्ते ।
क्रिस्ताब्दे ११५६ तमे वर्षे रजपूतरावल-जैसल-महाराजः एतत् नगरं स्वस्य राजधानीं कृतवान् । तदनन्तरम् एतत् नगरं कलात्मकभवनैः सुन्दरशिल्पैः उत्तमैः देवालयैः स्वर्णकान्तियुक्तैः राजभवनैः च समग्रे विश्वे सुन्दरनगरम् इति प्रसिद्धं जातम् अस्ति ।




#Article 99: चन्द्रगुप्तमौर्यः (208 words)


चन्द्रगुप्तमौर्यः  (यवनभाषा|Σανδρόκυπτος)  (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्‌। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्योक्त्या सकलं भारतवर्षम् अजयत्। सः शाक्यकुले क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिम् विजित्य तक्षशीलायाम् अभिषिक्तः। अतः सः भारतस्य एकीकर्ता इति मन्यते।
तस्य शासनात् प्राक् पश्चिमोत्तरभारते चत्वारि लघुराज्यानि गङ्गातीरे नन्दराज्यम् च आसन्। परन्तु तस्य साम्राज्यं समस्तं भारतम् आसीत्।

चन्द्रगुप्तमौर्यः नन्दराजकुमारस्य मुरा नामिकाया: चेटिकायाः पुत्रः आसीत् इति केचन इतिहासकाराः मन्यन्ते। अन्ये सः मयुरपोषककुले एकः इति कथयन्ति।

धननन्दः चन्द्रगुप्तमौर्यस्य पितरं कारागरे अक्षिपत्। चाणक्यः तक्षशीलायाम् आचार्यः आसीत्। सः अपि नन्दमहाराजेन अपमानित:। सः प्रतिक्रियाम् अवाञ्छत्। सः वैदेशिकान् यवनान् जेतुं भारतं मोचयितुम् च अपि ऐच्छत्। चन्द्रगुप्तमौर्यः तक्षशीलाम् अगच्छत्। केचन यवनाः सः अलेक्सान्द्रम् तत्र अपश्यत् इति अकथयन्। तत्र सः कौटिल्ल्येन अपि अमिलत्। धीमान् चाणक्यः चन्द्रगुप्तम् सैन्यरचनाविद्यायाम् अबोधयत्। तौ नन्दराज्यं जेतुम् चिन्तनम् अकुरुताम्। चन्द्रगुप्तमौर्यः कौटिल्योक्त्या सेनाम् नयति स्म। सः पर्वतकस्य साहय्येन चाणक्यस्य धूर्तयोजनाभिः च धननन्दम् जितवान्। इयं कथा विशाखदत्तस्य मुद्ररक्षसनाम नाटके कथिता।

चन्द्रगुप्तमौर्यः पश्चिमोत्तरभारते युडामास्-फिलिप्-पैतोनादयः यवनक्षत्रपान् जितवान्।

सेल्युकस् एकः यवनराजः आसीत्। सः पारसिक-अरबिक-बह्लिकादीन् देशान् जितवान्। पूर्वस्याम् दिशि तस्य राज्यस्य सीमा सिन्धुनदी आसीत्। चन्द्रगुप्तमौर्यः तम् जित्वा तस्य पुत्रीं परिणीतवान्। सेल्युकस् तस्मै बह्लिककम्बोजगन्धारसिन्धुबालोचिस्थानादिदेशान् अददात्। तौ मित्रे अभवताम्। मेगस्थेनीस् मौर्यराजसभायाम् उषित्वा इन्डिका नाम ग्रन्थे भारतसंस्कृतिम् अवर्णयत्। चन्द्रगुप्तमौर्यः अपि तस्मै पञ्चशतगजान् दत्तवान्।

सः स्वविशालसेनया दक्षिणभारतम् अपि जितवान्।

स्त्राबो नामकः यवनेतिहासज्ञः चन्द्रगुप्तमौर्यस्य सेनायाम् चतुर्लक्षसैनिकाः आसन् इति उक्तवान्। प्लिनी नाम रोमकेतिहासज्ञः मौर्यसेनायां षड्लक्षपादसैनिकाः त्र्ययुताश्वाः नवसहस्रगजाः च आसन् इति अकथयत्।




#Article 100: मगधः (338 words)


मगधं पूर्वभारते एकं राज्यं आसीत्‌ । मगधदेशः षोडशमहाजनपदेषु अन्यतम: । अद्यतन: बिहारप्रदेश: मगधदेश: आसीत् । तस्य द्वे राजधान्यौ । राजगृह‌ं पाटलीपुत्रञ्चेति । अस्मात् प्रदेशात् एव जैनधर्मः बौद्धधर्मः च उद्भूतौ स्त: । भारतस्य सुवर्णकाले गणितं विज्ञानं ज्योतिषं धर्म: इत्येतेषां शास्त्राणां विकास: अभवत् ।

मगधदेशे अद्यतने पट्ना-गया-मण्डले पश्चिमबङ्गालप्रदेशा: च अन्तर्भवन्ति स्म। अस्य प्रदेशस्य सीमा उत्तरदिशि गङ्गा आसीत् , पूर्वस्याम् दिशि चम्पानदी दक्षिणे च विन्ध्याचलः आसीत्।

एष प्रदेश: एव बौद्धजैनमतानां जन्मस्थानम्। अत्र एव मौर्यगुप्तसाम्राज्ये आरभेताम्। अस्मिन् देशे एव प्राचीनकाले अत्यन्तं प्रख्यात: नालन्दाविश्वविद्यालय: अपि आसीत् । अत्र पाळीभाषा अपि उपयुक्ता भवति स्म ।

अयं वंशः भारतेन बृहद्रथेन स्थापितः । तस्य पुत्रः एव जरासन्धः । जरासन्धः भीमेन हतः । एष: वंशः सहस्रवर्षाणि शासनम् अकरोत् ।

प्रद्योत्तवंशः बृहद्रथवंशस्य उत्तरधिकारी आसीत् । तेषां सम्प्रदायानुसारं पुत्राः स्वपितॄन् हत्वा एव राजानः अभवन् । तेषां शासनकाले मगधदेशे अपराधकरणं नाम कश्चन सामान्य: विषय: आसीत् । अतः एव जनाः प्रतिभटनं कृतवन्त: । ततः हर्यङ्कः जनानाम् इच्छया राजा अभूत् ।

हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्शे प्रतिष्ठितः । बिम्बिसारः एव मगधराज्यं पालयति स्म। तस्य पुत्रः अजातशत्रुः तं कारागारे स्थापयित्वा राजा अभूत् । तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रं लोकस्य वरिष्ठं नगरम् अभवत् । अनिरुद्धः स्वपितरम् उदयभद्रं हत्वा राजा अभवत् । अतः विद्रोह: प्रावर्तत ।

एतद्वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठापितः । अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठापितः ।

अस्य  राज्यस्य संस्थापकः महापद्मनन्दः शिशुनागवंशस्य महानन्दिनः अन्यजातपुत्रोSभवत् । महापद्मनन्दः अष्टाशीतिवर्षाणि यावत् जीवितवान् । नन्दराजाः भारतस्य प्रथमाः साम्राज्यस्थापकाः इति प्रसिद्धाः । अस्य वंशस्य अन्तिमः सम्राट् धननन्दः ।

मौर्यसाम्राज्यं चन्द्रगुप्तमौर्येन प्रतिष्ठापितम् । सः विशालराज्यं प्राशासत । सः कम्भोजपारसिकयवनराज्यान् अपि जितवान् । तस्य पुत्रः बिन्दुसारः आसीत् । तस्य पौत्रः महान् अशोक़ः । कलिङ्गयुद्धानन्तरं अशोकः बौद्धद्धर्मम् अहिंसां च गृहीतवान् । सः शिलाभिलेखनानि अपि स्थापितवान् ।

क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गवंशं प्रतिष्ठापितवान् । इदं राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत् ।

क्रि पू ७५ तमे वर्षे वसुदेवेन कन्ववंशः प्रतिष्ठापितः । इदं राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत् ।

गुप्तराज्यकाल: भारतस्य सुवर्ण्काल: इति कथ्यते । गुप्तवंशः श्रीगुप्तेन स्थापितः । अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायां कालिदासार्यभट्टवराहमिहीरविष्णुशर्मादय: विद्वांस: आसन् इति श्रूयते । मध्य-एशियहूणाः एतद् राज्यम् अनाशयन् ।




#Article 101: सुब्रह्मण्य भारती (736 words)


सुब्रह्मण्य भारती (१८८२-१९२१) भारतस्य कश्चन महाकवि: आसीत्। तस्य जन्म तमिळ्नाडु प्रदेशे एट्टयपुरनामके नगरे अभूत्।
स: कश्चित् पत्रकार: अपि । स: ब्रिटेन-शासनस्य विरोधम् अकरोत्। तस्य नाम्नि कश्चन विश्वविद्यालयः अस्ति कोयम्बत्तूरुमहानगरे।

नाम   -   सुब्रह्मण्यः 
जननम् -   डिसेम्बर११ , १८८२ एट्टयपुरम् , तिरुनेल्वेलीमण्डलम् , तमिळ्नाडु , भारतम् 
मरणम्  -  सप्टम्बर् ११ , १९२१( ३८ वयः )
वासः    -  तिरुवल्लिकेणी , चेन्नै .
अन्यनामानि – भारतीयार् , सुब्बय्या , शक्तिदासः .

१८८२ तमे वर्षे डिसेम्बर् ११ दिनाङ्के चिन्नस्वामी ऐयर् , लक्ष्मी अम्माळ् दम्पतोः पुत्रत्वेन सुब्रह्मण्यः जातः । तं सुब्बय्या इति आह्वयन्ति स्म । सः तस्य एकादशे वयसि एव कविताः लेखितुम् सामर्थ्यं प्राप्तवान् आसीत् । १८९७ तमे वर्षे चेल्लम्मया सह तस्य विवाहः जातः । १८९८ तमे वर्षे वाणिज्ये नष्टं प्राप्तवान् । तेन कारणेन निर्धनः अभवत् । स्वस्य स्थितिं  एट्टयपुरं महाराजाय सूचयित्वा धनसाहायं  प्रार्थितवान् । राजा तस्मै राजभवने उद्योगं कल्पितवान् । किञ्चित् कालानन्तरं तम् उद्योगं त्यक्त्वा वाराणसीं प्रति गतवान् । १८९८ वर्षतः १९०२ वर्षंपर्यन्तं तत्र आसीत् । एट्टयपुरं महाराजेन सः पुनः आनीतः । एवं ७ वर्षाणि गीतानि न लिखितवान् । ७ वर्षानन्तरं १९०४ तमे वर्षे मधुरैनगरे सुब्रह्मण्येन लिखितं गीतं “ विवेकभानु “ पत्रिकायां प्रकाशितम् । आजीवनं बह्वीषु पत्रिकासु सम्पादकरूपेण कार्यं कृतवान् । मधुरैसेतुपतिविद्यालये तमिळ् अध्यापकत्वेन अपि कार्यं कृतवान् अस्ति । 
सुब्रह्मण्यः बहुभाषाज्ञः आसीत् । तमिळ् , हिन्दी , संस्कृतं , बङ्गाली फ्रेञ्च् भाषाः च ज्ञातवान् आसीत् । अन्यभाषाभ्यः साहित्यानि भाषान्तरयति स्म । 

स्वमातृभाषायाः तमिळ्भाषायाः विषये बहु आसक्तिः आसीत् तस्य । बहुभाषाज्ञः सः “ मया ज्ञातासु भाषासु तमिळ्भाषावत् मधुरा क्वापि न विद्यते “ इति तमिळ् भाषायाः माधुर्यविषये कथितवान् अस्ति । इतरभाषासु विद्यमानाः उत्कृष्ठाः कृतयः तेन तमिळ्भाषया अनूदिताः सन्ति । पुरातनकाव्यानां विषये तस्य विशेषासक्तिः आसीत् ।   देशीयकविः अस्ति भारती । तस्य चिन्तनानि सौन्दर्येण सत्यसन्धतया च रचितवान् इत्यतः तं  लोकस्य श्रेष्ठकविभिः सह तोलनं कुर्वन्ति पण्डिताः । बहवः आधुनिककविषु अनितरसाधारणकविः इति तं मन्यन्ते । 
तस्य काश्चन कृतयः ।

भारती  “ स्वदेशमित्रन् “ पत्रिकायाम् उपसंपातकरूपेण १९०४तमवर्षस्य नवम्बरमासतः १९०६तमवर्षस्य आगस्टमासपर्यन्तं कार्यं कृतवान् । तस्य जीवनस्य अन्तिमेषु दिनेषु अपि १९२० आगस्टतः १९२० सप्तम्बरपर्यन्तं कार्यं कृतवान् । चक्रवर्तिपत्रिकायां १९०५ वर्ष तः १९०६ पर्यन्तं कृतवान् । इण्ड्या , सूर्योदयः , कर्मयोगी , धर्मम् इत्यादीषु विभिन्नासु पत्रिकासु कार्यं कृतवान् । बालभारतम् अथवा यङ्ग् इण्डिया नामिकायाम् आङ्ग्लपत्रिकायाम् अपि सम्पादकः आसीत् भारती

स्वातन्त्र्यसङ्घर्षसमये देशैक्यभावात्मकगीतानि रचयित्वा जनानां सङ्घटनं कृतवान् इति कारणेन “ देशीयकविः “ इति आद्रियते सः । सः दक्षिणभारते जन्मप्राप्तवान् चेदपि हिमालयः अस्माकम् पर्वतः , गङ्गा अस्माकं नदी इति गीत्वा तेषां वैशिष्ट्यानि अपि रचयति । 
स्वमातृभूमेः विषये चिन्तनं कृत्वा न केवलं गौरवम् अनुभूतवान् , अपि च तस्याः भविष्यं कथं भवेत् इत्यस्मिन् विषये अपि सः रचयति स्म ( वन्देमातरम् एन्बोम् एङ्गळ् मानिलत्तायै वणङ्गुदुम् एन्बोम् ) । वङ्गस्य प्रभूतं जलम् उपयुज्य भारतस्य मध्यभागे कृषिकार्यं कुर्मः इति तथैव नदीनां संयोजनविषये लिखितवान् ( वङ्गत्तिल् ओडि वरुं नीरिन् मिहैयाल् मैयत्तु नाडुहलिल् पयिर् सेय्हुवोम् ) इति । 
भारतस्य स्वातन्त्र्यप्राप्तितः पूर्वमेव निश्चयेन स्वातन्त्र्यं प्राप्नुमः इति विश्वासेन स्वातन्त्र्यं प्राप्तवन्तः इव  “ आनन्दपळ्ळु “ नाम गीतं गीतवान्  ( आडुवोमे पळ्ळु पाडुवोमे आनन्दसुतन्तिरम् अडैन्दु विट्टोमेन्डृ ) ।

भारतीवर्यः एव स्वस्य गीतेषु प्रथमतया व्याकरणनियमानाम् उल्लङ्घनं कृतवान् । तमिळ्भाषाया  व्याकरणग्रन्थः अस्ति “ तोल्काप्पियं “ ग्रन्थः । भारतेः पूर्वं कवयः तस्मिन् ग्रन्थे यथा नियमाः सन्ति तथैव लिखन्ति स्म । पण्डिताः एव तादृशरचनाः अवगन्तुं शक्नुवन्ति स्म । भारती तान् नियमान् उल्लङ्घ्य सामान्याः  अपि यथा अवगच्छन्ति तथा सरलया शैल्या लिखितवान् । एवं परिहासचित्रलेखनशैलीं ( केरिकट्टुर् ) तमिळ्जनेभ्यः सः एव परिचायितवान् । 

भारतीवर्यस्य महिलानाम् उपरि महान् आदरः आसीत् । तस्य मूलकारणं तु स्वामिविवेकानन्दस्य शिष्यत्वेन स्थिता ‘ भगिनी निवेदिता ‘ एव । कदाचित् भारतीवर्यः स्वातन्त्र्यान्दोलनस्य सम्मेलनं प्रति आगतवान् । 
तदा भगिनी निवेदिता “ पत्नी नागता वा ? ” इति   पृष्टवती । 

तदा एव भारतीवर्यस्य बोधः जातः । तदनन्तरं सः पत्नीमपि स्वातन्त्रान्दोलने भागं स्वीकर्तुं प्रेरयति स्म । महिलानां सर्वासाम् उपरि आदरं दर्शयति स्म । निवेदितामेव स्वस्य गुरुत्वेन स्वीकृतवान् । 
तमिळ्नाडुराज्ये प्रथमवारं महिलानां स्थानविषये भारतीवर्यः एव उद्घोषितवान् । “ महिलानां  दासत्वं यावत् न समाप्यते तावत् स्वातन्त्र्य प्राप्तिः अपि न भवति । “ इति   घोषितवान् । स्त्रिभ्यः सहस्रसहस्रवन्दनानि इति कविताः रचितवान् । स्त्रीत्वम् जयतु इति गीतं लिखितवान् । महिलानां शिक्षणं , ताभ्यः न्यायः कल्पनीयः इति भारतीवर्यस्य चिन्तनम् आसीत् । महिलाः अन्नं कर्तुम् केवलं न , आध्यात्मकार्यं कर्तुम् अपि ताः समर्थाः इति अवलोकितवान् । 

भारतस्य स्वातन्त्र्य-आन्दोलनं सः महाभारतयुद्धम् इव , भारतमातरं पाञ्चाली इव च उपमानं कृत्वा “ पाञ्चालीशपथं “ नाम ग्रन्थं रचितवान् । तस्य उत्तमकविताशैल्याः कारणेन तमिळ्भाषायाः साहित्यक्षेत्रे सः ग्रन्थः उत्तमकाव्यत्वेन शोभते ।

तमिळ्नाडुसर्वकारः भारतीवर्यस्य एट्टयपुरस्थं तस्य गृहं स्मारकरूपेण पालयन्तः सन्ति । चेन्नै नगरे तिरुवल्लिकेणि प्रदेशस्थं भारतीवर्यस्य गृहम् अपि स्मारकरूपेण पालयति  सर्वकारः । एट्टयपुरे भारतीमणिमण्डपः अपि निर्मितः अस्ति । तस्मिन् मध्यभागे ७ पादपरिमिता भारतीवर्यस्य प्रतिमा अपि ११-१२-१९९९ तमे दिनाङ्के पञ्चाबप्रान्तस्य मुख्यमन्त्रिणा दर्बारासिङ्वर्येण प्रतिष्ठिता । तत्र सभामण्डपः अपि निर्मितः अस्ति । १००० जनैः तत्र उपवेष्टुं शक्यते । सुब्रह्मण्यभारतीवर्यस्य जीवनेन सम्बद्धानि भावचित्राणि अपि  तत्र स्थापितानि  सन्ति ।




#Article 102: अयोध्या (109 words)


Ayodhya  (, , IAST Ayodhyā), also known as Saket (, )अयोध्या उत्तरप्रदेशस्य किञ्चन नगरम् अस्ति । एतत् अयोध्यामंडले  अस्ति । सरयूनद्याः तीरे स्थितम् इदं नगरं रामजन्मभूमिः इति प्रसिद्धम् अस्ति । प्राचिनकाले एषः प्रदेशः कोसलनाम्ना प्रसिद्धः आसीत् । रामायणकालात्पूर्वमेव एतत् स्थानं प्रसिद्धम् आसीत् । रघुवंशस्य राज्ञां राजधानी आसीत् ।

लखनौतः १३८ कि.मी., फैजाबादतः १० कि.मी. दूरे अस्ति । 
पुण्यक्षेत्रेऽस्मिन् अनेके देवालयाः सन्ति । रामायणस्य अनेकानि दृश्यानि अत्र द्रष्टुं शक्यानि ।
सीतारसोयी, कैकेयीभवनं, रत्नसिंहासनम्, आनन्दभवनं कोपभवनं वसिष्ठकुण्डं कनकभवनं सरयूनदीतीरम् इत्यादीनि दर्शनीयानि सन्ति । कदाचित् बौद्धानां केन्द्रमपि आसीत् ।

अयोध्याया: इतिहासः अति प्राचीनः अस्ति। नाना पुराणेषु अयोध्याया: वर्णनम् अस्ति। सप्तमोक्षपुरिषु एषा अन्यतमा अस्ति |

राम मंदिर 

हनुमान गढ़ी 

सीता रसोइया 

सरयु नदी 




#Article 103: कजाकस्थान (431 words)


कजाखस्थान मध्य-एशिया-महाद्वीपे विद्यमानः कश्चन यवनदेशः । जगति अयं नवमः बृहत्तमः देशः । अस्य विस्तारः अस्ति २,७२७,३०० चतुरस्र किलोमीटर्मितः । पौरात्ययुरोपदेशस्य अपेक्षया बृहत् वर्तते । अस्य प्रतिवेशिदेशाः उत्तरतः प्रदक्षिणाकारेण एवं वर्तन्ते - रषिया, चीना, किर्गिस्थान्, उझ्बेकिस्थान्, तर्क्मेनिस्थान् च । अस्मात् देशात् ३८ कि मी मिते दूरे एव मङ्गोलियादेशस्य पूर्वबिन्दुः विद्यते ।  जनसङ्ख्यायुक्तः अयं देशः जगति ६२ तमे स्थाने विद्यते जनसङ्ख्यानुगुणम् । १९९८ तमे वर्षे अस्य राजधानी अल्मटितः बृहत्तमं नगरम् अस्टनं प्रति परिवर्तिता जाता ।

इतिहासे अस्मिन् देशे अधिकांशाः सञ्चरणशीलाः वनवासिनः एव निवसन्ति स्म । १६ शतके कझक्जनाः विशिष्टसमूहत्वेन अभिज्ञाताः । १८ शतके रशियन्-जनाः इमं प्रदेशम् आक्रान्तुम् आरब्धवन्तः । १९ शतके सम्पूर्णः कझकस्थानं रशियन्साम्राज्यस्य भागः जातः आसीत् । १९१७ तमे वर्षे जाते रशियन्-क्रान्तेः अनन्तरम् अयं प्रदेशः कझक् सोवियत् सोशियलिस्त् रिपब्लिक् नाम्ना यु एस् एस् आर्-भागत्वेन परिगणितः ।

१९९१ तमस्य वर्षस्य डिसेम्बर्मासस्य १६ दिनाङ्के कझकस्थान् स्वतन्त्रदेशत्वेन उद्घोषितः । नर्सुल्तान् नझर्वयेव् अस्य देशस्य प्रथमः अध्यक्षः जातः । देशस्य राजनैतिकीं स्थितिं सम्पूर्णतया निगृह्णाति अयम् अध्यक्षः । स्वातन्त्र्यस्य प्राप्तेः अनन्तरं देशस्य आर्थिकस्थितेः वर्धनाय परिश्रमः क्रियमाणः अस्ति । विदेशीयव्यवहारेषु अपि प्रगतिः दृश्यते । अयं देशः विभिन्नासंस्कृतैः युक्तः अस्ति । ६३% जनाः कझक्जनाः विद्यन्ते । ७०% जनाः इस्लामधर्मस्य अनुयायिनः । अवशिष्टेषु अधिकांशाः क्रिस्तमतावलम्बिनः । कझक्भाषा एव देशस्य भाषा । कार्यालयेषु रशियन्भाषा अपि उपयुज्यते ।

कझकस्थानम् अध्यक्षशासनयुतम् । अस्य देशस्य एकमेवाद्वितीयः अध्यक्षः अस्ति नर्सुल्तान् नझर्बयेवः । अध्यक्षः समग्रायाः सेनायाः प्रमुखः च । कझकस्थानस्य सर्वकारे प्रधानमन्त्री अन्ये मन्त्रिणश्च विद्यन्ते । लोकसभायां त्रयः उपप्रधानमन्त्रिणः १६ मन्त्रिणश्च विद्यन्ते । २००७ तमस्य वर्षस्य जनवरीमासस्य १० दिनाङ्कतः करिम् मसिमोवः प्रधानमन्त्रिरूपेन कार्यं कुर्वाणः अस्ति । लोकसभायाम् अधोगृहम् (मजिलिस्) उपरिगृहम् (सेनेट्) च विद्येते । मजिलिस्मध्ये १०७ स्थानानि विद्यन्ते । सेनेट्मध्ये ४७ सदस्याः विद्यन्ते । अध्यक्षः ७ सेनेट्जनानां नियुक्तिं करोति ।

अयं जगति बृहत्तमः स्थलरुद्धप्रदेशः विद्यते । अस्य देशस्य ६,८४६ कि मीटर्मितः सीमाभागः रशियादेशेन सह, २२०३ कि मीटर्मितः सीमाभागः उझबेकिस्थान्देशेन सह, १५३३ कि मीटर्मितः सीमाभागः चीनादेशेन सह, १०५१ कि मीटर्मितः सीमाभागः किर्गिस्थान्देशेन सह, ३७९ कि मीटर्मितः सीमाभागः तुर्क्मेनिस्थान्देशेन सह च संविभक्तः अस्ति । अस्तन, अल्मटि, करगण्डि, शिम्केण्ट्, अत्यरौ, ओस्केमेन् इत्येतानि प्रमुखानि नगराणि । अयं देशः ४००- ५६० उत्तर-अक्षांशे, ४६०-८८० पूर्व-रेखांशे च विद्यते । देशस्य महान् भागः एशियाखण्डे विद्यते, अल्पश्च भागः पूर्व-युरोपखण्डे विद्यते ।

 चतुरस्रकिलोमीटर्मिता कझक्-समभूमिः देशस्य त्रिषु एकांशः अस्ति । जगति बृहत्तमशुष्कसमप्रदेशः विद्यते । अत्र विद्यमानाः प्रमुखाः नद्यः सरोवराश्च - अराल्-सी, इलि-नदी, इषिम्-नदी, उरल्-नदी, सिर्-दर्य, चर्यन्-नदी, जार्ज्, बल्खाष्-सरोवरः, झाय्सन्-सरोवरश्च ।

युरेनियम्-बहिर्वाणिज्ये अग्रेसरः अस्ति अयं देशः । गोधूमः, वस्त्रोद्यमः इत्यादिषु अपि वाणिज्यम् अधिकम् । 
२००० तमे वर्षे कझकस्थानेन अन्ताराष्ट्रिय-धनसाहाय-संस्थायै (International Monetary Fund (IMF)) ऋणप्रत्यर्पणम् अकरोत् निश्चितावधितः सप्तभ्यः वर्षेभ्यः पूर्वमेव । २००२ तमस्य वर्षस्य मार्च्मासे अमेरिकादेशस्य वाणिज्यविभागेन अमेरिकावाणिज्यविधेः अनुसारं कझकस्थानाय विपणि-वाणिज्यानुमतिः प्रदत्ता । एतेन महान् लाभः जातः ।

कझकस्थानस्य आर्थिकतायां १०.३% भागः भवति कृषिक्षेत्रस्य । देशस्य  चतुरस्रकिलोमीटर्मितः भागः कृषिभूम्या युक्तः अस्ति । देशस्य मुख्यफलोदयाः - गोधूमः, बार्लि, कार्पासः, व्रीहिश्च ।




#Article 104: सिङ्गापुरम् (652 words)


सिङ्गापुर आग्नेयएशियाखण्डे सिन्‍धुमहासागरे तटस्थ देशोऽस्‍ति ।

सिङ्गापुरस्य संस्कृतभाषायां प्राचीननाम सिंहपुरम् अस्ति ।

À
Singapore (Listeni/ˈsɪŋɡəpɔr/), officially the Republic of Singapore, and often referred to as the Lion City, the Garden City, and the Red Dot, is a leading global city in Southeast Asia and the world's only island city-state. It lies one degree (137 km) north of the equator, at the southernmost tip of continental Asia and peninsular Malaysia, with Indonesia's Riau Islands to the south. Singapore's territory consists of the diamond-shaped main island and 62 islets. Since independence, extensive land reclamation has increased its total size by 23% (130 km2), and its greening policy has covered the densely populated island with tropical flora, parks and gardens.

The islands were settled from the second century AD by a series of local empires. In 1819, Sir Stamford Raffles founded Singapore as a trading post of the East India Company; after the company collapsed, the islands were ceded to Britain and became part of its Straits Settlements in 1826. During World War II, Singapore was occupied by Japan. It gained independence from Britain in 1963, by uniting with other former British territories to form Malaysia, but was expelled two years later over ideological differences. After early years of turbulence, and despite lacking natural resources and a hinterland, the nation developed rapidly as an Asian tiger economy, based on external trade and its human capital.

Singapore is a global commerce, financial and transportation hub. Its standings include: Easiest place to do business (World Bank) for ten consecutive years, most Technology-ready nation (EIU), top International meetings city (UIA), city with Best investment potential (BERI), 2nd-most competitive country (WEF), 3rd-largest foreign exchange centre, 4th-largest financial centre, 3rd-largest oil refining and trading centre and one of the top two busiest container ports since the 1990s. Singapore's best known global brands include Singapore Airlines and Changi Airport, both amongst the most-awarded in their industry; SIA is also rated by Fortune surveys as Asia's most admired company. For the past decade, it is the only Asian country with the top AAA sovereign rating from all major credit rating agencies, including SP, Moody's and Fitch.

Singapore ranks high on its national social policies, leading Asia and 11th globally, on the Human Development Index (UN), notably on key measures of education, healthcare, life expectancy, quality of life, personal safety, housing. Although income inequality is high, 90% of citizens own their homes, and the country has one of the highest per capita incomes, with low taxes. The cosmopolitan nation is home to 5.5 million residents, 38% of whom are permanent residents and other foreign nationals. Singaporeans are mostly bilingual, with English as their common language and a second mother-tongue language. Its cultural diversity is reflected in its extensive hawker cuisine and major ethnic festivals—Chinese, Malay, Indian, Western—which are all national holidays. In 2015, Lonely Planet and The New York Times listed Singapore as their top and 6th best world destination to visit respectively.

The nation's core principles are meritocracy, multiculturalism and secularism. It is noted for its effective, pragmatic and incorrupt governance and civil service, which together with its rapid development policies, is widely cited as the Singapore model. Gallup polls shows 84% of its residents expressed confidence in the national government, one of the highest ratings recorded. Singapore has significant influence on global affairs relative to its size, leading some analysts to classify it as a middle power. It is ranked as Asia's most influential city and 4th in the world by Forbes.

Singapore is a unitary multiparty parliamentary republic, with a Westminster system of unicameral parliamentary government. The People's Action Party has won every election since self-government in 1959. One of the five founding members of the Association of Southeast Asian Nations (ASEAN), Singapore is also the host of the Asia-Pacific Economic Cooperation (APEC) Secretariat, and a member of the East Asia Summit, the Non-Aligned Movement, and the Commonwealth of Nations.




#Article 105: स्विट्झर्ल्याण्ड् (3545 words)


स्विटजरलैंड यूरोपमहाद्वीपे मध्‍यक्षेत्रे विद्यमानः देश: । 
स्विट्झर्ल्याण्ड् (जर्मन् श्वैट्स Schweiz फ्रेञ्च् सुवीस् Suisse इटालियन् स्वीट्सेरा Svizzera) अधिकृततया स्विस् संयुक्तसंस्थानम् (ल्याटिन् भाषया कान्फे़डेराट्यो हेल्वेटिका, अतः अस्य ISO राष्ट्र सङ्केतत्वेन CH एवं CHE इति स्वीकृतम् अस्ति ।)
परितः भूप्रदेशेन आवृतः पर्वत प्रदेशः, जनसंख्या तावत् ( २००९ वर्षस्य ) ७.७ दशलक्षमिता, ४१,२८५ कि.मी विस्तीर्णम् अवाप्य स्थितं पश्चिमयुरोपप्रदेशस्य राष्ट्रमेतत् । स्विट्झर्ल्याण्ड् कयाण्टन् इति नाम्ना प्रसिद्धानि २६ राज्यानि अवाप्य संयुक्तगणराज्यमभवत् । ‘बर्न’ राज्यस्य अधिकारकेन्द्रम् । अस्य देशस्य द्वे जागतिके महानगरे नाम जिनीवा, एवं ज्यूरिच् । स्विट्झर्ल्याण्ड्राष्टस्य प्रतिजनम् आयः GDP $ 67,384 अस्ति इत्यतः समग्रदेशीय-उत्पन्नस्य आधारेण विश्वस्य अत्यन्तसम्पन्नराष्ट्रेषु अन्यतमम् इति परिगणितम् अस्ति । ज्यूरिच् तथा जिनीवा नगरे अनुक्रमेण विश्वे द्वितीयं तथा तृतीयम् उन्नतजीवनश्रेण्या श्रेयाङ्किते नगरे स्तः ।
स्विट्झर्ल्याण्ड् देशस्य उत्तरे जर्मनी, पश्चिमे फ्रान्स् , दक्षिणे इटली एवं पूर्वे लियेकटेन्स्टीन् ,तथा आष्ट्रियादेशः सीमारुपेण सन्ति । एषः देशः दीर्घकालात् अलिप्तनीतिं स्वनीतित्वेन स्वीकृतवान् अस्ति । १८१७तमवर्षात् एतेन देशेन कस्मिन् अपि युद्धे भागह् न स्वीकृतः अस्ति । रेड्क्रास्, विश्ववाणिज्यसङ्घटना एवं यु.एन् सदृशानाम् सङ्घटनानाम् ऐरोप्यशाखासु एकां शाखाम् अवाप्य अनेकेषाम् अन्ताराष्ट्रियसङ्घटनानाम् आतिथेयत्वं प्राप्तवान् अस्ति । यद्यपि एतेन राष्ट्रेण ऎरोप्यराष्ट्रसङ्घस्य सदस्यत्वं न प्राप्तं . तथापि षेङ्गन् नियमानां बद्धता अस्ति ।
अनेन जर्मन्, फ्रेञ्च्, इटालियन्, तथा इति चतस्रः भाषाः राष्ट्रभाषारुपेण स्वीकृताः सन्ति । अतः एव स्विट्झर्ल्याण्ड् बहुभाषिकं राष्ट्रम् । राष्ट्रस्य औपचारिकं नाम जर्मन् भाषया Schweizerische Eidgenossensschatt फ्रेञ्च्अभाषया confederation Suisse इटालियन् भाषया confederazione Svizzera रोमन् भाषया confederaziun Svizra इति । साम्प्रदायिकतया स्विट्झर्ल्याण्ड् स्थापना तावत् १२९१तमवर्षस्य आगस्टमासस्य प्रथमदिनाङ्के अभवत् । अतः स्विट्झर्ल्याण्ड् देशस्य राष्ट्रियदिनं तस्मिन् दिने आचरन्ति ।

स्विट्झर्ल्याण्ड् इति आङ्लनाम्नः स्विट्झर् इति भागः षोडशशतकात् नवदशशतकं यावत् स्विस्देशस्य कृते प्रयोगे आसीत् । इदानीं तत् पदं प्रयोगे नास्ति । तस्य एव रुपान्तरितं ’स्विट्झर’ पदं स्वीकृत्य संयुक्तपदं ‘स्विट्र्ल्याण्ड्’ पदं जातम् । आंग्लपदं स्विस्’ इति यत् तत्तु फ्रेञ्च्भाषया स्वीकृतं Suisse इत्यस्मात् । षोडषशतकात् प्रयोगे स्थितं गुणवाचकम् इदम् । जर्मन् भाषयाsuittes शब्दस्य अर्थः ‘दहनार्थंम् इति । सुडान् नगरं स्थापयितुम् अरण्यदहनं यत् कृतम् तस्य स्मरणार्थ एतत् पदं स्वीकृतं स्यात् । अनन्तर तदेव व्यापकं सत् वयाण्टन् प्रभुत्वे स्थितेषु सर्वप्रदेशेषु विस्तृतम् स्यात् ।

१७९८ तमे वर्षे फ्रेञ्चक्रान्तिसेना स्विट्झर्ल्याण्ड् देशं वशीकृत्य एकीकृतसंविधानं तस्योपरि उपस्थापितवती । एषा राष्ट्रस्य शासनम् एकीकृतम् अकरोत् । तस्य परिणामेन कयाण्टन् व्यवस्था निष्कासिता ।
एवं मुल्हासन्, वाक्टेल्लिका,खातौ स्विट्झर्ल्याण्ड्तः पॄथक् जातौ ।‘ हेल्वेटिक् गणराज्यम्’ इति नाम्ना नूतनप्रभुत्वम् अपख्यातिम् अवाप्नोत् । अनेन शतकेभ्यः या संस्कृतिः आसीत् सा नष्टा अभवत् । स्विट्झर्ल्याण्ड्देशः केवलं फ्रेञ्चपराधीनराष्ट्रमभवत् । १७९८ तमे वर्षे निड्वाल्डेन संग्रामः सेनाशासनस्य विरोधे स्थानिकनिवासिनां स्पष्टम् उदाहरणं भवितुमर्हति । फ्रान्स् तथा तस्य विरोधिनां मध्ये यदा युध्दमारब्धम् तदा रशिया आष्ट्रिया सैनिकाः स्विट्झर्ल्याण्ड्देशं स्वाधीनं कृतवन्तः । १८०३ तमे वर्षे नेपोलियन् गणद्वयस्य प्रमुखः स्विस् राजकारणिनः अहुय प्यारिस् मध्ये सन्धानं कारितवान् । अनेन मध्यवर्तिशासनस्य आचरणम् अभूत् । स्विस् स्वायत्तता युक्तं १९ संयुक्तकयांटन् शासनस्य परिचयः अभवत् ।१८१५ तमे वर्षे वियेन्ना शासनम् स्विस् स्वातन्त्र्यं पुनः अस्यापयत् । ऎरोप्यशक्तयः स्विस् अलिप्तनीतिम् अन्ते स्वीकृतवन्तः । १८६० गेटा संग्रामस्यानन्तरं सन्धाने वलायिस्, न्ययाटेल् एवं जिनीवा कयांटन स्विस् वशे आगतम् ततः प्रभृति स्विट्झर्ल्याण्ड् देशस्य सीमा(व्यत्यस्ता न अभवत्) तथैव वर्तते ।

युरोप् देशस्य इतरे देशाः यदा क्रान्तिसंग्रामयोः मध्ये यदा श्रान्ताह् आसन् तदास्विस् जनाः अमेरिकाशैल्या प्रेरिताः सन्तः संयुक्तव्यवस्थायाः वास्तविकसंविधानरचने निमग्नाः आसन्। संविधानेन अनेन क्याण्टन् मध्ये स्थनीयसमस्यायाः परिहारस्य अधिकारः अपि प्रदत्तः । अन्ये सर्वे अधिकाराः केन्द्रसर्वकारस्य अधीने आसन् । राष्ट्रियसंसदं द्विधा विभज्य उन्नतगृहम् (upper house) एवं निम्नगृहम् (लोवरहौस्) इति विभज्य, संविधानस्य परिष्कारे जनाभिप्रायस्य सङ्ग्रहणम् अवश्यमिति नियमः कृतः । 
एकीकृतभारमापनस्य तथा मापनव्यवस्थायाः परिचायिता । १८५० तमे वर्षे स्विस् प्राङ्क् स्विस् संयुक्तदेशस्य एकैका नाण्यपध्दितिः इति स्वीकृतवन्तः । संविधानस्य ११ अनुच्छेदः विदेशीयानां कृते सेनासेवायाः निर्बन्धं करोति ।
१८८२ मध्ये उद्घाटितः गात्यर्ड शकटयानसुरङ्गमार्गः , टिकिनोतः दक्षिणक्याण्टन प्रति सम्पर्कं कल्पयति ।
संविधानस्य एकः प्रमुखः विधिः एवं वर्तते “यदि अनिवार्यं तर्हि सम्पूर्णतया संविधानं पुनः रचयितुं शक्यते इति । एषः विधिः जनसंख्यायाः आधिक्यानन्तरं तथा उद्यमक्रान्तेः परिणामतया आगतः ।
१८९१ तमवर्षात् आरभ्य अद्यपर्यन्तम् नैज प्रजाप्रभुत्वस्य दृढ-अंशान् स्वीकृत्य संविधानस्य परिष्कारः कृतः ।

१७ शतकस्य आरम्भे प्रारब्धेन प्रवासोद्यमेन प्रमुखाः मूलभूतव्यवस्थाः निर्मिताः । द्वयोः अपि विश्वसमरयोः द्वे विश्व स्रेमरेऽपि, स्विट्झर्ल्याण्ड्देशः न आक्रान्तः । प्रथमविश्वसमरे स्विट्झर्ल्याण्ड्देशः लेनिन् (व्लाडिमिर इल्लियिच अल्यानोऽव् ) महोदयाय आश्रयम् अयच्छत् । १९१७ पर्यन्तम् सः अत्रैव अवसत् १९२० तमे वर्षे स्विट्झर्ल्याण्ड्देशः “यस्य कस्यापि देशस्योपरि सेनाकार्याचरणे भागं न वहति” इति निबन्धनापूर्वकं जीनीवास्थिते ‘लीग् आफ नेशनस्” सङ्घटने प्रवेशं स्व्यकरोत् ।
द्वितीय विश्वसमरेऽपि स्विट्झर्ल्याण्ड्देशः जर्मनीदेशेन आक्रान्तः न अभवत् । स्विट्झर्ल्याण्ड् आक्सिस् तथा मित्रदेशयोः मध्ये द्विपक्षीयगुप्तचारस्य सन्धानं जातम् आसीत् । १९४०तमवर्षस्य मे-जूनमासयोः स्विस् वायुसेना मित्रपक्षस्य तथा आक्सिस्देशस्य युध्दविमानैः साकं युध्दं कृत्वा, ११ लुप्टवाटिविमानानि अनाशयत् । प्रहय्यत । १९४५ तमे मार्चमासे , ४ दिनाङ्के बसेल् एवं ज्यूरिय नगरस्योपरि मित्रपक्षाणां कुख्यातः स्फोटकप्रहारः अभवत् । बर्न क्याण्टन् १९७९तमे वर्षे स्विसदेशस्य अधीनम् अभवत् ।
१९५९ तमे वर्षे स्विस् क्यांटन् मध्ये महिलानां कृते मतदानस्य अवसरः प्रदत्तः । किन्तु केन्द्रस्तरे १९७१ तमे वर्षे मतदानस्य अवसरः कल्पितः । बहुविरोधानन्तरम् अन्तिमक्याण्टन् अप्पेनजल- इन्नरहोण्डनमध्ये १९९० तमे वर्षे अवसरः प्रदत्तः । १९८७ तमे वर्षे एलिजबेत् कोप् ,केन्द्रकार्याङ्गस्य समित्याः प्रथमा महिला सदस्या भूत्वा, १९८९वर्षपर्यन्तम् कार्य निरूढवती । रुत ड्रेप्स् महोदयः १९९९ तमे वर्षे प्रथम अध्यक्षः बभूव । २००७ तमे वर्षे मिषेलिन् कल्मीरे द्वितीया अध्यक्षा अभवत् । सा स्वीये सचिवसम्पुटे /उच्चसमितौ द्वे महिले सदस्यत्वेन (सहोद्योगित्वेन) स्वीकृतवती । 
स्विट्झर्ल्याण्ड्देशः युरोप् शासनमण्डले १९६३ तमे वर्षे संयोजितः । १९९९ एप्रील १८ तमे दिने जनसमुदायः एवं कयाण्टन् राज्यानि सम्पूर्णं परिष्कृतं संविधानं स्वीकृतवन्तः ।

२००२ तमे वर्षे स्विट्झर्ल्याण्ड्देशः संयुक्त-राष्ट्र- सङ्घस्य पूर्ण प्रमाणेन सदस्यराष्ट्रम् अभवत् । अनेन व्याटिकन् एकम् एव संयुक्त-राष्ट्रसङ्घस्य सदस्यत्वम् अप्राप्तवत्सु अवशिष्टम् अभवत् । स्विट्झर्ल्याण्ड्देशः (EFTA) इ एफ टि ए स्थापकसदस्यराष्ट्रमस्ति। ऐरोप्य-आर्थिकवलयस्य सदस्यता एतेन देशेन न स्वीकृता अस्ति । १९९२तमवर्षस्य डिसेम्बरमासे इ इ ए (EEA) तिरस्कृतम् अभवत् । अनन्तरम् आर्थिकवलयस्य सदस्यताप्राप्तिविषये प्रयत्नोऽपि स्थगितः। इ.इ.ए विषये जनभिप्रायं पृष्टवत्सु एकैकं राष्ट्रम् अस्ति स्विट्झर्ल्याण्ड्देशः ।

१८४८ तमे वर्षे अङ्गीकृतं केन्द्रसंविधानम् आधुनिककेन्द्रराष्ट्रकल्पनायाः शासनाधारस्य मूलमासीत् । एतत् संविधानं तादृशविश्वव्यवस्थायां द्वितीयम् । १९९९ तमे वर्षे नूतन संविधानम् अङ्गीकृतं तथापि तस्मिन् केन्द्रव्यवस्थासम्वन्धेषु गमनार्हाः नूतनभेदाः न दृश्यन्ते ।
बर्न् नगरे स्विट्झर्ल्याण्ड् संयुक्त संसत् तथावं स्विस् केन्द्र समितिः (कार्याङ्गः) यत्र कार्य निर्वहति तत् सौधं केन्द्रप्रासाद इति नाम्ना निर्दिशन्ति ।
स्विस् संसदि द्वे सभे स्तः । प्रतिक्याण्टन्तः निर्देशानुसारं चिताः ४६ प्रतिनिधयः भवन्ति संस्था- समित्याम् । प्रत्येकक्यांटनजनसंख्याधारेण तः २०० सदस्यान् बिभ्रति राष्ट्रियसमितिः । प्रत्येकसभायाः सदस्यानाम् अवधिः ४ वर्षाणि । जनभिप्रायसंग्रहद्वारा शासनस्य विषये आक्षेपं कर्तुं, संविधाने परिवर्तनं कर्तुं अपि जनाः समर्थाः भवन्ति । अतः स्विट्झर्ल्याण्ड् नैजार्थे प्रजाप्रभुत्वराष्ट्रम् इति वक्तुं शक्यते ।
केन्द्रसमितिः केन्द्रसर्वकारं रचयति एवं केन्द्रं शासनं निर्दिशति । अतः केन्द्रव्यवस्थायाः नेतारः सन्तः सदस्याः कार्यं निर्वहति । एषा समितिः केन्द्रशासनसभायां निर्बाचितसप्तसहोद्योगिसदस्यान् चत्वारिवर्षाणि बिभर्ति । समितेः कार्यशैल्याः उपरि आसनसभायाः परिवीक्षणं भवति । सप्तसदस्येषु एकं केन्द्राध्यक्षरूपेण शासनसभा निर्वाचयति । अध्यक्षः सर्वकारस्य नेतृत्वं निर्वहति तथा प्रतिनिधिकं कार्यमपि करोति । अध्यक्षस्य कोपि विशिष्टः अधिकः अधिकारः नास्ति विभागस्य मुख्यस्थः भूत्वा कार्यं निर्वहति ।२००७ तमे वर्षे केन्द्र समितेः निर्वायने केन्द्र समित्याः सप्त सथानानि एवम् आसन् ।---------

केन्द्र सर्वोय्य न्यायालयः इतर-उच्यन्यायालयस्य न्यायदानस्योपरि स्थितानाम् आक्षेपाणां निवेदनमात्रं परिशीलयति । न्यायादीशः केन्द्रशासनसभाद्वारा ६ वर्षाणां निमित्तं निर्वाचितः भवति ।

लेण्डस् जेमिनैड एतत् पुरातनशैल्याः प्रजाप्रभुत्वम् । इदानीं अपि क्याण्टन् द्वये प्रचलितमस्ति । स्विस् नागरिकाः इदानीं त्रयाणां स्तराणां न्यायव्याप्तेः आधीनाः भवन्ति । ते तु, गणः, कयाण्टन् एवं केन्द्रस्तरः । १७४८ तमवर्षस्य केन्द्रीयसंविधानेन नैजप्रजाप्रभुत्वव्यवस्था निरुपिता । पौर-अधिकाराः इति नाम्ना प्रख्याताः एते स्विस् प्रजाप्रभुत्वस्य प्रलेखाः सन्ति। संविधानात्मकशासनाधिकारस्य चालने तथा जनाभिप्रायसंग्रहणस्य अथवा उल्लेखस्य अधिकारं ददति । एतौ सांविधानिकनिर्णयान् परिवर्तयितुं समर्थौ ।
	नागरिकाणां कश्चन समूहः राष्ट्रस्य जनाभिप्रायं संग्रह्य अङ्गीकृतशासनमेकम् अङ्गीकारानन्तरमपि शतदिनाभ्यन्तरे एव, ५०,००० विरोधिजनानां हस्ताक्षरं सङ्गृह्य आक्षेपान् कर्तुं शक्नोति । तदा राष्ट्रियस्तरे अभिप्रायसङ्ग्रहपूवकं बहुमतद्वारा शासनम् अङ्गीकुर्वन्ति अथवा तिरस्कुर्वन्ति । संविधानात्मकव्यत्ययः राष्ट्रिय- जनाभिप्रायद्वारा तथा प्रत्येकराज्यस्य (क्याण्टन्) आन्तरिक-अभिप्रायद्वारा अथवा उभयबहुमतद्वारा भवितुम् अर्हति ।
स्विझर्लेण्ड देशे २६ क्याण्टन् (राज्यानि) सन्ति ।
क्याण्टन् तेषां राजधान्यः च एवं सन्ति --

स्विट्झर्ल्याण्ड्देशे द्वौ पराधीनौ प्रदेशौ स्तः । तयोः बुसिङ्गेन् –जर्मनीदेशस्य वशे अस्ति । क्याम्पियोने डि इटालिया –इटलीवशे अस्ति ।
वोरार्ल् बर्ग् आष्ट्रियादेशस्य राज्यमासीत् । तत्र १९१९ तमे वर्षे मे २२ तमे दिनाङ्के कृतस्य जनाभिप्रायस्य सङ्ग्रहानुसारं ८०% तः अधिकजनाः स्वराज्यं स्विस् राष्ट्रे विलीनं भवतु इति प्रकटितवन्तः । तथापि एतत् विलीनम् आष्ट्रियासर्वकारेण, मित्रदेशैः, स्विस् उदारवादिभिः अन्यैश्च एषः प्रयत्नः निवारितः । 

राष्ट्रस्यास्य अलिप्तनीतेः कारणतः अनेके अन्ताराष्टियसंस्थाः अत्र स्वपीठान् अत्र स्थापितवन्तः । १८६३ तमे वर्षे ‘रेड्क्रास्’ संस्था अत्र संस्थापिता । संस्थायाः साङ्घिककेन्द्रम् अस्मिन् देशे एव अस्ति । अस्य देशस्य जिनीवा नगरे ऐरोप्य- प्रसारणाकेन्द्रस्य प्रधानकार्यालयः अस्ति ।
जिनीवा नगरं, संयुक्तराष्ट्रसङ्घस्य द्वितीयं बृहत् केन्द्रम् । न केवलं तावत् संयुक्तराष्ट्रसङ्घस्य उपकार्यालयाः अपि जिनीवा नगरे विद्यन्ते । उदाहरणार्थं विश्व आरोग्य संस्था (WHO) अन्ताराष्ट्रियदूरसम्पर्क केन्द्रम्, एवं अन्ये द्विशताधिक-अन्ताराष्ट्रियसंस्थानां कार्यालयाः अत्र विद्यन्ते ।यथा – अन्तराष्ट्रिय-ओलिम्पिक्-समितिः, ज्यूरिच् मध्ये विद्यमानं अन्ताराष्ट्रीय-साङ्घिकपादकन्दुकक्रीडाकेन्द्रम् ((FIFA) , ऐरोप्यपादकन्दुकक्रीडाकेन्द्रम् (UEFA) अपि अत्रैव अस्ति ।
विश्व-आर्थिकविपण्याः प्रतिष्ठानं जिनीवा नगरे एव अस्ति । डावोस् मध्ये प्रचाल्यमाना वार्षिकीसभाकारणातः अस्य प्रसिध्दि सर्वत्र वरीवर्तते । अस्यां सभायां अन्ताराष्ट्रियप्रमुखव्यवहारान् तथा राजकीयप्रमुखान् एकत्र संयोज्ज्य आरोग्यपरिसरयोः विषये, विश्वस्य ज्वलन्तीनां समस्यानां च निवारणविषये च (परिहारस्य विषये वा) चर्चा प्रचलति ।
साम्प्रदायिकतया स्विट्झर्ल्याण्ड्देशः अलिप्त राष्ट्रम् । सेना, राजकीयम् अथवा आर्थिकव्यवहारसम्बन्धि -मैत्रिकार्यात् दूरे एव तिष्ठति । स्वीझर्लेण्ड् देशस्य विस्तरणं यदा अभवत् ततः प्रभृतिः अलिप्तप्रमेतत् । २००२ तमे वर्षे संयुक्तराष्ट्रसंघस्य पूर्ण प्रमाणस्य सदस्यत्वं स्वीकृतं अनेन तदपि जनाभिप्रायसङ्ग्रहद्वारा ।
स्विट्झर्ल्याण्ड्देशः जगति विद्यमानैः सर्वराष्ट्रैः साकं राजतान्त्रिकसम्बन्धम् अस्यापयत् । स्विट्झर्ल्याण्ड्देशेन ऐरोप्य –राष्ट्रसङ्घस्य सदस्यत्वं एतावता अपि न स्वीकृतम् ।

पदातिदलवायुदले एवम् उभयत्र अपि स्विस् सेनादलम्, प्रमुखतया आग्रहेण नियुक्तसैनिकैः व्याप्तम् अस्ति । वृत्तिपरसैनिकाः सेनादलस्य ५% माव्रं सन्ति । अन्ये सर्वे आग्रहेण नियुक्ताः । २० तः ३४ (विशेषसन्दर्भे ५०) वर्षवयोपरिमितेः नागरिकाः सन्ति । स्विझर्लेण्डभूप्रदेशेन आवृतम् अतः अत्र नौकासैन्यं नास्ति । तथापि सरोवर-प्रदेशानां रक्षणार्थं सेना रक्षणानौकाः उपयुज्यते । व्याटिकन् नगरस्य रक्षणं विहाय विदेशीयानां वा विदेशी सैन्यानां वा सेवा स्विस् नागरिकाणां कृते निषिद्धा अस्ति ।
स्विस् सैनिकाः शस्त्रास्त्राणि इतरवस्तूनि च स्वगृहे एव स्थापयेयुः इति निर्बन्धः विद्यते । एषः निर्बन्धः विवादात्मकः तथा अपायकारी च इति राजकीयपक्षाः स्वाभिप्रायं प्रकटितवन्तः सन्ति । सेनायां सेवाकरणं स्विस्सर्वपुरुषनागरिकाणां कृते अनिवार्यम् इति निर्बन्धः अस्ति । किन्तु स्त्रियः स्वयं प्रेरणया सेवां कर्तुम् अर्हन्ति ।

स्विट्झर्ल्याण्ड्देशः (आधुनिकः) विश्वे अत्यधिकप्रमाणस्य वैयक्तिकस्वायत्त-उदार-आर्थिकव्यवस्थां प्राप्तवान् अस्ति । अतः अत्र आर्थिकस्थिरता अत्र दृश्यते । ऐर्लेण्ड्देशं विहाय स्विट्झर्ल्याण्ड्देशः उन्नत- ऎरोप्यश्रेयाङ्कम् , आर्थिकस्वातन्त्र्यं च व्यक्तेः सार्वजनिकसेवा द्वारा व्यापकतां प्राप्तवान् अस्ति ।, पाश्यात्यदेशानाम् ऎरोप्यदेशानां जापानस्य च अपेक्षया आर्थिकदृष्ट्या अधिकं जिडिपि (GDP) (प्रत्येकस्य व्यक्तेः आयः ) लब्ध्वा, लस्केंबर्ग् नार्वे, कतार, ऎसलेण्ड् ,ऐर्लेण्ड्देशः इत्येतेषाम् अवन्तरस्य षष्ठं (स्थानं) श्रेयाङ्कं प्राप्नोति । ग्रेटरज्यूरिच् प्रदेशे १.५.दशलक्षमिताः उद्योगिनः सन्ति । सहस्त्राधिक- संस्थाः अत्र विद्यन्ते । उन्नतस्तरस्य जीवनशैलीम् अत्र पश्यामः ।
एङ्गाडिन्खातसदृशन्यून-उद्यमवति आल्फैन्पर्वतप्रदेशे प्रवासोद्यमः आयस्य मुख्यं स्रोतः अस्ति । व्यक्तेः क्रयणसागर्थ्यानुसारं स्विट्झर्ल्याण्ड्देशः विश्वे १५ श्रेयाङ्कम् आप्नोति । विश्व-आर्थिक-सङ्घटनायाः विश्वे १५तमं श्रेयाङ्कम् आप्नोति । विश्व-आर्थिक- सङ्घटनायाः विश्वस्पर्धात्मकता इति वृत्तानुसारं स्विट्झर्ल्याण्ड्देशः विश्वे द्वितीयं श्रेयाङ्कं प्राप्नोति । २० तमे शतके स्विट्झर्ल्याण्ड्देशः युरोप् खण्डस्य अत्यन्तम् आढ्यं राष्ट्रमासीत् । २००५ तमे वर्षे स्विट्झर्ल्याण्ड्देशस्य मध्यमस्तरस्य कौटुम्बिक-आदायः ९५,००० (C.H.F) सि.एच्. एफ. इति परिगणितमासीत् । क्रयणसामर्थ्यानुसारम् एषः ८२,००० यु.एस् डालर्स्. (नवेम्बर् २००८ विनिमयमूल्यानुसारं) भवति । अतिधनिकस्य अमेरिकादेशस्य संस्थानस्य क्यालिफोर्नियाराज्यस्य समानम् एतत् ।
स्विट्झर्ल्याण्ड्देशः विश्वस्य ५० प्रतिशतं हस्तघटीनाम् उत्पादनं करोति (ओमेगा स्पीडमास्टर् नामिकयोः संस्थयोः चयनम् अपोलो कार्याचरणार्थं कृतम् आसीत् । )
स्विट्झर्ल्याण्ड्देशः अनेकासां बृहत् अन्ताराष्ट्रियसङ्घटनानां मूलस्थानम् अस्ति । आयस्य अनुसारम् अतिबृहत् आर्थिकसङ्घटनाः तावत् ग्लेन्कोर् नेस्ले , नोवार्टिस्, हाफमन् ला-रोके, ए.बि.बि तथा अडेक्को इत्यादयः । गमनार्हाः अन्याः सङ्घटनाः तावत् - युबिएस् एजि(UBS AG), ज्युरिच् वाणिज्यसेवासंस्था, क्रेडित स्यूस्से, स्विस् रे स्वाच् समूहाः च । स्विट्झर्ल्याण्ड्देशः विश्वे अत्यन्तं समर्थम् आर्थिकं राष्ट्रम् इति श्रेयाङ्कितम् अस्ति ।
रासायनिकानि आरोग्यसम्बद्धानि औषधानि, मापन-उपकरणानि, सङ्गीत-उपकरणानि, स्थिरसम्पत्, वित्तकोशव्यवहारः, योगक्षेमव्यवहारः ,प्रवोसोद्यमः, अन्ताराष्ट्रियसंस्थाः स्विट्झर्ल्याण्ड्देशस्य प्रमुखोद्यमाः सन्ति । अत्यन्तं अधिकतया निर्यातः नाम- 

निर्यातसेवाः निर्यातस्य १/३ भागमितं विनिमयं प्राप्नुवन्ति ।
स्विट्झर्ल्याण्ड्देशे ३.८ दशलक्षजनाः कार्यं कुर्वन्ति । अत्र निरुद्योगसमस्या अत्यन्तं न्यूना ।, निरुद्योग प्रमाणं तावत् २००० तमे वर्षे जूनमासे १.७ प्रतिशतम् आसीत् । २००४ तमे वर्षे सप्टेम्बर् मासे ३.९% अभूत् । विदेशिनागरिकाणां संख्या २००४ तमे वर्षे २२.७% आसीत् । कार्यनिरतप्रतिघण्टम् आयः २७.४४ डालर् आसीत् २००६ तमे वर्षे । स्विट्झर्ल्याण्ड्देशे स्वायत्तवलयस्य आर्थिकता विद्यते। पाश्चात्त्यमानदण्डस्यानुसारं न्यूनः करः विद्यते । आहत्य अभिवृद्धिशीलदेशेषु अत्यन्तं न्यूनः राजस्वसंग्रहः दृश्यते ।
उद्यमस्थापनं स्विट्झर्ल्याण्ड्देशे सुलभं सुकरं च । उद्यमस्थापने १७८ राष्ट्रेषु स्विट्झर्ल्याण्ड्देशस्य षोडशं स्थानम् । २००० तमे वर्षे आर्थिकसुधारणा नीतिरङ्गीकृता। ऎरोप्य् राष्ट्रसङ्घेन साकं सामरस्यं समासाधितम् । केवलं ३७ प्रतिशतं जनाः अत्र स्वकीयं गृहं प्राप्तवन्तः । युरोपराष्ट्रेषु एषा अत्यन्तं न्यूनसंख्या इति गमनीयो अंशः । उदारीकरणम् इ.यु राष्ट्रानुगुणं न्यूनम् । तथापि देशीयविक्रयणसामर्थ्यं विश्वे अत्युत्तमम् । स्विट्झर्ल्याण्ड्देशः ऎरोप्यमुक्तवाणिज्यसङ्घस्य (इ.एफ्,टि,ए) सदस्यराष्ट्रम् अस्ति।

कतिचन प्रमुखाः स्विस् विज्ञानिनः एते सन्ति- लियोनार्ड् यूलर् (गणितम्) लूयिस् अगस्सिस् (हिमनदी शास्त्रे) अल्बर्ट ऐन्स्टायिन् (भौतशास्त्रे ), अगस्टे पिक्कार्ड् (वायुयानविज्ञाने ) च ।
स्विट्झर्ल्याण्ड्देशस्य संविधाने शालाशिक्षणव्यवस्था राज्यानाम् अधीनम् इति उक्तत्वात् वैविध्यमयं शिक्षणव्यवस्था अत्र दृश्यते । अत्र अनेकाः स्वायत्त- अन्ताराष्ट्रियशालाः, तथा सार्वजनिकशालाः अपि विद्यन्ते । २०,००० सहस्र जनाः १८ तः २२सप्राहान् यावत् वार्षिकसेनाप्राथमिकप्रशिक्षणे भागं वहन्त्ति । ‘सेनाXXI’ इति सेनासुधारणानियमानुसारम् आहत्य सैनिककर्मकराणां संख्या ४,००,००० तः २०,०००,०० जाता अस्ति । तेषु २,२००,०० जनाः सक्रियसेनाकार्यम् निर्वहन्ति । अन्ये सर्वे आरक्षितसेनाकर्मकराः इति परिगण्यते ।

स्विट्झर्ल्याण्ड्देशस्य अखण्डताम् अलिप्रतां च रक्षयितुं एतावता समग्रतया त्रीणि शस्त्रसहितकार्याचरणानि विहितानि । 

अलिप्तनीतेः कारणात् अस्य देशस्य सेना, विदेशीयसेनाकार्ये भागं न वहति । तथापि कदाचित् शान्तिपालनानियोगेषु भागं स्वीकरोति । २००० तमवर्षात् सर्वे स्विस् रक्षणाविभागाः कृतक-उपग्रहाण्णाम् ‘ओनिकस्’ गुप्तचर- विवरणव्यवस्थाम् आप्नोति । शीतलसमरस्य अन्तिमेभागे सैनिक कार्याचरणम् त्यक्तुम् अथवा समग्रसेनासमूहमेव निषेधयितुं प्रयत्नाः आरब्धाः । अस्मिन् विषये १९८९तमे वर्षे नवेम्बर मासे २६ दिनाङ्के कृते जनाभिप्रायसङ्ग्रहणे एषः प्रयत्नः विफलः जातः । तथापि जनानां अभिप्रायः अस्मिन् विषये सकारात्मकः एव आसीत् । किन्तु पुनः ९/११प्रकरणे (अमेरिकादेशे विमानसङ्घट्टनेन यत् भवनद्वयं पातितं तत्) जनाभिप्राय- सङ्ग्रहणे ७७% जनाः पुनः सेनासमूहस्य निषेधविचारम् अधिकृत्य विरुध्दाभिप्रायं प्रकटितवन्तः ।

आल्फस् पर्वतश्रोण्याम् उत्तरदक्षिणदिग्भागे विस्तृतः स्विट्झर्ल्याण्ड्देशः केवलं ४१,२८५ च कि.मी.(१५९४० च. मैल्) सीमितव्याप्रौ वैविध्यमयं विशालदृश्यं तथा हितकरं वातावरणम् आप्नोति । सर्वसामान्यजनसान्द्रता प्रति च कि.मी कृते २४० यावत् भवति । एतेन प्रमाणेन आहत्य ७.६ मिलियन् जनाः भवन्ति । राष्ट्रस्य दक्षिणे भागे जनसम्मर्दः तथा नास्ति । उत्तरभागे तथा दक्षिणस्य अन्तिमभागे अधिकजनसम्मर्दः वर्तते । अस्य प्रमुखं कारणं तावत् अत्र भागशः अरण्ययुक्तप्रदेशेन साकम् बृहत सरोवराणि सन्ति एवं आरोग्यकारकः पर्वत- प्रदेशाः सन्ति ।
स्विट्झर्ल्याण्ड्देशः त्रिविधमूलभूतलक्षणैर्युक्तः अस्ति । 

आल्फस् पर्वताः राष्ट्रस्य ६०% विस्तीर्णम् अवाप्य राष्ट्रस्य दक्षिणार्धपर्यन्तं विस्तृताः सन्ति । स्विस् आल्फस् पर्वतश्रेण्यां उन्नतशिखरेषु, ४६३४ मीटर् औन्नत्यवान् (१५२०३पादमितः) डुपोर्स्विट्स् अत्यन्तम् उन्नतम्। पर्वतः एषः अनेकैः जलपातैः हिमनदीभिः असङ्ख्याकैः खातैः च युक्तः अस्ति । ऎरोप्यनदीषु प्रमुखाः टैन्, टोन्, इन्, आटे टिकिनो नद्यः इतः एव उद्भूय अन्ते जिनीवासरोवरं(लाकलेमन्) ज्य़ूरिच् सरोवरं, न्यूयटेल् सरोवरं, तथा कानस्टान्स् सरोवरं वा प्राप्नुवन्ति ।
अत्यन्तम् प्रसिध्दः पर्वतः तावत् वलायिस् प्रान्ते स्थितः ग्याट्टरहार्न (४४७८ मी), इटलीसीमायां स्थितः पेन्नैन् आल्फस् च ।इतोपि उन्नताः पर्वताः अस्मिन् प्रदेशे सन्ति । ते तु डुपोरस्पिरस् (४६३४मी) डाम् (४५४५ मी) वेयिसहार्न्(४५०६ मी) च । आल्फस् भागे ७२ जलपाताः सन्ति । जुङ्गफ्राव् (४१५८ मी) ऎगर्, सदृशाः चित्रोपमाः अनेके खाताः अत्र प्रसिध्दाः सन्ति । आग्नेयदिशि प्रसिध्दः एङ्गाडिन् खातः अस्ति । बर्निना आल्फस् पर्वतस्य अत्युन्नत शिखरं तावत् पिजबर्निना (४०४९ मी.) .
राष्ट्रस्य सम्पूर्णे विस्तीर्णे ३० प्रतिशतं यावत् विस्तृते राष्ट्रस्य उत्तरभागे अधिकजनसम्मर्दः विद्यते । मध्यभूमिः इति तस्य नाम । एषा उन्नतैः मुक्तैः , विशालदृश्यैः च मनोहारिणी अस्ति। । प्रदेशः एषः भागशः अरण्ययुक्तः , मुक्तशाद्वलयुक्तः, शाकफलोत्पादकः सन् पर्वतमयः अस्ति । अनेकानि बृहत् सरोवराणि अत्रैव सन्ति । स्विस् देशस्य अत्यन्त बृहत् नगराणि अस्मिन् भागे एव सन्ति । स्विट्झर्ल्याण्ड्देशस्य पश्चिमे स्थितं जिनीवा (लाक् लेमन् इति फ्रेञ्चभाषया) सरोवरमं बृहत् सरोवरं विद्यते । टोन् नदी जिनीवासरोवरस्य मुख्या उपनदी वर्तते ।

स्विस् वातावरणम् साधारणतया समशीतोष्णवातावरणम् । पर्वतस्य अग्रभागेषु अत्यधिकं शैत्यं, दक्षिणाग्रभागे आह्लादकरवातावरणं विद्यते । तथापि मध्ये वैविध्यम् अस्ति एव । ग्रीष्मकाले वातावरणं हितकरं भवति । ग्रीष्मकालः हितोष्णायुक्तः आर्द्रतायुक्तः भवति इत्यतः तदा तदा वर्षा भवति । अतः अत्र प्रशस्तानि शाद्वलानि भवन्ति । पर्वतप्रदेशे शैत्यकाले सूर्यस्य हिमवर्षीयाणां मध्ये च स्थित्यन्तरं भवति । निम्नप्रदेशः मेघैः अथवा तुषारैः आवृतः भवति । इटलीप्रदेशस्य आल्फस् पर्वतश्रेण्याः उपरिष्टात् ‘फान्’ इति किञ्चन प्रसिद्धं हितकरम् उष्णसहितं वातावरणम् वर्षस्य सर्वकाले वर्षाकालेऽपि सम्भवति । वलायिस् दक्षिणखातप्रदेशे शुष्कवातावरणं भवति । अत्र केसरवरं मद्यनिर्माणे उपयुज्ज्यमानानि द्राक्षाफलानि च वर्धन्ते। ग्रावुबण्डेन् प्रदेशेऽपि शुष्क- वातावरणं विद्यते। शैत्यकाले अधिकः हिमपातः भवति । आल्फस् पर्वतप्रदेशे आर्द्रपरिस्थितिः भवति । टिकिनो क्याण्टन् मध्ये आतपः भवति । तथापि तदा तदा बहुवर्षा अपि भवति । स्विट्झर्ल्याण्ड्देशस्य पूर्वभागस्यापेक्षया पश्चिमभागे अधिकं शैत्यं भवति तथापि पर्वतस्य उन्नतस्थानेषु वर्षस्य सर्वकाले अपि शीतं वातावरणम् अनुभवितुं शक्यते । हिमपातः वर्षस्य सर्वकाले समानरूपेण भवति । परन्तु ऋतुमवलम्ब्य किञ्चित् भेदः भवति । शरत्काले सामान्यतया अतिशैत्यं भवति । तथापि स्विट्झर्ल्याण्ड्देशस्य वातावरणं प्रतिवर्षं व्यत्यस्तं भवति । अतः पूर्वसूचनादानं कष्टकरम् ।
स्विट्झर्ल्याण्ड्देशः अतिसूक्ष्मपरिसरे अस्ति । उन्नतपर्वतप्रदेशात् पृथक्भूताः अनेके सूक्ष्मखाताः अत्र सन्ति । एते एव अतिसूक्ष्मपरिसरस्य कारणीभूताः । पर्वतप्रदेशः अपि सूक्ष्मपरिसरम् आप्नोति एव । उन्नतप्रदेशाः एते विपुलैः सस्यप्रभेदैः युक्ताः सन्ति। एते प्रदेशाः सन्दर्शकैः प्राणिभिः च कष्टमनुभवन्ति च । इदानीं गृहे एव पशुनां पालनपोषणं भवति इत्यतः अरण्यनाशः न भवति । अतः स्विट्झर्ल्याण्ड्देशस्य पर्वतप्रदेशस्य विम्नभागाः २००० (पाद) मी.तः ऊर्ध्वमपि सस्यप्रमेदैः व्यापृताः सन्ति ।

प्राथमिकशिक्षणाय कनिष्ठः आयुः षट् वर्षाणि इति निर्धारितम् अस्ति । प्राथमिकशिक्षणं पञ्चमकक्षापर्यन्तं भवति । साम्प्रदायिकशालासु २००० तमे वर्षे आंग्लभाषा एऐदम्प्राथम्येन विदेशिभाषारुपेण परिचायिता । माध्यमिक- शिक्षणस्य आरभ्भे छात्राणां सामर्थ्यानुसारं त्रिषु विभागेषु छात्राः विभक्ताः भवन्ति । बुध्दिमन्ताः छात्राः उन्नत- प्रशिक्षणं प्राप्य उन्नतशिक्षणाय ‘मतुरा’ र्थ सन्नध्दः भवन्ति । अन्ये स्वयोग्यतानुसारं शिक्षणं लभन्ते ।
ज्य़ूरिचमध्ये स्थापितं ETH ‘झेन्त्रम्’ क्यांपस् स्विट्झर्ल्याण्ड्देशे एव प्रतिष्ठितः विश्वविद्यालयः अस्ति । अत्र अल्बर्ट् ऎनस्टैन् विद्याभ्यासं कृतवान् आसीत् । स्विट्झर्ल्याण्ड्देशे १२ विश्व विद्यालयाः सन्ति । तेषु दश विद्यालयेषु सामान्यतया अतान्त्रिकविषयान् एव बोधयन्ति । ज्य़ूरिच् विश्वविद्यालये २५,००० छात्राः सन्ति । केन्द्र सर्वकारेणस्थापितौ विद्यालयौ तावत् ज्यूरिच् मध्ये स्थापितः इ.टि.एच्. झड् विश्वविद्यालयः तथा लासन्ने नगरस्य इ.पि.एफ.एल् विश्वविद्यालयः । एतौ अन्ताराष्ट्रिय ख्यातेः विश्वविद्यालयौ। एतद् विहाय अत्र अनेके अन्वयिक विज्ञानविशविद्यालयाः अपि सन्ति । पदवीपूर्वस्य, तथा अनन्तरतनशिक्षणे विदेशिछात्राणां संख्यासु आष्ट्रेलियादेशस्य अनन्तरतनं तन्नाम द्वितीयम् अत्युन्नतस्थानं स्वीकरोति स्विट्झर्ल्याण्ड्देशः ।
विश्वविख्यातः भौतशास्त्रस्य विज्ञानी आल्बर्ट् ऎनष्टैनस्य सापेक्षतासिध्दान्तस्य कृते प्रदत्तं नोबेल् पुरस्कारम् अतिरिच्य अनेके नोबेल् पुरस्काराः स्विस् विज्ञानिभिः स्वीकृताः सन्ति । तेषु व्लाडिमिर प्रिलाग् हेनरिक् आर्नैष्ट, रिचर्ड, आर्नेष्ट, एडमण्ड फिशर, राल्फ जिंकर न्यागेल् तथा कुर्ट वुत्रिच प्रमुखाः । आहत्य ११३ नोबेल् प्रशस्तिविजेतारः सन्ति । अत्रत्य काभिश्चित् संस्थाभिः अपि ९ वारं नोबेल-शान्तिपुरस्कारः प्राप्तः अस्ति ।

अणुभौतशास्त्रस्य संशोधनार्थ विश्वस्य अतिबृहत् सुरङ्गप्रयोगालयः जिनीवानगरे स्थापितः सी.इ.आर्.एन् । विश्वविज्ञानिभिः सद्यः एव बिग् ब्याङ्ग् सिद्धान्तस्य यः प्रयोगः कृतः सः अत्र एव । तस्य फलितांसः अपि २०१२ तमवर्षस्य जुलै चतुर्थदिनाङ्के घोषितः। तत्र हिग्स् बोसोन् नानकस्य देवकणस्य अस्तित्वं तैः अभिलक्ष्य अधिकृता घोषणा अपि प्रकटिता । तादृशम् अन्यत् प्रमुखं सांशोधनाकेन्द्रमस्ति पालषेरर संस्था । एतयोः प्रमुखः आविष्कारः नाम सागरस्य अन्तर्भागं गन्तुम् ब्याथिस्केप् तन्त्रज्ञानम् । नूतन लोकस्यैव परिचयः अनेन तन्त्रज्ञानेन अभवत् । 
स्विट्झर्ल्याण्ड्देशस्य बाह्याकाशप्रयोगालयः नामिका बाह्याकाशसंस्था अनेकेषु बाह्याकाशतन्त्रज्ञानकार्यक्रमेषु भागम् ऊढवती अस्ति ।

गसजेन् परमाणुशक्तिस्थावरं स्विट्झर्ल्याण्ड्देशस्य चत्वारि स्थावरेषु अन्यतमम् । स्विट्झर्ल्याण्ड्देशः ५६% जलविद्युतशक्तिं, ३९% परमाणुविद्युत् शक्तिं, ५% साम्प्रदायिकशक्तिं विद्युत् उत्पादने स्विकरोति । अतः एतत् CO2 मुक्तविद्युतशक्ति-उत्पादनाजालम् अभूत । इन्धनोपयोगी सम्बन्धित सर्वविषयेषु दि स्विस् फेडरल् आफीस आफ् एनर्जी (एस्.एक्.ओ.ई) नियोगस्य दायित्वमस्ति । नियोगः एषः २०५० तमवर्षात् पूर्वम् इन्धनस्य उपयोगः इदानीन्तनस्य उपयोगस्य अर्धभागः भवेत् इति उद्देशेन २०००व्याट्समुदाययोजनां पुरस्करोति ।
लाट्स्बर्गरैलमार्गस्य अधः विद्यमानः नूतनः लाट्स्बर्गरैलमार्गः विश्वे एव अत्यन्तं दीर्घः तृतीयः रैलसुरङ्गमार्गः अस्ति ।एतत् क्यारस्बर्ग मूलसुरङ्गमार्गस्य तथा आल्फस् ट्रान्सिट् योजनायाः प्रवेशद्वारम् अस्ति ।
राष्ट्रियमार्गस्य उपयोगार्थं ४० स्विस् प्रांक् दत्त्वा ‘विग्नट्टे’ (राजस्व चीटिकाः ) क्रयणं करणीयं भवति । राष्ट्रिय -मार्गः १६३८ दीर्घः अस्ति । विस्तीर्णं तावत् ४१२९० कि.मी वर्तते । ज्यूरिचविमानस्थानकम् बृहत् अन्ताराष्ट्रियविमानस्थानकम्। २००७ तमे वर्षे २०. ८७ दशलक्षजनाः अत्र यात्रां कृतवन्तः । युरोविमानस्थानकं तथा बसेल् –म्यूल हौस् –पैरबर्ग क्रमशः द्वितीयं तृतीयं विमानस्थानकं भवतः ।
स्विट्झर्ल्याण्ड्देशस्य रैलमार्गः ५०६३ कि.मी दीर्घः अस्ति । प्रतिवर्षम् अत्र ३५० दशलक्षजनाः प्रयाणं कुर्वन्ति ।
स्विट्झर्ल्याण्ड्देशेन त्याज्यसंस्करणस्य तथा तस्य पुनर्विनियोगस्य च विषये नियमाः कृताः सन्ति । अस्मिन् विषये सक्रियः अयम् सर्वकारः ६६% तः ९६% यावत् वस्तूनि संस्कृत्य तेषां पुनरुपयोगे सफलह् अस्ति । केषुचित् राज्येषु गृहत्याज्यवस्तूनां निर्वहणे धनं देयं भवति । धनं दत्त्वा स्यूतः स्वीकरणीयः । तत्रैव त्याज्याः सङ्गृह्यन्ते । नो चेत् २०० तः ५०० सि.एच्.एफ् पर्यन्तम् दण्डः विधीयते ।

विदेशीनागरिकाणां तथा तात्कालिकविदेशीकार्मिकाणां जनसंख्या २२% अस्ति ।एते ऎराप्यदेशात् ६०% आगताः सन्ति । इटलीदेशस्य १७.३% जर्मनीदेशीयाः १३.२% , सैबीरिया एवं माण्टेनिग्रोतः ११.५% पोर्चुगालतः ११.३% जनाः अत्र आगताः सन्ति । श्रीलङ्कादेशात् तमिळुसन्त्रस्थाः अपि अत्र दृश्यन्ते ।

अनेकाः युरोपीयसंस्कृतयः स्विट्झर्ल्याण्ड्देशस्य उपरि, अत्रत्यभाषायाः उपरि प्रभावम् अकुर्वन् । स्विट्झर्ल्याण्ड्देशे चतस्रः अधिकृतभाषाः सन्ति । ताः तु जर्मन् (६३.७%) उत्तरे पूर्वे एवं मध्यभागे, पश्चिमे फ्रेञ्चभाषिणः (२० तः २१%) दक्षिणे इटालियन् भाषिणः (६.५% तः ४.३% ) सन्ति । रोमांश् तथा रोमन् भाषा अल्पसंख्याकानां स्थानीयभाषारूपेण क्रमशः ५%, ६% च अस्ति । संयुक्तराष्ट्रियशासनानुसारं जर्मन्,फ्रेञ्च , इटालियन् रोमांशभाषा च अधिकृतभाषाः भवितुमर्हति । राष्ट्रियभाषया साकम् इतरराष्ट्रिय- भाषासु एका भाषा अनिवार्यतया शालासु अध्येतव्या भवति ।

२००६ तमवर्षस्य समीक्षानुसारं जीतितावधिः पुरुषाणां ७९ वर्षाणि, स्त्रीणां ८४ वर्षाणि । प्रपञ्चे एव एतत् अधिकं इति ज्ञायते । स्विस्प्रजाः अनिवार्यरूपेण सार्वत्रिक- आरोग्ययोगक्षेमाधीनाः भवन्ति । अनेन ते अनेकविध -आधुनिकवेद्यकीयसेवां प्राप्तुं शक्नुवन्ति । अत्रत्याम् आरोग्यसेवाव्यवस्थां सेवाकांक्षिणः बहुधा श्लाघन्ते ।

राष्ट्रेस्मिन् ७५% जनाः नगरे बिवसन्ति । ७० वर्षेषु एव स्विट्झर्ल्याण्ड्देशस्य ग्रामाः नगरीकृताः । २००० वर्षेषु भूप्रदेशे यानि परिवर्तनानि जातानि तदपेक्षया अधिकानि परिवर्तनानि १९३५ तमवर्षात् नगरीकरणेन जातानि सन्ति ।
स्विट्झर्ल्याण्ड्देशस्य नगरजनसम्मर्दः अधिकः दृश्यते । जनसम्मर्दः प्रतिकि.मी. कृते ४५० वर्तते । अत्यधिक- जनसम्मर्दयुक्तानि मेट्रोपोल्नगराणि क्रमशः ज्यूरिच् , जिनीवा लासन्ने, बसल् एवं बर्न । ज्यूरिच् एवं जिनीवा नागरिकाणाम् उन्नतजीवनस्तरः शैली च विश्वे एव प्रसिध्दः वर्तते ।

स्विट्झर्ल्याण्ड्देशे क्रैस्तमतं प्रधानं मतम् । क्याथोलिक् (४२.८%) तथा प्रोटेस्टेण्ट(३५.३%) इति जनाः द्विधा विभक्ताः सन्ति । निर्वासिताः इल्साम् मतानुयायिनः (४.३%) सन्ति । तेषु प्रधानतया कसोवर्स् तथा तुर्काः सन्ति । तथैव पूर्वदेशीयाः अल्पसङ्ख्याकाः सम्प्रदायवादिनः (१.८%) मतानुयायिनः दृश्यन्ते । २००५ युरोबाटोमीटर् समीक्षणानुसारं ४८% आस्तिकाः, ३९% जनाः आत्मा, प्रेरणाशक्तिः इत्यादिषु विश्वासवन्तः सन्ति । ९% नास्तिकाः, ४% जनाः अज्ञेयवादिनः सन्ति ।

जीन्- जाक्वेस् रवस्साव् नामकः न केवलं लेखकः अपि तु १८ तमशतकस्य प्रमुखः तत्वज्ञानी अपि आसीत् । साहित्यप्रकारस्य प्राचीनरुपाणि जर्मन् भाषायां सन्ति ।
स्विस् जर्मन् साहित्य क्षेत्रे अत्यन्तं प्रसिद्धौ जरेमियास् गथेल्स् (१७१७ तः १८५४ ) तथा गाटफ्रेड् केल्लर- (१८१९ तः १८९०) । २० तमशतकस्य स्विस् साहित्ये उत्कृष्टकृतयः नाम म्याक्स् फ्रिष्, (१९११-९१)तथा फ्रेड्रिक् ड्युरेनम्यार् (१९२१ तः ९०) इत्येतयोः कृती ‘दैफिसिकेर’ (दिफिसिसिस्स्) तथा दास् वर्सप्रचेन् (द प्लेडज्) । एते कृती २००१ तमे वर्षे हालिवुड् चलनचित्रे जाते । प्रसिध्दफ्रेञ्चसाहित्यकाराः नाम जीन्- जाक्वेस् रवस्साव् (१७२२-१७७८) तथा जर्मैने डि स्टील् (१७६६-१८१७) । अर्वाचीनलेखकेषु चार्ल्स् फर्डिनाण्ड रामुज् (१८७८ तः १९४७), ब्लेस् सेंड्रार्स् (पूर्वं फ्रेड्रिक् सासर् १८८७ -१९६१) प्रसिद्धौ स्तः । इटालियन् रोमांशभाषिकानाम् अपि अस्मिन् विषये योगदानं दृश्यते । तथापि एतेषां सङ्ख्या अल्पा एव ।
	स्विस्भाषायाः सुप्रसिद्धा सहित्यकृतिः नाम ‘हैडी’ (बाल कृतिः) बालानां कृते रचितमिदम् । तस्य रचयित्री जोहान् स्वैरीव (१८२७-१९०१) महाभागा ।

स्विट्झर्ल्याण्ड्देशेन पत्रिकास्वातन्त्र्यं , मुक्त-अभिव्यक्ति स्वातन्त्र्यं च प्रदत्तम् अस्ति । स्विस्राष्ट्रियवार्ता, तिसृषुराष्ट्रिय- भाषासु, राजकीय-आर्थिक- सामाजिक- सांस्कृतिक- विषयसम्बन्धिविवरणम् दिनस्य सर्वसमयेषु प्रसारयन्ति । बहुप्रसिद्धा पत्रिका तावत्, जर्मन्भाषापव्रिका तजस् अन्विजर तथा न्य़ूये ज्युचेर् ग्लैटुङ्ग् (एन्, झेड् झेड्) फ्रेञ्चभाषया प्रकाश्यमाना लि टेंप्स् । स्थानीयवार्तापव्रिकाः सर्व नगरेषु सन्त्येव । सांस्कृतिकवैविध्यता बहुसांख्यिकपव्रिकायाः प्रसारणे कारणम् ।
	स्विस् प्रसरणा संस्था रे बानुली एवं दूरदर्शनस्य कार्यक्रम निर्माणम् एवं प्रसारं निर्वहति । व्यापक तन्तुवाहक(केबल्) जालस्थसवृतात् स्विस् जनाः अन्यराष्ट्रस्य (राज्यस्य) कार्यक्रममपि वीक्षितुं समर्थाः भवन्ति ।

(स्कीयिंङ्) हिमक्रीडां पर्वतारोहणं च स्विस् जनाः तथा विदेशीयाः अपि बहु इच्छन्ति । उन्नतशिखराणि पर्वतारोहिणः विश्वस्य सर्वदेशेभ्यः आकर्षयन्ति । ‘हाट्रुट्’ अथवा पट्रौलिडेस् हिमनद्यां प्रयलिष्यमाणा हिमक्रीडास्पर्धा अन्ताराष्ट्रियप्रख्यातिं तनुते ।
स्विस् जनाः पादकन्दुकक्रीडामपि(फुट्बाल्) बहु इच्छन्ति । रोजर् फेडरर् टेन्निस् (उत्पीठिका कन्दुकक्रीडा) क्रिडायाम् अत्यद्भुतं साधनं कृतवान् अस्ति ।

पुरातनक्रीडास्यर्धासु मल्लयुध्दम् (अथवा श्विन् जेन्) अपि अन्यतमम् । पुरातनसाम्प्रदायिका कीडा एषा राष्ट्रियक्रीडा इत्यपि परिगणिता वर्तते । भारकन्दुकक्षेपणक्रीडा अपि अत्र जनप्रिया वर्तते । ८३.५ भारभूतस्य शिलायाः ‘उन् स्पन्नेन् स्टेन्’ इति कथयन्ति ।

स्विट्झर्ल्याण्ड्देशः बहुपाकपध्दतिम् अनुसरति । भक्ष्याः तावत् ‘फण्ड्यु’ राक्लेट्टे अथवा रोस्टी देशे सर्वत्र लभ्यन्ते । अनेकेषु प्रदेशेषु स्थानीय भोजनकलानुसारं वैविध्यं दृश्यते । साम्प्रदायिक-आहारपध्दत्यां क्षीरोत्पनानि, नवनीतसदृशं ‘ग्रूयरे’ अथवा एमेण्टल् अधिकतया उपयुज्ज्यते ।
स्विट्झर्ल्याण्ड्देशे चाकलेहाः बहुजनैः इष्टं खाद्यम् । स्विस्देशे वैन् मुख्यतया जिनीवानगरे, टिकिनोनगरे च उत्पादयन्ति ।द्राक्षाक्षेत्राणि स्विट्झर्ल्याण्ड्देशे रोमकालात् अपि सन्त्येव। सुप्रसिध्दमद्यविधाः तावत् ‘चास्सेलास्’ , पिनोट् नायिर्’ च । टिकिनोमध्ये उत्पाद्यमानम् ‘मर्लोट्’ अपि प्रमुखं मद्यम् अस्ति ।




#Article 106: बोलिविया (189 words)


बोलिविया दक्षिण-अमेरिका-महाद्वीपे विद्यमानः कश्चन देश: ।

Bergbau [Bearbeiten]Seit der Eroberungsfeldzüge der Spanier bis in die Mitte des 20. Jahrhunderts ist die bolivianische Wirtschaft vor allem durch den Bergbau (Abbauprodukte Silber und Zinn) gekennzeichnet gewesen. Durch den Verfall der Rohstoffpreise in der 2. Hälfte des 20. Jahrhunderts und durch die zunehmende Erschöpfung der Rohstoffquellen sind die Erlöse aus dem Bergbau drastisch zurückgegangen und viele Bergleute entlassen worden. Möglicherweise könnte der Bergbau seine Bedeutung jedoch mit der Erschließung der Region „El Mutún“ (Eisenerz) wiedererlangen.

Von zunehmender Bedeutung für Bolivien ist die Förderung von Energierohstoffen. Bolivien verfügt über Südamerikas zweitgrößte Erdgasreserven. 90 Prozent des geförderten Erdgases wird exportiert, überwiegend nach Brasilien und Argentinien. Nach der Privatisierung wichtiger Industrien unter dem Ley de Capitalizacion von 1994 hat die neue Regierung unter Präsident Evo Morales 2006 die „Souveränität des bolivianischen Volkes über seine wichtigsten Ressourcen“ wiederhergestellt, indem den im Land tätigen erdgasfördernden und -verarbeitenden Unternehmen die Verpflichtung zu Neuverhandlungen mit dem staatlichen YPFB (Yacimientos Petrolíferos Fiscales Bolivianos) auferlegt wurde. Mit der Unterzeichnung aller neu auszuhandelnden Verträge im Dezember 2006, kontrolliert die Regierung Boliviens jetzt die Erdgasreserven des Landes sowie die dort operierenden ausländischen Unternehmen.




#Article 107: जमैका (159 words)


जमैकादेशः(Jamaica)() एष्याखण्डस्य द्वीपदेशः वर्तते । एषः करिबियन्-प्रदेशेषु पञ्चमबृहत्तमद्वीपदेशः वर्तते । अत्रत्याः जनानां नाम टैनो भवति । अरवकान् भाषायां जेमाका इति  उच्यते । अरण्यं तथा जलस्य भूमिः इति जेमाका इत्यस्य अर्थः भवति ।      

१६६५ तमे वर्षे इङ्ग्लेण्डदेशः शासनं कृतवन्तः । अस्य शासनकाले जमैका इति नामकरणम् अभवत् । १९६२ तमे वर्षे अगस्ट् मासस्य ६ दिनाङ्के इङ्ग्लेण्डदेशस्य शासनात् स्वातंत्र्यं प्राप्तम् । अस्य देशस्य सर्वकारस्य मुख्याधिकारी तथा प्रधानमंत्री च पोर्टिया सिम्प्सन् वर्तते ।

यद्यपि जमैकादेशः लघुदेशः वर्तते तथापि जमैका संस्कृतिः दृढः वर्तते । सङ्गीतप्रकारेषु रेगे(reggae), स्का(ska), मेण्टो(mento), राक्स्टेडी(rocksteady), डब्(dub), तथा च इदानीं नृत्यसभागृहः, रग्गा(ragga) इत्यादि बहु प्रसिद्धञ्च वर्तते । अन्ताराष्ट्रिय सुप्रसिद्धगायकाः जमैकादेशे जन्मप्राप्तवन्तः । ते,

न्यू योर्क् नगरे सुप्रसिद्धः हिप्-हाप् सङ्गीतार्थं जमैकदेशीयान् जनान् एव स्वीकुर्वन्ति ।

ऐयान् फ्लेमिङ्ग्वर्यः पौनपुन्येन जेम्स् बाण्ड् कादम्बरिषु जमैकादेशस्य द्वीपं उपयुक्तवान् । पत्रकर्ता अथा लेखकः एच् जि डे लिस्सर् (१८७८-१९४४) तस्य कादम्बरिषु पार्श्वदेशवत् उपयुक्तवान् ।

१९५० तमे वर्षे चलनचित्रनटः एरोल् फ़्लिन्वर्यः(Errol Flynn) तस्य तृतीयपत्नी पाट्रिस् वेमोर्वर्यया (Patrice Wymore) सह निवसति स्म । फ़्लिन्-वर्यः टुरिसं विभागस्य अभिवृद्ध्यर्थं सहाय्यं कृतवान् ।




#Article 108: चीन (405 words)


चीनादेशः (China) एशियाखण्डस्य एक: बृहद्देश: अस्ति । एषः भौगोलिकतया जनसङ्ख्यया च विशाल: देश: अस्ति । अस्य राजधानी बीजिङ्ग् अस्ति । अस्य बृहत् नगरम् शाङ्घाइ अस्ति । अत्र मुख्यतया चीनी भाषायां व्यवहारः कुर्वन्ति ।

सामान्यतः चीनादेशस्य भौगोलिकप्रदेशः ९,६००,००० कि मी२ (३,७००,०००२ मी) अस्ति ।

समग्रे विश्वे रष्यादेशं विहाय चीनादेशस्य सीमा अतीव विस्तृता वर्तते । यलुनदी आरभ्य गल्फ् आफ् टोङ्किन् पर्यन्तं अस्य सीमायाः विस्तारः २२,११७ कि मी (१३,७४३ मी) वर्तते।
अस्य देशस्य सीमायाः सम्बन्धः १४ देशानां सह वर्तते । तेषां नामानि वर्तन्ते,

चीनादेशे मुख्यतः विभागद्वयं वर्तते। तत्,

पीपल्स् रिपब्लिक् आफ् चैनादेशे २२ देशाः(Provinces‌), ५ स्वयंशासितप्रदेशाः(Autonomous Regions), ४ ग्रामसङ्घानि(Municipalities), २ विशेषशासनप्रदेशौ(Special Administrative Regions) च वर्तन्ते ।

अस्य २२ देशानां (Provinces‌) नाम एवं वर्तन्ते,

अस्य ५ स्वयंशासितप्रदेशानां नाम एवं वर्तन्ते,

अस्य ४ ग्रामसङ्घानां नामा एवं वर्तन्ते,

अस्य २ विशेषशासनप्रदेशौ

अस्य सामान्यतया तैवान् इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया ४ द्वीपानि वर्तन्ते । तेषां नाम एवं वर्तन्ते,

समग्रदेशे प्रमुखतया २ विभागं, ५ विशेषग्रामसङ्घानि च वर्तन्ते।
 
अस्य प्रमुखं २ विभागम्,

अस्य ५ विशेषसङ्घानि,

पौरगणतन्त्रचीनादेशस्य (People's Republic of China) २०१० तमवर्षस्य जनगणनानुसारं प्रायः १,३३८,६१२,९६८ । तस्यां जनगणनायां २१% जनेषु १४५,४६१,८३३ पुरुषाः, १२८,४४५,७३९ महिलाः च आसन् । अस्यां जनगणनायां ७१% युवजनाः(४८२,४३९,११५ पुरुषाः, ४५५,९६०,४८९ महिलाः) आसन् । अस्यां जनगणनायां ८% जनाः ६५ वर्षाधिकाः(४८,५६२,६३५ पुरुषाः, ५३,१०३,९०२ महिलाः) सङ्ख्यकाः आसन् । २०१० तमवर्षस्य जनगणनानुसारं १०० बालिकानां कृते ११८.०६ बालकाः जन्मं प्राप्नुवन्ति ।

चीनादेशः आधिकारिकतया ५६ मण्डलानि वर्तन्ते । ते अन्य-भिन्न-देशीयानां समूहः इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु हान्चैनीस्(Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं  ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति स्म । तत्र अधिकतया दक्षिणकोरियादेशतः १२०,७५० जनाः, संयुक्तानि राज्यानि देशतः जनाः ७१,४९३, सूर्यमूलम् देशतः जनाः ६६,१५९ च वर्तन्ते ।

चीनादेशस्य भाषां माण्डरिन्(Mandarin) इति आह्वयन्ति । एषा भाषा सैनो-टिबेटियन्(Sino-Tibetan)भाषायाः कुटुम्बतः आगतः अस्ति । अत्र केवलं माण्डरिन् मानत्वम् (Standard Mandarin)भाषायाः आधिकारिकचीनीभाषात्त्वेन अङ्गीक्रीयते । माण्डरिन् मानत्वम् भाषा बीजिङ्ग्प्रादेशिकभाषातः(Beijing dialect) आगता वर्तते। चीनीभाषायां बहु भेदाः वर्तन्ते । तत्र मुख्यतया,

चीनीलिपिः(Chinese character) लोगोग्राम्(Logogram) उपयोगेन लिख्यते । चीनीभाषायाः शब्दकोशानुसारं ५६,००० अधिकाः चीनीलिपयः वर्तन्ते । तत्र ३,००० लिपीनाम् अध्ययनेन प्रायः ९९% चीनीलिप्यां अथवा चीनीभाषायां प्राविण्यतां प्राप्तुं शक्यते । चीनीलिपीनां लेखनार्थं नूनातिनूनं ६४ रेखाः अपेक्षन्ते । माण्डरिन् मानत्वम् (Standard Mandarin)भाषायाः प्रशिक्षणं भारतदेशे केमन्द्रियमाध्यमिकशिक्षासंस्थायाः (Central Board of Secondary Education,C.B.S.E.) पाठ्यक्रमे स्थापितं वर्तते ।

१९८६ तमे वर्षे चीनादेशः बालानां ९ वर्षपर्यन्तं बाल्यशिक्षणम् अनिवार्यः कृतः । २००७ तमे वर्षे ३९६,५६७ प्राथमिकविद्यालयाः (Primary Schools), ९४,११६ माध्यमिकविद्यालयाः (Secondary Schools), २,२३६ विश्वविद्यालयाः(Universities) च आसन् । फेब्रवरि, २००६ तमे वर्षे चीनादेशे बालानां मूलशिक्षा ९ वर्षपर्यन्तं सम्पूर्णशिक्षा, पठ्यपुस्तकं च निश्शुल्कं कृतम् । चीनादेशस्य विश्वकिद्यालयानां गुणवत्ता बहु सम्यकस्ति ।

कन्फ्यूशस्(Confucius) नामीयः तत्त्वशास्त्रज्ञेन चीनादेशस्य संस्कृतिः प्रभाविता वर्तते ।




#Article 109: भारतस्य इतिहासः (786 words)


भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभारतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः ।
५०००वर्षेभ्यः पूर्वतनी सिन्धुखातस्य नागरिकता जगति एव अत्यन्तं पुरातनसंस्कृतिः । तदातनः इतिहासः विवादात्मकः अस्ति । इण्डो-आर्यन्-जनानाम् आगमनसिद्धान्तानुसारम् आर्यन्-जनाः क्रि पू  २०००-१५००अवधौ मध्यएषियाभागतः आगत्य इदानीन्तनवायुव्यभारते अवसन् । स्थानीयेभ्यः द्राविडजनैः सह जातः तेषां सम्पर्कः भारतस्य शास्त्रीयसंस्कृतेः उदयस्य कारणं जातम् इति ऊह्यते ।

क्रि पू ६ शतके महावीरगौतमबुद्धयोः जन्म अभवत् । तदारभ्य भारतस्य इतिहासस्य प्रमाणानि प्राप्यन्ते । अग्रिमेषु १५००वर्षेषु भारतीयसंस्कृतिः सम्यक् प्रवृद्धा । केषाञ्चन इतिहासतज्ञानाम् अभिप्रायानुसारं क्रि श १ तः १५ शतकावधौ विश्वे एव महती अर्थव्यवस्था आसीत् भारते । तदा जगतः आयव्ययस्य त्रिषु एकस्य भागस्य नियन्त्रणं भारतेन क्रियते स्म । अनन्तरं मोघलजनानां काले चतुर्षु एकभागस्य जातं नियन्त्रणं युरोपियन्-जनानां काले इतोपि न्यूनत्वम् अप्राप्नोत् । ८ तः १२ शतके अरब्-मध्यएषियायोः सैन्याक्रमणतः आरब्धानां यवनाक्रमणानां परिणामतः १६शतकाभ्यन्तरे भारते मोघलसाम्राज्यस्य स्थापनं सञ्जातम् । १५-१६श्तकाभ्यन्तरे जातात् युरोपियन्-वणिजाम् आगमनात् १८शतकाभ्यन्तरे भारते ब्रिटिषसाम्राज्यस्य स्थापनं जातम् । महात्मागान्धेः नेतृत्वे प्रवृत्तस्य अहिंसात्मकान्दोलनस्य परिणामरूपेण १९४७तमे वर्षे भारतं स्वतन्त्रम् अभवत् । किन्तु अखण्डं भारतं जात्यातीतभारतगणराज्यम् इस्लामिक्पाकिस्तानराज्यं चेति द्विधा विभक्तम् । १९७१तमे जातस्य युद्धस्य कारणतः पूर्वपाकिस्तानं स्वतन्त्रं भूत्वा बाङ्ग्लादेशस्य सृष्टिरभवत् । २०तमे शतके १ बिलियन् अपेक्षया अधिकजनसंख्यायुतं भारतं विश्वे एव महत् जनतन्त्रराष्ट्रम् अभवत् । वेगेन प्रवर्धमानायाः आर्थिकव्यवस्थायाः कारणतः आर्थिकव्यवस्थायां विश्वे चतुर्थं स्थानं प्राप्तम् अस्ति भारतेन । 

(क्रि पू ७०,०००-५०००)

५००,००० वर्षेभ्यः पूर्वतनाः होमोएरेक्टस्जातीयानां पूर्वमानवानाम् अवशेषाः प्राप्ताः सन्ति नर्मदानदीखातेषु । आधुनिकमानवस्य आगमनं भारतं प्रति ७०,०००-८०,०००वर्षाभ्यन्तरे स्यात् इति अभिप्रायः आधुनिकविज्ञानस्य । मध्यप्रदेशस्य छिम्बेट्का इत्यत्र ९०००वर्षेभ्यः पूर्वतनगुहासु प्राप्ताः मानवस्य वसतेः चित्रकलायाः च अवशेषाः एव आधुनिकमानवानां प्रथमचिह्नम् । ७०००वर्षेभ्यः पूर्वतनाः अवशेषाः प्राप्ताः सन्ति गुजरातराज्यस्य खम्बत्-उपसागरे । इदानीन्तनपाकिस्थानस्य बलूचिस्थानप्रान्ते ७०००वर्षेभ्यः पूर्वतनाः शिलया-मृत्तिकाभिः च निर्मिताः वसतयः प्राप्ताः सन्ति । क्रि पू ३५००वर्षावसरे सा संस्कृतिः सिन्धुखातसंस्कृतौ विलीना जाता इति चिन्त्यते ।

(क्रि पू ३३००-१५००) 

अखण्डभारतस्य कांस्ययुगस्य संस्कृतयः नागरिकवसतीनां, वैदिककालस्य वर्धनस्य वा आधुनिकभारतीयसंस्कृतेः आधारभूमिः । कांस्ययुगे सिन्धुखातस्य संस्कृतिः, वैदिकसंस्कृतिः च प्रवृद्धे जाते ।

(क्रि पू ३३००तः १५००)

सिन्धुनद्याः तीरे प्रायः क्रि पू २५००मध्ये जलमातृकम् आरब्धम् । तेन सह प्रगतिपथम् आगता नागरिकता एव सिन्धुखातस्य नागरिकता । एषा नागरिकता क्रि पू २५००तः क्रि पू १९००अवधौ संवृद्धा । एतदवसरे हरप्पा तथा मोहेञ्जोदारो इति नगरद्वयम् आसीत् । एते एव विश्वे प्रथमनगरे इति प्रख्याते । एषा नागरिकता सिन्धोः, तस्याः उपनद्योः गाग्गर्नद्योः हाक्रनद्योः तीरे प्रसृता आसीत् । कालक्रमेण सा पश्चिमदिशि गङ्गायमुनयोः मध्ये विद्यमानस्य दोआब्प्रदेशपर्यन्तं, दक्षिणे इदानीन्तनमहाराष्ट्रराज्यपर्यन्तं, पूर्वदिशि इदानीन्तन-इरान्देशपर्यन्तम्, उत्तरदिशि इदानीन्तन-अफघानिस्तानपर्यन्तं प्रसृता । एतदवसरे उत्तमः नगररचनाक्रमः आसीत् । इष्टिकानाम् उपयोगः, बहु-अट्टात्मकानां भवनानां निर्माणं, अन्तर्कुक्कुलीव्यवस्था (कुक्कुली इत्युक्ते मलिनजलप्रवाहनालः) च एतस्याः नागरिकतायाः वैशिष्ट्यम् । तदानीन्तनजनसंख्या ५० लक्षमिता स्यादिति तज्ञानाम् अभिप्रायः । 

भौगोलिकपरिवर्तनानां वातावरणवैपरीत्यानां कारणतः एतस्याः नागरिकतायाः नाशस्य कारणं स्यादिति ऊह्यते । क्रि पू २६००वर्षेभ्यः पूर्वमेव ते जलमातृकव्यवस्थाम्, आहारधान्यानां रक्षणार्थं भाण्डारव्यवस्थां, सार्वजनिकमार्गाणां व्यवस्थाम्, इष्टिकाभिः कुक्कुलीनिर्माण्व्यवस्थां वा ज्ञातवन्तः आसन् । 

(क्रि पू १९०० तः ५००)

वेदानां रचना अस्याः वैदिकसंस्कृतेः काले एव वैदिकसंस्कृतेन कृता । वेदाः एव जगति अत्यन्तं प्राचीनाः ग्रन्थाः । तदानीन्तनसंस्कृतिः इण्डो-आर्यन्मूलीया आसीत् । वेदकालस्य आरम्भे तेन समाजेन पशुपालनमेव अवलम्बितम् आसीत् । ऋग्वेदकालानन्तरं सः समाजः कृषिविषये लक्ष्यम् अददात् । तदा वर्णाश्रमपद्धतिः आसीत् । कालक्रमेण लघुराज्यानां मेलनेन कुरु-पाञ्चालसदृशानि महाराज्यानि उदितानि । हिन्दुधर्मस्य प्रधानग्रन्थानां रामायण-महाभारत-भगवद्गीतादीनां रचना अपि तदा एव मुखोक्तरीत्या जाता इति उच्यते । अथर्ववेदस्यापि रचना अस्मिन्नेव काले जाता इति ज्ञायते । अनन्तरं क्रि पू ६ शतके नगरीकरणम् अफघानिस्थानतः बङ्गालपर्यन्तं व्याप्तम् । तदवसरे गङ्गानद्याः उपत्यकायां दख्खनीप्रदेशे च अनेकानि राज्यानि उदितानि । तेषु १६ राज्यानि महाजनपदाः इत्युच्यन्ते ।

(क्रि पू ७००-३२०) 

अयसः युगे भारते लघुराज्यानि संस्थानानि वा आसन् । क्रि पू १०००वर्षेभ्यः पूर्वतनेषु वैदिकसाहित्येषु अपि तस्य उल्लेखः अस्ति । क्रि पू ६ शतके नगरीकरणम् अफघानिस्थानतः बङ्गालपर्यन्तं व्याप्तम् । तदवसरे गङ्गानद्याः उपत्यकायां दख्खनीप्रदेशे च अनेकानि राज्यानि उदितानि । तेषु १६ राज्यानि महाजनपदाः इत्युच्यन्ते । तेषु मगध-कोसल-कुरु-गान्धारजनपदाः अत्यन्तं बलतराः आसन् । राजा राज्याधिकरं येन केन प्रकारेण प्राप्नोति चेदपि वैदिकवर्गः सूक्तं वंशपरम्परां धार्मिकाधिकारं च सृष्ट्वा तं राज्याधिकारं सक्रमं करोति स्म । तदा सामान्यजानानां भाषा प्राकृतम् उच्चवर्गीयाणां विद्यावतां वा भाषा संस्कृतम् आसीत् । तदा हिन्दुधार्मिकविधयः सङ्कीर्णाः सन्तः वैदिकवर्गः केवलं तान् विधीन् कारयितुं शक्नोति स्म । 

तत्त्वशास्त्रस्य प्रथमावस्था इत्याख्यानाम् उपनिषदां रचना अस्मिन्नेव काले आरब्धा इति ऊह्यते । अस्मिन्नेव काले बौद्ध-जैनधर्मौ अपि प्रवृद्धौ । महाजनपदानां कालः वैचारिकतायाः सुवर्णयुगमेव । बौद्ध-जैनधर्मयोः तत्त्वं सर्वम् अत्यन्तं सरलम् आसीत्, तथा च प्राकृतभाषया धर्मप्रसारः जातः इत्यस्मात् तौ धर्मौ बहुशीघ्रं जनजीवनं प्रविष्टौ । बौद्धधर्मस्य संन्यासिनां कारणतः सः धर्मः मध्यएषिया, पूर्वएषिया, टिबेट्, श्रीलङ्का, आग्नेयएषियापर्यन्तमपि प्रसृतः । महाजनपदानां काले आरब्धं तत्त्वशास्त्रं समग्रस्य पूर्वजगतः श्रद्धा-विश्वासयोः आधारभूमिः जाता । पर्षिया-ग्रीसदेशेभ्यः जातात् आक्रमणात् तथा च मगधे उदयं प्राप्य सम्पूर्णं भारतं प्रसृतस्य महासाम्राज्यस्य कारणात् च एतेषां महाजनपदानां नाशः अजायत ।

महाजनपदाः प्राचीनभारतस्य साम्राज्यानि आसन् । षोडश जनपदाः आसन् । ते ;
  

एतेषु गन्धारः काम्भोजश्च उत्तरपते स्थितौ ।

क्रि पू ५ शतके भारतस्य उपरि अकीमेनिड्-साम्राज्यस्य, अलेक्साण्डरस्य च आक्रमणं सञ्जातम् । तस्मात् भारतस्य राजकीयव्यवस्था एव परिवर्तिता अभवत् ।

भूगोलाधारः

इतिहासः

वंशावली

एते त्रयः अपि राजवंशाः उत्तरभारते अधिपत्यार्थं परस्परं युद्धं कुर्वन्ति स्म । तस्मिन् एव काले दक्षिणे चोळसाम्राज्यं बलयुतम् आसीत् । कालान्तरे पालसाम्राज्यं सेनसाम्राज्यस्य भागः अभवत् । प्रतिहारसाम्राज्यं च रजपूतेषु विभक्तम् अभवत् ।

(क्रि श १३३६ - १५६५)

(क्रि श १५२६ - १७०७)

अस्मिन् काले मराठाराज्यस्य, अन्येषां प्रान्तीयराज्याणां च उदयः अभवत् । ऐरोप्याणाम् आगमनम् अपि अस्मिन् एव काले सञ्जातम् ।

(१६७४-१७६१)

   




#Article 110: व्याघ्रः (194 words)


प्राणिसाम्राज्ये सस्तनीवर्गे अन्तर्भूतः 'फेलिडे'कुटुम्बः एव मार्जालकुटुम्बः । सिंहः व्याघ्रः चित्रोष्ट्रः मार्जालादयश्च फेलिडेकुटुम्बस्य प्रभेदाः एव । एतेषाम् उगमः 'आलिगोसिन्'युगे प्रायशः त्रिकोटिवर्षेभ्यः पूर्वम् । एते ३७ प्रधानप्रभेदेषु विभक्ताः दृश्यन्ते । 

भारते पुराणshy;कथासु विग्रहेषु च व्याघ्रो विशेषshy;गौरवshy;भाक् दृश्यते । कालीshy;देव्याः वाहनshy;रूपः अस्ति व्याघ्रः । महाshy;भारते नलshy;दमयन्त्योः कथायां गोshy;मुखshy;व्याघ्रः इत्येषः शब्दshy;प्रयोगः दृश्यते । बौद्धshy;ग्रन्थेषु च व्याघ्रस्य उल्लेखः दृश्यते ।

प्राचीनभारते केषाञ्चन राजवंशानां लाञ्छनरूपेण व्याघ्रः विद्यते । कर्णाटकस्य होय्सलवंशस्य लाञ्छनरूपेण विद्यमानं व्याघ्राणां दुण्डुशिल्पम् अत्यन्तं वैशिष्ट्यपूर्णमस्ति । चोळराजाः नाणकेषु व्याघ्रचिह्नम् उपयुक्तवन्तः सन्ति । 
प्रपञ्चस्य बहुषु देशेषु व्याघ्रः राष्ट्रस्य प्रमुखप्राणित्वेन परिगण्यते । कोरियाजनैः व्याघ्रः मृगराजः इत्युच्यते । चीनादेशे गृहाणां भित्तेः उपरि व्याघ्रचित्राणि दृश्यन्ते । ते तान् 'सांस्कृतिकसम्पत्तिः' इति मन्यन्ते । 

भारतस्य राष्ट्रियप्राणी व्याघ्रः अरण्यस्य अनभिषिक्तः सम्राट् वर्तते । दर्प-धैर्य-गाम्भीर्याणां प्रतिनिधिः अस्ति व्याघ्रः । दृढकायः, भीमबलः, अनुशासनयुक्तः, सङ्कोचस्वभावी एकाकी अस्ति अयं व्याघ्रः । उत्तमतरणपटुः, सहनाशीलः, अद्भुतदृष्टिशक्ति-घ्राणशक्तियुक्तः, तीक्ष्णजिह्वायुक्तः, दीर्घश्मश्रुमान् भीरुः अस्ति व्याघ्रः ।

अत्युत्तमं शरीरदार्ढ्यं, लघु कण्ठः, सुन्दरौ कपोलौ, वृत्ताकारकं मुखं शिरश्च, तन्वाकारकौ कृष्णवर्णीयौ ओष्ठौ, दृढः मांसखण्डः, प्रकाशयतः नेत्रे, स्थूलरेखाभिः युक्तः सुवर्णवर्णः कायः, दीर्घाः श्वेताः श्मश्रवः, शरीरस्य अन्तर्भागे उदरे पादयोः च श्वेतकेशाः, नेत्रयोः उपरितने भागे श्वेतवर्णीयाः कालकाः दृश्यन्ते । आरोग्यवतः दृढकायस्य व्याघ्रस्य औन्नत्यं १२ पादमिताः, भारश्च २७५ किलोग्राम्-युतश्च भवति । तस्य शरीरस्य वर्णः आकारश्च तस्य प्रदेशस्य वातावरणं, जलं, मृत्तिका, सस्यसम्पत्तिः, आहारादिकञ्च अनुसरति ।




#Article 111: आसनम् (109 words)


सुखपूर्वकं दीर्घकालपर्यन्तमुपवेशनमासनमित्युच्यते । यथा –पद्मासनम्, सिध्दासनम् इत्यादयः । आसनफलं भवति –ततो द्वन्द्वानभिघातः ।( यो.द.-२/४८) । द्वन्द्वसहिष्णुता, प्राणायामयोग्यता, अनात्मवस्तुनि उदासीनता च आसनशुध्देः फलानि भवन्ति । सर्ववस्तुनि उदासीनभावमासनमुत्तमम् इति त्रिशाखाब्राह्मणोपनिषदि वर्णितम् ( ११/२९) । आसनस्य लक्षणम् एवम् अस्ति स्थिरं सुखम् आसनम् ।
आसनानाम् अभ्यासेन चित्तं स्थिरं भवति, शरीरं च सुखं प्राप्नोति । आसनानि चतुरशीति अभिमतानि ।

चित्रम्:Ardha-Salabha_Asana-Half_Locust_Pose_Wiki.jpg|अर्ध-शलभासनम्
चित्रम्:Sukha_Asana-Easy_Pose_Wiki.jpg|सुखासनम्
चित्रम्:Vajra_Asana-Thunderbolt-Diamond_Wiki.jpg|वज्रासनम्
चित्रम्:Utkata_Asana-Chair_Pose_Wiki.jpg|उत्कटासनम्
चित्रम्:Trikona_Asana-Triangle_Pose.jpg|त्रिकोणासनम्
चित्रम्:Bhujanga_Asana-Cobra_Pose.jpg|भुजङ्गासनम्
चित्रम्:Paschimothan_Asana-Forward_Bend_Pose.jpg|पश्चिमोत्तानासनम्
चित्रम्:Urdhv_Mukha_Paschimottasana-forward_Bend.jpg|ऊर्ध्वमुख्पश्चिमोत्तानासनम्
चित्रम्:Pavanamukta_Asana-Wind_Releasing_Pose_Wiki.jpg|पवनमुक्तासनम्
चित्रम्:Dhanura_asana-Bow_Pose.jpg|धनुरासनम्
चित्रम्:Chakra_Asana-Wheel_Pose.jpg|चक्रासनम्
Image:Ushtra_Asana-Camel_Pose.jpg|ऊष्ट्रासनम्
Image:Manduka_Asana-Frog_Pose_Wiki.jpg|मण्डूकासनम्
Image:Hala_Asana-Plough_Pose.jpg|हलासनम्
Image:Fish_pose-Matsyasana.jpg|मत्स्यासनम्
Image:Mayurasana-Peacock_pose_Wiki.jpg|मयूरासनम्
Image:Pincha-Mayurasana-Feathered_Peacock_pose_Wiki.jpg|पिन्का-मयूरासनम्
Image:Bakasana-crane_pose.jpg|बकासनम्
Image:Setubandha_Asana-Bridge_Pose.jpg|सेतुबन्धासनम्
Image:Natraja_Asana-King_of_Dance_Pose.jpg|नटराजासनम्
Image:Sirsasana-Head_stand.jpg|शीर्षासनम् 
Image:Adho_Mukha_Dandasana-Plank_Pose.jpg|अधोमुखदण्डासनम्
Image:Bala_Aasana-Child_Pose.jpg|बालासनम्
Image:Bidalasana-big_cat.jpg|बिडालासनम्
Image:Bitilasana-cow_pose.jpg|बितिलासनम्
Image:Downward-Dog-Yoga-Pose.jpg|अधोमुखश्वानासनम्
Image:Uttanasana-standing-forword_bend.jpg|उत्तानपादासनम्
Image:Half_Moon-Ardha_Chandrasana_Wiki.jpg|अर्धचन्द्रासनम्
Image:Sarvanga_Asana-Shoulder_Stand_Pose.jpg|सर्वांगासनम्
Image:Nouka_Asana-Boat_Pose.jpg|नौकासनम्
Image:Makarasana-dolphin_pose.jpg|मकरासनम्
Image:Yoga_Mudra-Scaling_Pose_Wiki.jpg|योगमुद्रासनम्
Image:Vrischika_asana-Scorpion_pose_Wiki.jpg|वृश्चिकासनम्
Image:Padangusthasana-Big_Toe_Pose.jpg|पादाङ्गुष्ठासनम्
Image:Reclining-Big-Toe_pose-Supta-Padangusthasana_Wiki.jpg|सुप्तपादाङ्गुगुष्ठासनम्
Image:Vriksha_Asana-Tree_Pose.jpg|वृक्षासनम्
Image:Tolasana-Scale-Pendant_Pose.jpg|तोलाङ्गुगुलासनम्
Image:Hanumanasana-Monkey_pose.jpg|हनुमदासनम्
Image:Malasana-Garland_Pose.jpg|मलासनम्
Image:Marichyasana-III-Marichi_pose.jpg|मरीचि-असनम्-III
Image:Restrained_Angle_Pose.jpg|बद्धकोणासनम्
Image:Uttana_Shishosana-extended_puppy.jpg|उत्तानशीर्षासनम्
Image:Warroir-I-Virabhadrasana-I_Wiki.jpg|वीरभद्रासनम्-I
Image:Virabhadra_asana_Warrior_Pose.jpg|वीरभद्रासनम्-II
Image:Warroir-III-Virabhadrasana-III_Wiki.jpg|वीरभद्रासनम्-III
Image:Krounchasana-Heron_pose.jpg|क्रौञ्चासनम्
Image:Upavistha_Konasana--wide_angle_bend.jpg|उपविष्टकोणसनम्
Image:Upward_Facing_Two-Foot_Staff_Pose.jpg|द्विपद्-विपरितदण्डासनम्
Image:Parivrtta_Parsvakonasana-Revolved_Side_Angle_Pose.jpg|परिवृत्तपार्श्वकोणासनम्
Image:Parsava_Dandasana-side_balance.jpg|पार्श्वदण्डासनम्
Image:Low_Lunge-Ashwa_Sanchalanasana_Wiki.jpg| अश्व-सञ्चालनासनम्
Image:Merudandasana-Balancing_Bear_pose.jpg|मेरुदण्डासनम्
Image:Tittibhasana-firefly_pose.jpg|टिट्टिभासन‌म्
Image:Purvottanasana-Reversed_Plank.jpg|पूर्वोत्तानासन‌म्




#Article 112: मसूरी (100 words)


अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । हिमालयशिखराणि अत्र  गोचरी भवन्ति । इतः ११ कि.मी.दूरे केम्प्रीफालस् भट्टफाल्स् स्तः । अत्युन्नतं स्थानं  लालतिलनामकं प्रसिद्धं स्थानम् अत्र अस्ति । सागरस्तरतः २००० मीटर् उन्नतप्रदेशोऽयं क्यामल्स् बाक्स् , अथवा गन् हिल् स्थानके अतीवोन्नते स्थाने स्तः । अत्र शिखरपर्यन्तं गन्तुं  विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । लाक् मण्ड्ल् (३५ कि.मी.) स्थले शिवदेवालयः अस्ति । अत्रैव कौरवाः पाण्डवान् लाक्षागेहे दग्धुं प्रयत्नं कृतवन्तः इति महाभारते उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः ।

देहरादूनतः २२ कि.मी. दूरे अस्ति।  
देहली- सहरानपूर- देहरादून् मार्गः । 

वासार्थमत्र उत्तमवसतिगृहाणि सन्ति।




#Article 113: स्वामी विवेकानन्दः (3707 words)


सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकअष्टादशशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’ इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्।
 
सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् । एकः अमेरिकावासी उपहासपूर्वकम् अवदत् - ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् - ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। विदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति - उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत।

अमुं सन्देशं भरतखण्डस्य कोणं कोणं प्रति कः नीतवानिति भवन्तः जानन्ति वा ? सः एव स्वामी विवेकानन्दः ।

संन्यासी भूत्वा स्वामी विवेकानन्दः इति नाम प्राप्तवान् सः । पितरौ नरेन्द्र इति आह्वयतः स्म तम् । नरेन्द्रस्य जनकस्य नाम विश्वनाथदत्तः । जननी भुवनेश्वरीदेवी । कोलकातानगरे १८६३ संवत्सरे जनवरीमासस्य १२ दिनाङ्के नरेन्द्रः जातः । शैशवे एव अत्यन्तचैतन्यवान्, चपलः च आसीत् सः ।

नरेन्द्रे बाल्ये पदं न्यस्यति सति तस्य चापलता अपि प्रवृद्धा । परितः विद्यमानानां बालकानां सहजतया सः एव नायकः भवति स्म । सहचराः सर्वदा तस्य निर्णयं शिरसा वहन्ति स्म । एकदा कश्चित् गृहयजमानः तस्मिन् वृक्षे एकः पिशाचः अस्ति, सः बालान् निगिरति इत्युकत्वा बालान् भायितवान् । तेन तर्जनेन नऱेन्द्रः किञ्चिदपि न भीतः । तं वृक्षमारुह्य एकस्यां शाखायाम् उपविष्टवान् । इतरे बालाः सर्वे भीरुतां प्रदर्शितवन्तः । नऱेन्द्रः बहुकालं वृक्षे एव उपविश्य निरीक्षां कृतवान् । पिशाचः प्रेतः वा कोऽपि नागतः । अतः गृहस्वामिना उक्ता काककथा (असत्यकथा) इति सर्वान् अवदत् । ध्यानमपि तस्य क्रीडा इवासीत् । किन्तु ध्यानसमये प्रापञ्चिकसम्बन्धिस्पृहाहीनः भवति स्म । ध्यानसमये गृहगोधिका सर्पः वा समीपमागच्छतु नाम तस्य एकाग्रता भग्ना न भवति स्म ।

बाल्यतः एव नरेन्द्रः साधूनां संन्यासिनां विषये गौरवं प्रीतिं च दर्शयति स्म । याचनमात्रेण सर्वस्मै अपि सर्वं ददाति स्म सः । यदा स्वजन्मदिने नूतनवस्त्रं धरति स्म, तदा कोऽपि भिक्षुकः 'भिक्षां देहि' इति हस्तं प्रसारयति चेत् तत् नूतनवस्त्रमपि तस्मै ददाति स्म । अत एव तस्य माता स्वगृहं प्रति कस्यापि भिक्षुकस्यागमनं पश्यति चेत् नरेन्द्रं प्रकोष्ठे स्थापयित्वा कीलयति स्म । किन्तु नरेन्द्रस्य स्वभावं सर्वोऽपि भिक्षुकः जानाति स्म, अतः ते नऱेन्द्रः यत्रास्ति तत्प्रकोष्ठवातायनसमीपमागत्य याचन्ते स्म । नरेन्द्रः स्वसमीपे यदस्ति तद्वस्तु तेषां भिक्षापात्रे समर्पयति स्म । त्यागभावः वैराग्यभावः अन्ये च सुगुणाः तस्मिन् विकस्यमानाः आसन् ।

विरामसमयेषु तन्माता तस्य कृते रामायणकथां वदति स्म । रामायणस्थां यां कमपि कथां न वदति चेत् सः न निद्राति स्म । मातरि कथां कथयन्त्यां सत्यां नरेन्द्रः स्वीयाध्ययनं, क्रीडाः, गीतानि सर्वाणि विस्मृत्य एकनिष्ठया शृणोति स्म । आञ्जनेये तस्य अमिता भक्तिः आसीत् । एकदा सः शरीरे सर्वत्र भस्म विलेप्य शिवविग्रहस्य पुरतः उपविष्टवान् । तं दृष्ट्वा विस्मिता तस्य माता 'नरेन्द्र! कः एषः वेषः ?' इति पृष्टवती । तदा सः हसन् 'अम्ब! अहं शिवः, जानाति वा ?' इति अवदत् । तत्पितामहः इव एषः अपि संन्यासी भवेदिति तन्माता भीता भवति स्म ।

नरेन्द्रस्य जनकः न्यायवादी आसीत् । प्रतिदिनं विविधकुलजाः न्यायार्थिनः बहवः तदगृहमायान्ति स्म । तदगृहं धर्मशाला इव भवति स्म । ते सर्वेऽपि तत्रैव अल्पाहारं भोजनं च कुर्वन्ति स्म । भोजनानन्तरं धूमपानार्थं हुक्कानां प्रदानं तत्र सम्प्रदायः आसीत् । तत्र एकैककुलजानां प्रत्येकतया हुक्का भवति स्म । इतरकुलजानां हुक्काम् अहं पिबामि चेत् किं भवतीति ज्ञातव्यम् इति नरेन्द्रस्य उत्सुकता आसीत् । एकदिने तादृशप्रयोगं कृतवानपि । अनर्थं न किञ्चित् जातम् । कुलभेदाः निरर्थकाः इति सः तदानीमेव निर्णीतवान् ।

नरेन्द्रः न केवलं क्रीडासु निपुणः, विद्यास्वपि सः निपुणः एव । यं कञ्चन पाठम् एकवारं पठित्वा अक्षरशः सर्वं स्मरति स्म सः । तस्य स्मरणशक्तिः अपूर्वा आसीत् । अध्ययने विजयप्राप्तेः मूलकारणं तस्य एकाग्रता एव ।

विश्वनाथदत्तः यदा यदा समयः लभ्यते तदा तदा नरेन्द्रमेवं बोधयति स्म सत्यधर्मयुतं मार्गं यावदनुसरति भवान् तावत् कस्मादपि भयं अनुभोक्तव्यं नास्ति । दुष्टानां वशः मा भवतु । आत्मगौरवं सर्वदा रक्षतु भवान् । स्वमते प्रेम इत्यस्य अर्थः परमते द्वेषः न । देशभक्तिरस्ति चेत् एव मानवः सुखेन जीवति । परदेशीयाः शत्रवः अस्माकं देशस्य उपरि आक्रमणं कृतवन्तः चेदपि अस्माकं देशस्य प्राचीनां महिमान्वितां संस्कृतिं ते हर्तुं न शक्नुवन्ति इति । स्वकुमारस्य नरेन्द्रस्य मधुरं कण्ठस्वरं श्रोतुम् इच्छति स्म पिता । भक्तिगीतानाम् आलापनसमये नरेन्द्रस्य मुखम् उज्ज्वलं प्रकाशते स्म ।

नरेन्द्रः स्वजननीं प्राणसमं प्रीणाति स्म । तां साक्षात् देवतां मनुते स्म । तस्य चिन्तनानुसारं त्यागे मातृसमः जनः अन्यः कोऽपि न भवति । न केवलं गृहे किन्तु समाजेऽपि तस्याः कृते अत्युन्नतस्थानं दातव्यम् । जनकेऽपि नरेन्द्रे अपारं प्रीत्यादरवान् आसीत् । सर्वमिदं तस्य स्वेच्छायाः, स्वतन्त्रविहाराणां वा प्रतिबन्धकं नासीत् । पितरमुद्दिश्यापि स्वाभिप्रायान् स्पष्टतया प्रकटयामास सः । आतिथ्यमिति सत्यमेव सुगुणः, किन्तु अलसानां कृते भोजनदानं किमुचितम् ? धूमपानाय तेषां कृते धूमवर्तिकानां, हुक्कानां प्रदानं न्याय्यं वा ? इति पितरं दृढं पृच्छति स्म । तस्य पिता तु 'पुत्र ! तेषां कष्टानि भवान् न जानाति, धूमपानावसरे वा ते स्वजीवनस्य कष्टं विस्मरेयुः इति वदति स्म ।।

१८८० तमे वर्षे नरेन्द्रः माध्यमिकशिक्षां समाप्य मेट्रिक्युलेषन्, कलाशालाप्रवेशपरीक्षाञ्चोत्तीर्णवान् । सः काञ्चन कलाशालां प्राविशत् । तस्य ज्ञानतृष्णा दिने दिने वर्धते स्म । विविधानि पुस्तकानि ग्रन्थालयतः आनीय तृष्णायाः निवारणाय पठति स्म सः । विशेषतया भगवतः सृष्टिरहस्यानि तं सम्मोहयन्ति स्म । न केवलम् इतिहासं, विज्ञानशास्त्रं पाश्चात्यतत्त्वशास्त्रमपि सम्यगधीतवान् सः । अध्ययनेन तस्य मेधाशक्तिः विकसिता भवति स्म । सन्देहसन्दोहाः तं परितः भवन्ति स्म । अन्धविश्वासान् मनसः सः तिरस्कर्तुं शक्तवान्, तत्त्वस्य साक्षात्कारन्तु न प्राप्तवान् ।

प्रसिद्धपण्डितान् सन्दृश्य, स्वसन्देहान् तेषु निवेद्य तेषां मार्गदर्शनं प्रार्थयति स्म । तर्कवितर्केषु पण्डिताः एकमन्यो विशिष्यन्ते स्म, किन्तु तेषां तर्काः नरेन्द्रस्य तृप्तिकराः नासन् । तेषां विचारशैली शिथिला, पुरातनी आसीत् । तेषु कस्यचन वा देवस्य साक्षात्कारानुभूतेः अविद्यमानत्वात् तद्विचारधारा नरेन्द्रस्य अतृप्तिकरी आसीत् ।

जगन्मातुः कालीदेव्याः मन्दिरे रामकृष्ण परमहंस।श्रीरामकृष्णः अर्चकः आसीत् । सः तु न पण्डितः । किन्तु भक्तौ परमोन्नतः आसीत् । सः भगवतः साक्षात्कारं प्राप्तवानिति वदन्ति स्म सर्वे । तस्य सन्दर्शनार्थं गताः पण्डिताः तस्य शिष्याः अभवन् । एकदा नरेन्द्रः मित्रैः सह तस्य दर्शनाय दक्षिणेश्वरं गतवान् । श्रीरामकृष्णं परितः भक्ताः आसन् । सः भगवद्विषयकचर्चायां निमग्रः आसीत् । नऱेन्द्रः स्वमित्रैः सह एकस्मिन् कोणे उपविष्टवान् । श्रीरामकृष्णस्य मनसि किमपि चलनं प्रारब्धम् । आनन्दः अनुभूतः । केऽप्यनिर्वचनीयाः भावाः तस्य मनः कल्लोलितम् अकुर्वन् । पूर्वानुबन्धविषयिकाः काः अपि स्मृतयः तस्मिन्नुदभूय व्याप्नुवन्ति स्म । किञ्चित्कालपर्यन्तं सः भावसमाधाविव निश्चलः जातः । नरेन्द्रस्य आकर्षणीया मूर्तिः, प्रकाशवत् नेत्रयुगलञ्च तमाश्चर्यचकितमकरोत् । 'भवान् गातुं श्क्नोति वा ?' इति श्रीरामकृष्णः नरेन्द्रं पृष्टवान् । वीणारवसदृशेन श्राव्येण स्वकण्ठस्वरेण नरेन्द्रः वङ्गभाषया गीतद्वयं गीतवान् । तत् सङ्गीतमाधुर्यम् आस्वदमानः भगवान् श्रीरामकृष्णः समाधिं गतः । सः नरेन्द्रं कञ्चन प्रकोष्ठं नीतवान् । नरेन्द्रस्य पृष्ठं स्पृशन् 'वत्स ! कुतः विलम्बः ? एतावत्पर्यन्तं भवतः निरीक्षया मम नेत्रद्वयं श्रान्तं जातम् । मम दिव्यानुभूतयः योग्येन जनेन सह चर्चनीयाः । भवान्न साधारणः । नररूपधारी नारायणो भवान् । अहं बहुकालतः निरीक्षणं करोमीति जानाति वा भवान् ?' इति उक्त्वा भृशं रुदितवान् श्रीरामकृष्णः ।

श्रीरामकृष्णस्य प्रवर्तनं दृष्ट्वा नरेन्द्रः आश्चर्यचकितः । 'वृद्धः एषः उन्मत्तः’ इत्ति चिन्तितवान् । ‘वत्स ! पुनः आगच्छति वा ? आगच्छामीति वचनं ददातु ।' इति श्रीरामकृष्णः तमभ्यर्थितवान् । 'अस्तु' इत्यवदत् नरेन्द्रः बहिरागमनमेव ततः श्रेयः इति चिन्तयन् । 
श्रीरामकृष्णस्य भाषणस्यान्ते नऱेन्द्रः 'भवान् भगवन्तं दृष्टवान् वा?' इत्ति पृष्टवान् । ‘सत्यं भोः! दृष्टवान् । भवन्तमिव भगवन्तं दृष्टवान् । तेन सह वार्तालापं कृतवानपि । भवते अपि दर्शयामि । किन्तु भगवन्तं द्रष्टुं तातप्यमानः कः अस्ति?’ इति श्रीरामकृष्णः प्रत्यवदत् । नरेन्द्रः स्वगतमेवं चिन्तितवान् ‘अद्यपर्यन्तं भगवन्तमहं दृष्टवानिति वक्ता कोऽपि जनः न दृष्टः । एषः तु मतिहीनः इव अस्ति । उन्मत्तः स्यात् । अथवा परिशीलनम् अकृत्वा निर्णयस्वीकारः नोचितः अत्र' इति ।

एकः मासः अतीतः । कदाचित् नरेन्द्रः एकाकी दक्षिणेश्वरं गतः । श्रीरामकृष्णः स्वप्रकोष्ठे खटवायाम् उपविष्टवानासीत् । नरेन्द्रं दृष्ट्वा आनन्दितः सः तं खटवायाम् उपवेशितवान् । सः समाधिं गतः । स्वपादं नरेन्द्रस्याङ्के न्यस्तवान् । नरेन्द्रः बाह्यप्रपञ्चं विस्मृतवान् । स्वयं शून्ये आर्दीभवन्निव अनुभूतिं प्राप्तवान् ।'किमेतत् ? भवान् मां किं कुर्वन्नस्ति ? मम पितरौ जीवन्तौ स्तः । अहं तयोः समीपं गच्छामि' इति सम्भ्रान्तः उक्तवान् नरेन्द्रः । श्रीरामकृष्णः हसन् 'अस्तु । अद्य एतावत् पर्याप्तम् ।' इति वदन् स्वपादं तदङ्कतः स्वीकृतवान् । नरेन्द्रः पुनः साधारणस्थितिं प्राप्तवान् ।

दिनेषु गच्छत्सु तयोः परस्परम् आकर्षणं सञ्जातम् । परस्परं त्यक्त्वा जीवनम् असाध्यम् इति भावः उत्पन्नः । नरेन्द्रस्य सामर्थ्यं विज्ञातुं श्रीरामकृष्णस्य अधिककालः नावश्यकः अभवत् । विशिष्य सः जगन्मातुः कालिकायाः इच्छानुसारं प्रवर्तते स्म । युवकः नरेन्द्रः तु श्रीरामकृष्णं परीक्ष्य एव गुरुत्वेन अङ्गीकर्तुम् इच्छति स्म । 'भगवतः साक्षात्करणाय ऐहिकवाञ्छाः त्याज्याः' इति श्रीरामकृष्णः वदति स्म । एकस्मिन् दिने नरेन्द्रः श्रीरामकृष्णे बहिर्गते सति तस्य शय्यायाः अधः नाणकमेकं स्थापितवान् । श्रीरामकृष्णः प्रत्यागत्य खट्वायां शयितवान् । तत्क्षणम् एव सः वृश्चिकेन दष्ट इव उत्पतितः । शय्यायाम् अन्वेषणेन नाणकं प्राप्तं तेन । तत् नरेन्द्रस्य कार्यमेवेति सः अनन्तरं ज्ञातवान् । नरेन्द्रः श्रीरामकृष्णस्य प्रियशिष्यः सञ्जातः ।   sa

नरेन्द्रस्य वचनानि श्रीरामकृष्णः यथातथं नाङ्गीकरोति स्म । नरेन्द्रः विग्रहाराधकान् तीव्रतया विमृशति स्म । अद्वैतसिद्धान्तं तिरस्करोति स्म । लोकोत्तरानुभूतीः न विश्वसिति स्म । 'अहं ब्रह्मास्मि' 'शिवोऽहम्' इत्येतादृशानि अद्वैतबोधकवाक्यानि नरेन्द्रे कमपि परिणामं न अजनयन् । श्रीरामकृष्णः सर्वदा नरेन्द्रम् एवं वदति स्म - किञ्चन् गम्यस्थानं गन्तुं बहवः मार्गाः भवन्ति । इतरप्रवासिनां मार्गः अनुचितः इति वक्तुं कस्यापि अधिकारः नास्ति । अज्ञातविषयानुद्दिश्य स्वसिद्धान्तप्रकटनं नोचितम् इति । एवं श्रीरामकृष्णः नरेन्द्रं क्रमशः समीचीनमार्गं प्रापयति स्म ।

एकदा श्रीरामकृष्णः नरेन्द्रं निर्जनप्रदेशं नीतवान् । 'बहुकालं अत्र तपः कृत्वा नरेन्द्रः काश्चन् सिद्धीः सम्पादितवान् । एताभिः मानवः वाञ्छितं प्राप्तुं शक्नोति । अहं तु सर्वान् कामान् त्यक्तवान् । एताभिः शक्तिभिः मम प्रयोजनं नास्ति । एताः भवते यच्छामि वा ?' इति नरेन्द्रं पृष्टवान् रामकृष्णः । 'एताभिः शक्तिभिः आत्मसाक्षात्कारः मया लभ्यते वा ?' इति नरेन्द्रः तं पृष्टवान् । 'न लभ्यते' इति श्रीरामकृष्णस्य समाधानम् ।तथा चेत् एताः शक्तयः मम नावश्यक्यः, मम वाञ्छा तु भगवत्साक्षात्कारः एव इति नरेन्द्रस्य वचनं श्रुत्वा श्रीरामकृष्णे आनन्दः सुविकसितः । गुरुदेवः नरेन्द्रं परीक्षितवान् । परीक्षायां नरेन्द्रः सफलः अभवत् ।

क्रमशः नरेन्द्रः प्रापञ्चिकवासनाः त्यक्त्वा, वैराग्यधर्मासक्तः भवति स्म । तस्य पितरौ अमुमंशं ज्ञातवन्तौ । तदा नरेन्द्रः स्नातकपरीक्षायै (B.A) पठति स्म । तस्य विवाहं कृत्वा प्रापञ्चिकजीवनं प्रति आनेतुं तौ चिन्तितवन्तौ । अमुं विषयं ज्ञात्वा श्रीरामकृष्णः कल्लोलितस्वान्तः अभवत् । 'कौटुम्बिकबन्धेषु लग्रः भवति चेत् मानवसेवां कर्तुं न शक्नोति भवान्' इति तं बोधितवान् । कदाचित् श्रीरामकृष्णस्य बोधनेषु नरेन्द्रः न विश्वसिति स्म । तादृशसमयेषु श्रीरामकृष्णः आदौ तं स्वहस्ताभ्यां स्पृशति स्म । तेन नरेन्द्रः प्रापञ्चिकविषयनिस्स्पृहः भवति स्म । गुरुबोधेन पुनः प्राप्तचैतन्यः भवति स्म । एवं क्रमशः स गुरुः स्वशक्तिं शिष्याय दत्तवान् ।
१८८४ संवत्सरे नरेन्द्रः स्नातकपरीक्षाम् (B.A) उत्तीर्णवान् । तस्य किञ्चन मित्रं मिष्टान्नोपहारं पुरस्कृतवान् । तत्र नरेन्द्रः गीतमेकं गीतवान् । तस्मिन्नेव समये अशनिपात इव जनकस्य मरणवार्ता नरेन्द्रेण श्रुता ।

पितुः मरणानन्तरं तत् कुटुम्बं दारिद्र्येण आवृतम् । ऋणदातारः ऋणनिर्यातनाय पीडनम् आरब्धवन्तः । तेषु केचन न्यायालये अभियोगम् अग्च्छन् । आजीविकासम्पादनाय नरेन्द्रः बहुधा अटितवान् । तस्य वस्त्राणि खण्डशः छिन्नानि अभवन् । दिने एकवारं भोक्तुम् अपि कष्टमभवत् । स्वजननी-सोदरी-सोदराणाम् उदरपूरणाय सः बहुदिनानि निराहारः आसीत् । क्षुधया कदाचित् वीथीषु विसंज्ञः सन् पतति स्म । एवं दौर्भाग्ये तमनुसरति सत्यपि सः भगवति विश्वासं तु न त्यक्तवान् । 'मानवसेवां, जगन्मातुः कालिकायाः कार्यं निर्वोढुम् एव लोकेऽस्मिन् भवानस्ति । धीरः भवतु' इति तं सान्त्वयति स्म श्रीरामकृष्णः ।

'मम गुरुणा दृष्टः भगवान् सर्वं ददाति । अतः गुरोः सन्निधौ अभ्यर्थनं कार्यसाधनाय, वाञ्छापूरणाय उत्तमोपायः' इत्ति चिन्तितवान् एकदा नरेन्द्रः । साक्षात् गुरोः समीपं गत्वा 'एतस्मात् दारिद्र्यात् मां मोचयितुं मम पक्षतः जगन्मातरं कृपया प्रार्थयतु । भवान् यत्पृच्छति सा देवी तत्पूरयत्येव खलु ।' इत्यवदत् । 'वत्स ! मम तु जनन्यां सुतरां विश्वासः नास्ति । सा कथं मम प्रार्थनां शृणोति ? भवानेव तस्याः समीपं गत्वा पृच्छतु । तदा सा भवतः अभीष्टं सफलं करोति' इति गुरुः उक्तवान् । नरेन्द्रः अर्धरात्रिवेलायां कालीमातुः विग्रहस्य पुरतः उपविष्य गाढं ध्यानम् अकरोत् । 'अम्ब ! मह्यं त्यागभावं, वैराग्यभावं च ददातु । भवत्याः प्रत्यक्षदर्शनं ददातु । भवतीमहम् एतावदेव प्रार्थयामि' इति अभ्यर्थितवान् । नरेन्द्रः बहिरागते सति गुरुः 'भवतः आभीष्टं मातरि निवेदितवान् वा ? सा किम् उक्तवती ?' इति पृष्टवान् । नरेन्द्रः विस्मितः । 'अये ! तं विषयं सम्पूर्णतया विस्मृतवान्' इति उक्तवान् ।' तर्हि पुनः गत्वा कालीं प्रार्थयतु' इति उक्तवान् गुरुः । 'दारिद्य्रबाधां वारयतु 'इति प्रार्थनां सः पुनरपि विस्मृतवान् । गुरुः पुनरपि तं कालीसमीपं प्रेषितवान् । स च पुनरपि तं विषयं विस्मृतवान् । गुरोः आनन्दस्य सीमा एव नासीत् । 'वत्स! भोजनवस्त्रादिषु विषयेषु चिन्तां न करोतु । भगवति विश्वसितु । भवतः कुटुम्बस्य योगक्षेमं सा एव वहति’ इति गुरुः प्रेम्णा उक्तवान् ।

नरेन्द्रः उपाध्यायवृत्तिं स्वीकृतवान् । किञ्चित्कालं विद्यासागरस्य पाठशालायां विद्याबोधनं कृतवान् । तदानीं कुटुम्बस्य यथावसरं खादितुं धनं लभ्यते स्म । उपाध्यायः भूत्वा एव न्यायशास्त्राध्ययनम् अनुवर्तितवान् । गुरोः स्वास्थ्यं सम्यक् नासीत् । श्रीरामकृष्णस्य कण्ठे व्रणः जातः । नरेन्द्रः स्वोद्योगं विद्याभ्यासं च परित्यज्य गुरोः परिचर्यार्थम् उपस्थितः जातः ।
सः गुरोः अन्त्यसमयः । तस्मिन् दिने सः नरेन्द्रं शय्यासमीपम् आहूय स्पृष्टवान् । आध्यात्मिकशक्तीः सर्वाः नरेन्द्राय दत्तवान् । 'नरेन्द्र ! इदानीं भवान् सर्वशक्तिसमन्वितः । एते सर्वे मम पुत्राः । एतेषाम् आवश्यकातादिविषये भवानेव चिन्तयतु' इति उक्तवान् । तानि वचनानि श्रुत्वा नरेन्द्रस्य हृदयं दुःखपूरितं जातम् । शिशुरिव उच्चैः रुदन् प्रकोष्ठात् बहिः गतवान् ।
श्रीरामकृष्णस्य निर्णयानुसारं तस्य युवशिष्याः सर्वे बारानगरे एकं भाटकगृहं स्वीकृत्य तत्र निवासं कृतवन्तः । तद् गृहं पुरातनं नगरतः दूरे गङ्गानदीतटे आसीत् । श्रीरामकृष्ण्स्य समाधेः अत्यन्तसमीपे अस्ति तत् । अतः तत्रैव मठस्य निर्माणं कृतवन्तः । तेषां युवसन्यासिनां द्वे लक्ष्ये आस्ताम् । मोक्षसाधनम्, मानवसेवनञ्च । केचन युवकाः स्वगृहाणि त्यक्त्वा संन्यासं स्वीकृतवन्त: । नरेन्द्रोऽपि संन्यासी भूत्वा तस्याः संस्थायाः नायकः अभवत् । भोजनेन, वस्त्रेण च हीना अपि युवसंन्यासिनः किमपि न गणितवन्तः । निराहारिणः सन्तोऽपि शास्त्राध्ययनं, ध्यानसाधनं च कृतवन्तः । नरेन्द्रः संस्कृतं वेदान्तं च बोधितवान् । मठसन्दर्शकान् गुरुबोधनानि वदति स्म ।

संन्यासी एकस्मिन्नेव स्थाने चिरं न तिष्ठेत् । मठः अपि कारागारसदृशः । एकस्मिन् प्रदेशे अनुबन्धः अपि दोषाय एव । नरेन्द्रः संन्यासी भूत्वा 'विवेकानन्दः' अभवत् । भारतदेश एव तस्य गृहं, भारतीयाः सर्वे तस्य सहोदराः । तेन देशे पर्यटनं करणीयम् । काषायवस्त्रदण्डकमण्डलादयः एव तस्य सम्पदः अभवत् । पर्यटनं कुर्वन् सः अनेकपुण्यक्षेत्राणि सन्दृष्टवान् । पर्णशालासु धर्मशालासु वसन् कठिनभूमौ निद्रां करोति स्म । भिक्षाटनं कृत्वा उदरपूरणं, साधुभिः सह सहवासः, धार्मिकचर्चाभिः पुण्यकर्मभिः कालयापनं, पादभ्यां गमनं तस्य दिनचर्या आसीत् ।कोऽपि सहृदयः वाहनचालकः लभ्यते चेत् तस्य प्रवासः तेन सह भवति स्म । विवेकानन्देन दृष्टं प्रथमक्षेत्रं वाराणसी । तत्र कतिचन दिनानि निवसन् तत्रत्यपण्डितान् स्वीयविचारान् श्रावितवान् । तत्त्वशास्त्रसम्बद्धचर्चायां तान् जितवानपि । अयोध्यायां सीतारामयोः स्मृतिभिः तस्य ऊहालोकः नन्दितः । आगरायां ताजमहल् तस्य विस्मयं जनयामास । बृन्दावनं गच्छन् मध्येमार्गं कञ्चन धीवरं याचित्वा हुक्कां पीतवान् । कस्यचन पारियागृहे जलं पीतवान् । भिक्षाटनं कृतवान् । केनचित् चर्मकारेण दत्तम् आहारं भुक्तवान् । श्रीकृष्णवासस्थाने बृन्दावने पदं स्थापयन् भावपरवशोऽभूत् ।

आल्वारुमध्ये केचन महम्मदीयाः तस्य शिष्याः अभवन् । तेषां गृहेषु निवाससमये एव स्वामिनः महाराजस्य मङ्गलदाससिंहस्य परिचयः अभवत् । आदौ महाराजस्य विवेकानन्दे विश्वासः नोत्पन्नः । तयोः मध्ये तीव्रवादोपवादाः अभवन् । 'स्वामिन्! मूर्त्याराधने मम विश्वासः नास्ति' इति उक्तवान् महाराजः । तदा विवेकानन्दः मूर्तिः तु प्रतीकमात्रम् । तस्य दूषणं निरर्थकम् । सर्वोऽपि भक्तः स्वीयया पद्धत्या दैवसाक्षात्कारं प्राप्नोति । मानवस्य स्वस्वभक्तिश्रद्धयोः अनुरूपा पूजापद्धतिः भवति' इति उक्तवान् । स्वामिनः स्पष्टीकरणेन राज्ञः तृप्तिः नाभवत् । समीपे राज्ञः चित्रमेकम् आसीत् । ‘तत् कस्य चित्रम् ?' इति स्वामी अमात्यं पृष्टवान् । 'तत् महाराजस्य चित्रम्' इति अमात्यः उक्तवान् । 'तस्मिन् निष्ठीवनं करोतु' इति स्वामी उक्तवान् । अमात्यः आश्चर्यचकितः ।'किं तथा दीनवदनः अस्ति?' स्वामी पृष्टवान् । ‘एषः वस्तुतः उन्मत्तः स्यात्’ इति अमात्यः चिन्तितवान् । तदा स्वामी एवं स्पृष्टीकृतवान् - 'चित्रं राज्ञः छायामात्रम् । तस्मिन् रक्तमांसादिकं नास्ति । अत्र निष्ठीवने कः क्लेशः ?' इति । ‘चित्रं राजानमेव स्मारयति खलु !' अमात्यः पृष्टवान् । तदा महाराजस्य ज्ञानोदयः अभवत् । सः स्वामिनः सविधे क्षमां प्रार्थितवान् । ततः स्वामी जयपुरम्, अज्मीरम् अतिरिच्य अबूपर्वतं गतवान् । तत्र गुहायां कञ्चित् कालं तपसा यापितवान् ।

विवेकानन्दे रेलयानेन प्रवासं कुर्वति सति राजस्थाने एका कुतूहलकरी घटना अभवत् । सः द्वितीयश्रेणीशकटापवर्गे प्रवासं कुर्वन् आसीत् । धनाभावात् अधिककालतः सः आहारं न खादितवान् आसीत् । एकदा स्वामिनः सहप्रवासी कश्चन वणिक् बहुविधखाद्यानि खादति स्म । स्वामी तु क्षुधया, श्रान्त्या च पीडितः आसीत् । वणिक् तं विडम्बयन् 'भवान् सुतराम् अलसः । कार्यं कर्तुमनिच्छन् काषायवस्त्राणि धृत्वा अटति । भवते कः ददाति ? मम खादनं भवान् पश्यति चेदपि कः दयां करोति ?' इत्यवदत् । स्वामी शान्ततया अवदत् - ‘देवः मम आहारव्यवस्थाम् अवशयं करिष्यति’ इति । किंचित्कालानन्तरं कश्चित् मिष्टविक्रेता स्वामिसमीपमागत्य कानिचन मिष्टानि तस्मै समर्प्य 'स्वामिन् ! अद्य प्रगे स्वप्ने भवन्तं दृष्टवान् । भगवान् श्रीरामचन्द्रः एव भवते आहारं दातुं माम् आदिष्टवान्' इति अवदत् । सर्वमिदं दृष्ट्वा अहङ्कारी वणिक् लज्जया अवनतमुखः जातः ।

मैसूरनगरे स्वामी दिवान् शेषाद्रिअय्यरेण मैसूरुमहाराजेन सह च अमिलत् । कस्याञ्चन पण्डितसभायां स्वामिना कृतेन संस्कृतप्रसङ्गेण आकृष्टः महाराजः ‘भवतः भविष्यत्प्रणालिका का ?' इति पृष्टवान् । 'भारतदेशः अनेकमतानां, दर्शनसिद्धान्तानां च आश्रयस्थानम् अस्ति । एतयोः द्वयोः समन्वयेन एव समाजस्य श्रेयः साध्यं भवति । अतः वेदान्तबोधनं कर्तुम् अहम् अमेरिकादेशं गच्छामि' इति स्वामी उक्तवान् । 'तस्य व्ययभारम् अहं वहामि' इति महाराजः उक्तवान् । महाराजस्य निर्णयाय स्वामी धन्यवादान् समर्प्य 'यथावसरं साहाय्यं प्राप्स्यामि' इति उक्त्वा ततः निर्गतः । अनन्तरं स्वामी रामनाडं दृष्टवान् । तदानीन्तनः रामनाडपालकः भास्करसेतुपतिः । सः देशस्य समस्याः अधिकृत्य स्वामिना सह चर्चां कृतवान् । स्वामिनि राजा महत् गौरवं दर्शितवान् । 'अमेरिकादेशे भविष्यमाणां विश्वधर्ममहासभां प्रति भवता गन्तव्यम् । भवतः प्रवासभारम् अहं वहामि' इति राजा उक्तवान् । एतं विषयं परिशीलयामि इति उक्त्वा स्वामी रामेश्वरं गत्वा ततः अन्ते कन्याकुमारीं प्राप्तवान् । समुद्रे प्लवनं कुर्वन् काञ्चन शिलां दृष्ट्वा तत्रोपविष्टवान् । एवं समुद्रमध्ये उपविश्य भारतदेशस्य विषयकचिन्तने मग्रः अभवत् । देशे प्रजाः पीडयन्ती दारिद्र्यदशा तं दुःखितम् अकरोत् । कुलतत्त्वस्य निर्मूलनेन विना स्वदेशप्रजानां विमुक्तिः न भवतीति निर्णीतवान् स्वामी पाश्चात्यदेशेषु पर्यटन् तत्रत्यानां कृते भारतीयायाः आध्यात्मिकसम्पदः औनन्त्यस्य स्पष्टीकरणमेव स्वस्य प्रथमकर्तव्यमिति निर्णीतवान् । ततः निद्रां कुर्वतः स्वदेशीयान् प्रबोधयेयमिति चिन्तितवान् ।
नरेन्द्ररूपेण स्थितः वङ्गराज्यस्य लघुदीपः विवेकानन्दरूपेण समग्रभारतस्य कृते कान्तिप्रदा महाज्वाला इव परिणतः अभवत् । अमेरिकां प्रति अवश्यं गन्तव्यमिति दृढता मद्रपुर्यामेव प्राप्ता । मद्रास् नगरे तेन सम्पादिता कीर्तिः भाग्यनागरं प्रति तस्य प्रवासमकारयत् । भाग्यनगरे तस्य भाषणं श्रोतुं सहस्रशः जनाः उपस्थिताः । स्वामिनः प्रथमभाषणस्य महासभावेदिका भाग्यनगरे एव अभवत् ।

भाग्यनगरतः मद्रासनगरं प्रत्यागत्य विदेशपर्यटनाय सिद्धतां कृतवान् स्वामी । तस्य प्रयाणव्ययाय देशस्य सर्वकोणेभ्यः धनसाहाय्यं प्राप्तम् । स्वप्रवासाय अपेक्षितमात्रं परिमितं धनं स्वीकृत्य अवशिष्टं दातृभ्यः प्रत्यर्पितवान् स्वामी ।

१८९३ संवत्सरे मे मासे ३१ तमे दिनाङ्के मुम्बयीनौकाश्रयतः नौका प्रस्थिता ।
मध्येमार्गं कोलम्बो, सिंगपूर्, हांगकांग्, टोक्यो नौकाश्रयान् अतिक्रम्य जुलैमासे स्वामी चिकागोनगरं प्राप्तवान् । निवासाय किञ्चन वसतिगृहं स्वीकृतवान् । इतोऽपि मासत्रयानन्तरं विश्वधर्ममहासभायाः प्रारम्भः इति ज्ञातम् । अस्मिन् अपरिचितप्रदेशे मासत्रयं यावत् कथं स्थातव्यम् ? इति सः अचिन्तयत् । तत्र कोऽपि अन्तर्जातीयवाणिज्योत्सवः प्रचलति स्म । तत्स्थाने स्वामी अटन्नासीत् । भारतीयः कश्चन महाराजः तेन दृष्टः । स्वामी महाराजसमीपं गत्वा भाषितुं प्रयत्नं कृतवान् । किन्तु महाराजः मुखं परिवर्त्य ततः गतवान् ।

चिकागो महानगरे व्ययः अधिकः भवतीति स्वामी समीपस्थं बोस्टन् पट्ट्णं गतवान् । मध्येमार्गं सः काञ्चन महिलां दृष्टवान् । सा बोस्टन् नागरवासिनी एव । स्वामिनः चित्रं वेषधारणम् , विस्मयकारिणीं मूर्तिं, कान्तिमयनेत्रे च दृष्ट्वा सा चकिता । सः साधारणजनः न इति सा ज्ञातवती । अतिथित्वेन मम गृहे तिष्ठतु इति तं सा अभ्यर्थितवती । स्वामी अङ्गीकृतवान् । तया उपकल्पितेषु लघुसमावेशेषु सः विषयम् उपन्यस्यति स्म । भारतीयसंस्कृतिः हिन्दुधर्मः तस्य भाषणविषयः आसीत् । क्रमशः बहवः पण्डिताः तस्य मित्राणि अभवन् । जान् हेन्री रैट् तेषु अन्यतमः । हार्व्रर्डविश्वविद्यालये सः ग्रीक् प्राचार्यः आसीत् । स्वामिनः पाण्डित्यप्रकर्षं दृष्ट्वा सः अत्यन्तम् आश्चर्यचकितः । विश्वधर्ममहासभायां भागग्रहीतृभिः सर्वैः स्वीयपरिचयपत्राणि सभानिर्वाहकाणां कृते दातव्यानि आसन् । स्वामिनः समीपे परिचयपत्रं न आसीत् । प्राचार्यः रैट् स्वामिने परिचयपत्रं ददत् ‘प्राचार्यान् अस्मान् पराजितान् कर्तुं समर्थः महाशेमुषीधुरन्धरः एषः' इति तत्र लिखितवान् ।

स्वामी पुनः चिकागोनगरं गतवान् । तत्र मेलनीयानां जनानां सङ्केतानां सूची नष्टा जाता इत्यतः किं करणीयमिति स्वामी न ज्ञातवान् । मार्गान्तरस्य अभावात् रेल् स्थाने कस्मिंश्चिद् स्थगिते रिक्तशकटापवर्गे निद्राणवान् । अनन्तरदिने क्षुद्बाधया पीड्यमानः सः वीथीषु अटितवान् । कोऽपि किमपि न दत्तवान् । श्रान्तः स्वामी एकत्र क्रीडाङ्गण्स्य सोपानेषु उपविष्टवान् । क्रीडाङ्गणस्य पुरतः विद्यमानगृहतः काचन महिला बहिरागत्य तम् उपेत्य 'भवान् विश्वधर्ममहासभासु प्रतिनिधिरूपेण आगतवान् वा ?' इति तं पृष्टवती । आम् इत्युक्तवान् स्वामी । 'कृपया अस्मद् गृहम् आगच्छतु ।स्नानं, भोजनं च करोतु । अनन्तरम् अहं भवन्तं सभास्थलीं प्रापयामि' इति सा अवदत् । तस्याः नाम श्रीमती जार्ज् हेल्स् ।

१८९३ संवत्सरे सेप्टेम्बर् मासे ११ दिनाङ्के महासभायाः प्रारम्भः अभवत् । विविधदेशेभ्यः सहस्रशः प्रतिनिधयः तां सभां प्रति आगतवन्तः । तेषु कनीयान् विवेकानन्दः एव । भाषणाय स्वपर्यायः आगच्छतीति तस्य हृदयस्पन्दनम् अधिकम् अभवत् । कण्ठः शुष्कः अभवत् । इतरप्रतिनिधयः इव भाषणस्य पूर्वसज्जतामपि न कृतवान् आसीत् सः । सर्वेषां भाषणानन्तरम् अन्तिमवक्तृरूपेण अहं भाषणं करोमि इति सभाध्यक्षं निवेदितवान् । अन्ते तस्य समयः आगतः एव । श्रीरामकृष्णं च सम्प्रार्थ्य वक्तुमारब्धवान् ।

धर्ममहासभासु एव अनेकाः विद्यासंस्थाः, सङ्घाः विवेकानन्दाय आह्वानानि अयच्छन् । स्वगृहम् आगत्य स्वातिथ्यं स्वीकृत्य अनुगृह्यताम् इति बहवः धनिनः विवेकानन्दं प्रार्थितवन्तः । अल्पसमये एव सः जगद्व्याप्तां कीर्तिं सम्पादितवान् । सर्वत्र सः भारतीयसंस्कृतेः महत्त्वम् अधिकृत्य एव भाषते स्म । इतिहासे, सामाजिकशास्त्रे, तत्त्वशास्त्रे, साहित्ये इत्याद्यंशेषु अपि आशु प्रवाहरूपेण तस्य भाषणमासीत् । भारतदेशे क्रैस्तसंस्थाजनैः क्रियमाणान् कुतन्त्रपूरितान् दुष्प्रचारान् विरुद्ध्य सः भाषितवान् ।

'ह्स्ते स्मरणाय लिखितविषयं पत्रखण्डं वा अगृहीत्वा आशुभाषणं करोति स्म सः । विचित्रं काषायवेषधारणम् उत्पतत् तेजः, विलक्षणं व्यक्तित्वम्, विरला आकर्षणीयता हिन्दुमतस्वरूपस्य स्पष्टीकरणे विस्मयकरं नैपुण्यम् - एतादृशविशिष्टवरसम्पदा सः प्रजाहृदयानि हृतवान् । वशीकरणे मान्त्रिकः जातः । आङ्ग्लभाषायाम् अपूर्वः अधिकारः तस्यासीत् । तादृशः जनः युगे एक एवावतरति । तस्य दर्शनं, तस्य वचसां श्रवणं वस्तुतः भाग्यमेव' इति वार्तापत्रिकासु आनन्दातिरेकः प्रकटितः । भारतीयाः अज्ञानिनः इति, अन्धविश्वासशीलाः इति चिन्तयताम् अमेरिकावासिनां स्वामिनः प्रबोधभाषणस्य श्रवणात् भ्रमः निर्गतः । न केवलममेरिकादेशे किन्तु प्रगतदेशेषु सर्वत्र भारतदेशस्य गौरवध्वजः उत्तोलितः अनेन।

इंग्लण्ड्तः तेन बहुधा आह्वानं प्राप्तम् । तेन लण्डन् नगरे पदस्थापनमात्रेण अपूर्वस्वागतं प्राप्तवान् सः । हिन्दुयोगिनः एतस्य वाक्प्रावीण्यं, विशाललक्ष्यं च पत्रिकासु बहुधा प्रशंसितम् । असंख्याकाः जनाः तस्य शिष्याः अभवन् । 'सोदरी निवेदिता' इति प्रसिद्धिं गता मार्गरेट् नोबेल् अपि तेषु अन्यतमा । सा भारतदेशम् आगत्य अत्रैव स्थिरवासमकरोत् ।

वर्षचतुष्टयं यावत् विदेशेषु पर्यटनं कृत्वा स्वामी विवेकानन्दः भारतभूमिं प्रत्यागतः ।

भारतदेशे पदन्यासात् पूर्वमेव स्वामिनः कीर्तिः दिगन्तव्याप्ता अभवत् । १८९७ संवत्सरे जनवरी १५ दिनाङ्के सः कोलम्बो नगरे यदा पादं स्थापितवान् तदा तस्य चक्रवर्तिनः इव स्वागतोपचाराः अभवन् । सः यदा मद्रास् नगररेलस्थानं प्राप्तवान् तदा असंख्याकाः अभिमानिनः स्वागतं चक्रुः । अभिमानिनः तेन उपविष्टं शकटं स्वयं कर्षन्तः शोभां कल्पितवन्तः । तदा प्रशंसावाक्यानां, पुष्पमालानां वा मितिरेव नासीत् ।
स्वामी यत्र यत्र गतवान् तत्र सर्वत्र स्वगुरुदेवस्य सन्देशं श्रावितवान् । अभ्यर्थितवतां सर्वेषां कृते आध्यात्मिकतायाः साधने मार्गदर्शनं कृतवान् सः । सोदरसंन्न्यासिनः मानवसेवायै अङ्कितजीवनाः अभवन् । स्वीयमोक्षाय इच्छाऽपि स्वार्थपूर्णा एव इति वारं वारं स वदति स्म । 'भारतदेशे बाधाग्रस्तः एकः अपि न भवेत् । तावदवधि अहं मोक्षं न इच्छामि' इति वदति स्म स्वामी । संस्थारूपेण सेवाकार्यं भवेत् । तदैव सामाजिकसेवा साध्या भवतीति सः चिन्तितवान् । १८९७ संवत्सरे 'श्रीरामकृष्णमिषन्' इति संस्थां प्रारभ्य तस्याः सिद्धान्तानां, लक्ष्यस्य च रूपकल्पनां कृतवान् । वर्षद्वयानन्तरं गङ्गानदीतीरे बेलूरुसमीपे किञ्चित् स्थलं क्रीत्वा भवनानि निर्माय श्रीरामकृष्णमठं स्थापितवान् स्वामी ।

विरामरहितकार्यैः स्वामिनः स्वास्थ्यं क्षीणम् अभवत् । विश्रान्तये हिमालयेषु अनुकूलपर्वतप्रदेशान् अनेकान् आश्रितवान् । तत्रापि स्वसेवाकार्यम् अनुवर्तयति स्म । जनानाम् अभ्यर्थनानुसारम् उत्तरभारते बहूनि पट्ट्णानि सः दृष्टवान् । अमेरिकाशिष्याणाम् आह्वानम् अङ्गीकृत्य पुनरेकवारं अमेरिकादेशपर्यटनं कृतवान् । प्यारिस् नगरे प्रचलितासु धर्मसभासु भागं गृहीत्वा भारतं प्रत्यागतवान् ।

शिष्यैः बहुधा अनुनीतोऽपि विश्रान्तिं न स्वीकरोति स्म सः । सः अन्तर्मुखी जातः । शरीरं दुर्बलं जातम् । मनः जागरितम्, आत्मा उत्तेजितः च आसीत् ।

१९०२ संवत्सरे जुलै ४ दिनाङ्के सः यथापूर्वं शिष्यान् पाठान् बोधितवान् । भोजनानन्तरं किञ्चिदिव विश्रान्तिं स्वीकृतवान् । किञ्चित्कालानन्तरं कोऽपि परिणामः जातः इव । अनुचरैः सह वार्तालापं कुर्वन्, हास्योक्तीः वदन् आनन्देन किञ्चित् कालं यापितवान् । रात्रौ नववादनसमये श्रान्तः इव दृष्टः । तस्य ह्स्तौ कम्पमानौ आस्ताम् । दीर्घं निश्वस्य निद्रां कृतवान् । अचिरात् सः महासमाधिं प्राप्तवान् । तस्य शिष्याः, सोदरसंन्यासिनः अनाथा वयमिति शिशवः इव रोदनम् अकुर्वन् । स्वामी इदानीं नास्ति । तस्य वचांसि तु शाश्वतानि सन्ति । लक्षशः जनानां कृते स्फूर्तिं यच्छन्ति ।
एतत् पुनरेकवारं स्मरन्तु - महापुरुषाणां, महर्षीणां च औरसाः अपत्यानि वयमिति भवन्तः आनन्दम् अनुभवन्तः जीवन्तु । अकिञ्चनानां भाग्यहीनानां समुद्धरणाय सम्पन्नाः यावदग्रे नायान्ति, लुण्ठनतत्त्वस्य नाशः यावत् न भवति तावत् भारतदेशः श्मशानवाटिका एव भवति । निर्धनकृषिकस्य कुटीरात् भारतमातृदेवी नूतनशक्त्या उदयं प्राप्नुयात् ।

धीवरगृहेषु सा अवतरतु । पादरक्षानिर्मातुः, वीथीसम्मार्जकस्य पर्णशालाभ्यः सा बहिरायातु । धान्यागारेषु, कर्मगारेषु सा प्रतिष्ठिता भवतु । सर्वत्र पर्वतेषु, उपत्यकासु, कन्दरेषु नवभारतोदयगीतं प्रतिध्वनिभिः नर्तयतु विश्वम्  इति ।




#Article 114: महर्षि महेश योगी (461 words)


महर्षि महेश योगी १९१८ तमे वर्षे जनवरीमासस्य १२ दिनाङ्के प्रयागे जातः । तस्य मूलनाम आसीत् महेशप्रसादवर्मा इति । 
सः 'अतीन्द्रियध्यानपद्धतिम्' (Transcendental Meditation technique) आविष्कृतवान् । तस्य आन्दोलनस्य गुरुः सः । किञ्चन धार्मिकान्दोलनं सत्यपि धर्मनिरपेक्षमिति गृह्यते । महर्षि महेश योगी हिमालये स्थितस्य ज्योतिर्मठस्य शङ्कराचार्यस्य स्वामीब्रह्मानन्दसरस्वतीवर्यस्य शिष्यः सहायकश्च जातः । 

महेशः अलहाबादविश्वविद्यालये भौतशास्त्रे स्नातकपदवीं प्राप्तवान् १९४२ तमे वर्षे । सः  ज्योतिर्मठस्य शङ्कराचार्याणां ब्रह्मानन्दसरस्वतीनां सान्निध्ये अध्ययनम् अकरोत् । बालब्रह्मचारी महेशः इति तत्र नामाङ्कितः जातः ।
सः स्वामिभिः सः १९५३ तमवर्षपर्यन्तं (गुरोः दिवङ्गमनं यावत्) तत्रैव अतिष्ठत् । ततः उत्तरखण्डस्य उत्तरकाशीम् अगच्छत् । 

१९५५ तमे वर्षे ब्रह्मचारी महेशः स्वस्य गुरुणा पाठितम् अतीन्द्रियध्यानपद्धतिं सार्वजनिकरूपेण पाठयितुम् आरब्धवान् । वर्षद्वयं यावत् सः आभारते प्रवासं कृतवान् । स्वस्य इदम् आन्दोलनं सः अध्यात्मप्रगतेः / अध्यात्मपुनरुत्थानस्य आन्दोलनमिति निर्दिष्टवान् । अस्य पद्धतेः परमप्रयोजनस्य विषये बहवः स्वानुभवम् अकथयन् ।

१९५९ तमे वर्षे महर्षि महेशयोगी विश्वप्रवासम् आरब्धवान् । तेन उक्तम् - 'मम मनसि एकः विचारः वर्तते, सर्वस्य जनस्य अपि उपयोगाय यत् भवेत् तादृशं किञ्चित् अहं जानामि' इति । 
प्रथमः विश्वप्रवासः रङ्गून्तः (बर्मा, अधुना म्यान्मार्) आरब्धः । ततः थैलेण्ड्, मलय, सिङ्गपूर्, हाङ्ग्काङ्ग्, हवैदेशं गतवान् । हवैदेशस्य दिनपत्रिका 'दि होनोलूलु स्टार् बुलेटिन्' उल्लिखति यत् - 'सः आसीत् निर्धनः । सः न किञ्चित् याचते । तदीयानि प्रापञ्चिकवस्तूनि हस्तग्राह्यानि आसन् । तदीयः सन्देशः विश्वं दुःखात्, अतृप्तितः च रक्षति इति सः कथयति' इति । १९५९ तमे वर्षे महर्षी होनोलूलु, सान्फ्रान्सिस्को, लास्-एञ्जलीस्, बोस्टन्, न्यूयार्क्, लण्डन्देशे च अतीन्द्रियध्यानपद्धतिम् अबोधयत् ।
१९५९ तमे वर्षे सः सान्फ्रान्सिस्कोनगरे लण्डन्नगरे च अन्ताराष्ट्रियध्यानकेन्द्रम् आरब्धवान् ।
१९६० तमे वर्षे महर्षी फ्रान्स्, स्विट्सर्लेण्ड्, इङ्ग्लेण्ड्, स्काट्लेण्ड्, नार्वे, स्वीडन्, जर्मनी, दि नेदर्लेण्ड्स्, इटालि,सिङ्गपुर्, आस्ट्रेलिया, न्यूझिलेण्ड्, आफ्रिका इत्यादीन् देशान् अगच्छत् । तत्र सर्वत्र सः अतीन्द्रियध्यानपद्धतिम् अपाठयत् । स्वस्य अनुपस्थितौ अभ्यासं कर्तुं ध्यानकेन्द्राणि च आरब्धवान् ।
१९६१ तमे वर्षे महर्षी आस्ट्रेलिया, स्वीडन्, फ्रान्स्, इटालि, ग्रीस्, भारतम्, केन्या, इङ्ग्लेण्ड्, अमेरिका, केनडा इत्यादीन् देशान् अगच्छत् । इङ्ग्लेण्ड्देशे बि बि सि दूरदर्शने तस्य सन्दर्शनं प्रसारितम् । १९६१ तमे वर्षे एप्रिल्मासे भारते हृषिकेशे अतीन्द्रियध्यानपद्धतेः प्रथमशिक्षकप्रशिक्षणवर्गः तेन सञ्चालितः । विभिन्नेभ्यः देशेभ्यः ६० प्रशिक्षणार्थिनः भागम् अवहन् । इदम् अग्रे अनुवृत्तम् ।

१९६८ तमे वर्षे महर्षिः स्विट्जर्लेण्ड्देशस्य सील्स्बर्गनगरं केन्द्रकार्यालयम् अकरोत् । तत्र शिक्षकप्रशिक्षणम् आरब्धवान् । १९७० तमे वर्षे मासात्मकं वर्गं केलिफोर्नियायाम् अकरोत् यस्मिन् १५०० जनाः भागम् अवहन् । १९७२ तमे वर्षे क्वीन्स्-विश्वविद्यालये प्रशिक्षणवर्गम् अचालयत् यस्मिन् अमेरिका-केनडातः आगताः १००० युवानः भागम् अवहन् । १९७३ तमे वर्षे स्टेट् आफ् इल्लिनाय्स् विधानसभायाम् अबोधयत् । विद्यालयेषु तस्य ज्ञानस्य योजनाय विधानसभया अनुमतिः प्राप्ता । १९७४ तमे वर्षे महर्षि-अन्ताराष्ट्रिय-विश्वविद्यालयः संस्थापितः । १९७५ तमे वर्षे महर्षि पञ्च-खण्ड-प्रवासम् अकरोत् यं सः 'प्रबोधयुगस्य उदयः' इति अवर्णयत् । १९ शतकस्य सप्तमशतके ३७० भावातीतध्यानकेन्द्राणि ३७० शिक्षकाः च आसन् । 

२००८ तमे वर्षे जनवरिमासस्य १२ दिनाङ्के महर्षि अवदत् - 'गुरुदेवस्य चरणसन्निधौ मम कर्तव्यं समर्पयामि । अस्मिन् जगति शान्तिः, सुखम्, समृद्धिः, दुःखात् स्वातन्त्र्यं च भवतु इति आशासे' इति । मरणात् एकसप्ताहात् पूर्वं महर्षिः अवदत् - 'भावातीतध्यानान्दोलनस्य नायकत्वात् निर्गत्य मौनम् आश्रयामि' इति । फेब्रवरिमासस्य ५ दिनाङ्के सः निद्रायामेव शान्त्या मरणं प्राप्नोत् नेदर्लेण्ड्देशस्य स्वगृहे । तस्य अन्तिमसंस्कारः भारतस्य अलहाबादाश्रमे कृतम् । अस्थिविसर्जनं गङ्गा-यमुनानद्योः कृतम् ।




#Article 115: परमहंसः योगानन्दः (1200 words)


परमहंसयोगानन्‍दः ( ) (, ) (१८९३-१९५२) कश्चन प्रसिद्धः अध्यात्मगुरुः । तस्य जन्म गोरखपुरे अभवत् । तस्य पूर्वाश्रमस्य नाम मुकुन्‍दलालघोषः इति । सः योगदासत्सङ्गसोसैटि इत्येतस्याः अध्यात्मसंस्थायाः संस्थापकः अस्ति । तस्याः संस्थायाः केन्द्रकार्यालयःबिहारराज्यस्थे राञ्चिनगरे विद्यते । ततः आत्मसाक्षात्कारपाठाः उपलभ्यन्ते । योगानन्दः सहस्राधिकजनान् अध्यात्मपथे अग्रे सरणाय सम्प्रेरितवान् अस्ति । परमप्रेमस्वरूपी सः अध्यात्ममार्गे अतीव सहकारिणीं 'क्रियायोग'पद्धतिम् अपाठयत् ।

योगानन्दः भारते उत्तरप्रदेशे गोरखपुरे उत्तमे बेङ्गालीकुटुम्बे १८९३ तमे वर्षे जनवरिमासस्य ५ दिनाङ्के जन्म प्राप्नोत् । लघुवयसि एव तदीया अध्यात्मासक्तिः, प्रबुद्धता च असामान्या आसीत् । तस्य पितरौ लाहिरिमहाशयस्य शिष्यौ आस्ताम् । शिशुं योगानन्दम् अङ्के गृहीतवतीं तस्य मातरम् उद्दिश्य लाहिरिमहाशयः अवदत् - 'भवदीयः पुत्रः योगी भविष्यति । अध्यात्मगुरुः सन् सः बहूनाम् आत्मनां कल्याणं विधास्यति' इति ।

यौवने मुकुन्दः गुर्वन्वेषणाय भारतस्य विविधसाधुसंन्यासीनां समीपम् अध्यात्ममार्गदर्शनाय अगच्छत् । अन्ते १९१० तमे वर्षे सप्तदशे वयसि सः स्वामिनं युक्तेश्वरगिरिम् अपश्यत् । तस्य शिष्यः जातः । अग्रिमाणि दश वर्षाणि यावत् सः युक्तेश्वरस्य वात्सल्यपूर्णे कठिने अध्यात्मानुशासने जीवनम् अयापयत् । तयोः प्रथममेलनावसरे अनन्तरदिनेषु च श्री युक्तेश्वरः शिष्यम् अवदत् - 'महावतारबाबाजी विशेषकारणाय भवन्तम् अत्र प्रेषितवान् अस्ति । क्रियायोगस्य अमेरिकादेशे आजगति च प्रचाराय एव भवान् चितः अस्ति ।' इति ।

१९१५ तमे वर्षे जून्मासे कल्कत्तायाः स्काटिश्-चर्च्-महाविद्यालयात् इण्टर्मीडियेट्-परीक्षाम् उत्तीर्णः योगानन्दः पदवीप्राप्त्यै सेराम्पोर्महाविद्यालयं प्राविशत् । युक्तेश्वरस्य आश्रमः अपि सेराम्पुरे आसीत् इत्यतः सः आश्रमे बहु समयं यापयति स्म । १९१५ तमे वर्षे तेन संन्यासदीक्षा गृहीता । 'स्वामी योगानन्दगिरिः' जातः । १९१७ तमे वर्षे पश्चिमवङ्गे दिहिकायां तेन कश्चन बालकविद्यालयः आरब्धः यत्र आधुनिकविद्याभ्यासेन सह योगाभ्यासः अध्यात्मलक्ष्याणि च बोध्यते स्म । वर्षानन्तरम् अयं विद्यालयः राञ्चिं प्रति आनीतः । अयं विद्यालयः अग्रे भारतस्य योगदसत्सङ्गसोसैटीकेन्द्रं जातम् ।

१९२० तमे वर्षे बोस्टन्नगरे प्रचलिते अन्ताराष्ट्रिय-काङ्ग्रे आफ् रिलीजियस्-लिबेरल्स्-समावेशे भारतस्य प्रतिनिधित्वेन योगानन्दः अमेरिकादेशम् अगच्छत् । तस्मिन् एव वर्षे सः भारतीययोगशास्त्रस्य ध्यानपरम्परायाः च प्रसाराय 'सेल्फ् रियलैझेषन् फेलोशिप् (SRF) इत्येतां संस्थां स्थापितवान् । ततः कानिचन वर्षाणि सः जगति बहुत्र प्रवासं कुर्वन् सः भाषणं बोधनञ्च अकरोत् । सहस्रशः जनाः तस्य बोधनम् अशृण्वन् । बहवः प्रसिद्धाः जनाः तस्य शिष्याः जाताः । अनन्तरवर्षे केलिफोर्निया-नगरस्य  लासेञ्जलीस्मध्ये अन्ताराष्ट्रियकेन्द्रं संस्थापितवान् यच्च वर्धमानस्य कार्यस्य निर्वहणकेन्द्रं जातम् । अमेरिकादेशे जीवनस्य दीर्घसमयं यापितवत्सु हिन्दुबोधकेषु योगानन्दः प्रथमः । १९२० तः १९५२ वर्षपर्यन्तं (गुरोः दर्शनाय १९३५-३६ अवधौ भारतम् आगतः आसीत् - इमं कालं विहाय) सः तत्र एव न्यवसत् ।

१९३० तमे वर्षे लेखकः डा वेण्डेल् थामस् 'हिन्दुयिसम् इन्वाड्स् अमेरिका' इति नामकं पुस्तकं प्राकाशयत् । अस्मिन् विवेकानन्दस्य योगानन्दस्य च विषये लिखितमस्ति अधिकतया । योगानन्दस्य विषये तेन एवं लिखितमस्ति - 'परमहंसयोगानन्दस्य समीपे अहम् अगच्छं शिष्यः भूत्वा न अपि तु विमर्शकः लेखकः भूत्वा । अस्मिन् अहम् अपूर्वं सम्मेलनम् अपश्यम् । प्राचीनपरम्परायां तस्य महती श्रद्धा आसीत्, नूतनस्य परिग्रहणे अपि महदौदार्यम् आसीत् । अतः एव सः भारतीयःहिन्दुः सन् एव अमेरिका-देशीयः क्रैस्त-मतानुयायी च जातः । स्वस्य महत्या अन्तश्शक्त्या श्रद्धया च सः जगति अध्यात्मपिपासून् सर्वान् संयोजयितुम् अशक्नोत् । सः लक्षशः जनेभ्यः आनन्दं शान्तिञ्च आदात् । अस्मिन् पुस्तके कश्चन अध्यायः अस्मिन् विषये एव अस्ति । आदौ अयम् अध्यायः 'योगानन्दः' इति ततः 'योगदसिस्टम्' इति ततः 'योगदसत्सङ्गसंस्था' इति च निर्दिष्टः अस्ति ।

१९३५ तमे वर्षे सः गुरोः युक्तेश्वरस्य मेलनाय भारतम् आगतः । भारते योगदसत्सङ्गकार्यस्य आरम्भः अपि तस्य उद्देशः आसीत् । अस्मिन् सन्दर्भे तेन महात्मा गान्धिः, वङ्गसाध्वी आनन्दमा, प्रख्यातः भौतशास्त्रज्ञः चन्द्रशेखरवेङ्कटरामन्, युक्तेश्वरस्य गुरोः लाहिरिमहाशयस्य अन्ये शिष्याः च सम्पपृक्ताः । युक्तेश्वरः योगानन्दाय 'परमहंस'पदवीम् अयच्छत् । इयं पदवी अत्युत्तमाम् अध्यात्मसिद्धिं द्योतयति । १९३६ तमे वर्षे योगानन्दः कलकत्तायां यदा आसीत् तदा युक्तेश्वरः पुर्यां पञ्चत्वं प्राप्नोत् ।

अमेरिकां प्रति प्रत्यागमनानन्तरं सः बोधने, लेखने, दक्षिणकेलिफोर्नियायां केन्द्रस्थापनकार्ये च मग्नः जातः । दिवङ्गमनसमयः यदा सन्निहितः तदा सः 'इतः गमनसमयः आगतः' इति बहुधा सङ्केतयति स्म । १९५२ तमस्य वर्षस्य मार्च् ७ दिनाङ्के तेन लासेञ्जलीसस्थे बिल्ट्मोर्-उपाहारगृहे आयोजिते रात्रिभोजनकार्यक्रमे भागम् अवहत् । अयं कार्यक्रमः अमेरिकाम् आगतस्य भारतीयदूतस्य बिनैरञ्जनसेनस्य तत्पत्न्याः गौरवाय आयोजितः आसीत् । अस्मिन् कार्यक्रमे योगानन्दः जगतः शान्त्यै, मानवप्रगत्यै च भारतामेरिकादेशयोः योगदानं, भाविनिकाले तयोः सहकारः इत्यादिषु विषयेषु अवदत् । 'समर्थः अमेरिका-देशः' 'आध्यात्मिकभारतम्' इत्यनयोः श्रेष्ठगुणैः 'संयुक्तजगत्' निर्मितं स्यात् इति स्वीयं भावं प्राकटयत् । दयामाता या योगानन्दस्य परमशिष्या, १९५५ तः २०१० वर्षपर्यन्तम् एस् आर् एफ् संस्थायाः प्रमुखा आसीत् सा अन्तिमक्षणस्य प्रत्यक्षदर्शी आसीत् । अन्यः साक्षी योगानन्दस्य शिष्यः स्वामी क्रियानन्दः वदति यत् 'अन्ते सः भारतविषये स्वेन रचितं पद्यम् अवदत् । तस्य अन्तिमा पङ्क्तिः आसीत् - 'यत्र गङ्गा, अरण्यं, हिमालयगुहाः, जनाः च भगवत्स्वप्नं पश्यन्ति तन्मूलं मया स्पृष्टम्, पवित्रतां गतश्च' इति । अनुयायिनः वदन्ति यत् सः महासमाधिं प्राविशत् इति । योगानन्दस्य अस्थि केलिफोर्नियायां ग्लेन्डेल्प्रदेशस्थे फारेस्ट् लान् मेमोरियल् उद्याने संस्थापितमस्ति ।

१९१७ तमे वर्षे परमहंसः योगानन्दः 'कथं जीवनीयम्' इत्याख्यस्य बालविद्यालयस्य स्थापनद्वारा स्वस्य जीवनकार्यम् आरब्धवान् । तस्मिन् विद्यालये आधुनिकविद्याभ्यासेन सह योगशिक्षणम् अध्यात्मबोधनञ्च संयोजितम् आसीत् । १९२० तमे वर्षे बोस्टन्नगरे जाते अन्ताराष्ट्रियधार्मिकसम्मेलने भारतस्य प्रतिनिधित्वेन आहूतः । तत्र तेन बोधितं 'धर्मस्य विज्ञानम्' सर्वैः उत्साहेन अङ्गीकृतम् । ततः बहूनि वर्षाणि तेन अमेरिकादेशे बहुत्र गत्वा भाषणं बोधनञ्च अकरोत् । क्रिस्तस्य मूलबोधनं भगवतः कृष्णस्य मूलयोगज्ञानञ्च इत्यनयोः संयुक्तरूपं भवति  तदीयं बोधनम् । १९२० तमे वर्षे एस् आर् एफ् संस्थापितम् । १९२५ तमे वर्षे लासेञ्जलीस्मध्ये अन्ताराष्ट्रियकेन्द्रं संस्थापितम् ।

योगानन्दः योगदसत्सङ्गसंस्थायाः लक्ष्याणि आदर्शान् च एवं निर्दिष्टवान्  -

योगानन्देन सज्जीकृतेषु आत्मसाक्षात्कारपाठेषु दैवसाक्षात्कारस्य प्राप्त्यै अनुसरणीया योगपद्धतिः समीचीनतया विवृता अस्ति । प्राचीनविज्ञानं क्रियायोगनामकैः ध्यानतत्त्वैः विवृताम् अस्ति । सत्यस्य साक्षादनुभवस्य प्रामुख्यम् अबोधयत् योगानन्दः । सः अवदत् - 'धर्मस्य वास्तविकमूलं न विश्वासः अपि तु साक्षात्करणम् । दैवावगमाय अन्तर्बोधः आत्मनः काचित् शक्तिः विद्यते । धर्मस्य मूलार्थस्य अवगमनाय देवः अवगन्तव्यः' । पारम्परिकहिन्दुबोधनानुगुणं सः अबोधयत् -'इदं विश्वं देवेन निर्दिश्यमानं ब्रह्माण्डस्य चलच्चित्रम् । व्यक्तयः अत्र अभिनेतामात्रम् । पुनर्जन्मसु तेषां पात्राणि परिवर्त्यन्ते । चलच्चित्रनिर्देशकेन देवेन अनन्यीकरणम् अकुर्वता प्रस्तुतपात्रेण सह अनन्यीकरणमेव मनुकुलस्य महद्दुःखस्य मूलम्' इति मनुष्यैः ज्ञातवयम् । तेन क्रियायोगः अन्ये ध्यानाभ्यासाश्च पाठिताः येषां साहाय्येन आत्मसाक्षात्कारः प्राप्तुं शक्यः ।

भगवतः सर्वव्यापकतायां वयं सर्वदा युक्ताः स्मः इत्येषः अंशः कायेन मनसा आत्मना च अवगन्तव्यः इत्येव आत्मसाक्षात्कारः । तद् भवतु इति अस्माभिः प्रार्थनीयं नास्ति, न केवलं सर्वदा वयं तत्समीपे स्मः अपि तु देवस्य सर्वव्यापकता अस्माकं सर्वव्यापकता । वयम् अधुना यावता प्रमाणेन तस्य भागभूताः स्मः तथैव अग्रे सर्वदा अपि । अस्य अवगमनमेव अस्माकं कर्तव्यम्  ।

योगानन्दस्य बोधनस्य मूलं क्रियायोगविज्ञानम् । क्रियायोगः नाम कयाचित् क्रियया अनन्तेन सह योगः एव क्रियायोगः । योगानन्दस्य गुरुपरम्परया क्रियायोगः प्राप्तः । महावतारी 'बाबाजी' इत्येषः क्रियायोगं लाहिरिमहाशयम् अबोधयत् । सः स्वस्य शिष्यं युक्तेश्वरगिरिम् अबोधयत् । सः स्वस्य शिष्यं योगानन्दम् अबोधयत् । क्रियायोगस्य सामान्यविवरणं योगानन्दः आत्मचरित्रे अलिखत् ।

क्रियायोगः मानसिकशक्त्या जीवशक्तिम् उपरि अधः षट्चक्राणि परितः च प्रवाहयति । कशेरुकायाम् अर्धनिमेषात्मकं शक्तिपरिभ्रमणं मानवस्य उद्विकासे सूक्ष्मां प्रगतिं साधयति । अर्धनिमेषात्मिका क्रिया वर्षात्मकस्य सहजाध्यात्मिकप्रगतेः समाना भवति ।

योगानन्दः आत्मचरित्रे उल्लिखति यत् इदं तन्त्रम् योगदसत्सङ्गसंस्थायाः अधिकृतेन क्रियायोगिना (क्रियाबन्) एव ज्ञातव्यम् इति ।

१९४६ तमे वर्षे योगानन्दः स्वस्य जीवनचरितं 'योगिनः आत्मचरितम्' प्राकाशयत् । इदं पुस्तकम् एतावता २८ भाषाभिः अनूदितमस्ति । २० तमस्य शतकस्य १०० अत्युत्कृष्टेषु अध्यात्मपुस्तकेषु इदम् अन्यतमम् इति १९९९ तमे वर्षे समुद्दिष्टमस्ति अध्यात्मलेखकालोचकमण्डल्या । एतत् पुस्तकं संस्कृते अपि उपलभ्यते । 

अस्मिन् पुस्तके योगानन्दस्य साक्षात्काराय अध्यात्मान्वेषणस्य विवरणमस्ति । एतेन सह तेरेसे न्यूमन्, आनन्दमायिमा, मोहनदासगान्धि इत्येतेषां प्रमुखाध्यात्मसिद्धानां, प्रसिद्धस्य भारतीयविज्ञानिनः सर् जगदीशचन्द्रबोसस्य, प्रमुखस्य सस्यविज्ञानिनः लूथर् बर्बाङ्कस्य (इदं पुस्तकम् अमेरिकासंन्यासिनः लूथर् बर्बाङ्कस्य स्मरणाय समर्पितम्), साहित्ये नोबेल्प्रशस्तिं प्राप्तवतः रवीन्द्रनाथठाकूरस्य, भौतशास्त्रे नोबेल्प्रशस्तिं प्राप्तवतः सर् सि वि रामनस्य च मेलनस्य विवरणम् अत्र वर्तते । अस्य पुस्तकस्य कश्चन मुख्याध्यायः नाम 'विस्मयस्य तत्त्वम्' (The Law of Miracles) । अत्र विस्मयः इव भासमानस्य विवरणं दत्तमस्ति । सः वदति - 'मानवस्य शब्दवारिधौ 'असाध्यम्' इत्येतत् पदम् अमुख्यं भवदस्ति' इति । 

परमहंसयोगानन्दस्य कार्यं संस्थाद्वयेन अनुवर्तते - सेल्फ् रियलैझेषन् फेल्लोशिप् (एस् आर् एफ्), योगदसत्सङ्गसोसैटि आफ् इण्डिया (वै एस् एस्) । एस् आर् एफ् संस्थायाः मुख्यकार्यालयः लासेञ्जलीस्नगरे विद्यते । अधुना अस्य ५०० मन्दिराणि केन्द्राणि च आजगति विद्यन्ते । १७५ देशानां जनाः अस्य सदस्याः सन्ति । भारते भारतं परितः च योगानन्दस्य कार्याणि योगदसत्सङ्गसोसैटिद्वारा परिचिताः । अस्य १०० केन्द्राणि आश्रमाश्च विद्यन्ते । योगानन्दस्य साक्षाच्छिष्या प्रमुखाध्यात्मिकनेत्री दयामाता या योगानन्देन एव चिता शिक्षिता च एस् आर् एफ्, वै एस् एस् संस्थयोः नायिका आसीत् १९५५ तः २०१० तमवर्षपर्यन्तम् । अधुना इदं दायित्वं निर्वहति मृणालिनीमाता या च योगानन्देन एव चिता शिक्षिता च । तस्याः साहाय्यार्थं निर्देशकानां गणः कश्चन वर्तते, यत्र च योगानन्देन शिक्षिताः अन्ये शिष्याः विद्यन्ते ।

      




#Article 116: रविशङ्कर (धर्मगुरुः) (555 words)


श्री श्री रविशङ्करः (Sri Sri Ravishankar) ()   ()  ಶ್ರೀ ಶ್ರೀ ರವಿಶಂಕರಗುರುಃकश्चित् सनातनधर्मगुरुः । क्रि.श. १९५६तमे वर्षे तमिळुनाडुप्रदेशे अजायत । भारतस्य अध्यात्मगुरोः अस्य प्रथमः आचार्यः महर्षिः महेशयोगी । अस्य मूलं नाम रविशङ्कररत्नम् । आर्ट् आफ् लिविङ्ग् प्रतिष्ठानस्य संस्थापकः (क्रि.श.१९८२) अस्ति। एतत् प्रतिष्ठानं वैयक्तिकजीवनस्य क्लेशानां, सामाजिकसमस्यानां, हिंसाचारादीनां च शमनाय उद्दिष्टम् अस्ति । अपि च विश्वसंस्थायाः शैक्षणिकवैज्ञानिकसांस्कृतिकायोगस्य (UNESCO)  सूचनास्थानमानेन विद्यमाना सर्वकारेतरसंस्था  (NGO) अस्ति । सरलतया श्री श्री इति गौरवसूचकपदेन अथवा गुरुजी, गुरुदेव इति वा अनुयायिनः एतं सम्बोधयन्ति । एषः क्रि.श. १९९७तमे वर्षे जिनिवामूलस्य  इण्टर्न्याषनल् संस्था फार् ह्यूमन् व्याल्यूस् इति धर्मदत्तिसंस्थाम् आरब्धवान् । एषा अपि असर्वकारीयसंस्था (NGO) परिहारकार्ये, ग्रामीणाभिवृद्धिकार्ये च निरता अस्ति ।

क्रि.श. १९५६तमे वर्षे रविशङ्करस्य पिता आर्.एस्.वेङ्कटरत्नं वाहनोद्यमे निरतः आसीत् । ग्रामीणमहिलानां सबलीकरणसंस्थायाः निदेशकः भारतीयभाषाणां विद्वान् चासीत् । रविशङ्करस्य माता विशालाक्षी रत्नम् । एतस्य बाल्यनाम रवि इति रविवासरे जातः इति अङ्कितम् । आदिशङ्कराचार्यस्य जन्मतिथौ (वैशाखशुद्धपञ्चम्याम्) जातः इति शङ्करः इति अपि नाम योजितम् । अतः रविशङ्करः इति अभवत् ।  बेङ्गळूरुविश्वविद्यालयस्य सेण्ट् जोसेफ् महाविद्यालयतः स्वस्य २१तमे वयसि विज्ञानपदवीम् अवाप्नोत् । स्नातकपदव्याः पश्चात् वेदविज्ञानस्य विषये उपन्यस्तुं, वेदविज्ञानस्य च सम्मेलनं व्यवस्थापयितुम् आयुर्वेदकेन्द्राणि स्थापयितुं च आह्वानम् अङ्गीकृत्य महर्षिणा महेशयोगिना सह प्रवासम् अकरोत् । एतं पूर्वं पण्डितः रविशङ्करः (अथवा पण्डितजी) इति सम्बोधयन्ति स्म । किन्तु पण्डितः रविशङ्करः इति प्रसिद्ध सितार् वादकः अस्तीति क्रि.श. १९९०तमे वर्षे श्री श्री रविशङ्करः इति सम्बोधनं परिवर्तितम् ।क्रि.श. १९८०तमे दशके रविशङ्करः आध्यात्मिकतायाः प्रयोगिकप्रणालीं विश्वे बहुत्र आयोजितवान् । सुदर्शनक्रियानामिकां विशिष्टां क्रमबद्धस्य श्वासोच्छ्वासस्य अभ्यासपद्धतिम् आविष्कृतवान्  प्रत्येकं भावः अपि श्वासोच्छ्वासस्य गतिना सम्बद्धः भवति । श्वासः सक्रमः भवति चेत् शरीरस्य मनसः च सङ्कष्टस्य शमनं भवति इति रविशङ्करः वदति । अस्य प्रोत्साहनेन अस्य पिता अन्यैः बेङ्गळूरुनगरप्रमुखैः सह मिलित्वा वेदविज्ञानमहाविद्यापीठम्  इति संस्थाम् आरब्धवान् । अस्याः संस्थायाः आश्रयेण ग्रामीणभागस्य शिक्षावञ्चितबालानां विद्यालयः एकः आरब्धः । एषा शाला इदानी २०००छात्रेभ्यः विद्यादानं कुर्वती अस्ति । श्वासः अस्माकं देहमनसोः मध्ये विद्यमानः अनुबन्धः इति रविशङ्करस्य प्रतिपादनम् । अतः मनसः शान्त्यै साधनं ध्यानं परोपकारः च इति अस्य वादः । विज्ञानम् अध्यात्मं च परस्परं सम्बद्धम् । मनसः विबाधानिवारणं हिंसामुक्तजगतः निर्माणम् एव अस्य परमं लक्ष्यम् अस्ति । 

क्रि.श.१९९०तमे काले जीवनकलासंस्थायाः अन्यराष्ट्रियसंस्थायाः चाश्रयेण नैकानि मानवहितकारिकार्याणि आरब्धानि । तानि अद्यापि अनुवर्तन्ते । क्रि.श. १९९२तमे वर्षे कारागारेषु बद्धानां पुनश्चेतनेन प्रधानवाहिन्याम् आनेतुं तत्र अनेकाः कार्यक्रमाः कृताः । क्रि.श. १९३७तमे वर्षे मानवमौल्यानाम् अन्ताराष्ट्रियसंस्था इति मानवहितकारी सङ्घः आरब्धः । तस्य  5Hकार्यक्रमेण ग्रामीणप्रदेशेषु सुस्थिराभिवृद्धिः, मानवीयमौल्यपुनश्चेतनं च  लक्षितम् ।न्यूयार्क नगरस्य  विश्ववाणिज्यकेन्द्रस्य उदर्के क्रि.श.२००१तमे वर्षे सम्भूते भयोत्पादकाक्रमणावसरे सञ्जातजनमानसविबाधानिवारणार्थं एतत् प्रतिष्ठानं कोसोवो युद्धपीडितस्य प्रदेशे परिहारकार्याणि, आरोग्यसंरक्षणकार्याणि च अकरोत् । क्रि.श. २००३तमे वर्षे आक्रान्ते इराक् देशे कार्यनिरतः भूत्वा जनमानसस्य विबाधां शमयितुं प्रयत्नम् अकरोत् ।  अफगानिस्ताने क्रि.श. २००३तः २००६पर्यन्तम् एतादृशानि एव परिहारकार्याणि अकरोत् । क्रि.श. २००७ श्री श्री रविशङ्करः प्रधानमन्त्रिणः नौरि अल् मौलिकि इत्यस्य निमन्त्रणम् अङ्गीकृत्य इराक् प्रवासं कृत्वा सुन्नि शिया कुर्दि नायकानां सन्दर्शनं कृतवान् ।एषः क्रि.श.२००४तमे वर्षे पाकिस्तानस्य प्रवासं कृत्वा जागतिकशान्तिप्रेरणां कर्तुं कांश्चन मतीयनायकान् सन्दृष्टवान् ।बहवः कार्यकर्तारः क्रि.श. २००४ तमे वर्षे हिन्दुमहासागरस्य भूकम्पन सुनामी जञ्झावातस्य सन्त्रस्तानां सहायार्थं कार्याणि कृतवान् । SMART इति परिचितस्य कारागृहस्य बन्धिनां मानसविबाधापरिहारार्थं कार्यक्रमान् योजितवान् । रविशङ्करः अन्तर्मतीयकसंवादेषु अपि आसक्तः अस्ति । प्रस्तुतम्  एलिजा अन्तर्मतीयसंस्थायाः विश्वमतनायकसमितौ रविशङ्करः स्थानं प्राप्तवान् ।

सुदर्शनक्रिया श्वसोच्छ्वासाधृतं तन्त्रम् ।  Art of living प्रणाल्याः मुख्यभागः प्रतिष्ठानस्य आघातपरिहारकार्यक्रमस्य मूलशिला भवति । अस्य केषुचित् उपन्यासेषु सुदर्शनक्रियां लयबद्धा श्वासक्रिया दैहिकमनसिकभावनात्मकस्तरान् परिशोधयति समरसं करोति च इति वर्णितवान् । अस्य तन्त्रस्य विषये नैकानि वैद्यकीयाध्ययननि तज्ञानां विमर्शाः वृत्तपत्रिकासु प्रकाशिताः । मानसिकविबाधायाः शमनम्, आरोग्यरक्षणम्, उद्वेगनियन्त्रणं, मनःखिन्नतापरिहारः इत्यादयः साध्याः इति निर्णिताः ।  Anti dipresent officasy of Sudarshana kriyayoga (SKY) In melankoliya : A randamised compresion  with electroconvelsive theraphy(ECT) And impramise जानकिरामय्य एन्., गङ्गाधर बि.एन्., नागवेङ्कटेशमूर्ति पि.जे, हरीश् एम्.जि, सुब्बकृष्ण डि.के., वेदमूर्ताचार् - A gernal  of effective disarorders ५७तमे सम्पुटम् । सङ्ख्या क्रि.श. २०००, जनवरि प्रथमदिनाङ्कः ।




#Article 117: माता अमृतानन्‍दमयी (1034 words)


माता अमृतानन्‍दमयी ( मलयालम्: മാതാ അമൃതാനന്ദമയി) इत्याख्या सुधामणिः२६ सितम्‍बर, १९५३ तमे वर्षे केरल प्रदेशे जाता। सा एका विख्‍याता धर्मगुरु: अस्‍ति। तस्‍या: इष्‍ट-देवता भगवान् कृष्‍णः अस्‍ति। तस्याः अनुयायिनः ताम्  अम्मा , अम्माची,  मा इति वा अभिजानन्ति । तया कृतानां समाजोद्धारकार्यार्थम् अध्यात्ममार्गदर्शनाय च तया व्यापकरूपेण जनादरः प्राप्तः अस्ति । प्रेमोन्मादेन युक्तेषु साधुजनेषु अन्यतमा इत्यपि सा निर्दिश्यते । 
माता अमृतानन्दमयीमठस्य उपाध्यक्षः स्वामी अमृतास्वरूपानन्दपुरी वदति यत् - अम्मायाः अन्येषां दुःखनिवारणम् एतावत् सहजं यत् स्वस्य नेत्रयोः अश्रुनिवारणमिव । अन्यस्य आनन्दे सा आनन्दम् अनुभवति । अन्यस्य सुरक्षाकल्पने सा आत्मनः सुरक्षतां मन्यते । अन्यस्य विश्रामसुखे स्वस्य सुखमनुभवति । स्वस्य जीवनं मानवजागृतेः निमित्तं समर्पितवती अस्ति सा ।

माता अमृतानन्दमय्याः जन्म भारते केरलराज्ये कोल्लम्मण्डले अलप्पढे पर्यकडवुग्रामे (अधुना इदम् अमृतपुरी इति अपि अभिज्ञायते) १९५३तमे वर्षे सेप्टेम्बर्मासस्य २७ तमे दिनाङ्के अभवत् । तस्याः नाम आसीत् सुधामणि इदमन्नेल् इति । स्वस्य नवमवयसि एव तया विद्यालयगमनं निषिद्धं जातम् । तदारभ्य सा स्वस्य सहोदराणां पालने रता 
जाता । एतेन सह सा धेनूनां मेषाणां च पालनं करोति स्म । तेषु दिनेषु महती निर्धनता आसीत् । अन्येषां कष्टानि दृष्ट्वा अत्यधिकं दुःखम् अनुभवति स्म माता । तेभ्यः निर्धनेभ्यः गृहस्य आहारवस्तूनि, वस्त्राणि च कदाचित् यच्छति चेत् गृहजनाः क्रुद्धाः सन्तः तां निन्दन्ति स्म । दण्डयन्ति स्म यतः गृहे अपि निर्धनता 
आसीत् । कदाचित् अम्मा अन्यान् समाहितान् कर्तुं तान् आलिङ्गति स्म । किन्तु तस्मिन् काले १४ वर्षीयया बालिकया अन्येषां पुरुषाणां स्पर्षः निषिद्धः आसीत् । अतः पितरौ तस्यै क्रुद्ध्यतः स्म । तथापि माता तथैव व्यवहरति स्म । आलिङ्गनविषये माता एवं वदति स्म - 'अयं पुरुषः वा महिला वा इति मया कदापि न चिन्त्यते स्म । कमपि अहम् आत्मनः भिन्नं न पश्यामि । संसारस्य समग्ररचनायां काचित् प्रेमधारा निरन्तरं प्रवहति । प्रेम्णा आलिङ्गनं मम जन्मजातस्वभावः । चिकित्सकः कश्चन रोगिणाम् उपचारे यथा उद्युक्तः भवेत् तथा अहं सम्पीडितानां सान्त्वनं करोमि' इति ।                      

तस्याः विवाहनिर्वर्तनाय तदीयौ पितरौ बहुविधप्रयासम् अकुरुताम् । किन्तु तया सर्वमपि निराकृतम् । तस्याः अध्यात्मासक्तिः दिने दिने वर्धमाना आसीत् । सा परमा कृष्णभक्ता आसीत् । 
१९८१ तमे वर्षे बहवः जिज्ञासवः मात्रा सह मेलनाय पर्यकडवुग्रामम् आगताः । तदा किञ्चन विश्वस्तरीयं सङ्घटनं संस्थापनीयमिति निर्णीतम् । अद्यत्वे माता अमृतानन्दमयी मठः प्रमुखम् अध्यात्मसङ्घटनमस्ति । मठस्य अध्यक्षा अस्ति माता अमृतानन्दमयी ।
१९८७ तमे वर्षे श्रद्धावताम् अनुयायिनाम् अनुरोधकारणतः विश्वे विविधेषु देशेषु कार्यक्रमाणाम् आयोजनाय अनुमतिम् अयच्छत् । आस्ट्रेलिया, आस्ट्रिया, ब्रेजिल्, केनडा, चिली, दुबै, इङ्ग्लेण्ड्, फिन्लेण्ड्, फ्रान्स्, जर्मनी, होलेण्ड्, ऐर्लेण्ड्, इटली, जपान्, केन्या, कुवैत्, मलेशीया, मारिशस्, रशिया, सिङ्गपुर्, स्पेन्, श्रीलङ्का, स्वीडन्, स्विट्सर्लेण्ड्, अमेरिकासंयुक्तसंस्थानम् इत्यादिषु देशेषु तस्याः कार्यक्रमाः पौनःपुन्येन समायोज्यते । भारते प्रतिवर्षं भ्रमणं करोति ।

हिन्दुपरम्परायां 'दर्शनम्' इत्येतत् महत्त्वपूर्णं वर्तते । कस्यचित् पवित्रजनस्य पवित्रवस्तुनः दर्शनं मन्दिरे ईश्वरस्य दर्शनम् इव । कस्याश्चित् देवतायाः दर्शनेन स्वस्य नेत्राभ्यां देवतायाः शक्तिग्रहणं करोति । अतः दर्शनकर्तुः सौभाग्यं कल्याणम् अनुग्रहञ्च वर्धयितुं दर्शनदातुः सामर्थ्यं भवति । अम्मायाः अनुयायिनः अस्य शब्दस्य प्रयोगं विशिष्टरीत्या कुर्वन्ति । प्रेमपूर्वकम् आलिङ्गनद्वारा प्राप्यमाणम् अनुग्रहं निर्दिश्य वदन्ति ।

अम्मा स्वस्य किशोरावस्थातः अपि एवं दर्शनं यच्छति । इयं प्रथा कथम् आरब्धा इति विषये सा एवं वदति - 'जनाः मत्समीपम् आगत्य स्वस्य समस्याः कथयन्ति स्म, रुदन्ति स्म । अहं तेषाम् अश्रूणां मार्जनं करोमि स्म । ते रुदन्तः समीपं यदा आगच्छन्ति तदा अहं तान् दृढम् आलिङ्गामि स्म । अन्या व्यक्तिः अपि इदमेव आचरति स्म, एवम् इयं प्रथा आरब्धा' इति । माता अमृतानन्दमयीमठस्य इतिवृत्ते उच्यते यत् एतावता आविश्वे तया  जनाः आलिङ्गिताः इति ।

२००२ तमे वर्षे सा पृष्टा - 'भवत्याः आलिङ्गने तादृशं किमस्ति यत् जगतः पीडानिवारकं विद्यते ?' इति । तदर्थं मात्रा एवमुक्तम् - 'जगतः समस्याः १००% मया परिह्रियन्ते इति मया न उच्यते । जगतः परिवर्तनं नाम शुनकपृच्छस्य ऋजूकरणमिव एव । किन्तु जनैः एव समाजः निर्मितः भवति, अतः जनाः प्रभाविताः यदि स्युः तर्हि समाजः परिवर्तितः भवति एव । ततः जगतः परिवर्तनं शक्यम् । किन्तु समग्रं परिवर्तनम् अशक्यमेव । यतः व्यक्तेः मस्तिष्के प्रचाल्यमानं युद्धमेव वास्तविकयुद्धस्य हेतुः । अतः यदि जनानां स्पर्शः शक्यः तर्हि विश्वस्य स्पर्शः अपि शक्यः' इति ।

इदं दर्शनम् एव अम्मायाः जीवनस्य केन्द्रमस्ति । १९७० तमात् वर्षात् सा इदं निरन्तरं कुर्वती अस्ति । आगन्तॄणां सङ्ख्या अपि दिने दिने वर्धमाना अस्ति । कदाचित् अम्मा २० घण्टाः यावत् निरन्तरं दर्शनं यच्छन्ती भवति । २००४ तमे वर्षे प्रकाशिते 'अम्मास् हार्ट्' इत्येतस्मिन् पुस्तके अम्मा वदति - 'यावत्पर्यन्तं मम हस्तौ मत्समीपम् आगन्तॄणां समीपस्वीकरणे समर्थौ भवतः, रुदतः व्यक्तेः स्कन्धे सान्त्वयितुं हस्तौ समर्थौ, रुदतः जनस्य अश्रुमार्जने समर्थौ तावत् पर्यन्तम् अम्मा दर्शनं ददती एव भवति । इयमेव अम्मायाः इच्छा' इति ।

'दि टैम्लेस् पाथ्' इत्येतस्मिन् पुस्तके लेखकः अम्मायाः वरिष्ठशिष्यः स्वामी रामकृष्णानन्दपुरी लिखितवान् - 'अम्मायाः द्वारा दीयमानं बोधनं वेदेषु उपदिष्टम् अनन्तरं भगवद्गीतायां प्रदत्तं बोधनमिव' इति । अम्मा वदति - 'कर्म, ज्ञानं, भक्तिः - इदं त्रयमपि बहु आवश्यकम् । भक्तिः कर्म च एकस्य पक्षिणः पक्षद्वयं चेत् ज्ञानं तस्य नाडी इव । एतेषां त्रयाणां साहाय्येन एव पक्षी उपरि उड्डेतुं शक्नोति । सर्वेषां विभिन्नधर्माणां प्रार्थनानाम् अध्यात्मिकपरिपाटीनां च एकमात्रोद्देशः नाम मस्तिष्कस्य निर्मलीकरणम् । एतेन सहैव अम्मा ध्यानम्, कर्मयोगाधारिताः क्रियाः, परोपकारः, करुणा, धैर्यं, दया, आत्मनिग्रहः इत्यादीनां गुणानां विकासाय महत्त्वं यच्छति । एतेषां गुणानाम् अभ्यासेन मस्तिष्कं परिष्कृतं भवति । ततः अन्तिमसत्यम् आत्मसात् कर्तुं योग्यता प्राप्यते । अन्तिमसत्यमिदमस्ति यत् अस्माकम् अस्तित्वं शरीरमनसोः परिधौ सीमितं नास्ति । अपि तु आनन्दमयचेतनस्वरूपं वर्तते । अस्य ब्रह्माण्डस्य अन्तः गुप्तरूपेण कार्यं करोति । इयमेव जीवन्मुक्तिः । जीवन्मुक्तिः इत्येषा मृत्योः अनन्तरं प्राप्तव्या काचित् अवस्था न । इयं समचित्तता । अस्मिन्नेव शरीरे स्वात्मना सह एकीभूय उच्चतमस्य सत्यस्य अनुभवः प्राप्तुं शक्यः । एतस्य प्राप्तेः अनन्तरं पुनः जन्मस्वीकरणस्य आवश्यकता न भविष्यति' इति  ।

अम्मायाः विश्वव्यापीसङ्घटनद्वारा निर्धनानां कृते  गृहाणि, अनाथाश्रमत्रयं, प्राकृतिकविपत्तौ पुनर्वसतिनिर्माणं, निश्शुल्कवैद्यकीयव्यवस्था, विधवानाम् असमर्थानां च कृते मासिकधनव्यवस्था, परिसरसंरक्षणकेन्द्रम्, मलिनवसतीनां नवीकरणम्, वृद्धाश्रमाः, निर्धनानां वस्त्रभोजनादिव्यवस्था च कृताः वर्तन्ते । एताः परियोजनाः बहुभिः सङ्घटनैः सम्मिल्य क्रियते - माता अमृतानन्दमयी मठ (भारतम्), माता अमृतानन्दमयी सेण्टर् (अमेरिकासंयुक्तसंस्थानम्), अम्मा-यूरोप्, अम्मा-जापान्, अम्मा-केन्या, अम्मा-ऑस्ट्रेलिया इत्यादयः । एतानि सङ्घटनानि सम्मिल्य जगत् आलिङ्गति इव रूपं प्राप्नुवन्ति सन्ति ।

अधिकांशकार्याणि स्वयंसेवकानां द्वारा अध्यात्माभ्यासरूपेण कार्यते । अम्मा इच्छति यत् स्वस्य पुत्राः सर्वे प्रेम-शान्त्योः प्रसाराय जीवनसमर्पणं कुर्युः । निर्धनानां पीडितानां च विषयिणी करुणा एव ईश्वरस्य विषयिणी प्रेम भक्तिश्च इति ।

अम्मा स्वस्य भक्तिसङ्गीताय अपि अतीव प्रसिद्धा अस्ति । तया गीतानां भजनानां सान्द्रमुद्रिकाः शताधिकाः सन्ति । विंशत्यधिकाभिः भाषाभिः उपलभ्यन्ते । तया बहूनि भजनानि रचितानि । तानि पारम्परिकरागेण योजितानि च । भक्तिगीतानाम् अध्यात्मिकाभ्यासरूपेण गायनविषये अम्मा वदति - 'भजनानि एकाग्रतया यदि गीयन्ते तर्हि ततः गायकस्य श्रोतुः प्रकृत्याः कृते च लाभाः भविष्यन्ति । भजनेषु स्थितस्य साहित्यस्य अवगमनेन तथा आचरणाय प्रयासः भवेत्' । अधुनातने जीवने ध्यानद्वारा एकाग्रतायाः सम्पादनं कष्टाय, किन्तु गानद्वारा एकाग्रतां सरलतया सम्पादयितुं शक्यते' इति ।

अम्मायाः शिष्याः तया विभिन्नभक्तैः अध्यात्मपिपासुभिः सह कृतान् संवादान् सङ्गृह्य दशाधिकानि पुस्तकानि रचितानि सन्ति । विभिन्नेषु अन्ताराष्ट्रियसभासु तया कृतानि भाषणानि अपि पुस्तकरूपेण प्रकाशितमस्ति । अम्मायाः वरिष्ठशिष्याः स्वामी तुरियामृतनन्दपुरी, स्वामी परमात्मानन्दः, स्वामी कृष्णमित्रानन्दप्राणः इत्यादयः मात्रा सह जातान् स्वीयान् अनुभवान् प्रकाशितवन्तः सन्ति । माता अमृतानन्दमयीमठस्य उपाध्यक्षः स्वामी अमृतास्वरूपानन्दपुरी अम्मायाः जीवनचरित्रम् अलिखत् । माता अमृतानन्दमठद्वारा 'मातृवाणी', चातुर्मासिकी 'इम्मार्टल् ब्लिस्' च प्रकाश्यमाने स्तः ।




#Article 118: जन गण मन (354 words)


जन गण मन इति भारतस्य राष्ट्रगीतम् । इदं हि बाङ्ग्लाभाषाया गुरुदेव इति ख्यातेन रवीन्द्रनाथठाकुरेण लिखितमासीत्। भारतस्य राष्ट्रगानं च वन्दे मातरम् इत्यस्ति।

राष्ट्रगानमिदं 52 सेकण्ड्मितायां कालावधौ गानीयम्। केषुचिच्च अवसरेषु राष्ट्रगानमिदं अतिसङ्क्षिप्ततया गीयते, यत्र हि एतस्य प्रथमा अन्तिमा च पङ्क्ती एव गीयेते, तस्मिँश्च प्रायेण 20 सेकण्ड्मितः समयः युज्यते। भारतस्य संविधानसभया जनवरीमासस्य 24 तारिकायां 1950 तमे ख्रिष्टाब्दे इदम् अङ्गीकृतमासीत्। इदं च गीतं सर्वप्रथमं दिसम्बरमासस्य 27 तमायां 1911 तमे ख्रिष्टाब्दे काङ्ग्रेसस्य कलकत्तावर्तिनि अधिवेशने गीतमासीत्। समग्रेऽस्मिन् गीते 5 चरणानि सन्ति।

मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तदनन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । ‘रवीन्द्रनाथठागोरमहोदयः भौगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके ।

राष्‍ट्रगीते रवीन्‍द्रनाथ ठाकुर महोदयेन जन-गण-मन इति रचितम्‌ अस्‍ति ।

rabindnath tagore wrote jana-gana-mana

जन-गण-मन अधिनायक जय हे, भारत-भाग्य-विधाता ।
पंजाब सिन्धु गुजरात मराठा, द्राविड़ उत्कल बंग ।
विन्ध्य हिमाचल यमुना गङ्गा, उच्छल जलधि तरंग ।
तव शुभ नामे जागे, तव शुभ आशिष माँगे, गाहे तव जय गाथा ।
जन-गण मंगलदायक जय हे, भारत-भाग्य-विधाता ।
जय हे ! जय हे !! जय हे !!! जय ! जय ! जय ! जय हे !!

अहरह तव आह्वान प्रचारित, शुनि तव उदार बाणी ।
हिन्दु बौद्ध शिख जैन पारसिक, मुसलमान ख्रिस्तानी ।
पूरब पश्चिम आसे, तव सिंहासन पाशे; प्रेमहार हय गाँथा।
जन-गण-ऐक्य-विधायक जय हे, भारत-भाग्य-विधाता ।
जय हे, जय हे, जय हे,जय जय जय, जय हे ।।

पतन-अभ्युदय-वन्धुर-पन्था, युग-युग-धावित यात्री । 
हे चिर सारथि,तव रथचक्रे, मुखरित पथ दिन रात्री । 
दारुण विप्लव-माझे, तव शंखध्वनि बाजे, संकटदुःखत्राता । 
जन-गण-पथ-परिचायक जय हे,भारत-भाग्य-विधाता । 
जय हे, जय हे, जय हे, जय जय जय, जय हे ।।

घोर तिमिरघन निविड् निशीथे, पीडित मूर्च्छित देशे । 
जागृत छिल तव अविचल मंगल,नत नयने अनिमेषे । 
दुःस्वप्ने आतंके, रक्षा करिले अंके, स्नेहमयी तुमि माता । 
जन-गण-दुःखत्रायक जय हे, भारत-भाग्य-विधाता । 
जय हे, जय हे, जय हे, जय जय जय, जय हे ।।

रात्रि प्रभातिल, उदिल रविच्छवि, पूर्ब-उदयगिरिभाले । 
गाहे विहंगम, पुण्य समीरण, नवजीवनरस ढाले । 
तव करुणारुणरागे, निद्रित भारत जागे, तव चरणे नत माथा । 
जय जय जय हे, जय राजेश्वर !! भारत-भाग्य-विधाता । 
जय हे, जय हे, जय हे, जय जय जय, जय हे ।।




#Article 119: बङ्किमचन्द्र चट्टोपाध्याय (172 words)


बङ्किमचन्द्र चट्टोपाध्याय ( Bôngkim Chôndro Chôţţopaddhae)(२७ जून्, १८३८- ८ एप्रिल्, १८९४) उनविंशतिशतकस्य एकः महान् बाङ्गालीसाहित्यिकः सम्पादकश्च आसीत् । बाङ्गलागद्यस्तथा उपन्यासस्य विकाशे अस्य असीमावदानम् अस्ति । बङ्किमचन्द्रः साधारणतः बाङ्गलासाहित्येतिहासे प्रथमः औपन्यासिकरूपेण ख्यातः । परन्तु भगवद्गीतायाः व्याख्याता तथा साहित्य-समालोचकरूपेणाऽपि एषः विशेषख्यातिमानः । सः वृत्तिदृष्ट्या ब्रिटिश्-शासनस्य कर्माचारी आसीत् । बङ्किमचन्द्रः बाङ्गला भाषायाः प्रथमसाहित्यपत्रस्य बङ्गदर्शनस्य अदिसम्पादकः आसीत् । अस्य छद्मनाम आसीत् कमलाकान्त इति ।

बङ्किमचन्द्रस्य जन्म( २७ जून, १८३८ क्रैस्ताब्दः/१३ आषाढ १२४५ बङ्गाब्दः ) नैहाटीनगरस्य निकटस्थे कांठालपाडाग्रामे अभवत् । वस्तुतः तस्य वंशस्य आदिनिवासः हुगलिमण्डलस्य देशमुखोग्रामे आसीत् । बङ्किमचन्द्रस्य प्रपितामहः रामहरि चट्टोपाध्याय महोदयः मातामहस्य सम्पत्तिं प्राप्य कांठालपाडाग्रामं गतवान् आसीत् । अन्ततरं तत्रैव वसवासम् अकरोत् । रामहरि महोदयस्य पौत्रः आसीत् यादवचन्द्र चट्टोपाध्यायः । तस्य तृतीयपुत्रः बङ्किमचन्द्रः आसीत् । बङ्किमचन्द्रस्य श्यामाचरण तथा सञ्जीवचन्द्र इति द्वौ अग्रजौ आस्ताम् । बङ्किमस्य जन्मकाले पितुः यादवचन्द्रस्य सह-मण्डलशासकरूपेण पदोन्नतिः जाता आसीत् । 

शैशवकालं बङ्किमचन्द्रः कांटापाडा”ग्रामैव यापितवान् . पञ्च वयसि कुलपुरोहितेन विश्वम्भर भट्टाचार्येण জন্মের পর तस्य विद्यारम्भः जातः . अत्यल्पैव वयसि तस्य मेधा सर्वैः ज्ञाता . बङ्किमचन्द्रस्य कणिष्ठः सहोदरः पूर्णचन्द्र चट्टोपाध्यायः लिखितवान्- “শুনিয়াছি বঙ্কিমচন্দ্র একদিনে বাংলা বর্ণমালা আয়ত্ত করিয়াছিলেন।”(भाषानुवादः- श्रुतञ्च, बङ्किमचन्द्रेण बाङ्ग्लावर्णमाला आयत्ती कृता आसीत्)




#Article 120: बि.के.एस्. अय्यङ्गार् (208 words)


बेळ्ळूरु कृष्णमाचार् सुन्दरराज ऐय्यङ्गार् 

बेळ्ळूरु कृष्णमाचार् सुन्दरराज ऐय्यङ्गारः  

೧೯೫೦ ರಲ್ಲಿ ಪ್ರಪ್ರಥಮವಾಗಿ ಯೋಗದ ಪ್ರಭಾವ ವನ್ನು ವಿದೇಶದಲ್ಲೂ ಸಾರಿದ 'ಪ್ರಥಮ'ರೆಂದು ಹೆಸರಾದರು. ಅವರಿಗೆ ದಾರಿದೀಪವಾದವರು, ವಿಶ್ವದ ಪ್ರಖ್ಯಾತ ಪಿಟೀಲ್ ವಾದಕ, ಶ್ರೀ ಯೆಹೂದಿ ಮೆನ್ಹನ್ ರವರು. ೧೯೫೨ ರಲ್ಲಿ 'ಮೆನ್ ಹನ್ ರವರು' ಐಯ್ಯಂಗಾರ್ ರವರನ್ನು 'ಲಂಡನ್', 'ಪ್ಯಾರಿಸ್', 'ಸ್ವಿಟ್ಜರ್ ಲ್ಯಾಂಡ್' ನ ಪ್ರೇಕ್ಷಕರಿಗೆ ಪರಿಚಯಿಸಿದರು. ಅಲ್ಲಿಂದ ಪ್ರಾರಂಭವಾದ ಅವರ ಯಶಸ್ಸು ನಿರಂತರವಾಗಿ ಬೆಳೆಯುತ್ತಲೇ ಹೊಯಿತು. ೧೯೫೬ ರಲ್ಲಿ ಅವರು 'ಅಮೆರಿಕ ಸಂಯುಕ್ತ ಸಂಸ್ಥಾನ'ಕ್ಕೆ ಭೇಟಿಕೊಟ್ಟರು. ಯೊಗದ ಬಗ್ಯೆ ಅವರಿಗಿದ್ದ ಉತ್ಕಟ ಆಸಕ್ತಿ, ಪರಿಶ್ರಮ, ಹಾಗೂ ಸಂಪಾದಿಸಿದ ಅಪಾರಜ್ಞಾನದಿಂದ ಅಲ್ಲಿನ ಜನರ ಮನವನ್ನು ಗೆದ್ದರು. ಎಲ್ಲಿ ನೋಡಿದರೂ 'ಹೊಸ-ಹೊಸ ಯೋಗ ಶಿಕ್ಷಣ ಶಿಬಿರ'/ಕೇಂದ್ರಗಳನ್ನು ತೆರೆಯಲು ಒತ್ತಾಯ ಬಂತು. ೧೯೮೪ ರಲ್ಲಿ ಅಯ್ಯಂಗಾರ್ ತಾವೇ 'ಯೋಗಪ್ರದರ್ಶನ' ಮಾಡಿ ತೋರಿಸುವುದನ್ನು ನಿಲ್ಲಿಸಿದರು. ಯುವ ಜನರನ್ನು ತಯಾರುಮಾಡಿದ್ದರಿಂದ ಅವರೇ ಆ ಕೆಲಸವನ್ನು ಮಾಡಬೇಕಾಗಿರಲಿಲ್ಲ. ಅವರು ಬರದ ಪುಸ್ತಕಗಳಸಂಖ್ಯೆ ೧೫ ಕ್ಕಿಂತ ಹೆಚ್ಚು.

೧೯೬೬ ರಲ್ಲೇ ಅವರ ಪ್ರಥಮ ಪುಸ್ತಕ ' Light on Yoga ' ೧೭ ಭಾಷೆಗಳಲ್ಲಿ ತರ್ಜುಮೆಗೊಂಡು ಸುಮಾರು ೧೦ ಲಕ್ಷ ಪ್ರತಿಗಳು ಮಾರಾಟವಾದವು. ೨೦೦೪ ರಲ್ಲಿ ಇತ್ತೀಚೆಗೆ ಪ್ರಕಟಗೊಂಡ 'Light on Life' ಅವರ ಸಮಗ್ರ ವ್ಯಕ್ತಿತ್ವ, ಸಾಧನೆಗಳ ಧಾಖಲೆಗಳನ್ನೊಳಗೊಂಡ ವಿಶೇಷ ಕೃತಿ. 'ನ್ಯುಯಾರ್ಕ್ ಟೈಮ್ಸ್' ಅವರ ಬಗ್ಯೆ ಬರೆಯುತ್ತಾ 'ಯೊಗವನ್ನು ಅತಿ ಗಹನವಾಗಿ ಅಭ್ಯಸಿಸಿ, ಅತ್ಯಂತ ಸಮರ್ಥವಾಗಿ ಬರೆದು ಪ್ರಚುರಪಡಿಸಿದ ಜೀವಂತ ವ್ಯಕ್ತಿಗಳಲ್ಲೊಬ್ಬ'ರೆಂದು ವರ್ಣಿಸಿತು. 'ಟೈಮ್ಸ್' ಪತ್ರಿಕೆ 'ಪ್ರಪಂಚದ ಅತಿ ಹೆಚ್ಚು ಜನರಮೇಲೆ ಪ್ರಭಾವ ಬೀರಿದ ೧೦೦ ಪ್ರತಿಭಾನ್ವಿತ ವ್ಯಕ್ತಿಗಳಲ್ಲೊಬ್ಬರೆಂದು ಶ್ಲಾಘಿಸಿತು.

ಬಿ.ಕೆ.ಎಸ್.ಅಯ್ಯಂಗಾರ್ ಜಗತ್ತಿನಲ್ಲೇ ಪ್ರಥಮವಾಗಿ  'ಪತಾಂಜಲಿ ಮಹರ್ಷಿದೇವಸ್ಥಾನವನ್ನು ೨೦೦೪ ರಲ್ಲಿ ಬೇಲ್ಲೂರಿನಲ್ಲಿ ಕಟ್ಟಿಸಿದರು. ಅವರ ಯೊಗ ಶಿಕ್ಷಣದ ಪ್ರಭಾವಕ್ಕೆ  ಒಳಗಾದವರಲ್ಲಿ,  ಜೆ.ಕೃಷ್ಣಮೂರ್ತಿ, ಆಲ್ಡುಅಸ್ ಹಕ್ಸಲೀ , ಮೆನ್ಹುನ್ ಮುಂತಾದವರಿದ್ದಾರೆ. ಅಯ್ಯಂಗಾರರನ್ನು ಕೆಲವರು 'Michelangelo of Yoga,' ಎಂದರೆ, ಮತ್ತೆ ಕೆಲವರು 'King of Yoga,', ಎನ್ನುತ್ತಾರೆ. ಅವೆಲ್ಲಾ ಮಾತುಗಳು ಅವರ ಜನಪ್ರಿಯತೆಯನ್ನು ಎತ್ತಿ ತೋರಿಸುತ್ತವೆ. 'ಬಿ.ಕೆ.ಎಸ್.ಅಯ್ಯಂಗಾರರ' ಬಹುತೇಕ ಪುಸ್ತಕಗಳು ಇಂಗ್ಲೀಷ್ ಭಾಷೆಯಲ್ಲಿವೆ. ಮರಾಠಿ, ಮತ್ತು ಕನ್ನಡದಲ್ಲೂ ಅವರು 'ಕೈಪಿಡಿಗಳನ್ನು' ರಚಿಸಿದ್ದಾರೆ.




#Article 121: कबीरदासः (435 words)


 
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः सर्वधर्मसमताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन् समाजपरिवर्तनकार्यम् अपि कृतवान् । एतस्य जयन्त्युत्सवं ज्योष्ठमासस्य पूर्णिमादिने आचरन्ति । मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति ।'आल्-कबीर्' (महात्मा) इत्येतत् इस्लाममते देवस्य ९९ नामसु अन्यतमम् । इदमस्ति देवस्य ३७ तमं नाम । कबीरः (हिन्दी: कबीर, पञ्जाबी: ਕਬੀਰ, उर्दु: کبير‎) (१४४०-१५१८) कश्चन अध्यात्मकविः भारतीयऋषिः च । एतस्य साहित्येन भक्तिमार्गः समृद्धः जातः ।  सिक्खमतस्य उपरि तदीयः प्रभावः महान् । अद्यत्वे कश्चन धार्मिकगणः कबीरं संस्थापकं मन्यन्तः तस्य तत्त्वानि अनुसरन्ति 'कबीरमार्गः' इति प्रसिद्धः वर्तते । तेषां सङ्ख्या अस्ति ९,६००,००० । ते अधिकतया उत्तर-मध्यभारते च विस्तृताः । जगति विविधेषु भागेषु अपि विद्यन्ते । बिजक्, सखिग्रन्थ्, कवीर्-ग्रन्थावली, अनुरागसागरश्च तेन लिखितेषु ग्रन्थेषु अन्यतमानि ।

कबीरदासस्य जन्म वाराणसीनगरे एकस्मिन् ब्राह्मणपरिवारेऽभवत् । किन्तु सः बाल्यात् मुस्लिमपरिवारे पालितः अभवत् । क्रिस्तशके १४०० वर्षे समये हिन्दुविधवायां जातः परिवारेण त्यक्तः नीरु महम्मदीयेन तन्तुवायेन पालितः । बाल्ये कबीरः अपि वस्त्रनिर्माणं ज्ञातवान् ।
काचित् कथा श्रूयते यत् वर्षस्य कस्मिंश्चित् विशिष्टदिने यः कोपि गुरोः शिष्यः भवितुम् अर्हति यदि गुरुः तमुद्दिश्य देवस्य नाम कथयेत् । गङ्गातीरनिवासिनः सर्वे स्नानार्थं गङ्गानदीं गच्छन्ति इत्येतत् न कोऽपि विशेषः । महात्मा रामानन्दः अपि ब्राह्मीमुहूर्ते गङ्गास्नानाय गच्छति स्म प्रतिदिनम् । तस्मिन् विशिष्टे दिने अपि, सः प्रातः एव उत्थाय गङ्गानद्याः सोपानानि अवतरन् आसीत् । तावता कश्चन लघुहस्तः अग्रे प्रसृतः, महात्मनः अङ्गुष्ठम् अगृह्णात् च । आश्चर्यान्वितः रामानन्दः अप्रयत्नेन एव देवस्य नाम उदचारयत् । अधः दृष्टवता तेन बालः कबीरः दृष्टः । बालस्य लघुहस्ते अराबिक्-भाषया 'कबीरः' इति लिखितं तेन अवलोकितम् । सः कबीरं पुत्रं शिष्यं च भावयन् स्वस्य आश्रमं प्रति अनयत् । एषः नीतः इत्यनेन बहवः हिन्दुशिष्याः असन्तुष्टाः, केचन आश्रमं परित्यज्य गताः च ।

हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिकधार्मिकचर्चां करोति स्म ।  कबीरस्य पत्न्याः नाम लोई इत्यासीत् । जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान्  । कबीरदासः सद्भिः साकमेव व्यवहारज्ञानम् आध्यात्मिकज्ञानं च प्राप्तवान् । स्वमिरामानन्दात् सन्यासदीक्षां स्वीकृत्य कवितारचनासु च प्रतिभां प्रदर्शितवान् । प्रथमं निर्गुणोपासकः कबीरदासः अनन्तरं रामभक्तः अभवन् । रामरहीमयोः नाम भेदेऽपि देवः एकः एव इत्युक्तवान् ।

दोहा इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानम् अतीवमहत्त्वपूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान्  ।

'साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय' एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति ।  (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्तिः, ज्ञानं, गुरुपूजा, संसारत्यागः, कर्तव्यनिर्वहणादिविषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । कहत कबीर सुनो भाई साधो एतत् वाक्यं कबीरदासस्य पद्येषु भवति ।

कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधिभावनाः जनेभ्यः इष्टाः न आसन् । कबीरदासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे कबीरदासजयन्ती महोत्सवं जूनमासे आचरन्ति ।




#Article 122: गोदावरीनदी (156 words)


पूर्णा प्रणहिता इन्द्रवती शबरीनदी प्रवरा मञ्जिरा पेड्डावगु मनैर् किन्नेसरी च। सा राजमण्ड्रेः समीपे बङ्गालोपसागरेन मिलति ।

गोदावरी दक्षिणभारतस्य प्रमुखा नदी। सा दक्षिणगङ्गा इत्यपि प्रसिद्धा। इयं महाराष्ट्रस्य नासिकमण्डले त्रयम्बकेश्वरे उद्भ्वति। सप्तपवित्रनदीषु अन्यतमा गोदावरी भारतस्य पश्चिमभागात्  पूर्वाभिमुखं प्रवह्य अनन्तरं दक्षिणाभिमुखं प्रवहति । एतस्याः दक्षिणगङ्गा इत्यपि अपरं नाम । भारतस्य प्रमुखनदीषु अन्यतमायाः एतस्याः दैर्घ्यं १४६५ कि.मी.यावत् अस्ति । गङ्गायाः अनन्तरं भारतस्य द्वितीया दीर्घा नदी, दक्षिणभारतस्य दीर्घतमा नदी अस्ति । । पाण्डीचेरीसमीपे याणम् इत्यत्र तथा आन्ध्रप्रदेशस्य पूर्वगोदावरीमण्डले अन्तर्वेदी इत्यत्र बङ्गालोपसागरेण मिलति । 
एषा  बसरा (आदिलाबादमण्डलम्) इत्यत्र आन्ध्रप्रदेशं प्रविशति । अत्र एव प्रसिद्धं ज्ञानसरस्वत्याः मन्दिरम् अस्ति । भारते द्वितीयं सरस्वत्याः मन्दिरम् एतत् । आन्ध्रप्रदेशस्य तेलङ्गाणाप्रदेशमार्गेन गमनसमये धर्मपुरी इति कश्चन लघुग्रामः लभ्यते । अत्र अनेकानि मन्दिराणि सन्ति ।While passing through telangana region of

नासिकनगरस्य अनन्तरं गोदावरीनद्याः तीरे द्वितीयं महानगरं नामराजमण्ड्री  . राजमण्ड्र्यां गोदावरीनद्याः  अत्यन्तं विशालं पात्रम् अस्ति । तन्नाम नद्याः अपरं तीरं ५ कि.मी.दूरे कोव्वूरुनगरे भवति ।  
१९६४ तः -१९६९ पर्यन्तस्य पञ्चवार्षिकयोजनायां निर्मितः श्रीरामसागरप्रकल्पः आदिलाबादमण्डलस्य निझामाबादमण्डलस्य करीमनगरमण्डलस्य वरङ्गलमण्डलस्य च जलापेक्षां पूरयति ।




#Article 123: ब्राह्मीलिपिः (275 words)


ब्राह्मीलिपिः(Brāhmī Script) भारतदेशस्य एका पुरातनी लिपि: अस्ति। इदं प्राचीन  परिवर्तितं रूपम् च खरो। एतत् भारतस्य दक्षिणएशियायाः च लिपिनां माता अस्ति। सम्राट  एतत् लिपौ प्राकृतभाषाम् अलिखत्। 

प्रायः क्रिस्तोः पूर्वं षष्ठ- पञ्चमशताब्दाभ्यां प्रागेव उपयुज्यमाना लिपिरियम् इदानीमुपलब्धासु लिपिषु प्राचीनतमा विद्यते । प्राचीनावशेषेषु अशोककालीनानि शिलाशासनानि प्रामुख्यं वहन्ति, ब्राह्मीलिप्या निबध्दत्वात् । ब्रह्मणा सृष्टा इयं लिपिः इति नः श्रध्दा । उक्तञ्च –

    नाकरिष्यद्यदि ब्रह्मा लिखितं चक्षुरुत्तमम् ।
    तत्रेयमस्य लोकस्य नाभविष्यच्छुभा गतिः ॥ - (नारदस्मृतिः ४-७०)

रेखात्मिका इयं लिपिः तदनन्तरकालीनमिपीनां उत्पादिका आसीत् । प्रायः लेखकानां, लेखनसामग्रीणां च विभिन्नतायाः हेतोः, ब्राह्मीलिपितः अनेकाः लिपयः सम्भूताः । एवं यदा विभिन्नाः लिपयः समभूवन् तदा क्रमेण ब्राह्मीलिपिः विस्मृता । क्रिस्तोः अनन्तरं चतुर्दशे शतमाने फिरोज् षा तुगलख्, विशिष्टम् अशोककालीनं शासनस्तम्भद्वयं देहलीनगरं प्रति आनायितवान् । भारतीयान् पण्डितान् अन्यांश्च विदुषः तच्छासनं पठितुमसूचयत् । किन्तु न कोऽप्यपारयत् ब्राह्मीलिप्या निबध्दं शासनं पठितुम् । तदनन्तरकाले क्रिस्तोः अनन्तरं षोडशे शतमाने तच्छासनं पाठितुम् अक्बरोऽपि प्रयत्नमकरोत् । किन्तु सोऽपि निष्फलो जातः । क्रिस्तोः अनन्तरं १७८४ तमे वर्षे सर् विलियं जोन्स् महाशयः भारतीयसंस्कृतेः अध्ययनार्थं रायल् एषियाटिक् सोसैटि इत्याखां संस्थां प्रतिष्ठाप्य संस्थाद्वारा भारतीयलिपीनां, शासनानां, नाणकानां विविधभारतीयग्रन्थानां च अध्ययने प्रावर्तत । एतत्कारणात् अनेके विद्वांसः भारतीयेतिहासाध्ययने आसक्ताः अभूवन् । जेम्स् प्रिन्सेप् इत्याख्यः प्रथमवारं त्रिस्तोः अनन्तरं १८३६ तमे वर्षे बहुशोधनं कृत्वा ब्राह्मीलिप्याः सर्वानपि वर्णान् अपठत् । तदनन्तरं भारतीयलिपिशास्त्राध्ययने बहवः विद्वांसः आसक्ताः शोधनम् आरेभिरे । 

अक्षराणां विन्यासादिकं सूक्ष्मतया अवलोक्य इदानीन्तनभारतीयलिपीनां मूलस्रोतः ब्राह्मीलिपिः एव इति विद्वांसः निश्चितवन्तः । दक्षिणभारते विद्यमानाः लिपयः कन्नड, तेलगु, नन्दिनागरी, मलयालम्, तिगळारी, ग्रन्थलिपिः सिंहली इत्याद्याः लिपयः गुप्तकालीनब्राह्मीलिप्या सम्बन्धं वहन्ति । उत्तरभारते उपलभ्यमानाः शारदा, नेवारी, भोटिलिपिः, टाकरी, मैथिली, देवनागरी इत्याद्याः अपि शुङ्गकालीनब्राह्म्या, कुशानकालीनब्राह्म्या सह सम्बन्धं वहन्ति । एतासु लिपिषु काश्चन इदानीमपि उपयुज्यन्ते, काश्चन लिपयः इदानीं नैव उपयुज्यन्ते । किन्तु एताः सर्वाः अपि पूर्वम् उपज्यन्ते स्म इति पाण्डुपत्राणां (Manuscript) अवलोकनेन ज्ञायते ।

एवं भारतस्य प्राचीनब्राह्मीलिपेः अर्वाचीनाः लिपयः उत्पन्नाः इति सुस्पष्टम् ।




#Article 124: चित्तौडगढ (411 words)


चित्तौडगढ (, ) राजस्थानराज्ये स्थितस्य चित्तौडगढमण्डलस्य केन्द्रम् अस्ति । इदं नगरं प्राक् महाराणा प्रतापसिंहस्य मेवाडराज्यस्य राजधानी आसीत्‌ इत्यतः अद्यापि अस्य नगरस्य प्रसिद्धिः वर्तते । नगरमिदं राणा कुम्भः, महाराणा प्रतापसिंहः, राणा सङ्ग्रामसिंहः, कुम्भस्य पत्नी तथा भगवतः कृष्णस्य परमभक्ता मीराबाई इत्यादीनां महतां वासस्थानम् आसीत् इति कश्चन विशेषः ।

भारतीय-इतिहासम् अवलोकयामश्चेत् ज्ञायते यत् अनेकवारम् अत्र युद्धम् अभवत् इति । अनेकानां 'राजपूत'वीराणां स्थानमेतत् । अत्यन्तं बलिष्ठदुर्गः पर्वतप्रदेशे अस्ति । भारतस्य इतिहासे चित्तौडगढदुर्गस्य किञ्चन वैशिष्ट्यं, महत्वं च अस्ति । १७२८ तमे वर्षे प्रसिद्धः 'रजपूत'वीरः बप्परावलनामकः राजा एतं दुर्गं निर्मापितवान् । 'रजपूत'राजानः शौर्येण, पराक्रमेण, प्रगतिपरैः कार्यैः, संस्कृतिपरत्वेन च ख्याताः आसन् । बप्परावलनामकेन राज्ञा निर्मितम् एतत् नगरं मुघलराज्ञैः ध्व्स्तीकृतम् । विश्वविख्यातायाः सुन्दर्याः पद्मिन्याः पतिः राजा भीमसिंहः अत्रत्यः एव । 
कृष्णभक्त्यै समग्रे देशे ख्यातया मीरया निर्मितः कृष्णालयः अत्रैव अस्ति । तस्याः पतिना महाराणाकुम्भेन निर्मापितम् एकं मन्दिरम् अपि अत्र अस्ति । अत्रत्येषु स्थलेषु अतिविशिष्टं स्थलम् अस्ति विजयस्तम्भः । मालवराजा मोहम्मदखिलजी चित्तौडगढप्रान्तस्य वशीकरणाय गत्वा पराज्यं पाप्य प्रतिगतः । तस्यैव विजयस्य स्मरणार्थम् एषः विजयस्तम्भः निर्मितः । १४४० तमे क्रिस्ताब्दे राणा कुम्भः एतं स्तम्भं निर्मापितवान् । एषः १२२ पादोन्नतः अस्ति ।

राणा कुम्भः मोहम्मदखिलजीनामकं यवनराजानं पराजित्य नवस्तरीयं विजयस्तम्भं निर्मापितवान् । एषः स्तम्भः प्रवासिनाम् अत्याकर्षकः स्थलविशेषः अस्ति । चित्तौडगढदुर्गः मुख्यं वीक्षणीयस्थलम् अस्ति । चित्तौडगढदुर्गं गन्तुं विशालः मार्गः अस्ति । १२ शतके निर्मितः द्वितीयः दुर्गः अस्ति । त्रिकूटपर्वते स्थितः अयं दुर्गः २५० पादोन्नतः अस्ति । अत्र ९९ वीक्षकस्थानानि ३० पादोन्नते स्थिते अट्टे सन्ति । 'रङ्गमहल्', 'गजमहल्' इत्यादयः प्रासादाः अत्र सन्ति । अत्र शिलासु सुन्दराणि चित्राणि निर्मितानि सन्ति । अस्मिन् दुर्गे जैनमुनीनां देवालयाः अपि सन्ति । महाराणाकुम्भराजगृहं, 'पद्मिनीमहल्', 'मीराबाई महल्', कीर्तिस्तम्भः, जटाशङ्करदेवालयः, गिरिधरमन्दिरम् अत्र द्रष्टव्यानि स्थलानि सन्ति । १४५८ तः १४६८ वर्षावधौ निर्मितः विजयस्तम्भः ३७ मीटर् उन्नतः (१२१ पादमितः) अस्ति । स्तम्भस्य बाह्यभागे रमणीयः हिन्दूशिल्पालङ्कारः अस्ति । द्वादशशतके निर्मितः कीर्तिस्तम्भः २२ मीटर् उन्नतः अस्ति । केनचित् जैनवणिजा अयं स्तम्भः जैनतीर्थङ्कराय आदिनाथाय अर्पितोऽस्ति । अत्र समीपे मृगोद्यानं, भीमलतासरोवरः, नीलकण्ठमहादेवजैनदेवालयः, कालीमातादेवालयः इत्यादयः सन्ति । नगरेऽस्मिन् विद्यमानं चेतकस्मारकं दर्शनीयम्‌ अस्ति । गडसीसरोवरः क्रिस्ताब्दे १३४० तमे वर्षे निर्मितः अस्ति । कृतकसरोवरस्यास्य मध्ये निर्मितः जलमण्डपः सरोवरस्य सौन्दर्यं वर्धयति । पार्श्वे एकः वस्तुसङ्ग्रहालयः अस्ति । सरोवरे नौकाविहारः राजस्थानप्रवासविभागेन कल्पितः अस्ति । अत्र अनेकानि सुन्दरभवनानि सन्ति । तेषु १८०० तमे वर्षे निर्मितं पटवरभवनं, १८२५ तमे वर्षे निर्मितं सालीं सिंहभवनं च उत्कृष्टशिल्पकलायाः उदाहरणम् अस्ति । अत्र वालुकापर्वतेषु उष्ट्रारोहणं कृत्वा आनन्दमनुभवितुम् उत्तमः अवसरः अस्ति ।

'सहाराटूरिस्ट', 'थारसफारी' इत्यादयः प्रवासव्यवस्थापकसंस्थाः सन्ति । वसत्यर्थम् अनेकानि उपाहारवसतिगृहाणि सन्ति ।

चित्तौडनामकं धूमशकटयाननिस्थानं नगरस्य मध्यभागात् द्वादश कि.मी दूरेऽस्ति ।

उदयपुर-तः ८० कि.मी, अजमेरतः ५०० कि.मी, जयपुर-तः ६१८ कि.मी, उदयपुर-तः ६६३ कि.मी, बीकानेर-तः ३२८ कि.मी, देहली-तः ८९७ कि.मी, जोधपुर-तः २९० कि.मी दूरे अस्ति इदं नगरम् । एतेभ्यः नगरेभ्यः 'बस्'यानानि सन्ति ।




#Article 125: चन्द्रगुप्तः (106 words)


चन्द्रगुप्त: (३१०-३३५) भारतस्य गुप्तसाम्राज्यस्य सम्राट् आसीत्‌। सः घटोत्कचस्य सुतः आसीत्। सः अयोध्याप्रयागमगधादीनां नगराणाम् अधिपतिः आसीत्‌। सः महाराजाधिराजः इति अभिधानम् अलभत। तेन वर्धिता श्रीः तस्य सुवर्णनाणकेषु दृश्यते। तस्य पट्टाभिषेक: ३२० तमे वर्षे अभवत्। गुप्तसम्राट् सन् सः गङ्गाप्रदेशे निवसद्भिः बहुभिः प्रमुखैः कुटुम्बैः सह सन्धिकरणेन प्रसिद्धः जातः।

चन्द्रगुप्तः घटोत्कचस्य पुत्रः । तस्य पूर्वजैः 'महाराज'पदवी प्राप्ता आसीत् । प्रथमचन्द्रगुप्तः शिलाशासनेषु 'महाराजाधिराजः' इति निर्दिष्टः इत्येतत् तस्मात् कुटुम्बे दृष्टं भाग्यं सूच्यते । दिग्विजयद्वारा विवाहप्रस्तावानां द्वारा च तेन बहवः प्रदेशाः जिताः । तेन लिच्छवीराजकुमारी कुमारदेवी परिणीता। तेषाम् विवाहस्य चित्रं स्वनिष्केषु अङ्कितम्। समुद्रगुप्तः अपि कुमारदेव्याः पुत्रः एव आसीत्। लिच्छवीराज्यम् उपमगधम् उत्तरदिशि आसीत्। गुप्तलीच्छवीराज्ययोः ऐक्यं समुद्रगुप्तस्य विजयेषु उपाकरोत्। प्रयाग(अलहाबाद्)-साकेत(औध्)-मगध(दक्षिणबिहार्)जनपदानि गुप्तैः शास्यते इति उल्लेखः दृश्यते ।




#Article 126: समुद्रगुप्तः (112 words)


समुद्रगुप्त: (३३५-३८०) भारतस्य सम्राट् आसीत्‌। सः चन्द्रगुप्तस्य पुत्रः आसीत्। तस्य अन्ये अग्रजाः अपि आसन् । परन्तु स एव पित्रा राज्यस्य रक्षणार्थं नियुक्त:।

सः महान् राजा आसीत्। सः प्रथमम् अहिच्छत्रस्य राजानम् अच्युतम् अजयत्। ततः सः दक्षिणभारतस्य नृपान् जितवान्। ते नृपा: गुप्तनृपाणाम् अधिपत्यम् अङ्गीकृत्य उपायनानि समर्पितवन्त: । तस्य सेना काञ्चीपुरीपर्यन्तं सञ्चलनम् अकरोत्। पश्चिमायाम् दिशि शककुशानादयः तस्य अधिपत्यम् अङ्गीकृतवन्तः।  तस्य विजयानाम् उल्लेख: प्रयागे एकस्मिन् हरिशेनलिखितशिलाक्षरे वर्णित: अस्ति।

सः अष्टविधाः सुवर्णनिष्काः विदधाति स्म। सः सीकाकरणे कुशलता कुशानराज्ञः गृहीतवान्। सः कलाम् विद्याम् च अरक्षत्। सः सङ्गीतविद्वान् आसीत्। सः वीणां वादयति स्म। तस्य सभायाम् अनेके विद्वांसः कवयः च आसन्। सः सनातनधार्मिकः आसीत् परन्तु सः गयायाम् बौधमठस्य निर्माणं कर्तुम् अनुमतवान् आसीत् । अस्मिन् कर्मणि अन्यधर्मान् प्रति तस्य सहिष्णुता दृश्यते।

 




#Article 127: महादेवी वर्मा (904 words)


महादेवी वर्मा ( ) (, ) हिन्दीभाषायाः प्रतिभावातीषु कवयित्रीषु अन्यतमा । हिन्दीसाहित्यस्य छायावादियुगस्य प्रमुखेषु चतुर्षु स्तम्भेषु प्रमुखस्तम्भत्वेन तस्याः गणना भवति  । आधुनिकहिन्दीभाषायाः सर्वाधिकरचनात्मकशक्यत्याः उत्तमा कवयित्री सा आधुनिकमीरात्वेन  प्रसिद्धा अस्ति  । २००७ तमं वर्षं तस्याः जन्मशताब्दीवर्षत्वेन जनैः आचरितम् ।

१९०७ तमस्य वर्षस्य मार्च-मासस्य षड्विंशतितमे (२६/३/१९०७) दिनाङ्के प्रातः ८ वादने  भारतस्य उत्तरप्रदेशराज्ये फरुखाबादमण्डले अभवत् । तस्याः परिवारे प्रायः २०० वर्षानन्तरम् प्रप्रथमवारं पुत्र्याः जन्म अभवत् । अतः गृहजनाः हर्षेण मुग्धाः अभूवन् । सा गृहस्य महादेवी अस्ति इति सर्वैः मन्यते स्म  । अतः पुत्र्याः नामकरणं महादेवी कृतम् । तस्याः पितुः नाम गोविन्द प्रसाद वर्मा आसीत् । सः भागलपुरस्य महाविद्यालये प्राध्यापकः आसीत् । तस्याः मातुः नाम हेमरानी देवी आसीत् । हेमरानी देवी अतिधर्मपरायणा, कर्मनिष्ठा, भावसम्पन्ना, शाकाहारी महिला आसीत्  । सा स्वविवाहस्य समये पितृगृहात् सिंहासनासीनस्य भगवतः मूर्तिम् आनयत्  । सा प्रतिदिनम् अनेकाः होराः यावत् पूजनकार्ये निरता भवति स्म । सा रामायणस्य, गीतायाः, विनयपत्रिकायाः च नित्यं पारायणं करोति स्म । सा सङ्गीतक्षेत्रे अपि अत्यधिकरुचिं धरते स्म । तस्याः पत्युः गोविन्दस्य कानिच क्रियाकलापानि हेमरानीदेव्याः विपरीतानि आसन् । सः नास्तिकः, आखेटने अनुरक्तः, भ्रमणेच्छुकः, मांसाहारी च आसीत् । महादेव्याः मानसबन्धुषु सुमित्रानन्दन पन्त-महोदयस्य, सूर्यकान्त त्रिपाठी-महोदयस्य च गणना भवितुं शक्नोति । सा आजीवनं रक्षाबन्धनपर्वणि तौ रक्षासूत्रं बध्नाति स्म  । सूर्यकान्तस्य अपर नाम निराला इति आसीत् । सः तस्याः अत्यधिकः निकटवर्ती आसीत् ।

तस्याः प्रयासैः भारतगणराज्यस्य प्रप्रथमम् अखिलभारतवर्षीयकविसम्मेलनं १९३३ तमस्य वर्षस्य अप्रैल-मासस्य पञ्चदशे (१५) दिनाङ्के अभवत् । तस्य सम्मेलनस्य अध्यक्षपदं सुभद्रा कुमारी चौहान अवहत् । तस्य सम्मेलनस्य आयोजनं प्रयागमहिलाविद्यापीठे जातम् आसीत्  । महादेवी वर्मा हिन्दीसाहित्ये रहस्यवादस्य प्रवर्तिका अस्ति इति साहित्यक्षेत्रे मन्यते  । महिलानां शिक्षणस्य, विकासस्य च कार्याणि, जनसेवायाः कार्याणि च तया कृतानि, अतः जनाः तां समाजनिवर्तिका इति कथयन्ति स्म  ।

अत्र सत्यता अस्ति यत्, महादेव्याः काव्यसंसारः छायावादस्य परिधौ निहितः आसीत् । परन्तु तस्याः काव्यानि असम्पृक्तरीत्या दृश्यन्ते चेत्, महादेव्या सह अन्याय एव मन्यते । वङ्गप्रदेशस्य अकालस्य समये १९४३ तमे वर्षे तया एकं काव्यसङ्कलनं प्रकाशितम् । वङ्गसम्बद्धा “बंग भू शत वंदना”-नामिका कविता अपि रचिता । तथैव चीन-देशस्य आक्रमणस्य विराधाय तया 'हिमालय'-नामकः काव्यसङ्ग्रहः अरि सम्पादितः । सः सङ्ग्रहः तस्याः युगबोधस्य प्रमाणम् अस्ति ।

गद्यसाहित्यक्षेत्रे अपि तया अनेकानि कार्याणि कृतानि । तस्याः आलोचनात्मकं साहित्यं काव्यवदेव महत्त्वपूर्णम् अस्ति । तस्याः संस्मरणानि भारतीयजीवनस्य संस्मरणानां चित्राणि सन्ति ।

चित्रकलाक्षेत्रे तस्याः योगदानं न दृश्यते, परन्तु जलरङ्गानाम् उपयोगेन ‘वॉश’-शैल्या निर्मतानि तस्याः चित्राणि अस्पष्टरङ्गाः, लयपूर्णरेखाः च कलायाः सुन्दरोदाहरणत्वेन परिगण्यन्ते । सा रेखाचित्राणि अपि अरचयत् । 

सा प्रशासनिक-अर्धप्रशासनिक-व्यक्तिगतसंस्थाभ्यः पुरस्काराणि प्रापत् ।

साहित्ये महादेव्याः आविर्भावः तदा अभवत्, यदा 'खडीबोली'-भाषायाः आकारः परिष्कृतः भवति स्म । सा हिन्दीकवितायै ब्रजभाषायानुकूलान् कोमलशब्दान् संस्कृतभाषायाः, वङ्गभाषायाः च अन्विष्टवती । छन्दोभिः तया गीतरचनाक्षेत्रे नावीन्यं सृष्टम् । भारतीयदर्शनस्य वेदनाः स्वीकृत्या सह जनानां सम्मुखम् उपस्थापिताः । एवं सा भाषा-साहित्य-दर्शनेषु अतिमहत्त्वपूर्णानि कार्याणि अकरोत् । तस्याः कार्याणि भविष्यत्कालस्य जनान् अपि प्रैरयत् । शचीरानी गुर्टू-नामिका कवयित्री अपि अङ्ग्यकरोत् यत्, महादेव्याः कविताः सुसज्जितभाषायाः अनुपमोदाहरणम् अस्ति  इति । तस्याः गीतरचनायाः शैली, भाषा अतिविशिष्टा आसीत् । तथा च तया याः रचनाः कृताः, ताः सर्वाः सरलाः आसन् । तेन सह प्रतीकानाम्, उदाहरणानां च तया सुन्दररीत्या, स्वाभाविकरीत्या च प्रयोगः कृतः, येन विषयवस्तु पाठकानां नेत्रयोः सम्मुखं चित्रवत् प्रत्यक्षं भवति  । छायावादस्य काव्यानां समृद्धौ अपि तस्याः अमूल्यं योगदानं वर्तते । छायावादस्य काव्येषु प्रसादेन (गोविन्द प्रसाद) प्रकृतितत्त्वं स्थापितं,  सूर्यकान्तेन (सूर्यकान्त त्रिपाठि निराला) तेषु काव्येष मुक्तछन्दः स्थापितं, सुमित्रानन्दनेन (सुमित्रनन्दन पन्त) च सुकोमलकलायै पोषकतत्वं स्थापितम् । छायावादस्य सम्पूर्णे कलेवरे (शरीरे) प्राणप्रतिष्ठायाः दायित्वं महादेव्या ऊढम् । भावात्मकतायाः एवम् अनुभूतेः च गहनता तस्याः काव्यानां प्रमुखविशेषता आसीत् । हृदयस्य सूक्ष्मातिसूक्ष्मभावानां तरङ्गान् सा मूर्त्तान् च कृत्वा तेषु अभिव्यञ्जनायाः छायावादिरसान् स्थापयति स्म । तस्याः सा कला एव तस्यै ‘महादेवी’त्वेन सम्मानं प्रयच्छति  वे हिन्दी बोलने वालों में अपने भाषणों के लिए सम्मान के साथ याद की जाती हैं। उनके भाषण जन सामान्य के प्रति संवेदना और सच्चाई के प्रति दृढ़ता से परिपूर्ण होते थे। वे दिल्ली में १९८३ में आयोजित तीसरे विश्व हिन्दी सम्मेलन के समापन समारोह की मुख्य अतिथि थीं। इस अवसर पर दिये गये उनके भाषण में उनके इस गुण को देखा जा सकता है।

यद्यपि महादेवी अनेकेषाम् उपन्यासानां, कथानां, नाटकानां च रचनाम् अकरोत्, तथापि तस्याः लेखाः, निबन्धाः, रेखाचित्राणि, संस्मरणाणि, भूमिकाः, ललितनिबन्धाः उत्कृष्टताः आसन् । यतो हि तेषु तया ये गद्याङ्काः लिखिताः, ते श्रेष्ठतमगद्याङ्काः मन्यन्ते  । तेषु जीवनस्य सम्पूर्णवैविध्यं समाहितम् अस्ति । कल्पनात्मकविचारैः, काव्यानां च अवलम्बनम् अकृत्वैव रचनाकारः गद्ये किं किं स्थापयितुं शक्नोतीति पठनीयं चेत्, महादेव्याः रचनाः पठनीयाः । तस्याः गद्येषु विद्यमानायाः वैचारिकपरिपक्वतायाः वर्तमानकाले अपि प्रासङ्गिकता अनुभूयते  । समाजनिवर्तिका, नारस्वततन्त्रतायाः पक्षधरायाः तस्याः विचारेषु दृढतायाः, विकासस्य च अनुपमसामञ्जस्यं प्राप्यते । सामाजिकजीवनस्य गूढविषयान् बोधयन्ती तस्याः तीव्रदृष्टिः नारीजीवनस्य वैषम्यं, शोषणं च प्रप्रथमवारं समाजस्य सम्मुखम् अस्थापयत् ।
मौलिकरचनाकर्त्री सा सृजनात्मकम् अनुवादम् अपि करोति स्म । तस्याः प्रखरानुवादस्य दर्शनं ‘सप्तपर्णा’ (१९६०)-ग्रन्थे भवति । स्वस्याः सांस्कृतिकचेतनायाः आधारेण तया वेद-रामायण-थेरगाथा-अश्वघोष-कालिदास-भवभूति-जयदेवादीनां कृतीषु तादात्म्यं स्थापितम् । तथा च ३९ महत्त्वपूर्णान् अंशान् अवलम्ब्य हिन्दीभाषायाम् काव्यानुवादं कृत्वा प्रास्तौत् । ‘अपनी बात’-इत्याख्यां ६१ पृष्टात्मकं शोधपत्रं भारतीयमनीषा-संस्थायाम् उपस्थापितम् । तत् शोधपत्रं स्त्रीलेखनस्य, हिंदीभाषायाः समग्रचिन्तनस्य, ललितलेखनस्य च उपस्थापनं करोति  ।

सा ब्रजभाषामाध्यमेन हिन्दीभाषायै कोमलतायाः, मधुरतायाः च मार्गं प्रशस्तम् अकरोत् । तथा च व्यष्टिमूलकानां मानवतावादिकाव्यानां प्रतिस्थापनम् अकरोत् । तस्याः गीतानां नादः, सौन्दर्यं च व्यञ्जनाशैल्याः दुर्लभोदाहरणम् अस्ति । ―निशा सहगल 

महादेव्याः कविताः सुसज्जितभाषायाः अनुपमोदाहरणम् अस्ति ―शचीरानी गुर्टू

महादेवी के प्रगीतों का रूप विन्यास, भाषा, प्रतीक-बिंब लय के स्तर पर अद्भुत उपलब्धि कहा जा सकता है। ―कृष्णदत्त पालीवाल

महादेव्या गद्येषु अपि कवितायाः मर्मस्य अनुभूतिः जनिता । ‘गद्यं कवीनां निकषं वदन्ति’ इत्येताम्  उक्तिं सा चरितार्थितवती । विलक्षणता तु अस्ति यत् न तु सा उपन्यासम् अलिखत्,  न तु कथां, नैव नाटकानि, तथापि श्रेष्ठगद्यकारत्वेन प्रसिद्धा अस्ति । तस्याः ग्रन्थलेखने रेखाचित्रस्य, संस्मरणस्य, यात्रावृत्तस्य च आभासः भवति । तथा च सम्पादकीयं, भूमिकाः, निबन्धाः, अभिभाषणानि इत्यादीनां माध्यमेन जीवनस्य वैविध्यस्य ज्ञानं भवति । कल्पनात्मकविचारैः, काव्यानां च अवलम्बनम् अकृत्वैव रचनाकारः गद्ये किं किं स्थापयितुं शक्नोतीति पठनीयं चेत्, महादेव्याः रचनाः पठनीयाः । ―रामजी पांडेय

महादेव्याः गद्यानि जीवनस्य गहनानि गद्यानि सन्ति । 1956 तमे वर्षे लिखानि तस्याः गद्यानि अद्य 50 वर्षानन्तरम् अपि प्रासङ्गिकानि सन्ति । तत्र किमपि जीर्णत्वं नास्ति । ―राजेन्द्र उपाध्याय

 




#Article 128: कला (1391 words)


कला इति शब्दः अतिव्यापः अस्ति । विद्वासः अपि अस्य परिभाषां केवलं कस्मिंश्चित् एकस्मिन् दृष्टिकोणेन एव कुर्वन्ति । कलयति इति काला । कल् धातुः सङ्ख्याने+णिच् । इति अस्य पदस्य व्याकरणस्य परिभाषा । मनुष्यशरीरस्य सप्तकलाः, चन्द्रस्य षोडषकलाः, सूर्यस्य द्वादशकलाः, अग्निमण्डलस्य दश कलाः, चतुष्षष्ठि (६४) कुशलकलाः इति कलाभेदाः अस्य परिभाषाम् एव परिवर्तयन्ति । यद्यपि अस्य सहस्राधिकाः परिभाषाः भवन्ति । तथापि भारतीयपरम्परानुगुणं यस्यां क्रियायं कौशलम् अपेक्षितं भवति तस्य सर्वस्य कला इति अभिधानं युज्यते । यूरोपीयाः शस्त्रिणः अपि कलायां कौशलं महत्वपूर्णम् अस्ति इति मन्यन्ते ।

मनुष्यस्य वैविध्यमयप्रक्रियाः कल्पनाविलासः भावाः इत्यादीनाम् अभिव्यक्तिः येन माध्यमेन भवति सा कला इति वक्तुं शक्यते । कलायाः अर्थः तत्त्वज्ञानस्य शाखायां सौन्दर्यमीमासां (एस्तेटिक्स्) परिभाषितः । विंशतिशकानन्तरं कलायाः निर्वचनम् अथवा अस्याः सामर्थ्यस्य निर्धारः कष्टसाध्यः अस्ति । रिचर्ड वोहिम् इति कश्चित् एतदर्थं मार्गत्रयं सूचयति । यथार्थवादः इति प्रथमस्य अनुगुणं सौन्दर्यास्वादनस्य गुणः स्वतन्त्रः मनुष्यस्य दृष्टिकोणम् अतिरिच्य स्वतन्त्रः भवति । चेदपि मनुष्याणाम् अनुभवानुगुणं भवति । द्वितीयः वास्तविकवादः अस्य वादानुगुणं सौन्दर्यास्वादनस्य गुणः स्वतन्त्रः चेदपि मनुष्याणाम् अनुभवानुगुणं भवति । तृतीयः सापेक्षतावादः अस्य वादानुगुणं गुणः नायं स्वतन्त्रः अयं मनुष्यस्य अनुभवम् अवलम्ब्य तिष्ठति । अपि च अन्यान्येषु विभिन्नः भवति । काचित् कलासृष्टिः सृष्टुः उद्देशं दर्शयेत् इति अग्रहः नास्ति । किन्तु कदाचित् तस्याः कलायाः उद्देशः बाह्यगोचरः भवेत् । कदाचित् सामान्यः चायकंसकः अपि सकलः इति परिगणीतः भवति । यदा चित्रलेखनं वर्णचित्ररचनम् इत्यादयः अधिकप्रमाणेन क्रियते तर्हि उद्योगः इति कथ्यते । भारतीयसाम्प्रदाये कला इति शब्दः कस्यचिदपि कौशल्यस्य अथवा नैपुण्यस्य विषये उपयोजयन्ति । अयं भावः रम्यपरिकल्पनायाः (रोम्याण्टिक्) अन्दोलनस्य कालखण्डे परिवर्तितः । तदा कला तु मनुष्यस्य बौद्धिकसामर्थ्यस्य विशेषः इति परिगणय्य धर्मविज्ञानाभ्यां पृथक् वर्गीकृता । सामान्यकला चिन्तनस्य भावनायाः  च उत्तेजनार्थं कृता अस्ति । कलायाः लक्षणं रिचर्ड् वोलेहिम् एवमुक्तवान् मनुष्यसंस्कृतेः अत्यन्तं प्राचीनं भेदनदुस्साध्यं रहस्यम् इति वर्णितवान् । कला भावनायाः अभिव्यक्तेः वाहिनी अथवा भावस्य संवहनस्य माध्यमः इति वर्णितम् । लियो टाल् स्टाय् इत्येतस्य चिन्तनानुगुणं कला नाम मानवः अन्येन मनुष्येन सह संवहनर्थम् उपयुज्यमानः परोक्षः माध्यमः एव इति । किन्तु एतादृशी तु भाषा भवति 

कला नाम आधुनिके काले सर्जनात्मककला (क्रियेटिव् आर्ट्) अथवा ललितकला (फैन् आर्ट्) इत्येतयोः संक्षिप्तरूपम् अस्ति इति । विक्षकानां सौन्दर्यप्रज्ञायाः आकर्षणम् अथवा प्रेक्षकानां लक्ष्यं सूक्ष्मविषयस्य दिशायाम् अकर्षणम् । यदि कौशलं सामान्यतया अथवा व्यावहारिकरूपेण उपयोजयति तां कलां कौशलम् इति वदन्ति । एतत् कौशलं व्यापारार्थम् अथवा उद्योगार्थं वा उपयोजयति तदा तां ललितकलाम् एव वाणिज्यकला इति व्यवहरन्ति । हस्तकलां विन्यासकलां च कदाचित् अन्वयिककला इति व्यवहरन्ति । कलारसिकाः ललितकला अन्वयिककला एतयो मध्ये व्यत्यासं परिकल्पयन्ति । किन्तु अयं व्यत्यासः केवलं व्याख्यानदृष्ट्या भवति वास्तवरूपेण एतयोः मध्ये मूलभूतः भेदः नास्ति  । किन्तु ललितकला अपि क्रियात्मकोद्देशयुक्ता स्वाभिव्यक्त्योद्देशयुता च भवति । कलायाः उद्देशः चिन्तनस्य संवहनं स्यात् । कित्नु राजकीयः तात्त्विकः उद्देशानां पूरणस्य कला सौन्दर्यप्रज्ञां जागर्ति । ग्रहणं  (पर्सेप्शन्) गुणानां प्रदर्शनार्थं मनोरञ्जनार्थम् अथवा कदाचित् तीव्रभवनां प्रचोदनर्थं वा स्यात् । कदाचित् सामन्यावलोकनेन कश्चिदपि उद्देशः नास्ति इति भाति । किन्तु कला अनेकान् अंशान् स्वान्तरङ्गे सङ्गोपयति । कदाचित् कलानैपुण्यस्य अध्ययनां भवेत् कदाचित् कलानौपुण्ये प्रदर्शितं तन्त्रं भवतु, कलासृष्टिः स्यात्, अथवा वीक्षकानुभवः भवेत् । सर्जनात्मका कला अनेकपद्धतीनां समवायः भवति । अनियतपरिकल्पनाः अथवा चिन्तनानि क्रियात्मकरूपेण अभिव्यक्तिः अथवा स्वकल्पनाम् अन्येषां ज्ञापनम् एव कलासृष्टिः इति वक्तुं शक्यते । कलाकृतिः कदाचित् उद्देशं स्पष्टयेत् अथवा उपयुक्तरुपैः वस्तुभिः वा अवगन्तुं शक्येत । कला कस्यचित् जनस्य चिन्तनं भावं विश्वासम् अथवा कल्पनां संवेदनाशक्त्या (सेन्स्) उत्तेजयति । कला कस्याश्चित् कल्पनायाः अभिव्यक्तिः अपि भवितुमर्हति । अतः इयं रूपवैविध्यं प्राप्तुं शक्नोति । अपि च अनेकान् उद्देशान् पूरयति ।

वात्सायनस्य कामसूत्रस्य जयमङ्गलस्य व्याख्यायां कलायाः द्वैविध्यम् अस्ति इति उक्तवान् । एका कामसूत्र सम्बद्धा कला अपरा तन्त्रसम्बद्धा कला इति । द्वयोः प्रत्येकताया सङ्ख्या६४भवति । कामसम्बद्धाः कलाः २४ यस्य सम्मन्धः सम्भोगस्य आसनेन भवति । द्यूतसम्बद्धाः २०, कामसुखसम्बद्धाः कलाः१६ अपि च ४उच्चतरकलाः । सर्वान् योजयित्वा ६४ कलाः भवन्ति । एतदतिरिच्य अन्याः काश्चन सामान्यकलाः उक्ताः सन्ति । गुहासु शिलासु रचितानि शिल्पकलाः सामान्यतः ४०००० वर्षेभ्यः पुरातनानि इति अपर् पालियोलिथिक् कालस्य पेट्रोग्लिप् साक्ष्यानि प्राप्तानि । किन्तु अस्याः कलायाः विषये निखरव्याख्यानं कर्तुं न शक्यते । यतः अस्याः कलायाः रचनस्य कालस्य संस्कृतेः च विषये विशेषज्ञानं न प्राप्तम् । प्रपञ्चे एतावता कलेन प्राप्ता प्राचीनतमा कलाकृतिः(आर्ट् आब्जिक्ट्) इत्युक्ते  ७५०००वर्षेभ्यः प्राचीना दक्षिणाफ्रिकागुहासु प्राप्ता उत्कीर्णा शम्बूकस्य शुक्तिः । .
कला स्वस्य अनेकानि साम्प्रदायिकमूलानि प्राचीनसंस्कृतौ सन्ति । मेसोपोटमिया पर्शिया भारतम् चीना प्राचीन् ग्रीक् रोम्  इङ्का माया ओलेमेक् इत्यादयः प्राचीनसंस्कृतिषु कलामूलानि सन्ति । प्रत्येकं प्राचीनसंस्कारे अपि स्वस्य काञ्चित् कलाशैलीं पोषितवती । प्राचीना इस्लामिक् (मुसल्मानानाम्) कला मूर्तिचित्रणं तिरस्कृतवती अतः जियोमेट्रिकल् विन्यासः क्यालिग्राफी वास्तुशिल्पः इत्यादीनां विषये अदरः प्रदर्शितः । पूर्वस्यां दिशि कलासु मतस्य प्रभावः अधिकः आसीत् । भारतम् टिबेट् च देशभ्यां शिल्पेषु नृत्यकलायै प्राधान्यं दत्तम् । धार्मिकवर्णचित्राणि शिल्पकलाकृतिभिः प्रभावितानि आसन्त् । चीनादेशे अपि अनेकाः कलाप्रकारः प्रवर्धमानाः अभवन् । जेड् कार्विङ्ग् कांस्यशिल्पाः मृत्कलाकृतयः पद्यानि क्यालिगृफि सङ्गीतं च अनेकै राजवंशीयैः पोषितानि आसन् । जपानदेशः अपि स्वस्याः कलशैल्याः राजवंशस्य नाम एव अङ्कितवान् । अत्र क्यलिग्रफिवर्णचित्रयोः मिश्रणं दृष्टुं शक्यते । अस्मिन् देशे १७शतकस्य अनन्तरकाले वुड् ब्लाङ्क् प्रिण्टिङ्ग्  प्रसिद्धम् अभवत् ।

कला सामान्यतः बाह्यचक्षुषाम् अवलोकनापेक्षया अन्तरङ्गग्राहणम् इच्छति । कलायाः सृष्टिः निर्दुष्टेन निर्दिष्टेन उद्देशेन च भवति । ललितकला  किमपि अन्यं लक्ष्यं साधयति । एतादृशचिन्तनस्य परिणमेन कलासृष्टिः ऊहातीतम् । विभागनिश्चयः दुस्साध्यः अभवत् । कलासृष्टिं अनेकैः विधैः आस्वादयितुं शक्यते । अनेन कारणेन एव अस्याः नानाविधानि विवरणानि प्रस्तूयन्ते । कलायाः महोपलब्धिः नाम कस्मिंश्चित् एकस्मिन् कौशले नैपुणप्राप्तिः । अतवा कस्यचित् एकस्य माध्यमे नियन्त्रणप्राप्तिः । बहुशः आधुनिकाः कलाविदः केवलं कलाकृतेः दर्शनेन सर्वं ज्ञतं भवति तादृशकलाकृतीः न रचयन्ति । कलायाः परिवर्तनस्य गुणः भवति ।

सर्जनात्मककालानं विभागः तस्याः उपयुत्कतन्त्राणाम् आधारेण क्रियते । अलङ्कारस्य कला (डेकोरेटिव्) रूपशिल्पकला (प्ल्यास्टिक् आर्ट्) प्रदर्शनकला (पर्फार्मिङ्ग् आर्ट्) इति विभगः क्रियते । अथवा साहित्यक्षेत्रं विज्ञानक्षेत्रम् इव न भूत्वा तन्त्रानुसारं शैक्षणिकरीत्या विभक्तेषु विषयेषु कला अपि काचित् भवति । कला माध्यमः नाम कलकृतिः केन वस्तुना रचिता भवति सः । उदाहरणार्थं वर्णचित्रकलायाः माध्यमः कागदं वर्णा च । कलारुपम् नाम कलाप्रकारः इत्युक्ते काचित् कलात्मका अभिव्यक्तिः । उपयुक्तः माध्यमः प्रकारस्य उपरि प्रभावं करोति एव । शिल्पकृतेः आकारः त्रिमुखयुक्तं भवेत् यतः गुरुत्वस्य कारणेन सा आकृतिः न पतेत् । यस्य कस्यापि निर्दिष्टस्य माध्यमस्य किञ्चित् वैशिष्ट्यं निर्बन्धः नियति च भवन्ति एव । अस्य सम्प्रदायबद्धलक्षणम् इति व्यवहारः (फार्मल क्वालिटी) अस्य कश्चित् दृष्टन्तः एव भवति । वर्णचित्रकलायाः सम्प्रादायबद्धलक्षणानि नाम स्थूलपटः, वर्णानि, कूर्चः इत्यादयः । यस्याः कस्याः अपि कलकृतेः रूपं सम्प्रदायबद्धः माध्यमः कलाविदः उद्देशः च निर्धारयन्ति । कलाकृतेः शैली नाम कलाविदः कलाकृतेः विशिष्टं रूपं विशिष्टा पद्धति च ।
 

कला इति पदम् एवम् उपयोजयन्ति यत् प्रशिक्षया प्राप्तं सामर्थ्यम् अथवा माध्यमे प्राप्तं नियन्त्रणम् इति । भाषां योग्यरीत्या प्रयोजयति चेत् सापि कला इत्युच्यते । भवः चिन्तनं ग्रहणं च या अभिव्यञ्जयति सा कला इति सरलतया वक्तुं शक्यते । कश्चित् सामान्यः जनः कालावित् भवितुं तस्य विशेषः परिश्रमः परिणतिः च आवश्यकी इति जनसामान्यः अभिप्रायः । साम्प्रदायिकं नैपुण्यं कलातः पृथक्कर्तुम् अश्कयं गुणलक्षणं इति परिगणीतम् आसीत् । अतः कलायाः साफल्यं नैपुण्याधीनं भवति । किन्तु लियनार्डो डा विङ्कि इत्यस्यानुगुणं नैपुण्यस्य अभिव्यक्तिः तस्य प्रयत्नात् अधिकं न भवति इति । विंशतशतकस्य आरम्भे जान् सिंगर् सार्जेण्ट् करचतुर्यिन कृतप्रदर्शनानि जनप्रशंसाम् अवप्नोत् । किन्तु केचन शङ्कया पश्यन्ति स्म । तस्मिन् एव काले सुप्रसिद्धः कलाकारः पाब्लो पिकासो इत्येषः स्वस्य साम्प्रदायिकशैक्षिकप्रणालीं समाप्यमाणः आसीत् । आधुनिककलायाः विषये सर्वसामान्यः आक्षेपः इत्युक्ते सर्जनात्मककलाकृतिं सृष्टुम् आवश्यकस्य कौशलस्य अभावः सर्वदा अस्ति । कल्पनात्मकासु कलासु (कन्सेप्ट्युवल् आर्ट्स्) मार्सेल् डुचाम्प् इत्य्स्य फौण्टेन् इति नामान्वितः कलाकारः  सिद्धवस्तूनि (फौण्ड् आब्जेक्ट्) उपयुज्य साम्प्रदायिककलाकौशलानि उत्सृज्य कलाकृतिं सृष्टवान् । हिर्स्टन् इति कश्चित् किमर्थं जनप्रियः कलाकारः अभवत् इत्युक्ते तस्य अगाधा कल्पनाशक्तिः जनान् मन्त्रमुग्धान् करोति स्म । कल्पनात्मकां समकालीनां च कलाकृतीनां रचनं सिद्धवस्तूनां संयोजनम् एव अस्ति । इदानीमपि अधुनिककलाकारः समकालीनाः च चित्ररचने वर्णविन्यासे च कुशलाः सन्ति । अपि च कलाकृतिनिर्माणे सिद्धहस्ताः सन्ति ।

कला इति पदं कदाचित् योग्यतायाः निर्णयर्थमपि उपयोजयन्ति । अतः तद्भक्ष्यम् अपि काचित् कलासृष्टिः पाचकः कलाकारः इति वक्तुं शक्यते । वञ्चनमपि कला भवति । तस्य कूटस्य चातुर्यं कला इति परिगण्यते । मौल्यं निर्णेतुं विमर्शात्मकः मनोभावः आवश्यकः भवति । प्राथमिके स्तरे कस्याश्चिदपि कलाकृतेः श्रेष्ठतायाः परिगणनावसरे तस्यां तिरस्कारयोग्यः अथवा पुरस्कारयोगः गुणः अस्तिवा नेति परिक्षा सामर्थ्यम् आवश्यकं भवति । तस्य ग्रहणं सदापि अनुभवानाम् आधारेण एव भवति । तद्ग्रहणं व्यक्तेः व्यक्तिः भिन्नं भवति । या मनसः उल्लासं न जनयति तां कला इति न परिगणयेत् इति सामान्यः अभिप्रायः । किन्तु काचित् उत्तमा कला कदाचित् प्रेक्षकाणां श्रोतॄणां मोदं न जनयेत्  अथवा सुन्दरा इति अभिप्रायं न कारयेत् । कस्यचित् कलाकारस्य प्रधानः उद्देशः न केवलं सौन्दर्यप्रज्ञायाः जागर्या प्रत्युत सामाजिकप्रज्ञायाः, नैतिकप्रज्ञायाः, अथवा सच्चिन्तनस्य जागर्या भवति । एतावदेव स्थापितस्य सुन्दरं सर्वं श्रेष्ठम् इति भावं विरुद्ध्य अभिप्रायभेदः आरब्धः एव । सदभिरुचियुक्ताम् आकर्षिकां सम्पूर्णतया त्यजेत्  इति भावः अपि न । वास्तवेन अस्याः विरुद्धा अपि कदाचित् प्रकृता भवति । नैकाः कलाशालाः कलायाः श्रेष्ठतां विमर्शयितुं स्वमानदण्डं प्राप्नुवन् । कलायाः मौल्याङ्कनं कालधर्मानुगुणं भवति इति निश्चयः ।

विश्वस्य दीर्घेतिहासस्य पुटेषु कलायाः वैविध्यमयोद्देशाः दृश्यन्ते । अतः कलां निर्दिष्टस्य कस्यचिदपि उद्देशस्य नियतं कर्तुं न शक्यते ।  इत्युक्ते कलायाः उद्देशः अस्पष्टः इत्यपि न । कलासृष्टौ अनन्यानि विविधानि कारणानि भवन्ति । कलायाः उद्देशः चित्ताकर्षणं मनुष्यस्य मानवसहजभावानां स्पन्दनम् च । कला नैतिकां प्रज्ञा अथवा सौन्दर्याभिलाषां च जागरयति । अथावा तादृशभावानां संवहनार्थमपि उपयुक्ता भवेत् । कलावित् स्वभावं प्रकटयति । अतः प्रेक्षकाः श्रोतारः वा स्वभावान् अपि जगरयेयुः । परिणामकारिणी कला मनुष्यस्य स्थिते विषये नवज्ञानं व्यक्तेः अथवा समुदायस्य विषये ददाति । एतत् चिन्तनं सर्वदा सकारात्मकम् एव भवेत् इति आशयः नास्ति । कलालारस्य कौशलं तेन उप्ताद्यमानस्य परिणामे प्रभावं करोति । अनेन नूतना काचित् अन्तर्दृष्टिः उन्मीलिता भवति । एकवक्येन वदमः चेत् कलायाः उद्देशः कलाकारस्य भावाभिव्यञ्जनं लोकस्य मनोरञ्जनम् च ।




#Article 129: कूडली (333 words)


कूडली (Koodli) कर्णाटकराज्ये शिवमोग्गमण्डले विद्यमानं किञ्चन क्षेत्रम् । अत्र तुङ्गानद्याः भद्रानद्याः च सङ्गमः भविष्यति । ततः तुङ्गभद्रानद्याः उगमः ।

प्राचीनकालस्य सङ्गमेश्वरदेवालयः, सङ्गमः, परिसरस्य नयनमनोहरं दृश्यं च अस्य प्रदेशस्य शोभाम् अवर्धयन् । अत्रत्यः रङ्गनाथस्वामिदेवालयः अपि जनप्रियः । सङ्गमस्थाने लघुः नन्दीदेवालयः विद्यते । अयं लघुः देवालयः सङ्गमस्थानं सूचयति । सङ्गमेश्वरदेवालयस्य महान् इतिहासः विद्यते । अयं देवालयः होय्सळकालीनः इति श्रूयते । प्राचीनैः शिल्पकलाभिः विराजमानः अयं देवालयः कूडलीक्षेत्रस्य प्रमुखेषु आकर्षणेषु अन्यतमः । १२ शतके निर्मितः रामेश्वरदेवालयः क्षेत्रस्य सांस्कृतिकसौन्दर्यं वर्धयति । सङ्गमेश्वरदेवालयस्य समीपे नरसिंहदेवालयः विद्यते । अयं देवालयः प्रह्लादेन प्रतिष्ठापितं पूजितञ्च इति विश्वस्यते ।

कूडलीक्षेत्रे मठद्वयं विद्यते । अद्वैततत्त्वोपासकः शङ्करमठः, द्वैततत्त्वोपासकः अक्षोभ्यतीर्थमठः ।

शङ्करतत्त्वानाम् अध्ययनाय प्राचीनभारतीयपरम्परानुगुणं विद्यते कूडलीमठः । अस्य प्राचीनः इतिहासः एवमस्ति - १५ / १६ शतके कदाचित् शृङ्गगिर्याः ज्येष्ठः मठाधिपतिः तीर्थयात्रां प्रति गतः आसीत् । दीर्घकालं यावत् तेन न प्रत्यागतम् इत्यतः कनीयान् स्वामी पीठारोहणम् अकरोत् । किन्तु ज्येष्ठः मठाधिपतिः ततः केषाञ्चन दिनानाम् अनन्तरं शृङ्गगिरिं प्रत्यागतवान् । किन्तु स्वस्य शिष्यः एव यत्र पीठारोहणं कृतवान् आसीत् तत्र प्रवेशः अनुचितः इत्यतः सः शृङ्गेरीतः आगत्य तुङ्गभद्रयोः सङ्गमस्थाने कूडलीक्षेत्रे स्वीयं मठं संस्थापितवान् । अयं कूडलीमठः इति प्रसिद्धः जातः । १९०० तमे वर्षे नूतनः यतिवरः पीठाधिपतिः जातः । सः पूर्वं मैसूरुमहाराजस्य कृष्णराज ओडेयरस्य गुरुः आसीत् इत्यतः मठस्य भूयान् प्रगतिः जाता । तदनन्तरम् आगताः सर्वेपि यतिवराः स्वीयया प्रतिभया परिश्रमेण च मठस्य उन्नतिम् असाधयन् ।

अयं मठः १३ / १४ शतके अक्षोभ्यतीर्थेन (मध्वाचार्यस्य प्रमुखः शिष्यः) संस्थापितम् । अयं मठः संस्कृतस्य मध्वतत्त्वस्य शिक्षणे प्रसिद्धः वर्तते । समृद्धः सम्प्रदायः विद्यते अत्र । एतावता त्रयः पीठाधिपतयः आसन् । श्री रघुविजयतीर्थः इदानीन्तनः पीठाधिपतिः ।

कूडलीक्षेत्रं शिवमोग्गनगरतः १५ कि मी मिते दूरे विद्यते । समीपस्थं नगरं होळेहोन्नूरु यच्च २ कि मी दूरे विद्यते । शिवमोग्गतः लोकयानानि उपलभ्यन्ते ।

File:Rameshvara temple (12th century) at Kudli.JPG|सङ्गमस्थाने होय्सळशैल्या निर्मितः रामेश्वरदेवालयः
File:Ornate entrance to main sanctum in Rameshvara temple at Kudli.JPG|रामेश्वरदेवालयस्य गर्भगृहस्य प्रवेशद्वारम् 
File:A small shrine inside the mantapa (hall) in Rameshvara temple at Kudli.JPG|रामेश्वरदेवालयस्य अन्तः लघु गर्भगृहम्
File:Another view of the Rameshwara Temple - Kudli.JPG|रामेश्वरदेवालयस्य अन्यद् दृश्यम्
File:Inside the Rameshwara Temple, Kudli.JPG|रामेश्वरदेवालयस्य अन्तर्भागः
File:Small mandapa in the garden of Rameshvara temple at Kudli.jpg|देवालयत् बहिः विद्यमानः मण्डपः
File:Temple profile - Rameshwara Temple Kudli.JPG




#Article 130: विजयलक्ष्मी पण्डित (947 words)


विजयलक्ष्मी पण्डित ( ) (,) भारतस्य प्रथमा राजदूती आसीत् । सा संयुक्तराष्ट्रसङ्घस्य अपि प्रथमा महिलाध्यक्षा आसीत् । पुनश्च सा भारतमन्त्रालयस्य प्रथममन्त्रिणीत्वेन अपि कार्यं कृतवती आसीत् । भारतस्य स्वातन्त्र्यान्दोलने विजयलक्ष्म्याः महद्योगदानं वर्तते ।

विजयलक्ष्म्याः जन्म ई. स. १९०० तमस्य वर्षस्य अगस्त-मासस्य १८ दिनाङ्के उत्तरप्रदेश-राज्यस्य इलाहाबाद-महानगरे अभवत् । मोतीलाल नेहरू इत्याख्यः तस्याः पिता, स्वरूपरानी इत्याख्या तस्याः माता च आसीत् । तस्याः बाल्यनाम “स्वरूप कुमारी” इति आसीत् ।

तस्याः पिता काश्मीर-प्रान्तीयः पण्डितः अस्ति, माता अपि काश्मीरब्राह्मणी आसीत् । तस्याः माता ‘स्वरूपरानी’ इत्याख्या मोतीलालस्य द्वितीया पत्नी आसीत् । प्रसवसमये मोतीलालस्य प्रथमायाः पत्न्याः मृत्युः अभवत् । अतः मोतीलालः द्वितीयवारं विवाहम् अकरोत् ।

विजयलक्ष्म्याः एकः भ्राता, एका भगिनी च आसीत् । तौ – जवाहरलाल नेहरू, कृष्णा हठिसिंह च । तस्याः भ्राता जवाहरलालः भारतस्य प्रथमः प्रधानमन्त्री आसीत् । तस्याः भगिनी लेखिका आसीत् । जवाहरलालः विजयलक्ष्म्याः एकादशवर्षभ्यः ज्येष्ठः आसीत् ।

विजयलक्ष्म्याः सम्पूर्णं शिक्षणं स्वस्य गृहे वैयक्तिकत्वेन एव अभवत् । एका स्त्री तां पाठितुं गृहं गच्छति स्म । विवाहानन्तरं तया जीवविज्ञाने एम्. बी. बी. एस्. (M.B.B.S.) अपि कृतम् आसीत् । तस्याः शिक्षणं पाश्चात्यपद्धत्यानुगुणम् एव अभवत् ।

१९२१ तमस्य वर्षस्य मई-मासे “सीताराम पण्डित” इत्याख्येन सह विजयलक्ष्म्याः विवाहः अभवत् । सीतारामः महात्मागान्धी इत्याख्यस्य परममित्रम् आसीत् । सीतारामपण्डितः काठियावाड-प्रदेशस्य प्रसिद्धः वाक्कीलः आसीत् । 

सीतारामपण्डितः एकः श्रेष्ठः लेखकः, अनुवादकश्चासीत् । सीतारामपण्डितेन ‘कल्हन’ इत्याख्यस्य कवेः “राजतरङ्गिणी” नामकस्य संस्कृतभाषायाः महाकाव्यस्य आङ्ग्लभाषायाम् अनुवादः कृतः आसीत् ।

विवाहपूर्वं तस्याः नाम स्वरूपकुमारी इति आसीत् । किन्तु विवाहानन्तरं कुलरीत्यनुगुणं तस्याः नूतनं नामकरणम् अभवत् । विवाहानन्तरम् एव सा “विजयलक्ष्मी पण्डित” इति नाम्ना ख्याता आसीत् ।

तस्याः परिवारस्य राजनैतिकपृष्ठभूमिः आसीत् । अतः सा अपि प्रारम्भादेव परिवारेण सह राजनीतिक्षेत्रे संलग्ना आसीत् ।

विजयलक्ष्म्याः तिस्रः पुत्र्यः आसन् । ताः – चन्द्रलेखा, नयनतारा, रीटा च । नयनतारा लेखिका आसीत् । नयनतारायाः अपि एका पुत्री आसीत् । तस्याः नाम “गीता सहगल” इति अस्ति । सा अपि लेखिका, पत्रकारः, चलच्चित्रनिर्देशिका च अस्ति ।

ई. स. १९४४ तमस्य वर्षस्य जनवरी-मासस्य १४ दिनाङ्के तस्याः पत्युः मृत्युः अभवत् । तस्मिन् समये हिन्दु-विधवाभ्यः उत्तराधिकारिणां नियमः नासीत् । यतः तस्याः पुत्रः एव नासीत् । अतः सा पत्युः सम्पत्तेः किमपि न प्राप्तवती । तस्याः पत्युः भ्राता सीतारामपण्डितस्य सम्पूर्णसम्पत्तिः स्वायत्तीकृतवान् ।

विजयलक्ष्म्याः व्यक्तित्वं गौरवमयम्, ओजोमयं चासीत् । तया सम्पूर्णे जीवने भारतदेशाय एव कार्याणि कृतानि सन्ति । सा कर्मनिष्ठा, जाग्रता च आसीत् । अतः साम्प्रतम् अपि विश्वस्य विशिष्टमहिलासु “विजयलक्ष्मी पण्डित” इत्यस्याः नामोल्लेखः क्रियते ।

विजयलक्ष्म्याः कुटुम्बे बहवः जनाः लेखकाः वा उपन्यासकाराः आसन् । तस्याः अपि रुचिः लेखने आसीत् ।

तया नैकानि पुस्तकानि रचितानि सन्ति । तेषु सा ई. स. १९७९ तमे वषे “The Scope of Happiness: A Personal Memoir” नामकस्य पुस्तकस्य रचनां कृतवती  । अनन्तरं ई. स. १९५८ तमे वर्षे तया “The Evolution of India” नामकं पुस्तकं रचितम् । इतः परम् अपि बहूनि पुस्तकानि रचितानि सन्ति ।

विजयलक्ष्म्या स्वस्याः आत्मकथा “The Scope of Happiness” इत्यस्मिन् पुस्तके लिखिता अस्ति । तया स्वबाल्यं तस्मिन् पुस्तके वर्णितम् अस्ति । बाल्ये सा वैरोधिके वातावरणे पालिता आसीत् । राजनीतौ अपि तस्याः रुचिः आसीत् । षोडशे वर्षे प्राप्ते सति एव सा राजनीतिक्षेत्रं प्रविष्टवती ।  

विजयलक्ष्मीः प्रारम्भादेव राजनीतिक्षेत्रे संलग्ना आसीत् । सा षोडशे वर्षे प्रथमां राजनैतिकगोष्ठ्याम् उपातिष्ठत् । तदनन्तरं सा ‘एनी बेसन्ट्’ इत्यस्याः होमरुल-आन्दोलनाय कार्यं कर्तुम् ऐच्छत् । किन्तु सा तदा युवती आसीत् । अतः केवलं स्वयंसेविकात्वेन प्रवेशं प्रापत् सा ।

ई. स. १९१९ तमे वर्षे महात्मागान्धी आनन्दभवनं गतवान् आसीत् । तदा महात्मना सह विजयलक्ष्म्याः मेलनम् अभवत् । महात्मानं मिलित्वा विजयलक्ष्मी प्रभाविता जाता । ततः परं सा सर्वदा महात्मना सह आन्दोलनेषु कार्यरता आसीत् । महात्मना सा सुतरां प्रभाविता आसीत् ।

अनन्तरं सा असहयोग आन्दोलने अपि भागं गृहीतवती । तेन कारणेन आन्दोलने विरोधकारणात् सा बन्धिता । सा महात्मनः प्रभावेण प्रत्येकेस्मिन् आन्दोलने अग्रे भवति स्म, कारागारं गच्छति स्म च । किन्तु कारागारात् आगत्य पुनः आन्दोलने सम्मिलिता भवति स्म । सा १९४१ तः १९४३ पर्यन्तं वर्षद्वयं यावत् “अखिल भारतीय महिला सम्मेलन” इत्यस्य अध्यक्षा आसीत् ।

भारतसर्वकारस्य “१९३५ अधिनियमानुसारं यदा १९३७ तमे वर्षे कॉङ्ग्रेस्-सर्वकारस्य निर्माणं जातम्, तदा तस्यै उत्तरप्रदेश-राज्यस्य विधानसभायाः मन्त्रिपदं प्रदत्तम् आसीत् । अतः सा भारतस्य मन्त्रालयस्य प्रथमा महिला मन्त्रिणी, विश्वस्य द्वितीया महिला मन्त्रिणी च आसीत् ।

सर्वकारेण विजयलक्ष्म्यै स्वास्थ्य-मन्त्रालयः, स्वायत्त-मन्त्रालयः च प्रदत्तः आसीत् । विजयलक्ष्म्या पञ्चायतराजविधेयकस्य निर्देशनं कृतम् ।

तया स्वपत्या सह स्वातन्त्र्यान्दोलने राष्ट्रियकार्याणि कृतानि । तेन कारणेन सा बहुवारं कारागारम् अपि गतवती आसीत् । विश्वयुद्धे प्रारब्धे सति विजयलक्ष्म्या मन्त्रिपदं त्यक्तम् । मन्त्रिपदे त्यक्ते सति आरक्षकैः पुनः विजयलक्ष्मी अवष्टब्धा (Arrested) ।

कारागारात् आगत्य सा पुनः “भारत-छोडो-आन्दोलने” संयुक्ता जाता । किन्तु तेन आन्दोलनेन सा पुनः अवष्टब्धा । कारागारे तस्याः स्वास्थ्यं शिथिलं जातम् आसीत् । अतः नवमासानन्तरं तस्यै मुक्तिः प्रदत्ता ।

ई. स. १९४५ तमे वर्षे विजयलक्ष्मीः अमेरिका-देशं गतवती । तत्र गत्वा स्वभाषणैः भारतस्य स्वतन्त्रतायै प्रचारः कृतः । १९४६ तमे वर्षे सा पुनः उत्तरप्रदेशस्य विधानसभायाः सदस्यपदं, राज्यसर्वकारे मन्त्रिपदं च प्राप्तवती आसीत् । स्वतन्त्रतायाः अनन्तरं विजयलक्ष्म्या संयुक्तराष्ट्रसङ्घे भारतस्य प्रतिनिधित्वेन नेतृत्वं कृतम् आसीत् ।

संयुक्तराष्ट्रसङ्घे सा महासभायाः प्रथममहिलाध्यक्षत्वेन चिता । रूस्-देशे, मैक्सिको-देशे, आयरलैण्ड्-देशे, स्पेन्-देशे च भारतस्य राजदूतीत्वेन अपि सा कार्यं कृतवती आसीत् । अनन्तरं तया इङ्ग्लैण्ड्-देशे उच्चाधिकारिणित्वेन अपि कार्यं कृतम् आसीत् ।

यदा विजयलक्ष्म्याः पत्युः मृत्युः अभवत्, तदा पत्युः सम्पतौ तस्याः अधिकारः नासीत् । यतः सा पुत्रहीना आसीत् । अतः यदि पुत्रः स्यात्, तदैव सम्पत्तौ अधिकारः भवति इति तत्कालस्य नियमाः आसन् । अनेन नियमेन सा किमपि कर्तुं न अशक्नोत् ।

तेन प्रसङ्गेन दुःखितया विजयलक्ष्म्या स्त्रीभ्यः अधिकारं प्रदातुं सङ्घर्षाः कृताः । ई. स. १९५५ तमवर्षपर्यन्तं हिन्दुसमाजे बह्व्यः कुरीतयः आसन् । तेन कारणेन स्त्रीषु अत्याचाराः, अन्यायाः च भवन्ति स्म । किन्तु विजयलक्ष्म्या बहवः प्रयासाः कृताः । अन्ते भारतस्य स्वतन्त्रतायाः अनन्तरं सर्वकारसाहाय्येन स्त्रीभ्यः पितुः, पत्युः च सम्पत्तेः उत्तराधिकारः प्राप्तः । 

यदा इन्दिरा गान्धी प्रधानमन्त्रिणीपदम् आरूढवती, तदा विजयलक्ष्म्या राजनीतेः स्वैच्छिकनिवृत्तिः स्वीकृता आसीत् । तदनन्तरं सा देहरादून-नगरं गतवती ।

सा सार्वजनिकजीवनात् दूरे स्थातुम् ऐच्छत् । अतः देहरादून-नगरं गत्वा सा सन्यासं स्वीकृतवती ।

ई. स. १९९० तमस्य वर्षस्य दिसम्बर-मासस्य १ दिनाङ्के भारतस्य उत्तरप्रदेश-राज्यस्य देहरादून-नगरे विजयलक्ष्मी पण्डितः इत्याख्यायाः मृत्युः अभवत् । तस्मिन् काले तस्याः आयुः नवतिवर्षम् (९०) आसीत् । मृत्योः केभ्यश्चित् वर्षेभ्यः पूर्वम् एव सा राजनीतिं त्यक्तवती आसीत् ।

तस्याः मृत्योः समये बहवः महानुभावाः तत्र उपस्थिताः आसन् । तेषु भारतदेशस्य तत्कालीनः राष्ट्रपतिः “रामास्वामी वैङ्कटरमण” अपि आसीत् । तेन मृत्योः अवसरे विजयलक्ष्म्यै “भारतस्य स्वतन्त्रतायाः चित्रपटस्य उज्ज्वलप्रतीकम्” इति सम्माने वर्णनं कृतम् आसीत् ।




#Article 131: धातुविमर्शः (191 words)


धातुः नाम पदानां मूलम्‌ । धातु: पदानाम्‌ उत्पत्ते: कारणम्‌ । पाणिनीय-धातुपाठे २११५ धातव: परिगणिता: सन्ति । धातुभि: सह उपसर्गाणां प्रत्ययानां च योगेन पदनिर्माणं भवति ।

व्याकरणशास्त्रे पञ्चानामङ्गानां परम्परा दृश्यते। अत एव पञ्चाङ्गं व्याकरणम्‌ इत्यपि प्रथितम्‌। पञ्च अङ्गानि इमानि सन्ति - सूत्रपाठ: धातुपाठ: गणपाठ: उणादिपाठ: लिङ्गानुशासनञ्चेति। एतेषु पञ्चसु अङ्गेषु धातुपाठ: अतिमहत्वपूर्णं स्थानं भजते। प्रायेण संस्कृतशब्दा: व्युत्पन्ना: इति प्रसिद्धा परम्परा । प्रायेण सर्वेषां शब्दानां व्युत्पत्ति: धातुभि: एव प्रदर्श्यते। उच्यते च - सर्वं च नाम धातुजमाह । अत एव संस्कृतव्याकरणे धातूनां महत्त्वं सर्वथा अतिशेते।

बहव: वैयाकरणा: धातूनां प्रवचनम्‌ अकार्षु:। श्रीमता युधिष्ठिरमीमांसकेन व्याकरणशास्त्रेतिहासग्रन्थे षड्विंशते: वैयाकरणानाम् उल्लेख: कृत:। तेषां व्याकरणानि सम्प्रति नोपलभ्यन्ते अत: तेषु केन केन धातुप्रवचनं कृतमिति निश्चप्रचं वक्तुमशक्यम्‌। किञ्च प्रकृतिप्रत्ययविभागकल्पनां विना व्याकरणप्रवृत्ति: न सम्भवति इति धिया प्रायेण तै: सर्वैरपि धातुप्रवचनं कृतं स्यादिति ऊहितुं शक्यते। युधिष्ठिरमीमांसकवर्यै: पाणिनिपूर्ववर्तिनां धातुपाठप्रवक्तॄणां येषां धातुपाठविषये काचित्‌ सूचना कुतश्चित्‌ लब्धा तेषां संक्षेपेण विवरणं प्रादायि। एतेषु इन्द्र: वायु: भागुरि: काशकृत्स्न: शाकटायन: आपिशलि: इत्येते प्रमुखा: विद्यन्ते।

संस्कृतवाङ्‌मये पाणिने: शब्दानुशासनं पञ्चभि: अवयवै: परिपूर्णं समुपलभ्यते। पाणिनीयव्याकरणसम्प्रदाये य: धातुपाठ: पठनपाठनयो: समुपयुज्यते स: पाणिनिप्रोक्त: इति बहुभि: वैयाकरणै: मन्यते। यद्यपि न्यासकार: जिनेन्द्रबुद्धि: पाणिनीयसम्प्रदाये प्रचलितधातुपाठस्य पाणिनिप्रोक्तत्वं नैव स्वीकरोति। किञ्च व्याकरणशास्त्रेतिहासकारा: अन्ये च विद्वांस: जिनेन्द्रबुद्धे: मतमेतन्नाद्रियन्ते । सम्प्रति पाणिनीयधातुपाठनाम्ना प्रसिद्ध: धातुपाठ: पाणिनिना प्रोक्त: इत्येव सिद्धान्त: मन्यते।

पाणिनीय धातुपाठेन वर्गाः इति:-




#Article 132: वराहमिहिरः (173 words)


वराहमिहिरः कश्चित्  ज्योतिषी  च आसीत्। एषः 
उज्जयिनीनगरे राज्ञ: विक्रमादित्यस्य अस्थाने आसीत् । सिद्धान्तः संहिता होरा चेति ज्योतिश्शास्त्रस्य त्रयः विभागाः । वराहमिहिरः एतान् त्रीन् भागान् अपि अधिकृत्य ग्रन्थान् विलिख्य ख्यातः अस्ति । एषः क्रि.श. ६ शतके आसीत् इति परिगण्यते ।
विक्रमादित्यस्य आस्थाने स्थितेषु नवसु रत्नेषु अन्यतमः आसीत् एषः इत्यपि प्रतिपादयन्ति केचन । एषः अवन्तिनिवासी आसीत् , आदित्यदासः एतस्य पिता आसीत् इति च ज्ञायते । पञ्चसिद्धान्तिका, लघुसंहिता, वाराहीसंहिता, बृहज्जातकम् इत्येते ग्रन्थाः एतेन रचिताः सन्ति । तत्र बहुज्जातकं सुप्रसिद्धम् । बृहज्जातके ४००० श्लोकाः, १०० अध्यायाः च सन्ति । ज्योतिषिकलक्षणम्, नक्षत्रव्यूहः, वृष्टिः, वास्तुविद्या, अश्वलक्षणं, वज्रपरीक्षा, पाकाध्यायः इत्यादयः, बहवः विषयाः निरुपिताः सन्ति अत्र । अतः एषः ग्रन्थः ‘लघुविश्वकोषः’ इत्येव परिगण्यते । पूर्वकृतीनाम् आधारेण ग्रन्थं रचितवान् एषः तत्र तत्र आधारग्रन्थान् अपि उल्लिखति ।

पञ्चसिद्धान्तिकाग्रन्थे एतस्मात् पूर्वकालिकस्य भारतीयज्यौतिषस्य विषयाः सङ्गृहीताः । अत्र ग्रहाणां चलनस्य, अक्षांश- रेखांशयोः विषयस्य च निरुपणं विद्यते । ग्रन्थेऽस्मिन् रोमन्खगोलविज्ञानसम्बद्धः रोमकसिद्धान्तः, अलेग्साण्ड्रियादेशस्थपाल्महोदयेन निरुपितः पौलिशसिद्धान्तश्च अस्ति । जर्मनपण्डितः डा. थीबोमहोदयः ऐदम्प्राथम्येन ग्रन्थस्यास्य सम्पादनं कृत्वा क्रि.श. १८५७ (सप्तपञ्चाशदधिक- अष्टादशशततमे) वर्षे प्राकटयत् ।

वराहमिहिरस्य असाधारणं बुद्धिकौशलं भारतीयैः पाश्चात्त्यैश्च सर्वदा स्मर्यते । एतेन प्रतिपादिताः विषयाः अद्यापि विज्ञानक्षेत्रे बहूपकारकाः संशोधनयोग्याश्च सन्ति ।




#Article 133: सच्चिदानन्दवात्स्यायनः (168 words)


सच्चिदानन्द हीरानन्द वात्स्यायन (अज्ञेय)
(१९११-१९८७) एक: प्रमुख: हिन्दी कथाकार: कवि: च आसीत्‌.

अनेन बहवः गद्यात्मकाः पद्यात्मकाः हिन्दी ग्रन्थाः सम्पादिताः|केषांचित ग्रंथानां नामानि निम्नलिखितानि वर्तन्ते|
भग्नदूत / अज्ञेय (कविता संग्रह, 1935)
चिन्ता / अज्ञेय (कविता संग्रह, 1942)
इत्यलम् / अज्ञेय (कविता संग्रह, 1946)
शरणार्थी / अज्ञेय (कविता संग्रह, 1948)
हरी घास पर क्षण भर / अज्ञेय (कविता संग्रह, 1949)
बावरा अहेरी / अज्ञेय (कविता संग्रह, 1954)
इन्द्र-धनु रौंदे हुए थे / अज्ञेय (कविता संग्रह, 1957)
अरी ओ करुणा प्रभामय / अज्ञेय (कविता संग्रह, 1959)
आंगन के पार द्वार / अज्ञेय (कविता संग्रह, 1961)
कितनी नावों में कितनी बार / अज्ञेय (कविता संग्रह, 1967)
क्योंकि मैं उसे जानता हूँ / अज्ञेय (कविता संग्रह, 1969)
सागर-मुद्रा / अज्ञेय (कविता संग्रह, 1969)
पहले मैं सन्नाटा बुनता हूँ / अज्ञेय (कविता संग्रह, 1973)
महावृक्ष के नीचे / अज्ञेय (कविता संग्रह, 1977)
नदी की बाँक पर छाया / अज्ञेय (कविता संग्रह, 1981)
ऐसा कोई घर आपने देखा है / अज्ञेय (कविता संग्रह, 1986)

अनेन कितनी नावों में कितनी बार ग्रन्थस्य कृते ज्ञानपीठ पुरस्कारः अपि लब्धः|




#Article 134: याज्ञवल्क्यः (847 words)


याज्ञवल्क्यः मिथिलावासी ह्यासीत्। मिथिलादेशाधीश्वरस्य महाराज्ञो जनकस्य राजसभायामस्य विशेषसमादरः अासीत्। अनेन याज्ञवल्क्येन व्यासदेवस्य चतुर्भ्यः शिष्येभ्यः वेदचतुष्टयस्य अध्ययनं कृतम्। निजमातुलाद् वैशम्पायनादयं यजुर्वेदस्य अध्ययनं कृतवान्। शतपथब्राह्मणस्य प्रामाण्यस्य उपरि अनेनोद्दालक-आरुणिनामकेन प्रौढदार्शनिकेन वेदान्तस्य परिशीलनं कृतम्। वेदान्तस्य प्रशंसायाम् एकदाऽरुणिरमुमवोचत् -- वेदान्तशक्त्या अभिमन्त्रितजलेन यदि स्थाणुरपि सिञ्चेत्, तर्हि तस्मादपि पत्रपुष्पाणि च निःसरेयुः इति। ततः सुयोग्यशिष्येण याज्ञवल्क्येन गुरोः कथनमिदमक्षरशः सत्यं प्रमाणीकृतम्। प्रगाढपाण्डित्येन अपूर्वयोगबलेन, गाढ-दर्शनिकत्वेन योगी याज्ञवल्क्योऽयं कर्मयोगिनो नृपजनकस्य विशेषाभ्यर्थनायाः सत्कारस्य च भाजनमासीत् (बृहदा० उ० अ० ३/४ ) 

अतीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वम्  यः पश्यति स्वयं वाक्यं स ऋषिः - इति वचनानुसारं तपसा ईश्वरस्य अनुग्रहेण वेदमन्त्राणां द्रष्टा अस्ति ब्रह्मर्षिः याज्ञवल्क्यः।  यागनिर्वर्तने सिद्धहस्तः एषः विशेषतया अग्नेः आराधकः आसीत्। 

याज्ञवल्क्यस्य पितुर्नाम देवराज इति। याज्ञवल्क्यस्य माता साध्वी सुनन्दादेवी। दम्पती अनन्यश्रद्धया यज्ञेश्वरस्य आराधनेन याज्ञवल्क्यं पुत्ररूपेण प्राप्तवन्तौ। अयं हि देवराजः सर्वदा दरिद्रेभ्यः वस्त्रदानाय तत्परः अासीत्। तेनैव कारणेन ‘वाजसनि' इत्यपरनाम्ना विख्यातः आसीत्। देवराजः धर्मगुरुः इति प्रसिद्धः आसीत्। कार्तिकमासस्य शुक्लसप्तम्याम् याज्ञवल्क्यस्य जन्म अभवत्। गर्भपञ्चमे वयसि याज्ञवल्क्यस्य उपनयनसंस्कारः जातः। याज्ञवल्क्यस्य द्वे पत्न्यौ स्तः - मैत्रेयी कात्यायनी च। मैत्रेयी विदुषी ब्रह्मवादिनी आसीत्। परिव्रजनकाले तामेव ब्रह्मविद्यायाः शिक्षां दत्त्वाऽयं गृहं तत्याज। 

याज्ञवल्क्यस्य गुरुः महर्षिः वैशम्पायनः। वैशम्पायनः भगवतः व्यासस्य शिष्यः। भगवान् व्यासः  ऋक्-यजुस्-साम-अथर्व इति चतुर्धा विभक्तवान्। तेषां प्रचाराय चतुरः शिष्यान् नियुक्तवान्। ऋग्वेदपाठकत्वेन  पैलः, यजुर्वेदपाठकत्वेन  वैशम्पायनः, सामवेदपाठकत्वेन  जैमिनिः, अथर्ववेदपाठकत्वेन  सुमन्तुः च तेन योजिताः। यज्ञविधिः आदौ यजुर्वेदः इति एकः एव आसीत्। (एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत्। चातुर्होत्रमभूत्तस्मिन् तेन यज्ञमथाकरोत् ॥ - विष्णुपुराणम्)। व्यासः तत् चतुर्धा विभज्य चतुर्भिः याजकैः युक्तां चातुर्होत्रपद्धतिम् आनीतवन्तः। यजुर्वेदमन्त्रैः अध्वर्युः, ऋग्भिः होता, सामभिः उद्गाता, अथर्वमन्त्रैः ब्रह्म च यज्ञे भागं यथा वहेयुः तथा अकरोत्। महर्षिः याज्ञवल्क्यः यजुर्वेदवृक्षं सप्तविंशतिशाखाभिः विभज्य एकैकां शाखाम् एकस्मै शिष्याय अबोधयत्। 

याज्ञवल्क्यः नितरां बुद्धिमान् आसीत्। विनयशीलः सः अचिरादेव गुरुकुले सर्वेषां प्रीतिपात्रं जातः। अत्यल्पावधौ यजुर्वेदं सम्पूर्णतया अधीत्य तेजोयुक्तः जातः। गुरुः वैशम्पायनः कदाचित् अस्वस्थः जातः। तस्य स्वास्थ्यर्थं चरक-अध्वर्युः इत्यादयः ज्येष्ठशिष्याः तपः कर्तुं निश्चितवन्तः। याज्ञवल्क्यः गुरोः समीपं गत्वा अवदत् - 'तैः क्रियमाणं तपः प्रभावयुक्तं न स्यात्। अतः अहम् एकाकी तपः आचरामि' इति। वैश्म्पायनः - 'ज्येष्ठशिष्यानां विषये एवं कथनं न उचितम्। भवता तपः आचरणीयं नास्ति' इति स्वस्य असन्तोषं प्राकटयत्। अन्यदा राज्ञः स्वास्थ्याय आश्रमे आचरितस्य होमस्य प्रसादं स्वीकृत्य तस्य दानाय प्रासादम् अगच्छत् याज्ञवल्क्यः। तीर्थप्रसादयोः विषये राज्ञा दर्शिताम् उपेक्षाम् असहमानः याज्ञवल्क्यः पुनः गुरुणा सूचितोऽपि तत्र गमनं न अङ्ग्यकरोत्। एतैः कारणैः शिष्यविषये क्रुद्धः वैशम्पायनः 'गुरुकुलात् प्रतिगम्यताम्। अत्र अधीतं सर्वं परित्यज्य गम्यताम्' इति आदिष्टवान्। याज्ञवल्क्यः अधीतं समग्रं यजुर्वेदम् अवमत्। एतेन तदीयं तेजः अदृश्यतां गतम्।

अग्रे पैलमुनेः शिष्यस्य भास्कलस्य समीपं गत्वा ऋग्वेदं, कोसलदेशस्य ऋषेः हिरण्यनाभस्य गुरुकुले सामवेदम्, आचार्यस्य आरुणेः समीपं गत्वा अथर्ववेदं च अधीतवान्। ततः सः महर्षेः उद्दालकस्य आश्रमम् अगच्छत्। शास्त्रोक्तधार्मिककर्मणां विषये अत्र गभीराध्ययनम् अकरोत् याज्ञवल्क्यः। शिष्यस्य बुद्धिशक्तिं सामर्थ्यं च दृष्ट्वा परमसन्तुष्टः उद्दालकः तेन ज्ञातां समग्रां विद्याम् अबोधयत्। यजुर्वेदज्ञानं यद् आत्मना परित्यक्तं तस्मिन् विषये याज्ञवल्क्यस्य मनसि बहु खेदः आसीत्। यजुर्वेदस्य अध्ययनं विना विद्याभ्यासः पूर्णः न भवति इति कारणतः सः वेदमातुः गायत्र्याः अनुग्रहप्राप्त्यै तपः आरब्धवान्। एतस्य कठिनतपसा सन्तुष्टा सा प्रत्यक्षीभूय 'वत्स ! सूर्यः आराध्यताम्। तस्य अनुग्रहेण भवदिष्टं सिद्ध्यति।' इति अवदत्। ततः याज्ञवल्क्यः तीव्रतपसा सूर्यस्य आराधनाम् आरब्धवान्। तपसः प्रभावेण अद्भुतशक्तयः तस्मिन् गोचरतां गताः। गुरुः याज्ञवल्क्यस्य पितरौ आहूय अस्य विद्याभ्यासः सम्पन्नः इति असूचयत्।

ज्येष्ठानाम् अपेक्षानुगुणं याज्ञवल्क्येन ऋषेः कदिरस्य पुत्री कात्यायनी परिणीता। विवाहावसरे गुरुः वैशम्पायनः सपत्नीकः उपस्थाय 'अधुना भवान् अस्ति सर्वज्ञः। लोकः इदम् अङ्गीक्रियात्' इति प्रीत्या अनुगृहीतवान्। कात्यायनी वयसा यद्यपि अवरा तथापि स्वस्य वचन-व्यवहारैः याज्ञवल्क्यस्य योग्या पत्नी आसीत्। 

सरस्वत्याः आदेशानुगुणं यजुर्वेदज्ञानस्य प्राप्त्यै याज्ञवल्क्यः तीव्रं सूर्योपासनम् आरब्धवान्। प्रतिदिनं ब्राह्मीमुहूर्ते उत्थाय नित्यकर्माणि समाप्य सूर्यमन्त्रस्य जपे मग्नः भवति स्म आमध्याह्नम्। सूर्याय अर्पितं पायसान्नमात्रं दम्पत्योः दिनस्य आहारः आसीत्। दिने दिने तस्य तपः तीव्रतां गतम्। कदाचित् सूर्यजपे मग्नेन तेन विलक्षणः आनन्दः अनुभूतः। सूर्यः अश्वाकारेण प्रत्यक्षः जातः। ततः मनुष्यदेहं प्राप्य सूर्यः अवदत् - 'आदौ सरस्वतीदेवी भवन्तं प्रविश्य वेदज्ञानस्य प्राप्त्यर्थम् आवश्यकीं शक्तिं दास्यति। ततः शरीरं मनः च पवित्रं भवति। ततः वेदज्ञानं प्राप्तुम् अर्हति।' इति। सरस्वत्याः अनुग्रहेण शक्तिं प्राप्तवान् याज्ञवल्क्यः प्रकाशे विद्यमानस्य वेदस्य ज्ञानं प्राप्तवान्। तदीयं शरीरं मनः आत्मा च आनन्दानुभवेन पूर्णतां गताः। तेन साक्षात्कृताः मन्त्राः एव शुक्लयजुर्वेदः इति प्रसिद्धिं गतः। 
शुक्लयजुर्वेदे कर्मयोग-ज्ञानयोगसम्बद्धाः विषयाः विस्तृतरूपेण विवृताः सन्ति। तस्मात् शतपथब्राह्मणनामकं शतैः अध्यायैः युक्तं ब्राह्मणं रचितं जातम्। ईशावास्योपनिषत्, बृहदारण्यकोपनिषत् - एतदुभयमपि आत्मनः दैवविषये च उपदिशति। याज्ञवल्क्येन स्मृतिः रचिता। सा याज्ञवल्क्यस्मृतिः इति प्रसिद्धा।

महर्षिः उद्दालकः याज्ञवल्क्यम् उद्दिश्य 'वार्धक्यकारणतः गुरुकुलचालनं मम कष्टाय जातम्। इतःपरं भवान् अस्य गुरुकुलस्य कुलपतिः भवतु' इत्यवदत्। गुरोः आदेशम् शिरसा पालयता तेन कुलपतिपदम् अङ्गीकृतम्। तस्य कारणतः आश्रमस्य कीर्तिः सर्वत्र प्रसृता जाता। विदेहस्य राजा जनकः याज्ञवल्क्यस्य आश्रमम् आगत्य तस्य अनुग्रहपात्रं जातः। शुक्लयजुर्वेदस्य प्रचाराय तेन सभा आयोजिता। तत्र समुपस्थिताः सर्वे विद्वद्वरेण्याः वेदद्रष्टारः याज्ञवल्क्यद्वारा शुक्लयजुर्वेदं श्रुत्वा परमसन्तुष्टाः जाताः। अयं वेदः वाजिरूपेण आदित्येन उपदिष्टम् इत्यतः वाजसनेयी संहिता इति, ईशावास्योपनिषत् वाजसनेयसंहितोपनिषत् इति च भवतु इति याज्ञवल्क्येन सूचितम्। सभायाम् उपस्थिताः दार्शनिकाः सर्वे याज्ञवल्क्यं ब्रह्मर्षिः इति सम्मानितवन्तः। तस्यां सभायाम् उपस्थिता मैत्रेयी याज्ञवल्क्यस्य शिष्या सती आध्यात्मसाधनं कर्तुम् इष्टवती। सा कात्यायन्याः अनुमतिं प्राप्य याज्ञवल्क्यस्य पुरतः स्वस्य आशयम् अवदत्। तां सः आध्यात्मसहधर्मिणीरूपेण परिणीतवान्।

जनकमहाराजः किञ्चन महद् ज्ञानसत्रम् आयोजितवान् आसीत्। तत्र उद्देशद्वयम् आसीत्। विभिन्नदिग्भ्यः आगताः विद्वांसः ऋषयः परस्परविचारविनिमयेन वैदिकविचाराणां प्रचारं कुर्युः इति। आगतेषु अत्युत्तमज्ञानी योग्यरीत्या सत्कृतः स्यात् इति च। तद्दिने बहवः ज्ञानिनः सम्मिलिताः। तत्र जनकेन घोषितं - 'अत्र यः अस्ति ब्रह्मज्ञानी सः अत्र आगत्य सर्वज्ञकिरीटधारणेन सम्माननं प्राप्य गोष्ठे बद्धाः सुवर्णनाणकहारैः अलङ्कृतशृङ्गाः सहस्र धेनवः स्वायत्तीकुर्यात्' इति। तदा विद्वत्सभातः सिंहगाम्भीर्येण उत्थाय आगतः याज्ञवल्क्यः शिष्यम् अवदत् - 'सामश्रव ! गोसमूहः आश्रमं प्रति नीयताम्' इति। तस्य ध्वनिः आत्वविश्वासपूर्णः आसीत्। भीतिः अहङ्कारः वा लेशमात्रेण अपि नासीत्। ततः बहुभिः पृष्टानां विविधप्रश्नानां कृते समुचितम् उत्तरं तेन दत्तम्। तस्मात् सर्वे समाहिताः जाताः। सः सर्वज्ञकिरीटधारणेन सम्मनितः जातः।

ज्ञानसत्रस्य अनन्तरं याज्ञवल्क्यः स्वस्य शिष्ययोः कण्व-मध्यन्दिनयोः कृते गुरुकुलदायित्वं प्रदत्तवान्। जीवने वैराग्यं प्राप्तवान् सः पत्न्यौ आहूय संन्यासस्वीकाराय अनुमतिम् अपृच्छत्। ब्रह्मवादिनी मैत्रेयी आत्मसाक्षात्कारमार्गम् उपदिश्यताम् इति प्रार्थितवती। सन्तुष्टः सः ताम् उपादिशत्। ततः संन्यासाश्रमस्वीकरणम् अकरोत्। 




#Article 135: तुलसीदासः (1296 words)


गोस्वामी तुलसीदासः (१५११ – १६२३ ई.) हिन्दीसाहित्यस्य महान् कविः आसीत् । अस्य जन्म सीरी शूकरक्षेत्रे वर्तमानस्य उत्तरप्रदेशान्तर्गतस्य एटाजनपदस्य कासगञ्ज इत्याख्ये ग्रामे अभवत् । केचन विद्वांसः वर्तमाने चित्रकूटजनपदे राजापुरनामके ग्रामे अस्य जन्म  मन्वते । अन्ये केचन गोनर्दजनपदे (गोण्डा) विद्यमाने शूकरखेत इत्याख्ये ग्रामे अस्य जन्म मन्वते । जनाः इमं रामायणरचयितुः आदिकवेः वाल्मीकेः अवतारं वदन्ति । अनेन अवधीभाषायां (हिन्दीभाषायाः उपभाषा) राचरितमानस इत्याख्यं काव्यं रामस्य जीवनचरित्रस्य उपरि आधारितं वर्तते । तस्य कथानकं मूलतः बाल्मीकेः रामायणात् स्वीकृतं वर्तते । सः रामचरितमानसे स्वयम् उद्धरति –

रामचरितमानस इत्याख्यः ग्रन्थः उत्तरभारते महत्या श्रद्धया गीयते । जनाः अस्य अष्टयामेषु अखण्डपारायणं कुर्वन्ति । तथैव नवाह्नपरायणविधिः मासपरायणविधिः अपि प्रचलति ।

अधिकांशाः विद्वांसः तुलसीदासस्य जन्मस्थानं राजापुरं मन्यन्ते । केचन तु शूकरक्षेत्रम् अपि कथयन्ति । राजापुरम् इति उत्तरप्रदेशस्य चित्रकूटजनपदान्तर्गतः एकः ग्रामः वर्तते । तत्रैव सनाढ्यब्राह्मणस्य आत्मारामद्विवेदिनः तथा हुलसीदेवी इत्यनयोः पुत्रः तुलसीदासः १५११ वि.सं. श्रावणमासे शुक्लपक्षे सप्तम्यां तिथौ अभुक्तमूलनक्षत्रे जन्म अलभत् । जनश्रुतिः वर्तते यत् अयं शिशुः द्वादशमासं यावत् गर्भे एवासीत् इत्यतः अस्य शरीरम् अतीव हृष्ट-पुष्टम् आसीत् । अयं सदन्तः एव जातः तथा च जन्मसमनन्तरम् एव स्वेष्टस्य भगवतः रामस्य नामोच्चारणं चकार । अतः एव अस्य नाम स्थानीयभाषानुसारं रामबोला (रामम् अवदत् इत्यर्थवाची) जातम् । अस्य जन्मनः द्वितीये दिवसे एव अस्य जननी हुबलीदेवी दिवंगतवती । तदा कुले मूलनक्षत्रजन्यम् अन्यदनिष्टं न स्यादिति विचिन्त्य पिता इमं बालकं चुनिया इत्याख्यायै भृत्यायै दत्तवान् । स्वयं च पत्नी-पुत्रवियोगकारणात् विरक्तः जातः । 

यदा रामबोला पञ्चवर्षीयः जातः तदा तस्य पालिका चुनिया अपि परलोकं गता । अधुना अयं बालकः अनाथः सन् इतस्ततः भ्रमति स्म । तदा भगवतः शिवस्य अनुकम्पया रामशैले तपश्चर्यमाणस्य श्रीमत्-अनन्तानन्दस्य प्रियशिष्यः नरहरिदासः अमुं रामबोलायाः विषये बहुचर्चां श्रुत्वा तम् अन्विष्टवान् । अपि च अनाथम् अमुं बालकं सनाथीकृत्य तस्य विधिपूर्वकं तुलसीरामः इति नामकरणं कृतवान् । एवं रामबोला तुलसीरामः जातः । तदनन्तरं नरहरिदासः अमुं बालकम् अयोध्यां नीतवान् । तत्र विक्रमसंवति १५६१, माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ (सरस्वतीपूजोत्सवदिने अथवा वसन्तपञ्चमीदिवसे) अस्य यज्ञोपवीतसंस्कारम् अकारयत् । तदा यज्ञोपवीतसंस्कारावसरे अपि अयं बालकः अपाठितः सन्नपि गायत्रीमन्त्रस्य स्पष्टोच्चारणम् अकरोत् । तद् दृष्ट्वा सर्वे आश्चर्यचकिताः समभवन् । अनन्तरं नरहरिदासः वैष्णवोचितान् पञ्चसंस्कारान् कृत्वा राममन्त्रस्य दीक्षाम् अददत् तथा च अयोध्यायामेव उशित्वा अस्य बालकस्य विद्याध्ययनम् अकारयत् ।

बालकः तुलसीरामः तीक्ष्णबुद्धिः आसीत् । सः गुरुमुखात् एकवारम् एव श्रुत्वा कण्ठस्थीकरोति स्म । किञ्चिद्दिनानन्तरं नरहरिदासः तुलसीरामः च शूकरक्षेत्रं (सोरो) गतवन्तः । तत्र नरहरिदासः अमुं बालकं रामकथाम् अश्रावयत्, परन्तु सः बालकः सम्यग्रूपेण नाधिगतवान् ।  

यदा बालकः तुलसीरामः उनविंशद्वयस्कः (२९) आसीत्, तदा तस्य विवाहः १५६३ विक्रमसंवत्सरस्य ज्येष्ठशुक्लत्रयोदश्यां यमुनापारे स्थिते ग्रामे अतिसुन्दर्या भरद्वाजगोत्रोत्पन्नया रत्नावल्या सह सञ्जातः । परन्तु तस्य वध्वागमनं न जातम् अतः सः कस्मैचित् दिनाय काशीं गतः । तत्र महात्मनः शेषसनातनस्य समीपम् उशित्वा वेद-वेदाङ्गानाम् अध्ययने निरतः । एकदा सः स्वपत्न्या सह मेलनार्थं व्याकुलः जातः । असह्यवियोगे सति गुरोः अनुमतिं प्राप्य स्वजन्मस्थानं राजापुरं प्रत्यागतः ।  पत्नी रत्नावली तु मातृगृहे आसीत् अतः तया सह मेलितुं रात्रिकाले एव यमुनानदीं तीर्त्वा तत्र गतवान् तस्याः शयनकक्षं च प्रविष्टवान् । पत्नी रत्नावली तु अकस्मात् तं दृष्ट्वा आश्चर्यचकिता जाता । सा लोकलज्जाभयात् तं स्वगृहं प्रतिगन्तुम् उक्तवती, तदा तुलसीरामः ताम् अपि सहगन्तुम् आग्रहीतवान् । तस्य एवम् अप्रत्याशितं अकालिकं दुराग्रहं दृष्ट्वा एकेन दोहाकाव्येन तं बोधितवती । तेन ज्ञानेन बुद्धः तुलसीरामः प्रसिद्धः तुलसीदासः सञ्जातः । तद् दोहाकाव्यम् एवम् आसीत् –

अस्यार्थः संस्कृते एवं भवेत् – 

अनेन प्रेरितः  तुलसीदासः पत्नीं विहाय स्वग्रामं राजापुरं प्रत्यागतः । ततः स्वग्रामे एव ग्रामवासिनः रामकथां श्रावितुम् आरब्धवान् ।

कञ्चित् कालं यावत् राजापुरे भूत्वा ततः काशीं गतः तत्रापि जनान् रामकथां श्रावितवान् । कथाक्रमे एव एखस्मिन् दिने मानववेषधारी प्रेतः मिलितः, सः तुलसीदासं हनुमतः निवासविषये निर्दिष्टवान् । तुलसीदासः हनुमता सह मिलित्वा तं रघुनाथस्य भगवतः रामस्य दर्शनं कारयितुं प्रार्थिवान् । हनुमान् निर्दिष्टवान् यत् चित्रकुटनगरे भगवतः रामस्य दर्शनं भविष्यति इति । एएवं श्रुत्वा तुलसीदासः चित्रकुटाय प्रस्थितवान् । चित्रकूटं प्राप्य मन्दाकिन्याः तटे रामघट्टे स्वकीयम् आसनं कृतवान् । एकदा यदा सः प्रदक्षिणां कर्तुं प्रस्थितवान्, तदैव अकस्मात् श्रीरामस्य दर्शनम् अभवत् । सःदृष्टवान् यत् अतीव सुशोभनौ अश्वारूढौ शर-चापहस्तौ द्वौ राजकुमारौ गच्छतः इति । तुलसीदासः तौ दृष्ट्वा आकृष्टः जातः, परन्तु न तौ अभिज्ञातवान् यदेतौ रामलक्ष्मणौ इति । अनन्तरं यदा हनुमान् आगत्य उक्तवान्, तदा सः स्वमूढतायै खिन्नः जातः । हनुमान् पुनः सान्त्वयन् उक्तवान् यत् श्वः पुनः दर्शनं भवेत् इति । 

अपरेद्युः संवति १६०७ मौनी-अमावश्यायाम् बुधवासरे पुनः भगवान् श्रीरामः प्रकटीभूतः, सः बाललरूपधारी भगवान् श्रीरामः आगत्य तुलसीदासम् उक्तवान् यत् मह्यं चन्दनं देहि इति । गुप्तरूपेण विराजमानः हनुमान्, अचिन्तयत् यत् पुनरपि तुलसीदासः वञ्चितः न भवेत् । अतः सः काव्यरूपेण निर्दिष्टवान् – 

अस्य अर्थः संस्कृते – चित्रकूटस्य घट्टे सन्तजनानां सम्मर्दः अस्ति । अस्मिन् एव जन समूहे तुलसीदासः चन्दनं घर्षयति, तथा च तत् चन्दनं स्वीकृत्य भगवान् श्रीरामः तिलकं करोति इति ।

एवं गूढवचनं श्रुत्वा तुलसीदासः ज्ञातवान् यदये बालकरूपधारी भगवान् रामः एवेति । अन्ततः भगवान् श्रीरामः चन्दनं नीत्वा स्वमस्तके ततः प्रसादरूपेण तुलसीदासस्य मस्तके अपि लेपितवान् । पुनः अन्तर्ध्यानः जातः ।

संवति १६२८वि. तुलससीदासः हनुमतः आज्ञया अयोध्यानगर्यै प्रस्थितः । तदा प्रयागे माघमासिकः सङ्गमस्नानकालः आसीत् । अतः तत्रैव कानिचित् दिनानि स्थितवान् । पर्वणः समाप्तेः षड्दिनानन्तरं वटवृक्षस्य अधः भरद्वाजमुनेः ऋषियाज्ञवल्क्यस्य च दर्शनम् अभवत् । तस्मिन् समये तत्र सा एव रामकथा प्रचलति स्म, यां कथा सः शूकरक्षेत्रे स्वगुरुणा श्रुतवान् आसीत् । माघपर्वसमाप्तेः अनन्तरं सः प्रयागात् पुनः काशीम् आगतः, तत्र सः प्रह्लादघट्टे स्थिते एकसस्मिन् ब्राह्मणगृहे निवासं कृतवान् । तत्रैव सः कवित्वशक्तिं प्राप्तवान् । अथ च संस्कृते पद्यरचनाम् आरब्धवान् । परन्तु सः आदिनं यावत् पद्यरचनां करोति स्म, तत् सर्वमपि रात्रौ लुप्तं भवति स्म । एवं प्रतिदिनं भवति स्म इत्यतः सः बहुखिन्नः जातः । अष्टमे दिवसे सः स्वप्नं दृष्टवान् यत् भगवान् शिवः स्वलोकभाषया काव्यं कर्तुम् आदिशति इति । तुलसीदासः स्वप्नं दृष्ट्वा जागृतः । तत्क्षणं भगवान् शिवः पार्वतीसहितः प्रकटीभूतः । तुलसीदासः साष्टाङ्गप्रणामम् अकरोत् । प्रसन्नश्च शिवः उक्तवान् यत् त्वम् अयोध्यायाम् उशित्वा लोकभाषया काव्यरचनां कुरु । मम आशीर्वचनेन तव काव्यं सामवेदसमं फलीभविष्यति इति । तुलसीदासः भगवतः शिवस्य आज्ञां शिरोधार्य अयोध्यं गतः । तत्र च तत्रत्यां लोकभाषायाम् (अवधीभाषायाम्) रामचरितमानसकाव्यस्य रचनाम् अकरोत् ।

विक्रसंवति १६३१ प्रारम्भे, चैत्रशुक्लनवम्यां रामनवमिदिवसे तादृशः एव योगः आसीत् यथा त्रेतायुगे रामजन्मदिवसे आसीत् इति । तस्मिन् दिने प्रातःकाले तुलसीदासः रामचरितमानसकाव्यस्य रचनाम् आरब्धवान् । वर्षद्वये सप्तमासेषु षड्विंशेषु दिनेषु (२वर्षम्, ७ मासाः, २६ दिनानि) अयं ग्रन्थः रचितः । एवं विक्रमसंवति १६३३ मार्गशीर्षमासस्य शुक्लपक्षे रामविवाहदिवसे अस्य सप्तकाण्डानि पूर्णानि जातानि ।

ततः भगवतः आज्ञया तुलसीदासः काशीं प्रतिगतः । तत्र भगवन्तं विश्वनाथं तथैव मातरम् अन्नपूर्णादेवीं रामचरितमानसं श्रावितवान् । रात्रिकाले ग्रन्थमिमं विश्वनाथमन्दिरे एव स्थापितवान् । प्रातःकाले यदा मन्दिरकपाटः उदद्घाटितः, तदा सर्वे दृष्टवन्तः यत् ग्रन्थस्य उपरि सत्यं शिवं सुन्दरम् इति लिखितं वर्तते, तत्रैव अधः भगवतः शिवस्य पुष्टिप्रदायकं हस्ताक्षरम् अपि अस्ति इति । तत्रोपस्थिताः जनाः सत्यं शिवं सुन्दरम् इत्यस्य ध्वनिम् अपि श्रुतवन्तः । 

यदा काशीपण्डिताः इदं वृत्तान्तं श्रुतवन्तः, तदा तेषां मनसि ईर्ष्या सञ्जाता । ते सर्वे मिलित्वा तुलसीदासस्य निन्दाम् आरब्धवन्तः, तथैव पुस्तकस्य विनाशार्थं यत्नम् आरब्धवन्तः । ते पुस्तकं चोरयितुम् चोरद्वयं प्रेषितवन्तः । तौ गत्वा दृष्टवन्तौ यत् तुलसीदासस्य कुटीसमीपे द्वौ धनुर्धरौ रक्षां कुरुतः । द्वावपि युवकौ अतीव सुन्दरौ क्रमशः श्यामगौरवर्णीयौ स्तः । तयोः दर्शनमात्रेण चोरयोः बुद्धिः विशुद्धा जाता । तौ तदारभ्य चौरकार्यम् एव त्यक्त्वा भजनकर्मणि निरतौ जातौ । तुलसीदासः यदा ज्ञातवान् यत् अत्र मम रक्षायै भगवान् श्रीरामः स्वयं कष्टम् अनुभवति तदा सः दुःखितः जातः । अतः सः कुटीरे विद्यमानानि वस्तूनि सर्वाणि अन्येभ्यः दत्तवान्, पुस्तकं च टोडरमलस्य समीपे सुरक्षादृष्ट्या स्थापितवान् (टोडरमलः तात्कालीनस्य साम्राजः अकबरस्य नवरत्नेषु एकः आसीत्) । ततः सः स्वकीयया विलक्षणस्मरणशक्त्या स्मृत्वा तस्य द्वितीयां प्रतिं पुनः लिखितवान् । तथैव अश्य अन्याः अपि प्रतिलिपयः निर्मिताः । अधुना अस्य ग्रन्थस्य प्रसारः निरन्तरं वर्धितः ।

काशीपण्डिताः अधुना अवरोधस्य अन्यः उपायः नास्ति इति विचिन्त्य, मधुसूदनसरस्वती इत्याख्यं महापण्डितं प्रार्थितवन्तः यत्, तद् पुस्तकं परिशील्य स्वस्य अनुमतिं यच्छेत् इति । मधुसूदनसरस्वती तद् पुस्तकं दृष्ट्वा अतिप्रसन्नः जातः । सः पुस्तकस्य विषये टिप्पणीं दत्तवान् –

काशीपण्डिताः अधुना अपि असन्तुष्टाः आसन् । ते पुस्तकस्य योग्यतापरीक्षायै अन्यम् उपायं कल्पितवन्तः । विश्वनाथमन्दिरे सर्वोपरि वेदान् ततः अधः शास्त्राणि ततश्च पुराणानि तथा सर्वततोऽधः रामचरितमानसं स्थापितवन्तः । प्रातः पुनः यदा दृष्टवन्तः रामचरितमानसग्रन्थः सर्वतोपरि विद्यते, तदा सर्वे पण्डिताः लज्जिताः जाताः । ते तुलसीदासं क्षमां प्रार्थितवन्तः, भक्तिभावेन तस्य चरणोदकम् पीतवन्तः इति ।

तुलसीदासः यदा काश्याः प्रसिद्धे असीघट्टे वासम् आरब्धवान् । तदा एकस्यां निशि कलियुगः मूर्तरूपं धृत्वा तत्समीपम् आगत्य पीडनम् आरब्धवान् । पीडितः तुलसीदासः हनुमतः स्मरणं कृतवान् । हनुमांश्च प्रकटीभूय प्रार्थनापदानि रचितुं निर्दिष्टवान् । तदा तुलसीदासः स्वकीयाम् अन्तिमां कृतिं विनयपत्रिकां लिखित्वा भगवतः श्रीचरणयोः अर्पितवान् । भगवान् श्रीरामः तस्सिन् स्वहस्ताक्षरं कृत्वा तुलसीदासं भयमुक्तम् कृतवान् । 

अत्रैव असीघट्टे विक्रमसंवति १६८०, श्रावणमासस्य कृष्णपक्षे तृतीयां शनिवासरे रामनामस्मरणं कुर्वन् तुलसीदासः स्वशरीरं परित्यक्तवान् । 

काशीस्थेन नागरीप्रचारिणीसभा इत्याख्येन सङ्घटनेन प्रकाशिताः तुलसीकृतग्रन्थाः एवं विद्यन्ते – 

रामचरितमानसम्, रामललानहछू, वैराग्यसन्दीपनी, बरवै रामायणम्, पार्वतीमङ्गलम्, जानकीमङ्गलम्, रामाज्ञाप्रश्नः, दोहावली, कवितावली, गीतावली, श्रीकृष्णगीतावली, विनयपत्रिका, सतसई, छन्दावली रामायणम्, कुण्डलियारामायणम्, रामशलाका, सङ्कटमोचनम्, करखारामायणम्, रोलारामायणम्, झूलना, छप्पयरामायणम्, कवित्तरामायणम्, कलिधर्माधर्मनिरूपणम्, हनुमानचालीसा ।




#Article 136: अष्टाध्यायी (3853 words)


अष्टाध्यायी पाणिनेः रचना वर्तते। व्याकरणसूत्रैः ग्रथितस्यास्य ग्रन्थस्य अष्टौ अध्याया: सन्ति, अतः ग्रन्थस्यास्य अष्टाध्यायी इति नाम।

अष्टभिः अध्यायैः समन्विता, सूत्रात्मिका च महर्षिणा पाणिनिना विरचिता 'अष्‍टाध्‍यायी',इति जगत्प्रसिद्धः संस्‍कृतव्‍याकरणग्रन्थः अस्ति । अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते अयं ग्रन्थः । एवं श्रूयते यत् ताण्डवनृत्यानन्तरं शिवः स्वढक्कां चतुर्दशवारम् अवादयत् । ततः 'अ इ उ ण्' इत्यादीनि चतुर्दश सूत्राणि निर्गतानि । तानि महेश्वरप्रदत्तानि आसन् । अतः एव महेश्वरादागतानि माहेश्वराणि माहेश्वरसूत्राणि इति कथ्यन्ते । तेषाम् आधारेण एव पाणिनिः अष्टाध्यायी इति व्याकरणग्रन्थं लिखितवान् । अस्मिन् ग्रन्थे अष्टौ अध्यायाः सन्ति । अतः एव 'अष्टाध्यायी' इति अस्ति । प्रत्येकमध्याये चत्वारः पादाः भवन्ति । आहत्य अष्टाध्याय्यां ३२ पादाः सन्ति । अष्टाध्याय्यां व्याकरणस्य उपचतुस्सहस्रं(प्रायः३९६५) सूत्राणि सन्ति ।

कथ्यते हि पाणिनीयसंहितायां ३९९६ सूत्राणि सन्तीति यथोक्तम् -

त्रीणि सूत्रसहस्राणि तथा नवशतानि च ।

पष्णवतिश्च सूत्राणां पाणिनिः कृतवान् स्वयम् ।। इति । 

किन्तु सम्प्रति समुपलब्धे ग्रन्ये तु ३९८३ मितानि एव सूत्राणि सन्तीति कथ्यते । अत्र हि गुरुप्रसादशास्त्रिसम्पादिताष्टाध्यायीसूत्रपाठानुसारेण पाणिनीयशब्दानुशासनसूत्रसङ्ख्या प्रस्तूयते

अध्यायाः पादाः सूत्राणि ।

सूत्रासङ्ख्यायां हीदमन्तरं योगविभागे व्याख्यातॄणां मतभेदेन सम्भवति । सूत्रेष्वपि बृद्धपाठे लघुपाठे च किञ्चिदतरमपि विद्यते । तच्च केचित्काशिका। कारेण सूत्रे वातकांशप्रक्षेपेण सञ्जातमिति मन्यन्तेऽपरे तु तदाचार्यंप्रवचनेनैव समुद्भुतमिति कथयन्ति ।।

अष्टाध्याय्यां शब्दानुशासनसम्बद्धा ये ये विषयाः प्रतिपादितास्तेषामत्र सूचिः प्रस्तूयते । सामान्यतोऽष्टाध्याय्यां सह सम्बद्धा विषया मुख्यतस्त्रिषु भागेषु विभक्तों दृश्यन्ते ।

१. वाक्येभ्यः पदानां सङ्कलन–प्रथमद्वितीयाध्याययोः ।

२. पदानां प्रकृतिप्रत्यविभागः–नृतीयचतुर्थपञ्चमीध्यायेषु, 

३. प्रकृतिप्रत्ययैः सह आगमादेशादीनां संयोजनेन परिनिष्ठितपदानां

निर्माणञ्च-षष्ठसप्तमाष्टमाध्यायेषु । तत्र हि प्रथममुपोद्धातस्ततश्वाष्टावध्यायाः सन्ति । उपोद्धा हिं 'अथ शब्दानुशासनम्' इति मङ्गलाचरणं, ग्रन्थाधिकारो ग्रन्थारम्भश्चे, प्रतिज्ञा ग्रन्थप्रयोजननिदिशो ग्रन्थनार्मानर्देशश्च । ततश्च चतुर्दशप्रत्याहारसूत्राणि । अथेति मङ्गलाचरणम्, अथेति संस्कारानन्तरमिति : ग्रन्थाधिकारिनिर्देशः ‘पुराकल्पे एतदासीत् संस्कारोत्तरकालं ब्राह्मणा व्याकरणं स्वाधीयते इति महाभाष्यात् प्राप्तसंस्कारो हि व्याकरणाधिकारी भवति इत्याशयेन अथेति ग्रन्थाधिकारः अथ योगानुशासनं' इत्यादाविव । शब्दानुशासनं ग्रन्थस्यास्य प्रयोजनम् नाम चास्य ग्रन्थस्य तदेव विषयानुसार, प्रतिज्ञा च । अथ शब्दानामनुशासनाय शब्दानुशासनं नाम ग्रन्थः प्रस्तूयते मयेत्याशयः । यथाऽऽह सृण्टिधरो भाषावृत्यर्थविवृतौव्याकरणशास्त्रमारभमाणो भगवान् पाणिनिमुनिः प्रयोजननामीव्याचिंख्यासुः प्रतिजानीते-‘अथ शब्दानुशास। नम्' इति । यथाऽऽह महाभाष्यकारश्च–अथेतिशब्दोधिकारार्थः प्रयुज्यते ।

शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम्' इति । यथा च न्यासकारो । जिनेन्द्रबुद्धिः-( अथ शब्दानुशासनम्' , इत्यत्र शब्दानुशासनप्रस्तावादेव ।।

हि शब्दस्येति सिद्धे ( स्वं रूपं शब्दस्याशब्दसंज्ञा इत्यत्र शब्दग्रहणं ! यत्र शब्दपरो निर्देशस्तत्र स्वं रूपं गृह्यते नार्थपरनिर्देश इति । ज्ञापनार्थम्' इति । महाप्राज्ञो दयानन्दश्च ‘अथ शब्दानुशासनम्' इति सूत्रं प्रतिज्ञासूत्रं मन्यते । यथोक्तम् -

इदं सूत्रं पाणिनीयमेव । प्राचीनलिखितपुस्तकेषु आदाविदमेवास्ति ।। दृश्यन्ते च सर्वेष्वार्षेषु ग्रन्थेष्वादौ प्रतिज्ञासूत्राणीदृशानि' इति । केवलं मेधातिथिरेव सूत्रमिदं. केवलं सूत्रसन्दर्भ मन्यते । मनुस्मृतिभाष्ये तच्चिन्त्यमेव । स हि कथयति -

पौरुषेयेष्वपि ग्रन्थेषु नैव सर्वेषु प्रयोजनाभिधानमाद्रियते । लथा हि भगवान् पाणिनिरनुक्त्वैव प्रयोजनम् ‘अथ शब्दानुशासनम्' इति सूत्रसन्दर्भमारभते' इति । मैंधातिथेरेषः, प्रमादः स्वव्याचिख्यासितमनुस्मृतिग्रन्थप्रयोजनाकथनदोषाच्छादनायैव न त्वज्ञानतः । तत्र शब्दानुशासनमेव प्रयोजनं ग्रन्थाभिधानञ्च स्पष्टमेव । उक्तमेवं सूत्रलक्षणे - 

अल्पाक्षरमसान्दीग्धं साखद्विश्वतो मुखम् ।

अदुष्टमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।। इति । 

तेन सूत्रस्य सारवत्ता तेनाज्ञातेति नैव युज्यते । स हि जाननेव. स्वाभीष्टः सिद्धये तथा व्याख्याति चेन्नीचपथेन गच्छज्जलं केन निरुध्यते। ततश्च प्रत्याहारसूत्राणि । तानि अइउण प्रभृतीनि चतुर्दश । तानि हि  माहेश्वराक्षरसमान्नायमधारीकृत्य भगवता पाणिनिना प्रणीतानि नै तु साक्षान्माहेश्वराणि । शम्भुप्रोक्त पस्त्रिषष्टिवर्णेभ्यः प्रत्याहारोपयोगिद्विचत्वारिंशद्वणनादाय भगवता पाणिनिनो प्रत्याहारसिद्धये निर्मितान्येतानि सूत्राणि । तथ्यमेतदुपेक्ष्यैव यदि कश्चित्तानि माहेश्वराणीति मन्यते यथा नन्दिकेश्वर-भट्ठौ जिदीक्षितादयः सानुयायिनस्तदपि दुर्भाग्यमेवास्माकम् । थथा च स्वयमेव भगवता महाभाष्यकारेण ‘‘एषा ह्याचार्यस्य शैली लक्ष्यते यत्तुल्यजातीयोस्तुल्यजातीयेष्वेवोपदिशति-अचोऽक्षु हलो हल्धुं ‘इति कथनेन स्वीकृतेऽपि प्रेत्या हारसूत्राणां पाणिनीयत्वे तदप्युपेक्ष्य कश्चित्स्वप्रज्ञौत्कर्षं दर्शयति चेत् तदापि ।। वयं तदेव स्मरामः-त्वं चेन्नीचपथेन गच्छासि पयः कस्त्वां निरोद्ध क्षेमः' । इति ।

तदस्मिन् द्विचत्वारिंशद्ववर्णात्मकचतुर्दशसूत्रौधे भगवान् हि पाणिनिद्विचत्वारिंशदेव प्रत्यात्याहारान् निर्दिशति । तच्च यथा -

ज्ञेयौ चयौ चतुभ्य रः पञ्चभ्यः शलौ षड्भ्यः ।।” इति।

तेषाञ्च गणना यथा—ङजणवटा अनुबन्धा एकैकमकारादिवणत्परों धारिता एकैकं प्रत्याहारं जनयन्ति । यथा-एङ् य, अणु, छेव्, अ, इतिपच्च झ, भष् इति द्वौ, अक्, इक्, उक्, इतिशयः, अणु, इण, यण, इतित्रयः, अम्, यम्, ऊम्, इतित्रय इति नव, अच्, इच्, एचू, ऐच् इति चत्वारः, ययु, • मय्, झय्, खय् इति चत्वार इति अष्टौ, यर्, झर्, शर्, चर्, संर् इति पञ्च, अश्, हश्, जश, वश, झश, इति पञ्च, अल्, हल्, व, र, शल्, हल्, इति पञ्च इंति एकचत्वारिंशत्, अम्' इत्यपि च कृत्वा प्रत्याहारी द्वचत्वारिंशदेव । तंत्र, एङ-एङ: प्राचां देशे, य-अतो दीर्घा यनि, अणु-ठूलोपेपूर्वस्य दीघोऽणः । छन्-नश्छव्यप्रशान् । अट्-शश्छोऽटि, झड्-एकाचो वश भष् झषन्तस्यस्ध्वोः , भष्-एकाचो वशो भय् झषन्तस्य स्ध्वोः, अक्-अकः सवर्णे दीर्धः, इक्-, इकोऽसंवर्गे शाकलस्य ह्रस्वश्च, उक्-श्रुयुकः किति, अणु-अणुदित्सवर्णस्य चाप्रत्ययः, इण-इण्कोः, यण-इको यणचि, अम्-पुमः खय्यम्परे, यम्-हलो यमा यमि लोपः, ऊम्-ङमो ह्रस्वादचि ङमुट् नित्यम्, अच्-नाज्झली, इंच्नादिचि, एच्-एचोऽयंवायावः, ऐच्-आदेच उपदेशेऽशिति, यय्-अनुस्वारस्य ययि परसवर्णः, मय्-मय उबो वो वा, झय्-झयो होऽन्यतरस्याम्, खय्शपूर्वाः खय्, दर्-यरोऽनुनासिकेऽनुनासिको वा, झर्-झरो झरि सवर्णे, खर्खरि च, चर्-अभ्याशे चर्च, शर्-शर्पूर्वाः खय्, अश्-भोभगो-अघो अपूर्वस्य योऽशि, हश्-हशिच, बर्-एकाचो वशो भष् झषन्तस्य स्ध्वोः, जश्-झलां .: जश् झशि, झश्–झलां जश् झशि, अल्-अपृक्त एकाल्प्रत्ययः, हल्-हलन्त्यम्, वेल-लोपो व्योर्वलि, रल्-रलो व्युपधाद्धलादेः सेच, शल्-शल इगुपधादनिटक्सः, झल्-हुंझल्भ्यो हेधि । अय्-जयन्ताड्डः। वर्णानामुपदेशः प्रत्याहारार्थः । प्रत्याहारश्च लाघवेन शास्त्रप्रवृत्यर्थः । यथा शषस इति कथने शर् इत्येव, अ इ उ ऋ ल ए ओ ऐ औ हयवर इति * कॅथने अट् इत्येव । 

'ततश्व प्रथमाध्यायः प्रारभ्यते यत्र हि शास्त्रव्यवहार्यसंज्ञापरिभाषादीनां व्यवस्था कृताऽस्तिः। तत्र चत्वारःपादाः । प्रथमे पादे पञ्चसप्ततिः सूत्राणि । बृद्धिरादैजित्यारम्य ‘ए प्राचां देशे प्रभृतीनि । पादोऽयं संज्ञापरकः । अत्र हि वृद्धि-गुण-संयोग-अनुनासिक-सवर्ण - प्रगृह्य-घु-घ-सङ्ख्या -षट्-निष्ठा-सर्वनामअव्यय-सर्वनामस्थान - विभाषा-सम्प्रसारण-लोप-टि-उपधा-प्रत्याहारं-वृद्ध-संज्ञाः क्रियन्ते यासु घु-घ-वृद्धसंज्ञाः पाणिनिकल्पिताः शेषाश्च परम्परागताः । संज्ञाभिः सह परिभाषाणामपि सादृश्यसम्बन्धने विषयोपयोगितया परिभाषासूत्राण्यपि पठितानि । तत्र आद्यन्तौ टकितौ (१।१।४६) इत्यारभ्य द्विवंचनेऽचि (११॥५९) पर्यन्तं पुनश्च प्रत्ययलोपे प्रत्ययलक्षणं (१॥१॥६२) ततश्च तस्मिन्नितिनिर्दिष्टे पूर्वस्य (१।१ ६६) इत्यारभ्य येन विधिस्तदन्तस्य (११।७२) इतिः पर्यन्तञ्च परिभाषाव्यवस्था। तत्रापि प्रथमसूत्रादारभ्य दशमसूत्रपर्यन्तं वर्णसम्बन्धिसंज्ञा, एकादशतमसूत्रादारभ्य त्रयश्चत्वारिंशत्तमसूत्रपर्यन्तं : शब्दसंज्ञा, चतुश्चत्वारिंशत्पञ्चचत्वारिंशतमसूत्रयोरार्थीसंज्ञा सम्प्रसारणसंज्ञी च षष्टितमे आर्थीसंज्ञा, चतुषष्टिपञ्चषष्टितमसूत्रयोरर्थसंज्ञा, पादान्ते बृद्धसंज्ञा ... च कृतास्ति । पादेऽस्मिन् पूर्णतः शास्त्रव्यवहार्यसंज्ञानां व्यवस्था कृताऽस्ति । प्रकरणमात्रव्यवहार्योपपदप्रभृतिसंज्ञानां तु तत्तत्प्रकरणे एव व्यवस्था कृताऽस्ति ।

प्रत्ययसम्बद्धसंज्ञाविधानादारभ्यतेऽस्य त्रिसप्ततिसूत्रात्मकोद्वितीयः पादः । तादृशं संज्ञाविधानं गाङ्कुटादिभ्योञ्णिन् ङित् इतिप्रथमसूत्रादारभ्य रलो व्युपधाद्धलादेःसँश्च इति षड्वितितमसूत्रपर्यन्तं चलति । किञ्चैतत् संज्ञया सहातिदेशोऽपि । अतोऽस्य पृथग्रूपेण विन्यासः । सप्तविंशतितमसूत्रादारभ्य ह्रस्वादिसंज्ञा प्रवर्तते ताऽपि एकोनत्रिशत्तमसूत्रादारभ्य चत्वारिशत्तमसूत्रपः । यन्तं वैदिकमुदात्तादिविवरणम् । ह्रस्वादयो हि वर्णसम्बद्धसं ज्ञास्तेनज्ञकचत्वाः रिंशत्तये वर्षविषयिंका अपृक्तसंज्ञा कृता । द्वाचत्वारिशत्तमसूत्रादारभ्य चतुश्चत्वारिंशत्सूत्रपर्यन्तं समाससम्बद्धे कर्मर्धारय-उपसर्जनसंज्ञे कृते पञ्चचत्वाः रिशत्तम षटचत्वारिंशत्तमसूक्तयोः प्रातिपदिकसंज्ञाविधानं ततश्च सप्तचत्वारिश त्तम सूत्रादारभ्य त्रिषष्टितमसुत्रपर्यन्तं प्रातिपदिकसम्बद्ध ह्रस्वादिविधानं, शेषेषु एकशेषविधानञ्च । अत्रौव ५९-६३ तमसूत्रेषु वचनव्यवस्था, कृताऽस्ति ।

'धातुसंज्ञया सह प्रारभ्यते त्रिनुवतिमितसूत्रात्मकस्मृतीयपादः । धातून नामाधीनत्वान्नामान-तरं धातुनिर्देशो - युक्त एव । ततश्च द्वितीयसूत्रादारभ्य अष्टमसूत्रपर्यन्तमित्संज्ञाविधानं कृतम् । धातूनामनुबन्धबाहुल्यात्तत्रेत्संज्ञाविधानं .. युक्तमपि । नवमसूत्रे इत्संज्ञकस्य लोपविधिः, ततश्च दशमैकादशतमसूत्रयोरिद्विधौ नियमाः, ततश्च द्वादशतमसूत्रादारभ्य आपादसमाप्त र्धातुसम्बद्धा आत्मनेपदपरस्मैपदनियमाः यत्र विप्रतिषेधनियममनुसृत्य प्रथमं द्वादशतमासूत्रादारभ्य सप्तसप्ततितमसूत्रपर्यंन्तमात्मनेपदनियमाः शेषेषु परस्मैपदनियमाः ।  अवशिष्टसंज्ञाविधानादारभ्यते दशोत्तरैकशत सूत्रात्मकचतुर्थपादः । तत्र प्रथम नियमसूत्रं द्वितीयं परिभाषासूत्रम् । तृतीयसूज़ादारभ्य षष्ठसूळपर्यन्तं नदीसंज्ञा, । तदवशिष्टरूपेण सप्तमाष्टनवमसूत्रैः घिसंज्ञाविधानं, ततश्च दशमसूत्रे ह्रस्वसंज्ञा, एकादशद्वादशेयोदीर्घसंज्ञा, त्रयोदशे अङ्गसंज्ञा, चर्तुदशतमादारभ्य सप्तदशतम पर्यन्तं पदसंज्ञा, ततश्च द्वयोःसूत्रयोर्भसंज्ञा, एकविंशतितम द्वाविंशतितमयोः बहुवचन-द्विवचनैकवचन संज्ञाः योविंशतितमसूत्रादारम्य पञ्चयञ्चाशत्तमसूत्रपर्यन्तं कारकंविचारः स च विप्रतिषेधनियममनूसत्यैव अपादान-सम्प्रदान-करणअधिकरण-कर्मकर्तृक मेण निर्दिष्टः । तत्रापि २४-३१ सूत्रेषु अपादानविचारः ३२-४१ सूत्रेषु सम्प्रदानविचारः, ४२-४४ सूत्रेषु करणविचारः ४५-४८, सूत्रेषु अधिकरणविचारः, ४९-५३ सूत्रेषु कर्माधिकारः, ५४-५५ सूत्रयोः कर्तृ विचारः, ५६-५८ सूत्रेषु. निपातविचारः, ५९ तमसूत्रे उपसर्गसंज्ञा, ६०-७९ सूत्रेषु गेतिसंज्ञाविचारः, ८०-८२ सूत्रेषु उपसर्गगतिसंज्ञकशब्दप्रयोगविचार, ८३-९८ सूत्रेषु कर्मप्रवचनीयविचारः, ९९ तमसूत्रे परस्मैपदसंज्ञा, १०० तमसूत्रे आत्मनेपदसंज्ञा, एकाधिकशततमसूत्रे प्रथममध्यमोत्तमपुरुषसंज्ञा, १०२-१०३, सूत्रयोः एकद्विवचनसंज्ञा, चतुरधिकशततमसूत्रे विभक्तिसंज्ञा, १०५-१०६ सूत्रयोर्मध्यमपुरुषविचारः, १०७ सूत्रे उत्तमपुरुषविचारः, १०८ सूत्रे प्रथमपुरुष:. नवाधिकशततमंसूत्रे संहिताविचारः दशाधिकशततमसूत्रे अवसानसंज्ञा विचारश्च ।

विशेषपदसङ्कलनात्मको द्वितीयोऽध्यायः । तत्र हि चत्वारः पादाः । तत्र प्रथमः पादो द्विसप्ततिसूत्रात्मकः पदसामान्यविषयपरः । तत्र हि प्रथमद्विती सूत्रयोः समासरूपविशिष्टपदानां विवेचनं, तृतीयचतुर्थयोः समासाधिकारविषयनिरूपणं, ततश्च शेषसूत्रेषु समासविचारो यत्र ५-२१ सूत्रेषु अव्ययीभावसमास विवेचनं, शेषेषु तत्पुरुषविवेचनं कुंतमस्ति । द्वितीयपादे १-२२ सूत्रेषु शेषत: परुषविवेचनं, २३-२८ सूत्रेषु बहुव्रीहिविवेकः, २९ सूत्र द्वन्द्व समासविचारः, शेषेषु सर्वविधसमासोपयोग्युपसर्जनादिविवेचनम् । तत्र हि पूर्वपदार्थप्रधानत्वात्वात्प्रथममव्ययीभावस्ततश्चोत्तरपदार्थप्रधानस्तत्पुरुषस्तस्यैव शेषत्वेन ततोऽत्यपधानबहव्रीहिविवेकः, ततश्च सर्वसमासप्रधानद्वन्द्व समासविवेक इति समास विवेचनक्रमस्याधारः । 

तृतीये हि पादे त्रिसप्ततिसूत्राणि । तेषु हि सुब्विभक्तिविवेकः । तत्र हि अनभिहिते इत्यधिकृत्य द्वितीयाचतुर्थीतृतीयापञ्चमीसप्तमीप्रथमाषष्ठी विचार अमेग, २-१२ सूत्रेषु द्वितीयाविचारः, १३-१७ सूत्रे चतुर्थीविवेकः १८-२७, सूत्रेषु, तृतीयाविवेकः, २८-३५ सूत्रेषु पञ्चमी विवेकः, ३६-४५ सूत्रेषु सप्तमीविचारः ४६-४९ सूत्रेषु प्रथमाविचारः, ५०-७३ सुत्रेषु षष्ठीविचार इति विभक्तिविवेकः ।। । चतुर्थे हि पादे पञ्चाशितिसूत्राणि येषु १-३१ सूत्रषु लिङ्गवचनविधान, ३२-४३ सूत्रेषु अन्वादेशविधानं,५३-५७ सूत्रेषु आर्धधातुके इत्यधिकृत्य धात्वादेशविधानं, ५८-८४ सूत्रेषु नुग्विधानं, अन्ते च ‘लुटः प्रथमस्य डारौरसः' इति ।

तृतीयोऽध्याये प्रत्ययविचारः पदानां प्रकृतिप्रत्ययविभागेन । तत्रापि चत्वारः पादाः । तत्र प्रथमे पादे पञ्चाशदधिकशतसूत्राणि । तत्र १-४ सूत्रेषु प्रत्यय सामान्यविवेकः ५-२२ सूत्रेषु प्रत्ययान्तधातुविचार', ३३-८६ सूत्रेषु विकरणः । विवेकः, ८७-९० सूत्रेषु सम्बद्धविषयचर्चा, ९१-१३२ सूत्रेषु नामविशेषेणीत्पादककृत्यप्रत्ययविचारः १३३-१५० सूत्रेषु विशेषणोत्पादककृत्प्रत्ययानां विधानं कृतमस्ति । कृत्यप्रत्ययेषु तव्यत्तव्य-अनीयर-यत्-क्यप्–ण्यत् प्रत्ययाः कृत्प्रत्ययेषु ण्वुल्तृच्-ल्यु-णिनि-अच्-क-श-ण ण्वुन-स्थक-युट्-वुनप्रत्यया 'अत्र निरूपिताः ।।

द्वितीयपादे अष्टाशीत्यधिकशतसूत्राणि सन्ति । तेषु हि अवशिष्टकृत्प्रत्ययानामेव निरूपणं कृतमस्ति । तत्र हि अणू-क टक्-अच्-ट-इन-खशु-खेचूड-णिनि-ख्युन्-खिष्णुच् - खुक-क्विन्-कन् - क्विप् - ण्वि-युट् - विट् -ण्विन्

क्वनिप्-अतृन्-कानच्-क्वसु-शतृ-शान-शानन्-चानश्-तृन्-इष्णुच्-ग्स्नु-क्नु-धिनु.', वुञ्-युच्-उकञ्षाकन्-इनि-आलुच् - रुक्मरच्-घुरच्-कुरच्-क्वरप्-र-उ-कि-किने: ननिङ्-आरु-कुक्-लुकन्-वरच्-डे-ढटन्-इत्र-क्तप्रत्यया निरूपिताः । ।

तृतीयपादे षट्सप्तत्युत्तरशतसूत्राणि सन्ति । तत्र १-३ सूत्रेषु उणादिप्रत्यय विधानं, अष्टादशतमसूत्रतो भावे इत्यधिकृत्यप्रत्ययव्यवस्थापन यत्र घबू-कणच्इनुण-अच्-अप्-ण-क-घ-क्त्रि-अथुच्-नङ- नन्-कि-क्तिन्-क्यपु-श-अ-अङ्-युच्ण्वु लूवुच्-अनि-क्तल्युट्-घ-खल्-प्रत्यया प्राधान्येन प्रदर्शिताः । १३१-१७६ सुत्रेषु वर्तमाने लट् इत्योरभ्य ‘उणादयो बहुलम्' इत्यन्तेसूत्रोक्तप्रत्ययानां कालानुसरिप्रंयोगनिरूपणम् । चतुर्थंपादो हि सप्तदशाधिकशतसूत्रात्मको यत्र १-७६ सुत्रेषु, प्राधान्येन अव्ययरूपकृत्प्रत्ययांनां निरूपणं, ७७-११७ सूत्रेषु ‘लस्य' इत्यारभ्य आदेशनिरूपणं कृतम् ।

चतुर्थेऽध्याये प्राधान्येन नामतो नामोत्पत्तिर्मुख्यविवेच्यविषयः तत्रापि चत्वारः पादाः । तत्र प्रथमो पादः १७८ सूत्रयोः सूत्रात्मको यत्र प्रथमद्वितीय सुविभक्तिविधानं, ३-८१ सूत्रेषु स्त्रीप्रत्ययनिरूपणं तत्रापि ३-१३ सूत्रेषु साधारणस्त्रीप्रत्ययविवेकः १४-८१ सूत्रेषु ‘अनुपसर्जनात्' इत्यारभ्य अनुपसजैनस्त्रीप्रत्ययविधानं कृतम् । ८२-१७-९ सूत्रेषु तद्धितप्रत्ययविधानं यत्र प्रथम अस्वार्थकतद्धितप्रत्यया निरूपिताः सन्ति । द्वितीये हि पादे १४५ सत्राणि । तत्रापि तद्धितप्रत्ययविचारः कृतस्तेन रक्त' रागात् इत्यारम्य पादसमाप्तिपर्यन्तमेव । तृतीये हि पादे १६८ सूत्राणि तद्धितप्रत्ययानामेव विवेकः कृतः ।। चतुर्थे च पादे १४४ सूत्राणि-तेष्वपि प्राग्वत् । अध्यायेऽस्मिन् प्राधान्येन अणूठेक्-यत्प्रत्ययावां महाधिकारः । । 'पञ्चमेऽप्यध्याये ताद्धितप्रत्ययानामेव विचारः । तत्रापि चत्वार, पादाः । तत्र प्रथमे हि पादे १३६ सूत्राणि यत्र तद्धितप्रत्ययानामेव विचारः प्रसरति ।। द्वितीये च पादे १४० सूत्राणि तेष्वपि प्राग्वत् । तृतीये हि पादे ११९ सूत्राणि यत्र प्राग्दिशो. विभक्तिः' इत्यारभ्य स्वाथिकप्रत्ययानां विधानं कृतमस्ति । तत्रापि १.३६ सूत्रेषु विभक्तिसंज्ञकस्वाथिकतद्धितप्रत्ययनिरूपणं ततश्च केवलस्वार्थकतद्धितप्रत्ययविधानम् । चतुर्थे हि पादे १६० सूत्राणि । तत्रापि १-६७ सूत्रेषु स्वाथिकतद्धितप्रत्ययानामेव क्रमः । ६८-१६० सूत्रेषु समासान्तप्रत्यय विधानम् । ततः समाप्नोति तद्धिताधिकारः। समासान्तप्रत्यया अपि प्रक्रियादृष्ट्या तद्धितप्रत्यया एव ।

षष्ठेऽध्याये प्रधान्येन धातुकार्यनिर्देशः । तत्रापि चत्वार एव : पादाः ।। प्रथमें हिं पादे २२३ सूत्राणि । १-१२ सूत्र षु द्वित्वविधिः, १३-४४ सूवेषु मप्रसारणादिविधिः, ४५-७१ सूत्रेषु आत्वविधिश्च । ७२-१५७ सूत्रेषु संहिताधिकारः । ५८-२२३ सूत्रेषु स्वरविधिः । 

द्वितीये पादे १९९ सूत्राणि यत्र हि स्वरविवेक एव चलति । तृतीये पादें १३९ सूत्राणि । तत्र हि १-२४ अलुगाधिकारः, २५-३३ आनङ्ङधिकारः; ३४-४२ सूत्रेषु पुंवद्भावाधिकारः, ४३-४५ सूत्रेषु ह्रस्वाधिकार-, ततश्च. आत्वाद्यागमविचारः १११-१३९ सूत्रेषु दीर्घाधिकार इति ।

चतुर्थे हि पादेः १७५ सूत्राणि तेषु अङ्गसम्बन्धिकार्य निर्दिष्टमस्ति । तत्र १-१८ सूत्रेषु दीर्घविचारः, ततश्च १९-२२ शुडागमादिकार्याणि, २३-३३ ।। न:लोपप्रकरणं, ततश्च इयादिविविधाङ्गकार्याणि, सप्तमाध्यायः प्रत्ययकार्यसम्बद्धः । तत्रापि चत्वारः पादाः । प्रथमे पादे हि १०३ सूत्राणि यत्र १-४९ सूत्रेषु प्रत्ययसम्बद्धकार्याणि, ततश्च ५०-५१ सूत्रयोरसुगागमः, ततश्च सुनुट् नुम्-असुड्-अनङ्-आम्-अम्-इत्-उदागमाः ।।

द्वितीये पादे ११८ सूत्राणि । तत्र १-७ सूत्र षु वृद्धिविचारः, ८-११८ इड्भावादिविचार इतरकार्याणि च । तृतीये पादे १२० सूत्राणि । तेष्वपि प्राग्वदेव । चतुर्थे पादे ९७ सूत्राणि । तत्रापि प्राग्वदेवः।

अष्टमेऽध्याये हिं पदसम्बद्धकार्य निदश्यते । तत्रापि चत्वारः पादाः । प्रथमे पादे ७४ सूत्राणि सन्ति । तत्र १-१५ सूत्रेषु पदद्वित्वविधिः । ततश्च । ‘पदस्य’ ‘पदात्' इति प्रारभ्यः पदादेशाः । द्वितीये हि पादे १०८ सूत्राणि । । तत्र ‘पूर्वत्रासिद्धम्' इत्यारभ्यअसिद्धकाण्डविवेकः । तृतीये पादे ११९ सूत्राणि । तेष्वपि प्राग्वत् । तत्रापि ५५-११९ सूत्रेषु सत्वविधानम् ।। । चतुर्थ पादे हि ६८ सूत्राणि । तत्र १-३९ सूत्रेषु णत्वविधानं, ततश्च । चुत्व-ष्टुत्व-द्वित्व-जश्त्व-चर्व-छत्व-लोपादिविचार इति संक्षेपतः पाणिनोयशब्दानुशासनस्य विषयसूचिः । अष्टाध्याय्याश्चत्वारो भागाः । तत्र प्रथमद्वितीयतृतीयाध्यायाः, चतुर्थपञ्चमाध्यायौ, षष्ठोऽध्यायः, सप्तमाष्टमाध्यौ च । सामान्यतः संज्ञापंरिभाषादिकार्याणि, धातुकार्याणि, पदकार्याणि, विविधकार्याणि चेति चत्वारः प्रतिपाद्यविषयाः। • पाणिनिंना हि स्वग्रन्थलाघवाय प्रत्याहारंगणपाठः संज्ञाविधानञ्चेति त्रिविधमुपकरणमवलम्बितमिति प्रागेवोक्तम् । तत्र हि प्रत्याहोराः पाणिनिपूर्वमपि प्रचलिता एवासन् कामं पाणिनिना ते परिवद्धताः सम्भवन्ति । ऋकतन्त्र ऽप्युक्तम्-‘अथ वर्णाः संज्ञाप्रत्याहारसमाः' इति ।

गणपाठश्च आपिशल्यादिकृतोऽपि विद्यत एव ।

संज्ञाविधानमपि पूर्वव्याकरेषु विद्यमानमेव ।।

तत्र - कतिचित्संज्ञास्तु पाणिनिना पूर्वव्याकरणतो यथा स्वरूपं वा स्वल्पं वा पूर्णतः 'संशोध्य गृहीताः कतिचित्तु स्वयमेवोद्भाविताश्वत्यनुमीयते । संज्ञाश्च . द्विविधा लघ्वी महती च । एकवर्णात्मिका लघुसंज्ञा यथा घ-घि-धु-भ-टिप्रभृतयः ।। 'एकाधिकवर्णयुक्ता महासंज्ञा गुणतद्धिप्रभूतयः । तासु महासंज्ञास्तु आचार्येण पूर्वग्रन्थेभ्य एवं स्वीकृताः किन्तु समस्ती एव लघुलंज्ञाः, कतिचिन्महासंज्ञा अपि तेन स्वयमेवोद्भाविता अपि । यथोक्त वैदिकाभरणभाष्ये -

अन्वर्थत्वं महासंज्ञा व्यञ्जन्त्यर्थान्तराणि च । 

पूर्वाचार्यैरतस्तास्तु सूत्रकारेण चाश्रिताः ॥ इति ।

वृद्ध-इ-गोत्र-युव-तद्राज-कृत्यसंज्ञाश्च महासंज्ञा आचार्यकृता इत्युच्यन्ते ।। तर वृद्धिर्यस्याचामादिस्तद्वृद्धं, त्यादादीनि च' इति कृता वृद्धसंज्ञा, उपदेशेऽ. जनुनासिक इत् प्रभृतिसूत्रकृता इत्संज्ञा, अपत्यं पौत्रप्रभृति गोतं इति गोत्रसंत्रा ( पूर्वीचार्यास्तु गोत्रस्य वृद्धमिति संज्ञा' कुर्वन्ति स्म ) 'जीवति तु वंश्ये ।। • युवा' इति युवासंज्ञा, ते तद्राजाऽइति, तद्राज़संज्ञा, 'यू स्त्र्याख्यौ नदी' इति । नदीसंज्ञा च । नदीसंज्ञाविषये केचचिद्धि पाणिनिरुपहस्यते कथनेनानेन- 

पाणिनेनं नदीगङ्गा यमुना वा नदी स्थली।

प्रभुः स्वातन्त्र्यमापन्नो यदिच्छति करोति तत् ।।

भवति न तु आकारान्तमंपि । तेन हि स्थली नदी भवति न तु गङ्गा वा यमुनेति । ।

अधिकारस्यानुवृतिहि पाणिनीयाष्टाध्याय्या जीवनम् । स चाधिकारस्त्रिप्रकारः कश्चिदेकदेशस्थः सर्वंशास्त्रमभिज्वलयति, यथा प्रदीपः सुज्वलितः |, संर्ववेश्माभिज्वलयति । अपरोऽधिकारो यथा रज्ज्वायसा वा बद्धं काण्ठमनुकृष्यते तद्वदनुकृष्यते चकारेण । अपरऽधिकारप्रतियोगं तस्यानिर्देशार्थ इति योगे योग उपतिष्ठते । प्रथमप्रकारोऽधिकारो यथा “षष्ठीस्थाने योगाः इति । द्वितीयप्रकारोऽधिकारो.यथा ‘अभिनिवशश्च' इति सूत्रे 'आधारोऽधिकरणम्' इति सूत्रादाधारग्रहणम् । एतत्प्रकारकोऽधिकारः शास्त्रे यत्र तत्र व्यवस्थितः । तृतीयप्रकारोऽधिकारोऽनिर्धारितसम्बन्धविशेषं निरूपयति । यथा ‘पूर्वत्राऽसिद्धम् इत्यत्र ।

स चाधिकारस्त्रिप्रकारेण प्रवर्तते-सिंहावलोकनन्यायेन, मण्डूकप्लुतिः न्यायेन गङ्गाप्रवाहिन्यायेन च ।

तत्र सूत्रस्याधिकारस्य अग्रतः पृष्ठतश्च प्रवर्तनं सिंहावलोकनम् । यथा ‘उपपदमतिङ’ ( २।२।१९ ) इत्यस्य 'कुगतिप्रादयः' ( २।२।१८) इत्यनानुवृत्तिः । एकत्रोक्तरूपक्रमं विहायापि अन्य ग्रहणं मण्डूकप्लुतिः । यथा--इको । यणचि ( ६।०१७७ ) इत्यत्र प्रोक्तस्य 'अचि' इत्येतस्य ‘अवङ स्फोटानस्य । ( ६१।१२३ ) इत्यत्र ग्रहणम् । गङ्गाप्रवाहन्यायंश्च क्र मेणानुवर्तनमुः। यथा ‘अत इन्’ (४१।९५.) इत्यत्र पठितस्य इञ् इत्येतस्य ‘वाह्लादिभ्यश्च ॥४॥ १॥९६ ) इति सुत्रे ग्रहणमिति । तदित्थं सम्पद्यतेऽकालकं पाणिनीयं शब्दानुशासनं पाणिनिप्रोक्तम् ।

पाणिनिह भगवान् शब्दानुशासनांतिरिक्त तत्पूर्तये अन्यानपि ग्रन्थान्प्रावोचत् । ते हि धातुपाठ-गणपाठ-लिङ्गोनुशासन-फिट्सूत्र-परिभाषापाठसंज्ञकाः सन्ति । केचिद्धि उणादिसूत्राण्यपि पाणिनिप्रोक्तानि मन्यन्ते । एतदतिरिक्त शिक्षाग्रन्थोऽपि पाणिनिप्रोक्तत्वेन सम्मतः। तदतिरिक्त जाम्चवतीविजयं नाम महाकाव्यमपि पाणिनिप्रणीतत्वेन प्रसिद्धमस्ति । प्रसङ्ग ऽस्मिन्निदमवधेयं यत्साहित्यं हि पञ्चविधं दृष्टं प्रोक्त उपज्ञातं कृतं व्याख्यातञ्च । तत्र हि दृष्टं नाम प्रतिभाशक्तरा ज्ञानविषयीकृतं विद्यमानवाङ्मयम् । यथा । वेदमन्त्रा ऋषिभिदृष्टा न तु प्रणीताः । पाणिनिरपि दृष्टं साम इति परिभाषते । अत्र योगौ विभज्यते । तत्रं दृष्टमित्यर्थे यथाविहितप्रत्यय भवन्ति । साम इति सम्बन्धे दृष्टमित्यर्थेऽण् भवतीति । यथा वसिष्ठेन दुष्ट साम वसिष्ठम् । मधुच्छन्दसा दृष्टं माधुन्छन्दसम् । अत्र हि मण्डूकप्लूतिन्यायेंन अणोऽनुवृत्तिः । 

द्वितीयं हि शास्त्र प्रोक्तम् । प्रोक्तमित्युपदिष्टम् । पाणिनिः इदं तेन प्रोक्तम्' सूत्रेण जनयति । विद्यमानस्य शास्त्रस्य स्वभाषया प्रवचनमेव प्रोक्तमिति । प्रोक्त हि प्रवक्तुःस्ववैशिष्ट्यमपि समन्वितं भवति । तृतीयान्तेन प्रोक्तमित्यर्थे यथायथं प्रत्यया भवन्ति इति सूत्राशयः । यथा पाणिनिना प्रोक्त पाणिनीयम्, इत्युदाहणम् । . उपज्ञातमिति ग्रन्थप्रवक्त्रा स्वमनीषिकया विज्ञातम् । तच्च विद्यमानं वा प्रकल्पितमपि, पुराणोऽप्यर्थः प्रतिभावशान्नवीनत्वेन प्रकल्पितश्च । पाणिनिरेतद् उपज्ञाते (४।३।११५) सूत्रे प्रथयति । तृतीयान्तादुपज्ञात इत्यर्थे यथाविहितप्रत्यया भवन्ति इति सूत्रार्थः । यथा पाणिनिना उपज्ञातं पाणिनीयं तच्चाकालक व्याकरणमिति । एवमेव काशकृत्स्नं गुरुलाघवं आपिशलं पुष्करणम् । । कृतमिति प्रणीतं स्वप्रतिभाबाहुल्योपयोगेन । तच्च पाणिनिना ‘अधिकृत्य कृते ग्रन्थे' (४।३।८७) इति सूत्रेण निर्दिष्टम् । द्वितीयान्तादधिकृत्य कृते इत्यर्थे यथाविहितप्रत्यया भवन्ति यत्कृतं तच्चेद् ग्रन्थः स्यादिति सूत्रार्थः । शारीरक नामब्रह्मसूत्रं तदधिकृत्यकृतो ग्रन्थः शारीरकीयः, पाणिनिमधिकृत्य कृतो ग्रन्थः पाणिनीयः ।

व्याख्यातमिति मूलग्रन्थमधिकृत्य कृतं भाष्यादिकम् । तच्च पाणिनिः तस्य | व्याख्यान इति च व्याख्यातव्यन्तनाम्नः' (४।३।६६) इति व्याख्यातवान् । षष्ठीसमर्थाद् व्याख्यातव्यनाम्नः प्रातिपदिकात् व्याख्यानेऽभिधेये यथाविहितप्रत्ययो भवति तत्र भवे चार्थे । । तत्र हि पाणिनीयं शब्दानुशासनमुपज्ञातमित्युच्यते। जाम्बवतीविजयञ्च • कृतमन्ये धातुपाठादयः प्रोक्ता इति । ते हि भगवता पाणिनिना शब्दानुशासनसूत्रव्याख्यानावसरे प्रोक्ताः धातुपाठःगंणपाठः लिङ्गानुशासनं परिभाषापाठश्वः । यदि नाम फिट्सूत्राणि उणादिसूत्राणि च पाणिनीयान्येव तदा तानि तु उपज्ञातानि सम्भवन्ति तेषां शब्दानुशासनव्याख्यानावसरे प्रत्यक्षतः सम्बन्धाभावात्। शिक्षाग्रन्थश्चोपज्ञात एव तथैव । यथा च भगवती, पणिनिना स्वपूर्ववर्तीनि सर्वाण्यपि व्याकरणानिं स्वप्रतिभाविषयीकृत्य स्वयञ्च तानि निर्मथ्यं स्वीकीयवैशिष्टययुतमकालकं व्याकरणमुपज्ञातं तथैव 'प्रतिशाखे पृथग्वणतान् शिक्षा-ग्रन्थांश्च स्वमनीषाविषयीकृत्य सर्ववेदोपस्कारकः शिक्षाग्रन्थस्तेनप्रणीत इति । तस्याप्युपज्ञातत्वं सिद्धयति । एवञ्च भगवतः पाणिनेः -

उपज्ञातानि-अष्टाध्यायी, शिक्षा च उपज्ञातग्रन्थौ, कृतम्-जाम्बवतीविजयमहाकाव्यं तु कृतग्रन्थः, धातुपाठः, गणपाठः, परिभाषापाठः, लिङ्गानुशासनञ्च फिटसूत्रोणादी च प्रोक्तग्रन्था इति कथ्यन्ते । अत्र वयं स्वानुभूतं किञ्चिद्रूमः पाणिनिह भगवान् स्वोपज्ञातकालक शब्दानुशासनं शिष्येभ्यो ब्याख्यातवाननिति तु पूर्वमेवोक्त प्रतिपादितञ्च प्रमाणसाहाय्येन । व्याख्यानावसरे यदा भूवादयो धातवः, अदिप्रभृतिभ्यःशपः, जुहोत्यादिभ्यः श्लुः, दिवादिभ्यः श्यन्, रुधादिन्यः श्नम्, क्रयादिभ्यः, इनो, तनादिकृभ्यः उः, तुदादिभ्यः शः, चुरादिभ्यो णिच्, स्वादिभ्यः श्नुः इति सूत्राणि व्याख्यातानि तदा शिष्यैरवश्यमेव पृष्टं भवेत्के च ते अदिप्रभृतयो दिवादयो धातव इति । तदा शिष्यप्रबोधनायाचार्येणावश्यमेव धातुपाठो निदष्टः स्याद्यश्च शिप्यैः संगृहीतः । तेन धातुपाठोऽयमाचार्यप्रोक्त एव । तथैव यदा जिंदगौरादिभ्यश्च, वह्वादिभ्यश्च, क्रौड्यादिभ्यश्च अश्वपत्यादिभ्यश्च, उत्सादिभ्योऽन् बाह्यादिभ्यश्च, नडादिभ्यः फक् इति प्रभृतिसूत्राणि व्याख्यातानि तदाऽपिःशिष्यैरवश्यमेव पृष्टं स्यात् के च ते वाह्लादयो वा शुभ्रादय इति । तदाऽऽचार्येणावश्यमेव गणपाठो ऽपि प्रोक्तः स्यात् । एवमेव यदा ‘स्थानेऽन्तरतमः इति सूत्रं व्याख्यातं तदाऽपि शिष्यैः पृष्टं भवेद्यदा अनेकविधमान्तर्यमुत्पद्यते तदा किङ्कर्तव्यमिति । तदाऽऽचार्येणोक्त स्याद्-यत्रानेकविधमान्तर्यं तदा स्थानत आन्तर्यं बलीय इति । तदेष आचार्योपदिष्टः परिभाषांपाठः शिष्यैः संगृहीतः स्यात् । तेन परिभाषापाठस्याऽपि आचार्य प्रोक्तत्वं सिध्यति ।

'एवमेव 'पुंसि संज्ञायां घः प्रायेण आङोनाऽस्त्रियाम् ‘युस्त्र्याख्यौ नदी, | ‘ह्रस्वो नपुंसके प्रातिपदिकस्य', 'स्वमोर्नपुंसकात्' इत्यादिसूत्रव्याख्यानावसरे - शिष्यैः शब्दानां पुंस्त्रीनपुंसकत्वविषये पृष्ट आचार्योऽवश्यमेव लिङ्गानुशासनमपि उपदिष्टवानिति लिङ्गानुशासनस्य पाणिनिप्रोक्तत्वं सिंध्यति । तेन शब्दानु - शासनं,, धातुपाठः, गणपाठः, परिभाषापाठः, लिङ्गानुशासनञ्चेति ग्रन्थपञ्चक पञ्चरत्नत्वेन प्रसिद्धमेव । तदाप्रभृत्येव व्याकरणं पञ्चाङ्गमिति प्रसिद्धिः ।

सम्प्रति प्रश्नोऽवशिष्यते उणादिसूत्रविषये फिट्सूत्रविषये च । केचिद्धि । उणादिसूत्राणि पणिन्युपज्ञातानि मन्यन्ते केचित्तु तानि शाकटायनप्रोक्तानि, अपुरे तु आपिशलीयान्यपि सम्प्रति पञ्चपादी दशपादी' चेति उणादिसूत्राणां द्विविधः पाठो लभ्यते तयोर्मूलत्वेन त्रिपाद्यपि स्मृतोऽस्ति । क्षीरस्वामिप्रभृतय उणादि सूत्राणां दशपादीमाद्रियन्ते अपरे तु पञ्चपादीमपि । वस्तुतस्तु उभावेव पाठौ पण्डितसमाजे कृतास्पदौ स्तः । तत्र केचन पञ्चपादीमापिशलिप्रोक्त दशपदीञ्च पाणिनिप्रोक्त वा शाकटायनप्रोक्त मन्यन्ते । युधिष्ठिरमहाभागस्तु उभंयोंरेव पाठयोः प्रवक्तारमनिर्जातं मन्यते । (सं० व्या० २१५ पृष्ठे)।

संस्कृतव्याकरणपरम्परायामापिशलं शाकटायनं पाणिनीयञ्च : व्याकरण सर्वाङ्गपूर्णं मन्यते । सर्वाङ्गपूर्णत्वं हि सूत्रैः सह सम्बद्धानां धातु-गण-परिभाषाअंशादिसूत्र-फिट्सूत्र-लिङ्गानुशासनादिपाठानां प्रबन्धनमेव । अन्यानि तु व्याकरणानि एकदेशीयान्येवं . मन्यन्ते । उणादिहि । अन्यत्रानुपलब्धव्युत्पक्तीनां शब्दानां व्युत्पादनप्रयोजनः । वैयाकरणेषु शाकटायन एवैतादृश आचार्यों यः सर्वानपि शब्दान् धातुजन् मन्यते । यथोक्त निरुक्त ऽपि यास्काचार्येण--

तत्र नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च'। तथैव च महाभाष्येऽप्युक्तम् -

वैयाकरणांनां च शाकटायन आह. धातुजं नामेत तंञ्च तथाकथंने । दुर्गाचार्यः ‘अतिपाण्डित्याभिमानात् इति समालोचयत्यपि निरुक्तवृत्तौ ।

तद्विपरीतं पाणिनिस्तु द्विप्रकारं शब्दं मन्यते व्युत्पन्नमव्युत्पन्नञ्च । तत्र अव्युत्पन्नशब्दस्य तु 'अर्थवदधातुरप्रत्ययः प्रातिपादिकम्' इति सूत्रेण प्राति-:-. पदिकसंज्ञा भवति व्युत्पन्नशब्दस्य तु ‘कृत्तद्धितसमासाश्च इत्यनेन नियमसूत्रेण । तदनुसारेण तु उणादीनां प्रवक्तृत्वेन शाकटायन एकोपतिष्ठते । किन्तु युधिष्ठिरश्रीमाँसकस्य उणादयो बहुलम्' इति सूत्रस्य व्याख्यावसरे आचार्येण उणादिसूत्रानि प्रोक्तानीति मतमपि विवेचनीयमेव दृश्यते। कैयटस्य च उणादय इत्येव सूत्रमुणादीनां शास्त्रान्तरपठितानां. साधुत्वज्ञापनार्थमस्त्विति भावः इति कथनमपि आर्चार्यस्य उणादिसूत्रप्रवक्तत्वं नैव निरुपाद्धि।. सूत्रप्रणयनकाले आचार्यः ‘उणादयो बहुलम् ।' इत्येव उक्तवान् स्यात्किन्तु . तद्वयाख्याकाले कथं ते ज्ञेयाः इति शिष्यैः पृष्ट उणादिसूत्राण्यपि प्रोवाचेति कथमनाद्रियते। उणादिसूत्रैरपि. नितान्तमव्युत्पादिता अपि शब्दाः सन्त्येव । तानेवाचार्योऽव्युत्पन्नान्मन्यते स्मेति नाश्चर्यम् । यच्च श्वेतवनवासिना येयं शाकटायनादिभिः पञ्चपादी रचिता इति समुक्त तस्यायमप्याशयः सम्भवति यत्पूर्वशाकटायनेनाऽपि उणादि पञ्चपादी रचितों आसीत् । सम्प्रति पाणिनिनाऽपीति । अन्यथा तत्र आदिपदस्य कि प्रयोजनम्? तथैव ‘एवञ्च कुवापेति उणादिसूत्राणि शाकटायनस्येति सूचितम्' इति उद्योते यदुक्त तत्रापि उत्पद्यन्तेऽनेका विप्रतिपत्तयः । तथैव बालमनोरमा कारकथनेऽपि यदा स कथयति--

'तानि चेमानि सूत्राणि शाकटायनमुनिप्रणीतानि, न तु पाणिनिना प्रणीतानि । इति ।

अत्र वयं ब्रूमः। यदि हि कृवापेति उणादिसूत्राणि नैव पाणिनीयानि मन्यन्ते तदा तेषां सिद्धिः कथं क्रियते ? करोतीति कारुरित्यत्र णिति वृद्धिः वायुरित्यत्र युगागमः, द्वितीयसूत्रे, कुण' इत्यत्र त्रलोपः, जानुरित्यत्र जनिवध्योश्चेति न निषेधः अनुबन्धद्वयसामर्थ्यात्, भरुरित्यत्र गुणः कषुरित्यत्र गुणश्चे. त्यादिव्यवस्था पाणिनीया एव दृश्यते । सम्भवति शाकटायनशास्त्रेऽपि ‘आतो युक् चिण्कृतोः' जनिवध्योश्च, अचोञ्णिति, सार्वधातुकार्धधातुकयोः, पुगन्तलघुपदस्य च इत्यादिसूत्रेषु कृता युगागमबृद्धिनिषेध-वृद्धि-गुणादिव्यवस्था विहिता : स्यात्, किन्तु 'जनिवध्योश्च इति सूत्रस्य 'झुण्' इत्यत्र अनुबन्धद्वयसामर्थ्यादप्रवृत्तिर्यदुक्त तत्तु पाणिनीयमेव । तेन वृत्तिकारस्तु उणादिसूत्राणि पाणिनीयसूत्रप्रकाशेनैव : व्याख्याति । पाणिनीयसूत्रानुसारेण हि धितिण्यति. एव चजोः कुत्वं भवति तेन ‘कृके क्चः कश्वः॥६॥ इति सूत्रे । एव उप्रत्यये कविधानमस्ति यत्तस्य पाणिनीयत्वं सूचयति । तथैव नीथ इत्यत्र कुष्ठ इत्यत्र च गुणनिषेधायैव ‘क्थनू' प्रत्ययः कृतोऽस्ति किङति चेति सूत्रप्रवर्तनाय। एवञ्च पीथमित्यत्र , ‘घुमास्थागापाजहातिसां हलि, इति सूत्रप्रवर्तनायैव थक् प्रत्ययः कृतोऽस्ति । तथैव उक्थमित्यत्र थक्प्रत्ययः वचिस्वपियजादीनां किति इति सम्प्रसारणनिमित्तं प्रवर्तनायैव । एवञ्च शिरीष इत्यत्र ‘कृतृभ्यामीषन्’ इति ईषन् प्रत्यये शृपृभ्यां किञ्च इति कित्वे गुणनिषेधेनं ऋत इद्धातोरित्यस्य प्रवृत्तिः एवञ्च पुरीष इत्यत्र उदोष्ठ्यपूर्वस्येत्यस्य। एवञ्च वशे कित्, कशेर्मुट् च इत्यादिप्रबन्धश्च सर्वे एव पाणिनीयो दृश्यते । तेन वयन्तु समग्रमेव उणादिप्रबन्धं पाणिनीयमेव मन्यामहे यंत्र देशपादी वृद्धपाठसम्बद्धा पञ्चपादी लघुपाठसम्बद्धा च । ये खलु औदीच्याः प्राच्याश्च ते हि दशपादीमाद्रियन्ते ये च दाक्षिणात्यास्ते हि पञ्चपादीम् । यथाहि विठ्ठलाचार्यो दशपादों क्षीरस्वामी च पञ्चपादीमेव भट्टोजिदीक्षितः समुल्लिखति । उभे अपि पाणिनीये एव तेनैव ते पाणिनीयैः समादृते स्तः । समानमेव । इदन्तुक्तमेव यदाचार्यों हि प्रथमं तु संहितायां ‘उणादयो बहुलम् । इत्येवोक्तवान्, पश्चाच्च व्याख्यावसरे शिष्यैः पृष्टो दशपदीमेव प्रोक्तवान्ः यस्याः । लघुरूपं पञ्चपादीति स्पष्टमेव । समग्रेषु उणादिसूत्रेषु पाणिनीयसंहितैव व्याप्य । स्थिताऽस्ति इति कथं तेषामपाणिनीयत्वं न सिध्यति । तेनोणादिराचार्यप्रोक्त ने तुपज्ञातम् ।

फिट्सूत्रविषये च हरदत्तस्तानि शान्तनुप्रोक्तानि मन्यते,एवमेव श्रीनिवांसश्च । अद्रोज़िदीक्षितस्तु तानि शान्तनवाचार्यप्रणीतानि मन्यते । नागेशस्तु शन्तनुमेव तत्कर्तृत्वेन समर्थयति भैरवमिश्रश्च । रामचन्द्रपण्डितस्तु फिट्सूशाण्यपि पाणिनि प्रोक्तानि मन्यते । स हि कथयति -

यद्यपि रामचन्द्रमतं तृतीयपथत्वेन युधिष्ठिरमहाभांगेनाप्युक्षेपितं तथापि यिनपतज़लिप्रमृतिभिरेतद्गतविषयस्मरणात्तन्मतं वयं तु न' तथोपेक्षणी मन्यन्ते। सम्भवति फिट् सूत्राण्यपि पाणिनिप्रोक्तानि कामं नोपज्ञातानि आचार्य उणादिविषये व्याख्यार्थी शिष्यैः पृष्टस्तदा से देशपादीं प्रोक्तवानन्ते च शब्दशस्तस्य पाराभावात्तथापि केचन शब्दो अव्युत्पन्ना एवं शिष्यन्ते इत्यपि प्रोक्तवा्। ततश्च तादृशानामव्युत्पन्नाना शब्दानां कथं स्वरपरिज्ञानमिति पृष्टः स फिट् सूत्राण्यप्युपदिष्टवान् । विदुषां किमशोभनम् । अस्मद्विचारेऽपि वृत्तिकारान्तराभावाच्छान्तनवाचार्यो हि फिट् सूत्राणां वृत्तिकार एव सम्भवति । व्युत्पन्नशब्दानां तु स्वरज्ञानं प्रकृतिप्रत्ययविभागानुसारेण भवति किन्त्वव्युत्पन्नानां तु फिट् सूत्राद्वारेणैव ।

एतदतिरिक्तमपि धातुपाठ-गणपाठ-परिभाषापाठ-लिङ्गानुशासन-उणादिसूत्र-फिट्सूत्रातिरिक्तमपि । भगवता पाणिनिना अष्टाध्यायीसूत्रव्याख्यौनकालें शब्दानुशासनस्य वृत्तेरपि प्रोक्तेत्यनुमीयते । प्रवचनकाले हि सूत्रार्थपरिज्ञानाय वृत्तेरपि निर्देश आवश्यक एव भवति सामान्यतः । तत्रापि पाणिनीये हि अकृतव्यूहेऽनुवृत्तिसञ्चालिते शास्त्रे तु वृत्तेरावश्यकताऽपरिहार्दैव। यथा “इको गुणवृद्धी इति सूत्रे पठित ‘इक् ‘सिचिवृद्धिःपरस्मैपदेषु इति सूत्रे अनुवर्तते । तथैव ‘नेड् वशि कृति' इति सूत्रे पठित 'नेट' श्रुयुकः किति' इति सूत्रेऽनुवर्तते। नैतावन्मात्रमपितु ‘उपपदमति इति सूत्रं 'कुगतिप्रादयः' इति सूत्रं नियच्छति । तेन यत्र हि सिंहावलोकनन्यायेन मण्डूकप्लुतिन्यायेन च पदानामनुवृत्तिर्भवति तादृशे शास्त्रे 'वृत्तेरावश्यकता सर्वैरनुभूतैव । पाणिनिह भगवान् स्वीपज्ञातं, शब्दानुशासनमनेकवार शिष्येभ्यो व्याख्यातवानिति तु महाभाष्यकाशिकादि ' ' ग्रन्थेभ्यो ज्ञायत एव । तादृशे प्रवचने तेन सूत्राणां 'स्वोपज्ञा वृत्तिरपि प्रोक्ता या च शिष्यैः सङ्ग्रहीता कालेन विलुप्ता वा रूपान्तरिता वा यत्र कुत्र तुं तथैव स्थिताऽपि सम्भवति । एवमेव भगवतः पाणिनेह शिक्षाग्रन्थः द्विरूपकोशः, पूर्वपाणिनीयं, जम्बः । वतीविजयमहाकाव्यञ्च कृतित्वेन मन्यन्ते । . शब्दोच्चारणंपरिज्ञापकं साहित्यं हि शिक्षेत्युच्यते। भगवत्पाणिनिप्रोक्तत्वेन । ग्रन्थान्तरवच्छिक्षाग्रन्थोऽपि ख्यातोऽस्ति। 'कथ्यते हि तस्यं द्विविधं स्वरूपैमस्ति . प्राचीनमर्वाचीनञ्च । प्राचीनं हि स्वरूपं सूत्रात्मकमस्ति अर्वाचीनं तु श्लोकात्मकम् । प्राचीनस्य हि स्वरूपस्य (सूत्रात्मकस्य) वृद्धपाठो लघुपाठ इति दौ भेदौ स्तः । सूत्रात्मको हि पाणिनीयशिक्षाग्रन्थो दयानन्दमहाभांगेज़ मेहता ‘प्रयासेन सङ्गृह्य प्रकाशित इति ज्ञायते । श्लोकात्मकस्यापि तथैव यत्र, चन्द्रपाले आर्चः षष्टिश्लोकात्मको लधुपाठश्च यजुषः पर्चीत्रशच्छुलोकात्मकः।

सूत्रात्मके हि ग्रन्थे स्थान-करण-अन्तः प्रयत्न-वाह्य प्रयत्न-स्थान-पीडन|वृत्तिकार-प्रक्तम-नाभितलाख्यान्यष्टौ प्रकरणानि सन्ति । वृद्धपाठे सूत्राणां सूत्रां| शानाञ्चाधिक्यं वर्तते लघुपाठे हि प्रथमे २२,द्वितीये ७, तृतीये १०, चतुर्थे १०; पञ्चमे ४, षष्ठे १०, सप्तमे ९, अष्टमे १, उपोद्धाते ४ इति ७६ सूत्राणि लभ्यन्ते ।

सूत्रात्मकशिक्षायाः पाणिनिप्रणेतृत्वं च प्रमाणेतरातिरिक्तं तैत्तिरीयप्रातिशाख्यस्य भाष्यकारेण सोमयायिना स्वीये त्रिरत्नभाष्ये ‘सन्ध्यक्षराणां ह्रस्वाः न सन्ति' इति पाणिनीयेऽपि' इत्युक्तत्वादपि सिध्यति ।।

अस्य हि श्लोकात्मकपाठस्तु तच्छिष्यप्रणीत इति 'अथ शिक्षा प्रवक्ष्याभि .. पाणिनीयं मतं यथा' इति वाक्येनैव ज्ञायते । केचित्तं ( यथा शिक्षाप्रकाशटीकाकारः ) पिङ्गलाचार्यगुम्फितं मन्यन्ते । यथोक्तं शिक्षाप्रकाशटीकायां. ज्येष्ठभ्रातृर्भािवहिते व्याकरणेऽनुजस्तत्र भगवान् पिङ्गलाचार्यस्तन्मतमनुभाव्य शिक्षा वक्तुं प्रतिजानीते” इति ।। | शब्दानुशासनवत्पाणिनेः शिक्षाग्रन्थोऽपि आपिशलेन सह नितान्तं साम्यमाधत्ते । उमयोरेवाष्टौ प्रकरणानि तावत्येव सूत्रसङ्ख्या विषयश्च नितान्तसंवादी ।

शिक्षाग्रन्थस्य लघुपाठे एव शिक्षाप्रकाश-शिक्षापञ्जिकाद्याष्टीकाः समुपलभ्यन्ते ।

जाम्बवतीविजयं नाम महाकाव्यमपि पातालविजयापराभिधानं हि पाणिनेः कृतित्वेन मतम् । तस्य हि समग्रकलेवरं तु सम्प्रति नैवोपलभ्यते किन्तु यत्र तत्र विहितेम्य उद्धरणेभ्यस्तस्यावस्थित यत्किञ्चित्स्वरूपञ्च विज्ञायते । तत्रत्यं।

उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।

यथा समस्तं तिमिरांशुक तथा पुरोऽपिरागाङ्गलितंन लक्षितम् ।। 

इति पद्यं ध्वनिकारेण समुद्धृतमस्ति । राजशेखरो वदति- 

नमः पाणिनये तस्मै यस्मादाविरभूदिह ।

आदौ व्याकरणं काव्यमनु जाम्बवतींजयम् ।। इति ।

एवमेव श्रीधरदासश्च सदुक्तिकर्णामृते - 

धृतिदक्षीपुत्रे हरति हरिश्चन्द्रोऽपि हृदयम् । 

विशुद्धोक्तिः शूरः प्रकृतिमधुरा भारविगिरस्तथाऽप्यन्तर्मोद कमपिं भवभूतिवंतनुते ।” 

क्षेमेन्द्रश्च सुवृत्ततिलके स्मरति- 

स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः । 

चमत्कार कसाराभिरुद्यानस्येव जातिभिः ।। इति ।

इदं हि न्यूनपि अष्टादशसर्गात्मकमासीदिति दुर्घटवृत्तिकारेण शरण देवेन कृतात् -

त्वया सहाजितं यच्च यच्च सख्यं पुरातनम् । 

चिराय चेतसि पुनस्तरुणीकृतमद्य मे ।। इत्यष्टादशे'।

इति उद्धरणाज्ज्ञायते । इत्थं हि युधिष्ठिरमहाभागकथनानुसारेण, अद्या• वधि एकोनत्रिंशद्ग्रन्थेषु पाणिनेर्जाम्बवतीविजयस्य समुद्धरणानि सन्ति ।

एवमेव पाणिनिप्रणेतृत्बेन स्मृतो द्विरूपकोशोस्तीति युधिष्ठिरमहाभागः । संस्कृतव्याकरणशास्त्रेतिहासे स्मरति । तदनुसारेण तस्यान्ते इति पाणिनिमुनिना कृतं द्विरूपकोशं सम्पूर्णम्' । इति लिखितमस्ति । कोशोऽयं पाणिनिकृतो वा न वेति सम्प्रत्यपि नैव निश्चितम् । एवञ्च ‘पूर्वपाणिनीयम्' इति कश्चिद्ग्रन्थः चतुर्विंशतिसूत्रात्मको र्जीवरामकालिदासराजवैद्येन सङ्गृहीतः सम्पादितः प्रकाशितश्च वर्तते । तत्रत्यानि सूत्राणि इत्थं युधिष्ठिरमहाभागेन समुधृतानि--

ओम् नमः सिद्धम् । अय शब्दानुशासनम् (१) शब्दो धर्मः (२) धर्मादर्थकामायवर्गाः ।३। शब्दार्थयोः ।४। सिद्धः ५। सम्बन्धः ।६। ज्ञानं छन्दसि १७॥ ततोऽन्यत्र ।८। सर्वभार्षम् ।९। छन्दोविरुद्धमन्यत् ॥१०॥ अदृष्टं वा ।११॥ ज्ञानाधारः ॥१२॥ सर्वःशब्दः ।१३। सर्वार्थः ।१४। नित्यः ॥१५॥ तन्त्रः ॥१६॥ आषास्वेकादशी ।१७। अनित्यः ।१८। लौकिकोऽत्र विशेषेण ।१९। व्याकरणात् ।२०। तज्ज्ञाने धर्मः ।२१। अक्षराणि वर्णाः ।२२। पदानि वर्णेभ्यः ॥२३॥ ते प्राक् ।२४।

पूर्वसूत्रविषये महाभाष्यकाशिकाप्रभृतिग्रन्थेषु यत्र तत्र स्मृतं दृश्यते । महाभाष्ये यथा -

अथवा पूर्वसूत्रे वर्णस्याक्षरमिति संज्ञा क्रियते पूर्वसूत्रे गौत्रस्य वृद्धिमिति संज्ञा क्रियते -

पूर्वसूत्रनिर्देशश्च । चित्त्वान् चित इति। अथवा पूर्वसूत्रनिर्देशोऽयं पूर्वसूत्रेषु च येऽनुबन्धा। न तैरहेत्कार्याणि क्रियन्ते। निर्देशोऽयं पूर्वसूत्रेण । वा स्यात् । पूर्वसूत्रनिर्देशश्च । काशिकायां उक्तम्‘पूर्वपाणिनीयं शास्त्रम् ।

युधिष्ठिरमहाभागस्तु तान् पाणिनिकृतान्नैव मन्यते । स हि पूर्वपाणिनीयशब्दस्य पाणिनीयस्य पूर्व एकदेशः पूर्वपाणिनीयमिति कृत्वा ग्रन्थञ्च पाणिनीयशास्त्रस्य पूर्बभागममुमाति । किन्तु काशिकायां व्यवहृते पूर्वपाणिनीया अपरपाणिनीया इति’ पदे एतद्विपरीतमेवं सूचयन्ति । पूर्वपाणिनीया हि पूर्वपाणिनीयशास्त्राध्येतारः। तेन हि पाणिनेरेव पूर्वमपरञ्चेति द्वे शास्त्रे इति ज्ञायते । सम्भवति पाणिनिना हि भगवता प्रथमं पूवैशास्त्रत्वेन संक्षिप्तं व्याकरणमुपज्ञातं स्यात्प्रायोगिकरूपेण । विषयेऽस्मिन्नधिकमनुसन्धानमावश्यकम् ।'

अस्मिन् ग्रन्थे शब्दरूपाणि, धातुरूपाणि, सन्धयः, समासाः, कारकाणि, कृत्प्रत्ययाः, तद्धितप्रत्ययाः इत्यादीनि भाषायाः अवयवाः निरूपिताः सन्ति । सर्वाः शब्दव्युत्पत्तिप्रक्रियाः प्रकृतिप्रत्ययविवेकः च समीचीनतया सूत्ररूपेण निरूपिताः । पाणिनिकाले संस्कृतभाषा लोकव्यवहारस्य भाषा आसीत् । अतः एव जनभाषा आसीत् । अष्टाध्यायीसूत्रेषु प्रत्यक्षरूपेण अप्रत्यक्षरूपेण वा बहूनां विदुषां ग्रन्थानां, ग्रामाणां, जनपदानां, स्थानानां च उल्लेखः अस्ति । यथा - 'ऋतौ भारद्वाजस्य', 'वासुदेवार्जुनाभ्यां वून्', 'पुराणप्रोक्तेषु ब्राह्मणकल्पेषु', 'सिन्धुतक्षशिलादिभ्योऽणञौ' ।
अष्टाध्यायी मानवबुद्धेः उद्भूता अत्युत्कृष्टा कृतिः अस्ति । वैदेशिकाः विद्वांसः अपि एतं ग्रन्थम् मुक्तकण्ठं प्रशंसन्ति । 

पाणिनेः अष्टाध्यायीम् अधिकृत्य कात्यायनः वार्तिकानि अलिखत् । वार्तिकानि पाणिनीयव्याकरणस्य पूरकाणि सन्ति । महामुनिः पतञ्जलिः अष्टाध्याय्याः वार्तिकानां च व्याख्यारूपं महाभाष्यं नाम ग्रन्थं लिखितवान् । अथ शब्दानुशासनम् इति महाभाष्ये पतञ्जलेः प्रथमम् वाक्यम् । एवम् पतञ्जलिः महाभाष्यस्य शब्दानुशासनम् इति नामकरणम् कृतवान् । शब्दाः = नामानि, आख्याताः, उपसर्गाः, निपाताश्च इति चतुर्विधा अपि अनुशास्यन्ते अनेन इति शब्दानुशासनम्। पाणिनिः, कात्यायनः, पतञ्जलिश्च एते त्रयः व्याकरणशास्त्रस्य प्रमुखाः आचार्याः सन्ति । पाणिनिसूत्राणाम् आधारेण भट्टोजिदीक्षितः सिद्धान्तकौमुदीं रचितवान् । वरदराजः लघुसिद्धान्तकौमुद्याः रचनां कृतवान् ।




#Article 137: चतुरङ्गक्रीडा (266 words)


चतुरङ्गक्रीडा(Chess) एका बहुप्रसिद्धा पारम्परिकक्रीडा वर्तते । 

चतुरङ्गक्रीडा द्वन्द्वक्रीडा वर्तते । एषा क्रीडा शारिपट्टे(Chess board) क्रीडन्ति । अस्मिन् शारिपट्टे ६४ समचतुरस्राः वर्तन्ते ।  एतादृशाः समचतुरस्राः एकस्मिन् पङ्क्तौ अष्ट योजितं वर्तते । आहत्य अष्टपङ्क्तयः वर्तन्ते । अत्र प्रत्येकस्य क्रीडकस्य सविधे १६ पदातयः भवन्ति । तेषां नामानि अधः निर्धिष्टवत् सन्ति,

चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति, तदानीं स्पर्धी विजेता भवति तथा च क्रीडायाः समाप्तिः भवति । चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति तादृशस्थितिम् आङ्ग्लभाषायां चेक्मेट्(Checkmate) इत्युच्यते । 
चतुरङ्गक्रीडायां रुचिः जगति प्रायः सर्वेषां वर्तते । अस्य क्रीडायाः स्पर्धा विभिन्नस्तरेषु भवति । तेषां नामानि एवं भवति,

चतुरङ्गक्रीडायाः मान्यता विश्वओलम्पिक् समितिः एवं विश्वचदुरङ्गसंस्थायाः वर्तते । चतुरङ्गक्रीडायां विभिन्नप्रकाराः वर्तन्ते ।

अस्याः क्रीडायाः प्रारम्भः गुप्तसाम्राज्यस्य काले अभवत् । तदानीमेव तस्य नाम चतुरङ्गम् इति आसीत् । तस्मिन् काले पदातीनां नामानि अश्वः,रथः,हस्तिः आसन् । कालान्तरे नैट्(knight),बिशप्(bishop),रूक्(rook) इति नामानि व्यवहारे आगतानि । ६०० तमे वर्षे पारस्यदेशे एषा क्रीडा आसीत् इत्यस्मिन् विषये साक्षाधाराः लभ्यन्ते । तस्मिन् काले चत्रङ्ग् इति चतुरङ्गक्रीडायाः नाम आसीत् । चत्रङ्ग् इति नामोल्लेखः पर्शिया अथवा इरान्-देशस्य त्रिषु प्रणयमाहाकाव्येषु श्रूयते । ६३३ तमात् वर्षादारभ्य ६४४ तमस्य वर्षस्य काले पारस्य देशः इस्लाम्-धर्मस्य शासनाधीने आसीत् । तस्मिन् काले चत्रङ्ग् इत्यस्य शत्रञ्ज् इति नामान्तरम् अभवत् । स्पेन्-देशे शत्रञ्ज् इत्यस्य अखेद्रेज़्(ajedrez) इति उच्चारणम् । पोर्चुगीस् भाषायां सद्रेज़्(xadrez) इति उच्चारणम् । ग्रीक् भाषायां ज़द्रिकियान्(zatrikion) इति उच्चारणम् । परन्तु इतरस्मिन् युरोप् प्रदेशे आङ्ग्लपदं चेक् इत्यस्मात् चेस् इति उच्चारणं व्यवहारे आगतम् । १३ शतके ताळपत्रे अस्याः क्रीडायाः विषये उल्लेखः लभ्यते । अस्य क्रीडायाः आरम्भः चीनादेशस्य ज़्याङ्कि क्रीडातः इत्यपि श्रूयते ।
प्रथमविश्वविजेता विल्हेम् स्टैनेट्स् १८८६ तमे वर्षे अभवत् । वर्तमानकाले चतुरङ्गविश्वविजेता विश्वनाथन् आनन्दः वर्तते । १९९७ तमे वर्षे प्रथमवारं विश्वचतुरङ्गविजेताक्रीडा डीप् ब्लू इति सङ्गणकस्य साहाय्येन सङ्गणकद्वारा क्रीडायाः स्पर्धा आरब्धा ।




#Article 138: सरदार वल्लभभाई पटेल (6381 words)


सरदार वल्लभभाई पटेल ( ) (, , ) भारतस्य एकतायाः सूत्रधारः । लोहपुरुष इति समग्रे विश्वे प्रसिद्धः सः । लोहपुरुषस्य जन्म गुजरातराज्यस्य नडियाद-नगरे अभूत् । तस्य दृढस्वभावेन, निर्णयशक्त्या च अद्यापि सः जनमानसे चकास्ति । न केवलं भारतस्वतन्त्रताप्राप्त्यै, समग्रस्य भारतस्य एकीकरणे अपि तु भारतस्वतन्त्रताप्राप्त्यनन्तरं देशस्य भविष्यनिर्माणे सर्वोत्कृष्टं योगदानम् अस्यैवास्ति ।
 

किंवदन्त्यनुसारं लोहपुरुषस्य पूर्वजाः पञ्जाबराज्यस्य गुजरनामकक्षत्रियवंशीयाः आसन् । यवनाक्रमणेन त्रस्ताः गुजरक्षत्रियाः एकादशेऽब्दे गुजरातराज्यस्य साबरमती-महीनद्योः मध्ये स्थिते विशालभूभागे स्वनिवासं निश्चितं कृतवन्तः । केचन गुजरक्षत्रियाः नर्मदा-ताप्तीनद्योः तीरेऽपि न्यवसन् । गुजरातराज्यस्य शान्तिमये वातावरणे गुजरक्षत्रियाः कृषिकार्यं प्रारभन्त । तस्मिन् समये गुजरातराज्ये ये शासकाः आसन्, तेभ्यः गुजरक्षत्रियाः   कृषियोग्यं 'पट्ट' इति भूभागं गृहीतवन्तः । नदीतीरे स्थितः समभूभागः गुजरातीभाषायां 'पट्ट' इति उच्यते । ते 'पट्ट' इत्यस्य क्रयणं कृतवन्तः । अतः 'पाटीदार' इति प्रसिद्धाः अभूवन् ।

अपरकिंवदन्त्यनुसारं गुजरक्षत्रियाः पञ्जाबराज्यस्य कृषकाः एव आसन् । यवनाक्रमणेन त्रस्ताः ते अयोध्यां गतवन्तः, ततः गुर्जरप्रान्तं प्राप्तवन्तः । पञ्जाबराज्यस्य लेउ-नामकात् ग्रामात् आगताः 'लेउआ', करड-नामकात् ग्रामात् आगताः 'कडवा' इत्येताभ्यां नामभ्यां गुजरक्षत्रियाः गुजरातराज्ये प्रसिद्धाः अभूवन् ।

गुजरवंशे उद्भूतः क्रान्तिकारी झवेरभाई पटेल गुजरातराज्यस्य आणन्दमण्डलस्य करमसद-ग्रामे वसति स्म । पारिवारिकसम्पत्तेः विभाजनपश्चात् तेन लघुभूभागः एव प्राप्तः आसीत् । अतः सः स्वपरिवारस्य पोषणपरिमितं धनार्जनमेव कर्तुं समर्थः आसीत् । तस्मै धनसङ्ग्रहस्तु असम्भव एवासीत् । क्रान्तिकारी झवेरभाई भारतस्वतन्त्रतायाः विचारं कुर्वन् पञ्चविंशतितमे (२५) वयसि कमपि विनोक्त्वा गृहात् निर्गतः आसीत् । किंवदन्यनुसारं सः उत्तरप्रदेशं गत्वा १८५७ तमस्य वर्षस्य भारतस्वतन्त्रताविप्लवे आङ्ग्लविरुद्धे युद्धे झांसीप्रदेशस्य लक्ष्मी बाई राज्ञाः सैन्ये भारतस्वतन्त्रतार्थम् अयुद्ध्यत । झवेर-महाभागस्य पत्न्याः नाम लाडबाई आसीत् । लाडबाई अपि पतिपथगामिनी, धर्मचारिणी च आसीत् । तयोः पञ्च पुत्राः आसन् । सोभाभाई, नरसिंहभाई, विठ्ठलभाई, वल्लभभाई, काशीभाई इति । तयोः एका पुत्री अपि आसीत् । तस्याः नाम डाईबाई । झवेर-महाभागस्य चतुर्थः पुत्रः एव भारतस्य लोहपुरुषः सरदार वल्लभभाई पटेल ।

लोहपुरुषस्य जन्म नडियाद-नगरे स्थिते मातुलगृहे अभूत् । लोहपुरुषस्य जन्मतिथिविषये निश्चितता तु नास्ति । सरदार स्वयं कथयति स्म यत्, “शाला-तः ज्ञानेन सह जन्मतिथिमपि प्राप्तुं शक्नुमः” इति । एवं सः पौनःपुन्येन स्वजन्मतिथिविषयस्य उपहासं करोति स्म । अस्य कारणमपि आसीत् । तस्य माता आङ्ग्लदिनाङ्कं निषेधयति स्म । अतः सा बालवल्लभस्य आङ्ग्लदिनाङ्कं न दृष्टवती । परन्तु शाला-तः १८७५ तमस्य वर्षस्य 'अक्तूबर्'-मासस्य एकत्रिंशत् (३१) दिनाङ्कस्य लोहपुरुषस्य जन्मदिनाङ्कत्वेन निर्दिष्टत्वात् वयं ३१/१० दिनाङ्कमेव लोहपुरुषजयन्तीरूपेण आचरामः ।

लोहपुरुषस्य पिता झवेरभाई कृषकः आसीत्, अतः तस्य सर्वे पुत्राः कृषिं कुर्वन्ति स्म । बालवल्लभोऽपि पित्रा सह कृषिं करोति स्म । तत एव बालवल्लभस्य शिक्षणस्य प्रारम्भोऽभूत् । पिता बालवल्लभं स्वविप्लवसम्बद्धां कथां पौनःपुन्येन श्रावयति स्म । पितुः कथायां विप्लवविफलतायाः कारणीभूतः  भारतीयजनेषु व्याप्तः एकतायाः अभावः लोहपुरुषस्य चिन्तां वर्धयति स्म । तया चिन्तया भारतस्वतन्त्रतायै भारतैकताऽऽवश्यकीति तस्य मनसि दृढभावः उद्भूतः । गृहे माता लाडबाई बालवल्लभाय निर्भयता-साहस-पुरुषार्थादीनां परोक्षरीत्या ज्ञानं यच्छति स्म । लोहपुरुषः कथयति स्म यत्, मम पितरौ मां कृषिक्षेत्रम् अनयेताम् । तत्र ताभ्यां पठनाय आदिष्टो भवामि स्माहम् इति । धर्मशिक्षणमपि बालवल्लभेन परम्परया प्राप्तमासीत् । तस्य गृहजनाः धार्मिककर्मकाण्डादीनां पालनं दृढतया कुर्वन्ति स्म । पितरौ भगवतः स्वामिनारायणस्य भक्तौ आस्ताम् । प्रतिपूर्णिमायां तौ वडताल-ग्रामे स्थितं स्वामिनारायणमन्दिरं बालवल्लभं नयतः स्म । पितृभ्यां सह बालवल्लभः अपि एकादश्याः उपवासम् आचरति स्म 

करमसद-ग्रामे स्थिते प्राथमिकविद्यालये सप्तमे वयसि बालवल्लभस्य शालाप्रवेशोऽभूत् । शालायाः शिक्षकः महान् अलसः आसीत् । तं प्रश्नं प्रष्टुं यदा कोऽपि गच्छति स्म, तदा सः शिक्षकः “માંય-માંય ભણો...(मांय-मांय भणो)” अर्थात् स्वयमेव पठन्तु इति वदन् विद्यार्थिनः प्रतिप्रेषयति स्म । शिक्षकस्य दुर्गुणः बालवल्लभस्य सद्गुणस्य जनकोऽभूत् । पठनानुरागिणि, दृढसङ्कल्पिनि च बालवल्लभे स्वाध्ययनस्य अभ्यासः जातः । स्वाध्ययनस्याभ्यास एव आजीवनं लोहपुरषस्य मार्गदर्शनम् अकरोत् । प्राथमिकशालायाः प्राचार्यस्य ईप्साऽऽसीत्, बालवल्लभः शिक्षको भवेदिति । परन्तु बालवल्लभस्य मनसि तु निश्चयः आसीत् यत्, “मया तु अधिकाधिकं धनार्जनं करणीयम्” इति । अतः स्वस्य आङ्ग्लपठनस्य ईप्सां सः पितरौ अकथयत् । बालवल्लभस्य ज्येष्ठभ्राता विठ्ठलभाई नडियाद-नगरे मातुलस्य गृहे स्थित्वा आङ्ग्लशालायां पठन् आसीत् ।

द्वितीयबालोऽपि तत्र न गच्छेत् इति पित्रोः इच्छा आसीत् । किङ्कर्तव्यमूढौ पितरौ षण्मासं यावत् चिन्तनम् अकुरुताम् । तदा तृतीयकक्षापर्यन्तम् अनुमतिं प्रप्तायाः कस्याश्चित् आङ्ग्लशालायाः प्रारम्भः करमसद-ग्रामेऽभूत् । सामान्यतः चतुर्थकक्षां पठित्वा आङ्ग्लशालायां तृतीयकक्षायां प्रवेशो भवति स्म । परन्तु बालवल्लभस्तु सप्तमकक्षां समाप्य षण्मासं यावत् गृहे स्थित्वा ततः आङ्ग्लशालायाः प्रथमकक्षां प्रविष्टवान् । तदा बालवल्लभस्य वयः चतुर्दशवर्षमासीत् । तत्र तृतीयकक्षासमाप्त्यनन्तरं पुनः अग्रे पठनाय समस्या उद्भूता । पूर्वानुभवेन सः शीघ्रं पेटलाद-ग्रामे स्थिते विद्यालये पठनाय निर्णयमकरोत् । सः विद्यालयः षोडश कि.मी. दूरे, पञ्चमकक्षापर्यन्तं चासीत् । प्रातः षड्वादने उत्थाय षोडश कि.मी. चलित्वा निश्चितसमये शालां प्राप्नोति स्म बालवल्लभः । कालान्तरे पेटलाद-ग्रामे एव गृहं भाटके नीत्वा मित्रैः सह न्यवसत् सः ।

षष्ठमकक्षायाम् कश्चित् पारसीशिक्षकः विद्यार्थिनः कठोरदण्डेन प्रताडयति स्म । एकदा सः कस्मैचित् विद्यार्थिने धनदण्डनं दत्तवान् । सः विद्यार्थी द्वितीये दिने धनं विना विद्यालयं गतः । तेन कुपितः शिक्षकः विद्यार्थिनं कक्षायाः बहिः प्रेषितवान् । एतादृशम् अन्यायं दृष्ट्वा बालवल्लभः तस्य विरोधमकरोत् । सः सर्वेभ्यः विद्यार्थिभ्यः विद्यालयं मा गच्छन्तु इति न्यवेदयत् । कोऽपि भयेन विद्यालयं न गच्छेदतः सः विद्यालयमार्गेषु लघुमण्डपानां स्थापनाञ्चकार । विद्यार्थिभ्यः जलादीनां व्यवस्थामप्यकरेत् । तत् विरोधप्रदर्शनं त्रीणि दिनानि यावत् अभूत् । चतुर्थे दिने प्राचार्यः बालवल्लभम् आहूय समाधानमकरोत् ।

एकदा अगरवाला-नामकः कश्चन शिक्षकः बहु विलम्बे सत्यपि कक्षां न प्राप्तवान् । सः शिक्षकः कार्यालये अन्यैः शिक्षकैः सह जल्पने व्यस्तः आसीत् । तेन असन्तुष्टः बालवल्लभः निर्णयमकरोत् यत्, ये शिक्षकाः वर्गं विलम्बेन प्राप्नुवन्ति, डाह्याभाई-द्वारा लिखितस्य गीतस्य गायनं कृत्वा तेषां विराधं कुर्मः इति । तदनुसारं सः गीतगायनं प्रारभत । तेन सह सर्वे विद्यार्थिनः उच्चस्वरेण गीतं गीतवन्तः । कार्यालये जल्पने मग्नः शिक्षकः तं गीतध्वनिम् अशृणोत् । धावन्-धावन् सः कक्षां प्रविष्टवान् । कश्चित् विद्यार्थी गीतगायने कुशलः आसीत्, तेनैव गीतं प्रारब्धमिति विचिन्त्य शिक्षकः तस्मै विद्यार्थिने अकुप्यत् । मध्ये बालवल्लभः अवदत्, “भोः ! यद्यपि भवान् विलम्बेन कक्षां प्राप्तवान्, तथापि एतस्मै किमर्थं कुप्यति ? भवतां विलम्बेन वयं किमर्थं रुदिमः ? वयं तु गीतमेव गायामः खलु ? अहमेव गीतस्याम्भमकरवम्” इति । सः शिक्षकः बालवल्लभं वर्गात् बहिः निर्गमनाय आदिष्टवान् । बालवल्लभः वर्गात् बहिः निर्गमनाय सर्वान् विद्यार्थिनः अक्षिणा सङ्केतमकरोत् । अकस्मात् सर्वे विद्यार्थिनः “हूहूहूहू” नादेन सह वर्गात् बहिः निर्गतवन्तः । द्वितीये दिनेऽपि कोऽपि वर्गं न प्रविष्टवान् । सर्वे विद्यार्थिनः एकस्वरेण उक्तवन्तः यत्, वल्लभस्य वर्गप्रवेशे सत्येव वयं वर्गं प्रवेशयिष्यामः । शिक्षकः प्राचार्यम् आहूतवान् । प्राचार्यः उक्तवान्, “वल्लभ ! शिक्षकात् क्षमां याचस्व” इति । बालवल्लभः प्रत्यवदत्, “भोः आचार्य ! भवतां न्यायस्तु यथा चौरः आरक्षकं दण्डयेत् तथास्ति । अहं किमर्थं क्षमां याचे ? शिक्षकः कार्यालये स्थित्वा जल्पनमग्नो भवेत् तस्मिन् अस्माकं कः दोषः ?” बहु प्रश्न-प्रतिप्रश्नपश्चात् प्राचार्यः सर्वान् वर्गं प्रवेशाय आदिष्टवान् ।

विद्यालये कश्चित् शिक्षकः वैश्यमानसः आसीत् । सः विद्यार्थिनः बलेन कथयति स्म यत्, मत्सकाशात् पुस्तक-अङ्किनी-लेखन्यादीनां क्रयणं कुर्वन्तु इति । प्रप्रथमं तु बालवल्लभः नम्रतया शिक्षकाय एवं मा करोतु इति न्यवेदयत् । परन्तु शिक्षकस्य हठाग्रहेण बालवल्लभः विद्यालये विरोधप्रदर्शनमकरोत् । तत् प्रदर्शनं षड्दिनं यावत् आसीत् । 
 
पेटलाद-ग्रामे अभ्यासं समाप्य ‘मेट्रिक’-पठनं युववल्लभः वडोदरा-महानगरे अकरोत् । ‘मेट्रिक’-पश्चात् युववल्लभस्य इच्छा तु विदेशं गत्वा उच्चशिक्षणप्राप्तेः आसीत् । परन्तु आर्थिकरीत्या अक्षमता तत्र बाधाऽऽसीत् । अतः सः धनार्जनस्य निर्णयमकरोत् । वाक्कीलस्य कार्ये बहु धनमासीदतः युववल्लभः न्यायशास्त्राभ्यासं चितवान् । वाक्कीलो भूत्वा धनार्जनं कृत्वा विदेशं गमिष्यामीति निर्णयमकरोच्च । न्यायशास्त्रस्य अभ्यासः यदा चलन् आसीत्, तदा युववल्लभं नेत्रविद्रधिः (Boil on eye) अभूत् । नेत्रविद्रधेः एकैव उपचारः भवति स्म यत्, नापितः स्वस्य दग्धलोहदण्डेन तं विद्रधिं निष्कासयति स्म । युववल्लभशरीरे दग्धलोहदण्डस्पर्शकरणे यदा नापितः सङ्कोचम् अनुभूतवान्, तदा युववल्लभः स्वयमेव दग्धलोहदण्डं हस्ते नीत्वा नेत्रविद्रधिं निष्कासितवान् ।

१९०० तमे वर्षे लोहपुरुषः 'डिस्ट्रिक्ट् प्लीडर'-परीक्षायाम् उत्तीर्णः अभूत् । तस्मिन् एव वर्षे सः वाक्कीलत्वेन धनार्जनस्य प्रारम्भमकरोत् । स्वतन्त्रस्वभावी युववल्लभः गोधरा-नगरे स्वस्य कार्यं प्रारभत । १९०२ तमे वर्षे सः बोरसद-ग्रामं गत्वा कार्यम् अकरोत् । कारणं बोरसद-ग्रामे स्थानिकजनैः सह स्वस्य भ्रातुः विठ्ठलस्य विवादः आसीत् । समयान्तरे तस्य विवादस्य निराकरणमभूत् । परन्तु विवादे निर्गते सत्यपि युववल्लभः भ्रात्रा सह कार्यं न कृतवान् । सः तत्रापि स्वतन्त्रेण कार्यमकरोत् । अमुकवारं तु उभौ भ्रातरौ पक्षापक्षयोः अभियोगे तर्कं यच्छन्तौ आस्ताम् । भ्रात्रोः मध्ये कोऽपि विवादः नासीत् । परन्तु स्वतन्त्रस्वभावी युववल्लभः स्वतन्त्रमेव कार्यं करोति स्म । स्वस्य कुशलतया, वाग्चातुर्येण, तर्केण च सः उत्तमवाक्कीलेषु अन्यतमः अभूत् ।

बोरसद-ग्रामे त्रीणि वर्षाणि वाक्कीलस्य कार्येण युववल्लभः प्रतिष्ठया सह धनार्जनमपि कृतवानासीत् । परन्तु अमुकवारं तेन अन्य 'बेरिस्टर्' इत्येतैः सह कार्यं करणीयं भवति स्म । अतः युववल्लभस्य मनसि 'बेरिस्टर्' भवितुम् इप्साऽऽसीत् । 'बेरिस्टर्'–पदस्य मानं, धनार्जनञ्च अधिकमासीत् । अतः सः इङ्ग्लैण्ड-देशे 'बेरिस्टर्' पठनाय निर्णयमकरोत्  । 'थोमस् कुक एण्ड सन्स्' संस्थया सह पत्रव्यवहारं प्रारभत युववल्लभः । सः तस्य लघुनाम वी.जे.पटेल इति लिखति स्म, तस्य भ्राता विठ्ठलोऽपि वी.जे.पटेल इति लिखति स्म । एवं पत्रव्यवहारस्य अन्तिमपत्रं विठ्ठलः प्राप्तवान् । सः युववल्लभम् उक्तवान्, अहं तु ज्येष्ठः अतः अहं प्रथमं विदेशं गच्छामीति । ज्येष्ठस्य आज्ञानुसारं सः विदेशगमनाय प्रतीक्षामकरोत् । विठ्ठलः यदा विदेशमगच्छत्, तदा तस्य परिवारस्य दायित्वमपि युववल्लभः अवहत्  ।

१८९३ तमे वर्षे युववल्लभः झवेरबा-नामिकया कन्यया सह विवाहं कृतवानासीत् । तयोः एका पुत्री, एकः पुत्रश्चासीत् । पुत्र्याः जन्म १९०३ तमे वर्षस्य 'एप्रिल'-मासे अभूत् । पुत्रस्य जन्म १९०५ तमस्य वर्षस्य 'नवम्बर्'-मासस्य अष्टाविंशतितमे दिनाङ्केऽभूत् । पुत्र्याः नाम मणीबेन, पुत्रस्य नाम डाह्याभाई आसीत् ।

लोहपुरुषस्य पत्न्याः उदरे ग्रन्थिः (Tumor) आसीत् । ग्रन्थिनिष्कासनाय उपचारः मुम्बई-महानगरे स्थिते कामा-नामके चिकित्सालये चलन् आसीत् । वैद्यः चिकित्सासमये उक्तावान् यत्, अहं पञ्चदशदिनपश्चात् शल्यक्रियां (Operation) करिष्ये इति । अतः युववल्लभः अभियोगाय न्यायालयं गतवान् आसीत् । परन्त्वत्र तस्य पत्न्याः स्वास्थ्ये शिथिले जाते सति, वैद्यः तत्कालमेव शल्यक्रियामकरोत् । शल्यक्रियापश्चात् युववल्लभस्य पत्न्याः स्वास्थ्यं सम्यक् आसीत् । परन्तु द्वितीये दिने तस्याः तस्याः मृत्युः अभूत् । पत्न्याः मृत्युः अभूत् इति दूरलेखः (telegram) युववल्लभेन न्यायालये अभियोगकाले एव प्राप्तः । दूरलेखं पठित्वा यद्यपि विचलितः अभवत्, तथापि स्वकर्तव्यं स्मृत्वा मानसिकदृढतां  प्राप्य सः पुनः अभियुक्तस्य रक्षण-तर्कान् प्रास्थापयत् । अभियोगस्य समाप्त्यनन्तरं सः मित्राणि दूरलेखं प्रादर्शयत्, उक्तवाञ्च, “अहं मनसा किञ्चिदपि शिथिलः अभविष्यं चेत्, अभियुक्तस्य मृत्योः आदेशोऽपि अभविष्यत् । अत्र युववल्लभस्य मानसिकदृढतायाः दर्शनं भवति । १९०९  तमस्य वर्षस्य 'जनवरी'-मास्य एकादशे दिनाङ्के युववल्लभस्य पत्न्याः यदा मृत्युः अभूत्, तदा तस्य वयः चतुस्त्रिंशत् वर्षमासीत् । कुटुम्बजनाः, मित्राणि च पुनर्विवाहार्थं बहु उक्तवन्तः । परन्तु युववल्लभः पुनर्विवाहं नाङ्गीकतवान् ।

१९१० तमस्य वर्षस्य 'अगस्त'-मासे युववल्लभः इङ्गलेण्ड-देशाय समुद्रमार्गेण यात्रां प्रारभत । प्रवासे एव सः सम्पूर्णं रोमन-न्यायशास्त्रम् (Roman Law) अपठत् । इङ्गलेण्ड-देशे यत्र युववल्लभस्य निवासः आसीत्, ततः मिडल-टैम्पल-ग्रन्थालयः विंशतिः (२०) कि.मी. दूरे आसीत् । धनाभावात् न्यायपुस्तकक्रयणेऽसमर्थः युववल्लभः प्रतिदिनं प्रातः नववादने ग्रन्थालयं गच्छति स्म, सायङ्काले षड्वादने गृहं प्रतिगच्छति स्म । अमुकवारं तु युववल्लभः दिने अष्टादशघण्टाः यावदध्ययनरतः भवति स्म ।

महता परिश्रमेण १९१३ तमस्य वर्षस्य 'फरवरी'-मासस्य त्रयोदशे दिनाङ्के युववल्लभः 'बेरिस्टर्' पदवीं प्राप्तवान् । इङ्ग्लेण्ड-देशात् मुम्बई-महानगरं प्राप्य ततः सः अहमदाबाद-महानगरं प्राप्तवान् । तदा स्वतन्त्रान्दोलनस्य कालः आसीत् । स्वतन्त्रान्दोलनस्य काले वाक्कीलाः सार्वजनिकक्षेत्रेषु परम्परानुगतं स्वयोगदानं यच्छन्ति स्म । अतः विठ्ठल-वल्लभौ देशसेवायाः यदा निर्णयमकुरुताम्, तदा झटिति विठ्ठलः वल्लभम् अवदत्, “अहं देशसेवां करिष्ये, त्वञ्च कुटुम्बसेवां कुरु” इति । एवं युवल्लभस्योपरि कुटुम्बस्य दायित्वम् आपतितम् । लोहपुरुषः कथयति, “ज्येष्ठस्य निर्णेयेन मया तु पापकर्म एव करणीयमभवत् । परन्तु भ्रातुः पुण्येऽपि मम योगदानमस्तीति चिन्तयन् अहं स्वमनसे सान्त्वनां यच्छामि स्म” इति ।

१९१३ तमे वर्षे विठ्ठलः मुम्बई-विधानसभायाः सदस्यः अभूत् । १९१५ तमे वर्षे गुजरातसभाद्वारा सञ्चालितायां मुम्बई-प्रेसिडन्सी-राजनैतिकसभायां लोहपुरुषः भागम् अवहत् । १९१३ तमे वर्षे अफ्रीका-देशात् पुनरागत्य महात्मना कोचरब-आश्रमस्य स्थापना कृताऽऽसीत् । महात्मा 'गुजरातक्लब' गत्वा 'गुजरातक्लब'-सदस्यानां सम्मुखं स्वविचारान् प्रकटयितुम् उद्युक्तः आसीत् । लोहपुरुषस्य मित्रं ठाकोर स्वजीवन्यां (Autobiography) उल्लिखत्, लोहपुरुषः तस्मिन् समये गान्धिविचारैः सम्मतः नासीत् । अतः सः 'ब्रिज' इति क्रीडायां सल्लग्नः आसीत् । अहमपि तेन सह स्थितः आसम् । सभां महात्मा यदा प्रविष्टवान्, तदाहं तं दृष्टुं उद्यतः अभवम् । सरदार ममोपरि व्यङ्ग्यमकरोत्, “अत्रैव तिष्ठ । एवं शौचालये स्वच्छे कृते, वस्त्रत्यागेन च स्वतन्त्रतां न प्राप्स्यामः वयम् । तस्मिन् समये स्वयं तस्य मनसि अपि चिन्तनं नासीत् यत् सः स्वयं भविष्ये महात्मनः विचाराणां परमपथिकः भविष्यतीति । तावत् पर्यन्तं लोहपुरुषस्य मनसि राजनीतिप्रवेशस्य विचारः नासीत् । ज्येष्ठस्य राजनैतिकसफलतया राजनैतिकक्षेत्रे लोहपुरुषः अपि आकर्षितः । अतः लोहपुरुषः स्थानीयजनसेवार्थं अहमदाबाद-महानगरस्य 'म्युनिसिपल्'-कार्यालयसदस्यत्वनिर्वाचने स्वनामाङ्कनम् अकरोत् । १९१७ तमे वर्षे लोहपुरुषः निर्विरोधम् (unopposed) अहमदाबाद-महानगरस्य दरियापुर-'म्युनिसिपल्-बोर्ड्' इत्यस्य सदस्यः अभूत् । १९१७ तमे वर्षे एव लोहपुरुषः गुजरातसभायाः अध्यक्षः अभूत् । १९२४ तमे वर्षे यदा पुनः 'म्युनिसिपल्-बोर्ड' इत्यस्य निर्वाचनम् अभूत्, तदा लोहपुरुषः 'म्युनिसिपल्-बोर्ड' इत्यस्य अध्यक्षत्वेन पुनः चितः । लोहपुरुषस्य अध्यक्षतायां गुजरातसभायाः प्रथमसम्मेलनं गोधरा-नगरे अभूत् । तस्यां सभायां महात्मा अपि उपस्थितः आसीत् । तत्र महात्मा-लोहपुरुषौ स्वविचाराणाम् आदान-प्रदानम् अकुरुताम् । सभायाः सम्मुखं द्वे समस्ये आस्ताम् । प्रथमा 'बेगार'-(Forced Labor without payment) प्रथायाः उन्मूलनं कथं भवेत् । द्वितीया तु खेडामण्डलस्य कृषकाणां पीडायाः निवारणं कथं भवेत् ।

तस्मिन् समये कोऽपि सर्वकारस्याधिकारी यदि कमपि ग्रामं गच्छति स्म, तर्हि 'बेगार'-इति धनं बलात् स्वीकरोति स्म । अतः गुजरातसभाध्यक्षः लोहपुरुषः तस्याः प्रथायाः विरोधमकरोत् । सः 'कमिश्नर् पैट्' इत्येनं पत्रत्रयेण न्यवेदयत् यत् “एषा प्रथा निरस्ता भवेदि”ति । परन्तु 'पैट्' तस्य निवेदनं नाङ्गीकृतवान् । चतुर्थे पत्रे लोहपुरुषः अलिखत्, भवान् स्वयमेव एतां प्रथां निरस्तां न करिष्यति चेत् जनाः एव परिपत्रेण त्वं सूचयिष्यन्ति ।

खेडामण्डलस्य कृषकाणां शोषणमासीत् । अतः सत्याग्रहस्य विचारः लोहपुरुषेण कृतः  । दशवर्षाणि यावत् अतिवृष्टिकारणेन, आनावृष्टिकारणेन च यद्यपि सस्योत्पादनं न जातमसीत्, तथापि सर्वकारेण करः (Tax) बलात् स्वीक्रियते स्म । अस्य विरोधे सरदार आन्दोलनमकरोत् । १९१८ तमस्य वर्षस्य 'अप्रैल'-मासस्य द्वादशे दिनाङ्के 'कमिश्नर् पैट्' कृषकेभ्यः प्रत्यादेशं (warning) अयच्छत्, “कोऽपि गान्धि-वल्लभयोः अनुसरणं करिष्यति चेत् तस्य जीवने महान्तः दुःखाः एव भविष्यन्ति” इति । एतस्योत्तरं दातुं सरदार १९१८ तमस्य वर्षस्य 'अप्रैल'-मासस्य अष्टादशे दिनाङ्के कृषकान् सम्बोद्ध्य भाषणं कृतवान् । लोहपुरुषः उक्तवान्, “अस्माकं विरोधस्य मुख्योद्देशः जनेषु व्याप्तस्य सर्वकारं प्रति भयस्य उन्मूलनमस्ति । अस्माकं विरोधे धर्मस्यांशाः अधिकाः सन्ति । खेडामण्डलस्य नाम भारतीयस्वतन्त्रतायाः इतिहासे प्रप्रथमक्रमाङ्के भविष्यति । आभारतं सद्यः अस्माकं चर्चां करोति । अस्माकम् आन्दोलनं भारतस्वतन्त्रतायाः शिलान्यासवदस्ती”ति ।

'अप्रैल'-मासस्य पञ्चविंशतितमे दिनाङ्के सर्वकारेण अधिकारिणः आदिष्टाः, “ये कृषकाः करं दातुम् असमर्थाः सन्ति, तेभ्यः करं मा स्वीकुर्वन्तु” इति । एतादृशसफलतायाः पश्चात् महात्मा-वल्लभौ गुर्जरसमाचारपत्रेषु स्वनिवेदनं दन्तवन्तौ । तौ उक्तवन्तौ, “खेडामण्डलस्य जनानां दृढमनोबलेन समग्रस्य भारतस्य ध्यानाकर्षणं कृतमस्ति । जनप्रयासेनैव आन्दोलनं सफलमभूत् ।

लोहपुरुषस्य प्रशंसायां महात्मा अवदत्, “सरदार प्रप्रथमं मम सम्मुखं यदा आगतः, तदाऽहम् अचिन्तयं कीदृशः एषः व्यक्तिः इति । परन्तु तस्य नैकट्येन मम ज्ञानम् अभूत् यत्, अस्य तु महती आवश्यकता अस्ति देशाय इति । अहं चिन्तयन् आसं कः अस्माकम् उपसेनापतिः भवितुमर्हति इति । तदा मम मनसि लोहपुरुषस्यैव नाम स्फुरितम् । सरदार यदि मया सह नाभविष्यत्, तर्हि यानि कार्याणि साधितानि, तानि अशक्यानि एवाभविष्यन्” इति 
।

सरदार 'रोलट'-नियमविषये अभाषत्, “एषः नियमः व्यक्तिस्वतन्त्रतायाः विरोधी अस्ति । सरदार १९१९ तमस्य वर्षस्य 'अप्रैल'-मासस्य षष्ठे दिनाङ्के अहमदाबाद-महानगरे 'रोलट'-नियमविरोधियात्रां प्रारभत । ततः आङ्ग्लाः 'रोलट'-विरोधिसभायां पञ्जाबराज्ये नरसंहारम् अकुर्वन् (यत्, जलियावाला-बाग-हत्याकाण्ड इति कुख्यातः) । अतः १९२० तमस्य वर्षस्य ‘मई’-मासस्य पञ्चदशदिनाङ्के महात्मना निर्धारितं यत् असहयोगान्दोलनं भारतस्वतन्त्रायाः एक एव मार्गः अस्ति इति । असहयोगान्दोलनस्य निर्णयः जनाः एव कुर्वन्तु इति उद्देश्येन गुजरातराजनैतिकसभायाः आयोजनं कोङ्ग्रेस-पक्षेण कृतमासीत् । तत्र सरदार अवदत्, “पञ्जाबराज्ये यः नरसंहारः अभूत्, तेन देशस्य स्थितिः गभीरा अस्ति । अतः असहयोगान्दोलनस्य विषये जनाः एव निर्णयं कुर्वन्तु । साम्प्रतं ये युवानः सन्ति, ते एव एतादृशम् अपमानं सोढुम् न इच्छन्ति चेत् भविष्यस्य युवानः तु एतादृशम् अपमानं कथं सोढुं शक्ष्यन्ति ? तेषामपि अस्मत्सु अधिकारोऽस्ति । वयं तेषां न्यासिनः (Trusties) स्मः । वयं तेभ्यः एतादृशस्य अपमानस्य जीवनमेव परम्परया दद्मः चेत् अस्माकं जीवनस्य को वा लाभः” ? एवं बहुषु स्थलेषु अनेकानि भाषणानि दत्तानि लोहपुरुषेण । १९२० तमस्य वर्षस्य 'अगस्त'-मासस्य प्रथमे दिनाङ्के असहयोगान्दोलनस्य घोषणा कृता । १९२१ तमस्य वर्षस्य 'फरवरी'-मासस्य पञ्चमे दिनाङ्के 'चोराचौरी'-काण्डे जाते सति द्वादशे दिनाङ्के महात्मा आन्दोलनम् अस्थगयत् । ततः महात्मनः कारावासोऽपि अभूत् । आन्दोलनस्य स्थगनेन, महात्मनः कारावासेन च जनेषु महन्निराशायाः भावः उद्भूतः । जननिराशां दृष्ट्वा सरदार अवदत्, “भवन्तः महात्मनः अहिंसा-प्रेम-सत्यादीनां यदि समर्थनं कुर्वन्ति, तर्हि तस्य एतान् विचारान् हृदि निधाय अहिंसामार्गेण असहयोगान्दोलनाय निरन्तरं कार्यं कुर्वन्तु ।

१९२३ तमे वर्षे सरदार महात्मना उद्बोधितस्य असहयोगान्दोलनमहत्वस्य हार्दं ध्वजसत्याग्रहमाध्यमेन भारतीयजनानां सम्मुखम् अस्थापयत् । १९२३ तमस्य वर्षस्य 'मार्च'-मासस्य अष्टादशे दिनाङ्के महात्मनः कारावासस्य एकवर्षं जातमासीत् । तस्मिन् दिने नागपुर-महानगरे सुन्दरलाल-महाभागस्य नेतृत्वे राष्ट्रियध्वजेन सह पदयात्रायाः आयोजनमासीत् । पदयात्राकाले एव सुन्दरलाल-महाभागं बन्दिमकरोत् सर्वकारः । तस्य षण्मासस्य कारावासः अभूत् । ‘मई’-मासस्य प्रथमे दिनाङ्के नागपुर-महानगरे आङ्ग्लाः १४४ नियमस्य घोषणां कृतवन्तः । इत एव प्रारम्भः जातः नागपुर-महानगरस्य ध्वजसत्याग्रहस्य । सरदार ध्वजसत्याग्रहस्य भागो भविष्यतीति निर्णयः कोङ्ग्रेसकार्यसमित्या कृतः ।

सरदार अपि नागपुरे पदयात्रादिकम् अकरोत् । सः जनान् उद्दिश्य अवदत्, “मित्राणि ! अस्माकम् एतत् आन्दोलनं भविष्ये गौरवपूर्णेतिहासरूपेण जनमनसि भविष्यति । शत्रुद्वारा ध्वजभावनाविषये मिथ्याः वार्ताः प्रसार्यन्ते । परन्तु तेषां मिथ्यावचनस्य विश्वासं मा कुर्वन्तु । महात्मनः कथनानुसारं सत्य-अहिंसा-पराक्रमादयः एव अस्माकं भारतीयसंस्कृतेः मूलाधाराः सन्ति । भारतस्वतन्त्रतायै एतेषाम् एवावश्यकतास्ति । एषः ध्वजः तेषां मूलाधाराणां प्रतीकः अस्ति” ।

सार्धत्रिवर्षं यावत् तत् आन्दोलनं अभूत् । ततः आन्दोलनस्य सफलतायाः घोषणा कृता कोङ्ग्रेस-पक्षेण । अस्मिन् आन्दोलने डा. राजेन्द्र प्रसाद अपि भागम् अवहत् । डा. राजेन्द्र प्रसादः एवं सरदार अनेन आन्दोलनमाध्यमेन परममित्रे अभवताम् । डा. राजेन्द्र प्रसादः स्वस्य जीवन्याम् (Autobiography) अलिखत्, “१९२३ तमे वर्षे नागपुर-महानगर-ध्वजसत्याग्रहे अहं लोहपुरुषस्य नैकट्यं प्राप्तवान् । एषः गौरवपूर्णः विषयोऽस्ति तथा मम विशेषाधिकारस्य परिचयः अस्ति । वल्लभस्योपरि ज्येष्ठभ्रातृत्वेन मम विशेषाधिकारः आसीत् । आजीवनम् अहं लघुभ्रातरं विहाय अन्यरूपेण तं न दृष्टवान्” ।

परतन्त्रे भारते गुजरातराज्ये खेडामण्डलस्य दक्षिणे बोरसदमण्डलम् आसीत् । तस्मिन् मण्डले द्वौ लुण्ठकौ आस्ताम् । बाबर-अली-नामकौ लुण्ठकौ जनान् बहु पीडयन्तौ आस्ताम् । सूर्यास्ते जाते सति कोऽपि गृहात् बर्हिर्निगन्तुं साहसं न करोति स्म । तयोः रक्षणं भवतु इति आवेदनम् आरक्षककेन्द्राय अप्रेषयन् जनाः । परन्तु जनरक्षणाय ये आरक्षकाः नियुक्ताः आसन्, तेषां वेतनादीनां भारः स्थानिकजननामुपरि आपतितः । जनानाम् एतादृशीं स्थितिं दृष्ट्वा सरदार सर्वकारनीतेः विरोधमकरोत् । सः उक्तवान्, “लुण्ठकाः तु मार्गात् भवतां धनं लुण्ठयित्वा नयन्तः आसन् । परन्तु आरक्षकरूपिणः एते लुण्ठकाः भवतां गृहात् धनं लुण्ठयित्वा गच्छन्तः सन्ति । अतः भवन्तः एव निर्णयं कुर्वन्तु, लघुकष्टनिवारणाय महतः कष्टस्याह्वानं कियत् उचितमस्ति ? अहं तु कथयामि आरक्षकेभ्यः करं मा यच्छन्तु । अनेन न केवलं धनलाभः भविष्यति अपि तु स्वमानस्य लाभोऽपि भविष्यति” ।
 
बोरसद-सत्याग्रहः सार्धत्रिमासं यावत् अभूत् । लोहपुरुषस्य नेतृत्वे स्थानिकजनानां साहसेन आरक्षकनियुक्त्यर्थं स्वीक्रियमाणः दण्डात्मकः करः १९२४ तमस्य वर्षस्य 'जनवरी'-मासस्य सप्तमे दिनाङ्के स्थगितः । लुण्ठकेभ्यः जनरक्षणाय अधिकाः आरक्षकाः प्रेषिताश्च । एवं बोरसद-सत्याग्रहस्य समाप्तिः अभूत् ।

विनोबा भावे-महापुरुषस्य मते भारतीयेतिहासे लोहपुरुषस्य अमरत्वस्य बहुनि कारणानि सन्ति । परन्तु तेषु मुख्ये द्वे कारणे स्तः । एकं तु 
बारडोली-सत्याग्रहः (१९२८), अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम वयं गर्वेण वदामः । 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः ।

बारडोलीमण्डलस्य जनानां स्वभावं, चारित्र्यञ्च दृष्टवैव महात्मा १९२२ तमे वर्षे असहयोगान्दोलनस्य घोषणां कृतवान् आसीत् । परन्तु गोरखपुर-महानगरे 'चौरीचोरा'-काण्डे जाते सति महात्मा तस्यान्दोलनस्य स्थगनम् अघोषयत् । पूर्वं महात्मना या असहयोगान्दोलन-नामक-जनक्रान्तिः स्थगिता आसीत्, १९२८ तमे वर्षे लोहपुरुषेण सा पुनरारब्धा ।

बारडोलीमण्डले १८६५ तमे वर्षे आङ्ग्लैः प्रप्रथमं करः निर्धारितः आसीत् । १८९५-९६ वर्षे तस्य करस्य राशिं वर्धयित्वा नवीनः करः १०.५ प्रतिशतं (१०.५ %) निर्धारितः । प्रति त्रिंशत् वर्षे करराश्यां वृद्धिः भवति स्म । १९२७-२८ वर्षे करवर्धनस्य योजना आसीत् । बारडोलीमण्डले १९२७ तमस्य वर्षस्य 'जुलाई'-मासस्य नवदशे दिनाङ्के १३.९७ प्रतिशतं करवृद्धिः अभूत् । १९२७ तमस्य वर्षस्य आयव्ययवृतं (Budget) यदा मुम्बई-धारासभायां प्रस्थापितं सर्वकारेण, तदा तस्य विरोधः कृतः सर्वैः । परन्तु न कोऽपि जनानुकूलः निर्णयः अभूत् । अतः बारडोली-सत्याग्रहस्य आरम्भोऽभूत् ।

आरम्भे तु मण्डलवासिनः आङ्ग्लेभ्यः न्यायसम्बद्धनिवेदनानि दत्तवन्तः । परन्तु आङ्ग्लैः सह वार्तालापे विफले सति सर्वे लोहपुरुषाय नेतृत्वं प्रदानाय आमन्त्रणं दत्तवन्तः । नेतृत्वग्रहणात् पूर्वं सरदार कोङ्ग्रेस-पक्षस्य विश्वस्तजनान् बारडोलीमण्डलम् अप्रेषयत् । ते आदिष्टाः यत्, “बारडोलीमण्डलं गत्वा पश्यन्तु यत् तत्रस्थाः कृषकाः सत्याग्रहस्य पीडां सोढुं समर्थाः सन्ति न वा” ? ततः सरदार सत्याग्रहनेतृत्वस्य दायित्वम् अवहत् ।
 
सत्याग्रहस्य सम्पूर्णदायित्वं लोहपुरुषस्यासीदतः सः १९२८ तमस्य वर्षस्य 'फरवरी'-मासस्य चतुर्थे दिनाङ्के बारडोलीमण्डलस्य कृषकप्रतिनिधीनां सम्मेलनमकरोत् । सम्मेलने नवसप्ततिः प्रतिनिधयः भागम् अवहन् । लोहपुरुषः दृष्टवान् यत्, केचन कृषकाः किङ्कर्तव्यमूढाः आसन् । अतः स्पष्टवक्ता सरदार उक्तवान्, “भवन्तः यत् किमपि कर्तुम् इच्छन्ति, तदर्थं पूर्वं शान्तमनसा चिन्तयन्तु । अहं तादृशं कार्यं न करोमि, यत्र सारल्यं भवति । मम सर्वाणि कार्याणि सङ्कटैः परिपूर्णानि, सङ्कटसम्पन्नानि वा भवन्ति । अतः ये सङ्कटान् स्वगृहम् आह्वयितुं तत्पराः सन्ति, तैः सह एवाहं भविष्यामि” इति ।

सर्वेषां तत्परतायां सत्याम् आन्दोलनस्य कार्यं सरदार प्रारभत । सः प्रप्रथमं तु न्यायरीत्या समस्यायाः निवारणं कर्तुं दृष्टवान् । अतः १९२८ तमस्य वर्षस्य 'फरवरी'-मासस्य षष्ठे दिनाङ्के सः मुम्बई-गवर्नर् जनरल् 'सर लेस्ली विल्सन' इत्येनं पत्रम् अलिखत् । पत्रे सः न्यायान्याययोः भेदं प्रास्थापयत् । सः लिखितवान्, “सर्वकारस्य करनिर्धारणस्य पद्धतिः एव दोषपूर्णाऽस्ति” । सर्वकारात् सन्तोषप्रदोत्तरस्याभावात् सर्वकाराय करं मा ददातु इति सरदार कृषकेभ्यः न्यवेदयत् । सः उक्तवान्, “स्मरन्तु सर्वे, कदाचित् अस्यान्दोलनस्य प्रारम्भानन्तरम् अस्माकं पराजयः जातश्चेत्, देशस्य महती मानहानिः भविष्यति । सर्वकारस्य पार्श्वे युद्धसाधनानि सन्ति । अस्माकं पार्श्वे सत्य-अहिंसा-साहसादयः सन्ति । मम विश्वासोऽस्ति यत्, धर्मपथेन अन्यायस्य विरोधं प्रजा कुर्यात् चेत् प्रजायाः विरोधस्य सम्मुखं महासत्ता अपि निश्चयेन नशिष्यति” ।

सरदार जानाति स्म यत्, सत्याग्रहस्य साफल्याय दृढसङ्घटनस्य आवश्यकता अस्ति । अतः सः मण्डलं पञ्चविभागेषु व्यभजत् । एकैकस्य विभागस्य एकैकः विभागपतिः आसीत् । मण्डले सत्याग्रहमण्डपाः स्थापिताः । सर्वेषां मण्डपानां द्वौ प्रमुखकार्यकर्तारौ आस्ताम् । बारडोली-मण्डले सत्याग्रहस्य घोषणासमनन्तरम् कस्यचित् प्रकाशनविभागस्य स्थापना कृता । सत्याग्रहसम्बद्धानां येषां वृत्तान्तानाम् आवश्यकता भवति स्म, तेषाम् अस्य प्रकाशनस्य 'सत्याग्रह खबर पत्र', 'सत्याग्रह पत्रिका' इत्यनयोः वर्तमानपत्रयोः उल्लेखः भवति स्म । तयोः वर्तमानपत्रयोः विनामूल्यं वितरणं भवति स्म ।

सरदार शनैः शनैः बारडोली-सत्याग्रहं राष्ट्रियस्तरीयम् अकरोत् । ‘मई’-मासस्य द्वाविंशतितमे दिनाङ्के मुम्बई-धारासभायां बारडोली-सत्याग्रहसमर्थने अष्ट सदस्याः त्यागपत्रम् अयच्छन् । ततः सर्वकारस्य लक्ष्यम् आसीत् यत्, बारडोली-सत्यग्रहसङ्घटनस्य विभाजनं भवेदिति । अतः सर्वकारेण साप्रदायिक-विभाजनस्य विचारः कृतः । सर्वकारेण निर्दिष्टं, सामूहिकानाम् आक्षेपाणां निर्मूलनमसम्भवमस्ति । अतः एकैकः कृषकः स्वाक्षेपं कुर्यात् । परन्तु सरदार तत् निरस्तमकरोत् । १९२८ तमस्य वर्षस्य 'जून'-मासस्य द्वादशे दिनाङ्के समग्रे भारते “बारडोली-दिवस”स्य आचरणं भवतु इति घोषणा कृता । तस्मिन् दिने सर्वे स्वस्य आपण-वृत्ति-कार्याणि त्यक्त्वा विरोधप्रदर्शनम् अकुर्वन् ।

सर्वकारेण सह सुरत-महानगरे मन्त्रणा असफला अभूत् । 'जुलाई'-मासस्य त्रयोविंशतितमे वर्षे दिनाङ्के 'गवर्नर' उक्तवान्, “बारडोली-सत्याग्रहिणां पार्श्वे चतुर्दशदिनानाम् एव समयः अस्ति । मण्डलजनाः सर्वकारेण निर्धारितनियमैः सह यदि सम्मताः न भविष्यन्ति, तर्हि सर्वकारः बलप्रयोगं करिष्यति” ।
 
सरदार अवदत्, “'गवर्नर' इत्यस्य शब्दाडम्बरस्य विश्वासं मा कुर्वन्तु भवन्तः ! 'गवर्नर' अनुसारं करनियमः सामान्यः अस्ति । परन्तु जनानां, सत्याग्रहिणाञ्च दृष्ट्यां करनियमः न्याययुक्तः, अन्याययुक्तः वा ? इति प्रश्नोऽस्ति” ।

'गवर्नर जनरल्' लेस्ली विल्सन इत्यस्य मिथ्याजल्पनेन न कोऽपि सत्याग्रही प्रभावितः । एवं सम्पूर्णदेशस्य समर्थनं सत्याग्रहिभिः सह आसीत् । सर्वकारस्य स्वमानं नष्टम् अभूत् । सरदार बारडोली-सत्याग्रहस्य करसम्बद्धनियमानां निरस्तीकरणे सफलः जातः । 'अगस्त'-मासस्य एकादशे दिनाङ्के बारडोली-सत्याग्रहस्य सफलतानन्तरं सरदार अवदत्, “ईश्वरकृपया अस्माकं प्रतिज्ञा सफला अभूत् । एषः विजयः बारडोलीमण्डलस्य जनानां, मम सहकर्तॄणाञ्चास्ति” ।

बारडोली-सत्याग्रहविजयानन्तरं 'यङ्ग इण्डिया' पत्रे महादेव देसाई अलिखत्, “बारडोली-सत्याग्रहः सत्याहिंसयोः विजयः अस्ति । एषः सत्याग्रहः लोहपुरुषस्य तृतीयः विरामः अस्ति । नागपुरस्य विजयः सैद्धान्तिकाधिकारस्य विजयः आसीत् । बोरसदमण्डलस्य विजयः स्थानिकविजयः आसीत् । बारडोली-सत्याग्रहः तु अद्वितीयः विजयः अस्ति, कारणं तेन सर्वकारस्यैव न अपि तु सम्पूर्णदेशस्य ध्यानाकर्षणं कृतमस्ति” ।

एतस्मिन् वर्षे लोहपुरुषस्य बहुवारं कारावासयात्रा अभूत् । १९३० तमस्य वर्षस्य 'जुलाई'-मासस्य एकत्रिंशत्तमे दिनाङ्के बाळ गङ्गाधर टिळक-महाभागस्य जयन्त्यवसरे पदयात्रायाः आयोजनम् आसीत् । परन्तु सर्वकारेण पदयात्रायै अनुमतिः न दत्ता । अतः सर्वे बोरीबन्दर-रेलस्थानके स्थित्वा विरोधमकुर्वन् । ततः सर्वकारेण सरदार-मालवीय-दौलतरामादयः बन्दिनः कृताः । सर्वेषां मासत्रयस्य कारावासः अभूत् ।

'नवम्बर'-मासस्य पञ्चमे दिनाङ्के सर्वकारेण सरदार मुक्तः कृतः । परन्तु पुनः सरदार सर्वकारविरोधिभाषणं कृत्वा 'दिसम्बर'-मासे कारावासं प्रत्यगच्छत् । तस्मिन् उत्तेजके भाषणे सरदार अवदत्, “मम वाण्याः उपरि कस्यापि शासनं नास्ति । अहं यद्यपि कारागारे बन्दी भवामि, तथापि मम सन्देशान् सर्वे देशवासिनः प्राप्स्यन्ति, अनुसरिष्यन्ति च” । आङ्ग्लशासकेषु अस्य भाषणस्य भयः एतादृशः आसीत् यत्, ते अन्यान् काल्पनिकारोपान् लोहपुरुषस्योपरि आरोपयन् । आहत्य नव-मासस्य कारावासः अभूत् । एवं बहुवारं लोहपुरुषस्य कारावासयात्रा अभवत् ।

१९३१ तमस्य वर्षस्य 'मार्च'-मासस्य एकत्रिंशत्तमे दिनाङ्के कोङ्ग्रेस-पक्षस्य अखिलभारतीयाधिवेशनमभूत् । तत्र सरदार वल्लभभाई पटेल कोङ्ग्रेस-पक्षस्य अध्यक्षत्वेन चितः । बारडोली-सत्याग्रहस्य सरदार भारतस्य सरदार अभूत् ।

प्रथमं 'गोमल'-सम्मेलनं १९३० तमस्य द्वादशे दिनाङ्के अभूत् । तत्र यद् समाधानं प्राप्तमासीत्, तत् गान्धि-इर्बिन्-समाधाननाम्ना प्रख्यातमस्ति । परन्तु द्वितीयं गोमल-सम्मेलनं लोहपुरुषस्य आध्यक्षे अभूत् । १९३१ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चविंशतितमे दिनाङ्के शिमला-नगरे सम्मेलनमभूत् । सम्मेलनपश्चात् महात्मा लण्डन-नगरं गतवान् । महात्मनः अनुपस्थितौ सर्वकारेण गान्धि-इर्बिन्-समाधानस्य उल्लङ्घनं प्रारब्धम् । तस्य विरोधेन सरदार-नेहरू इत्यादीनां नेतॄणां कारावासोऽभूत् । ततः महात्मा भारतं पुनरागतः । तस्यापि कारावासोऽभूत् । एवं भारतस्य प्रतिष्ठितनेतारः येरवडा-कारावासे बन्दिनः आसन् ।

सरदार षोडशमासं यावत् (१९३२ 'जनवरी'-तः १९३३ ‘मई’-पर्यन्तं) महात्मना सह येरवडा-कारावासे आसीत् । सः कालः मम जीवनस्य महत्वपूर्णः कालः इति लोहपुरुषः वदति स्म । पुरा साबरमती-कारावासे लोहपुरुषेण धुम्रपानं त्यक्तमासीत्, येरवडा-कारावासे चाय-पेयस्य त्यागः कृतः ।

१९३२ तमस्य वर्षस्य ‘मई’-मासे सर्वकारेण महात्मा मुक्तः कृतः । कारावासात् बहिः आगत्य सः सरदारसम्बद्धलेखम् अलिखत्, “कारावासे लोहपुरुषेण सह समययापनस्य यम् अवसरम् अहं प्राप्तवान्, सः मम सौभाग्यमेवास्ति । तस्य अद्वितीयशूरवीरतायाः, ज्वलन्तदेशभक्त्याः विषये तु मम ज्ञानमासीत् । परन्तु तस्य पार्श्वे यत् मातृहृदयमस्ति, तस्यानुभवम् अहं तस्योपवासेन ज्ञातवान् । सः मह्यं यत् मातृप्रेम अयच्छत्, तेन मम मातुः स्मरणम् अभूत् । बारडोली-खेडादिसत्याग्रहेषु यथा कृषकाणां सः चिन्तां कुर्वन् आसीत्, तथा ममापि अकरोत् । तं कालम् अहं न विस्मरिष्ये” ।

१९३४ तमस्य वर्षस्य 'जुलाई'-मासस्य चतुर्दशे दिनाङ्के सरदार मुक्तोऽभूत् । सरदार कारावासे यदा आसीत्, तदा तस्य मातुः, ज्येष्ठभ्रतुः च देहान्तः अभूत् । १९३२ तमस्य वर्षस्य 'नवम्बर'-मासस्य प्रथमे दिनाङ्के मातुः, १९३३ तमस्य वर्षस्य 'अक्तूबर'-मासस्य विंशतितमे दिनाङ्के ज्येष्ठभ्रातुः वीरविठ्ठलस्य देहान्तः अभूत् ।

प्रारम्भिके काले कोङ्ग्रेस-पक्षस्य नीतिः आसीत् यत्, “देशीयराज्यानां प्रजार्थं किमपि न कर्तव्यम् । कारणं देशीयराज्यजनेषु देशभावनायाः उदयः यदा भविष्यति, तदा वयं तेभ्यः कार्यं करिष्यामः” इति । परन्तु १९३४ तमस्य वर्षस्य भारतीयशासनाधिनियमेन परिस्थितिः परिवर्तिता । तस्मिन् अधिनियमे ब्रिटिश-प्रान्तेषु यानि राज्यानि आसन्, तानि एव स्वराज्यस्य अधिकारयोग्यानि उद्घोषितानि । अनेन देशीयराज्यानि वञ्चितानि अभुवन् । अतः देशीयराज्यजनैः कोङ्ग्रेस-पक्षः प्रेरितः । ब्रिटिशराज्यवत् देशीयराज्येभ्यः अपि स्वराज्यस्थापनायै चिन्तनीयम् इति । ततः कोङ्ग्रेस-पक्षेण स्वनियमेषु परिवर्तनं कृतं तथा स्वोद्देश्येषु देशीयराज्यानामपि स्वराज्यस्य आन्दोलनं प्रारब्धम् । तस्मिन् आन्दोलने मैसूरु-राजकोट-भावनगरादीनां समस्यानां निवारणमभूत् ।

१९४१ तमस्य वर्षस्य 'दिसम्बर'-मासस्य सप्तमे दिनाङ्के विश्वयुद्धे जपानदेशोऽपि अयुद्धत् । युद्धसमये जपान-देशः एशियाखण्डस्य देशेषु आक्रमणमकरोत्। शनैः शनैः जपान-देशस्य सेना भारतस्य समीपस्थबर्मादेशस्योपरि आधिपत्यमकरोत् । एवं भारत-देशे अपि युद्धस्थितिः उद्भूता । १९४० तमे वर्षे युद्धसम्बद्धप्रस्तावस्य विरोधं कृत्वा महात्मा कोङ्ग्रेस-पक्षात् भिन्नः जातः आसीत् । परन्तु ततः सः उक्तावान्, “तत्र मम विरोधः मम महान् दोषः आसीत्” ।

बारडोली-सत्यग्रहस्यानुभवेन सरदार तु ज्ञातवान् आसीत् यत्, देशाय कृत्रिमशान्त्याः आवश्यकता नास्ति । अतः सः अवदत्, “हिंसाऽहिंसयोः कथनं तु सद्यः विस्मरणीयमेव । सद्यः भारतं युद्धस्थितेः समीपमस्ति । गतपञ्चाशत् वर्षेषु देशः काल्पनिकशान्त्यां स्वजीवनं यापयन् अस्ति । अतः देशजनैः अशान्त्याः भयः न कर्तव्यः । युद्धं न केवलं देशद्वयोः मध्ये अपि तु अन्येषां समीपस्थानां देशानामुपरि अपि आपतति ।

ततः सरदार करमसद-ग्रामे अवदत्, “अहं जातिवादं विस्मृतवान् अस्मि । आभारतं मम ग्रामोऽस्ति । अष्टादशवर्णजनाः मम बन्धवाः सन्ति । निम्नकुलः-उच्चकुलः, निम्नजातिः-उच्चजातिः सर्वं विस्मरन्तु” ।

पूर्वं बहुवारं स्वराज्यस्य घोषणा कृता आसीत् । परन्तु आङ्ग्लाः भारतं त्यक्त्वा गच्छन्तु इति न कोऽपि उक्तवान् आसीत् । लोहपुरुषादयः कोङ्ग्रेस-पक्षस्य नेतारः भारतस्वतन्त्रतायाः स्वप्नं पश्यन्तः आसन् । युद्धपरिस्थित्यां महात्मनः विचराः अपि परिवर्तिताः । १९४२ तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे दिनाङ्के 'हरिजन' पत्रिकायां महात्मा अलिखत्, “भारतवर्षे विद्यमानानां ब्रिटिशजनानां कारणात् जपान-देशः भारतस्योपरि अपि आक्रमणं कर्तुं उद्युक्तः अस्ति । अतः भारतस्य वास्तविकसुरक्षाम् उद्दिश्य आवश्यकता अस्ति यत्, आङ्ग्लाः तत्कालमेव भारतं त्यक्त्वा गच्छेयुः” । लोहपुरुषस्य मतम् आसीत्, “एतत् युद्धम् अधिककालं यावत् न भविष्यति । अस्य पूर्णाहुतिः शीघ्रातिशीघ्रं भविष्यति । अतः जपानसैनिकानां भारतप्राप्तिपूर्वमेव आङ्ग्लाः भारतं त्यक्त्वा गच्छेयुः तथा अस्माभिः चिन्तनीयम्” । ततः १९४२ तमस्य वर्षस्य 'अगस्त'-मासस्य ७-८ दिनाङ्कयोः मुम्बई-महानगरे अखिलभारतीयकोङ्ग्रेसमहासमित्याः सम्मेलनमासीत् । तत्र 'भारत छोडो' प्रस्तावः अङ्गीकृतः ।

बहवः कोङ्ग्रेस-पक्षस्य विरोधमकुर्वन् । अतः १९४२ तमस्य वर्षस्य 'जुलाई'-मासस्य षोडशे दिनाङ्के सरदार अवदत्, “विदेशेषु सर्वकारेण प्रचारः कृतः अस्ति यत्, कोङ्ग्रेस-पक्षेण सह कोऽपि नास्ति । नवकोटिः यवनाः, सप्तकोटिः हरिजनाः, सप्तकोटिः राजशासिताः जनाः, 'रेडीकल-डेमोक्रेटिक-कम्युनिष्ट'-जनाः कोङ्ग्रेस-पक्षेण सह न सन्ति । सर्वे तस्य विरोधं कुर्वन्तः सन्ति । सर्वे यदि कोङ्ग्रेस-पक्षस्य विरोधं कुर्वन्ति, तर्हि सर्वकारः भयभीतः किमर्थं दृश्यते ? तेन तु शान्त्या कोङ्ग्रेसपक्षस्य विरोधः द्रष्टव्यः खलु ? सत्यता तु इदम् अस्ति यत्, यावत्पर्यन्तं कोङ्ग्रेस-पक्षः सर्वेषां भारतीयानां मनसि स्वतन्त्रताबीजस्य वपनं न करिष्यति, तावत्पर्यन्तं आङ्ग्लाः एवमेव मिथ्यां प्रसारयिष्यन्ति” ।

१९४२ तमस्य वर्षस्य 'अगस्त'-मासस्य नवमे दिनाङ्के आङ्ग्लाः महात्मा-सरदार इत्यादीन् नायकान् कारावासं प्रेषितवन्तः । ततः देशे निर्वाचनस्य (Election) समयः आगतः । निर्वाचिने कोङ्ग्रेस-पक्षेण एसेम्बली-स्थानेषु सप्तपञ्चाशत् (५७) स्थानानि, प्रान्तस्थानेषु त्रयोविंशत्यधिकनवशतं (९२३) स्थानानि प्राप्तानि । परन्तु मुस्लिमलीग-पक्षस्य एसेम्बली-स्थानेषु त्रिंशत्, प्रान्तस्थानेषु पञ्चविंशत्यधिकचतुःशतम् (४२५) स्थानेषु विजये जाते सति भारतस्य एकतायाः उपरि प्रश्नार्थचिह्नः अभूत् । अनेन इदं स्पष्टमभवत् यत् भारतस्य विभजनं कृत्वा पृथग्तया पाकिस्थानदेशनिर्माणपक्षे बहवः यवनाः सन्ति इति ।

आङ्ग्लाः देशत्यागं कुर्वन्ति एव । तस्मात् पूर्वं तेषां सर्वकारः अन्तिमवारं भवतु इति सरदार-मतमासीत् । तस्य योजना आसीत् यत्, भारतीयसंविधानस्य निर्माणेन सह अन्तिमराजनैतिकसर्वकारः अपि भवेत्, येन संविधाननिर्माणे सर्वेषां योगदानं भवितुमर्हति । अतः १९४६ तमस्य वर्षस्य 'जून'-मासस्य षोडशे दिनाङ्के अन्तिमसर्वकारस्य उद्घोषं 'गवर्नर' कृतवान् । अन्तिमसर्वकारस्य सूचना-प्रसारण-गृहविभाध्यक्षः सरदार आसीत् । यस्मिन् दिने एतेषां विभागानां मन्त्रित्वेन लोहपुरुषस्य घोषणा अभूत्, तस्मिन् दिने मुस्लिमलीग-पक्षेण शोकदिनम् आचरितमासीत् । सः पक्षः सरदार-विरोधी आसीत् । काले व्यतीतेऽपि तेषां विरोधः न स्थगितः । तस्य पक्षस्य नेतारः लोहपुरुषस्योपरि आरोपं कुर्वन्ति स्म यत्, आकाशवाण्याः ये कार्यक्रमाः भवन्ति, तेषु हिन्दीभाषायाः प्रयोगः अधिकः भवति इति । मुस्लिमलीग-पक्षसम्बद्धाः ये समाचाराः भवन्ति, तेषां प्रसारणम् अल्पकालाय एव भवति इति अपरं दोषारोपणमासीत् । अस्य खण्डनं कृत्वा सरदार अवदत्, “गुप्तरूपेण अवैध(illegal)रीत्या च चालितानाम् आकाशवाण्याः कार्यक्रमाणां प्रसारणम् अहम् अस्थगयं कारणं तेषां कार्यक्रमाणां प्रारम्भे, अन्ते च ‘पाकिस्थान जिन्दाबाद’ इत्यस्य घोषणा भवति स्म” ।

१९४७ तमस्य वर्षस्य 'फरवरी'-मासस्य विंशतितमे दिनाङ्के ब्रिटिशसभाद्वारा ऐतिहासिकघोषणा कृता । भारतीयेभ्यः भारतशासनदानस्य, आङ्ग्लानां देशत्यागस्य च घोषणा कृता । १९४८ तमस्य वर्षस्य 'जून'-मासे शासनहस्तान्तरणं भविष्यति इति घोषणा कृता । तया सह अन्या घोषणा अभूत् यत्, वर्तमान-'वायसराय' लोर्ड वैवल-स्थाने लोर्ड माउण्टबैटन 'वायसराय'-पदारूढो भविष्यति । १९४७ तमस्य वर्षस्य 'मार्च'-मासस्य चतुर्वंशतितमे दिनाङ्के लोर्ड माउण्टबैटन वायसराय-पदारूढो अभूत् । भारतीयराजनेतॄणां विषये माउण्टबैटन इत्यस्य भिन्नानि मतानि आसन् । सरदार-विषये तस्य  मतमासीत् यत्, “सरदार पटेल दृढः, धीरः, स्पष्टवादी, व्यावहारिकः, वास्तविकतावादी चास्ति” ।

विभाजनस्य विचारगोष्ठी यदा यदा भवति स्म, तदा तदा सरदार शीघ्रतया जिन्ना इत्यस्योपरि क्रोधं करोति स्म । तस्य मनसि शनैः शनैः आगतं यत्, विभाजनमेवोचितं भविष्यति । एतावत्पर्यन्तं विभाजनविरोधी सरदार आकस्मिकं विभाजनस्य पक्षधरः अभूत् । अनेन बहूनाम् आश्चर्यम् अभूत् । तेषु अन्यतमः आसीत् के.एस.मुन्शी । मुन्शी जनमान्यतया, किंवदन्त्या वा लोहपुरुषस्य मूल्याङ्कनं न कृतवान् । जिन्ना इत्यनेन सह सरदार कार्यं कर्तुं नेच्छति । अतः विभाजनाय तेन सम्मतिः दत्ता इति कारणं तु व्यर्थमेवास्ति इति मुन्शी जानाति स्म । मुन्शी-लोहपुरुषौ प्रतिवेशिनौ (neighbor) आस्ताम् । तौ प्रतिदिनं सायङ्काले भ्रमणाय यदा गच्छतः स्म, तदा सरदार स्वमनसः चर्चां करोति स्म । सरदार-कथनमासीत्, “भारतविभाजनसम्मत्यां मम पक्षद्वयमस्ति । प्रथमं तु वयम् अहिंसायाः पक्षधराः स्मः । अतः वयं हिंसया कार्यं कर्तुं न इच्छामः । वयम्  अहिंसासम्बद्धान् अस्माकम् आदर्शान् विस्मरामश्चेदपि 'मुस्लिमलीग'-पक्षेण सह दीर्घकालस्य कलहो भविष्यति । ब्रिटिश-सर्वकारः यथा स्वारक्षकैः, सैनिकैश्च साहाय्येन शासनं कुर्वन्नस्ति, तथा वयं न करिष्यामः । द्वितीयमस्ति हिन्दु-मुस्लिम-हिंसा । विभाजनस्य प्रस्तावं यदि न स्वीकुर्मः, तर्हि नगर-ग्रामेषु हिन्दु-मुस्लिम-हिंसाः भविष्यन्ति । सैनिकाः, आरक्षकाः अपि हिन्दु-मुस्लिम-आधारेण विभक्ताः भूत्वा अन्तःकलहं करिष्यन्ति । सङ्घटनस्याभावात् हिन्दूनामेव अधिका क्षतिः भविष्यति । हिन्दवः स्वभावेनैव उदारवादिनः सन्ति । अतः हिन्दवः आक्रमकाः भवन्ति चेदपि तेषां निग्रहं सर्वकारः सरलतया करिष्यति । विभाजनप्रस्तावेन सह सम्मताः वयं देशद्वयस्य रचनां कुर्मः । अनेन हिन्दु-मुस्लिम-हिंसायाः विषये अस्माभिः अन्यदेशेन सहैव चर्चा कर्तव्या भवति, न तु ग्राम-नगरजनैः सह” ।

लोहपुरुषस्य अन्यदपि मतम् आसीत् यत्, “पाकिस्थानदेशः स्वतन्त्रततया अधिककालं यावत् न तिष्ठति । सः अराजकतायाः कारणेन पुनः भारते विलीनं भविष्यत्येव” । विश्लेषकाणां मतमस्ति यत्, “लोहपुरुषस्य एषः विचारः तु उचितः एव आसीत् । परन्तु पाकिस्थानस्य भारते विलीनता यथा न भवेत् तथा बहवः प्रयासाः कृताः अन्यदेशैः” ।

एतावत्पर्यन्तं महात्मा विभाजनाय सम्मतः नासीत् । परन्तु सरदार महात्मानम् अबोधयत्, “भ्रात्रोः कलहे जाते सति यथा तौ पृथक् गच्छतः, तथा  इदानीं देशस्य भागः भवन्नस्ति” । ततः महात्मा अपि सम्मतः अभूत् ।

विभाजनप्रक्रियायै विभाजनसमित्याः रचना अभूत् । ततः तस्याः समित्याः विभाजनपरिषद् इति नामकरणम् अभूत् । माउण्टबैटन परिषदः अध्यक्षः आसीत् । परिषदः चत्वारः सदस्याः आसन् । द्वौ कोङ्ग्रेस-पक्षतः, द्वौ मुस्लिमलीग-पक्षतः । कोङ्ग्रेसपक्षतः सरदार वल्लभभाई पटेल, डा. राजेन्द्र प्रसाद च आसीत् । मुस्लिमलीग-पक्षतः जिन्ना, लियाकत च आसीत् । भारतसम्बद्धाः विषयाः लोहपुरुषेण उपस्थापनीयाः अभवन् । परिषदः अन्तिमे सत्रे सरदार उक्तवान्, “भारतस्य इच्छास्ति विभाजनानन्तरं पाकिस्थानं भारतस्य सखराष्ट्रं भवेत् । अहं विभाजनवार्तायामेव स्पष्टं कृतवान् अस्मि यत्, पाकिस्थानस्य विषये भारतस्य मतं सद्भावनायाः एव अस्ति, भविष्यति च” ।

भारतेन स्वतन्त्रताप्राप्तिसमनन्तरं भारत-पाकिस्थानयोः विभाजनमभवत् । परन्तु माउण्टबैटन इत्यनेन स्वतन्त्रतायाः नियमेषु कश्चित् मुख्यनियमः लघुशासकेभ्यः उद्घोषितः आसीत् । तस्य नियमस्य भागत्रयमासीत् ।

प्रथमभागः – लघुशासकाः स्वराज्यं भारते विलीनं कर्तुं शक्नुवन्ति ।
द्वितीयभागः – लघुशासकाः स्वराज्यं पाकिस्थाने विलीनं कर्तुं शक्नुवन्ति ।
तृतीयभागः – लघुशासकाः स्वराज्यं स्वतन्त्रं स्थापयितुम् अर्हन्ति । 

अनेन नियमने अखण्डभारतस्य स्वप्नं कठिनं अभवत् । लघुशासकेषु अन्तःकलहस्य सम्भावना आसीत् । मुख्यतः भोपाल-ट्रावनकोर-हैदराबाद-आदिराज्यानि स्वतन्त्रताम् इच्छन्तः आसन् । तेषामनुकरणेन अन्ये शासकाः अपि स्वतन्त्रतायै विचारमकुर्वन् । तस्मिन् समये भारते पञ्चषष्ठ्युत्तरपञ्चशतं (५६५) लघुराज्यानि आसन् । ते सर्वे स्वतन्त्रतामिच्छन्तः आसन् । तस्य परिणामस्वरूपं भारतस्य मानचित्रं कदाचित् एतादृशं भवेत् - 

१९४७ तमस्य वर्षस्य 'जून'-मासस्य सप्तविंशतितमे दिनाङ्के भारत-पाकिस्थानयोः राज्यविभागयोः स्थापना कृता । भारतीयराज्यविभागस्य अध्यक्षः सरदार वल्लभभाई पटेल आसीत् । एवं भारतीयराज्यानां भारतविलयस्य दायित्वं लोहपुरुषस्योपरि आगतम् ।

१९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चमे दिनाङ्के लोहपुरुषेण ऐतिहासिकं भाषणं कृतम् आसीत् । सरदार उक्तवान्, “वयं लघुराज्यैः सह स्मः । तेषां मनःस्थितिः सद्यः किदृशी अस्ति इति वयं जानीमः । परन्तु राज्यानि केवलं सुरक्षा-वैदेशिकसम्बन्ध-परिवहनेभ्यः केन्द्रसरकारान्तर्गतम् आगच्छन्तु । इतिहासः साक्षी अस्ति भारतस्य खण्डितावस्थायाः । अस्माकं अनेकतायाः च परिणामः आसीत् यत्, आक्रामकेभ्यः लघुसैन्येभ्यः अपि अस्माकं पराजयः भवति स्म । अस्माकं परस्परकलह-द्वेष-ईष्यादीनाम् कारणेनैव वयं वैदेशिकैः आक्रान्ताः । भौगोलिकसामीप्यदृष्ट्या, सांस्कृतिकदृष्ट्या, राजनैतिकदृष्ट्या च लघुराज्यानां दायित्वमस्ति यत्, तानि वर्तमानभारतस्य अखण्डतायै योगदानं दद्युः ।
 
भारतीयपरम्परयाः विषये येषाम् आदरः, प्रेमः, सद्भावना च अस्ति तादृशाः नागरिकाः अपि अत्र वसन्तः सन्ति । तेषामपि गौरवपूर्णा परम्परा अस्ति । एषः संयोगः एवास्ति यत्, केचन नागरिकाः ब्रिटिश-राज्येषु, लघुराज्येषु च वसन्तः सन्ति । परन्तु भारतीयोच्चपरम्परायाः, भारतीयसंस्कृतेः सिञ्चने सर्वेषां समदायित्वमस्ति । वयं तु रक्त-भावना-हितानां सम्बन्धेन बद्धाः स्मः । अस्मान् खण्डेषु विभक्तुं न कोऽपि शक्ष्यति । अस्मासु तादृशीनां समस्यानां स्थानं न भवेत्, यासां निवारणम् अशक्यं भवेत् । अतः मम परामर्शः अस्ति यत्, वयं मैत्रीभावेन सन्धिं कुर्मः इति ।

अराजकता, अव्यवस्था च बाल-वृद्धान्, धनिक-निर्धनान् सर्वान् समानरूपेण विनाशं प्रति नेष्यति । भविष्यस्य सन्तानाः अस्मभ्यः अभिशापं दद्युः तथा अस्माभिः न किमपि कार्यं करणीयम्” ।

षड्दिनस्य परिश्रमपश्चात् Instrument of Accession पत्रस्य निर्माणमभूत् । अस्मिन् सन्धिपत्रे राज्यैः सह सर्वकारस्य सन्धिनियमाः लिखिताः आसन् । तानि राज्यानि भारते विलीनानि सन्ति इत्यस्य प्रमाणमपि एतत् पत्रमासीत् । राज्यानां राजानः अस्योपरि स्वहस्ताक्षरं कृत्वा भारते विलयस्य घोषणां कुर्वन्ति स्म । एतत् पत्रं भारतीयसंविधानस्य भागः अस्ति ।

भारतीयसंविधानसभायां सर्वप्रथमं पटियाला-बीकानेर-राज्ययोः राजानौ प्रवेशपत्रस्योपरि (Instrument of Accession) हस्ताक्षरम् अकुरुताम् । ततः धौलीपुर-भरतपुर-विलासपुर-नाभा-ग्वालियरादीनि राज्यानि भारते विलीनानि अभूवन् । तथापि बहूनि राज्यानि भारतविलये सम्मतानि नासन् । तेषु ट्रावनकोर-जोधपुर-भोपाल—इन्दौरादीनि राज्यानि आसन् ।

१९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य एकादशे दिनाङ्के देहली-महानगरस्य रामलीला-क्षेत्रे सरदार भाषणं कृतवान्, “चत्वारि दिनानि अवशिष्टानि सन्ति । पश्चात् वैदेशिकाः गमिष्यन्ति । अतः लघुराज्यानां पार्श्वे 'अगस्त'-मासस्य पञ्चदशदिनाङ्कपर्यन्तं समयः अस्ति भारते विलयकरणाय । ततः लघुराज्यैः सह कठोरव्यवहारः भविष्यति । सद्यःपरिस्थित्याम् एकाकीभवनं क्लिष्टकरमस्ति । प्रचण्डवायोः आगमनेन एकाकीनां वृक्षाणां पतनं भवत्येव । परन्तु अन्यवृक्षाणां सङ्घटने ये भवन्ति, ते निश्चयेन रक्षिताः भवन्ति । भवन्तः तु श्रीरामचन्द्रस्य, अशोकस्य च वंशजाः सन्ति । परन्तु सद्यः भवन्तः आङ्ग्लानां निम्नाधिकारिणम् अपि प्रणमन्ति । भवताम् अधुनापर्यन्तं विश्वासः एव नास्ति यत्, 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के आङ्ग्लाः गमिष्यन्ति । ते यदा गमिष्यन्ति, तदैव भवतां ज्ञानं भविष्यति” ।

१९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशदिनाङ्के हैदराबाद-जुनागढ-काठियावाड-भोपाल-ट्रावनकोरादीनि राज्यानि भारते विलीनानि जातानि । काश्मीरराज्यं विहाय सर्वाणि राज्यानि भारते विलीनानि अभवन् । कालान्तरे काश्मीरराज्यमपि भारते विलीनमभूत् । भारते राज्यानां विलीनीकरणे वी.पी.मेनन कुशलतया लोहपुरुषस्य सहकारम् अकरोत् । सः स्वजीवन्याम् अलिखत्, “विलयनीत्याः सफलतायाः कारणं लोहपुरुषः अस्ति । राज्ञैः सह तस्य कुशलतापूर्णव्यवहारः विलयनीतिसाफल्यस्य मुख्यकारणमस्ति । शासकेभ्यः सः दृढशक्तिस्वरूपः, न्यायस्वरूपश्च आसीत् । शासकान् प्रति विश्वसनीयता-विनम्रता एव लोहपुरुषस्य शक्तिः आसीत् । इत एव तस्मिन् लोहपुरुषत्वम् दृष्टं सर्वैः । अर्थात् सर्वे तं लोहपुरुषत्वेन अङ्गीकृतवन्तः” ।

संविधानसभायाः तिसॄणां मुख्योपसमितीनाम् अध्यक्षः सरदार आसीत् । ताश्च उपसमितयः मौलिकाधिकारोपसमितिः, अल्पसङ्ख्याकोपसमितिः, प्रन्तीयसंविधानोपसमितिः । अन्यप्रावधानरचनायामपि लोहपुरुषस्य मुख्यभूमिका आसीत् । यथा – शक्तिशालिकेन्द्रस्थापना, संविधानस्य सङ्कटकालीनव्यवस्था, स्वतन्त्रनिर्वाचनायोगः, देशीयराज्यविलयः, सर्वकारसेवा, जम्मू-कश्मीरराज्यविलयनसम्बद्धः अनुच्छेदः ३७० प्रावधानः, भाषानीतिः ।

स्वस्य ‘इण्डिया विंस फ्रीडम’ पुस्तके मौलाना अबुल् कलाम् आजाद् लोहपुरुषः मुस्लिमविरोधी इति लिखितवान् आसीत् । अतः अद्यापि मुस्लिमसङ्घटनेषु सरदार मुस्लिमविरोधी, हिन्दुसम्प्रदायवादी चासीत् इति भावना प्रचलिता दृश्यते । परन्तु लोहपुरुषेण लिखितानां पत्राणां गहनाध्ययनेन सत्यज्ञानं भवति ।

लोहपुरुषः हिन्दुः आसीत् । अतः हिन्दुत्वे सः गर्वान्वितः आसीत् । हिन्दुत्वे प्रेमः, आदरः, विश्वासः कोऽपि राष्ट्रियापराधः नास्ति । हिन्दुत्वसमर्थनेन, आचरणेन च मुस्लिमविरोधः कदापि न भवति इति तस्य मतमासीत् । स्वभाषणेषु लोहपुरुषेण स्पष्टम् उक्तमस्ति, “राष्ट्रभक्तस्य मुस्लिमजनस्य भारतसङ्घे तत्पदमेवास्ति यत् राष्ट्रभक्तस्य हिन्दुजनस्यास्ति । तेभ्यः मुस्लिमजनेभ्यः अहं कठोरः अस्मि ये भारतविभाजनात् पूर्वं मुस्लिमलीग-पक्षस्य समर्थनम् अकुर्वन्, स्वतन्त्रतानन्तरमपि पाकिस्थानगमनस्य चिन्तनं कुर्वन्तः आसन्” ।

मुस्लिमजनैः सह यद्यपि स्वस्य मृदुता आसीत्, तथापि सः देशहितं ध्यात्वा उक्तवान्, “अहम् अद्यापि बहु विनम्रभावेन वदन् अस्मि यत्, अहं मुस्लिमजनानां मित्रमस्मि, मित्रस्य कर्तव्यमस्ति सत्यवचनं तथा अकृतघ्नता । अहं स्पष्टतया वक्तुमिच्छामि यत् अधुना हिन्दुस्थानाय पूर्णप्रेम येषां हृदि अस्ति, ते एव हिन्दुस्थाने वासाय अधिकारिणः सन्ति । ते सर्वदा स्मरेयुः यत्, यस्यां नावि ते स्थिताः सन्ति, तस्याः नावः हितमेव चिन्तयेरन् कारणं तया नावा एव तेषां जीवनमस्ति” ।

स्टेच्यू ओफ यूनिटि अर्थात् एकतामूर्तिः गुजरातराज्ये निर्माणाधीनः सर्वोत्कृष्टः नवीनः प्रकल्पः (project) अस्ति । अस्माकं लोहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति यतो हि लोहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लोहपुरुषस्य भारतैकतायाः विचाराः सन्ति । विनोबा भावे-महाभागस्य मते भारतीयेतिहासे लोहपुरुषस्य अमरत्वस्य बहूनि कारणानि सन्ति । परन्तु तेषु द्वे मुख्ये कारणे स्तः । एकं तु बारडोली-सत्याग्रहः (१९२८), अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम वयं गर्वेण वदामः । 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः ।

एकतामूर्तिप्रकल्पे लोहपुरुषस्य १८२ मी. उन्नतमूर्तेः निर्माणस्य योजना (planning) अस्ति । सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं भविष्यति । तस्मात् जलबन्धात् ३.२ कि.मी. दूरे निर्माणं भविष्यति भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिः । भारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके (Sadhu island of Narmada River) द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तेः निर्माणं भविष्यति ।

एकतामूर्तिप्रकल्पे अन्यलघुप्रकल्पानामपि समावेशो भवति । यथा – साधुसेतुः (a bridge connecting the statue on Sadhu island to the bank), सरदार-स्मारकः, अभ्यागतभवनानि (buildings for visitors), स्मारकोद्यानम्, अतिथिभवनं (a five star hotel), सम्मेलनभवनं, मनोरञ्जनवाटिका, संशोधनकेन्द्रम्, अभ्यासकेन्द्रम् ।

एकतामूर्तिप्रकल्पाय गुजरातसर्वकारेण सरदार वल्लभभाई पटेल राष्ट्रियैकता संस्थायाः – सवपरास (Sardar Vallabhbhai Patel Rashtriya Ekta Trust - SVPRET) स्थापना कृता अस्ति ।

लोहपुरुषस्य जीवनस्य अन्तिमानि दिनानि अतिकष्टकराणि आसन् । यतो हि एकत्र देशस्य चिन्ता आसीत्, अपरत्र अस्वस्थता पीडयति स्म । तथापि सः देशाय अविरतं कार्यं करोति स्म । १९४९ तमस्य वर्षस्य मार्च-मासस्य एकोनविंशतितमे (१९/०३/१९४९) दिनाङ्के लोहपुरुषः तस्य पुत्री मणिबेन च विमानयानेन यात्रां कुरुतः आस्ताम् । विमानस्य यन्त्रे समस्या समुद्भूता अतः विमानचालकेन राजस्थानस्य रणे आकस्मिकम् अवतरणं कृतम् । एवं लोहपुरुषस्य जीवनस्य रक्षणम् अभूत् । सः पद्भ्यां समीपस्थं ग्रामम् अगच्छत्, ततश्च देहली-महानगरं प्रापत् । यदा सः देहली-महानगरं प्रापत्, तदा सहस्राधिकाः जनाः तस्य स्वागतार्थं, तस्य कृते प्रार्थनां च कर्तुम् उपस्थिताः आसन् । ततः संसदि अपि यदा सः प्रविष्टः, तदा संसत्सभ्यैः करध्वनिना सः अभिवादितः । तस्य अभिवादनस्य कालः एतावान् लम्बमानः आसीत् यत्, संसदि लोकसभाध्यक्षेण अर्धघण्टां यावत् अवकाशस्य घोषणा कृता  । १९५० तमे वर्षे ग्रीष्मकाले प्रप्रथमं लोहपुरुषस्य अस्वस्थतायाः चक्रम् आरब्धम् । ततः जीवनान्तं सः रुग्णः एव आसीत् । कासस्य आधिक्येन तस्य अस्वस्थतायाः आरम्भः अभवत् । ततः कासे रक्तस्रावः, मूर्छा इत्यादयः रोगाः समुद्भूताः । पश्चिमवङ्गप्रदेशस्य राज्यपालस्य उपस्थितौ यदा लोहपुरुषः वैद्येन (बिधान रोय) सह चर्चां कुर्वन् आसीत्, तदा सः अवदत्, अहम् अधिकं न जीविष्यामि इति । नवम्बर-मासादारभ्यः तु मूर्छायाः आघाताः अपि तस्य भवन्ति स्म । अतः लोहपुरुषस्य जीवनं पर्यङ्के सीमितम् अभवत् । दिसम्बर-मासस्य द्वादशे दिनाङ्के यदा लोहपुरुषः विमानयानेन स्वपुत्रस्य (डाह्याभाई) गृहम् अगच्छत्, तदा सः अस्वस्थः आसीत् । अतः पण्डित नेहरू, राज गोपोलाचारी च विमानस्थानके उपस्थितौ आस्ताम्  । १९५० तमस्य वर्षस्य दिसम्बर-मासस्य पञ्चदशे (१५/१२/१९५०) दिनाङ्के हृदयाघातेन लोहपुरुषस्य मृत्युः अभवत् । सः द्वितीयः हृदयाघातः आसीत् । सः आघातः एतावान् तीव्रः आसीत् यत्, लोहपुरुषस्य मृत्युः अभवत् ।

भारतस्य महान् देशभक्तः, स्वतन्त्रतासेनानी, अखण्डभारतस्य सूत्रधारः लोहपुरुषः अमरः अभवत् । लोहपुरुषस्य अन्तिमसंस्कारः मुम्बई-महानगरस्य सोनपुरे अभवत् । तस्य अन्तिमयात्रायां लक्षशः जनाः सम्मिलाताः । नेहरू, राज गोपालाचारी, डॉ. राजेन्द्र प्रसाद इत्यादयः राष्ट्रियनेतारः अपि तत्र उपस्थिताः आसन्  ।

मुस्लिमनेतॄभिः सर्वदा लोहपुरुषस्य विरोधः क्रियते स्म । यतो हि तेषां मतम् आसीत् यत्, लोहपुरुषः हिन्दुनेता अस्ति इति । जयप्रकाश नारायण, अशोक महेता सदृशाः नेतारः वदन्ति स्म यत्, लोहपुरुषः बिरला-कुटुम्बस्य, साराभाई-कुटुम्बस्य च समीपवर्ती जनः अस्ति । किञ्च यदा अखण्डभारतस्य कार्ये लोहपुरुषः यान् निर्णयान् स्व्यकरोत्, ते निर्णयाः अयोग्याः आसन् इत्यपि विरोधिनः वदन्ति स्म । सर्वेषां विरोधे सत्यपि लोहपुरुषस्य अखण्डभारतस्य एकसूत्रतायाः कार्यं सर्वैः अङ्गीकृतम् । अतः राष्ट्रियपर्वसु लोहपुरुषस्य स्मरणम् अखण्डभारतस्य रचयिता इति भवति । लोहपुरुषस्य विरोधिनः यथा आर्किबाल्ड् वॅवेल्, क्रिप्स्, पॅथीक् लॉरेन्स्, माउण्ड बेटन् इत्यादयः अपि देशभक्त्याः मूर्तित्वेन लोहपुरुषस्य प्रशंसाम् अकुर्वन् । तेषां सर्वेषां कथनम् आसीत् यत्, लोहपुरुषः व्यावहारिकः, निष्पक्षः नेता आसीत् इति ।

अद्यापि अनेके जनाः आमनन्ति यत्, लोहपुरुषस्य मरणोत्तरम् अनेकानि वर्षाणि भारतसर्वकारः लोहपुरुषाय सम्माननं दातुम् उदासीनः आसीत्  । केषाञ्चन राष्ट्रवादिनां मनसि तस्मिन् काले अद्यापि च भवति यत्, नेहरू काश्मिरराज्यस्य विषये संयुक्तराष्ट्रसङ्घस्य मध्यस्थतायाः चर्चां कृत्वा दोषम् आचरितवान् इति । तथा च गोवाराज्यस्य स्वतन्त्रतायै सैन्यबलस्य उपयोगसम्बद्धानि लोहपुरुषस्य निवेदनानि स्वीकरणे नेहरु इत्येषः अतिविलम्बं कृतवान् इत्यस्य कृते अपि नेहरू इत्यस्य बहुटीकाः भवन्ति ।

રાષ્ટ્ર સપૂત

કરમસદનો કર્મવીર ને, બારડોલીનો તારણહાર;
ગાંઘીસૈન્યનો અદનો સૈનિક, ભારતનો સ્વીકૃત સરદાર.

માંધાતાના મદ છોડાવે, એવો તારો રણ ટંકાર;
વાણીનો વિલાસ ગમે ના, શબ્દ કર્મમાં એકાકાર.

શબ્દ-શસ્ત્ર ને નીતિ-અસ્ત્રનો, પરમ ઉપાસક નવ ચાણક્ય;
શાસકને તેં સાધક કીધા, રાષ્ટ્ર-યજ્ઞના સહ યાચક.

સંઘ-શક્તિનો અજોડ સાઘક કાર્ય સિદ્ધિનો આહ્વાહક;
એક તિરંગાની છાયામાં, એખંડ ભારતનો સર્જક.

બાપુને પગલે તું ચાલ્યો, બની ભક્ત, શૂર, દૃઢ પ્રતિજ્ઞ;
અદ્ભુત ઐક્ય દઈ ભારતને, પૂર્ણ કર્યો જીવનનો યજ્ઞ.

સ્વરાજ્યની ચાલીસી ટાણે, સુરાજ્ય ઝંખે સૌ નર-નાર;
સ્મરે સ્નેહથી, સાદર વન્દે, જય જય રાષ્ટ્ર સપૂત સરદાર. 
                                 -	હરગોવિંદ ચન્દુલાલ નાયક (અમદાવાદ, 1986)

ખેડૂતોનો તારણહાર

કોની હાકે મડદાં ઊઠ્યાં ?
કાયર કેસરી થઈ તડૂક્યા ?
કોની પાડે કપટી જૂઠા,
જાલીમોનાં ગાત્ર વછુટ્યાં ?
		ખેડૂતોનો તારણહાર,
		જય સરદાર ! જય સરદાર
ખેડૂતોની મુક્તિ કાજે,
સિંહ સમો ગુજરાતે ગાજે,
તાજ વિનાનો રાજા રાજે,
કોણ હવે જને વલ્લભ આજે !
		ખેડૂતોનો તારણહાર,
		જય સરદાર ! જય સરદાર
માટીમાંથી મર્દ બનાવી,
સભળી સત્તાને થંભાવી,
ગુર્જરી માને જેબ અપાવી,
ભારતભર ઉષા પ્રગટાવી.
		ખેડૂતોનો તારણહાર,
		જય સરદાર ! જય સરદાર
લીલા નંદનવન ભેલાડે,
રાંકડી રૈયતને રંજાડે,
એવા નંદી નાથ્યા કોણે ?
પળમાં દીધા પૂરી ખૂણે.
		ખેડૂતોનો તારણહાર,
		જય સરદાર ! જય સરદાર
                     -	કલ્યાણજી મહેતા (બારડોલી, 1928)

पटेल के प्रति

यही प्रसिद्ध लोहपुरुष प्रबल,
यही प्रसिद्ध शक्ति की शिला अटल,
हिला इसे सका कभी न शत्रु दल,
पटेल पर
स्वदेश को
गुमान है ।
सुबुद्धि उच्च श्रृंग पर किये जगह,
हृदय गंभीर है समुद्र की तरह,
कदम छुए हुए ज़मीन की सतह,
पटेल देश का 
निगहबान है ।
हरेक पक्ष के पटेल तौलता,
हरेक भेद को पटेल खोलता,
दुराव या छिपाव से इसे गरज ?
कठोर नग्न सत्य बोलता । 
पटेल हिंद की नीडर जबान है ।
                 -	हरिवंशराय बच्चन (1950)

His Works are actions

Cross legend he sits with a stony stoop
And dark deep furrowed face
Eyes at once undaunted searching kind
A head too cool a nook for fire anged words

Have you ever heard him speak?
It is not words he utters.
He musters the strength of the shriveled soul
Of a vast famishing people;
And ever his steep stark personality
Forges word winged weapons.

It is his wont to fling
Barbed words at feasting ill
But of the from his soul sling
Darts forth not words but will
His words are actions.
                    - Umashankar Joshi (Ahmedabad, 1948)

मणिबेन

एकतामूर्तिः

सत्याग्रहः

उपप्रधानमन्त्रिणः




#Article 139: मदनमोहन मालवीय (2659 words)


मदनमोहनमालवीयः ( ) (, ) इत्याख्यः महापुरुषः अस्मिन् देशे जातः । श्रीमालवीयः अत्यन्तप्रज्ञावान् । मेधाविनः, प्रतिभावतः तस्य जन्मना न केवलं पितरः, अपि तु देशोऽपि भाग्यशाली अभवत् ।
उत्तरभारते झान्सीपट्ट्णस्य समीपे मालवा इति प्रदेशः अस्ति । मालवीयस्य पूर्वजाः तत्र आसन् । नाम्नः अन्ते निवासप्रदेशस्य योजनम् एकः सम्प्रदायः । मालवीयस्य पितामहः प्रेमधरः उत्तमां ख्यातिम् अर्जितवान् आसीत् ।

१८५७ तमे वर्षे आङ्ग्लेयान् एतस्मात् देशात् प्रेषयितुं झान्सीराज्ञी लक्ष्मीबाई,नानासाहेबः, तात्याटोपे इत्यादयः वीराः अत्यन्तं साहसं प्रदर्श्य युद्धं कृतवन्तः । तेषां प्रयत्नाः सफलाः न जाताः । भारतदेशः आङ्ग्लसाम्राज्यस्य कश्चन भागः अभवत् । तेन भारतीयजीवने महान् परिणामः जातः । धनिनः, मध्यमवर्गीयाः जनाः आङ्ग्लेयान् अनुकुर्वन्ति स्म । वेषभाषासु, जीवनविधाने च एते परिणामाः स्पष्टं दृष्टाः ।

आङ्ग्लभाषाभाषणम्, आङ्ग्लेयवस्त्रधारणं, तत्पद्धतीनाम् अनुसरणम् अत्यन्तं गौरवास्पदमिति भावयन्तः आसन् जनाः । किन्तु स्वीयपूर्वजानां सम्प्रदायानां, सिद्धान्तानां विषये मालवीयानाम् अत्यन्तगौरवभावना, विश्वासश्च आसीत् । देशे उच्चलतां पाश्चात्यसमुत्तुङ्गतरङ्गाणाम् अभिमुखं गच्छन्तः आसन् ते ।

मदनमोहनस्य पिता व्रजनाथः श्रीमद्भागवतं (कृष्णलीलाः - कृष्णभक्तानां गाथाः) पठित्वा विवृण्वन् जीवनं यापयति स्म । एतेन एव ज्ञायते यत्, ते कियता कष्टेन जीवनं यापयन्ति स्म इति । अश्रद्धम् आराधयतः जनान् भगवान् कदापि न त्यजति इति गाढः विश्वासः तस्यासीत् । एषः निर्धनब्राह्मणः स्वजीवनभाग्यं सर्वं भगवतः हस्ते न्यस्तवान् आसीत् ।

मदनमोहनस्य पितामहः पण्डितः प्रेमधरः स्वर्गस्थः अभवत् । सम्प्रदायानुगुण्येन पितुः और्ध्वदैहिककर्माणि पवित्रे गयाक्षेत्रे समापितवान् पण्डितः व्रजनाथः । तदा व्रजनाथं गुरवः उक्त्वन्तः किमपि प्रार्थयतां, भगवान् ददाति, वयमपि आशिषः दद्मः इति । हस्तद्वयेन अञ्जलिं बद्धवा प्राङ्गमुखः पण्डितः व्रजनाथः प्रार्थितवान् भगवान् ! मह्यम् एकं पुत्रम् अनुगृह्णातु । तत्सदृशः अन्यः न स्यात् न भवेत् च इति ।

पण्डितस्य व्रजनाथस्य प्रार्थनाः सफलाः । १८६१ संवत्सरे, डिसेम्बर् २५ दिनाङ्के आहियापुरे पण्डितमदनमोहनमालवीयः जातः (आहियापुरम् ग्रामः इदानीं मालवीयनगरम् इति प्रसिद्धम्) । मोहनस्य माता मूनादेवी ।

आसीत् सन्ध्यासमयः । सर्वगृहेषु दीपज्वालनसमयः । हठाद् घण्टानादः श्रुतः । पण्डितस्य व्रजनाथस्य पुत्रोदयः अभवत् इति जनैः ज्ञातम् । निष्कलङ्कजीवनेन, प्रज्ञापाटवेन, सत्प्रवर्तनेन च सः ग्रामजनानां गौरवपात्रतां गतः आसीत् । सर्वे तं साभिमानं पश्यन्ति स्म । पवित्रग्रन्थानां ज्ञानपरिमलेन पूर्णस्य व्रजनाथगृहस्य पुरतः जनानाम् आनन्दकोलाहलः आसीत् ।

मृत्कुड्यैः निर्मितं लघुगृहं तत् । आगतानां शुभेच्छुकानां कृते तत्र स्थातुं स्थलं न आसीत् । तेभ्यः सर्वेभ्यः मधुराणि वितरितुं शक्तिरपि नासीत् व्रजनाथस्य । मुकुलितकराभ्याम् एव सः आगतान् स्त्कृतवान् । ते सर्वे तम् अभिनन्द्य, आमन्त्र्य गतवन्तः । बालस्य नामकारणोत्सवः अभवत् । प्रथमाक्षरं मकारः भवेदिति, तेन सौभाग्यं भविष्यतीति उक्तवन्तः ज्येष्ठाः । मदनमोहन इति नाम निश्चितम् । मदनमोहनः सर्वदा हसन् उत्साही सन् अवर्धत ।

पञ्चमे वर्षे तस्य विद्याभ्यासः आरब्धः । आहियापुरे पाठशालाः नासन् । हरदेवः नाम पण्डितः 'धर्मज्ञानोपदेशपाठशाला’नाम्नीम् एकां पाठशालां चालयति स्म । मदनमोहनं पिता हरदेवसमीपं नीतवान्। 'बालकः श्लोकान् काँस्कान् जानाति वा ?’ इति पृष्टवान् हरदेवः । 'आम्, जानामि’ इत्युक्तवान् बालः ।

उपाध्यायः अत्यन्तं सन्तुष्टः । बालस्य शिरसि हस्तं निधाय अत्यन्तानन्दपूर्णः हरदेवः व्रजनाथमुक्तवान् - भवान् सत्यमेव भाग्यशाली । भवतः वंशस्य शाश्वतीं कीर्तिम् एतस्य कारणतः प्रतिष्ठापयिष्यति भवान् इति । पण्डितहरदेवस्य अन्तिके मदनमोहनस्य विद्याभ्यासः आरब्धः । हरदेवः लधुकौमुदीं पाठितवान् । भगवद्गीतां, नीतिश्लोकान्, मनुस्मृतिम्, अनेकविधाः विद्याश्च गुरोः सकाशात् अधीतवान् मदनमोहनः । मदनमोहनस्य अष्टमे वर्षे उपनयनम् अभवत् । गायत्रीमन्त्रम् उपदिष्टवान् व्रजनाथः । (निष्ठया, नियमैश्च जीवनं यापयितुं, वेदविद्याम् अभ्यसितुञ्च गायत्रीमन्त्रम् उपदिशन्ति पितरः गुरवः ।)
नित्यं प्रातः सायम् उभयसन्ध्ययोः अनुष्ठानं करोति स्म मेधावी मदनमोहनः । कुमारस्य अनुष्ठानादिकं दृष्ट्वा माता स्वपुत्रः संन्यासी भविष्यति इति आशङ्कते स्म । भीता माता पुत्रस्य दुर्दृष्टिनिवाराणाय उपचारान् कारयति स्म ।

मदनमोहनः अत्यन्तं चपलः आसीत् । क्रीडाः तस्य अतीव प्रियाः । काष्ठैः गोलिकाभिः क्रीडने क्षुत्-निद्रादिकमपि विस्मरति स्म सः । प्रतिदिनम् अवश्यं व्यायामं करोति स्म । प्रातः ६ वादने धर्मज्ञानोपदेशपाठशालायाः आरम्भः भवति स्म । ९.३० वादने पाठशालायाः घण्टानादानन्तरं छात्राः सर्वे मिलन्ति स्म । उन्न्तकक्ष्याच्छात्रद्वारा श्लोकान् उच्चैः रटयति स्म उपाध्यायः । निम्नकक्ष्याविद्यार्थिनः सर्वे उच्चैः अनुरटेयुः । मनुस्मृतिं,भगवाद्गीताञ्च एवमेव वाचयन्ति स्म शिक्षकाः । पुनः पुनः वाचनेन ते कण्ठस्थीकुर्वन्ति स्म श्लोकान् । स्वीयं भोजनम् अधिकृत्य मदनमोहनेन एवम् उक्तम् - मया क्रियमाणं भोजनं प्रायः राजानः अपि न कुर्वन्ति । पाचकैः पक्वं भोज्यं स्वीकुर्वन्ति राजकुमाराः । पाचकाः तु प्रेम्णा पाकं न कुर्वन्ति । वेतनार्थम् एव ते पाकं कुर्वन्ति । एवम् भृत्यैः साधितं पाकम् अहं न कदापि भुक्तवान् । मम मात्रा कृतं प्रेमानुरागपुरस्कृतं सुपक्वम् आहारमेव स्वीकृतवान् अहम् । रोचकान् एव पदार्थान् पक्त्वा माता मह्यं यच्छति स्म । माम् एवमेव बाल्ये यौवनेऽपि वर्धितवती सा । अस्मिन् विषये अहम् अत्यन्तं भाग्यवान् च । इति ।

मदनमोहनेन सह पठन्तः केचन छात्राः आङ्ग्लपाठशालासु प्राविशन् । आङ्ग्लभाषां ज्ञातुमैच्छत् मदनमोहनः अपि । अधिकं शुल्कं स्वीकुर्वन्ति स्म आङ्ग्लशालापालकाः । एकः निर्धनः अधिकशुल्कवत्यां पाठशालायां स्वबालं प्रेषयितुं न शक्नोति । तथापि सङ्कल्पः अस्ति चेत् मार्गः लभ्यते एव । पुत्रस्य इच्छां ज्ञातवान् पिता । कटकानि गयाप्रसादनाम्नः कस्यचन निकटे न्यासीकृत्य धनमानीतवती माता । पुत्रम् आङ्ग्लपाठशालायां प्रवेशितवन्तौ पितरौ । गोर्धन-महोदयः आङ्ग्लपाठशालायाम् अध्यापकः । सः शिक्षक इव अत्यन्तं कठिनं व्यवहरति स्म सः । समये पाठशालायां भवेयुः छात्राः । अश्रद्धावतः भृशं दण्डयति स्म गोर्धनः ।

पर्युषितम् अन्नं खादित्वा पाठशालां प्रति धावति स्म मदनमोहनः । कुटुम्बं महत्यां दिनावस्थायाम् आसीत् । कदापि मदनमोहनः निराशतां न प्राप्तवान् । अल्पदिनेष्वेव लेखने उच्चारणे च कक्ष्यायां प्रथमं स्थानं प्राप्तवान् । उपाध्यायस्य अनुग्रहपात्रम् अभवत् एषः । सुखेन पठितुं किञ्चिदपि स्थानं गृहे नासीत् । दूरे गङगाप्रसादनाम्नः सहचरस्य गृहमासीत् । सूर्यास्तमनानन्तरं तैलदीपं स्वीकृत्य मित्रस्य गृहे पठति स्म सः । तेषु दिनेषु तस्य दिनचर्या एवं प्रचलति स्म ।

पञ्चदशवर्षदेशीयः कदाचित् मदनमोहनः स्वस्य पितृव्येन सह मिरजापुरम् अगच्छत् । तत्र बहवः पण्डिताः अमिलन् । मेधाविनः स्वयं ज्ञातान् विषयान् अधिकृत्य तत्र भाषणं कृतवन्तः । तेषां भाषणानि श्रुतवतः तस्य बालकस्य विवक्षा उत्पन्ना । द्वित्रवारम् उत्थितश्च । अन्ते अवसरः लब्धः । सः मेधाविनां समूहम् एकवारं विलोक्य सविनयं स्वभाषणम् आरब्धवान् । मृदुमधुरस्वरेण हेतुबद्धेन तस्य संस्कृतभाषणेन, मेधाशक्त्या च ज्येष्ठाः चकिताः अभवन् प्रशंसाः अकुर्वन् ।

पण्डितनन्दरामः स्वयं मेधावी । सः एव समावेशं निरूढवान् । मदनमोहनस्य रूपं, मेधा, विनयः च तम् आकर्षन् । मुखतः स्वरः न निर्गतः । स्वस्य तृतीयां पुत्रीं कुन्दनादेवीं तस्मै नवयुवकाय दत्त्वा परिणयः करणीयः इति निर्णीतवान् सः । १५ वर्षीयस्य मदनमोहनस्य विवाहं कुन्दनादेव्या सह सवैभवं कारितवन्तः ज्येष्ठाः । तस्य योग्या पत्नी आसीत् कुन्दनादेवी । कुन्दनादेवी सम्पन्नकुटुम्बादागता युवतिः  । श्वशुरगृहे दुर्भरदारिद्य्रम् आसीत् । तस्याः इच्छानुसारं भोजनं न भवति स्म । धर्तुम् उत्तमवस्त्राणि नासन् । दाक्षिण्यहृदया सा कदापि स्वभर्तारं, पितरौ वा एतं विषयम् अधिकृत्य न उक्तवती एव ।
पत्न्याः सहनशीलताम्, औदार्यं, दयां च दृष्ट्वा विचलितः मदनमोहनः तां पृष्टवान् - 'अस्माकं निर्धनत्वमधिकृत्य कदापि एकं वाक्यमपि नोक्तवती भवती, भवत्याः मातापितरौ प्रत्यपि कुतः न सूचितवती ?’ इति । सूचयित्वा किं प्रयोजनम् ? मम मातापितरौ बाधाम् अनुभवतः । अश्रूणि स्रावयतः । तेन मम किं प्रयोजनम् ? एतदेव मम मातापित्रोः निवासप्रदेशः । भवानेव मे देवः । एतद् गृहमेव मम स्वर्गः । भवन्तः सर्वे मां सादरं पश्यन्ति । अस्मिन् विश्वे मम इतोऽपि आवश्यकं किम् अस्ति ? इति समाहित्तवती कुन्दनादेवी ।

पितृपितामहैः अनुसृते एव पथि भागवतस्य व्याख्यानानि लिखित्वा कीर्तिप्रतिष्ठाः प्राप्तव्याः इति मदनमोहनस्य इच्छा आसीत् । एतमेव विषयं मातरं निवेदितवान् । पुत्रस्य इच्छां श्रुत्वा मूनादेवी 'अस्माकं स्थितिं भवान् जानात्येव । भवान् यद् योग्यम् इति भावयति तत् करोतु’ इत्युक्तवती । मातुः हृदयं ज्ञातवान् मदनमोहनः कस्याञ्चित् पाठशालायाम् उपाध्यायरूपेण प्रविष्टः । तत्र तस्य वेतनम् आसीत् चत्वारिंशद् रूप्यकाणि ।  पाठशालातः आगमनानुपदमेव व्यायामं करोति स्म सः । सङ्गीतसाधनेऽपि अङ्कितः जातः सः । मुरल्याः, सितारावाद्यस्य च वादनं ज्ञातवान् । प्रभातसमये, सायं च व्रजनाथः पुत्रं मीरायाः, सूरदासस्य च भक्तिगीतानि शिक्षयति स्म । अकिञ्चनत्वेऽपि दिनानि आनन्देन यापयति स्म सः ।

१८८१तमे संवत्सरे एफ् ए परीक्षाम् उत्तीर्णः अभवत् मदनमोहनः । मैर् सेंट्रल् कलाशालायां पठितवान् सः । ज्ञानसमुपार्जनापिपासया सः आगरायां बि ए कक्ष्यां प्रविष्टः । कार्यान्तरेषु व्यस्ततायाः कारणतः बि ए परीक्षाम् अनुत्तीर्णः । १८८४तमे वर्षे कलकत्ताकलाशालातः स्नातकः जातः सः स्नातकोत्तरपदवीं साधयितुमैच्छत् । तथापि कुटुम्बं क्लिष्टस्थितौ अस्तीति ज्ञात्वा मदनमोहनः उद्योगं प्राप्य मातापित्रोः साहाय्यं कर्तुं निश्चितवान् ।

जन्मतः मदनमोहनः कविः । षोडशवर्षाणां वयस्येव सः कवितारचनाम् आरब्धवान् । अत्यल्पे एव समये सः उत्तमकविः इति प्रसिद्धिं प्राप्तवान् । तस्य कवितानां संग्रहस्य नाम 'मकरन्दः’ इति, प्रथमा कविता च 'राधिकाराणी’ इति आसीत् । भारतराष्ट्रियमहासभायाः द्वितीयसमावेशः कलकत्तायाम् अभवत् । प्रख्यातः दादाभाई नवरोजी तस्य समावेशस्य अध्यक्षः आसीत् । तस्मिन् महति समावेशे एकः युवकः गुरुदेवस्य आदेशानुसारं वेदिकाम् आगतवान् । सः भाषणम् आरब्धवान् । देशभक्त्या पूर्णानि तस्य वचनानि गभीरगङ्गाप्रवाहवत् प्रसरन्ति स्म श्रोतृश्रवणकुहरेषु । श्रोतारः आनन्दसागरे मग्नाः इवासन् । भाषाणं सम्पूर्णं श्रुत्वा परवशाः जाताः ते । महासभायाः संस्थापकः ए ओ ह्यूम् महोदयः 'मदनमोहनमालवीयस्य अद्यतनं भाषणं कदापि न विस्मरणीयम्’ इति उक्तवान् । तस्मिन् समये श्रीरामपालसिंहः मालवीयं मिलितवान् । 'हिन्दुस्थान’पत्रिकायाः सम्पादकः सः । स्वपत्रिकायाः सम्पादकत्वदायित्वं स्वीकरोतु इति मालवीयम् अभ्यर्थितवान् । पत्रिकायाः सर्वमपि दायित्वं तस्मै एव दत्तवान् च ।

सामाजिकजीवने असाधारणभारेण पीडितोऽपि १८९२तमे संवत्सरे अलहाबादस्य उन्नतन्यायालये न्यायवादिरूपेण स्थानं प्राप्तवान् मदनमोहनः । अल्पसमये एव सः उत्त्मन्यायवादी इति ख्यातिम् अपि अर्जितवान् । उत्तेजकराणि भाषणानि, अत्यन्तसाधारणाः, सरलाः, विश्लेषणात्मकाः च तस्य वादाः न्यायालये सभासु समावेशेषु च बहून् प्रभावितान् अकुर्वन् । अत्यल्पकाले एव प्रजासु विशिष्टं स्थानं प्राप्तवान् मदनमोहनः । असामान्या मेधासम्पद्, अनर्गला वाक्, सहनशीलता, श्रमं कर्तुं सामर्थ्यं च तं जन्मतः एव प्राप्ताः गुणाः । न्यायवादिरूपेण अधिकं धनार्जनं कृतवान् । स्वजीवने न कदापि अपराधिनाम् अभियोगान् स स्वीकृतवान् । निर्धनानाम्, असहायकानां कृते एव स्वीयं समयं रक्षति स्म सः ।

भारतीयस्वातन्त्र्यसङ्ग्रामोद्यमे महात्मागान्धिः,सुभाषचन्द्रबोसः इत्यादयः इव मान्यः जातः मदन्मोहनमालवीयः । गान्धिमहोदयः यथा राष्ट्रपिता, तथा मालवीयः राष्ट्रस्य अध्यापकः इति गण्यते स्म । मालवीयः इति वंशनाम्नैव तं सम्मानयन्ति स्म जनाः । १८५७ तमे वर्षे भारतसर्वकारेण कोलकत्ता, मुम्बई, चेत्रै नगरेषु विश्वविद्यालयाः स्थापिताः । एते सर्वे आङ्ग्लविश्वविद्यालयसमाः एवेति घोषिताः ।

आङ्ग्लभाषाभाषणं, तेषां सम्प्रदायानाम् अनुसरणं व्यवहरणं च अत्युन्नतमिति भावयन्ति स्म तदा केचन भारतीयाः । अत्यन्तमेधावी देशभक्तः मालवीयः भारतीयसंस्कृत्याः पूर्ववैभवं, गौरवं च पुनः साधनीयमिति दृढचिन्तनं कृतवान् । सुशिक्षिताः सर्वेऽपि एतस्याः संस्कृत्याः मौल्यम् अवगच्छेयुः इति आशां प्रकटितवान् । काश्यां हिन्दू विश्वविद्यालयः स्थापनीयः इति निश्चितवान् सः । विश्वविद्यालयस्य स्थापनं सुकरं वा ? एकस्य विद्यालयस्य चालनमेव कष्टकरम् । तथा सति विश्वविद्यालयचालनं कियत्कष्टकार्यम् ? तत्रापि एकेनैव एतत् साहसं करणीयमिति चिन्तितवान् सः । २१ तममहासभा वाराणस्यां समायोजिता ।

गौरवाध्यक्षस्थानमलङ्कर्तुं गोपालकृष्णगोखले महोदयम् आहूतवन्तः । मालवीयः एतस्मिन् अवसरे काङ्ग्रेस्-पक्षस्य ज्येष्ठैः नायकैः सह अमिलत् । हिन्दूविश्वविद्यालयस्य स्थापनविषये स्वीयां तीव्राम् इच्छां प्रकटितवान् । तस्य आशयं श्रुत्वा सर्वे तम् अभिनन्दितवन्तः । काङ्ग्रेस्-पक्षस्य प्रमुखः सुरेन्द्रनाथबेनर्जीमहोदयः उत्तमानाम् अध्यापकानां प्राप्तिपर्यन्तं विश्वविद्यालये आङ्ग्लप्राचार्यरूपेण विना वेतनं कार्यं करोमि इति वचनं दत्तवान् ।
काशीहिन्दुविश्वविद्यालयस्य कृते स्थानं प्राप्तुं मालवीयः महान्तं प्रयत्नं कृतवान् । यत् स्थलं विश्वविद्यालयस्य कृते उपयुक्तम्आसीत्, तत् स्थलं काशीमहाराजस्य आसीत् । काशीराजः मालवीयम् अवदत्, 'हे भूदेव ! यावत् धनम् आवश्यकं, तावद् दातुं शक्नोमि । किन्तु तत् स्थलं तु मा याच्यताम् । तेन स्थलेन सह मम अनुबन्धः अस्ति’ इति । ततः भगवतः दयया मकरसङ्क्रान्तेः पर्वदिने मालवीयः उपायनरूपेण तदेव स्थलं राज्ञः सकाशात् सम्पादितवान् ।

आर्थिकसमस्या उद्भूता । धनसंग्रहणाय समग्रे देशे पर्यटनं करणीयमिति चिन्तितवान् । प्रत्यहं कथञ्चित् कोशः पूर्णः भवति स्म । अस्मिन्नेव सन्दर्भे सः भाग्यनगरम् (हैदराबाद्) आगतवान् । तस्मिन् काले निजामपदवाच्यः शासकः तं प्रदेशं पालयति स्म । हिन्दुविश्वविद्यालयाय धनं दातुं तस्य महम्मदीयमनः नाङ्ग्यकरोत् । तं विषयमेव मालवीयं स्पष्टं सूचितवान् सः । रिक्तहस्तः सन् ततः निर्गन्तुं मालवीयः सुतरां नेच्छति स्म ।
तस्मिन्नेव दिने हिन्दुः कश्चन मृतः । तस्य शवयात्रायाम् अनुयायिनः नाणकानि विकिरन्तः चलन्ति स्म । मालवीयः भूमौ पतितानि तानि नाणकानि चित्वा स्यूते स्थापयन्नासीत् । तस्य कार्यं दृष्ट्वा केचन आश्चर्यमनुभूतवन्तः । ते अपि नाणकानि चित्वा तस्य स्यूते स्थापितवन्तः । स्यूतः नाणकैः पूर्णः । निजामः एतां घटनां ज्ञातवान् । सः लज्जितः जातः । मालवीयाय अधिकं धनं दत्त्वा अभिनन्दितवान् ।

हिमालयतःकन्याकुमारिपर्यन्तं, पेशावारतः, ब्रह्मदेश (म्यान्मार्) पर्यन्तम् अनेकवारं देशं समग्रं पर्यटितवान् पण्डितमालवीयः । यत्र कुत्रापि गत्वा उदात्ताय स्वाशयाय धनं याचते स्म धनिकान् ।
एकस्मिन् पर्याये दरभङ्गायां भागवतमधिकृत्य भाषणं कृतवान् मालवीयः । दरभङ्गामहाराजः अन्तिमदिने कार्यक्रमे उपस्थितः आसीत् । मालवीयस्य अद्भुतं भाषणं श्रुत्वा आश्चर्यचकितः महाराजः २५ लक्षरूप्यकाणि उपायनरूपेण दत्तवान् । न केवलं तत् स्वीयं शेषजीवनं मालवीयस्य उदात्ताशयसाधनाय समर्पयामि इति प्रतिज्ञातवान् । तस्य वचनं श्रुतवतः मालवीयस्य नेत्रे आनन्दाश्रुणा पूर्णे जाते । उक्तवचनानुसारं दरभङ्गामहाराजः मालवीयेन सह बहुत्र अटितवान् । देशस्य चतसॄषु दिक्षु पर्यटन् मालवीयः एककोटिचतुस्त्रिंशल्लक्षरूप्यकाणि संगृहीतवान् । भिक्षुकाणाम् अधिपतिरिति विरुदमपि प्राप्तवान् । कदाचित् 'मालवीयतः धनार्जनोपायः ज्ञातव्यः’ इति गान्धिमहाशयः साश्चर्यम् उक्तवान् ।

१९१६ फेब्रवरीमासस्य चतुर्थदिनांकः शुभप्रदा वसन्तपञ्चमीतिथिः । वाराणस्यां सर्वत्र उत्सववातावरणं दृश्यते स्म । गङ्गानद्याः तीरे तदानीन्तनः वैसराय्-गवर्नर्-जनरल् हरटिञ्च महाशयः हिन्दुविश्चविद्यालयस्य शिलास्थापनम् अकरोत् । बहवः प्रमुखाः राष्ट्रनायकाः, विविधमतनेतारः च तस्मिन् महोत्सवे भागं गृहीतवन्तः । तस्मिन् कार्यक्रमे भाषमाणः मालवीयः  वेदाः,उपनिषदः,
भगवद्गीता,महाभारतं,रामायणम् इत्यादीनां पवित्रग्रन्थानां पठनस्य आवश्यकता, भारतीयसंस्कृतेः, संस्कृतभाषायाश्च श्रेष्ठता इत्यादिषु विषयेषु अबोधयत् । तेषां साधनायै एव अयं विश्वविद्यालयः संस्थापितः इति अवदत् । सः एव तस्य जीवनश्वासः जातः ।

वैविध्यरूपेण मातृभूमेः सेवां कृतवान् मालवीयः । विद्याविषये कृता सेवा तु तदीया अतुला शाश्वतकीर्तिप्रदा जाता । पत्रिकाविषये तेन कृता सेवा अपि अविस्मरणीया । 'पत्रिकायाः सम्पादकत्वस्य निर्वहणे अन्येषां हस्तक्षेपम् अत्यल्पप्रमाणेन अपि न सहे, तत्र मम सम्पूर्णं स्वातन्त्र्यम् आवश्यकम्’ इत्युक्तवान् आसीत् मालवीयः । एतं नियमम् अङ्गीकृत्यैव राजा रामपालसिंहः तस्मै पत्रिकायाः स्वामित्वं समर्पितवान् । तेषु दिनेषु पण्डितप्रतापनारायणः, श्रीबालमुकुन्दगुप्तश्च पत्रिकाप्रकाशने असाधारणौ पुरुषौ । ताभ्यां द्वाभ्यां सह अविभाज्यम् अनुबन्धं रक्षितवान् मालवीयः । अनेकासां लघुपत्रिकाणां कृते एतस्य सहकारः आसीत् । देहलीतः मुद्राप्यमाणायाः 'कोपाल’साप्ताहिकपत्रिकायाः प्रकाशने एतस्य साहाय्यम् आसीत् । बाबू पुरुषोत्तमदासटाण्डन्-महोदयेन चाल्यमानायाः 'अभ्युदय' पत्रिकायाः प्रकाशने च सम्पूर्णसहकारं यच्छति स्म मालवीयः ।

विश्वपत्रिकाप्रकाशकेषु पत्रिकाकाररूपेण अत्यधिकां ख्यातिं प्राप्तवान् मालवीयः । स्वीयं पत्रिकाप्रकाशनकौशलं देशाय समर्पितवान् च ।
भारतीयपत्रिकाप्रकाशनसंस्था एतेनैव कारणेन प्रख्यातिं प्राप्तवती । पत्रिकाकारस्य लक्षणं भवेत् आत्मगौरवं, दृढता, स्वाभिमानः च । उन्नतधर्मं नीतिम् ॠजुवर्तनं च न विस्मरेत् सः इति वदति स्म मालवीयः । देहलीस्थां 'दि हिन्दुस्थान् टाइम्स्’ पत्रिकासंस्थां क्रीत्वा कानिचन वर्षाणि तां सम्यक् चालितवान् । कार्यभारस्य कारणतः अनन्तरदिनेषु तां पत्रिकाम् अन्यस्यै संस्थायै दत्तवान् ।

तेषु दिनेषु भारतदेशः आङ्ग्लजनैः पाल्यते स्म । भारताय स्वतन्त्र्यं दातव्यम् उत न वा इत्येतस्मिन् विषये चिन्तयति स्म आङ्ग्लसर्वकारः । १९३१ तमे वर्षे लण्ड्न्-नगरे द्वितीयवर्तुलोप्तीठिका सभा आयोजिता । तस्यां सभायां भाषणं कर्तुं मालवीयं निरणैषीत् गान्धिमहोदयः । र्तुलोप्तीठिकासभायां मालवीयस्य भाषणम् अविस्मरणीयम् आसीत् । 'इण्डियन् डायरी’ इति स्वीये पुस्तके माण्टेङ्गः मालवीयस्य भाषणं बहुधा प्रशंसितवान् । तेजबहदूरः सप्रू अपि तस्य भाषणम् अभिनन्दितवान् । स्वीयैः प्रज्ञासमेतैः भाषणैः खण्डान्तरेषु अपि राजनीतिज्ञानाम् आदरपात्रम् अभवत् सः । स्वीयदैनन्दिननियमान् विदेशे अपि नोल्लङ्घितवान् श्रीमालवीयः । प्रातः निद्रातः उत्थाय नियमेन व्यायामं करोति स्म सः । स्नानाय भारतदेशीयं सुफेनकमेव उपयुङ्क्ते स्म सः । पूजां कृत्वा फाले तिलकं धरति स्म सः । अनन्तरम् उष्णं दुग्धं पीत्वा श्वेतवस्त्राणि, उष्णीषं च धरति स्म । मध्याह्ने घण्टाद्वयम् आगतैः सह सम्भाषणञ्च करोति स्म ।

मालवीयः मितमेव आहारं स्वीकरोति स्म । भोज्नानन्तरं विश्रान्तिं स्वीकरोति स्म । शय्याप्रकोष्ठे तस्य मातापित्रोः तैलवर्णचित्रम् आसीत् । मातापित्रोः, भगवतः च प्रार्थनां कृत्वा एव निद्रां करोति स्म सः । एवं तस्य दिनचर्या आसीत् । 'वसन्तपञ्चमीम्’ अत्यन्तं शुभदिनं भावयति स्म सः । तस्मिन् दिने बहवः तं मिलन्ति स्म । तस्मिन् एव पर्वणि काशीहिन्दुविश्वविद्यालयस्य स्थापनमभूत् । तस्य भाषणं श्रोतुं सहस्रशः छात्राः, उपाध्यायाः आगच्छन्ति स्म तस्मिन् दिने । सरलभाषायां भारतीयसंस्कृतिं, धर्मम् उद्दिश्य, काशीहिन्दुविश्वविद्यालयस्य लक्ष्यं चोद्दिश्य स्पष्टं विशदयति स्म सः तदा अन्यदाऽपि ।

आङ्ग्ल-संस्कृत-हिन्दी-उर्दूभाषासु कोविदः आसीत् मालवीयः । आङ्ग्लभाषया भाषणावसरे अन्यभाषापदानि न कदापि उपयुङ्क्ते स्म । संस्कृतभाषया भाषणसमये तु विद्यानां माता सरस्वती एव तस्य जिह्वायां नृत्यति स्म । भाषणानि इव तस्य लेखाः अपि पठितॄणां हृदयानि हरन्ति स्म । वचनानि मौक्तिकानि लेखनानि रत्नानि इवासन् तस्य ।

मालवीयः यद्यपि प्राचीनसम्प्रदायानुसारी तथापि क्रान्तिकारीमनोभाववान् अपि आसीत् । १९१९ तमे वर्षे एप्रिलमासस्य त्रयोदशदिनाङ्के 
अमृतसरनगरस्थे जलियन्-वालाबाग् स्थाने अत्यन्तं विषादकरी घटना प्रवृत्ता । सभायां भागिनः निस्सहायाः श्रोतारः विदेशीयानां गोलकास्त्रैः निहताः । स्त्रियः पुरुषाः बालाः वृद्धाः इति भेदं विना क्षयं गताः शतशः । एतस्य प्रधानकारणम् आसीत् 
जनरल् डय्यरः । भारतजनता चकिता जाता । सर्वकारीयप्रतिनिधयः सिमलायां समाविष्टाः । समावेशे श्रीमालवीयः अत्यन्तम् उद्वेगभरस्वरेण षड्घण्टां यावत् नरवधमधिकृत्य भाषितवान् । प्रेरणायुतायाः तस्य भाषणस्य कारणतः समाविष्टाः आङ्ग्लेयाः अपि प्रभाविताः ।
१९४७तमे वर्षे भारतदेशः स्वतन्त्रतां प्राप्तवान् । स्वतन्त्रतायाः एकवर्षात् पूर्वम् अतिविषादकर्यः घटनाः अभवन् । भारतीयजनतया कदापि न विस्मरणीयाः घटनाः ताः । तासां स्थानमासीत् वङ्गप्रदेशः । अत्यधिकसङ्खायां हिन्दवः पीडिताः ।  नवकालीपट्ट्णे दीनमारणम् अभवत् । निस्सहायाः जनाः बहूनि कष्टानि अनुभूतवन्तः । सर्वकारः तूष्णीं पश्यन् आसीत् ।

घटनाः ज्ञात्वा मालवीयः स्थाणुः अभवत् । महम्मदीयमते परिवर्तितानां हिन्दूनां पुनः स्वधर्मे आनयनाय 'रामनाम-पवित्रगङ्गाजलं च पर्याप्तम्’ इति हिन्दून् प्रति उक्तवान् सः । हिन्दून् सर्वान् एकसूत्रे संयोक्तुं महान्तम् अविरतं च प्रयत्नं कृतवान् सः । हिन्दु- महम्म्दीयसख्यस्य कृते अपि अधिकं प्रयत्नं कृतवान् । 'हरिजनोद्धरणेनैव हिन्दुदेशः अभिवृद्धिं प्राप्नोति’ इति वदन् आसीत् श्रीमालवीयः । दलितसहोदराणां, निर्धनानां महिलानाम्, अक्षरज्ञानशून्यानां जनानाम् च सेवां कुर्वन् आसीत् सः । सर्वथा भारतदेशः पुरोगामी भवेदिति मालवीयस्य काङ्क्षा आसीत् ।

शतं वर्षाणि पूर्णजीवनं यापनीयमिति मालवीयस्य आशयः आसीत् । भगवतः निर्णयः अन्यथा आसीत् । नवकाल्याः दारुणघटनानि तस्य हृदयं मनः च पीडयन्ति स्म । असाधारणीं वेदनां जनयन्ति स्म च । तथैव वेदनया १९४६ तमे वर्षे नवम्बर् मासस्य १२ दिनाङ्के पण्डितमदनमोहनमालवीयः अन्तिमश्वासं त्यक्तवान् । तेन भारतवासिनः सर्वे अपि दुःखसागरे निमग्नाः अभवन् ।

परमेश्वरे विश्वसितु । पशुपक्षिणां विषये अनुरागं दर्शय । निर्धनेषु, दुर्बलेषु च कृपां दर्शय । महिलाः मानय । आपन्नेषु साहाय्यं कुरु । कस्मिन्नपि क्रूरतां मा प्रदर्शय । स्वच्छं जीवनं यापय । पवित्रां गोमातरं रक्ष । अन्येषां सम्पदं मा हर । उत्तमकार्याणि सत्फलदानि । दुष्कार्याणि दुष्फलदानि । आत्मस्थैर्यं विश्वासश्च सर्वेषां भवेत् । अन्येषां विषये दुर्वचनानि मा वद । अभिप्रायभेदेऽपि प्रतिवादिनां वचनं शृणु । कस्मादपि मा भैषीः । अन्येषु भीतिं मा जनय । भारतदेशः अस्माकं मातृभूमिः । अस्माभिः भगवतः अनुग्रहेण लब्धा एषा भूमिः अतिपवित्रा । ऋजुवर्तनेन एतस्याः भूमेः सेवां कुरु ।
भारतं नाम इण्डिया नाम हिन्दुस्थानम् । भगवतः आशिषः प्राप्तवन्तः एव अत्र भारते  जायन्ते । हैन्दवधर्मः महोन्नतः । भारतीया आध्यात्मिकजीवनपद्धतिः एव श्रेष्ठा विश्वे । 'सन्मार्गे चर, सत्कर्माणि कुरु, मुक्तिं प्राप्नुहि’ इति भगवतः निर्देशं प्रकटयति सा । तत् लक्ष्यं प्राप्तुं भगवान् धर्मक्रमम् अनुगृहीतवान् । ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-संन्यासाश्रमधर्मान् क्रमेण आचरन् मानवः स्वयं धन्यो भवति; नैतिकधर्मान् शाश्वतं रक्षितुञ्च शक्नोति मानवः ।

केवलं स्वसुखाय जीवन् मानवः पशुसमानः भवति । सर्वोऽपि स्वदेशार्थं, धर्मार्थं, परार्थं च जीवेत् । विश्वे अत्यन्तपुरातनग्रन्थाः वेदाः एव । पाश्चात्यविज्ञाः अपि एतं विषयम् अङ्गीकृतवन्तः । सृष्टेः पूर्वं विश्वः सर्वोऽपि गाढान्धकारमयः । स्वदिव्यतेजसा भगवान् विश्वस्य कृते प्रकाशं दत्तवान् । भगवान् सर्वदा प्रकाशानुरागी । मानवः अस्मिन् ज्योतिर्मयमार्गे एव व्रजेत् । तदर्थं साधनमपि कुर्यात् । 
श्रीमालवीयेन अस्मभ्यं प्रदत्तः चिरस्मरणीयः सन्देशः एषः एव ।




#Article 140: स्वामी अखण्डानन्द सरस्वती (357 words)


स्वामी अखण्डानन्द सरस्वती (महाराजश्री इति अनुयायिभिः आहूयते) (१९११-१९८७) कश्चन महान् पण्डितः आसीत् । शास्त्रवेदान्तादिषु विषयेषु सः बहु ज्ञातवान् आसीत् । भागवतपुराणविषये समीचीनप्रवचनं तेन क्रियते स्म । सः १९११ तमे वर्षे जुलैमासस्य २५ तमे दिनाङ्के वाराणसिमण्डलस्य महारैग्रामे जातः । तस्य पितामहः एतं प्राप्तुं वृन्दावनस्य भगवन्तं श्रीशन्तनुबेहारीं प्रार्थितवान् आसीत् । श्रावणमासे अमावास्यायां ब्राह्मणकुले अयं जातः । भगवतः शन्तनुबिहारेः अनुग्रहेण जातः इत्यतः शन्तनु बेहारी इत्येव नामकरणं कृतवन्तः ।

श्रीगीतरसरत्नाकरनामके पुस्तके उल्लिखितमस्ति यत् अखण्डानन्दस्य जन्मनः अवसरे प्रसिद्धाः ज्योतिषिकाः अवदन् यत् अयं बालकः नवदशवर्षाणिमात्रं जीवति इति । मरणभयात् एव अखण्डानन्दः अध्यात्ममार्गम् आश्रितवान् । अस्मद्पूर्वजैः ऋषिभिः ज्ञातम् आसीत् यत् निश्चितात् मरणात् कश्चित् रक्षितुं न शक्यः चेत् ज्ञानं प्रदाय सः मरणभयात् मोचनीयः इति । अखण्डानन्दस्य जीवने तदेव अभवत् । ब्रह्मानुभवप्राप्तितः सः मरणभयात् शाश्वतरूपेण मुक्तः जातः । अयं दशवर्षीयः यदा आसीत् तदा तस्य पितामहः मूलभागवतं पठितुं प्रेरितवान् । ततः आरभ्य भागवतं तस्य विश्वासयोग्यः सहवर्ती जातम् ।

संन्यासस्वीकरणतः पूर्वं १९३४ तः १९४२ तमवर्षपर्यन्तं अयं गीताप्रेस्तः प्रकाशमानायाः 'कल्याण'पत्रिकायाः सम्पादकमण्डल्याः सदस्यः आसीत् । सः भागवतपुराणस्य अनुवादं हिन्दीभाषया अकरोत् । सः अनुवादः गीताप्रेस्-द्वारा प्रकाशितः । तेन १८० पुस्तकानि लिखितानि - भगवद्गीता, रामचरितमानस, उपनिषत् इत्यादीनां विषये ।

युवकः अयं कदाचित् प्रसिद्धं ब्रह्मचारीप्रभुदत्तं द्रष्टुं गतवान् । तत्र उदियबाबाजिमहाराजः अमिलत् । तेन सह वेदान्तविषये चर्चाम् अकरोत् । अद्वैतविषये तदीयां श्रद्धां निर्मलचित्तं दृष्ट्वा ततः नितराम् आकृष्टः अभवत् अयम् । उदियबाबाजि एतं नितरां प्रीत्या अपश्यत् । तस्य प्रेरणातः एव युवकः संन्यासस्वीकरणे मनः अकरोत् । ज्योतिष्पीठाधीश्वरः शङ्कराचार्यः स्वामी श्री ब्रन्मानन्दजी सरस्वतीवर्यः एतस्मै संन्यासदीक्षाम् अयच्छत् । ततः पण्डित शन्तनुबिहारीद्विवेदी स्वामी अखण्डानन्दसरस्वती जातः ।

बाल्यतः अध्यात्मे आसक्तः अखण्डानन्दः बहुभिः महापुरुषैः अमिलत् - उदियाबाबा, हरिबाबा, आनन्दमायि मा । १९६० तमे वर्षे सः 'भारतसाधुसमाजस्य' अध्यक्षत्वेन चितः जातः । अयं भारतीयविद्याभवनस्य गौरवसदस्य आसीत् । एतादृशः अवसरः दलैलामा, मदर् तेरेसा, प्रिन्स् चार्ल्स्, भारतस्य राष्ट्रपति, प्रधानमन्त्री इत्यादिभिः एव प्राप्यते । मुम्बयी-भारतीयविद्याभवने, प्रेमपुरि अध्यात्ममन्दिरे, बिर्लाभवने, बिर्लामन्दिरे, जे के मन्दिरे च सः प्रवचनाय आहूयते स्म ।

भारतस्य उत्तरप्रदेशे मथुरामण्डले वृन्दावने अयम् आश्रमः विद्यते । अयम् आश्रमः अखण्डानन्दवर्येण संस्थापितम् । अत्र कर्म-भक्ति-ज्ञानयोगानां सम्मिलनमस्ति इत्यतः तीर्थराजप्रयागसदृशः मन्यते । अत्र सत्सङ्गः, देवपूजा, गोसेवा, छात्रेभ्यः वेदपाठनम्, इत्यादीनि कार्याणि प्रचलन्ति । आश्रमेण विद्यालयः, वैद्यकीयसेवा च प्रचाल्यते । स्वामी ओङ्कारानन्द सरस्वती महाराजः १९८७ तः २००८ पर्यन्तम् आनन्दवृन्दावनाश्रमस्य मार्गदर्शनम् अकरोत् । अद्यत्वे स्वामी सच्चिदानन्दवर्यः मार्गदर्शनं कुर्वन् अस्ति ।

१९८७ तमे वर्षे नवम्बर्मासस्य १९ दिनाङ्के तन्नाम मार्गशीर्षकृष्णत्रयोदश्याम् अखण्डानन्दसरस्वती भगवति लीनः जातः ।




#Article 141: चाणक्यः (388 words)


चाणक्यः(Chanakya) (क्रि.पू ३७०-२८३) मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।

चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच  पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।

प्राचीनकाले भारतवर्षे मगधजनपदे नन्दवंशमिति एकं साम्राज्यम् आसीत् । मगधसाम्राज्यस्य राजधानी पाटलिपुत्रम् आसीत् । अस्मिन् साम्राज्ये बुद्धिमन्तः मन्त्रिण:, कर्तव्यनिष्ठा: कर्मचारिण:, गुणवन्त: पन्डिता:, शक्तिमन्त: सैनिका: च आसन्। नगरस्य वैभवम् अत्युत्कृष्टम् आसीत् । राज्ये उत्तमं कृषिकार्यं प्रचलति स्म । अन्त: नागरिका: धनिका: आसन् । शिक्षणव्यवस्था अपि अत्युत्क्रष्टा आसीत् । अस्मिन् एव राज्ये विश्वप्रसिद्ध:      आसीत् । राज्ये बहूनि वर्षाणि यावत् शासन्व्यवस्था उत्तमरीत्या प्राचलत् । अनन्तरं नन्दवंशे समुत्पन्न: धननन्द: राजा अभवत् । स: परमस्वार्थी इन्द्रियासक्तः च आसीत् । राज्यकार्ये तस्य रुचि: न आसीत् । अतः एव मगधराज्यं समस्याग्रस्तं जातम् । तस्मात् सर्वे नागरिका: चिन्ताग्रस्तः अभवन् ।

पाटलिपुत्रे बुद्धिमान् सदगुणसम्पन्न: राष्ट्रभक्त: सर्वशास्त्रपारङ्गत: चाणक्य: अपि वसति स्म। सर्वे राष्ट्रभक्ता: चाणक्येन सह परामर्शं कृतवन्त:। चाणक्य: धननन्दं बोधयितुं तस्य सकाशं गतवान्, किन्तु धननन्द: कुपितः जात:, स: चाणक्यस्य कृते अपमानमपि कृतवान् । तदानीं परमसात्विक: चाणक्य: नन्दसाम्राज्यं विनाशायितुं प्रति कृतवान् । स: एकं धीरं शास्त्रनिपुणं वीरं युवानं दृष्टवान् । तस्य नाम 'चन्द्रगुप्त:' इति । चाणक्य: चन्द्रगुप्ते अद्भुतं सामर्थ्यं दृष्टवान्। अतः एव चाण्क्य: स्वबुद्धिकौशल्येन दुष्टात् धननन्दात् राज्याधिकारं हित्त्वा नन्दवशं समूलं विनाश्य चन्द्रगुप्ताय मगधरज्यं दत्तवान् । स्वयं चाणक्य: तस्य महामात्य: अभवत् । चन्द्रगुप्तस्य पराक्रमेण चाणक्यस्य बुद्धिकौशलेन च मगधराज्यं पुनरपि सुखसमृद्धियुक्तम् अभवत् । चाण्क्यस्य मूलनाम विष्णुगुप्तः इति आसीत् । स: चणकस्य पुत्र: आसीत् अतः एव ’चाणक्य:’ इत्यपि कथ्यते। तस्य एव अपरं नाम 'कौटिल्य:' इत्यपि आसीत् । चाणक्यस्य जन्म ख्रीस्तपूर्वतृतीयशताब्दे अभवत् । स: स्वयं राजनीतिज्ञ: आसीत् । अतः एव राजनीतिशास्त्रं, धर्मशास्त्रं, विधिशास्त्रम्, अर्थशास्त्रं च अधिकृत्य 'अर्थशास्त्रम्' इति ग्रन्थस्य रचनां कृतवान् । अर्थशास्त्रे राजनीतिविषयकानि सूत्राणि सन्ति। चाणक्येन अर्थशास्त्रे पराशर-बृहस्पति-भारद्वाज-मनु-पिशुन-विशालक्ष-आदीनां स्वपूर्ववर्तिनाम् अर्थशास्त्रविदुषाम् अपि उल्लेख: कृत: चाणक्यात् अर्थशास्त्रपरम्परायां ’कामन्दकीय-नीतिसार:’ महत्वपूर्ण: ग्रन्थ: अस्ति। 




#Article 142: मुकेशः (1031 words)


मुकेशः (जीवितकालः क्रि.श. १९२३तमवर्षस्य जुलै २२दिनाङ्कतः क्रि.श. १९७६तमवर्षस्य अगस्ट् २७दिनाङ्कपर्यन्तम् ) हिदीभाषायाः चलच्चित्रजगतः प्रसिद्धः नेपथ्यगायकः । विशेषतः अस्य गानं हृदयसंवादि भवति । भारतस्य हिन्दीचलच्चित्रक्षेत्रे अस्य कालः नाम क्रि.श.१९५०तमवर्षस्य अनन्तरकालः सुवर्णयुगम् इति सङ्गीताभिमानिभिः उक्तः । मन्ना डे, मोहम्मद रफी, तलत् महमूदः इत्यादिषु तत्कालीनख्यातगायकेषु अग्रगण्यः स्वरसाम्राट् मुकेशः आसीत् । एषः द्विशताधिकचलच्चित्राणां गीतानि गीतवान् । चलच्चित्रगीतानि अतिरिच्य एषः भावगीतानि, शेर्गीतानि, भक्तिगीतानि इति  अन्यागीतानि अपि गीतवान् । हिन्दीमहाकवेः तुलसीदासस्य रामायणम् अपि अनेन गीतम् अतीवजनप्रियम् अस्ति । 
 

क्रि.शा.१९२३तमे वर्षे जुलै मासस्य २२दिनाङ्के पञ्जाबरज्यस्य मध्यमवर्गस्य लघुकुटुम्बे  अजायत । देहल्याः अभियन्तृविभागे कार्यं कुर्वाणस्य लाला जोरवर् चन्द मथुरस्य दशापत्येषु षष्टः मुकेशः अस्य माता चान्द राणी इति ।  अस्य पूर्णं नाम मुकेश चन्द्र माथुरः  देहल्यां दशमकक्ष्यापर्यन्तम् अध्ययनं कृत्वा तत्रस्थे सार्वत्रिककर्मकरविभागे (PWD) सहायकसर्वेक्षकरूपेण ७मासकालं कार्यं कृतवान् । मुकेशः क्रि.श.१९४६तमे वर्षे सरला त्रिवेदी इत्येषा अनुरागेण परिणीतवान् । एतां स्थलीयाः बची बहन् इति सम्बोधयन्ति स्म । एषा गुजरातीब्रह्मणस्य पुत्री । कुन्तु विवाहकले एतस्य मुकेशस्य निश्चितः अयः स्वीयं गृहं वा नासीत् । तदानीन्तनकाले चलच्चित्ररङ्गस्य वृत्तिम् अनैतिकः उद्योगः इति जानानां भावः आसीत् । एतादृशपृष्ठभूमौ प्रेमिणौ कुटुम्बतः दूरं गत्वा आर्.डि.माथुर् इत्यस्य सहाय्येन मुम्बैप्रदेशस्य कान्दिवलिमन्दिरे विवाहविधिं समपूरयताम् । सर्वविधकष्टकार्पण्यानि अनुभवन् अपि जयशाली भूत्वा स्वस्य ३०तमं विवाहवर्षिकोत्सवम् आचरितवन् । एतददन्तनरं क्रि.श. १९६७तमे वर्षे जुलै मासस्य २७तमे दिने लता मङ्गेश्करःइत्यनया प्रसिद्धगायिकया सह सङ्गीतकर्यक्रमान् प्रदर्शयितुम् अमेरिकसंयुक्तसंस्थानम् अगच्छत् । मुकेशसरलादम्पत्योः रीटा, नितिन्, नलिनी, मोह्नीश्, नम्रता, नील्,  इति षट् अपत्यानि आसन् ।

कश्चित् सङ्गीतशिक्षकः मुकेशस्य गृहम् अगत्य तस्य सहोदरीम् पाठयति स्म । पार्श्वप्रकोष्ठे स्थितः मुकेशः तत्सर्वं श्रुत्वा पश्चात् अभ्यस्यति स्म । एतत् दृष्ट्वा सङ्गीताध्यापकः तस्मिन् मुकेशे भविष्यतः गायकम् अभिज्ञाय स्वस्य सहोदरं परमेश्वरीदासम् अस्य सङ्गीगुरुमकरोत् । तत्पश्चात् मुकेशः यदा देहलीनगरे उद्योगी अभवत् तदा रहसि केषाञ्चनचलच्चित्राणां गानानां ध्वनिमुद्रणम् अकरोत् । तदानितने काले एव मुम्बैनगरं गत्वा चलच्चित्राभिनेता भवितुं चिन्तितवान् अपि । मूकेशं सहोदर्याः विवाहमहोत्सवं गायन्तं दृष्ट्वा तस्य कश्चिद्बन्धुः मोतीललः एतं मुम्बैनगरं नीतवान् । मूकेस्य स्वस्य गृहे एव वासव्यवस्थां सङ्गीतपाठम् अपि प्रकल्पितवान् ।

तदानीन्तनकालस्य प्रसिद्धः अभिनेता गायकः च कुन्दन् लाल् सैगल् इत्याख्यातः कदाचित् मोतिलालस्य गृहस्य पुरतः गच्छन् सुश्राव्यस्वरेण आकृष्टः अस्य गृहं प्रविष्टवान् । प्रथमाट्टे उपविश्य मुकेशस्य गानं शृण्वन् मोतिलालः 'दिहलीतः चलच्चित्ररङ्गे कार्यम् अन्विषन् आगतः' इति सैगलाय मुकेशस्य परिचयं कारितवान् । एषः चलच्चित्रगाने भविष्यति मम स्थानमारोहति इति सैगलः भविष्यवाणी अवोचत् ।

क्रि.श. १९४१तमे वर्षे सैगलस्य कश्चित् वयस्यः न्याषनल् स्टुडियो स्वामी ताराहरीशः  निर्दोष्  इति हिन्दीभाषाचलच्चित्रस्य निर्माणस्य सिद्धतायाम् आसीत् । सैगलस्य वचानानुसारेण ताराहरीशः मुकेशं तस्य चलच्चित्रस्य नायकं गायकं चाकरोत् । सिण्डरेल्लयाः कथा इव विमात्रा द्वभ्यां सहोदरीभ्यां हिंसितायै कथानायिकायै नवजीवनं दातुः धनिकयुवकस्य भूमिकां मुकेशः निर्वहति । नलिनी जयवन्त इति ख्यातनायिकायुक्तम् एतत् चलच्चित्रं यशस्वि अभवत् । मुकेशस्य कण्ठेन  दिल् ही बुझा हुआ हो तो  इति गानं जनानां कर्णेषु अनुरणति स्म मुखे खेलति स्म । अनया ख्यात्या  रणजित् मूविटो इति समवाये वर्षत्रयं कार्यं कर्तुम् आह्वानं प्राप्तवान् । तेषु त्रिषुवर्षेषु मुकेशः अनेकेषु चलच्चित्रार्थं कार्यं कृतवान किन्तु कानिचन एव लोकार्पितानि । तानि अपि धनादानविषये सफलानि न अभवन । तत्कालीनप्रसिद्धाभिनेत्र्या सह सुख दुःख् इति चलच्चित्रे खलप्रेम्णः भूमिकां कृत्अवान् । करण दिवानस्य नायकत्वं नलिनी जयवन्तस्य नायिकात्वयुक्तं मुकेशस्य पोषकभूमिकायुक्तम् आदब् अर्ज़् चलच्चित्रं परिगण्यं चित्रम् । अस्मिन् समवाये वर्षत्रयं सम्पूर्य नेपथ्यगानस्य विषये अधिकं लक्ष्यं दत्तवान् । क्रि.श.१९४२-४४तमवर्षयोः मूर्ति ,  उस् पार्   इत्यादिचित्राणां युगलगीतानि गीतवान् । तत्पश्चात् क्रि.श.१९४५तमे वर्षे पहली नज़र्  चित्रे  दिल् जल्ता है तो जल् ने दे   इति गानं गीतवान् । अनिल् विश्वास इति ख्यास्वरसंयोजकस्य निदेशकत्वे दर्बारी रागम् अनुसृत्य रचितं गीतं मुकेशस्य चित्ररङ्गंप्रवेशस्य कारणिकस्य मोतिलालस्य च धर्मकर्मसंयोगः इति चित्रीकृतम् । गानम् अपि बहुविश्रुतम् अभवत् ।

क्रि.श. १९४८तमे वर्षे मेला , क्रि.श.१९४९तमवर्षस्य अन्दाज़्  चलच्चित्रे नौशादस्य सङ्गीतसंयोजने स्वीयां विशिष्टां शैलीम् निरूपितवन् । तत्रापि अन्दाज़्  चलच्चित्रस्य तु कहे अगर् , झूम् झूम् के नाचे आज़् , हम आज़् कहीं दिल् खो बैटे,  टूटे न दिल् टूटे न , इत्यादिषु गानेषु मुकेशस्य विशेषता दृश्यते । अस्य चित्रस्य विशेषः इत्युक्ते उपर्युक्तानि गीतानि दिलीपकुमारस्य अभिनययुक्तानि, राजकपूरस्य अभिनयार्थं महम्मद रफी गीतवान् । राजकपूरस्य गानस्वरः मुकेशः इत्येव लोके प्रथितः असीत् । क्रि.श. १९४८तमे वर्षे राजकपूरेण निर्मितात्  आग्  इति चलच्चित्रात् एतेयोः युग्मः आरब्धः । अग्रिमे वर्षे राजकपूरः शङ्करः जैकिशनः इति सङ्गीतज्ञयुग्मं स्वस्य गणे योजितवान् । अनेन अस्मिन् चलच्चित्रलोके किञ्चन नूतनयुगमेव प्रवृत्तम् । राजकपूरस्य  आवारा , श्री ४२०  इति अग्रिमचित्रयोः मूकेशस्य गानानानि न केवलं भारते रशियायां चीनायां च जनप्रियानि अभवन् ।

किन्तु तस्मिन् काले मुकेशेन गानक्षेत्रे स्वस्थनस्य निर्मितव्यम् अभवत् । पञ्जवर्षाणि तावत् अनेन गानस्य अवकाशः न प्राप्तः । अतः आर्थिकी स्थितिः सुस्थिरा नासीत् । क्रि.श. १९५८तमे वर्षे दिलीपकुमारस्य अभिनयस्य यहूदि  इति चलच्चित्रस्य  येह् मेरा दीवानापन् है  इति गानस्य प्रसिद्धेः पश्चात् पुनः गानावकाशः निरन्तरम् आगतः । दिलीपकुमारस्य एव मधुमति  इति चित्रे सलिल् चौधरी इत्यस्य सङ्गीतसंयोजने गीतानि सर्वगानानि जनप्रियाणि अभवन् । पश्चात्  पर्वरिश् ,  फिर् सुबह होगी इति चित्रस्य गानैः सह क्रि.श. १९६०तमवर्षतः क्रि.श. १९७६तमवर्षपर्यन्तम् अत्यन्तं हृद्यगीतैः मुकेशः जनमनांसि रञ्जितवान् । राजकपूरस्य सङ्गीतस्वरः इति सम्बोधितः मुकेशः मनोजकुमारस्य अभिनयार्थम् एव अधिकानि गीतवान् । अस्य अत्यधिकगीतानि कल्याणजी आनन्दजी इति युग्मसङ्गीतज्ञयोः स्वरसंयोजने एव सन्ति ।

मुकेशः गानस्य सन्निवेशस्य विवरणं प्राप्य तस्यां भूमिकायां परकायप्रवेशम् इव कृत्वा तस्य संवेदनं ज्ञात्वा भावम् अनुभूय गायति स्म । यथा.. क्रि.श. १९५१तमे काले प्रदर्शितास्य  अफ्साना   चलच्चित्रस्य किस्मत् बिगडी दुनिया बदली इति गीतम् ।  यहूदी चित्रस्य येह् मेरा दिवानापन् है इति गीतम् । देवर्  चित्रस्य‘ बहारों ने मेरा चमन् लूट् कर्  गीतम् । अपि च आनन्द्  इति चलच्चित्रस्य  कहीं दूर् जब् दिन् डल् जाये  इति गाने मधुर्येण सह दुःखन्तर्यम् अपि अनुभोक्तुं शक्यते । यथा चित्रस्य नायकः वदति दुःखे अपि सौन्दर्यं अस्ति ।

न केवलं शोकभरितानि अवक्षेपयुतानि च न प्रेमनिवेदनस्य च गीतानि अनेकानि सन्ति । मन् चली , इति चलच्चित्रस्य तन् मन् धन् सब् है  तेरा , देवस्य भजनम् भाव्यमानानि,  शारदा , चित्रस्य जप् जप् जप् रे मनवा जप् रे प्रीत् की माला  इत्यादीनि दुर्ललितगीतानि,च अनेन गीतानि । जनैः अधिकतया अश्रुतानि गीतानि यथा  ससुराल्  चित्रस्य  अप्ने उल्फत् पे जमाने का पेहरा होता  इति गीतम्,  मुहब्बत् इस्को कहते हैं  इति चलच्चित्रस्य  इत्ना हुस्न् पे हुज़ूर् न गुरूर् कीजिए , एक् बार् मुस्कुरादो इति चित्रस्य  चेहरे पे ज़रा आञ्चल्   इत्यादीनि गीतानि वैविध्यस्य उदाहरणानि । क्रि.श. १९५९तमे वर्षे लोकार्पितस्य पिर् सुबह होगी चलच्चित्रस्य सामाजिकविडम्बनयुतानि ... गीतानि मुकेशः सामाजस्य परिदेवनायाः वेदनयायुतस्वरेण गीतवान् ।

मुकेशः स्वस्य ५३तमं जन्मोत्सवम् आचर्य क्रि.श.१९७६तमे वर्षे जुलै मासस्य २७तमे दिने लता मङ्गेश्करः इति ख्यातनेपथ्यगायिकया सह अमेरिकासंयुक्तसंस्थानस्य विविधस्थानेषु स्वस्वरमाधुर्येण सङ्गीतरसिकानां मनांसि तर्पितवान् । तत्र मिशिगन् संस्थानस्य डेट्रायिट् इति प्रदेशे वेदिकायाम् आगते सति हृदयवैफल्येन गतासुः अभवत् । पश्चात् अस्य पार्थिवशरीरं मुम्बैनगरम् आनीय अन्त्येष्टिं समाचरन् । एतदग्रिमे वर्षे तस्य कृतकर्माणां दर्म् वी, अमर् अक्बर् अण्टोनी, खेल् खिलाडी का, चान्दी सोना, इत्यादीनि चलच्चित्राणि लोकार्पितानि । क्रि.श १९७८तमे वर्षे अस्य स्वरयुक्तानि  आहुति , तुम्हारी कसम्, सत्यं शिवं सुन्दरम्  चलच्चित्राणि प्रदर्शितानि । एतत्पश्चादपि क्रि.श.१९९७तमवर्षपर्यन्तम् अपि अस्य पूर्वे एव गानमुद्रिकायुक्तानि चलच्चित्राणि प्रदर्शनम् प्राप्तानि । अस्य स्वरयुक्तम् अन्तिमं चित्रं चान्द् ग्रहण् इति ।

क्रि.श.१९७४तमे वर्षे रजनीगन्ध इति हिन्दीभाषाचलच्चित्रस्य  क्यी बार् योंही देखा है गानार्थम् एषा प्रशस्तिः प्रदत्ता ।




#Article 143: श्रीरामकृष्णपरमहंसः (621 words)


श्रीरामकृष्णपरमहंसः (बाङ्गला: শ্রী রামকৃষ্ণ পরমহংস, श्री रामकृष्णो परमोहंसो; पूर्वाश्रमस्य नाम गदाधर चट्टोपाध्याय)(१८ फेब्रुवरी, १८३६ - १६ अगष्ट्, १८८६) भारते जन्म कश्चन महान् धर्मोपदेशकः। पश्चिमवङ्गराज्यस्य हुगलिमण्डले कामारपुकुरनामके ग्रामे १८३६ क्रिस्त्वब्दे फेब्रुवरी मासस्य अष्टादशे दिने अयं जनिमलभत।  क्षुदिरामनामकः ब्राह्मणः अस्य पिता, माता तु चन्द्रमणिः।  पितरौ तस्य गदाधर इति नाम अकुरुताम्।  बाल्य एवायं स्वकीयासु चेष्टासु असाधारणीं प्रतिभां प्रकटयन्नवर्तत। स्वामिविवेकानन्दस्य गुरुः आसीत् सः। एतौ द्वाऽपि बङ्गनवजगरणस्य तथा विंशशताब्द्याः हिन्दुनवजागरणस्य अग्रगण्यौ । अनेकान् शिष्यान् अध्यात्ममार्गे अग्रे अनयत् रामकृष्णः । तस्य शिष्यसमाजे, भक्तसमाजे च सः भगवतः अवताररूपेण कल्पितः आसीत् । 

तादात्विकः विद्याभ्याससम्प्रदायः अस्मै नारोचत।  अतः स विद्यालयगमने अनुत्सुकः आसीत्। सहचरैस्साकं ईस्वरभक्तिपरासु क्रीडासु संलग्नः कालमनयत्।  तस्य भ्राता रामकुमारः जन्मग्रामात्तं कल्कत्तानगरं नीतवान्।  तत्र दक्षीणेश्वरे कस्मिंश्चित् कालीक्षेत्रे गदाधरः अर्चकोऽभवत् । सदापि ईश्वरचिन्तायां निलीनस्य गदाधरस्य शरीरसंस्कारेऽपि श्रद्धा नाऽसीत्।  देहि मे दर्शनमिति विलपन् देवालयाङ्कणे लुठन्,चेष्टाश्च प्रदर्शयन्नयं जनैः उन्मादी इत्यमन्यत। लोकमुखात् स्वपुत्रमुन्मादिनं श्रुत्वा माता तं जन्मग्राममानिनाय, तस्य विवाहमप्यकारयञ्च।  तेनैव निर्दिष्टा शारदामणि नामिका बालिका एवं तस्य धर्मपत्नी अभवत्। 

पश्चिमवङ्गस्य लघु लघु ग्रामेऽपि तेन प्रदत्ताः उपदेशाः अतिप्रसिद्धाः आसन् । १८८६ तमे वर्षे रामकृष्णस्य प्रयाणस्य अनन्तरं अनुगामिनः तस्य कार्यमग्रे नीतवन्तः । एतेषाम् अनुगामिनां नेतृत्वं स्वामी विवेकानन्दः कृतवान् । विवेकानन्दः रामकृष्ण मिशन् इति एकां धर्मीयसंस्थां निर्मितवान् । रामकृष्णान्दोलनं भारतस्य अन्यतमं नवजागरणान्दोलनम् । रामकृष्ण मिशन्-संस्थायाः भारते तथा आ विश्वे १६६ शाखाः(२००८ तमवर्षे)  विद्यामानाः सन्ति । अस्याः संस्थायाः प्रधानकार्यालयः पश्चिमबङ्गराज्यस्य हावडानगरस्य बेलुर मठे अवस्थितः ।

पश्चिमवङ्गराज्यस्य हुगलिमण्डलस्य कामारपुकुरग्रामे १८३६ तमे वर्षे एकः दरिद्र-धर्मनिष्ठ-रक्षणशील-ब्राह्मणपरिवारे रामकृष्णपरमहंसः अजायत । तस्य पितरौ क्षुदिराम चट्टोपाध्याय तथा चन्द्रमणि देवी च आस्ताम् । एतयोः चतुर्थपुत्रः आसीत् अयं रामकृष्णः । कथितम् अस्ति यत् श्रीरामकृष्णस्य जननात् प्राग् पितामातुः जीवने बह्वः अलौकिकघटनाः घटिताः आसन् ।  शिवलिङ्गतः ज्योतिः तस्याः गर्भे प्रविष्टा इति सन्तानसम्भवा चन्द्रमणि देवी दृष्टवती आसीत् । तस्य पिता क्षुदिरामः तीर्थभ्रमणसमये गयायां गदाधरविष्णोः दर्शनम् प्राप्नोत् । एतस्मात् सः नवजातस्य शिशोः नामकरणं गदाधर इति कृतवान्  । 

शैशवकाले गदाइ इति नाम्ना परिचितः गदाधरः ग्रामवासीजनेषु अतिप्रीयः आसीत् । अङ्कने तथा मृत्प्रतिमानिर्माणे तस्य दक्षता सहजाता आसीत् । तादात्विकः विद्याभ्याससम्प्रदायः अस्मै नारोचत।  अतः स विद्यालयगमने अनुत्सुकः आसीत्परन्तु गानवाद्यवादने, यात्राभिनये, धर्मीयोपाख्याने सः पारदर्शी आसीत् । तीर्थयात्री-संन्यासी-पुरणकथाव्याख्याकाराणां संससर्गेण अत्यल्पे वयसि एव पुराण-रामायण-महाभारतं तथा भागवतादिविषयेषु व्युत्पत्तिम् अर्जितवान् गदाधरः ।मातृभाषाबाङ्गलायां केवलम् अक्षरज्ञानं तस्य आसीत् ; किन्तु संस्कृतानुधाने  समर्थः भूत्वाऽपि सम्भाषणे अपारगः आसीत् । पुरीतीर्थगमनमार्गे कामारपुकुरग्रामे विश्रामरतपथिकजनानां सेवाकार्यं सः अकरोत् । तस्मिन् समये तेषां धर्मीयतर्कवितर्कान् मनसा शृणोति स्म गदाधरः ।

श्रीरामकृष्णस्य स्मृतिचारणा इति पुस्तकात् ज्ञायते यत् सप्तमे वयसि एव रामकृष्णस्य आध्यात्मिकभावतन्मयता अगच्छति स्म । एकदा धान्यकृषिभूमौ चलनसमये आकाशे कृष्णमेघस्य उपरि श्वेतबलाकानां सौन्दर्येण मोहितः भूत्वा बाह्यज्ञानशून्यः सः अभूत् । अनन्तरकाले तस्य ताम् अवस्थाम् अनिर्वचनीयानन्दस्य अभिज्ञतारूपेण वणितवान् । बाल्यकाले इतोपि कतिपय वारं तस्य अनुरूपं भावतन्मयता दृश्यते स्म ।

१८४३ तमे वर्षे तस्य पिता दिवङ्गतः । समग्रपरिवारस्य परिपालनदायित्वम् अग्रजस्य रामकुमारस्य उपरि आपतितम् आसीत् । इयं घटना गदाधरस्य मनसि गभीरप्रभावं विस्तारितवती । धर्मीयजीवनयापनस्य इच्छा इतोऽपि दृढा अभवत् । नित्यगृहस्य कार्ये, गृहदेवतायाः पूजायां च गदाधरः अधिकसमयं व्ययं करोति स्म । प्रायशः आत्ममग्नः भवति स्म धर्मीयमहाकाव्यपाठसमये ।

गदाधरस्य यदा किशोरावस्था तदा परिवारे आर्थिकसङ्कटम् अभवत् । अग्रजः राजकुमारः कोलकातायां एकं संस्कृतपाठशालां (बाङ्गला- সংস্কৃত টোল, संस्कृत टोल्) आरब्धवान् । अतिरिक्ते समये सः पौरहित्यं करोति स्म । १८५२ तमे वर्षे अग्रजस्य सहायतां कर्तुं गदाधरः कोलकातां गतवान् ।

१८५५ तमवर्षे कोलकातायाः अस्पृश्य-कैवर्तसमाजस्य धनी सामन्तपत्नी राणी रासमणि दक्षिणेश्वरप्रदेशे कालीदेव्याः मन्दिरं निर्मितवती । मन्दिरस्य प्रधानार्चकरूपेण रामकृष्णस्य अग्रजः रामकुमारः नियुक्तः आसीत् । गदाधरोपि सहकारी अर्चकरूपेण प्रतिमायाः अलङ्करणं दायित्वेन स्वीकृतवान् । १८५६ तमे वर्षे रामकुमारस्य परलोकप्राप्त्यां सत्यां गदाधरः मन्दिरस्य प्रधानपुरोहितरूपेण अभिषिक्तः जातः । मन्दिरस्य ईषाणकोणे तस्य प्रकोष्ठः आसीत् । जीवनान्तपर्यन्तं सः अस्मिन् प्रकोष्ठे निवासं कृतवान् आसीत् । एवमनुमियते यत् राणी रासमण्याः जामाता मथुरामोहन विश्वास- महोदायेनैव रामकृष्णः नाम प्रदत्तमासीत् । अन्यमतानुसारं, इदं नाम तोतापुरी गुरुणा दत्तमासीत् ।

रामकुमारस्य परलोकगमनोत्तरं रामकृष्णस्य भावतन्मयता अधिका जाता आसीत् । कालीदेवीं मातारूपेण तथा विश्वजननीरूपेण सः प्रत्यक्षितवान् । अस्मिन् समये देव्याः प्रत्यक्षरूपदर्शनाय तस्य मनः व्यकुलम् अभवत् । तस्य विश्वासेन पाषाणप्रतिमाऽपि अन्नग्रहणं करोति स्म । पूजावसरे देव्याः दर्शनम् अप्राप्य सः कदाचीत् उच्चैः क्रन्दनं करोति स्म । रात्रिकाले निकटवर्ती वनं गत्वा सः निर्जने स्थले वस्त्रोपवीत् त्यक्त्वा ध्यानं करोति स्म केचन उक्तवन्तः एषः उन्मत्तः जातः, अपरे तु मन्वन्ते स्म इश्वरप्रेम्नि आकुलः सः । 




#Article 144: कृष्णदेवरायः (134 words)


कृष्णदेवरायः विजयनगर साम्राज्यस्य तुळुवा वंशस्य राजा आसीत्। भारतीयेतिहासे प्रख्यातं विजयनगरसाम्राज्यम् । तस्य पालकः कश्चित् सुसम्पन्नः राजा आसीत् । सः स्वपराक्रमेण बलयुक्तं शत्रुसैन्यं जित्वा अपि, पुनः शत्रौ दयागुणं दर्शयति स्म । अतः सः चक्रवर्ती उत्तमः, योग्यः परिपालकः प्रजारञ्जकश्च इति कीर्तितः आसीत् । तस्य काले हम्पिनगरस्य वीथीषु रत्नानि, वज्राणि च जूर्णानि, धान्यानि इव विक्रीण्ते स्म । धर्मस्य, ललितकलानां च उदारभावेन आश्रयं कल्पितवान् आसीत् सः रसिकः । स्वयं महाकविः सन् अपि परकवितानुरागी आसीत् सः ।
नगरे आपणेषु यथा सामान्यवणिजः धान्यस्य विक्रयणं कुर्वन्ति तथा एतद्देशीयाः वणिजः रत्नानि वज्राणि राशीकृत्य तेषां विक्रयणं कुर्वन्ति स्म । तस्य राज्ये रात्रिसमयेऽपि युवतयः आभरणानि धृत्वा विना भयम् एकाकिन्यः एव सञ्चरन्ति स्म ।
अन्यदेशेभ्यः आगताः यात्रिणः तस्य राज्यम् एवम् आसीदिति स्वग्रन्थेषु उल्लिखितवन्तः सन्ति । तेन ज्ञायते तत् राज्यं कियत् धनवत्, राजा च कियान् समर्थः आसीत् इति ।
सः प्रभुः एव श्रीकृष्णदेवरायः विजयनगरसाम्राज्यस्य चक्रवर्ती ।




#Article 145: बालमुरलीकृष्णः (410 words)


मङ्गलंपल्लि बालमुरली कृष्ण (M. Balamuralikrishna) कर्णाटकशास्त्रीयसङ्गीतस्य कश्चित् महागायकः, कृतिकारः वाद्यकारः च अस्ति। एतावताकालेन ४००अधिकाः कृतीः रचितवान् १८सहस्राधिकसङ्गीतगोष्ठीः सञ्चालितवान् । २५०अधिकाः सङ्गीतध्वनिमुद्रिकाः लोकाय प्रदत्तवान् । 

डा. मङ्गळम्पल्लि बालमुरलीकृष्णः क्रि.श. १९३० तमे वर्षे जुलै मासस्य षष्टे दिनाङ्के आन्ध्रप्रदेशराज्यस्य गोदावरीपूर्वमण्डलस्य रोजुलु इति जनपदस्य सङ्करगुपन् इति ग्रामे अजायत । अस्य बाल्यनाम मुरलीकृष्णः इति । किन्तु तस्य ग्रामस्य प्रसिद्धः हरिकथाविद्वान् नारायणः मुरलीकृष्ण इति नाम्नः मूले बाल इति पदं योजितवान् । गृहे एव सङ्गीतवातावरणम् आसीत् । पिता पट्टाभिरामय्यः वंशीवीणाबाहुलीनावादकः । माता सूर्यकान्तम्मा श्रेष्ठा वीणावादिनी । बालमुरलीकृष्णः यदा पञ्चदशे वयसि आसीत् तदा तस्य माता दिवङ्गता । अस्य पितृभगिनी एतं विजयवाडप्रदेशं नीत्वा स्वगृहे पोषितवती । बाल्यादारभ्य अस्य पिता सङ्गीतस्य प्राथमिकगुरुः । पितुः सङ्गीतासक्तिः पुत्रम् अपि प्रभावितवती । पिता सङ्गीताक्त्याः उत्तुङ्गे विद्यमानं पुत्रं सुसर्ल दक्षिणामूर्तिः इत्यस्य आश्रये सङ्गीतम् अध्येतुम् न्यस्तवान् । कतिपयेषु एव वर्षेषु बालमुरलिकृष्णः ७२रागान् वीतवान् । क्रि.श. १९६० तमे वर्षे विजयवाडस्य आकाशवाणीकेन्द्रस्य भक्तिरञ्जिनी इति प्रातःकालस्य कार्यक्रमे गीतमालाम् आरभ्य बहुजनप्रियः अभवत् ।

सङ्गीतविद्वान् बालमुरलीकृष्णः कर्णाटकसङ्गीतस्य मेरुगायकः । रागस्य तालस्य गानस्य पल्लव्याः च नूतनप्रयोगानां जनकः । भारतदेशस्य महत्सु वाग्गेयकारेषु अन्यतमः । देशविदेशेषु अनेकाः सङ्गीतगोष्ठीः समचालयत् । तेलुगुभाषा, संस्कृतभाषा,  कन्नडभाषा, तमिळुभाषा, मलयाळभाषा, इत्यादिषु भाषासु शास्त्रीयतगीतानि गीतवान् । अपि च एतासु भाषासु चलच्चित्रगीतानि अपि गीतवान् सम्भाषणस्य कण्ठदानं च कृतवान् । क्रि.शा. १९३८ तमे वर्षे प्रचालिते सद्गुर्वाराधनामहोत्सवे स्वस्य प्रथमसङ्गीतगोष्ठीं प्रदर्शितवान् । तदा अस्य आयुः केवलं ८वर्षाणि । गानम् अतिरिच्य बाहुलीनां, खञ्जिरं, वंशीं सन्तोषेण वादयति स्म । विजयवाडस्य सर्वकारीयसर्ङ्गीतविद्यालयस्य प्राम्शुपालत्वेन सेवाम् अकरोत् । अभिनये निपुणः नैव किन्तु वाग्गेयकारः, कविः, सर्वदा नूतनस्य संशोधकः। स्विट्ज़र्ल्याण्ड् देशे Academy of Performing arts  Research इति संस्थाम् अस्थापयत् । कलासंस्कृतीनाम् अभिवृध्यर्थे मद्रास्(चेन्नै) नगरे एम्.बि.के.ट्रस्ट् इति संस्थाम् आरभ्य तया सङ्गीतनृत्यशालां सञ्चालयति । 'सन्ध्या केन्दिन सिन्धूरम्' इति मलयाळभाषाचलच्चित्रे प्रमुखभूमिकां निरूढवान् । सङ्गीतेन सह अस्य प्रियतरः वि़षयः नाम सुग्रासभिजनं मन्दं दीर्घकालपर्यन्तं कर्तुम् अस्य मनः इच्छति । अन्नसारयोः भोजनम् अतीव प्रियतरम् । भर्जितभक्ष्यानि, पयोहिमः इत्यादीनि अपि प्रियाणि ।

गृहे बालैः सह खेलनम्, दूरदर्शनवाहिनिषु कार्यक्रमाणां वीक्षणम्, विदेशगमने धननिष्कानि उपयुज्य सभिकक्रीडा, इत्यादीनि बालमुरलीकृष्णस्य प्रियानि सद्व्यसनानि । 

बालमुरलीकृष्णः अपूर्वान् नूतनरागान् संयोजितवान् । पूर्वं पञ्चस्वरैः विना रागः न रञ्जयति इति सम्प्रदायः आसीत् । एतत् अतिरिच्य त्रयाणां चतुर्णां वा स्वराणां रागान् गीतवान् । अस्य कानिचन रागरचनानि एवं सन्ति । महती, सुमुखम्, त्रिशक्तिः, सर्वश्रीः, ओङ्कारी, जनसम्मोदिनी, मनोरमा, रोहिणि, वल्ल्भी, लवङ्गी, सुसमः इत्यादयः । बालमुरलीकृष्णः काश्चन नूतनकृतीः अपि रचितवान् सङ्गीतस्य नूतनकन्तिं, चिकित्सां च कुर्वन् शोधितवान् । वर्णं तिल्लानविष्यकं सूर्यकान्तिः इति रचनस्य विषये चतृसु भाषासु शोधग्रन्थाः सन्ति । बेङ्गळूरुमहानगरस्य गायनसमाजः इति सभाङ्गणे आयोजिते भक्तिभारतीप्रतिष्ठानस्य   पुरन्दरदसोत्सवे  सङ्गीतगोष्ठीं प्रदर्शितवान् । एषः न केवलं भारतम् अमेरिका, केनडा, इटलि, फ्रान्स्, रष्या, श्रीलङ्का, मलेष्या, सिङ्गपुर, इत्यादिषु देशेषु २०सहस्राधिकाः सङ्गीतगोष्ठीः प्रदर्शितवान् । शताधिकाः गीतगुच्छानां ध्वनिमुद्रिकाः लोकार्पिताः । अनेन स्वरनिबद्धाः महादेवसुतं, श्रीसकलगणाधिप, गङ्गणपते इत्यादयः कृतयः बहुजनप्रियाः सन्ति । 




#Article 146: किष्किन्धाकाण्डम् (156 words)


वानराणां वासस्थलम् अस्ति किष्किन्धा । रामलक्ष्मणौ वानरनायकं हनुमन्तम् अत्र एव अमिलताम् । किष्किन्धाधिपत्यात् च्युतः सुग्रीवः अपि अत्र मिलितः । रामः सुग्रीवसख्यम् अकरोत् । तस्य ज्येष्ठभ्रातुः वालिनः हननं कृत्वा सुग्रीवाय किष्किन्धासाम्राज्यं पुनः अदास्यत् रामः । सुग्रीवेण सीतायाः अन्वेषणे साहाय्यं कर्तव्यम् इति अङ्गीकृतम् आसीत् । किन्तु सिंहासनारोहणानन्तरं सुग्रीवः इदं सर्वं विस्मृतवान् । सः आमोदप्रमोदेषु मग्नः जातः । एतेन परमक्रुद्धः लक्ष्मणः किष्किन्धायाः विनाशने उद्यतः जातः । वानरराज्ञी तारा मध्ये प्रविश्य लक्ष्मणं सान्त्वयति । सुग्रीवम् उद्दिश्य स्वस्य वचनपालनं क्रियताम् इति सूचयति । ततः सुग्रीवः सीतायाः अन्वेषणाय चतुसॄषु दिक्षु अनुचरान् प्रेषयिष्यति । किन्तु पूर्व-पश्चिम-उत्तरदिक्तः अनुचराः रिक्तहस्ताः सन्तः प्रत्यागताः । दक्षिणदिशि प्रस्थितवतां नायकौ आस्ताम् अङ्गदः हनुमान् च । पक्षिणा सम्पातिना तैः ज्ञातं यत् सीता लाङ्कां प्रति नीता इति । 

१ उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् ।

२ आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ।

३ सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम ।

४ नियतिः कारणं लोके नियतिः कर्मसाधनम् ।

५ ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।

Pls. see details here -  




#Article 147: उज्जयिनी (प्राचीनभारतम्) (331 words)


क्षिप्रानद्याः तीरे स्थितम् उज्जयिनीनगरम् अतीव प्राचीनम् अस्ति । पूर्वम् अस्य नगरस्य अवन्ती  अथवा अवन्तिका इति नाम आसीत् बिन्दुसारस्य काले पाटलीपुत्रं राजधानी आसीत् ।  कालिदासनगरी इत्यपि निर्दिश्यते ।क्रिस्ताब्दे ३८० वर्षतः ४१४ पर्यन्तं चन्द्रगुप्तः-२ प्रशासनं कृतवान् । तस्य विक्रमादित्यः इति अपरं नाम आसीत् । तदा तस्य आस्थाने कालिदासादयः नवकवयः ‘नवरत्ननाम्ना’ प्रसिद्धाः आसन् ।
तस्मिन् काले उज्जयिनी राजधानी आसीत् । कालिदासः  स्वीये काव्ये मेघदूते उज्जयिनीवर्णन अत्यन्तम् उत्तमतया कृतवान् । अग्रे रजपूतानां सिन्धियावंशीयानां मोगलवंशीयानां च प्रशासनकेन्द्रमासीत् ।
उज्जयिनीनगरे स्थितं महाकालेश्वरमन्दिरम् अतीवप्रसिद्धम् अस्ति । उज्जयिनी महाकाललिङ्गं द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् इति प्रख्यातमस्ति ।
उज्जयिनीतः ८ कि.मी दूरे मण्डुसुल्तानवंशीयानां जलविलासराजगृहम् अस्ति । शिप्रानद्या निर्मिते द्वीपे स्थित्वा एतत् रागगृहं  द्रष्टव्यम् ।
प्रति द्वादशे वर्षे अत्र सिंहस्था कुम्भमेला भविष्यति । भगवतः शिवस्य द्वादश ज्योतिर्लिङ्गेषु अन्यतमं महाकालमन्दिरम् अस्मिन् नगरे विद्यते । इदं नगरं मध्यप्रदेशस्य बृहत्तमात् इन्दोर्महानगरात् ५५ कि मी दूरे विद्यते । इदं मन्दिराणां नगरमस्ति । अत्रत्या जनसङ्ख्या सामान्यतः ४ लक्षमिता वर्तते ।

उज्जयिन्याः राजनैतिकेतिहासः सुदीर्घः वर्तते । महाभारते उल्लेखः अस्ति यत् कृष्णः बलरामश्च विद्याभ्यासाय सान्दीपनी-आश्रमम् आगतौ आस्ताम् । कृष्णस्य पत्नीषु अन्यतमा मित्रवृन्दा उज्जयिन्याः राजकुमारी आसीत् । तस्याः विन्द-अनुविन्दनामकौ भ्रातरौ युद्धे कौरवपक्षीयौ सन्तौ वीरगतिं प्राप्तवन्तौ । उज्जयिन्याः चण्डप्रद्योतनामकः राजा अत्यन्तं प्रतापी आसीत् । तस्मात् अन्ये राजानः बिभ्यति स्म । तस्य दुहिता वासवदत्ता वत्सनरेशस्य पुत्रे उदयने अनुरक्ता आसीत् । तयोः प्रणयगाथा इतिहासप्रसिद्धा वर्तते ।
महाकविः कालिदासः विक्रमादित्यस्य साम्राज्ये विद्यमानेषु नवरत्नेषु अन्यतमः आसीत् । उज्जयिनी तस्य अत्यन्तं प्रिया आसीत् । तेन अत्रत्यः प्राचीनः वैभवः स्वयम् अवलोकिताः आसन् । तत्रत्या वैभवशालिनी अट्टालिका, उदयन-वासवदत्तयोः प्रणयगाथा, भगवतः महाकालस्य सन्ध्याकालीनं नीराजनं, क्षिप्रानद्याः पौराणिकमहत्त्वञ्च तस्य सुपरिचितम् आसीत् । अतः एव तेन काव्येषु उज्जयिन्याः मनोहरं वर्णनं कृतवान् अस्ति । सम्राट् विक्रमादित्यः महाकवेः कालिदासस्य आश्रयदातृरूपेण प्रसिद्धः अस्ति । 
उज्जयिन्याः इतिहासः ६ शतकात् उपलभ्यते । तस्मिन् समये भारते १६ मण्डलानि आसन् । तेषु आवन्ती अपि अन्यतमा आसीत् । आवन्ती द्विधा विभक्ता आसीत् । उत्तरभागस्य राजधानी उज्जयिनी आसीत्, दक्षिणभागस्य राजधानी महिष्मती आसीत् । तस्मिन् समये चन्द्रप्रद्योतनामकः साम्राट् आसीत् । प्रद्योतवंशजाः त्रिशतकं यावत् शासनम् अकुर्वन् ।

मौर्यसम्राट् चन्द्रगुप्तः अत्र आगतः आसीत् । तस्य पुत्रः अशोकः अत्र राज्यपालनम् अकरोत् । तस्य पत्नी वेदिसादेवी । पुत्रौ महेन्द्रः सङ्घमित्रा च । महेन्द्रः बौद्धधर्मस्य प्रचारकः आसीत् । 




#Article 148: परोपकारः (151 words)


परस्य हितसाधनं सज्जनाः कर्तव्यम् इति भावयन्ति । यत् कर्म मनुष्याणां हिताय कल्पते, तादृशं मानवोचितं कर्म यदि वयम् आचरेम तर्हि इतरे जनाः तदुपकारं लब्ध्वा प्रीताः सन्तः सुखेन जीवन्ति । तेन च अस्माकं मनसि सन्तोषः जायते । एतेन एव समाजस्य प्रभूतः उपकारः संसाधितः भविष्यति । समाजस्य उपकारेण एव राष्ट्रस्य समृद्धिः भवति । अतः व्यासमुनेः वचनमिदं सर्वदा स्मरणीयं स्यात् - 'परोपकारः पुण्याय पापाय परपीडनम्' इति । एतस्मिन् प्रसङ्गे सर्वदा प्रकृतिः एव अस्माकं दृष्टान्तस्वरूपा भवति । सूर्यः लोकस्य उपकाराय आलोकं(प्रकाशं) ददाति । चन्द्रानिलनलाः परोपकाराय एव सन्ति । पञ्चमहाभूतानां सृष्टिः विश्वस्य हितसाधनाय एव जाता ।

तथैव मेघाः नद्यः वृक्षाः गावः परोपकारार्थम् एव जीवन्ति । अस्मिन् विषये सुभाषितमेकम् अत्यन्तं प्रसिद्धम् अस्ति । 

शरणापन्नं कपोतं स्वशारीरस्य विनिमयेन रक्षयितुं सिद्धस्य परोपकारिणः शिबेः कथा सर्वविदिता एव । 'प्राणैरपि धनैरपि शरणापन्नस्य जीवनरक्षा मनुष्यस्य परमोधर्मः' इति तस्य चिन्तनम् आसीत् ।

श्येनस्य क्षुधानिवारणाय कपोतरक्षणाय च स्वशरीरं समर्पयितुं सिद्धः शिबिः वदति-

अतः वयं सर्वे मानवाः परोपकारार्थं कृतसङ्कल्पाः भवामः । बहुजनहिताय त्यागार्थं सन्नद्धाः स्याम ।




#Article 149: व्याकरणम् (2410 words)


व्याकरणं नाम वेदानां रक्षकत्वाद् वेदार्थावबोधने सहायकत्वात्, प्रकृति-प्रत्यय-उपदेश-पुरस्सर-पदस्वरूप-प्रतिष्ठापकत्वाद् अर्थनिर्णयनकृत्साधनेषु अन्यतमसाधनत्वेन प्रयुक्तत्वाद् वेदाङ्गस्य किञ्चन अङ्गम्।

व्याकरणस्य व्युत्पत्तिलभ्योऽर्थोऽस्ति पदमीमांसाकरं शास्त्रम्। 

व्याकरण  वि + आङ् + कृ + ल्युट्

एतद्वेदस्य मुखत्वेन स्मृतम् - 'मुखं व्याकरणं स्मृतम्। भाषा लोकव्यवहारं प्रवर्तयति। यदि भाषा न स्यात्, तर्हि जगदिदमन्धेतमसि मज्जेत्। यथोक्तं दण्डिना -

'इदमन्धन्तमः कृत्स्नं जायते भुवनत्रयम्।

यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते॥ 

भाषायाः शुद्धये व्याकरणस्य अपेक्षा भवत्येव। न हि व्याकरणज्ञानशून्यो जनः साधून् शब्दान् प्रयोक्तुं शक्नोति। स्वयम् ऋक्संहितायाम् अस्य व्याकरणशास्त्रस्य प्रशंसायाम् अनेके मन्त्राः भिन्न-भिन्नस्थानेषूपलब्धा भवन्ति। ऋग्वेदस्यैकस्मिन् सुप्रसिद्धमन्त्रे व्याकरणं वृषभस्य रूपकत्वेन प्रतिपादितमस्ति -

'चत्वारि शृङ्गाः त्रयोऽस्य पादा द्वे शीर्षे सप्तहस्ता सोऽस्य।

त्रिधाबद्धो वृषभो रोरवीति महोदेवो मर्त्याम् आविवेश।।

अस्य वृषभरूपी व्याकरणस्य चत्वारि शृंङ्गाणि सन्ति - नाम-आख्यात-उपसर्ग-निपात-रूपाणि। त्रिपादोऽस्य भूत-भविष्य-वर्तमानाः। सुप्तिङन्तश्च द्वे शीर्षे स्तः, सप्तविभक्तयश्च सप्तहस्ताः सन्ति। उरसि शिरसि च कण्ठे त्रिधाबद्धो वृषभोऽयमस्ति। एवंविधव्याकरणज्ञानाद् योऽनभिज्ञोऽस्ति, सः जानन्नपि न जानाति, पश्यन्नपि न पश्यति, शृण्वन्नपि न शृणोति। किञ्च यो हि जनो व्याकरणशास्त्रज्ञोऽस्ति, तत्सन्निधौ वाणी सुसज्जिता कामिनी इव समागत्य सर्वतोभावेन समर्पिता भवति —

'उतत्वः पश्यन् न ददर्श वाचम् उतत्वः शृण्वन् न शृणोत्येनाम्।

उतोत्वस्मै तन्वं विसले जायेव पत्ये उशती सुवासाः।। 

अाचार्यवररुचिः व्याकरणशास्त्रस्य महनीयतां गायन् यदा तदध्ययनप्रयोजनानि पञ्च प्रतिपादयति, तदा महर्षिः पतञ्जलिः तदध्ययनप्रयोजनानि त्रयोदश ब्रूते। तेन हि व्याकरणशास्त्रं नितरां प्राचीनं शास्त्रमस्ति। न हि व्याकरणज्ञानशून्यः साधून् शब्दान् प्रयोक्तुमीशः। वेदस्य रक्षार्थं व्याकरणाध्ययनमत्यावश्यकम्।

'रक्षार्थवेदाध्ययनमध्येयं व्याकरणं, लोपागमवर्णविकारज्ञो हि पुरुषः सम्यग् वेदान् परिपालयिष्यति इति पतञ्जलिः। वेदरक्षाक्षमतयैव व्याकरणस्य वेदाङ्गत्वमपि समर्थ्यते।

ऋषिर्ब्रूते यद्वेदानां रक्षायै व्याकरणस्याध्ययनमपेक्ष्यते। यो जनो लोपागमवर्णविकारज्ञो भवति, स एव वेदान् साधु रक्षितुमर्हति। तथा हि - वेदे 'जहार' इत्येतस्य क्रियापदस्य स्थाने 'जभार' इत्येतत् क्रियापदं प्रयुज्यते। व्याकरणानभिज्ञस्य दृष्ट्या 'जभार' इत्येतत्क्रियापदं न शुद्धम्, स 'जहार' इत्येतदेव शुद्धं मत्वा 'जभार' इत्येतत्पदम् अनुच्चार्य 'जहार' इति प्रयोक्तुमुपक्रान्तो भविष्यति। कुफलञ्चैतदीयमिदं स्याद् वेदोऽनेकपरिवर्तितपदवान्। अयं हि महान्नर्थो व्याकरणज्ञानशून्यतया निपातितो भवेत्। तस्माद् व्याकरणस्य अध्ययनमतितरामपेक्ष्यते।

व्याकरणाध्ययनेन विभक्तिविपरिणामस्य च बोधो जायते तस्माद व्याकरणम् अवश्यम् अध्ययनीयमस्ति। न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः सन्ति। ते च अवश्यं यज्ञगतेन यथायथं विपरिणमयितव्या भवति। न अवैयाकरणस्तान् यथायर्थं विपरिणमयितुं शक्नोति। तथाहि 'अग्नये त्वा जुष्टं निर्वपामि' इत्येतदस्ति वेदवाक्यम्। इदं हि वाक्यम् अग्निदेवताकं वर्त्तते। निर्वापकाले अग्निदेवताम् उद्दिश्य मन्त्रोऽयं पठितो भवति। परं यदा सूर्यदेवता लक्ष्यीकृत्य निर्वापः कृतो भवति, तदा सूर्याय त्वा जुष्टं निर्वपामि इत्येतेन विपरिणामेन पठनीयो भवति मन्त्र एषः। इमं हि विपरिणामं वैयाकरण एव सम्यग् यथायथं कर्तुं पारयति।

सुलभतया यथार्थज्ञानं व्याकरणं विना न भवितुमर्हति अतोऽपि व्याकरणस्य पठनमपेक्ष्यते। इदं तु विदितमेव वर्त्तते यद्, जिज्ञासुनाऽवश्यमेव शब्दस्य कार्यं ज्ञानम्। शब्दस्य ज्ञानं व्याकरणं विहाय न केनाप्यन्येन सुलभेनोपायेन शक्यम्।

संशयराहित्यनिमित्तेनाऽपि व्याकरणमध्येयमस्ति। याज्ञिकाः पठन्ति 'स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेते'ति तस्यां सन्देहोऽयमस्ति - स्थूला चासौ पृषती च स्थूलपृषतीति कथनमभिप्रेतं किं वा स्थूलानि पृषन्ति यस्याः सा स्थूलपृषतीकथनमिष्टम् ? अवैयाकरणस्तां न स्वरतोऽध्यवसति। यदि पूर्वपदप्रकृतिस्वरत्वं ततो बहुव्रीहिः। अथान्तोदातत्त्वं ततस्तत्पुरुष इति।

एतेन विवेचनेन व्याकरणस्य उपादेयत्वं तन्महत्त्वञ्च समुपस्थापयन् आचार्यपतञ्जलिः तस्य अन्यानि च कतिपयानि आवश्यकतां प्रस्तौति। स आह यद् व्याकरणं हि यो नरो न जानाति, स शुद्धमपि वक्तुं न शक्नोति। शुद्धोच्चारणलाभाय व्याकरणस्याध्ययनं कर्तव्यम्। अशुद्धोच्चारणकर्ता शिक्षितसमाजे निन्दितो भवति। तस्माद् विज्ञेन सततमुच्चारणस्य शुद्धता समुपासनीयेति।

अध्ययनं तदेव लाभप्रदं भवति यदर्थाभिधारणपूर्वकं विधीयते। अर्थावधारणायाः कृते व्याकरणस्य ज्ञानमपेक्षितं जायते। यदध्ययनं विनाऽर्थावबोधं कृतं जायते, तदध्ययनं सदैवाध्येतारं दुनोति। तदध्ययनं तु तदर्थं भाररूपमेव जायते। मया यत्किमपि पठितं तन्न जाने किं पठितमिति विचार्य सखिन्नमना जायते। अतस्तस्मात् स जुगुप्सते। कथनस्य प्रयोजनमिदमेव यद् यत् किमपि पठनीयं जनेन तद्बोधपूर्वकं पठनीयम्। बोधपूर्वकं पठनं तदैव सम्भवं भवितुं मर्हति, यदा व्याकरणस्य ज्ञानं स्यात्। इत्थं हि विद्वान् पतञ्जलिव्याकरणस्य महत्त्वं विदधानोऽग्रे पुनराह - मानवेन शब्दप्रयोगे प्रवीणेन भवितव्यम्। कः शब्दः केन प्रकारेण प्रयोक्तव्यः इत्येतद् यो जानाति, सः स्वीयेनैकेनाऽपि शब्देन नैजं प्रभावं जनताया मानसे समुपस्थापयितुं शक्नोति। जनतां स तां दिशां नेतुमर्हति यां दिशं प्रति तस्या अावर्जनं तस्येष्टं भवति।

शब्दज्ञ एव समुदाचारस्य विधिं प्रयोक्तुमर्हति। अस्य कथनस्य तात्पर्यमिदमस्ति यत्, समुदाचारे किं वा सामाजिकव्यवहारे शब्दस्य पदस्य च उच्चारणं केन विधिना कार्यमित्यपि कोऽपि शब्दज्ञ एव साधु वेत्ति यतः स एव यथाऽवसरे हस्व-दीर्घप्लुतोच्चारणस्य महत्त्वं जानाति, तेन व्याकरणाध्ययनस्य प्रयोजनं सुस्पष्टमेवेति।

वैयाकरण एव यज्ञे प्रयुक्तान् मन्त्रान् सविभक्तिकान् विधाय पठितुं समर्थो भवति, तदर्थमपि व्याकरणस्याध्ययनमपेक्षितमस्ति। यज्ञकर्मणि स एव विद्वान् अधिकारी भवितुमर्हति यः पदोच्चारणं तथा करोति यथा न किमपि पदं न कोऽपि स्वरो न च किमप्यक्षरमस्फुटं स्यात्। यज्ञाधिकारस्य लाभार्थमपि व्याकरणमध्येतव्यम्। 'शब्दो ब्रह्मः' तेन हि शब्देन सह तादात्म्ये सति शब्दस्य परब्रह्मभूतेनार्येण सहापि तादात्म्यं भवितुं शक्नोतीत्येतस्मादपि व्याकरणस्य ज्ञानमपेक्षितम्। वाक्यगतस्य अर्थज्ञानस्यापि लाभाय व्याकरणं पठनीयमस्ति। नापि श्रुतेन न चापि लिखितेन वाक्येन न तावत् किमपि कार्यं भवितुमर्हति यावद् वाक्यगतार्थस्य साधुज्ञानं न जायते। वस्तुतः तदनवगतार्थ वाक्यन्तु निरर्थकमेव तदर्थमपि व्याकरणस्य ज्ञानं काङ्क्ष्यते।

व्याकरणस्य सर्वाणि प्रयोजनानि उक्तानि महाभाष्ये — 'रक्तोहागमलध्वसन्देहाः प्रयोजनम्॥' रक्षार्थं वेदानामध्येयं व्याकरणम्। ऊहः खल्वपि, न सर्वैलिङ्गैर्न सर्वाभिः विभक्तिभिर्वेदे मन्त्राः निगदिताः, ये चावश्यं यज्ञगतेन पुरुषेण यथायथं विपरिणमयितव्याः, तान्नावैयाकरणः शक्नोति यथायथं विपरिणमयितुम्। तस्मादध्येयं व्याकरणम्। एवम् अन्यान्यपि अपभाषण-दुष्टशब्द-अर्थज्ञान-धर्मलाभ-नामकरणादीनि प्रयोजनानि व्याख्यातानि महाभाष्ये।

व्याकरणशास्त्रं तु नितरां प्राचीनशास्त्रमस्ति। वैदिकमन्त्रेषूपलभ्यमानास्तत्तत्पदविषयिण्यो व्युत्पत्तय अपि उपर्यभिहितमभिधानं परिपुष्णन्ति -

१. 'यज्ञेन यज्ञमजयन्त देवाः'। यजयाचेत्यादिनङ्।

२. 'ये सहांसि सहसा सहन्ते'। सहधातोरसुन् उणादौ।

३. 'धान्यमसि धिनुहि'। धिनोतेर्धान्यम्, महाभारते।

४. 'केतपूः केतं नः पुनातु'। क्विप् च।

५. 'तीर्थोस्तरन्ति'। पातृतुदिव*** इति स्थक्० उ०।

व्याकरणशास्त्रस्य प्रमाणभूतः अाचार्यः पतञ्जलिव्याकरणशास्त्रस्य उपरिनिर्दिष्टानि प्रयोजनानि वर्णयन् 'चत्वारि शृङ्गाः' 'चत्वारि वाक्', 'उतत्वः', 'सक्तुमिव', 'सुदेवोऽसि' -इत्येतन्मन्त्रपञ्चकमुद्धरति स्म।

पतञ्जलेरपि प्राचीनतरो यास्कोऽपि 'चत्वारि वाक् इत्येतस्य मन्त्रस्य व्याख्यां व्याकरणशास्त्रपरकमेव कुर्वाणोऽवाप्यते। व्याकरणमित्येतत्पदं यस्माद्धातोः निष्पद्यते, तस्यापि मूलार्थो यजुषि - 'दृष्ट्वा रूपे व्याकरोत् सत्त्वाऽनृते प्रजापतिः इत्येतस्मिन् वाक्ये प्रयुक्तः प्राप्यते।

व्याकरणशास्त्रस्य उत्पत्तिमधिकृत्य तु न निश्चप्रचतया किमपि कथनं सम्भवम्। इदं तु वक्तुं शक्यं यदुपलब्धवैदिकपदपाठेभ्यः प्राग् व्याकरणं शास्त्रं पूर्णतां गतं बभूव। प्रकृतिप्रत्ययधातूपसर्गसमासवत्पदविभागश्च कृत्स्नतया निर्धारितो जातो यदा तस्यानेहसो गतस्यानेकसहस्राब्दाः व्यतीताः। वाल्मीकिरामायणस्य रचनाकाले व्याकरणशास्त्रस्य अध्ययनमध्यापनञ्च सुव्यवस्थिततया प्रचलितमासीदित्येतद्धि —

नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्।

बहु व्याहरताऽनेन न किञ्चिदपभाषितम्।।

महाभारतयुद्धकालवर्तिनि यास्क-निरुक्ते बहूनां व्याकरणाचार्याणामुल्लेखो दृश्यते। आचार्यः शाकटायनस्तु नैजं व्याकरणं यास्कादपि प्राक् लिलेख। तैत्तिरीयसंहितायामस्य विषयस्य सर्वप्रथमस्तथा प्राचीनतमरुल्लेखो लभते।

तदित्यं सकलशास्त्रशिरोभूतं वेदपुरुषस्य मुखत्वेन स्मृतं व्याकरणं कदा प्रभृति प्रवर्ततमभूदिति न शक्यते तत्वतो निरूपयितुम् । तथापि पण्डिताः । कथयन्ति : यद्वयाकरणस्य बीजवैदिकसंहितासु दृश्यते । महामुनिर्यास्को महाभाष्यकारश्च पतञ्जलिरेतादशानु मन्त्रानु स्मरति येषु व्याकरण स्वरूपं सूचितमस्ति। यथा चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महादेवो मर्त्यं आ विवेश। 

अस्येत्थमाशयो व्याखातः। चत्वारि शृङ्गा इति नाम-आख्यात-उपसर्ग-निपाताः, त्रयः पादा इति त्रीणि वचनानि त्रयः पुरुषाश्च, द्वे शीर्षे इति सुबन्ततिङ्गन्तरूपे, सप्तसहस्तास इति सप्त विभक्तयः त्रिधा बद्ध इति कृदन्त-तद्धितान्त-समासान्तत्वेन नियमितः रोरवीति सर्वानतिशेते, महान् देवः इति दैवी वाक्, मर्त्यान् आ विवेशेति।

एवमेवोक्त यजुर्वेदेऽप्युक्तं - दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः'। संहितानन्तरं ब्राह्मणसाहित्येऽपि व्याकरणास्तित्वविषये बहुत्र बहुधोक्तमस्ति । अनेनैतत्सिध्यति यत्संहिताकाले, एव व्याकरणं सुव्यवस्थितमासीत् । तथ्यमिदं पतञ्जलिः स्मरति- ‘पुराकल्पे एतदासीत् संस्कारोत्तरकालं ब्राहमणी व्याकरणं स्माधीयते इति यद्यपि पुरांकल्पस्य कियत्प्राचीनत्वमिति. नैव सुस्पष्टं तथापि न्यूनतममपि एषः संहिताकालं तु सूचयत्येव । “पुराकल्पे .. कुमारीणां मौजीबन्धनमिष्यते' ‘अनावृताः किल पुरा स्त्रिय असन् वरानने इत्यादावपि । पुराकल्पपुराशब्दौ सुपूरातीतकालावबोधकावेव । गोपथब्राह्मणे . व्याकरणस्य स्पष्टमेवं व्याख्यातं यथा -

ओङ्कारं पृच्छामः, को धातुः, कि प्रातिपदिकं, किं नामाऽऽख्यातं, किं. लिंङ्ग, किं वचनं, का विभक्तिः, कः प्रत्ययः, कः स्वरः, उपसर्गों निपातः, कि ? वै व्याकरणं, को विकारः को विकारी, कतिमात्रः, कतिवर्णः, कत्यक्षरः, केति'पदः, कः संयोगः, किं स्थाननादानुप्रदानानुकरणम् इति। 

तथैव मैत्रायणसंहितायामुक्त-‘तस्मात् षड् विभक्तयः। ऐतरेयब्राह्मणेऽपि सप्तधा वै वागभवत् इति। सप्तधा इति सप्त विभक्तय इति भट्टभास्करः । स्वयमृग्वेदेऽपि यस्य ते सप्त सिन्धवः इति। अत्र सप्त सिन्धव इति सप्त विभक्तयं इति । तेन व्याकरणस्य समस्तद्वैपायनपरम्परार्षवैदिकवाङ्मयादपि प्राचीनतत्वमिति युधिष्ठिरभीमांसकमतमत्यन्तमेव समीचीनं प्रतिभाति । तथ्येमिदं ने केनाऽप्यलपितं शक्यते यत्संस्कृतभाषा आदौ यौगिकपदबाहुल्याऽऽसीत्। ह्रमशः सा रूढिमाश्रिता इति । यौगिकताऽस्य स्वभावसिंद्धा । सा च प्रकृतिप्रत्यय विभागेनैव ज्ञायते । प्रतिपदपाठादेव भाषाज्ञानस्यासम्भवात्तत्पदानां प्रकृतिप्रत्यय विमागेन सामान्यीकरणं यदैवानुभूतं तदैव व्याकरणं प्रवर्ततम् । एतत्प्रवर्तनञ्च । यदि मूलसंहिताप्राक्काले न सम्मवति चेदपि तत्सहैव तु निश्चयमेव । व्याकरणस्य तेन मूलसंहिताकालादारभ्य पतञ्जलिपर्यन्तमेव प्रवर्तनकालः सञ्चरति । तदनन्तरं व्याख्याकाल उदेति। सम्प्रति अपि स एवं सञ्चरति प्रक्रियामुखैन ।

तर्हि केन प्रथमं तादृशं सर्वशास्त्रशिरोरत्नभूतं व्याकरणं प्रवततमित्यपेंक्षायामितरशास्त्रप्रवर्तनमिवास्यापि प्रवर्तनं ब्रह्मण एवं सञ्जातं मन्यन्ते परिनिष्ठवैयाकरणाः पतञ्जलिप्रभृतयः । व्याकरणप्रवर्तनक्रमं निर्दशन् स कथयति- महाभाष्ये। ब्रह्मा वृहस्पतये प्रोवाच, वृहस्पतिरिन्द्राय, इन्द्रो । भरद्वाजाय, भरद्वाजऋषिभ्य ऋषयो ब्राह्मणेभ्यः इति। 

विषयेऽस्मिन्नपरमपि मतं प्रचलितमस्ति यन्महेश्वरो वेदात्षडङ्गान्युद्धत्य प्रोवाचेति। अत्र हि षडङ्गानि एकतः शिक्षाकल्पादीनि षट्, • अपरतस्तु षड्विभक्तिमयं, नामाख्यातोपसर्गनिपातकर्मप्रवचनीयसर्वनामादिषडङ्गात्मकं, षड्लिङ्गात्मर्क षट्सन्धिमयं लट् लिङ्-लिट्-लुङ-लुट्-लडादिषड्लकारप्राधान्यं, त्रिगुणितषडाख्यातमयं, कतृ-कर्म-भाव-कर्मक कृत्यकृदन्तमयस्वरूपं, षट्कारकमण्डितं, षट्समासमय, अपत्यादिमख्यषट्प्रत्ययविग्रहं व्याकरणमपि बुध्यते ।

तत्र व्रह्मणा प्रोक्त व्याकरणं वृहस्पतिरधीतवान् । स चेन्द्राय प्रोवाच । यावत्पर्यन्तं व्याकरणं प्रतिपदपाठमात्रसम्बद्धमासीत् । वृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच । वर्षसहस्रमित्यर्थवाद एबाशयस्तु : सुदीर्घकाल इति । तथाविधस्यः प्रतिपदपाठस्य किं स्वरूपमासीदिति तु न शक्यते इदमित्थन्तया वक्त म्। सम्मवति समानरूपाणां नामाख्यातादीनां सङ्ग्रह एव प्रतिपदपाठमिति युधिष्ठिरसम्मतिः किन्तु प्रतिपदं रूपसिद्धिरेव प्रतिपदपाठ इत्यपरे । शब्दपारायणमिति रूढिय कस्यचिद्ग्रन्यस्येति भर्तृहरिर्महाभाष्यव्याख्याने । सम्भवति बाईप व्याकरणशास्त्र' हि शब्दपारायणशब्देन संज्ञितं स्यात् । स्याद्यद्वा तद्वा म लप्रयत्नसांध्यत्वाद व्याकरणं मरणान्तव्याधि मन्यन्ते स्मोशनसाः।  बृहस्पतिः-प्रतिपदमशक्यत्वाल्लक्षणस्याप्यव्यवस्थितत्वात्तत्रापि नादनवस्थाप्रसङ्गाच्च मरणान्तो व्याधियकरणमिति औशनसा इति। 

भारतीये हि शास्त्रे प्रायः सर्वाण्यपि शास्त्राणि ब्रह्मप्रवन न्यन्ते । युधिष्ठिरमीमांसको भगवदत्तमुद्धृत्य ब्रह्मप्रोक्तानां द्वाविंशतिशास्त्राणां सूचि, प्रस्तौति । तानि च वेद-ब्रह्मज्ञान-योगविद्या-आयुर्वेद-हस्त्यायुर्वेदरसतन्त्र-धनुर्वेदपदार्थविज्ञान-धर्मशास्त्र-अर्थशास्त्र-कामशास्त्र-व्याकरण-लिपिज्ञान-ज्योतिषशास्त्रगणित-शिल्पशास्त्र-अश्वशास्त्र-नाट्यवेद-इतिहास-पुराण-मीमांसाशास्त्र-स्तवशास्त्राणीति । युधिष्ठिरो हि ब्रह्माणं वर्तमानश्वेतवाराहकल्पादिभवमैतिहासिक पुरुषं मन्यते । स्यादपि तत् । ब्रह्मा हि, कामं रजोमूतधरः परमात्मा वा ऐतिहासिको वा, शास्तप्रवचनमकरोत् । तेन हि पृथक्पृथक् शास्त्राणि तु नैव प्रणीतानि किन्तु तत्सर्वाङ्गीणप्रवचने प्रसङ्गामुसारेण सर्वेषामेव शास्त्राणां बीजं निहितं सम्भवति । प्रवाचकश्रेण्यां ब्रह्मणोऽनन्तरं वृहस्पतेः स्थानम् । स हि देवानां पुरोहितो . महर्षेरङ्गिरसः पुत्रः (ऐ० ब्रा'८।२६) । सामगानं (छा० उ०२।२२।१), अर्थशास्त्र (महा० १२१५९।८४) इतिहासपुराणे (वायु० १०३।५९), वेदाङ्गानि (महा० १२।२१०।२०), व्याकरण (महामाष्यं १।१।१) ज्यौतिष (प्रबन्धचिन्तामणौ) वास्तुशास्त्रं (मत्स्य० २ ५१॥३-४), अगदतन्त्रञ्च वृहस्पतिप्रोक्तत्वेन प्रख्यातम् । एतदतिरिक्तमपि बहुविधं स्फुटपद्यस्तवर्क बृहस्पतिप्रोक्तसम्मतत्वने प्रसिद्धम् । 

बृहस्पतिकालपर्यन्तमपि वागव्याकृतैवासीत् । तेनैव वृहस्पतिः प्रतिपदपाठमेवाध्यापयामासेन्द्रम् । इन्द्रो ह देवानामग्रणीः । स हि स्वाधीतं देवेभ्यः प्रोवाच । देवा वै तदवधातुमसमर्थाः सन्तो तद्वाकरणायेन्द्रं प्रोचुः । इन्द्रो ह तां वाचं मध्यतोऽवक्रम्य व्याकरोत् । स च प्रकृतिप्रत्ययभागेन शब्दसिद्धिं व्याख्यातवान् । यथाऽऽह सायणाचार्यः - ‘तामखण्डां वाचं मध्ये विच्छिद्य प्रकृतिप्रत्ययविभागं सर्वत्राकरोत् ।' इति । तेनेन्द्रो हि प्रथमो वैयाकरणः । कातन्त्रादीनि हि व्याकरणानि तस्य शाखाप्रशाखारूपाणि ।।

एवमेव वेदात्षडङ्गान्युद्धत्य महेश्वरः सदाशिवोऽक्षरसमाम्नायनिर्देशपूर्वक व्याकरणमुपदिष्टवान् । पाणिन्यादयो हि तस्य व्याख्यातारः । व्याकरणप्रवर्तने । इन्द्रमहेश्वरयोः कतरः प्रथम इत्यपेक्षायां सारस्वतभाष्ये उक्त यत्--

तद्भागधेयाञ्च शतं पुरन्दरे कुशाग्रविन्दुत्पतितं हि पाणिनौ । इति ।

अनेन तु ऐन्द्रापेक्षया बार्हस्पत्यस्य तदपेक्षयाऽपि माहेश्वरस्य व्याकरणस्य । प्राचीनत्वं विशालता च सिध्यति । पतञ्जलिः किन्निमित्तं तदुपेक्षते इति विचारणीयो विषयः ।

सामान्यतो व्याकरणस्य त्रीणि रूपाणि-छान्दसं लौकिकं छान्दसलौकिकञ्च। तत्र छान्दसं प्रातिशाख्यादि, लौकिकं कातन्त्रादि, छन्दसलौकिकं पाणिनीयादि । माहेश्वरं हि व्याकरणं छान्दसलौकिकमेन्द्रं हि लौकिकमित्यनुमीयते तथैव परम्पराभावात् । प्रातिशाख्यं छान्दसमात्र : व्याकरणं समुदितम् ।'प्रतिशाख्यं हि वेदानां प्रातिशाखसम्बद्धम् । तेन यावन्तो । वेदस्य भेदास्तावन्त्येवं प्रातिशाख्यानि स्युः किन्तु दुर्भाग्यादेव सम्प्रति षडेवोपलभ्यन्ते शेषाणि चत्वारि नामत एव श्रूयन्ते । तेषु शौनकसङ्गृहीतमृप्रातिशाख्यं, कात्यायनसङ्कलितं बाज़सनेयीयप्रातिशाख्यं, वररुचिसङ्कलितं सामप्रातिशाख्यं, अथर्वप्रातिशीख्यं तैत्तिरीयप्रातिशाख्यं 'मैत्रायणीयप्रतिशाख्यञ्चाज्ञातसँगृहीतञ्चेति षट् सम्प्रति समुपलब्धानि आश्वलायनवाष्कल-शांङख्यायनचारायणप्रातिशाख्यानि तु नामत एव श्रुतानि । मन्त्राणां संहितापाठे सम्मवविकारेषु विचार एव मूलतः प्रातिशाख्यस्योद्देश्यं येन पदपाठस्थमूलपादानां ज्ञानं सुकरं स्यात् । तेन हि तत्र पदपाठक्रमपाठसम्बद्धनियमा एव विशेष निरूपिताः सन्ति । पदप्रकृतीनि सर्वचरणानां ' पार्षदानि इति यास्कः। 

तत्र प्रकृतिप्रत्ययविभागेनः पदसाधुत्वानुशासनस्यावश्यकतैव नासीत् । तेन । • प्रातिशाख्यं पाठानुशासनग्रन्थो न तु शब्दांनुशासनपरः । प्रातिशाख्यं हि । शब्देनापि परिचायते। एवमेब महाभाष्यकारः पारिषद शब्दमपि प्रयुनक्ति तन्निमित्तम् । यथा -

शाखा शाखां प्रति प्रतिशाखम् । प्रतिशाखे भवं प्रोतिशाख्यम यास्काचार्यः - पदप्रकृतिः संहिता, पदप्रकृतीनि सर्वचरणानां पार्षदानि । कुमारिलस्तु यथा| धर्मशास्त्राणां गृह्यग्रन्थानां च प्रातिशाख्यलक्षणवत् प्रतिचरणं पाठव्यव-.. स्थोपलम्यते । तथैवानन्तदेवः -

श्रोतस्मार्तसूत्रवत् प्रातिशाख्यसूत्रमपि पञ्चदशशाखासाधारणं समाम्नातम् ।

अत्र चरणशब्दः शाखासंमूहबोधको यथा वाजसनेयचरणः, शाखाशब्दश्च आचार्यानुयायिभेदबोधको यथा, वाजसनेयचरणस्य माध्यन्दिनकण्वगालवादयः । शाखां प्रतिगता शाखा प्रतिशाखा, अनुशाखा अवान्तरशाखा इति ।। प्रातिशाख्यं संहितायाः सम्भवविपर्ययाणामध्ययनं करोति । तत्र हि वर्णोच्चारणादीनां सूक्ष्मं विवेचनमपि कृतमस्ति । वर्णोच्चारणे सस्भविदोषाणां सूक्ष्मविवेचनमपि प्रातिशाख्यस्य विषयेष्वन्यतमम् । तत्र पदपाठस्य नियमोऽपि स्पष्टतया निदशितः । एवमेव क्रमपाठस्य नियमोऽपि सामान्यतः सम्प्रर्दशितः । यत्र कुत्र जटापाठस्य नियमोऽपि प्रदशितः ।  अथैषां प्रातिशाख्यानां सङ्क्षेपेण परिचय उच्यते ।

ऋक्प्रातिशाख्यम्-प्रातिशाख्यमिदं शौनकप्रोक्तम् । शौनक हि यास्कः स्मरति शौनकोऽपि यास्कं स्मरति । यास्कस्य निरुक्तकारत्वं महाभारते हि समुल्लिखितम्। तेन ऋचस्य कालो महाभारतात्पूर्ववर्तीति त्ववश्यमेव । तत्रापि लिट् प्रयोगेण कियत्कालपूर्ववर्तीति तु वैव निश्चितम् । युधिष्ठिरमहाशयस्तु तं विक्रमपूर्वतृतीयसहस्राब्दीभवं मन्यते। अत्रे हि अष्टादश पटलाः यत्र त्रयोदशचतुर्दशयोः. शिक्षाविषयः, षोडश सप्तदशः - अष्टादशपटलेषु छन्दांसि वणितानि । अस्योपरि विष्णुमित्रस्य वृत्तिः ऋज्वर्था, उव्वर्टस्य भाष्यञ्च प्रसिद्धम् । एतदतिरिक्तमन्येऽपि बृत्तयो भाष्याणि च 'सन्तीति श्रूयतेऽस्योपरि ।

ऋग्वेदस्याश्वलायनशाखासम्बद्धमाश्वलायनेनैव प्रणीतं प्रातिशाख्यमासीदिति अनन्तस्य वाजसंनेयीयप्रातिशाख्यटीकातो ज्ञायत इति युधिष्ठिरमीमांसकः . . समुल्लिखति । ‘नाप्याश्वलायनाचार्यादिकृतप्रातिशाख्यसिद्धत्वम् इति तत्र १. वचनम् । एवमेव वाष्कलशाखासम्बद्धमपि प्रातिशाख्यमासीदिति शाङ्ख्यायन| श्रोतसूत्रस्यानिर्तीयभाष्यस्य ‘उपद् तो नाम सन्धिर्वाष्कलादीनां प्रसिद्धः । तस्योदाहरणम्' इति वचनाज्ज्ञायते इति युधिष्ठरो निदशति । किन्तु वाष्कलानामप्रगृह्य तदयं वचनम्' इत्यपि तस्य भावे प्रमाणम् ।

वाजसनेयीयप्रातिशाख्यम्- प्रातिशाख्यमिदं महर्षिकात्यायनप्रणीतम् । स हि याज्ञवल्क्यस्य पुत्र इति युधिष्ठिरमतम् । प्रातिशाख्यातिरिक्त तस्य हि संहिताब्राह्मणं, कात्यायनपरिशिष्ट, प्रतिज्ञासूत्र, गृह्यसूत्रञ्च प्रसिद्धा ग्रन्थाः । कात्यायनस्य स्थितिकालस्त्वनिर्णीत एव । तथापि तेन विक्रमपूवंसहस्राब्दीतो ऽपि, पूर्ववतनैव भाव्यमिति प्रबलस्तर्कः । युधिष्ठिरस्तु तं विक्रमपूर्व २९०० मितवर्षमभितः समुत्पन्नं मन्यते । अस्योपरि उदटाचार्यस्य भाष्यं अनन्तस्य व्याख्या चे प्रसिद्धा । तदतिरिक्तमपि अन्याष्टीकाटिप्पण्यश्चास्योपरि सन्तीति निर्दिष्टमस्ति ।

तैत्तिरीयप्रातिशाख्यम् - ज्ञातकर्तृ कमिदं प्रातिशाख्यं तैत्तिरीयशाखासम्बद्धम् । अस्य च प्रणयनं पाणिनिपूर्ववर्तनि काले एव सञ्जातमित्यनुमीयते । अस्योपरि सोमयार्यस्य त्रिरत्न भाष्यं प्रसिद्धम् । एतदतिरिक्त माहिषेयभाष्यं, गोपालयज्वनो वैदिकाभरणं च प्रसिद्धे । ।

सामप्रातिशाख्यम्- सामवेदस्य प्रातिशाख्यमिदं पुष्पसूत्रनाम्ना . प्रसिद्धम् । तच्च वररुचिप्रोक्तम् । स हि कात्यायनस्यः पौत्र इति युधिष्ठिरनिर्देशः । अस्योपरि अजातशत्रोः पुष्पसूत्रभाष्यं प्रसिद्धम् ।

अथर्वप्रातिशाख्यम्- अज्ञातकर्तृ कमिदं प्रातिशाख्यमथर्ववेदसम्बद्धम् । इदञ्च प्राक्पाणिनीयमित्यनुमीयते । एतदतिरिक्तमेव सन्त्यन्यान्यपि प्रातिशाख्यानि येषां विषये ज्ञानं नास्ति। प्रातिशाख्यातिरिक्तं तत्सदृशानि अन्यान्यपि शाकटायनप्रणीतत्वेनानुमीतं ऋक्तन्त्रं, शौनकप्रणीतत्वेन सम्मतो. अथर्वचतुरध्यायी, कात्यायनकृतं प्रतिज्ञासूत्रं, तस्यैव भाषिकसूत्रं, गाय॑स्य सामतन्त्रं, आपिशलेरक्षरतन्त्रञ्च प्रसिद्धानि । तत्राथर्वचतुरध्यायी कौत्सव्याकरणाभिधानेनाऽपि प्रसिद्धम् । यास्कस्य निरुक्तमपि प्रकरणेऽस्मिन्नितान्तमेव स्मर्तव्यमस्ति ।

प्रातिशाख्यादिग्रन्थेषु स्मृतानां एकोनषष्टिसङ्ख्याकानामाचार्याणां संप्रमाणा सूचियुधिष्ठिरमहोदयेन प्रस्तुताऽस्ति येषु कतिपये पाणिनिना स्मृता विस्मृता उपेक्षिताचाचार्याः सन्ति । पाणिनिनाऽनुल्लिखिताः किन्तुं तत्पूर्ववर्तन आचार्याः । महेश्वर-बृहस्पति-इन्द्र-वायु-भरद्वाज-भागुरि - पौष्करसादि - चारायण-काशकृत्स्नवैयाघ्रपद्यमाध्यन्दिनि-रौढि-शौनकि-गौतम-व्याडि‘प्रभृतयः प्राणिनेरष्टाध्याथ्यां स्मृता आचार्या आपिशलि-काश्यप-गाग्र्यगालव-चाक्रवर्मण-भारद्वाज-शाकटायनशाकल्य-सेनक-स्फोटायनाः पाणिन्यनन्तरर्वातनः आचार्यास्तु कातन्त्रव्याकरणकारः । सम्भवतः शर्ववर्मा एव चान्द्रव्याकरणकारश्चन्द्रगोभी, क्षेपणकः, जैनेन्द्रव्याकरणकारो देवनन्दी, वामनः पाल्यकीतिः, भोजदेवः, शिवस्वामी, बुद्धिसागरः, भद्रश्वरसूरिः, वर्धमानः, हेमन्द्रः, मलयगिरिः, कुमदीश्वरः अनु- . अतिस्वरूपः, बोपदेवः, पद्मनाभंश्च । एषां विषये आगामिप्रकरणे . सक्षेपेण चर्चा क्रियते । लौकिकव्याकरणं प्रथमतस्तु द्विधा विभक्तं सच्छान्दस लौकिकमात्रञ्च । तत्र सच्छान्दसं पाणिनीयं लौकिकमात्र कातन्त्रादि इति तु पूर्वमेवोक्तम् । लौकिकव्याकरणस्य वहवो भेदा आचार्यैः स्मर्यन्ते । सम्प्रत्यपि अष्टादशाधिका व्याकरणपरम्परा प्रवर्तिता दृश्यते। तेष्वपि प्राधान्येन अष्टौ वा नवैव गृहीताः । सन्ति शेषास्तु तत्सम्बद्धा एव । तत्राष्टौ व्याकरणानि यथा -

ब्राह्ममैशानमैन्द्रञ्च प्राजापत्यं वृहस्पतिम् ।।

त्वाष्ट्रमापिशलञ्चति पाणिनौय मथाष्टमम् ॥ तथैव मतान्तरे -

यस्मिन् व्याकरणान्यष्टौ निरुप्यन्ते महान्ति च । 

तत्राद्यं ब्राह्ममुदितं द्वितीयं चान्द्रमुच्यते ।

स्वशास्त्रे कृताः, तत्राऽपि प्राक्तनव्याकरणदृष्टसंज्ञाभिरेवाऽत्र व्यवहार इति व्याचक्षते व्याख्यातारः। अन्यच्च - 'त्रितुत्राथसिसुसरकसेषु च' इति दशसु कृत्प्रत्ययेषु पठ्यन्ते, तस्माद् व्याकरणान्तरस्थाऽप्यत्रानूदिता इत्येव वक्तव्यं स्यात्। किञ्च स्तम्भु-स्तुम्भुप्रभृतिधातवो न पाणिनीये धातुपाठे दृश्यन्ते। ते धातवश्च पूर्वव्याकरणसंस्कारेणैव पाणिनिना स्वसूत्रेषु निबद्धाः, इत्येव स्वीकर्त्तुमापतति। एवं 'चर्करीतस्व' इत्यदादिगणे पाणिनिना, यङ्लुगन्तं तेन गृह्यते इति व्याख्यातार आहुः। न हि पाणिनीये व्याकरणे यङ्लुगन्तं चर्करीतमिति परिभाष्यते, प्राक्तनेष्वेव व्याकरणेषु कारितमिति णिजन्तं, चिकीर्षितमिति सन्नन्तं, चेक्रीतमिति यङन्तं, चर्करीतमिति यङ्लुगन्तं व्यवहृतमासीत्। तस्मात्प्राचीनव्याकरणसंस्कारमात्रेण एव पाणिनिना 'चर्करीतञ्च' इत्यादौ सन्निवेशितम्। इदं दिङ्मात्रप्रदशितमपि स्पष्टमेव द्रढीयस्कतया ज्ञापयति यत्, पाणिनेः प्रागपि व्याकरणस्य सत्ता आसीत् इति।

पाणिनिरष्टाध्याय्यां स्वकीयायां दश प्राचीनान् व्याकरणाचार्यान् स्मरति सादरमेतेषु सूत्रेषु -

मीमांसकयुधिष्ठिरः 'संस्कृत व्याकरणशास्त्र का इतिहास' इत्येतन्नामके स्वकीये ग्रन्थे पाणिनेः प्राग्वर्तिनः त्रयोदश आचार्यानन्यानपि निर्दिशति। बहूनि प्रमाणानि समुद्रुत्य आचार्यमीमांसको मन्यते यत्, सञ्जातस्य पाणिनेः साम्प्रतिकात् कालात् ४८२१ वर्षाणि व्यतीतानि। परमाधुनिकानां प्रतीच्यानां विपश्चितां तु मान्यतेयं यत्पाणिनेः जातस्य प्रायेण प्रायः २७०० वषणि व्यतीतानि इति।

सम्प्रति व्याकरणरूपी वेदाङ्गस्य प्रतिनिधिव्याकरणमेकमेव मन्यते 'पाणिनीयं व्याकरणम्'। महर्षिपाणिनिना प्रायः ४००० अल्पाक्षरैः सूत्रैः संस्कृतभाषायां नितान्तं वैज्ञानिकं व्याकरणं प्रस्तुत्य विदुष आश्चर्यचकितं कृतम्। वैज्ञानिकदृष्ट्या देवभाषायां यावत् सुष्टु शास्त्रीयविवेचनं पाणिनिना कृतं, तादृशं विवेचनमन्यत्र दुर्लभमस्ति। पाणिनिरिव भाषामर्मज्ञो वैयाकरणः संसारेऽन्यत्र समुपलब्धो नाऽस्ति। पाणिनेर्ग्रन्थः अष्टासु अध्यायेषु विभक्तोऽस्ति, तेनैव कारणेनास्य ग्रन्थः ‘अष्टाध्यायी' इति नाम्ना ख्यातोऽस्ति। समयस्त्वस्य ईसापूर्व-षष्ठशतकमस्ति।

पाणिनीयस्य व्याकरणस्य परममहत्त्वपूर्णमङ्गं कात्यायनस्य वार्तिकपाठोऽस्ति। इममन्तरेण वस्तुतः पाणिनीयं व्याकरणमपूर्णमेव प्रतिभाति। पाणिनिनाऽऽख्यातान् संस्कृतसाहित्ये प्रयुक्तान् शब्दान् व्याख्यातुमेव ईसापूर्वचतुर्थशतके कात्यायनेन वार्तिकानां रचना कृतेति। कात्यायनस्य वार्तिकपाठमिदं पाणिनीयस्य व्याकरणस्य महत्त्वपूर्णमङ्गमस्ति। इममन्तरेण वस्तुतः पाणिनीयं व्याकरणमपूर्णम् एव प्रतिभाति। पतञ्जलिः कात्यायनस्य वार्त्तिकपाठमवलम्ब्यैव तत्र नैजं महाभाष्यमरचयत्। पतञ्जलिभगवत एषा हि महाभाष्याख्या रचना पाणिनीयं व्याकरणं सरलया सरसया च रीत्या व्याचष्टे। सकलेऽपि संस्कृतवाङ्मये महाभाष्यं वस्तुतोऽद्वितीयो ग्रन्थः। सर्वेऽपि विद्वांसो मुक्तकण्ठतया प्रशंसन्ति ग्रन्थमिमम्। ईसापूर्वद्वितीयशतकेऽस्य ग्रन्थस्य निर्माणमभवत्। व्याकरणस्य दार्शनिकसिद्धान्तानां मीमांसा प्रथमत अत्रैवोपलब्धा भवति। व्याकरणस्य पाणिनिः, कात्यायनः, पतञ्जलिरेव मुनित्रयमस्ति।

महाभाष्यानन्तरं व्याकरण-दर्शनस्य सर्वाधिकप्रधानो ग्रन्थो वाक्यपदीयोऽस्ति। अस्य ग्रन्थस्य रचयिता षष्ठशतकोद्भवो भर्तहरिरासीत्। वाक्यपदीये व्याकरणशास्त्रस्य दार्शनिकस्वरूपं स्फुटरूपेण अभिव्यक्तं भवति। व्याकरणन्तु शैवागमान्तर्गतमेवास्ति। अस्य स्वीया विशिष्टा साधनप्रक्रियाऽस्ति। भक्तृहरिः शब्दाद्वैतस्य संस्थापकः आसीत्। तस्य विचारे 'स्फोट' एवैकमात्र परमतत्त्वमस्ति। जगदिदं तस्यैव विवर्त्तरूपमस्ति।

काशमीरनिवासिना कैयटेन विरचितं 'भाष्यप्रदीपम्' महाभाष्यीयसिद्धान्तस्य प्रदीपमिव प्रकाशयितः एकमात्रो ग्रन्थरत्नः अस्ति। प्रदीपस्य उद्योताख्या व्याख्या नागेशभट्टेन लिखिताऽस्ति। व्याकरणशास्त्रस्येतिहासे भट्टोजिदीक्षितेन एकस्य अभिनवयुगस्य स्थापना कृता। अस्य त्रयः सुप्रसिद्धा ग्रन्थाः सन्ति- (१) सिद्धान्तकौमुदी, (२) शब्दकौस्तुभः, (३) मनोरमा चेति।

दीक्षितपरम्परायामेव नागेशभट्टः उद्भटवैयाकरणोऽभवत्। अस्य विदुषः प्रतिभा बहुमुखी आसीत्। अस्य परिभाषेन्दुशेखरः पाणिनिव्याकरणस्य सर्वमान्यग्रन्थोऽस्ति। अस्य शब्देन्दुशेखरः इति मनोरमायाः विस्तृता व्याख्याऽस्ति। अस्य ‘लघुमञ्जूषा' शब्दार्थयोः सिद्धान्तस्य मीमांसकः सर्वश्रेष्ठग्रन्थोऽस्ति। नागेशभट्टः काशीनिवासी आसीत्। अष्टादशशतकस्य पूर्वार्द्धेऽयं विद्यमान आसीत्।




#Article 150: अग्निः (1380 words)


अग्निः ( ) (, ) पञ्चभूतेषु अन्यतमः तथा तेजसः अभिमानिदैवतम् । अयं भगवतः मुखात् समुत्पन्नः । दक्षप्रजापतेः आत्मजा स्वाहा अग्निदेवस्य पत्नी । इक्ष्वाकुवंशसमुद्भूतस्य दुर्योधनस्यात्मजा सुदर्शना अस्य अपरा पत्नी । अर्जुनस्याश्रये खाण्डववनं दग्धवान् । तदवसरे अग्निः अर्जुनाय कपिध्वजोपेतं रथं,गाण्डीवधनुः,अक्षयतूणीरञ्च प्रायच्छत् । अग्निना एव श्रीकृष्णाय चक्रायुधं प्रदत्तम् । अयं भृगुमुनेः शापकारणेन सर्वभक्षकोऽभवत् । इन्द्राय यदा ब्रह्मवधदोषः सम्प्राप्तः तदा दोषस्य चतुर्षु अंशेषु एकः अंशः अग्निना स्वीकृतः । रामायणे,सीतायाः पातिव्रत्यम् अग्निना लोकमुखायोपदर्शितम् । अनलः इति तस्यापरं नाम ।| नास्ति अलं पूर्तिः अस्य भुञ्जानस्य इति कारणेन अनलः इत्युच्यते ।

ऋग्वेदे विद्यमानेषु १०२८ सूक्तेषु २१८ सूक्तानि अग्निपराणि सन्ति ।  ऋग्वेदस्य प्रथमे सूक्ते अग्नि॒म् ई॑ळे पुरो॒हि॑तं यज्ञ॒स्य॑ देव॒म् ऋत्वि॒ज॑म् । होता॑रं रत्नधा॒त॑मम् इत्यत्र अग्नेः स्तुतिः सन्दृश्यते । अरणीमन्थनम् इति काचित् वैदिकप्रक्रिया । तया प्रक्रियया यागयज्ञ्यादीनां निर्वाहार्थम् अग्निः समुत्पाद्यते । मातरिश्वा,जातवेदाः इत्यादीनि अपराणि नामानि ।  गृहस्थस्य आहवनीय-गार्हपत्य-दक्षिणाग्नीनामाराधनम् आद्यं कर्तव्यम् । तदेव अग्निहोत्रम् इत्युच्यते । गृहस्थः निष्ठया प्रतिदिनम् अग्निहोत्रं पालयेदिति श्रुतिप्रमाणम् ।

पृथ्वीस्थानदेवतासु अग्निः प्रधानः । देवतात्रितये अग्निः प्रधानः । द्विशताधिकाः सूक्ताः अग्निदेवताकाः सन्ति । एतान् विहाय अन्याभिः देवताभिः सह अपि अग्निः स्तुतः अस्ति । 

अग्नेः विश्वरूपं साक्षात्कृतवन्तः ऋषयः एनं बहुधा स्तुतवन्तः । आविश्वम् अग्निना धृतं रक्षितं च वर्तते । उदक-दारु-प्राणि-पक्षि-जन-इत्यादिषु स्थावरजङ्गमात्मकेषु सकलपदार्थेषु अपि अग्निः विद्यते । जठराग्नौ सः सर्वेषु तिष्ठति इति गीतायाम् उल्लिखितमस्ति । (ref – ’अहं वैश्वानरो भूत्वा------------ पचाम्यन्नं चतुर्विधम्’) अग्नेः सर्वान्तर्यामित्वम् अधो निर्दिष्टः मन्त्रः स्पष्टं निरूपयति – 

गर्भो यो अपां गर्भो वनानां
गर्भश्च स्थातां गर्भश्च स्थातां गर्भशर्चथाम् ।
अद्रौचिदस्मा अन्तर्दुरोणे
विशां न विश्वो अमृतः स्वाधीः ॥ (१-७०-४)

अस्मिन् विषये विविधेषु सूक्तेषु उल्लेखः कृतः अस्ति – 

हिन्दूपरम्परायां रक्तवर्णयुक्तस्य,मुखद्वयोपेतस्य,कृष्णनेत्राभ्यां युक्तस्य,पादत्रयोपेतस्य,सप्तभुजयुक्तस्य च अग्नेः रूपं चित्रितम् । अस्य शरीरे च प्रखराः सप्त जिह्वाः ज्वलन्ति । अतः अस्य सप्तजिह्वा इति अपरं नाम ।

समुद्र एकं दिव्येकमप्सु । (१-९५-३)

अग्नेः जन्मत्रयम् – समुद्रे (बडबाग्नि)रूपेण, द्युलोके आदित्यात्मरूपेण, अन्तरिक्षे वैद्युताग्निरूपेण च ।
अस्य अनेकानि जन्मस्थानानि अपि वर्णितानि । पृथिव्याम् अयम् आरण्योः उत्पन्नः भवति । ’आरण्योर्निहितो जातवेदाः’ (३-२९-२) – सर्वविषयज्ञानवान् अग्निः द्वयोः आरण्योः निगूढः अस्ति । आरण्यौ अस्य मातरौ इति वदति – ’अयो मात्रोरुशेन्यो जनिष्ठ’ (३७-३-९)

अग्निः त्रिस्थानेषु विद्यते इति उक्तम् । एतं त्रिधादेवताः स्रष्टवन्तः । अस्य प्रकाशः त्रिविधम् (३-२६-७) । अयं त्रिभिः शिरोभिः युक्तः (१-१४६-१) । अस्य जिह्वात्रयं, देहत्रयं, स्थानत्रयम् (३-२०-२) । त्रिषदस्था (६-८-७) इत्येतत् विशेषणं प्रामुख्येन अग्नेः अन्वेति । त्रिपस्तृ इत्येतत् अग्नेः विशेषणम्  (८-३९-८) । एवम् अग्निः त्रिमूर्तिरूपः ।
अग्नेः तृतीयं रूपम् अत्युन्नतमिति वर्णयन्ति ।

जातो बृहन्नभि पाति तृतीयम् ।’ (१०-१-३)
 – व्यापनशीलः, ज्ञानादिगुणयुक्तः, महत्तमश्च अग्निदेवः स्वस्य तृतीयं स्थानं रक्षति ।

निरुक्ते यास्काचार्यः अग्नेः त्रिस्थानविवेचनं कुर्वन्ति । ’तमू अकृण्वन् त्रेधा भुवेकम्’ इत्यस्य व्याख्यानं कुर्वन् वदति – ’तमकुर्वन् त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणी’ इति शाकपूणिनाम् अभिप्रायम् उल्लिख्य ’यदस्य दिवि तृतीयं तदसावादित्य इति ब्राह्मणम्’ इति ब्राह्मणस्य आधारम् उदाहरति । एवम् अग्नेः तृतीयं स्थानं द्युलोके विद्यते यत् तत् आदित्यस्य रूपमिति वदति (नि ७-२८) । अग्निः त्रिस्थानेषु विद्यते इत्यतः सः त्रिस्थानरक्षकः अस्ति । द्युलोकस्य प्रधानभूतः, भूलोकस्य सन्नाहकः, द्यावापृथिव्याः अधिपतिः विद्यते ।

मूर्धार्दिवो नाभिरग्निः पृथिव्या
अथा भवदरती रोदस्योः ! (१-५९-२)

अग्नेः विद्युद्रूपं स्तुतवन्तः ऋषयः । ’धनोरधि प्रवत आस ऋण्वति’ - धनुषः वेगेन आगच्छन् बाणः इव आगच्छति । ’सजायमानः परमोव्योमन्याविरग्निरभवन्मातरिश्वने’ (१-१४३-२) – परमव्योम्नि अयं जायते । मातरिश्वः अग्निम् अन्तरिक्षात् अधः आनयत् इत्युच्यते । एवम् अन्तरिक्षात् भूमिं प्रति अग्नेः आगमनं विद्युद्रूपेण इति ज्ञायते ।

प्र सम्राजो असुरस्य प्रशस्तिं
पुंसः कृष्टीनामनुमाद्यस्य ।
इन्द्रस्येव प्र तवसस्कृतानि
वन्दे दारुं वन्दमानो विवक्मि ॥ (७-६-१)
अग्निः शक्तेः प्रतीकम् । अयम् अत्यन्तं बलिष्ठः, सर्वभुवनानाम् ईश्वरः विद्यते । इन्द्रं यथा स्तुवन्ति तथा एनमपि जनाः स्तुवन्ति ।
दिवश्चित्ते बृहतो जातवेदो
वैश्वानर प्ररिरिचे महित्वम् ।
राजा कृष्टीनामसि मानुषीणाम्
युदा देवेभ्यो वरिवश्चकर्थ ॥ (१-५९-५)
द्यावापृथिव्योः अपेक्षया अयं महत्तमः ।
आ रोदसी अपृणा जायमानः । (६-६-२)
जन्मनः अपसरे एव अयं द्यावापृथिवी, सर्वभुवनानि, भूतजातानि च व्याप्नोत् । सर्वेषु भूतजातेषु अन्तर्निहितः जातः ।
जात आपृणो भुवनानि रोदसी
अग्ने ता विश्वा परिभूरसित्म ना । (३-३१०)
सर्वासां देवतानाम् अपेक्षया अस्य महिमा वरीवर्तते (१-६८-२) । सर्वे देवाः अस्मात् भीतः सन्तः एनं पूजयन्ति ।
विश्वेदेवा अनमस्यन् भियानाः
त्वामग्ने तमसि तस्थिवांसम् । (६-९-७)
एनं मित्रः, वरुणः, मरुतः, सर्वाः देवताः च अर्चन्ति ।
मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने
विश्वेमरुतः सुम्नमर्चन् ।
यच्छोचिषा सहसस्स्पुत्र तिष्ठ
अभिक्षितीः प्रथयन् सूर्योनॄन् ॥ (३-१४-४)
सर्वान्तर्यामी (सूर्यः) अयम् अग्निदेवः मानवान् अभिलक्ष्य मार्गदर्शनं कृत्वा रश्मीन् (नॄन्) अग्रे नयन् सर्वतः विस्तीर्य दीपयति । तस्मादेव हे बलवन् अग्निदेव ! मित्र-वरुण-मरुद्देवताः सर्वे अपि भवन्तम् अर्चयन्तः पूजयन्ति ।
अस्य महिम्नः पुरतः मानवाः देवताः अपि वन्दन्ते । अयं सहस्रजित्, शत्रुनाशनं कृत्वा कर्मनिष्ठानाम् आर्याणां तेजोभिवृद्धिं साधयति । (८-५-६) कर्मभ्रष्टान् अनार्यान् पणीन् अयं विनाशयति । (७-६-३) अयं व्रतध्वंसकः इत्यपि निर्दिष्टः ।
सर्वदेवताः एनम् अर्चयन्ति इति भावः अधस्तने मन्त्रे अपि विद्यते – 
त्रीणिशता त्रीसहस्राण्यग्निं
त्रिंशच्चदेवा नवचासपर्यन् ।
औक्षन् घृत्येरस्तृणन् बर्हिरस्मा
आदिद्धोतारं न्यसादयन्त । (३-९-९)
सर्वशक्तः अयम् अग्निदेवः सर्वान् असृजत् । अयमेव सृष्टिकर्ता । सर्वेषां रक्षकः अग्निदेवः द्यावापृथिवी असृजत् ’जनितारोदोस्योः’ (१-९६-४)
अस्य नियमान् द्यावापृथिवी पालयतः । (७-५-४) एतद्वयं सः चर्मद्वयमिव आच्छादितवान् – ’वि चर्मणीव धिषणे आवर्तयद्वैश्वानरो विश्वमधत्तवृष्णम्’ (६-८-३)
लोकद्वयं पार्थक्येन संस्थापितवान् अयम् । अन्तरिक्षस्य मापनम् अकरोत् । -

वैश्वानरो महिना नाकमस्पृशत् ।’ (६-८-२)
अग्निना लोकाः निर्मिताः । सर्वेषां हिततमः सः सुकर्मा । द्युलोकसम्बन्धीनि रोचमानानि नक्षत्राणि अयम् असृजत् । सर्वान् भूतजातान् अयमेव निर्मितवान् । अयम् अदब्धः (अहिंसितः) सन् सर्वरक्षकः विद्यते –

वैश्वानरो विदिवो रोचना कविः ।
परियो विश्वा भुवनानि पप्रथे
अदब्धो गोपा अमृतस्य रक्षिता ॥’ (१०-८८-४)

आरण्यां विद्यमाना शक्तिः आविर्भवति इत्यतः अयं शक्तिपुत्रः, ऊर्जोनपात्, सहसस्सूनु । प्रत्येकस्मिन् गृहे प्रतिदिनम् अयम् उत्पद्यते इत्यतः अयं ज्येष्ठः यविष्ठश्च । पूर्वदिनमपि आसीत् इत्यतः ज्येष्ठः, अग्रिमे दिने अपि जनिष्यति इत्यतः यविष्ठः । (उष उषो हिवसो अग्रमेषि) । एवम् अयं पुरातनः नूतनश्च । अमरः नित्ययुवा च । अग्निना एव प्रथमं यज्ञम् आचरितम् इत्यतः (३-१५-४) तस्य अपेक्षया ज्येष्ठः याजकः न विद्यते (५-३-५) । प्रतिदिनमपि अयं तमसः आगच्छति ज्योतिरूपेण । ’तमसो ज्योतिषाङ्गात्’ । अयं घृतपृष्ठः, तपुर्मूर्धा, विश्पतिः, शुचिदन्, गृहपतिः, शुक्रशोचिः (शुब्रज्वालायुतः) च ।

विपाजसा पृथुना शोशुचानो
बाधस्व द्वि षो रक्षसो अमीवाः । (३-१५-१)
यो अपाचीने तमसि मदन्तीः
प्राचीश्चकार नृतमः शचीभिः । (३-६-४)

सर्वाः देवताः अग्नेः रूपमेव इति ऋषयः कथयन्ति । अग्निः एव वरुणः, अग्निः एव मित्रम् (२-१-४) । यागाय आगमनावसरे सः वरुणरूपी (१०-८-५), आरणिभिः यदा उत्पद्यते तदा मित्रम् (५-३-१) ।
अनेकाभिः देवताभिः सह अग्नेः तादात्म्यं वर्णयन्ति एते मन्त्राः – 

त्वमग्न इन्द्रो वृषभः सतामसि 
त्वं विष्णुरुरुगायो नमस्यः ।
त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते
त्वं विधर्तः सचसे पुरं ध्या ॥
त्वमग्ने राजा वरुणो धृतव्रतः 
त्वं मित्रो भवसि दस्म ईड्यः 
त्वमर्यमा सत्पतिर्यस्य सम्भुजं
त्वमंशो विदथे देवभाजयुः ॥
त्वमग्ने त्वष्टा विधते सुवीर्यं
तवग्रावो मित्रमहः सजात्यम् ।
त्वमाशुहेमा ररिषेस्वश्व्यम् 
त्वं नरां शर्धो असिपुरूवसुः ॥
त्वमग्ने रुद्रो असुरो महोदिवः
त्वंशर्धो मारुतं पृक्ष ईशिषे ।
त्वं वात्येररुणैर्यासि शङ्गयः
त्वम्पूषा विधतः पासिनुत्मना ॥
त्वमग्ने द्रविणोदा अरंकृते
त्वं देवः सविता रत्नधा असि ।
त्वं भगो नृपते वस्व ईशिषे
त्वं पायुर्दमे यस्तेऽविधत् ॥ (२-१-३ तः ७)
अस्मिन् लोके विद्यमानं समस्तमपि अग्निरूपमेव – 
असच्च सच्च परमे व्योमन्
दक्षस्य जन्मनदितेरुपस्थे ।
अग्निर्ह नः प्रथमजा ऋतस्य
पूर्व आयुनि वृषभश्च धेनुः ॥ (१०-५-७)

भक्तानुग्रही अयं शतशः अयोदुर्गैः प्राप्यमाणं रक्षणम् अयं भक्तेभ्यः ददाति । (७-३-७)
नौकया समुद्रस्य तारणं यथा तथा अयं भक्तान् कष्टेभ्यः तारयति –

यः यजमानः अग्नये क्षिप्रम् अन्नम् आज्याहुतिं समित् च समर्प्य होमं पोषयति तम् अग्निः सहस्रनेत्रैः पश्यति । ’हे अग्ने ! अस्मदनुकूलः अस्ति भवान्’  इति वदति अयं मन्त्रः –

घृतैर्जुहोति पुष्यति ।
तस्मै सहस्रमक्षभिर्विचक्षेऽग्ने
विश्वतः प्रत्यङ् असित्वम् ॥’ (१०-७९-५)

स्वस्य सेवायां निरतेभ्यः भक्तेभ्यः अग्निदेवः सहस्रनेत्रैः दृष्ट्वा तेभ्यः सकलं रक्षणं कल्पयति । सर्वविधं श्रेयः अपि अग्निदेवादेव प्राप्यते । वृक्षेभ्यः शाखोपशाखाः यथा भवन्ति तथा सर्वनिधेः स्वामी अयं भक्तेभ्यः अमितां सम्पदाम् अनुगृह्णाति । भूम्यन्तरिक्षेषु सर्वेष्वपि स्थानेषु अयं सम्पदधिदैवमस्ति । स्वीयकरुणाकटाक्षेण निर्धनत्वं निवारयति अयम् । महामहिमः, परमकरुणालुः अयं कृतज्ञश्च विद्यते । 

 ’कदा त उक्था सधमद्यानि
कदा भवन्ति सख्या गृहे ते ।’ (३-३-४)
भवतः संश्लेषः कदा भवति इति भक्ताः औत्सुक्येन अग्निं पृच्छन्ति ।

जायेव पत्य उशती सुवासाः । (३-३-२)
भवतः कृते उत्तरवेदी सिद्धः अस्ति । आगम्यताम् । पत्याम् अनुरक्ता पत्नी शोभनवस्त्रोपेता सती पार्श्वे पत्युः कृते यथा स्थानं कल्पयति तथा भवते उत्तरवेदी सज्जा अस्ति इति प्रार्थयति भक्तः ।
अग्निदेवः मरुभूमौ सम्पदिव – ’धन्वन्निव प्रपा असि’ (१०-४-१)
सकलाभीष्टदायकः अयं भक्तवत्सलः । भक्तानां प्रति अस्य आगमनम् उष्णगोष्ठं प्रति पशुरागमनमिव – ’यं त्वा जनासो अभिसञ्चरन्ति गाव उष्णमिव व्रजं यविष्ठ’ (१०-४-२)
मूढाः वयं ज्ञानिनं महात्मानं भवन्तं कथं वा अवगन्तुं शक्नुयाम – ’मूरा अमूर न वयं चिकित्वः महित्वमग्ने त्वमङ्गवित्से’ (१०-४-४)
अग्निदेवः अस्माकं सर्वविधबन्धुः -  ’अग्निं मन्येपितरमग्निमापिम् अग्निं भ्रातरं सदमित् सखायम्’ (१०-७-३)

प्रमर्षिष्ठा अभिविदुष्कविः सन् ।
नभो न रूपं जरिमा मिनाति
पुरा तस्या अभिशस्तेरधीहि ॥ (१-७१-१०)
भवतः ध्यानकरणाय अस्मासु उत्तमभावम् अनुगृह्णातु – ’सा ते सुमतिर्भूत्वस्मे’
 ’अग्ने नय सुपथा राये अस्मान्
विश्वानि देव वयुनानि विद्बान् ।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नम उक्तिं विधेम ॥
हे अग्निदेव ! अस्मान् सम्पद्युक्ते मार्गे नय । त्वं सकलज्ञानयुतः महानुभावः अस्ति । अस्माकं शत्रुं पापं नाशय । पौनःपुन्येन भवन्तं नमामः ।
यास्काचार्यः अग्निशब्दस्य निर्वचनम् एवं वदन्ति – ’अग्रणीर्भवति’ (नि ७-१४-४) – सर्वार्थेषु अग्रनयनः ।

एवं सर्वं जनयित्वा, रक्षन् पोषयन् अयं देवः सर्वशक्तः करुणालुश्च । सर्वधारकः, सर्वपोषकः अयम् । अनेन एव वयम् अस्तित्वं प्राप्नुमः । विश्वम् अग्नेः रूपम् । अयं सर्वत्र विद्यते । वृक्षे, जले, शिलाखण्डे, समस्तजीवेषु च अयं गूढतया प्रकाशते । 

एवम् अग्निदेवस्य स्तुतिः अनुपमरीत्या कृता अस्ति ऋग्वेदे ।




#Article 151: आर्यभटीयम् (390 words)


 गणितज्योतिषविषये लिखितः ग्रन्थः। तत्र वराहकल्पस्यास्य सप्तमे मन्वन्तरे वर्तमानाष्टाविंशच्चतुर्थुगस्य कल्पादेः खखषट्वर्गमिते (३६००) सौराब्दे गते त्रयोविंशतिवर्षे आचार्यार्यभटः पुरातनानि कालक्रियागोल- लौकिकगणित – प्रतिपादकानि शास्त्राणि कालदैर्घ्यायत्तसम्प्रदायविच्छेदग्रन्थवैकल्यादि जनितेन दृग्गणितविसंवादेनाकिञ्चित्करण्यालोच्य समदृग्गणितं ज्योतिश्शास्त्रं चिकीर्षुः तादृशज्योतिर्ज्ञानबीजलाभाय ज्योतिश्छक्रग्रहादेरादिवक्तारं भगवन्तं स्वयम्भुवम् अमलैस्तपोभिराराधयामास । ततः प्रसन्नो भगवांस्तस्मै तादृशमतीन्द्रियम् अतिरहस्यभूतं कालक्रियागोलज्ञानबीजमुपदिदेश । ततोऽयमाचार्यार्यभटस्तदुपदिष्टं सर्वं बीजभूतं दशभिर्गीतिसूत्रैः, तत्परिकरभूतलौकिकगणितबीजं स्वबुध्या आभ्यूहितम् | एकेनार्यसूत्रेण च संक्षिप्य लोके प्रकाशयामास । ततोऽष्टाधिकशतैरार्यसूत्रैर्गणित–कालक्रिया –भूगोलबीजोपयोगं दिङ्मात्रेण दर्शयामास । तदिदमाचार्यार्यभटमुखारविन्दनिर्गतं प्रबन्धद्वयात्मकं ज्योतिश्शास्त्रमस्माभिर्व्याचिख्यासितम् ।

तत्र त्रीणि वस्तूनि प्रतिपाद्यतया प्रतिज्ञातानि-गणितं, कालक्रिया, गोल इति। तत्र गणितं सङ्कलित–व्यवकलितादिमिश्रक-क्षेत्रश्रेणी–कुट्टाकारादि चानेकविधम्। इह तु ज्योतिश्शास्त्रप्रतिपाद्ययोः कालक्रिया - गोलयोर्यावन्मात्रं परिकरभूतं तावन्मात्रमेव सामान्यगणितं प्रतिपाद्यतया प्रतिज्ञायते। कालस्य क्रिया कालक्रिया। कालपरिच्छेदोपायभूतं ग्रहगणितं कालक्रियेत्यर्थः। ब्रह्माण्डकटाहान्तर्त्याकाशमध्यस्थं ग्रहनक्षत्रकक्ष्यात्मकं खमध्यस्थ समघनवृत्तभूमिकं अपक्रमाद्य शेषविशेषोपेतं प्रवहवायुप्रेरणान्नित्यं पश्चिमाभिमुखं गच्छत् स्थलजलसीमास्थानां सर्वाश्चर्यमयं कालचक्र–ज्योतिश्छक्र-भपञ्जरादि शब्दवाच्यो गोलः। स च वृत्तक्षेत्रत्वात् चतुरश्राद्यनेक क्षेत्रकल्पनाधारत्वाच्च गणितविशेषगोचर एव। एवमेतानि त्रीणि वस्तूनि व्याख्यातानि।
	
एतत् त्रयमपि प्रत्येकं द्विविधम् – उपदेशमात्रावसेयं, तन्मूलन्यायावसेयं चेति। तत्र एतावद् युगप्रमाणम्, एतावन्तो युगे ग्रहमन्दशीघ्रीच्चपातनक्षत्राणां परिवर्ताः, एतावान्मन्दपरिधिः, एतावान् श्रीघ्रपरिधिः, एतवान् ग्रहाणां परमापक्रमः, एतावांश्चन्द्रादीनां परमविक्षेपः, एतावद् ब्रह्मदिनप्रमाणम्, तद्गतमेतावद्, एतावती युगे योजनात्मिका ग्रहगतिः, एतावती ग्रहकक्ष्या इत्येवमादिकं वस्तुजातम् उपदेशमात्रावसेयम्। एतदुपदेशं विना प्रमाणान्तरेणावगन्तुं न शक्यते। एतस्यातीन्द्रियस्य ग्रहगतिबीजस्य निरवशेषप्रतिपादनाय दशगीतिसूत्रारम्भः।
	
एतावतैव कृत्स्नं गणितस्कन्धगतार्थजातं परिसमाप्तम्। इतोऽन्यत्सर्वं न्यायसिध्दत्वाद् बुध्दिमद्भिरभ्यूह्य प्रतिपादयितुं शक्यते। तथा हि गणितपादोक्तानि चतुरश्र- त्र्यश्रक्षेत्रादिफलानि, त्रैराशिकादीनि कुट्टाकारपर्यन्तानि च गणितानि तावल्लौकिकगणितन्यायसिध्दानि सर्वैरभ्यूहितुं शक्यन्त एव।
	
काक्रियापादोक्तान्यपि तथाविधान्येव। भूदिनानि तावद् रविनक्षत्रभगणयोरुपदेशाल्लोकसिध्देन द्वियोगन्यायेन तयोरन्तरं कृत्वा ज्ञातुं शक्यते। तानि च ग्रहादिमध्यमानयने प्रमाणराशिः। युगरविमासाश्च युगरव्यब्दोपदेशाद् वर्षस्य च द्वादशमासत्वेन लोकसिध्दत्वाद्, युगरव्यब्दद्वादशगुणनवैव सिध्यन्ति। रविशशियोगस्य चान्द्रमासत्वाद् रविशशिभगणविशेष एव चान्द्रमासा भवन्ति। एकस्य चान्द्रमासस्य त्रिंशत्तिथ्यात्मकत्वेन प्रसिध्दत्वात् ते त्रिंशदगुणिता युगतिथयः स्युः अवमदिनस्य शशिसावन दिनान्तरत्वाद् युगसावनयुगचन्द्रदिनान्तरं युगावमदिनानि। आन्द्रसौरमासान्तरस्य अधिकमासत्वप्रसिद्धः  युगादिमासानयनमपि स्पष्टम्। एवम् एतैः परिकरभूतैरिष्टकालत्रैराशिकेन गत सौरमासतिथिषु याताधिकावमादीनि संसाध्य गतमासतिथिषु तद्योगशोधनेन कलियातदिनानि ज्ञातुं शक्यन्ते। तानि च इच्छाराशिः। फलराशिश्च इष्टग्रहादेर्युगभगणाः। एवमेतैस्रैराशिकगणितेन ग्रहमध्यमाः सिध्यन्ति। उच्चमध्यमे ग्रहमध्यमे च ज्ञाते उच्चमध्यमसमो ग्रहमध्यम एव स्फुटः। तयोः कक्ष्यामण्डलस्योच्चनीचरेखायाः परमविश्लेषो राशित्रयम्। तत्रत्येन मध्यमस्फुटान्तरेण व्यासार्धेन निष्पन्नाः पठिताः परिधयः। इष्टकालग्रहोच्चान्तरस्य त्रैराशिकेन तात्कालिकमध्यमस्फुटान्तरमानीय मध्यमग्रहतत्संयोगवियोगाभ्यामेव पारमार्थिकग्रहसिध्दिः। तथा शीघ्रोच्चोपदेशो येषामस्ति ते शिघ्रोच्चस्वान्तरोत्त्पन्नेन फलेनापि संस्कृताः पारमार्थिका भवन्ति। इत्येतान्यन्यानि च कालक्रियापादोक्तानि अर्थजातानि सर्वाण्युपद्शमूलन्यायावसेयान्येव।
	तथा गोलपादोक्तान्यपि तथाविधान्येव। तथा हि – स्थलजलसीमायां लङ्कामधिकृत्यापक्रमोपदेशात् पूर्वपराया उत्तरेण दक्षिणेन चापक्रान्तं किञ्चिदुन्मण्डलमस्तीति शक्यं कल्पयितुम्। अपमण्डालात् प्रभृति विक्षेपोपदेशात् तदुत्तरतो दक्षिणतश्च स्थितं किञ्चिन्मण्डलमस्तीत्यपि शक्यं कल्पयितुम्। एवमन्यान्यपि गोलपादोक्तान्यर्थजातानि बीजोपदेशवत् सुतरां न्यायपथमधिरोहन्ति।

अस्मिन् ग्रन्थे अष्टाधिकशतपद्यानि सन्ति। अतः एव एतत् पुस्तकम् आर्यशताष्टकम् इति प्रसिद्धम् अस्ति। अस्मिन् ग्रन्थे चत्वारः खण्डाः सन्ति। भास्करः एतत् पुस्तकम् अश्मकतन्त्रम् इति कथयति।

सः ग्रन्थे वदति -

आर्यभट उवाच -

सः सैन् इति अनुपातम् ज्य इति अकथयत् कोसिन् इति अनुपातम् कोज्य इति च।

सः वर्गाणां घनानां पङ्क्तीनां सम्पर्कान् अगणयत्।

सः भूरदयः ग्रहाः सुर्यस्य ज्योतिम् म्रिष्ट्वा एव शोभन्ते इति उवाच। सः ग्रहणम् भूछायया एव कृतम् न तु राहुकेतुभ्याम् इति उक्तवान्।

सः भूचक्रपरिधिः 39,968.0582 कि.मी इति सम्यक् उक्तवान्।




#Article 152: अभिज्ञानशाकुन्तलम् (2940 words)


अभिज्ञान शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्धं नाटकम्  अस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति। दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहं कृतवान्, तदा सः स्मृतिचिन्हं नाम अङ्‍गुलीयकं दत्तवान्। तत् अभिज्ञानं मुनेः दुर्वाससः शापेन विलुप्तमभवत्। शापवशात्  राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।

तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती भरतनामकं पुत्रमजनयत् । द्वादशवर्षानन्तरं केनचिद् धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान्  । तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती ।
नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते। साहित्यसमीक्षकाः कथयन्ति यत् --

शेक्सपियर् तुलनां जनाः कालिदासस्य  सह कुर्वन्ति।
शाकुन्तलविषये गटेनामकस्य जर्मनकवे:अभिप्राय: अभिज्ञानशाकुन्तलं नाटकस्य मूलकथावस्तु महाभारतात् आदिपर्वणः शकुन्तलोपाख्यानात् उद्धृतम् । 

नाटकेऽस्मिन् नायिका शाकुन्तला नायकेन राज्ञा दुष्यन्तेन गान्धर्वविवाहविधिना परिणीता । स्वनगरं प्रति परावर्तमानेन तेन “ एकैकमत्र दिवसे दिवसे मदीयं, नामाक्षरं गणय, गच्छसि यावदन्तम्” ॥ इत्युक्त्वा स्वनामङ्कितमंगुलीयकं स्वयमेव शाकुन्तलायाः हस्ते परिधापितम् । इत्यभिज्ञानविषयिणी घटना महाभारतस्यादिपर्वात् गृहीता ।

अभिज्ञानशाकुन्तलस्य चतुर्थेऽङ्के लौकिकालौकिक प्रकृतिमानवयोः विलक्षणं समन्वयोऽस्ति । वनौकसोऽपि वयं लौकिकज्ञा एव इति कण्वस्य उद्घोषणा चतुर्थाऽङ्कस्य वैशिष्ट्यं द्विगुणयति । अरण्यवासिन्याः शाकुन्तलायाः पतिगृह- हस्तिना पुरगमनम् अरण्यराजप्रसादयोः किमपि विलक्षणं सम्बन्धं प्रतिपादयति ।
दुर्वाससः शापः, आकाशवाणी, शकुन्तलायाः पतिगृहगमनम्, वनस्पतिभ्यः शकुन्तलायै आभूषणप्रदानम्, कोकिलरवेण शकुन्तलायाः पतिगृहगमनाय वनस्पतीनां स्वीकृतिः , मृगशावकेन शकुन्तलामार्गावरोधः, शकुन्तलायाः प्रस्थानं चेति चतुर्थोऽङ्कस्य महत्वपूर्णाः घटनाः सन्ति । अभुज्ञानशाकुन्तलस्य चमत्कारो दुर्वाससः शापघटनायामाश्रितोऽस्ति, अत एव अंकोऽयं विशिष्टं स्थानं बिभर्ति । सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् इत्यनेन शकुन्तलायाः पतिगृहगमनाय अनुज्ञा प्रार्थिता ।

ग्रन्थारम्भे सूत्रधारेण पात्राणां अवधानोपदेशार्थम् उक्तेसति सुविदितप्रयोगतयार्थस्य न किमपि परिहास्यते इति  नटीवचनं श्रुत्वा सूत्रधारमुखेन महाकविः भूतार्थं कथयति – प्राज्ञानां सन्तोषपर्यन्तम् अभिनयकौशलं समीचीनं न स्वीकरोमि । कृताभ्यासानां निपुणानामपि सुदृढं चित्तं स्वविषये अविश्वस्तं भवति । ईदृशः वाग्व्यवहारः महाकवेः गुण-गौरवमेव प्रथयति ।

पुरुवंशस्य राजा दुष्यन्तः कदाचित् मृगयां कुर्वन् अटव्यां हरिणं अनुधावन् मालिनीतीरे विद्यमानस्य कण्वस्य आश्रमं प्रविशति । कण्वः फलपुष्पाणि आनेतुं गत इत्यतः काचित् सुन्दरी तापसकन्या तस्मै स्वागतं करोति । अर्घ्यपाद्यादिभिः सत्करोति सा । तस्याः रूपेण मोहितः दुष्यन्तः स्वपरिचयं तस्यै कुर्वन् तां प्रति - त्वं क्षत्रियोऽसि ? त्वां प्रति मम मनः आकर्षति । अहं त्वां कामये इत्यवदत् । शकुन्तला तु - अहं मेनकाविश्वामित्रयोः पुत्री इति, ताभ्यां यदा परित्यक्ताहं शकुन्तपक्षिभिः रक्षिता इति, ततः कण्वमहर्षिः वने मां दृष्ट्वा आश्रमं प्रति आनीय पोषितवान् इति । शकुन्तपक्षिभिः रक्षिता अहं शकुन्तला इति नामधेयं प्राप्नवम्। यदि मां वोढुं वाञ्छसि तर्हि कण्वमहर्षेः अनुमतिः अपेक्षिता इत्यादिकं सर्वं वृत्तान्तम् अकथयत् । 
दुष्यन्तः तु क्षत्रियाः गान्धर्वविधिना परिणेतुं शक्नुवन्ति । तदर्थं कण्वस्य आक्षेपः न स्यादिति, त्वयि जायमानमेव उत्तराधिकारिरूपेण ताम् अङ्गीकारयित्वा तस्याः पुत्रमेव युवराजं करिष्यामि इति प्रतिश्रुण्वानः तां परिणीतवान् । अग्रे तस्यै राजयोग्यानि वेषभूषणानि सेवकद्वारा प्रेषयामि इति उक्त्वा कण्व मम विषये किं वदेत् इति चिन्तयन्नेव स्वनगरं प्रायात्।
कण्वे आश्रमं प्रत्यागते शकुन्तला तस्य शिरसः उपरि विद्यमानं भारम् अवतारयति । तथापि तस्य मुखं अदृष्ट्वा लज्जया अधोमुखी तिष्ठति । कण्वे लज्जायाः कारणं पृच्छति सति शकुन्तला दुश्यन्तेन साकं कृतविवाहवृत्तन्तं अकथयत् । दिव्यदृष्ट्या सर्वविदितः कण्वः - ”वत्से ! त्वया कृतः अधर्मः न । क्षत्रियाणां गान्धर्वविधिना परिणयः सम्मतः” इति समर्थयति । कालक्रमेण गर्भवती शकुन्तला रूपगुणसम्पन्नोपेतं सुतं असूत । पुत्रस्य षट् वर्षाणि अतीतानि चेदपि दुष्यन्तः नागतः । सः अपि आरम्भदिनेषु कण्वः किमपि वदेत् इति चिन्तयन् न प्रवर्तते स्म, क्रमेण शकुन्तलायाः विषयः तेन विस्मृतः । परं सा तु तं निरीक्षमाणा खिद्यते स्म । बालस्तु धीरः सन् वनस्य सर्वप्राणिनः अपि निगृह्य आत्मानं सर्वदमन इति परिचाययति स्म । तं यौवराज्याय अर्हं मन्वानः कण्वः मुहूर्तं निश्चित्य स्वशिष्यैः सह शकुन्तलां तत्पुत्रं च दुष्यन्तस्य राजधानीं प्रति प्रेषयामास । 

यदा शकुन्तला पतिगृहं प्रस्थिता तदा पालितपितुः कण्वस्य नेत्रे अश्रुपूर्णे भवतः । तच्छिष्याः तां राजधानीं प्रापय्य प्रत्यागच्छन्ति । पुत्रेण सह शकुन्तला राजसभायां दुष्यन्तं दृष्ट्वा स्ववृत्तान्तं सर्वं निवेदयति । तस्याः वचनेन स्मृतपूर्ववृत्तान्तः राजा अपि लोकापवादात् भीतः अहं किमपि नजाने इति वदति । तामुद्दिश्य - शकुन्तले ! का त्वम् ? कुतः अत्र आगतं त्वया ? किं साहाय्यम् अपेक्षितम् ? इति अपरिचितः इव सम्भाषते । ततः शकुन्तला - महाराज ! अयं तव पुत्रः । त्वया आश्रमे दत्तवचनानुसारं तव राज्यस्य उत्तराधिकारी भविता । यदा त्वया आश्रमं प्रति आगतं तदा प्रवृत्तं सर्वं स्मर इत्यादि रीत्या अभियाचते । दुष्यन्तः शकुन्तलां न विस्मृतवान् आसीत् परं तस्मिन् क्षणे किमपि अजानन् इव -

अस्य तात्पर्यमेतत् - धर्मार्थकामार्थं त्वया सह सम्बन्धकरणं न मया स्मर्यते । त्वं याहि, अत्रैव तिष्ठ स्वेच्छानुसारं वा कर्म कुरु इति साक्षात् वदति । शकुन्तला अवमानेन लज्जया च पीडिता क्षणं यावत् किङ्कर्तव्यमूढा तिष्ठति । तदा नितरां कुपिता सा दुष्यन्तं सम्यक् निर्भत्सयन्ती- महाराज ! जानन्नपि कुतः एवं प्रलपसि ? एवम् असत्यं कथयन् त्वं हृदि संस्थितं सर्वसाक्षिणं परमात्मानं मा अवमानय । अहं तव धर्मपत्नी । यदि मां त्यजसि न किमपि दुःखम्, परं एतं तव पुत्रं मा त्यज । मम वचनं यदि उपेक्षसे तर्हि तव शिरः सहस्रशः छिद्रं भविष्यति इत्यादिभिः वचनैः भर्त्सयति । तथापि दुष्यन्तस्य मनः न द्रवति । पूर्वतनं किमपि न स्मरन् सः अन्ते तामेव वेश्यापुत्रि ! इति निन्दति । शकुन्तलायाः नयविनयादिभिः याचनादिभिः अपि दुष्यन्तः नाङ्गीकरोति । तदा सा कोपाग्निम् असहमाना पुत्रेण सह ततः निर्गता । तावता - भरस्व पुत्रं दुष्यन्त ! मावमंस्थाः शकुन्तलाम् (हे दुष्यन्त ! अयं तव पुत्रः, तं पोषय । शकुन्तलायाः अवमाननं मा कुरु) इति अशरीरवाणी काचित् भविष्यति, शकुन्तलायाः उपरि पुष्पवृष्टिः च भविष्यति । ततः दुष्यन्तः सिंहासनात् अवतीर्य अन्तरिक्षदेवताः नमस्कृत्य राजसभायां मन्त्रिपुरोहितं च उद्दिश्य - अहं तु एतां जाया इति, अयं तव पुत्रः इति सम्यक् एव अभिज्ञातवान्  अधुना अशरीरवाणी जाता इत्यतः अयं पुत्रः मदीयः शुद्धः इति निःशङ्कं कथयामि इति वदन् तम् आलिङ्गितवान्, शकुन्तलां च आदरेण सत्कृतवान् । सर्वदमनः युवराजपदे नियुक्तः सन् अग्रे भरतः इति प्रसिद्धिम् अवाप । शकुन्तला पट्टमहिषी सञ्जाता ।

शकुन्तलादुष्यन्तयोः कथा पुराणकाले अतीव प्रसिद्धः स्यात् । अतः इयं कथा न केवलं महाभारते, भागवते, विष्णुपुराणे, हरिवंशे, मत्स्यपुराणे, वायुपुराणे, पद्मपुराणे च दृश्यते । बौद्धानां जातककथायामपि शकुन्तलाकथासदृशी अपरा काचित् कथा विद्यते । जैनसम्प्रदायेऽपि (पार्श्वनाथचरित्रम्) कालिदासस्य शाकुन्तलनाटकसदृशी अन्य कथा दृश्यते । एतैः अंशैः शकुन्तलादुष्यन्तयोः कथा अनादिकालात् अपि प्रचलिता इति ज्ञायते । 
कालिदासस्य नाटकस्य कथायाः महाभारते उक्तायाः कथायाः च तुलनां कुर्मः चेत् अत्र कालिदासस्य रचनाकौशल्यम् उदात्तं रचनात्मकं च परिवर्तनं दृश्यते । कालिदासेन ग्रथितस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्कः कण्वस्य अश्रमस्य दृश्यम् । तस्य आरम्भः अष्टमूर्तेः शिवस्य स्तवनेन भवति । ततः सूत्रधारः नट्या सह रङ्गं प्रविश्य ग्रीष्म-ऋतुवर्णनद्वारा सङ्गीतस्वादम् अनुभवति । नवीनतया रचितस्य कालिदासस्य नाटकस्य परिचयं कारयति । तदनन्तरं दुष्यन्तः हरिणम् अनुधावन् आगच्छन्नास्ति इति घटनां संसूच्य प्रस्तावनं समाप्य निर्गच्छति । 

अथ नाट्टकस्यादौ पूर्वरङ्गाङ्गभूताम् आशीरूपां या 'सृष्टिः स्रष्टुराद्या' इत्यात्मिकामष्टपदीं नान्दीं विघ्नव्यूह-निरासाय पठति सूत्रधारः । ततः सुत्रधारो नटीं ब्रते यत्, आर्ये ! कालिदासेण ग्रथितवस्तुनः अभिनयेन अभिज्ञानशाकुन्तलनामकेन नाटकेन उपस्थातव्यमिति तदनु चिरप्रवृत्तमुपभोगक्षमं ग्रीष्मकालमधिकृत्य नटी गायति। मनोहारिणा तेन गीतेन मृगेण राजा दुष्यन्त इव अहमपि हठात् मनोहारिणा गीतेन हृतोऽस्मीति प्रस्तौति प्रस्तावनायां सूत्रधारः -

तवास्मि गीतरागेण हारिणा प्रसभं हृतः।

एष राजेव दुष्यन्तः सारङ्गणातिरंहसा ।।

तदनन्तरं मृगवधाय यावदसौ राजा धनुषि शरं संधत्ते, तावदेव द्वो वैखानसौ (संन्यासिनौ) 'आश्रममृगोऽयं न हन्तव्यो न हन्तव्य' इति निषेधयन्तौ दुष्यन्तं निवारयतः । सोऽपि तदादेशानुसारं सद्यः सायकं (तीरं) प्रतिसंगृहीतवान् । ततः ताभ्यां स्वात्मानुगुणं चक्रवर्तिनं तनयं प्राप्नूहि इति शुभाशिषं प्रदाय कण्वाश्रमे प्रवेशायानुरोधं कृत्वा समिदाहरणार्थं, प्रस्थितौ । ततो राजा तपोवनोवरोधो मा भूदिति रथादिकं बहिः संस्थाप्य दक्षिणबाहुस्पन्दनपूर्वकं विनीतवेषेण आश्रमं प्रविश्य तत्र सखीभ्यां समेताम् आम्रान् सिञ्चन्तीं शकुन्तलाम् आलोक्य आत्मगतं चिन्तयति -

इदं किल व्याज मनोहरं वपुस्तपः क्षमं साधयितुं य इच्छति ।

ध्रुवं स नोलोत्पल पत्रधारया शमील्लत छेत्तुमृषिर्व्यवस्यति ॥

सरसिजमनुविद्धं शैवलेनापि रम्यं, मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति।

इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव मधुराणां मण्डनं नाकृतीनाम् ॥२०॥

अत्रान्तरे भ्रमरपीडिता शकुन्तला आत्मानं परित्रातुं सख्यो प्रार्थितवती । ततः तयोः सपरिहासं भणति – के आवां परित्रातुम् । राजरक्षितव्यानि तपोवनानि । अतो दुष्यन्तनमाक्रान्द। स एवागत्य त्वां परित्रास्यति । अवसरं ज्ञात्वा दुष्यन्तस्य स्वात्मप्रकाशनम्, ससम्भ्रमां शकुन्तलां वीक्ष्य अनसूयाप्रियंवदयोः - राज्ञ आतिथ्यसामग्रीसञ्चयार्थं शकुन्तलायै आदेशदानम् । ततो राजा - भवतीनां सुनृतया गिरा एवं कृतमातिथ्यम् । ततः सखीसकाशात् तन्नामजन्माद्यवगम्य तदीयरूपलावण्याकृष्टो राजा ब्रवीति -

मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः।

न प्रभातरलं ज्योतिरुदेति वसुधातलात्।।

इदं श्रुत्वा शकुन्तलाऽधोमुखी तिष्ठति । ततो नेपथ्ये – भो भोः तपस्विनः मृगयाविहारी राजा दुष्यन्तः प्रत्यासन्नो वरीवर्ति। अतः तपोवनसत्वरक्षायै सज्जीभवन्तु भवन्त इति श्रवणम् । किमस्मदन्वेषिणः पौराः तपोवनम् उपरुन्धन्ति। अतः आश्रमपीडा यथा न भवेत्तथा प्रयतिष्यामहे । दुष्यन्तरथदर्शनसम्भ्रान्तस्य कस्यचिद् वन्यगजस्य तपोवनप्रवेशं श्रुत्वा संभ्रान्ता मुनिकुमार्यः उत्तस्थुः कथयामासतुश्च आर्य वन्यगजवृत्तान्तेनानेन पर्याकुलः स्मः । अतोऽनुजानीहि उटजगमनाय। असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्ये विज्ञापयितुम् । राजापि मा मैवं दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि । शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य निर्गता। राजापि नगरगमनं प्रति मन्दौत्सुक्यः सन् यथा आश्रमबाधा न भवेत्तथा यतिष्ये इत्युक्त्वा निष्क्रान्तः 

अयं मृगः, एषः वाराहः, असौ शार्दूल इति मध्याह्नेऽपि ग्रीष्मविरलपादपच्छायासु वनराजिषु अटवीतोऽटवीं भ्रममाणस्य मृगयाशीलस्यास्य राज्ञो दुष्यन्तस्य स्नेहपरवशेन माधव्यनाम्ना विदूषकेण दुःखानुभवो वर्णितः । ततो मृगवाराहादीन् अनुसरता कण्वाश्रमप्रविष्टेन नृपेण दुष्यतेन तपस्विदुहिता शकुन्तला अवलोकिता। तल्लावण्यलुब्धः तामेव आनिशं चिन्तयन् कथमपि निशाम् अतिवाहितवान् । ततो राजा सेनापतिम् आहूय प्रोवाच यत् सेनापते! वनग्राहिणो निवर्तस्व यथा तपोवनोपरोधो न भवेत्तथा सैनिकाः निरोधव्याः इति। यतो हि -

शमप्रधानेषु तपोधनेषु गूढं हि दोहात्मकमस्ति तेजः।

स्पर्शानुकूला इव चन्द्रकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति।।

ततो रहसि स्वसुहृदे माधव्याय कण्वसुताशकुन्तलादर्शनेन जातमात्मनोऽवस्थां न्यवेदयत् दुष्यन्तः । अपि च शकुन्तलाया देवाङ्गनासंभवत्वम्, आत्मनस्तया सह सम्बन्धयोग्यताम् तस्या सखीभ्यां सह संवेदावसरे विविधभावप्रकाशनानन्दकं सर्वमवर्णयत्।

अत्रावसरे मुनिकुमारौ आगत्य उचतुः – राजन् ! तपस्विभिः ज्ञातमस्ति यद्भवानत्रैव तिष्ठति। अतस्ते भवन्तं प्रार्थयन्ते यदस्माभिः क्रियमाणे यज्ञे राक्षसा बाधां कुर्वन्ति ततः तन्निवारणाय भवता कतिपयदिवसमात्र सनाथीक्रियताम् अयम् आश्रमः । तस्मिन्नेवान्तरे राजधानीतोऽम्बाया सन्देशहरः करभकः उपस्थापयाम्वासन्देशं दुष्यन्ताय न्यवेदयत् - आयुष्मन् ! मातृभिः सन्दिष्टो भवान् यत् आगामिनि चतुर्थदिवसे प्रवृत्तपारणा मे उपवासो भविष्यति, तत्र दीर्घायुषाऽवश्यमुपस्थाय अहं सम्भवनीया। ततः समकालं तपस्विसहितशकुन्तलानुराग-पुत्रकर्तव्याभ्याम् आकुलीकृतचित्तः दुष्यन्तो विदूषकमाह - वयस्य ! त्वमम्बया पुत्रत्वेन परिगृहीतोऽसि इत्यतस्तत्र गत्वा तत्पुत्रकार्यं सम्पादय, अहं तु ऋषीणां गौरवादत्रैव तिष्ठामि । न खलु त्वया शकुन्तलायां ममाभिलाषः तत्र प्रकटनीयः, मया तु तद्वच उपहासेन तुभ्यम् अवोचि । 

वयस्य पश्य !

क्व वयं का परोक्षमन्मथो मृगशावैः समभेधितो जनः।

परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः॥

एवम् आभाष्य राजा सकलानुयात्रिकैः सह विदूषकं स्वराजधान्यां विसृज्य कण्वाश्रमे प्रविष्टः।

अथ कुशहस्तो यजमानः शिष्यः प्रविश्य राज्ञो दुष्यन्तस्य तपोवनप्रवेशात निरुपप्लवं निखिलं यज्ञकर्म संवृत्तमिति सगौरवं तस्य शौर्यं प्रतापातिशयं च वर्णयति विष्कम्भके -

का कथा बाणसन्धाने ज्याशब्दे नैव दूरतः ।

हुंकारणैव धनुषः स हि विघ्नानपोहृति ।।

ततो मुनिभिरनुज्ञातो दुष्यन्तः दूरीकरणाय श्रमक्लममनोविनोदाय च क्व गच्छामि ? अथ शशाङ्कमदनानुद्दिश्य कामव्यथां वर्णयन् सखीपरिवृता शकुन्तला मालिनी नदीतटे इमामुग्रां वेलामतिवाहयतीति तामन्विष्यन् मालिनीतीमाययी तत्र लतामण्डपे कुसुमास्तरणं शिलापट्टमधिशयानां सखीभ्यां नलिनीदलादिभिरुपचार्यमाणां शकुन्तलामक्षिलक्ष्यी चकार । बलवदस्वस्थशरीरायाः शकुन्तलायाः सखीभ्यां सह विश्रम्भालापांश्च संश्रोतुकामो नृपः शाखान्तरितो भूत्वाऽतिष्ठत्। ततः सखीभ्यां तदवस्थां ज्ञातुं पृष्टा सा ब्रवीति - सख्यौ तपोवनेऽस्मिन् राजर्षेः दुष्यन्तस्य आगमनादेव अहमिमां दशां गतास्मि। स एव मम शरणमिति निशम्य प्रियम्वदा मदनलेखात्मक प्रयोगं रुचिरं विचार्य देवताप्रसादोपदेशेन राजानं प्रति तत्प्रापणकार्यं स्वयं स्वीकरोति । ततो मदनलेखं विरच्य शकुन्तलया वाच्यमानं निशम्य सन्तुष्टान्तरात्मा दुष्यन्तः तमेवावसरं प्रकटयितुं मत्वा सहसोपसृत्य स्वीयां चानिर्वर्णनीयां दशां ताः प्रख्यापयति । ततः सख्यौ आहतुः - महाभाग ! एषा नौ प्रियसखी शकुन्तला भवन्तमेवोद्दिश्य मदनेनेदं दशान्तरं नीता । तदहस्यभ्युपपत्या जीवितमस्या अवलम्बितुं । यथा नेयं बन्धुजनशोच्या भवति तथा करोतु महाराज-इत्युक्त्वा मृगपोतकं तन्मात्रा सह मेलयितुं व्याजीकृत्य लतामण्डपाद् बहिः निर्यग्मतुः । अथ सख्योरनुसरणपरा शकुन्तला राज्ञा बलान्निवारिता । ततः किञ्चित्कालं चिरप्रार्थितवाञ्छासाफल्येन सुखितयोः परमानन्दमनुभवतोः तयोः स्वस्थोपलम्भनार्थं शान्त्युदकहस्ता गौतमी शकुन्तलामाह्वयन्ती तमेव प्रदेशमनुसृत्य। प्रोवती वत्से ! अनेन दर्भोदकेन ते शरीरं निर्बाधं भविष्यति । ततो जाते ! परिणतो दिवसः सायंकालः संजातः, उटजं गच्छामः इति सर्वाः प्रस्थिताः । अथ दुःखेन तामनुसरन्ती ।

सा लतावलयव्याजेन राजानमवोचत् - लतावलय ! सन्तापहारक ! आमन्त्रये त्वां पुनः परिभोगाय। एवं सापदेशं राजानमुक्त्वा निर्ययौ । तेनातिखिन्नमना राजा तत्रैव प्रेयसीविहृतस्थलादि स्मारं स्मारं कथञ्चिदतिवाह्य प्रियापरिभुक्तमुक्ते लतामण्डपे मुहूर्तं स्थित्वा विषण्णः सन् सवनकर्मव्यापृतानामृषीणां निशाचरभयवारणायागात् -

सायन्तने सवनकर्मणि संप्रवृत्ते, वेदी हुताशनवतीं परितः प्रयस्ताः ।

छायाश्चरन्ति बहुधा भयमादधानाः, सन्ध्यापयोदकपिशाः पिशिताशनानाम्॥

सत्यवसरे दुष्यन्तो गान्धर्वविवाहविधिना शकुन्तलामुद्वाह्य तया साकं किञ्चित्कालमतिबाह्य ऋषिभिरनुज्ञातः स्वां राजधानीं जिगमिषन् तस्यै स्वनामाङ्कितमङ्गुलीयकं प्रदाय प्रावोचत् प्रिये ! अत्र प्रत्यहमेकमेकं मदीयं नामाक्षरं गणनीयं यावदन्तं गच्छति तावद् ममान्तःपुरप्रापकः कश्चन विश्वस्तो जनः तव समीपमुपैष्यतीत्येवमाश्वास्य हस्तिनापुरं चचाल । 

कुसुमावचयव्यग्रयोः प्रियम्वदाऽनसूययोः सख्योः मिथः संवादेन शायते यत्तपोवने समारब्धस्य यज्ञस्य निर्विघ्नं समाप्तौ मुनिभिर्विसर्जितः राजा दुष्यन्तः स्वां राजधानीं प्रतिष्ठाय स्वान्तःपुरजनेने गान्धर्वविधिना परिणीतां सखीं शकुन्तला संस्मरिष्यन् वेति । तमेव राजानं ध्यायन्ती शकुन्तला खिन्नमना उटजेऽवतस्थे सन्निधावेव वर्तते ।

एतस्मिन्नेवावसरे - अतिथिपरिभाविनि। ये स्वं प्रियमनन्यमनस्कतया विचिन्तयन्तीं आतिथ्येन द्वारदेशे समुपस्थितं मां तपोधनं न वेत्सीत्यतो बोधितोऽपि स ते प्रियः विवाहवृतं न स्मरिष्यतीति शप्त्वा सुलभकोपो महर्षिः दुर्वासा प्रतिनिवृत्तः ।

विचिन्तयन्ती यमनन्यमानसा, तपोधनं वेत्सि न मामुपस्थितम्।

स्मरिष्यति त्वां न स बोधितोऽपि सन् कथा प्रमत्तः प्रथमां कृतामिव॥

इमं व्यतिकरं निशम्य अनसूया सपदि मुनिप्रसादनाय प्रियम्वदां प्राहिणोत् । तया च मुनिचरणयोः प्रणिपत्य भूयो भूयोऽनुनीतो महर्षिरवादीत् - मम शापोऽन्यथा न भावी, किन्त्वभिज्ञानाभरणदर्शनेन स शापो निवर्तयिष्यते इत्यभिधायान्तर्हितो जातः । सख्यौ च नगरगमनसमये राज्ञा शकुन्तलायै प्रदत्ताङ्गुलीयकं स्मृत्वा शकुन्तलाचित्तोद्वेगभिया तच्छापवृत्तं तस्यै न निवेदितवत्यो ।

अथ सोमतीर्थयात्रातः प्रतिनिवृत्तेन महर्षिणा कण्वेनाग्निगृहे प्रवेशे कृतेऽशरीरिण्या व्योमवाचा शकुन्तलाया दुष्यन्तेन साकं संवृत्तं वृत्तमवोचि। ततो महर्षिः ब्रीडावनम्रां शकुन्तलामाश्लिष्य तत्कर्माभिनन्द। पतिगृहं प्रेषयितुकामः तदीय प्रस्थानमङ्गलविधिमादिदेश च। गौतम्यादिभिः जरतीभिः तापसीभिराशीर्वचनपूर्वकं निर्वतितप्रस्थानकौतुका, सखीकृतमङ्गलसमारम्भे च शकुन्तला मालिन्यां स्नानादिकृत्यं कृत्वाऽऽगतं तातकण्वं प्रणनाम । स च प्रेमगद्गदया वाचा - जाते ! शाकुन्तले ! आत्मसदृशेन भर्त्रा त्वं संगतेति प्रसीदतितमां मे चैतः। पतिगृहं समुपस्थाय मर्यादापालनपूर्वकं पति-सपत्नी-श्वसुर-श्वश्रू-परिजनादीनां सन्तोषकरकार्ये कार्यमित्यादिश्य, ययातेः शर्मिष्ठेव भर्तुः बहुमता भवेत्याशिषमदात्। ततः शकुन्तला तातानुरोधेन हुताग्नीन् प्रदक्षिणीकृत्य वनदेवताश्च प्रणम्य विभिन्नैः वृक्षादिभिः दत्तानि दिव्यानि आभरणवस्त्राणि परिधीय स्नेहविक्लवेन कण्वेन, वयस्याभ्यां चानुगम्यमानी पदे पदे स्खलन्ती प्रतस्थे । उदकान्तं प्रियजनोऽनुगन्तव्य इति शास्त्रनियमेनोदकान्तं गत्वा महर्षिः कण्वो दुष्यन्ताय समुचितं सन्दिश्य शकुन्तलामपि प्रसङ्गोचितमुपदिशत्। सख्यावपि प्रियम्वदानसूये - प्रियसखि ! शकुन्तले ! यदि स राजा प्रत्यभिज्ञानमन्थरो भवेत्तदा नगरगमनसमये तुभ्यमर्पितं तदङ्गुलीयकं तस्मै दर्शयितव्यमिति संदिदिशतुः ।

ततो गौतमी-शार्ङ्गरवशारद्वतैः सह शकुन्तला हस्तिनापुरं प्रतस्थे, कण्वश्च प्रियम्बदानुस्याभ्यां साकं शकुन्तलाशून्यं स्वाश्रमं प्रति परावृत्तः स्नेहप्रवाहाविमर्शपूर्वकं प्रावोचत् -

अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः।

जातो ममायं विशदः प्रकामं प्रत्यार्पितन्यास इवान्तरात्मा ॥

अथास्मिन् वयस्येन माधव्येन सह राजधान्यां नागरिकवृत्या लयतालबद्धं हंसपदिकागीतं निशम्य तदर्थं स्मारं स्मारं कामप्यन्तर्व्यथामानुभवति राजा दुष्यन्तः । अत्रैवान्तरे कुलपतेः कण्वस्यादेशमादाय तपोवनात् सस्त्रीकाः तपस्विनः समायाता इति कञ्चुकी निवेदते । ते श्रौतेन विधिना सत्कृत्य यशालायां प्रवेशयितव्या इत्यादिश्य राजापि तान् प्रतिपालयितुं तत्रोपतिष्ठते । ततः सोमरातः पुरोहितो राजाज्ञया श्रौतेन विधिना तान् सत्कृत्य शालामुपस्थापयत्। तच्च प्रविष्टास्ते आशीर्वचनपूर्वकं राज्ञे अवगुण्ठनवती शकुन्तलामधिकृत्य कण्वस्य सन्देशं न्यवेदयन् -

सतीमपि ज्ञातिकुलैकसंश्रयां, जनोऽन्यथा भर्तृमतीं विशङ्कते।

अतः समीपे परिणेतुरिष्यते, प्रियाप्रिया वा प्रमदा स्वबन्धुभिः।।

परं महर्षेः दुर्वाससः शापप्रभावेण स शकुन्तलायाः परिणयविधिं विसस्मार अकथयच्च यत्,

भो भोः तपस्विनः! निपुणं विचारयन्नपि न स्मरामि अस्याः देव्याः पाणिग्रहणम् । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रति आत्मानं क्षत्रिणं मन्यमानः प्रतिपत्स्ये। तत्कण्वस्यान्तेवासिनां साधिक्षेरमुक्तोऽपि शकुन्तलायाः अवगुण्ठनापनयनानन्तरं प्रत्यक्षीकृत्यापि यदा नाङ्गी चकार तदाऽभिज्ञानेन तस्य शङ्कामपनेतुं शकुन्तला प्रववृते, परमङ्गुलीयकशून्यामङ्गुलीं दृष्ट्वा परमं विषण्णा सती तस्मै दीर्घापाङ्गमृगशावक जलपानप्रत्ययवचनं दत्तवती । तथापि वैफल्ये सति राजाऽवोचत् - आत्मकार्ये निर्वर्तनीनामनृतवाङ्माधुरीभिः विषयिण आकृष्यन्ते। उड्डयनशक्तेः पूर्वं परभृतः स्वानि अपत्यानि काकैः परिपोषयन्ति । अशिक्षितास्वपि स्त्रीषु परवञ्चनकौशलं प्रसिद्धमेव । अतो वनवासवर्धितापीयं शकुन्तला स्त्रीभावसुलभं वञ्चनकौशलं जानात्येव। यदि स्त्रीजातौ समुत्पन्नासु शिक्षणं विनैव नैसर्गिकं वञ्चनपङ्कत्वं दृश्यते, तर्हि वाग्व्यवहारकुशलासु मानुषीषु किं वक्तव्यम्?

स्त्रीणामशिक्षितपटुत्वममानुषीषु, संदृश्यते किमुत याः प्रतिबोधवत्यः।

प्रागन्तरिक्षगमनात् स्वमपत्यजातम्, अन्यैद्विजैः परभृताः खलु पोषयन्ति।।

त्वं जनयित्वा जङ्गके उत्सृष्टा कोकिलेवपरैः भृतासि । अतः कामं गच्छ, तिष्ठ वा यदेच्छं कुर। एवं स्वजनन्युपमर्देन सन्तप्ता शकुन्तला दुष्यन्तं प्रति - अनार्य ! आत्मनोऽनुमानेन सर्वान् प्रेक्षसे इति। तृणैराच्छन्नकूपस्य इव धर्मकञ्चुकिनः त्वत्तोन्य संसारे कः पापबुद्धिः। ततो गौतमी - जाते! पुरुवंशप्रत्ययेन मधुरभाषिणो हृदयनिहितविषस्य दुष्यन्तस्य हस्ते त्वमुपगता। ततः सकुन्तला पटान्तरे मुखमाच्छाद्य रोदिति। ततः शारद्वतोऽब्रवीत् - शार्ङ्गरव! किमुत्तर-प्रत्युत्तरेण। अस्माभिः गुरोर्नियोगोऽनुष्ठितः प्रतिनिवर्तामहे। राजानं प्रति इयं ते पत्नी त्यजैनां गृहाण वा। गौतमि! किमुत्तर-प्रत्युत्तरेण। अअस्माभिः गुरोः नियोगोऽनिष्ठितः प्रतिनिवर्तामहे। राजानं प्रति इयं ते पत्नी त्यजैनां गृहाण वा। गौतमि! गच्छाग्रतः। शकुन्तले! पतिकुले ते दास्यमपि शुचिव्रतमित्यादिश्य सर्वे प्रस्थिताः।

राज्ञा समयोचितं कर्तव्यें पुष्टः पुरोधा प्रोक्तवान् - इयं देवी तावत् मम गेहे एवाप्रसवं तिष्ठतु। त्वं प्रथमं चक्रवर्तिनं पुत्रं जनायिष्यसीति सिद्धैरादिष्टम्। तत् यदि मुनिदौहित्रः तल्लक्षणोपपन्नः स्यात्तर्हि इमामनभिनन्धान्तःपुरे प्रवेशयिष्यसि, विपर्ययेऽस्याः पितुः समीपे गमनमुचितम्। राज्ञानुमतो।सौ यदास्वगृहं गन्तुं प्रववृते तदैव 'भवगति वसुधे! देहि मे विवरमि'त्यभिदधाना स्वानि भाग्यानि च निन्दन्तीं क्रन्दमानां च तां शकुन्तलां स्त्रीसदृशमेकं ज्योतिरुत्क्षिप्याप्सरस्तीर्थे जगामेति पुरोहितो निवेदयति। तस्मिन्नुदन्ते साश्चर्यः पर्याकुलो राजा शयनागारं प्रविष्टश्चिन्तयति -

कामं प्रत्यदिष्टां स्मरामि न परिग्रहं मनुेस्तनयाम्।

बकवत्तु दूयमानं प्रत्यापयतीव मे हृदयम्।।

अथ गच्छति किञ्चित्काले शक्रावतारतीवर्ती कश्चिद् धीवरी रत्नजटितं राजनामोत्कीर्णे बहुमूल्यसेकं स्वर्णमयमङ्गुलीयकं विक्रेतुमापणे गच्छन् राजपुरुषाभ्यां बद्धहस्तो नगररक्षकराजश्यालकसमीपमानीतः। अङगुलीयकागमनकारणं पृष्टः स ब्रते - स्वामिन् ! जालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणपोषणं करोमि । एकदा मया जाले एको रोहितो मत्स्य आसादितः । खण्डशः कल्पितस्य तस्य मत्स्यस्योदरे रत्नभास्वरमिदमङ्गुलीयकं मया लब्धा विक्रमापणे आगतः, आभ्यां गृहीतः आनीतश्च । तदाकण्ये नगरपालः तदङ्गुलीयकमादाय राजकुलं गत्वा राजशासनं प्रतीक्ष्य प्रत्यागतो रक्षिणावुवाच – मुच्यतामेष जालोपजीवी धीवरः । विदितोऽस्याङ्गुलीयकस्यागमवृत्तान्तः, एषोऽङगुलीयकमूल्यसम्मितः प्रसादोऽपि सन्तुष्टेन राज्ञाऽस्मै प्रदत्त, इत्युक्त्वा तस्मै धीवराय, स्वर्णकङ्कणं दत्तवान् चकार च तेन साकं कादबरो-मैत्रीम्।

अथ मेनकासहचरी सानुमती नामाप्सराः पर्यायनिवर्तनीयमप्सरस्तीर्थसान्निध्य सम्पाद्य राज्ञो दुष्यन्तस्य प्रमदवने प्रविष्टा तिरस्करिणी प्रतिच्छन्ना राज्ञः पार्श्ववर्तिनी भूत्वा तस्थौ । अङ्गुलीयकदर्शनेन स्मृतशकुन्तलो राजा क्वापि शान्तिं न लेभे, वसन्तोत्सवं प्रतिषिध्य माधव्याद्वितीयः शकुन्तलावृत्तान्तं भूयो भूयः स्मरन् निन्दंश्चात्मनश्चेष्टितं शकुन्तला-चित्रलेखनादिना तद्विषयकालापैश्च कथं कथमपि निनाय दिवसान् । प्रत्यादेश-विमानितायाः शकुन्तलाया विरहेन दुःखमनुभवन्, रात्रौ जागरणात् न मया धर्मासनमध्यासितुं सम्भावितमतो यत् प्रत्यवेक्षितममात्येन तत् पत्रमारोप्यतामिति पौरकार्यपर्यवेक्षणे नियुक्तममात्यमादिशति ।

ततः समुद्रव्यापारव्यवहारी सार्थवाहो धनमित्रो नौव्यसने विपन्नः। अतोऽनपत्यस्य तस्यार्थसंचयो राजगामी भवेदित्यमात्येन लिखितं विचार्यात्मनोऽनपत्यतां स्मरन् मदवसाने पुरुवंशश्रिय एष एव विपाको भवितेति भावयन्, बहुपत्नीकस्य तस्य धनिकस्य काचिद्भार्या आपन्नासत्वा स्यात्तर्हि तद्भार्यागर्भस्थ एवं शिशुः पित्र्यं रिक्तमर्हतीत्यादिशति धर्मात्मा राजा दुष्यन्तः । इमं निखिलं वृत्तान्तं मेनकानियुक्ता सा सानुमती प्रत्यक्षीकृत्य स्वसख्यै मेनकायै प्रियमिदं निवेदयितुं कामा ततो दिवं निर्जगामः। 

अत्रान्तरे केनापि अलक्षितेन सत्त्वेनाक्रान्तो माधव्योऽब्राह्मण्यमुद्घोषितवान् । ततो भूयः तस्मिन् मेघप्रच्छन्ने प्रासादे आर्तस्वरं निशम्य स्ववयस्यस्य संरक्षणाय स्वधनुषि अमोघं स्वं बाणं सन्दधे । तदा माधव्यमुन्मुच्येन्द्रसारथिर्मातलिराविर्भूय ‘हरिणा असुरास्ते शरण्ये कृताः, तेष्वेवेदं धनुः विकृष्यतां न मयि' इत्युवाच। तदनु राज्ञाभिनन्दितोऽसौ तस्मै स्वागमनकारणमाख्यत् - राजन् ! कालनेमिप्रसूतो दुर्जयो नाम दानवगणः ते सख्युरिन्द्रस्याजयो जातः । तस्य त्वं निहन्ता स्थितः । अत आत्तशस्त्रं इममिन्द्ररथमारुह्य विजयाय प्रतिष्ठिताम् । तदाकर्ण्य राजा दुष्यन्तः 'अनुगृहीतोऽस्मि अनया मघोनः संभावनया' इत्युक्त्वा माधव्यस्याक्रमणकारणं पृष्ट्वा ज्ञाततथ्यः स्वगमनवृत्तान्तममात्याय निवेदयितुमादिश्य तस्मिन् राजभारं च नियोजितवान् प्रहृष्टमना -

त्वन्मतिः केवला तावत् परिपालयतु प्रजाः ।

अधिज्यमिदमन्यस्मिन् कर्मणि व्यापृतं धनुः ॥

तदनन्तरं स वासवीयं रथमारुह्य दिवं प्रस्थितवान् । 

अस्मिन्नङ्के कालनेमिप्रसुतं दर्जदानवगणं निहत्य देवकार्य-सम्पादनानन्तरं देवराजस्य सत्क्रियया संभावितो राजा दुष्यन्तो व्योमयानेनावतरद् मातलि-परिचायिता देवभूमीरवलोकयन् मध्ये मार्गे हेमकूटं किंपुरुषवर्षपर्वतं दृष्ट्वा तत्र तपश्चरतः सपत्नीकस्य मरीचिनन्दनस्य देवपितुः कश्यपस्य दर्शनलालसया तदाश्रममवतरति । तत्र प्रजापतिः कश्यपः स्वभार्यया दक्षकन्ययाऽऽदित्या पतिधर्ममधिकृत्य पृष्टो महर्षिपत्नीभिः सहितायै तस्यै उपदिशतीति ज्ञात्वा अशोकवृक्षमूले राजा समुपविशति, मातलिश्च राजागमनं निवेदयितुमवसरं ज्ञातुं च महर्षिसमीपे प्रस्थितः।

तत्र नरपतिः शुभसूचकचिह्नमनुभवन् तापसीभ्यां निषिध्यमानेनाबालसत्वेन बालेन संक्रीडितुं सिंहशिशुं बलादाकृष्ण जुम्भस्व सिंह ! दन्तांस्ते गणयिष्ये इति वीरोचितैः कृत्यैः औरससुतानुरागेण चाकृष्टो भवति । कस्य कृतिनो बीजमयं बाल इति विमृशन् स सिंहशावकादन्यत् क्रीडनकं ग्रहीतुं प्रसारितकरस्य तस्य बालकस्य हस्ते चक्रवर्तिलक्षणं दृष्ट्वा हृष्टः। ततो वाग्व्यापारेणायं विरमयितुमशक्य इति मत्वा एका तापसी तं प्रलोभयितुं मृत्तिकामयूरमानेतुं स्वकुटीरे जगाम । ततो द्वितीया इतस्ततोऽवलोक्य राजानमवोचत् - भद्रमुख ! मोचय नेन दुर्मोकहस्तेन बाध्यमानं बालमृगेन्द्रम् । ततस्तावत्तद्वचनमनुतिष्ठन् बालस्पर्शसुखमुपलभ्य कामपि अपूर्वां निर्वृतिमेतः स तां तद्बालकवंशपरिचयादिकं पप्रच्छ । सा च तस्य पुरुवंशप्रभवत्वम् अप्सरसः संभवत्वं चावोचत्।

यदा च केसरिकिशोरकविमर्दात्तन्मणिबन्धात् परिभ्रष्टं रक्षाकरण्डकं दुष्यन्तो यावद् गृह्णाति, तावत्तापसी निवेदयते - एषा अपराजिता नामौषधिरस्य शिशोः जातकर्मसमये भगवता कश्यपेन बद्धा । यदि जननी जनकं बालकं वा विहायान्यः कश्चिद, भूमिपतितामेनां गृह्णाति तदा सर्पो भूत्वा तं दशतीत्यनेको दृष्टचरम् । ततः स्वपुत्र एवायमिति जातनिश्चयो बालं प्रेम्णापरिसवाजे । ततस्तापसीभ्यां तदुदन्तमुपलभ्य तत्रागतां शकुन्तलां समीक्ष्य राजा तामभिननन्द। ततो मातरमालोक्य सर्वदमनः - मातः ! क एषः पुत्र इति कथयित्वा मामालिंगति । ततः सा - आयुष्मन् स्वं भाग्यं पृच्छेत्युत्तरयति । ततः प्रणिपातादिना शकुन्तलाया विषादशल्यमुद्धरनुवाच राजा - प्रिये ! मया त्वं मोहात्स्वयमुपस्थितापि उपेक्षिता । एवं पश्चात्तापदूनहृदयो नृपोऽङ्गुलीयकोपालम्भात् स्मृतिरूपलब्धेत्युक्त्वा तस्यै तदङ्गुलीयकं दर्शयति । विषमं कृतमनेन यत्तदाऽऽर्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् । नास्य विश्वसिमि । आर्यपुत्र एवैतद् धारयतु ।

तत्र च तादृशं भूपं वीक्ष्य मातलिसौभाग्येनायुष्मान् धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन च वर्द्धसे इत्युक्त्वा तं संभावयामास । ततो राजा–मातले ! वृत्तान्तेनानेनाखण्डलोऽवबोद्धव्य इति विचारे मातलिः विहस्याह - किमीश्वराणामविदितं, सर्वं जानाति स सहस्राक्षो देवराजः । ऐतु आयुष्मान् सपत्नीको मरीचिनन्दनो महर्षिः कश्यपः ते दर्शनं वितरति । अनन्तरं सकलत्रपत्रो राजा भगवन्तं कश्यपमदिति च द्रष्टुमुपस्थितः । ततो महर्षिः कश्यपोऽपि स्नेहदृष्ट्या शुभाशिषा तावनुगृह्य आयुष्मन् ! दुर्वाससः शापादियं तपस्विनी शकुन्तला त्वया प्रत्यादिष्टा नान्यथा, वत्से ! चरितार्थासि सहधर्मचारिणं दुष्यन्तं प्रति त्वया मन्युर्न कार्य इत्याभाष्य प्रत्यादेशविषये उभावपि निवृत्तचित्तौ कृत्वा शुभाशिषा संयोजयति -

आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।

आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥

मेनकापि तत्र भर्तृपुत्रसहितां दुहितरं दृष्ट्वाऽतिमुमुदे । ततो दुष्यन्तो भगवता मारीचेन विसृष्टः पत्रकलत्राभ्यां सदिते दिव्यर्मैन्द्रं रथमारुह्य पौरैरभिनन्द्यमान स्वं नगरं प्रविवेश ।




#Article 153: काठमाण्डू (1096 words)


 
काठमाण्डू (वस्तुतः संस्कृतभाषायां काष्ठमण्डपः ) (नेपालीभाषा - काठमांडौ  - येँ देय्‌) नेपालदेशस्य राजधानी अस्ति । उपदशलक्षाः अत्र निवसन्ति । नेपालस्य महत्तमनगरेषु अन्यतमम् अस्ति । अस्मिन् महानगरे ललितपुर-भक्तपुरनामिके भगिनिनगरे स्तः । बहवः लघूनि नगराणि सन्ति । इदं नगरं नेपालस्य केन्द्रभागे १४०० मीटर्मिते कंसाकारिकायाम् उपत्यकायां शिवपुरि-फूल्चौक्-नागार्जुन-चन्द्रगिरिशिखराणां मध्ये विद्यते । काठ्माण्डूनगरं - काठ्माण्डू, ललितपुरम्, भक्तपुरम् इत्येतैः त्रिभिः मण्डलैः युक्तः अस्ति । देशे अत्यधिका जननिबिडता अत्रैव दृश्यते । पञ्चदशांशात्मिका जनसङ्ख्या विद्यते । काठ्मण्डू नेपालस्य राजधानीमात्रं न, इदं केन्द्रभागस्य (मध्यमाञ्चलस्य) प्रमुखकेन्द्रं वर्तते । केन्द्रभागः - भागमती, नारायणी, जनकपुरम् इत्येतैः त्रिभिः विभागैः युक्तः वर्तते । तस्मिन् काठ्मण्डू भागमतिविभागे अन्तर्भवति । जनाः हिन्दुधर्मस्य बौद्धमतस्य च अवलम्बिनः दृश्यन्ते अधिकतया । नेपालीभाषा बहुभिः उपयुज्यमाना भाषा । शिक्षितैः आङ्ग्लभाषा अवगम्यते । ९८% जनाः अक्षरज्ञाः सन्ति । 'युनेस्को'संस्थया काठ्मण्डु-उपत्यका (काठ्मण्डु-ललितपुर-भक्तपुरश्च) जागतिकपारम्परिकस्थलत्वेन परिगणिता अस्ति ।

'काठ्मण्डु' इत्येतत् नाम 'काष्ठमण्डप' इत्यतः निष्पन्नम् । 'मरुसत्तल ' इत्यपि प्रसिद्धम् इदं विशिष्टं मन्दिरं राजा लक्ष्मीनरसिङ्गमल्लेन १५९६ तमे वर्षे निर्मितम् । अट्टद्वयात्मकम् इदं समग्रं मन्दिरं काष्ठेन एव निर्मितम् अस्ति । इदं नगरं 'कान्तिपुरम्' इत्यपि निर्दिश्यते स्म । 'कान्तिः' इत्येतत् लक्ष्माः अपरं नाम ।

पुरातत्त्वज्ञैः काठ्मण्डुप्रदेशे कृतेन गवेषणेन प्राचीनसंस्कृतेः अवशेषाः प्राप्ताः सन्ति । तेषु अन्यतमः अस्ति मालिगान्प्रदेशे दृष्टा क्रि श १८५ तमे वर्षे निर्मिता प्रतिमा । धण्डोचैत्ये कृतात् खननात् ब्राह्मीलिप्या युक्ता काचित् इष्टिका प्राप्ता अस्ति । इयं २००० वर्षप्राचीना इति विश्वस्यते पुरातत्त्वज्ञैः ।

काठ्मण्डुनगरस्य प्राचीनेतिहासः पुराणसम्बद्धः । स्वयम्भूपुराणानुगुणम् इदं नगरं पूर्वं 'नागदहः' नामकः सरः आसीत् । इदं सरः मञ्जुश्री शुष्कीकृत्य तत्र मञ्जुपत्तनं निर्मितवती । तस्य राजा आसीत् 
धर्माकरः । नेपालीयानां वंशवृक्षस्य अध्येता गोपालराज् वन्सवली वदति यत् लिचचाविनां शासनात् पूर्वं इदं मण्डलं गोपालः, महिष्पालाः, आभिराः, किराताश्च अशासन् इति । प्राचीनोल्लेखाः अत्यल्पाः उपलभ्यन्ते ।

अस्मिन् समये काठ्मण्डुनगरस्य शासकाः आसन् लिच्छविजनाः मल्लाश्च । नगरस्य वर्धनम् अस्मिन् काले एव अधिकतया जातम् । बहवः ऐतिहासिकानि मन्दिराणि, आश्रमाः भवनानि च अस्मिन् एव काले निर्मितानि । इदं नगरं भारत-चीनदेशयोः वाणिज्यस्य केन्द्रभूतम् आसीत् । लिच्छवियुगे इदं नगरं द्विधा विभक्तम् आसीत् - कोलिग्राम् (यम्बु/थःने) दक्षिण-कोलिग्राम् (येङ्गाल्/क्वःने) च इति । अग्रे गुणकमदेव एतद्वयं संयोज्य मञ्जुश्रीस्य खड्गाकारकं नगरं निर्मितवान् । नगरं परितः अष्ट मातृका सहितं सेनावासाः रचिताः आसन् । अजिमाः एतेषां नायकाः आसन् । नगरं सम्पदः देव्याः कान्ते नाम्ना कान्तिपुरम् इति नामाङ्कितम् आसीत् । मानगृह-कैलासकूटभवन-भद्रादिवासभवन-इत्यादीनां भवनानाम् उल्लेखः कृताः दृश्यन्ते तदानीन्तनैः यात्रिकैः संन्यासिभिश्च । सप्तमशतकस्य लिच्छविराजस्य अंशुवर्मणः प्रासादस्य कैलासकूटभवनस्य उल्लेखः प्रसिद्धेन चैनीयात्रिकेण झुवाङ्ग्जाङ्गेन कृतः दृश्यते ।

अग्रे मल्लयुगः आरब्धः । तदा काठ्मण्डु - कान्तिपुर-ललितपुर-भक्तपुर-कीर्तिपुरनामकैः चतुर्भिः नगरैः युक्तम् आसीत् । एतेषां मण्डलानां मध्ये कला-शिल्प-वाणिज्यादिषु विषयेषु महती स्पर्धा भवति स्म इत्यनेन सर्वत्र महती प्रगतिः दृष्टा । विविधाः कलाविदः कलाप्रचाराय देशे विदेशे च बहु अटन्ति स्म । एषियाखण्डस्य बहुत्र तैः कलाप्रचारः कृतः । सार्वजनिकभवनानां, मन्दिराणां निर्माणे, नीतिसंहितायाः सज्जीकरणे, नाटकादीनां लेखने, जनसम्मर्दप्रदेशेषु तस्य प्रदर्शने च स्वयं राजानः एव आसक्तिं प्रदर्शयन्ति स्म । राज्ञः प्रतापमल्लस्य शिलालेखेषु भारत-टिबेट्-चैना-पर्शिया-युरोप्-इत्यादिभ्यः देशेभ्यः प्राप्तानि चिन्तनानि उल्लिखितानि दृश्यन्ते । तन्त्राख्यान, हरमेखला (वैद्यकीयम्), मूल्देवशशिदेव (धर्मः), अमरकोशः इत्यादयः ग्रन्थाः अस्मिन् युगे एव रचिताः । अस्मिन् युगे निर्मितानि प्रसिद्धानि भवनानि - कठ्मण्डु दर्बार् स्क्वेर्, पाटन् दर्बार् स्क्वेर्, भक्तपुर् दर्बार् स्क्वेर्, कीर्तिपुरस्य भूतपूर्व दर्बार्, न्यातपोल, कुम्भेश्वर, कृष्णमन्दिरं च । 

मल्लशासनात् अनन्तरं गोखसाम्राज्यस्य उदयः आधुनिकयुगस्य आरम्भकालः । काठ्माण्डु तेषां राजधानी आसीत् । नव-अट्टयुक्तं बसन्तपुरभवनम् इत्यादीनि नेपालीशिल्पकलायुक्तानि नूतनानि भवनानि निर्मितानि । प्रतिवेशिदेशैः सह जातात् निरन्तरयुद्धात् वाणिज्यं कुण्ठितं जातम् । ग्रेट्ब्रिटन्देशस्य विरुद्धं फ्रान्स्देशेन सह भीमसेनथापेन कृतस्य सन्धेः कारणतः नूतनसेना व्यवस्थापिता जाता । ब्रिटीश्विरुद्धनीतिः ब्रिटीश्परं जातं राणस्य शासनकाले । तदा एव विदेशीशिल्पकलायाः प्रगतिः अत्र दृष्टा । अस्य कालस्य प्रमुखानि भवनानि सन्ति - सिंहदर्बार्, कैसर्महल्, शीतल्निवास्, प्राचीननारायणहितिप्रासादः च । 'न्यूरोड्' इत्येषः अस्मिन् युगे निर्मितः आधुनिकवाणिज्यमार्गः ।

काठ्मण्डुनगरं काठ्मण्डु-उपत्यकायाः वायव्यदिशि विद्यते । अस्य विस्तारः अस्ति ५०.६७ चतरस्रकिलोमीटर्मितम् । समुद्रतीरात् सामान्यम् औन्नत्यं विद्यते १३५० मीटर्मितम् । नगरस्य दक्षिणभागे ललितपुरम्, नैरुत्यदिशि कीर्तिपुरम्, पूर्वदिशि मध्यपुरम्, अन्यासु दिक्षु विविधाः ग्रामाः विद्यन्ते । नगरे अष्ट नद्यः प्रवहन्ति यासु बागमती, विष्णुमती, धोबिखोला, मनोहरा, हनुमन्त्, तुकुचा च मुख्याः सन्ति । एतासां नदीनाम् उगमस्थानरूपाः पर्वताः १५००-३००० मीटर्मिते औन्नत्ये विद्यन्ते । अत्र अधिकतया ओक्, एल्म्, बीच्, मापल् वृक्षाः दृश्यन्ते ।

नेपालदेशे पञ्च विभिन्नवातावरणयुक्ताः प्रदेशाः निर्दिष्टाः सन्ति । तेषु काठ्मण्डु-उपत्यका उष्णवातावरणयुक्तः (१२००-२३०० मीटर्-औन्नत्यम्) प्रदेशः इति निर्दिश्यते यत्र वातावरणं हितकरं भवति । उष्णकाले अत्र २८०-३०० सेण्टिग्रेड्मितं भवति । शैत्यकाले १०.१० सेण्टिग्रेड्मितम् उष्णं भवति ।

भारत-टिबेट्देशयोः मार्गे काठ्मण्डुनगरस्य वाणिज्यं वर्धितम् । टिबेट्नगरे लासायां तेषां वाणिज्यं प्रसिद्धम् आसीत् । तेषाम् अन्याः वृत्तयः नाम कृषिः, काष्ठकार्यम्, वयनम्, कौलालं च । नेपालीयलोक्तकागदस्य पश्मिनाराङ्कवाणां च वाणिज्याय काठ्मण्डु प्रसिद्धं वर्तते ।

नेपालस्य औद्योगिक-वाणिज्यकेन्द्रमस्ति काठ्मण्डु । इदं बहूनां संस्थानां वित्तकोषाणां सङ्घटनानां च मुख्यकेन्द्ररूपेण विद्यते । नगरस्य आर्थिकतायां वाणिज्यस्य २१%, उत्पादनस्य १९%, कृषेः ९%, शिक्षणस्य ६%, परिवहनस्य ६%, उपाहारमन्दिरस्य ५% भागः भवति । नेपालस्य धनिकाः बहवः अत्र यद्यपि निवसन्ति नगरस्य अधिकांशाः जनाः निर्धनाः सन्ति ।

नेपालदेशे प्रवासोद्यमः १९५० तमे वर्षे आरब्धः । ततः देशस्य राजनैतिकी स्थितिः सम्पूर्णतया परिवर्तिता । जगता सह सम्बन्धः आरब्धः । १९५६ तमे वर्षे वैमानिकव्यवस्था आरब्धा, काठ्मण्डु-राक्सर्-एतयोः मध्ये राष्ट्रियमुख्यमार्गः निर्मितः । नेपालदेशः अन्तर-राष्ट्रिय-प्रवासोद्यमसंस्थासु सदस्यत्वं प्राप्नोत् । नगरस्य अधिकांशानां जनानां प्रवासोद्यमः एव जीविका । हिन्दु-बौद्ध-यात्रिणः अत्रत्यानि पशुपतिनाथ, कैलासनाथ-महादेव-प्रतिमा(जगतः अत्युन्नतः शिवमूर्तिः), स्वयम्भुनाथ, बौद्धनाथ, बुधनीलकण्ठ-इत्यादीनां स्थलानां दर्शनाय आगच्छन्ति । यात्रिणां सङ्ख्या निरन्तरं वर्धमाना दृश्यते । हिमालयस्य प्राकृतिकसौन्दर्यं देशस्य वैभवपूर्णा सांस्कृतिकी सम्पत्तिश्च अस्य उद्यमस्य यशस्वितायै प्रमुखाः 
हेतवः ।

काठ्मण्डुमहानगरं पञ्चधा विभक्तम् अस्ति - केन्द्र-पूर्व-उत्तर-नगर-पश्चिमभागाः इति । पौरशासनाय नगरमिदं ३५ निर्वहणपाल्यत्वेन विभक्तम् । नगरपालिकायाः निर्वहणाय १७७ निर्वाचितसदस्याः २० नियुक्तसदस्याः च भवन्ति । वर्षे द्विवारम् अस्याः गोष्ठी प्रचलति यस्याम् अभिवद्ध्यै अपेक्षिताः निर्णयाः स्वीकरिष्यन्ते । 

अत्रत्या जनसङ्ख्या अस्ति ६,७१,८४६ (२००१ जनगणतेः आधारेण) । पूर्वारभ्य नेवारजनाः अत्र अधिकाः सन्ति । ९,१५,०७१ - २०११ तमे वर्षे । १३,१९,५९७ जनसङ्ख्या भवेत् इति ऊह्यते २०२१ तमे वर्षे । जनसङ्ख्यायाः वर्धनानुगुणं भूविस्तारः अपि चिन्त्यमानः अस्ति ।

काठ्मण्डु-उपत्यका कला-शिल्पकलानाम् आगारम् इति उच्यते । काष्ठ-शिला-धातु-इत्यादिभिः निर्मिताः शिल्पकलाः मन्दिरेषु, स्तूपेषु, चैत्यासु, प्रासादेषु च दृश्यन्ते । देवतानां कलाकृतयः मार्गेषु, गृहेषु च दृश्यन्ते । एताः कलाः बहु पूर्वारभ्य विद्यते स्म चेदपि जगति तस्य प्रसारः १९५० तमवर्षात् अनन्तरं जगतः कृते देशस्य द्वाराणि यदा उद्घाटितानि तदा एव जातः ।

दि न्याषनल् सङ्ग्रहालयः, दि न्याचुरल् हिस्टरि सङ्ग्रहालयः, हनुमन्धोक-प्रासाद-समुच्चयः, कैसर्-ग्रन्थालयः, दि पटान् सङ्ग्रहालयः, राष्ट्रिय-कलाशाला, नेपाल्-फैन्-आर्ट्-ग्यालरि, नेपाल्-आर्ट्-कौन्सिल्-ग्यालरि इत्यादयः काठ्मण्डुनगरे विद्यमानाः केचन सङ्ग्रहालयाः ।

नेपालदेशे काठ्मण्डु सङ्गीतनृत्यानां केन्द्रं वर्तते । 'गुन्ला' इत्येषः साम्प्रदायिकः सङ्गीतोत्सवः । नेवारसङ्गीतस्य उगमस्थानमस्ति काठ्मण्डुनगरम् । नेपाले विद्यमानाः सर्वे सङ्गीतप्रकाराः अत्र द्रष्टुं शक्याः । १९७० तमे वर्षे बहवः हिप्पिजनाः अत्र आगत्य राक् राल् सङ्गीतस्य परिचयम् अकारयन् ।

काठ्मण्डुनगरे विद्यमानाः बहवः देवालयाः अतीव प्राचीनाः विद्यन्ते । पशुपतिनाथदेवालयः, चाङ्गुनारायणदेवालयः (प्राचीनतमः), काष्ठमण्डपं च प्रमुखानि सन्ति । बज्रयोगिनीदेवालयः, दक्षिणकालीदेवालयः, गुह्येश्वरीदेवालयः, शोभाभगवतीमन्दिरं च अन्ये देवालयाः । 
काठ्मण्डुनगरे प्रवहति बागमतिनदी हिन्दुभिः बौद्धैः च पवित्रा मन्यते ।

काठ्मण्डु, तत्र विद्यमानाः स्तूपाः च नेवार्-टिबेटन्-बौद्धानां महत्त्वपूर्णाः सन्ति । बौद्धमतं संस्कृतेन आचर्यते इति निर्देष्टुं योग्यम् एकमेव स्थलं नाम काठ्मण्डु । अत्रत्यौ राजकुमारी भृकुटी-कलाकारः अरनिको च टिबेट्देशे बौद्धमतस्य प्रचारकार्ये बहु प्रमुखं पात्रम् अवहताम् । शाक्यमुनिवंशजाः अत्रैव न्यवसन् इति विश्वस्यते । १९६० तमात् वर्षात् शाश्वत-टिबेटीयबौद्धानां सङ्ख्या अवर्धत । ५० बौद्धविहाराः वर्तन्ते । अन्ताराष्ट्रिय-बौद्ध-अकाडमि, कोपन्-विहारः, अमिताबविहारः, थार्लाम्-विहारश्च उल्लेखार्हाः ।

सिक्खजनानां गुरुद्वारं कुपुण्डोल्प्रदेशे विद्यते । काठमण्डु-उपत्यकायां ३०० बहैमतस्य बहामन्दिराणि विद्यन्ते । ४.२% जनाः यवनाः सन्ति । क्रैस्तानां सङ्ख्या अत्यल्पा - ०.४५% । तथापि काठ्मण्डुनगरे एव १७० क्रैस्तमन्दिराणि वर्तन्ते । 

पादकन्दुकक्रीडा, क्रिकेट्क्रीडा च युवानां प्रिया वर्तते । आल्-नेपाल्-फुट्बाल्-असोसियेषन्-इत्यस्य मुख्यः कार्यालयः काठ्मण्डुनगरे वर्तते । दशरथ-रङ्गसाल-क्रीडाङ्गणम् अन्ताराष्ट्रिय-पादकन्दुक-क्रीडाङ्गणं वर्तते । क्रिकेट्क्रीडा युवानां बहु प्रिया जायमाना अस्ति । कीर्तिपुरे अन्ताराष्ट्रिय-क्रिकेट्-क्रीडाङ्गणं वर्तते । 




#Article 154: ईशावास्योपनिषत् (333 words)


ईशावास्योपनिषत् (Ishavasyopanishat) शुक्लयजुर्वेदीया उपनिषत् । उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते । शुक्लयजुर्वेदस्य संहितोपनिषदियम् । अष्टादशमन्त्रात्मिका विद्यते ।

इयम् उपनिषत् शुक्लयजुर्वेदीयकाण्वशाखीयसंहितायाम् अन्तर्भवति । पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते । अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः । इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति । इदं नियमबद्धं सम्पूर्णं विश्वं सर्वसम्पूर्णेन अनन्तपरमात्मना एव उद्भूतम् । किन्तु अस्य विश्वस्य उत्पत्त्या परमात्मनि न्यूनता भवेत् किम् ? सर्वथा न । सः अनन्तः, अखण्डः, अच्युतः, परिपूर्णश्च । तस्मात् अनन्तानि ब्रह्माण्डानि सृष्टानि चेदपि तदीयाः अनन्तज्ञानगुणविक्रमाः अच्युताः तिष्ठन्ति । अनन्तसङ्ख्यया अनन्तसङ्ख्या व्यवकलितः चेदपि अनन्तसङ्ख्या एव यथा अवशिष्येत तथा परमात्मनः अनन्तत्वस्य अखण्डत्वस्य बाधा न कापि विद्यते ।

अस्य विश्वस्य चेतनाचेतन-सूक्ष्मासूक्ष्म-चराचराणि सकलवस्तूनि सर्वव्यापकेन परमात्मना व्याप्तानि । तस्मात् प्राप्तानि सर्वाणि अपि वस्तूनि ईशप्रसादभावनया उपयोक्तव्यानि । अस्मिन् जगति कर्तव्यनिष्ठया कर्म कुर्वन्तः शतं वर्षाणि जीवेम इति सर्वेषाम् इच्छा स्यात् । अनेन मार्गेण गम्यते चेदेव मुक्तिः । कर्मदोषेण निर्लिप्तैः भाव्यं चेदपि अयमेव मार्गः । आत्मज्ञानाय प्रयत्नम् अकुर्वन्तः मानवाः अज्ञानान्धकारावृतम् आसुरलोकं प्रविशन्ति । इदं भवेत् आत्मघातसमम् । 

आत्मा अचलः, अखण्डश्च । मनसः अपेक्षया वेगवान् । देवताभिः अपि अगोचरः । सर्वव्यापके तस्मिन् एव वायुः तन्नाम तदीया विश्वनिर्माणशक्तिः चलनात्मकं कर्मशक्तिं स्थापयति । सः चलः अचलश्च । दूरः समीपश्च । सः सर्वेषाम् अन्तर्बाह्यव्यापी विद्यते । यदि साधकः सर्वेषु भूतेषु स्वात्मानं पश्यति अपि च स्वस्मिन् सर्वं जगत् पश्यति सः शोकाभावं प्राप्नोति । आत्मा अत्यन्तं तेजस्वी अखण्डः अशरीरः शुद्धः निष्पापः च विद्यते । स्वीयसङ्कल्पमात्रेण सः सर्वासु दिक्षु विस्तृतः भवति । सर्वज्ञः सर्वव्यापकः सः स्वयम्भू परमात्मा अनन्तकालपर्यन्तं सकलसृष्टये यथायोग्यान् नियमान् विधत्तवान् अस्ति । 
अस्मिन् जगति केचन व्यक्तसृष्टेः ज्ञानमात्रं प्राप्य विषयसुखवाञ्छया तस्य एव उपासनं कुर्वन्ति । तैः अज्ञानान्धकाराः अवश्यम् अनुभोक्तव्याः भवन्ति । केचन व्यक्तसृष्टिः मिथ्या इति भावयन्तः अव्यक्तोपासकाः भवन्ति । ते अपि अज्ञानान्धकारे पतिताः भवन्ति । व्यक्ताव्यक्ताः पार्थक्येन पूर्णसत्यभूताः न । ते सत्यांशमात्राः । उभाभ्यां युक्तः परमात्मा पूर्णसत्यः । क्षराक्षरयोः समन्वयेन यः परमात्मनः साक्षात्कारं प्राप्नुयात् सः सृष्टेः ज्ञानेन मृत्युलोकं तीर्त्वा अव्यक्ततत्त्वस्य ज्ञानेन अमृतत्त्वं प्राप्नोति । 
तेजोयुक्तस्य सूर्यस्य मुखमण्डलं स्वर्णवर्णप्रकाशेन यथा आवृतं वर्तते तथा परमात्मनः सत्यस्वरूपम् अनेन मोहकेन विश्वेन विलोपितमस्ति । अतः साधकस्य प्रार्थना वर्तते - ’हे सर्वपोषकज्ञानसूर्य ! सत्यदर्शनाय इमां मोहकमायाम् अपसारयतु । ज्ञानप्रकाशं प्रसारय । भवति मया दृश्यमानः ज्ञानमयपुरुषः एव मयि अपि वर्तते । शरीरं नश्येत् किन्तु प्राणवायुः स्वतन्त्रः वर्तते’ । 




#Article 155: पुणे (251 words)


पुणे भारतदेशस्य महाराष्ट्रराज्ये किञ्चन बृहत् नगरम् अस्ति । पुणे नगरस्य पुरातनं नाम पुण्यपत्तनम् इति अस्ति।
पुणे (पुणे) (०२०) पुण्यपट्टनम् इति प्रसिद्धं पुणेनगरं शिवाजीमहाराजस्य पितामहाय पारितोषिकरुपेणागतम् आसीत् । ख्रिस्ताब्दे १५९९ तमे वर्षे एव एतस्य महत्वपूर्णं स्थानम् आसीत् । क्रिस्ताब्दे १७५० तः १८१७ पर्यन्त पेश्वेराज्ञां राजधानी अप्यासीत् । शिवाजी शिवनेरी ग्रामे जन्म लब्धवान् किन्तु पुणेनगरे एव विद्याभ्यासं कृतवान् । शिवाजीमहाराजस्य प्रशासनप्रदेशः पुणेनगरसमीपे एव आसीत् । 

मुळामुठा नद्योः तीरे स्थितं पुणेनगरं नानाफड्णवीसमहोदयस्य प्रशासनकाले भव्यम् उत्तमं सौलभ्ययुक्तं च अभवत् । जनाः जबतक नाना, तबतक पुणे” इति वदन्ति स्म । शनिवारवाडा एव पेश्वेराजानां राजधानीकेन्द्रम् आसीत् ।
पुणेनगरं बहुजनयुक्तं महाराष्ट्रराज्यस्य जनानां संस्कृतिदर्शकं च अस्ति । वातावरणम् अतीव सुन्दरम् आह्लादकरं चास्ति । पुणे नगरे स्थितः डेक्कन् महाविद्यालयः अतीव प्रसिद्धः प्राचीनसंस्कृतिप्रतिबिम्बकश्चास्ति । गणेशखिण्डी स्थले पुणेविश्वविद्यालयः अस्ति । शनिवारवाडा मध्ये एम्प्रेस् वाटिकानां भव्यता दर्शनीया अस्ति ।
आगाखान् प्यालेस् खडकीविभागेऽस्ति । महात्मा गान्धिः अत्रैव कारावासे स्थापितः आसीत् । यरवडासमीपे स्थितम् इदं भवनम् इदानीं महात्मा गान्धिकस्तूरबा गान्ध्योः स्मारकमस्ति ।
राजा केळकर म्यूसियम् (वस्तुसङ्ग्रहालयः) अतीव प्रसिद्धः प्राचीनजनानां कलाप्रज्ञां स्मारयति । श्री दिनकरकेळकरमहोदयस्य स्वकीयः वस्तुसङ्ग्रहालयः एषः।  अयं दर्शनीयः सुव्यवस्थितः च अस्ति । अत्र सङ्गीतवाद्यानि पूजासामग्रयः जीवनोपयोगिवस्तूनि, क्रीडनकानि, तैलदीपाः, तालाः, पूगकर्तर्यः, सूक्ष्मचित्राणि च सन्ति ।
पुणेनगरे दक्षिणभागे पार्वतीपरमेश्वरदेवालयः अस्ति । एम्प्रेस् उद्यानवने मृगालयः गणेशदेवालयः पञ्चाळेश्वर देवालयाः दर्शनीयाः सन्ति । समीपे शिवाजीप्रतिमा अस्ति ।
पुणेतः नैत्रत्ये २५ कि.मी. दूरे सिंहगडदुर्गम् अस्ति । सागरतीरतः १२७० मीटर् उन्नतप्रदेशे स्थिते दुर्गे तानजीमहोदयस्य (शिवाजीसेनापतेः) स्मारकम् अस्ति । पुणेनगरे एव श्रीगोपालकृष्णगोखले श्रीबालगङ्गाधरतिलकः इत्यादयः प्रसिध्दाः । श्रीतिलकमहोदयः गणेशोत्सवस्य सार्वजनिकरीत्या आचरणं प्रचलने आनीय राष्ट्रभक्तिं जागरितवान् । 

मुम्बयीतः १९२ कि.मी

मुम्बयीतः डेक्कनक्वीन् सिंहगड, प्रगति-एक्स्प्रेस् इत्यादीनि धूमशकटानि सन्ति । महाराष्ट्रराज्ये पुणे द्वितीयं महानगरम् अस्ति ।




#Article 156: मडगांव (294 words)


मडगांव ( ) (, ) इति नगरं गोवाराज्यस्य दक्षिणगोवामण्डलस्य केन्द्रमस्ति । एतत् नगरं सालनद्याः तीरे विकसितमस्ति । गोवाराज्यस्य द्वितीयं बृहत्तममेतन्नगरम् अस्ति । कोङ्कणी-पुर्तगालीभाषयोः भिन्नोच्चारणत्वात् क्रमेण अस्य मोरगांव, मरगांव इत्येते नामान्तरे स्तः । प्रशासनिकनाम मडगांव तु संस्कृतापभ्रंशशब्द एव । मठ, ग्राम इति द्वाभ्यां संस्कृतशब्दाभ्यां व्यत्पुनः मठग्राम इति मूलशब्दः अस्ति । तयोः शब्दयोः अर्थः मठ = the hut of an ascetic, ग्राम = Village च भवति ।

मडगांव इत्यस्य नगरस्य इतिहासः बहु पुरातनोऽस्ति । मठग्राम इति नाम्नः एका पौराणिकी कथा वर्तते । पुरा भगवान् परशुरामः एकविंशतिवारं क्षत्रियान् पराज्य ब्राह्मणेभ्यः नवनगरनिर्माणस्य सङ्कल्पम् अकरोत् । भारतस्य पश्चिमभागस्थं समुद्रमग्नं भूभागं समुद्रात् बहिः निष्कास्य, तस्मिन् भागे ब्राह्मणेभ्यः नवनगरम् अस्थापयत् सः । तस्य नगरस्य नाम परशुरामक्षेत्रम् आसीत् । परशुरामः उत्तरभारतात् भिन्नगोत्रजब्राह्मणान् आहूतवान् । भरद्वाज-कौशिक-वत्स-कौण्डिन्य-कश्यप-वसिष्ठ-गौतमगोत्रजब्राह्मणाः अत्र आगत्य निवासं कृतवन्तः । तेषां ब्राह्मणानां मुख्यनिवासस्थानानि मठग्राम-गोमाञ्चल-पञ्चकोशी-कुशस्थलीत्यादिनगराणि आसन् । गोवापुर्याः एकस्मिन् भागे बहूनां मठानां स्थापनां कृतवान् परशुरामः । अतः तस्य भागस्य नाम मठग्राम इति अभूत् । कालान्तरे अपभ्रंशे सति तस्य नाम मडगांव अस्ति । मठग्रामे बहवः पवित्रदेवालयाः आसन् । तेषु मुख्यदेवालयः आसीत् दामोदरदेवालयः । केवलं मठग्रामवासिनाम् एव न, अपि तु गोवापुर्याः हिन्दुजनानामपि धर्मभावनायाः मुख्यकेन्द्रम् आसीत् एषः देवालयः । १५७९ तमे वर्षे देवालयं ध्वस्तं कृत्वा 'चर्च' निर्माणं कृतवन्तः क्रैस्त-जनाः । ततः गोवापुर्यां, मठग्रामे च पुरातनभारतीयसंस्कृतेः क्षयः प्रारभत । परन्तु भारतीयसंस्कृतेः मूलानाम् उन्मूलनम् असम्भवमेव । इदानीमपि मठग्रामे बहवः देवालयाः, मठाः च सन्ति । तेषां देवालयानां, मठानां च गणना वीक्षणीयस्थलेषु भवति । तेषु देवादयेषु मूलभारतीयसंस्कृतेः पोषणं भवति ।

अत्र प्रख्याताः समुद्रतटाः अपि सन्ति । यथा - मजोर्दा, उत्तोरदा, कोल्वा, वेल्साओ, वर्का, बैटुल इत्यदयः ।

वास्को द गामा इत्यस्मिन् नगरे स्थितं 'डाबोलिम'-विमानस्थानकं मडगांव-तः चतुर्विंशतिः (२४) कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गोवाराज्याय वायुयानानि सन्ति ।

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः मडगांव-नगराय धूमशकटयानानि सन्ति । मुख्यतः पणजी-मुम्बई-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः मडगांव-नगराय 'बस्'यानानि अपि सन्ति । मुख्यतः पणजी-मुम्बई-वास्को द गामा -आदिनगरेभ्यः 'बस्'यानानि सन्ति ।

शिव

परशुराम

संस्कृतभाषा




#Article 157: कानपुरम् (994 words)


भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति कानपुरनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति  कानपुरम्।

कानपुर उत्तरप्रदेशस्य औद्यमिकराजधानी अस्ति । कानपुरनगरमण्डलस्य, कानपुरदेहात्मण्डलस्य, कानपुरविभागस्य च निर्वाहककेन्द्रमस्ति इदं नगरम् । भारतस्य जनपूर्णराज्येषु एकादशे स्थाने वर्तते इदम् । उत्तरप्रदेशस्य प्रमुख-औद्यमिककेन्द्रेषु अन्यतमम् ।
उत्तरभारत्स्य पुरातन-औद्यमिककेन्द्रमस्ति । अस्य विस्तारः अस्ति १६४० च कि मीटर्मितः । नगरविस्तारः ८२९ च कि मी मितः । जनसङ्ख्या ३०,००,००० स्यात् । निर्वहणदृष्ट्या इदं नगरं षट्धा विभक्तमस्ति, ११० लघुभागाः सन्ति । एकैकत्र १९००० तः २६००० जनसङ्ख्या स्यात् । कानपुरनगरवर्धनयोजना दूरदृष्टियुता उत्कृष्टा च वर्तते ।

सचेण्डिराज्यस्य चण्डेलावंशजाः कानपुरनगरं संस्थापितवन्तः इति विश्वस्यते । इदं नाम 'कन्हियापुर'तः (हिन्दिभाषया अर्थः - कन्हय्यस्य नगरम्) आगतम् । ब्रिटीशानां काले इदं खान्पुरम् इति जातम् । अन्ये विश्वसन्ति यत् इदं नाम कर्णपुरात् (महाभारतस्य कर्णस्य पुरम्) आगतम् इति । 

१३ शतकं यावत् कानपुरस्य वर्धनविषयः अस्पष्टः । कानपुरस्य नाम न श्रूयते चेदपि तस्य द्वयोः उपनगरयोः - जैमौ, बितूर्-इत्येतयोः विषयः श्रूयते । बितूर् कानपुर ऐऐटि महाविद्यालयतः १० कि मी दूरे विद्यते । जैमौ नगरात् पूर्वदिशि ८ कि मी दूरे विद्यते । हिन्दुपुराणेषु उच्यते यत् ब्रह्माण्डस्य सृष्टेः अनन्तरं ब्रह्म बितूर्प्रदेशे अश्वमेधयागम् आचरितवान् । लिङ्गस्य प्रतिष्ठापनं कृतवान् च । वाल्मीकि-आश्रमः अपि अत्र विद्यते यत्र ऋषिः वाल्मीकिः संस्कृतमहाकाव्यं रामायणम् अरचयत् । रामेण परित्यक्ता सीता अस्मिन् आश्रमे एव स्थित्वा यमलपुत्रयोः लवकुशयोः पालनं कृतवती ।
जैमौप्रदेशे प्राचीनदुर्गस्य अवशेषाः दृश्यन्ते । सध्यःकालीनानि पुरातत्त्वगवेषणानि सूचयन्ति यत् इदम् अतीव पुरातनम् । वैदिककालीनं स्यात् । चन्द्रवंशस्य राज्ञः ययातेः दुर्गमिदम् इति ऊह्यते । 
कानपुरस्य केन्द्ररैल्वेनिःस्थानकतः २० कि मी दूरे शिवराजपुरे किञ्चन प्राचीनं मन्दिरं वर्तते । इदं चण्डेलराजेन सतिप्रसादेन स्वस्य राज्ञ्याः स्मरणार्थं निर्मितम् अस्ति । इदं रात्रिकाले निर्मितम् अस्ति, गङ्गानद्याः तटे वर्तते । इदं मन्दिरं स्वस्यशिल्पकलावैभवाय प्रसिद्धम् अस्ति ।
मुघलयुगस्य आरम्भात् पूर्वं कनौजस्य परिहारराजाः बहुकालं यावत् अस्य शासनं कृतवन्तः स्युः । ऐतिहासिकांशाः सूचयन्ति यत् प्रतिहारराजः मिहिरभोजः कानपुरे शासनम् अकरोत् यतः कनौज् परिहारस्य राजधानी आसीत् ।

१२०७ तमे वर्षे प्रयागस्य राजा कान्तिदेवः (कनौज्साम्राज्याधिपतिः) कोनाग्रामं स्थापितवान् । अयमेव अग्रे कानपुरं जातम् । हर्षवर्धनः, मिहिरभोजः, जैचन्दः इत्यादीनां काले अपि कानपुरस्य कनौजेन सह सम्पर्कः आसीदेव । शेर्शाहस्य शासनावधौ १५७९ तमे वर्षे कानपुरस्य प्रथमः उल्लेखः दृश्यते । १८ शतकस्य आदिमार्धभागपर्यन्तं कानपुरं नगण्यग्रामः आसीत् ।
१७६५ तमस्य वर्षस्य मेमासे औधस्य शासकः शुजाउद्दौलः जैमौप्रदेशे ब्रिटीश्जनैः पराजितः जातः । १७७३तः १८०१ पर्यन्तं इदम् औध्-साम्राज्यस्य आधीन्ये आसीत्, ततः ब्रिटीशजनानाम् अधीनं गतम् । एतावता ब्रिटिशजनैः कानपुरस्य प्रेक्षणीयतायाः महत्त्वम् अवगतम् । युरोपियन्-वणिजाः कानपुरे स्वस्य अस्तित्वं दृढीकृतवन्तः आसन् एतावता । स्वस्य सम्पतीनां रक्षणाय एते 'औध्-स्थानीयसेनां' १७७८ तमे वर्षे अत्र व्यवस्थापितवन्तः । १८०१ तमे वर्षे औधस्य शासकेन नवाब्सादतेन कानपुरं ब्रिटीशसाम्राज्याय प्रदत्तम् ।
अग्रे कानपुरं ब्रिटीश्भारतस्य प्रमुखेषु सेनास्थानेषु अन्यतमं जातम् । १८०३ तमस्य वर्षस्य मार्च्मासस्य २४ तमे दिनाङ्के इदं मण्डलत्वेन घोषितम् । १८४७ तमे वर्षे कम्पनिभाग् संस्थापितम् । १८५४ तमे वर्षे गङ्गाकुल्या विनिर्मिता । अमूलैः वस्तुभिः युक्तः कानपुरसङ्ग्रहालयः १९९९ तमे वर्षे फूल्भाग्मैदानस्थे के इ एम् सभाङ्गणे विद्यते ।
१९ शतके कानपुरं ब्रिटीशसेनानिवासः आसीत् यत्र ७००० सैनिकाः आसन् । 

१८५७ तमस्य वर्षस्य अनन्तरं कानपुरं चर्म-वस्त्रोद्यमयोः प्रमुखं केन्द्रं जातम् । १८६० तमे वर्षे सैन्याय चर्मवस्तूनाम् आपूर्त्यै सर्वकारीयः यन्त्रागारः आरब्धः । ततः १८८० तमे वर्षे कापर्-अलेन्-यन्त्रागारः आरब्धः । प्रथमकार्पासवस्त्रनिर्माणी, दि एल्गिन् मिल्स् १८६२ तमे वर्षे, मूर्-मिल्स् १८८२ तमे वर्षे च आरब्धा । अग्रिमेषु ४० वर्षेषु बहवः अन्ये यन्त्रागाराश्च आरब्धाः यस्मात् कानपुरं किञ्चन प्रमुखं वस्त्रोद्यमकेन्द्रं जातम् । कानपुरस्य दि एल्गिन् मिल्स् खाखिवस्त्राय प्रसिद्धम् । इदं वस्त्रं स्वस्य वर्णाय स्थायित्वाय च प्रसिद्धमस्ति । अस्य निर्माणकर्ता वस्त्रनिर्माणे प्रसिद्धः श्री गोपालसदाशिवगोगटेवर्यः यः १९४२ तमे वर्षे डिसेम्बर्मासस्य १७ दिनाङ्के दिवङ्गतः । 
भारतस्य चर्मोद्यमस्य केन्द्रमस्ति कानपुरम् । अद्यत्वे तत्र बहवः चर्मोद्यमकेन्द्राणि विद्यन्ते ।  
फेनकम्, आहारसंस्करणं, पान्मसाल (तमाखुः), चायचूर्णाचयः, प्लास्टिक्-उद्यमः, आभरणनिर्माण्म्, चर्मोद्यमः इत्यादयः नगरे नूतनतया आरब्धाः उद्यमाः । तेषु पान्मसाला-उद्यमः अत्यधिकेभ्यः उद्योगदाने अग्रे अस्ति । सर्वकाराय करदाने अपि अग्रेसरः । 'पान् वहार्' 'पान् पराग्' इत्येतादृशाः प्रसिद्धाः विविधताः अस्मिन् नगरे एव उगमं प्राप्तवन्तः ।

गङ्गानद्याः तटे स्थितं कानपुरम् उत्तरभारतस्य प्रमुखम् उद्यमक्षेत्रमस्ति । तस्य ऐतिहासिक-धार्मिक-वाणिज्यिकमहत्त्वं विद्यते । 
१९००-१९५० तमेषु वर्षेषु कानपुरं स्वातन्त्रसङ्ग्रामस्य साहित्यान्दोलनस्य च मुख्यभूमिः आसीत् । कवेः बालकृष्णशर्म / नवीनस्य नाम्ना प्रसिद्धं वाणीज्यकेन्द्रं नामाङ्कितम् अस्ति । अग्रे गोपालदासनीरजेन लिखितानि पद्यानि हिन्दिचलच्चित्रेषु योजितवन्तः । स्यामलगुप्तपर्शदः (विजयी विश्व तिरङ्गाप्यारा -प्रसिद्धगीतस्य रचयिता) जन्मस्थानमस्ति कानपुरम् । आचार्य महावीरप्रसादद्विवेदी, गणेशशङ्करविद्यार्थी, प्रतापनरैन्मिश्र, आचार्य गयाप्रसाद शूक्ल इत्यादयः लेखकाः अत्रत्याः । कृषिविश्वविद्यालयः क्रान्तिकारिणः चन्द्रशेखराझादस्य नाम्ना निर्दिश्यते । वैद्यमहाविद्यालयः गणेशशङ्करविद्यार्थी इति नामाङ्कितम् । एतौ उभौ अपि कानपुरे बहु समयम् अयापयताम् । चन्द्रशेखराझादः अलहाबादे आल्फ्रड्-उद्याने ब्रिटीश्सैनिकैः सह आवृत्तः सन् स्वयं गुलिकास्त्रेण स्वयम् आत्मानं हतवान् । गणेशशङ्करविद्यार्थी १९३१ तमे वर्षे कानपुरस्थे मचलिबझारप्रदेशे हिन्दु-यवनकोलाहलावसरे हतः जातः ।

बितूर् (ब्रह्मावर्त) कानपुरतः २५ कि मी दूरे विद्यते । अयोध्यातः रामेण परित्यक्ता सीता अत्रत्ये वाल्मीकि-आश्रमे एव आश्रयं प्राप्य लवकुशौ प्रसूतवती । अन्ते अत्रैव भूमौ अन्तर्धाना जाता । ब्रिटीश्जनाः कानपुरं यदा आक्रान्तवन्तः तदा नानासाहेबः अत्रत्ये दुर्गे आश्रयं प्राप्तवान्, इदमपि अत्र प्रेक्षणीयेषु स्थलेषु अन्यतमम् । गङ्गातीरे विद्यमानं बितूर् अद्यत्वे प्रमुखं प्रेक्षणीयस्थलं जातमस्ति । कानपुरं महता प्रमाणेन वर्धमानमस्ति वसतिसमुच्चयानां स्थापनेन । उत्सवेषु गङ्गामेला अतिविशिष्टं वर्तते । कानपुरे प्रचाल्यमानः अयम् उत्सवः होलीपर्वणः अनन्तरं पञ्चमे दिने आचर्यते । गङ्गास्नानतः पूर्वं सर्वे परस्परं वर्णक्षेपणपूर्वकम् आनन्देन क्रीडन्ति । सङ्गीत-नृत्य-काव्यवाचनादयः कार्यक्रमाः सायङ्काले आचर्यन्ते ।

नगरमिदं २६.४६७०० उत्तरदिशि ८०.३५०००पूर्वदिशि च वर्तते । उत्तरप्रदेशः पुरातन-कान्पुरग्राममण्डलतः 'कानपुरदेहात्' इति नामकं मण्डलम् आरचयत् । कानपुर्, अलहाबाद्, फतेपुर् च पुरातनकाले वत्सदेशः इति निर्दिश्यते स्म । इदं प्रमुखनदीद्वयेन युक्ता अस्ति - गङ्गा ईशान्ये, यमुना दक्षिणे च प्रवहतः । कानपुरं परितः दक्षिणे हमीरपुरम्, ईशान्ये उन्नाव् च विद्यते । कानपुरस्य दक्षिणभागे बण्डेल्खण्ड्नामकं शुष्कप्रदेशः विद्यते । कानपुरमण्डलं कानपुरदेहात्मण्डलञ्च गङ्गायमुनानद्योः उर्वरप्रदेशे विद्यते । यमुनानदी अवध-बुन्देल्खण्डप्रदेशयोः सीमाम् अङ्कयति । स्वच्छपानजलस्य व्यवस्था विद्यते अत्र । कृषिकार्यार्थमपि जलव्यवस्था समीचीनतया कृता वर्तते । 

कानपुरम् आर्द्र्-उष्णविभाग-वातावरणयुक्तं देहल्याः इव । कानपुरे दीर्घः घर्मकालः, ह्रस्वः शीतकालः, धूलियुतः चण्डमारुतः, वर्षमारुतश्च विद्यते । विपरीततापमानाः अत्र दृश्यन्ते । कनिष्ठं ०० सेण्टिग्रेड्मितं भवति शैत्यकाले, ग्रीष्मकाले ४८० सेण्टिग्रेड्मितं यावत् अधिकं भविष्यति । डिसेम्बर्-जनवरिमासयोः कानपुरे महाती धूमिका (fog) भविष्यति येन वाहनसम्मर्दः, यात्राविलम्बः भविष्यति । कानपुरस्य दर्शनम् अक्टोबर्-नवम्बर्मासयोः अथवा फेब्रवरि-मार्च्मासयोः समीचीनं भवेत् । वार्षिकवृष्टिः ८८५ मि मीटर्मितं भवति सामान्यतः ।

अत्रैव निवसतां देशान्तरगमनं कुर्वतां बहूनां पक्षिणां स्थानमस्ति कानपुरम् । बितूर्, ऐ ऐ टि कानपुरपरिसरे, गङ्गायाः तीरप्रदेशेषु च ते दृश्यन्ते अधिकतया । मयूराः नीलवृषभाः (nilgai) च अधिकतया दृश्यन्ते । एशियाखण्डस्य बृहत्तमं (विस्तारे) प्राणिशास्त्रोद्यानम् अत्र विद्यते । कानपुरप्राणिसङ्ग्रहालयः स्वस्य पञ्जरविन्यासाय प्रसिद्धः अस्ति यत्र प्राणिनः सहजतया जीवितुम् अर्हन्ति । बहुविधाः प्राणिनः अपि सन्ति । जलव्यवस्था अपि विशिष्टतया कृतमस्ति ।

२७,००,००० जनसङ्ख्यायुते कानपुरे जनाः अधिकतया उत्तरप्रदेशस्य केन्द्रभागतः पश्चिमभागतः च आगताः । बेङ्गाली, पञ्जाबी, आङ्ग्लो-भारतीयाः च अधिकसङ्ख्याकाः सन्ति स्वरूपनगरे, तिलकनगरे, आझादनगरे च । हिन्दवः ७६%, यवनाः १६%, सिक्ख-जैन-क्रिश्चियन्-बौद्धाः च अवशिष्टाः । २००१ तमस्य जनगणतेः अनुसारं नगरे अक्षरज्ञाः ७०.३६%  (६०.२५% महिलाः, ७१.९२% पुरुषाः) ।




#Article 158: मालविकाग्निमित्रम् (161 words)


मालविकाग्निमित्रम् कालिदासेन लिखितम् नाटकम्। मालविकाग्निमित्रम् इति शीर्षकस्य अर्थः मालविका अग्निमित्रः च इति। एषा शुङ्गवंशस्य राज्ञः अग्निमित्रस्य कथा अस्ति। सः स्वपत्नीसेविकां मालविकाम् अकामयत्। एतं विषयं ज्ञात्वा राज्ञी क्रुद्धा । सा मालविकां तिरस्करोत्। परन्तु मालविका राजपुत्री आसीत्। सुमन्दभाग्येन तस्याः जन्मवृत्तान्तं ज्ञात्वा राज्ञ्याः अनुमत्या अग्निमित्रः मालविकां परिणीतवान्।
अस्य प्रथमः श्लोकः

पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम़्।

सन्त: परीक्ष्यान्यतरद्भजन्ते मूढ: परप्रत्ययनेयबुद्धि:॥

मालविकाग्निमित्रनाटकं कालिदासस्य प्रथमं रूपकमिति वदन्ति । पञ्चाङ्कयुक्ते नाटकेऽस्मिन् अग्निमित्रमालविकयोः प्रणयवृत्तान्तः निरूपितः अस्ति । अग्निमित्रः एकदा अकस्मात् चित्रे मालविकां दृष्ट्वा तस्याम् अनुरक्तः भवति । अग्निमित्रस्य पूर्वमेव धारिणी इरावती नामनी द्वे पत्न्यौ आस्ताम् । एतां मालविकां धारिण्याः अनुजः वीरसेनः सोदर्यै उपायनरूपेण प्रेषितवान् आसीत् । धारिणी मालविकां सेविकारूपेण स्थापितवती आसीत् । चित्रे मालविकायाः दर्शनात् आरभ्य अग्निमित्रः तया मेलितुम् उत्सहते स्म । अनयोः द्वयोः समागमाय राजा स्वमित्रं विदूषकं साहाय्यम् अयाचत । धारिणी-इरावत्योर्मध्ये प्राप्तः नायिकानायकयोः प्रेमाङ्कुरः, अभिवृद्धिः सिद्धयः च अनयोः विवाहार्थं अन्तःपुरे जायमानं कुतन्त्रं इत्यादिकं नाटकेऽस्मिन् हृद्यया शैल्या चित्रितम् । नायिकानायकयोः प्रेमव्यवहारार्थं समीचीनतया पृष्ठभूमिः रचिता । नाट्यस्य पाठनं, हरदत्तगणदासयोः कलहः इत्यादयः सन्निवेशाः नाटकस्य अभिवर्धने उत्तमवातावरणं कल्पयन्ति ।




#Article 159: मथुरा (136 words)


भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति मथुरामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति मथुरानगरम्।
मथुरा भारतस्य उत्तरप्रदेशे काचित् नगरी अस्ति । भगवतः कृष्णस्य जन्म अत्र अभवत् ।मथुरा देहलीतः १३४ कि.मी. । आग्रातः ५७ कि.मी. दूरे अस्ति । श्रीकृष्णस्य जन्मस्थानम्  इति पुराणद्वारा ज्ञायते । अत्र अनेके देवालयाः मुस्लिंजनानाम् आक्रमणेन विनष्टाः आसन् । केचन पुननिर्मिताः सन्ति । श्रीकृष्णस्य मथुरानाथमन्दिरम् अतीव सुन्दरम् अस्ति । चित्रकला सङ्ग्रहालयः इव अस्ति । गर्भगृहे श्रीकृष्णमूर्तिं परितः रजतगावः निर्मिताः सन्ति।
केशवमन्दिरसमीपे भागवतमन्दिरमिति सभाभवनम् अस्ति । एतत् प्रार्थनामन्दिरम् इत्यपि प्रसिद्धमस्ति । केशवमन्दिरस्य आवरणे क्रिस्ताब्दे १६६१ तमे वर्षे निर्मितं जातिमस्जिद् इति मुस्लिं प्रार्थनामन्दिरमस्ति । चतुस्तरीयभवनम् एतत् यमुनानदीतीरे अस्ति । समीपे कलासङ्ग्रहालये मूर्तिशिल्पानि नाणकानि बुद्धस्य लोहविग्रहाः च सन्ति ।
मथुरातः १०कि.मी. दूरे वृन्दावनम् अस्ति । अत्रैव श्रीकृष्णः बाल्ये वेणुवादनं विविधलीलाः च प्रदर्शितवान् । अत्र चैतन्यमहाप्रभुः भक्तेः महिमानं प्रदर्शितवान् । मीरा-गोपीनाथ-  मदनमोहन-राधारमण-बिर्लामन्दिराणि अपूर्वाणि सन्ति ।




#Article 160: महाभारतम् (1307 words)


महाभारतम्(आङ्ग्लभाषा Mahabharata) महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्धं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्म-अर्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य  महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव। 

महाभारतग्रन्थः त्रिभिः सवंत्सरैः विरचितं च -

इदं प्रायः सर्वे भारतीया विद्वांसो मन्यन्ते यत् महाभारतं प्राग् जयनाम्ना ततो भारतनाम्ना ततः  परतश्च महाभारतनाम्ना प्रसिद्धम् । सूक्ष्मेक्षिकयाऽवलोकनेन ज्ञायते यत् - महाभारतस्य प्रगते चरणत्रयं विद्यते। -

प्रत्येकस्य अध्यायस्य आदौ विद्यमानः अयं प्रसिद्धः श्लोकः इदं निरूपयति ।

महाभारतस्य अन्ते विद्यमानेन श्लोकेन इदं प्रमाणितं भवति -

अस्य ग्रन्थस्य नूतनतमस्य रूपस्य नाम शतसाहस्री संहिता अपि अस्ति।

प्रथमं महाभारतम् इतिहासः पुराणम् आख्यानकञ्चेति नामभिः आख्यायते स्म । साम्प्रतिकास्तु महाभारतम् आचारशास्त्रम् नीतिशास्त्रम् धर्मार्थकाममोक्षाख्यचतुर्वर्गसाधनम् चामनन्ति । भारतं पञ्चमो वेदः इति सर्वत्र प्रचारितम् । सर्वत्रास्मिन् ग्रन्थे वैष्ण्वसिद्धान्तानां प्रमुखत्वेन प्रतिपादनात् महाभारतं वैष्णवस्मृतिरप्याख्यायते । महाभारतस्य अशीतिप्रतिशतभागोऽनेकविधोपदेशमयः, विंशतिप्रतिशतभाग एवेतिहासप्रतिपादक इति अस्य नीतिशास्त्रेषु गणनोचिता

सम्प्रत्युपलभ्यमानं महाभारतं मूलमहाभारतात् परतो बहुषु शतकेषु व्यतीतेष्वेव निर्मितं स्यादतो मूलमहाभारतस्य जयाभिधानस्य वर्तमानमहाभारतात् पूर्वकालिकत्वं निश्चितम् । अत्र वर्तमानमहाभारतस्य रचनाकालसम्बन्धे विचारणीयमस्ति, तत्र –

१.	ख्रीष्टैकादशशतके जातेन क्षेमेन्द्रेण कृतो भारतमञ्जरीनामा ग्रन्थः कथायां वर्तमानमहाभारतमनुहरतीति वर्तमानमहाभारतस्य एकादशशतकपूर्वकालिकत्वं सर्वथा सिद्धम् ।
२.	अष्टमशतकोत्तरार्धे जातः आद्यशङ्कराचार्यः महाभारतं स्त्रीभिः धर्मज्ञानाय अध्येयत्वेन आदिशन्ति, तेन महाभारतस्य ततः पूर्वकालिकत्वं सिद्धम् ।
३.	अष्टमशतकोत्पन्नाः कुमारिलभट्टाः महाभारतस्य बहूनि पर्वाणि स्मरन्ति ।
४.	सप्तमशतकोत्पन्ना बाणसुबन्धुप्रभृतयः कवयो महाभारतस्य अष्टादश पर्वाणि हरिवंशं च स्मरन्ति ।
५.	कम्बोडियानामके भारतस्य प्राचीनोपनिवेशे षष्ठशतकसमीपे उत्कीर्णात् शिलालेखात् ज्ञायते यत् तत्रत्याय कस्मैचिन्मन्दिराय रामायणमहाभारतग्रन्थौ भारतेन प्रहितौ । तत्कथाप्रबन्धोऽपि भारतेन कृतः ।
६.	यवबालिप्रभृतिषु द्वीपेषु षष्ठशतके महाभारतमवर्त्तत, ततोऽपि पूर्वं तिब्बतभाषायां महाभारतस्यानुवादो जातः ।
७.	चतुर्थपञ्चमशतकलिखितेषु दानपत्रकेषु स्मृतिरूपेण महाभारतवचनानि निर्दिष्टानि दृष्टानि ।
८.	४६२ स्त्रीष्टोत्की-एकत्र शिलालेखे पाराशर्यव्यासस्य लक्षश्लोकात्मकस्य महाभारतप्रणेतृत्वम् उल्लिखति ।
९.	सीरियादेशभाषायाम् उपलभ्यमानस्य शान्तिपर्वाध्यायत्रयस्य साक्ष्येण हर्टलमहोदयः प्रमाणयति यत् प्रचलितं महाभारतम् ई.पू. पञ्चमशतकनिबद्धात् महाभारतात् न भिद्यते इति ।
१०.	 डयोन क्राइसोस्तोम (Dion Chyrsostom)  महोदयस्य साक्ष्येण प्रतीयते यत् ५० ख्रीष्टाब्दकाले लक्षपद्यात्मकं महाभारतं दक्षिणपथे लब्धप्रचारमासीत् इति ।
११.	ख्रिष्टप्रथमशतके स्थितेन वज्रसूचीकृत्ताश्वघोषेण हरिवंशस्थ पद्यमेकमुद्धतम् । एभिः सर्वैः समुदितैरेतत् सिद्धं यत् ख्रीष्टशतकप्रारम्भे महाभारतम् अवश्यम् अवर्तत । अपि च –
(क)	पाणिनिः महाभारतं जानाति स्मेति डल्ह्मैन (Dalhmann) साक्ष्येण प्रतीयते ।
(ख)	ख्रीष्टपूर्वपञ्चमशतकप्रणीते आश्वलायनगृह्यसूत्रे महाभारतस्य उल्लेखो दृश्यते ।
(ग)	४०० ई.पू समये निर्मिते बौधायनधर्मसूत्रे महाभारतस्योल्लेखो दृश्यते ।
(घ)	बौधायनगृह्यसूत्रे महाभारतीयं विष्णुसहस्रनामोद्ध्रियते स्म ।
(ङ)	महाभारतीयशान्तिपर्वणि विष्णोर्दशावतारगणनाकालेबुद्धस्य नाम नायाति ।
(च)	मेगास्थनीजप्रणीते भारतवर्णने याः कथाः ता महाभारतात् एव प्राप्ताः ।
(छ)	ब्रह्म सर्वदेवज्येष्ठतया महाभारते प्रतिपादितः । पालिभाषासाहित्येन ज्ञायते यद् ब्रह्मणो ज्यैष्ठत्वं ख्रीष्टपूर्वपञ्चमशतकात् प्रागेव प्ररूढप्रचारमासीत् ।
(ज)	ज्यौतिषप्रमाणैः अपि कतिपये विद्वांसः कल्पयन्ति यत् वर्त्तमानं महाभारतम् ५०० ई.पू. समयात् प्रागेव निर्मितं न ततः परम् ।
अतः सर्वसमीक्षया महाभारतम् ५०० ई.पू. समयतः परतो न निर्मितं किन्तु कदाचित् पूर्वमेव निर्मितमिति प्रतीयते ।

महाभारतस्य संक्षेपेण वर्णिता कथा एवं वर्तते - उत्तरभारतस्य राज्ञो दुष्यन्तस्य पुत्रस्य भरतस्य वंशधरस्य शान्तनोः प्रपौत्रो -धृतराष्टपाण्डवौ आस्ताम्। अग्रजन्मा धृतराष्टः नेत्रहीनः इति हेतोः सर्वैः पाण्डुरेव राजसिंहासनेऽभिषिक्तः। कालान्तरेण पाण्डुः पञ्चत्वं प्राप्तः। तदा पञ्चपाण्डवाः - युधिष्ठिरः - भीमः - अर्जुनः - नकुलः - सहदेवश्च निखिलानि शास्त्राणि वेदाञ्च अधीतवमन्तः । प्रकृतयः युधिष्ठिस्य शौचेन, भीमसेनस्य धृत्या, अर्जुनस्य विक्रमेण, नकुलसहदेवयोः गुरुशुश्रूषया, शान्त्या विनयेन च, समेषां तेषां शौर्यगुणेन च अति सन्तुष्टा अभवन्।

पाण्डवानाम् अभ्युदयम् असहमानः दुर्योधनः छलेन तेषां राज्यम् अपहर्तुं बहुकृतप्रयत्नोऽपि विफलोऽभवत्। तदा स्वमातुलशकुनिसाहाय्येन घूतक्रीडायां कपटेन पाण्डवान् पराजित्य द्रौपदीञ्च स्वानुजेन दुःशासनेन सभामानाय्य अपमाननं कर्तुं प्रायतत । श्रीकृष्णेन रक्षिता द्रौपदी। पराजिताः पाण्डवाः कृतसमयानुसारं द्वादशवर्षपर्यन्तं वनवासस्य, एकवर्ष-अज्ञातवासस्य च कठिनाम् अवस्थाम् असहन्। ततोऽरण्यात् निवृत्य स्वराज्यम् अयाचन्त ।  दौत्यार्थं पाण्डवप्रतिनिधिः भूत्वा स्वयं श्रीकृष्णः गतः। परन्तु स्वार्थपरायणः दुर्योधनस्तु - ’केशव ! युद्धं विना सुच्याग्रपरिमितं भूमिमपि न दास्यामि’ इति दृढचित्तः सन् अवदत् ।

फलतः कौरव-पाण्डवानां मध्ये भयङ्करं युद्धं सञ्जातम्। कौरवाः पराजिताः, पाण्डवेषु ज्येष्ठः युधिष्ठिरः राजसिंहासनम् आरोहत् । कालक्रमेण अभिमन्योः पुत्रं परीक्षितं हस्तिनापुरस्य अधिपतिनं विधाय सर्वे पाण्डवाः द्रौपदी च हिमालयं प्रति अगच्छन् -तत्रैव कालकवलतां गताश्च।

रामायणस्य तुलनायां यद्यपि महाभारतस्य प्रचारः अल्पः तथापि महत्त्वदृष्ट्या महाभारतं विश्वस्य कस्मादपि ग्रन्थान्न हीयते । महाभारतं तदानीन्तनभारतीयसमाजनीतिप्रभृतिज्ञातव्यं बोधयति, महाभारतं तदानीन्तनीं भारतीयां सभ्यतां प्रकाशयति । प्रमाणग्रन्थतयैवास्य पञ्चमवेदसंज्ञा जाता । यथा रामायणाधारेण बहवो ग्रन्था अरच्यन्त तथैव महाभारताधारेणापि । एतत् सर्वमस्य ग्रन्थस्य महत्त्वे साक्षिभूतम् ।

महाभारतमष्टादशसु पर्वसु विभक्तं वर्त्तते, तस्मिंश्च आदि-सभा-वन-विराट-उद्योग-भीष्म-द्रोण-कर्ण-शल्य-सौप्तिक-स्त्री-शान्ति-अनुशासन-अश्वमेध-आश्रमवासि-महाप्रास्थानिक –स्वर्गारोहणपर्वणि सन्ति । 

अनुषङ्गतः शकुन्तलोपाख्यान –मत्स्योपाख्यान –रामोपाख्यान-शिबिकथा-सावित्रीकथा-नलोपाख्यानादीनि वर्णितानि । युद्धवर्णनमात्रं न  व्यासस्य लक्ष्यमपि तु भौतिकजीवनस्यासारतां प्रकाश्य प्राणिनां मोक्षमार्गे प्रवर्त्तनमेव व्यासस्य महाभारतप्रणयने उद्देश्यमासीत्, अत एवात्र शान्तो रसः प्रधानभूतः वीरस्तु रसोऽङ्गभावं गतः ।

हरिवंशोनाम खिलपर्वापि योजयित्वा आहत्य १९३६ अध्यायाः १६८३६ श्लोकाश्च सन्ति महाभारते।अस्मिन् महाभारते एव विदुरनीतिः सनत्सुजातीयम् भगवद्गीता अनुगीत चेति चत्वारः तत्त्वोपदेशग्रन्थाः भवन्ति। विदुरनीतिः द्योगपर्वणि ३३ तः ४० अध्यायपर्यन्तम् भवति। सनत्सुजातीयं द्योगपर्वणि ४९ तः ४६, पर्यन्तम् भगवद्गीता भीष्मपर्वणि २५ तः ४२ पर्यन्तम् अनुगीता अश्वमोधीकपर्वणि १६ तः५१ पर्यन्तम् च वर्तते।

व्यासस्य कृतिरियं सर्वैरितिहास इत्युच्यते यतोऽत्र वीराणां पुण्या गाथा वर्णिता । अयं ग्रन्थो धार्मिकग्रन्थो येन लोकः स्वकल्याणं गवेषयति । अत्रैव ग्रन्थे गीतारत्नं विद्यते या दुग्धेव प्रतीयतेऽनवरतं दुह्यमानाऽपि । गीताग्रन्थस्यादरो महाभारतस्यैव विशिष्टतां प्रमाणयति । स्वयमेव व्यासेन महाभारतस्य प्रशंसायां यदुक्तं तदक्षरशः सत्यम् –

श्रीवेदव्यासस्य महत्वाकाङ्क्षेयं यद् धर्मार्थ-काम-मोक्ष-विषयकम् अखिलमपि जिज्ञासितं तथ्यम् अत्रैव लभेत, न च किञ्चिद् उच्छिष्येत इति । अतैव उच्यते -

महनीयोऽयं ग्रन्थः यथा वपुषा विशालः तथैव भावगाम्भीर्येण अर्थगौरवेण च। अतैव उच्यते -
महत्वाद् भारवत्वाच्च महाभारतमुच्यते।
महाभारतं विरचय्य श्रीव्यासः ’शिष्येभ्यः कथम् अध्यापयामि’ इति यथा चिन्तामग्नः आसीत् तदा तस्य व्यथां ज्ञात्वा स्वयं लोकगुरुः भगवान् ब्रह्मा तस्य प्रीत्यर्थं लोकानां हितकाम्यया च तत्र आगच्छत्। यथाविधि तस्योपचारं कृत्वा स्वयं श्रीव्यासः स्वग्रन्थविषयेऽवदत् - ’भगवान् ! मया इदं परमपूज्यं काव्यं कृतम् । अस्मिन् काव्ये वेदरहस्यं साङ्गोपनिषदां विषयः च विस्तारेण वर्णितः । इतिहासाः - पुराणानि - भूतं -भव्यं - भविष्यं, जरा-मृत्यु-भय-व्याधि-भावाभावः, चातुर्वर्ण्यविधानं वर्ण्यधर्माः, पृथिवी - चन्द्रः - सूर्यः - तारागणः ग्रहप्रमाणाः, सत्य-त्रेता-द्वापर-कलियुगाः, ऋग्-यजुस्-सामानि सर्वमपि वर्णितम्। तीर्थानां पुण्यक्षेत्राणां च कीर्तनं, नदी-वन-पर्वत-सागरादीनां वर्णनं, सर्वमपि प्रतिपादितं विद्यते अस्मिन् ग्रन्त्थे । परन्तु एतस्य ग्रन्थस्य कोऽपि लेखकः भुवि न विद्यते। 
ब्रह्मा अपि प्रत्युत्तरे - 'अन्य कोऽपि अस्मात् श्रेष्ठतरं काव्यं लेखितुं न समर्थो भवति । लेखनार्थं श्रीगणेशं स्मर' इति उक्त्वा स्वधाम अगच्छत् । एवं महाभारतं श्रीव्यासेन प्रणीतं, श्रीगणेशेन लिखितम्।
महाभारतस्य विविधविषयावगाहि - ज्ञानम्, अर्थगौरवं भावगाम्भीर्यं च प्रतिपादयितुं कतिपयानि सुभाषितानि उपस्थाप्यन्ते - 

नवहारमिदं वेश्म, त्रिस्थूणं पञ्चसाक्षिकम्, क्षेत्रज्ञाधिष्टितं (क्षेत्रज्ञ-अधिष्टितं) यो विद्वान् वेद स परः कविः ।
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन च नित्यं याति - तम् इशम् - ईड्यम् -अनुकध्पम् - अद्यं - विराजमानं तं मूढाः न पश्यन्ति।

यस्मिन् यथा वर्तते यो मनुष्यः - तस्मिन् तथा वर्तितव्यं सधर्मः मायाचारो मायया वर्तितव्यः, साध्वाचारः साधुना प्रत्युपेयः
वृशं यत्नेन संरशेत् - वित्तमेति च याति च।
अक्षीणो वित्ततः, क्षीणो वृत्ततस्तु हतो हतः।
न च दुर्बलोऽपि क्षत्रुः बलीयसा अवज्ञेयः
अल्पोऽपि दहत्यग्निः विषमल्पं हिनस्ति च।

धनमाहुः परं धर्मं, धने सर्वं प्रतिष्ठितम्।
जीवन्ति धनिनो लोके, मृताः ये त्वधनो नराः॥
धनान् कुलं प्रभवति, धनान् धर्मः प्रवर्धते।
नाधनस्यास्त्ययं लोको, न परः, पुरुषोत्तमः॥ 

राजा प्रजानां प्रथमं शरीरं - प्रजाश्च राज्ञोऽप्रतिमं शरीरम्।
राज्ञा विहीना न भवन्ति देशा, देशैर्विहीना न नृपा भवन्ति॥ 
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते।
यद् यदाचरते राजा तत् प्रजाभ्यः स्म रोचते॥ 

एवं गुणगौरवात् सर्वविषयावगाहित्वात् आचारशिक्षणात् पावनत्वात् अयं महाभारतग्रन्थः पञ्चमो वेदः इति ख्यातः।
अत एव ग्रन्थश्चयित। - स्वगुणगौरवात् -त्रिदेववद् आद्रियते सम्मान्यते च - 

अचतुर्वदनो ब्रह्मा हिबाहुरपरो हरिः।
अभाललोचनः शम्भुः भगवान् बादरायणः॥ 

वेदानां धर्मप्रधानत्वाद्, यज्ञादिकर्मकाण्डप्रतिपादनात् अध्यात्मभावविवरणाच्च न समेषां प्रियत्वम्। वेदेषु द्विजानामेव विशिष्टा गतिः, धर्मत्वेन अभिरुचिश्च। परन्तु महाभारते सर्वेषां कृते किमपि अस्ति। सर्वमनोमोहनत्वाच्च एतद् स्त्रीशूद्रादिभ्यः अपि सुलभः। अस्य पावनत्वम्, उत्कृष्टत्वं, सर्वार्थसाधकत्वं, सर्वेभ्यः सुलभत्वञ्च प्रेक्ष्य विपश्चिद्भि - पञ्चमो वेदः ’महाभारतम्’ इति साह्लादम् उद्घोष्यते।
अष्टादश पर्वेषु, अनेकोपपर्वेषु च विभक्तम् महाभारतम्। अस्य मुख्यांशाः - व्यासरहस्यम् - विदुरनीतिः - भगवद्गीता च।
श्री गणेशः - यदि मम लेखनी क्षणमपि अलिखन्ती न अवतिष्टेत् - तर्हि अहं लेखको भवामि इत्यवदत् । तदा भगवान् व्यासः गूढं ग्रन्थग्रान्थिम् अरचयत् - 

अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च।
अहं वेद्मि, शुको वेति, सञ्जयो वेत्ति वा न वा॥ 

इति सन्देहः एव - अद्यापि तच्छ्लोककूटं सुदृढं ग्रथितं, गूढत्वात् तस्य अर्थः केनापि भेत्तुं न शक्यते। अतः ’व्यासरहस्यम्’ इति ज्ञातम्। 
विदुरनीतिः - विदुरेण मोहग्रस्तं, दुःखितम्, अशान्तं धृतराष्ट्रं प्रति उपदिष्टा राजनीतिः विदुरनीतिरिति ख्याता। सत्यवक् विदुरः निष्पक्षपाततया धर्ममार्गद्योतकः प्रवर्तकश्चासीत्। ’प्रजागर’ नामके उपपर्वणि अष्टसु अध्यायेषु विदुरनीतिः सङ्ग्रहरूपेण निरूपिताः।
विदुरस्योक्तिः न केवलं धृतराष्टम् उद्दिश्य उक्ताः, परन्तु सर्वेषां व्यक्तिजीवने उपयोगार्हा एव।
महाभारतरण भूमौ मोहग्रस्तम् अर्जुनं प्रति - श्रीकृष्णेन उपदिष्टा भगवद्गीता वर्तते।
सर्वोत्कृष्ट विषयस्तु अस्मिन् - ’सरस्वत्याः वृष्टिः’ इति यथोराशिविभूषिते महाभारते - अहितीयः, सर्वज्ञः, सर्वशक्तिमान्, परमयोगेश्वरः, अचिन्त्यानन्त गुणगणसम्पन्नः सृष्टि-स्थिति-प्रलयकारी, विचित्रलीलाविहारी, भक्तवत्सलः, भक्तभक्तिमान्, भक्तसर्वस्वः, निखिलरसामृतसिन्धुः, प्रेमघनविग्रहः, सच्चिदानन्दघनः वासुदेवस्य भगवतः श्रीकृष्णस्य गुणगौरवस्य मनमोल्क मधुरगीतं विद्यते - भीष्मपितामहेन उक्ते ’विष्णुसहस्रनाम’ स्तवे।
एतत् सर्वं मनसि निधाय एव उद्घोष्यते -

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

 

संस्कृतस्य काव्यमिदम् अद्यापि जनजीवने सुविख्यातं, प्रेरणाप्रदं च तिष्ठति। दूरदर्शने 'रामायण'धारावाहिन्याः लोकप्रियताम् अनु महाभारतम् इति धारावाहिनी प्रसारिता। बी.आर.चोपडावर्येण सृष्टा इयं धारावाहिनी स्वस्य गभीराध्ययनपूर्णचित्रणात् सर्वान् आकर्षत् । दूरदर्शनयन्त्रे बहुवाहिनीभिः समृद्धे युगेऽस्मिन्नपि इयं धारावाहिनी पुनः पुनः प्रसार्यते।

भारतसावित्री




#Article 161: भर्तृहरिः (299 words)


भर्तृहरिः (Bharthruhari) संस्कृतभाषायाः परम: विद्वान् कविश्चासीत् । अर्वाचीनकोशे एवम् उल्लिखितम् अस्ति - भर्तृहरेः पिता वीरसेनः इति । अयं वीरसेनः कश्चन गन्धर्वः । तस्य चत्वारः पुत्राः - भर्तृहरिः, विक्रमादित्यः, सुभटवीर्यः, मैनावती च । जम्बूद्वीपस्य अधिपस्य एकमात्रपुत्री सुशीला एव भर्तृहरेः माता । अधिपस्य पुत्रसन्ततिः न आसीत् इत्यतः भर्तृहरेः कृते राज्यम् अयच्छत् । अयम् उज्जयिनीं राजधानीं कृत्वा राज्यशासनम् अकरोत् । ततः विक्रमादित्याय राज्यं दत्त्वा सुभटं सेनाधिकारिपदे नियोज्य निर्गतः इति । 
केषुचित् मराठिग्रन्थेषु भर्तृहरेः पिता गन्धर्वसेनः । तस्य चतस्रः पत्न्यः । गन्धर्वसेनस्य प्रथमः पुत्रः भर्तृहरिः ।

केचन कथयन्ति यत् भर्तृहरिः सप्तमशतमानस्य पूर्वार्धे आसीत् इति । किन्तु क्रि.श .६५१ तमे वर्षे दिवङ्गतं वाक्यपदीयकारं भर्तृहरिमेव शतकत्रयकारः भर्तृहरिः इति परिगणयद्भिः एवम् उक्तं स्यात् इति भाति । आचार्य दण्डिः क्रि श ९ शतमाने आसीत् । अलङ्कारशास्त्रज्ञः भामहः दण्डेः अपि पूर्वः । भामहात् भर्तृहरिः प्राचीनः यदि स्यात् भामहः स्वस्य अलङ्कारशास्त्रग्रन्थे उदाहरणरूपेण वा भर्तृहरेः श्लोकान् अलेखिष्यत् । 
विष्णुशर्मकृते पञ्चतन्त्रे भर्तृहरेः श्लोकाः उदाहृताः सन्ति । पर्षियादेशस्य शासकस्य राजा खस्त्रु अनुशरिवान् (क्रि श ५३१-७९) इत्येतस्य अनुज्ञानुगुणं पञ्चतन्त्रग्रन्थः पेह्लविभाषया अनूदिता अस्ति । अतः पञ्चतन्त्रस्य कालः क्रि श ५३१ तः बहु पूर्वमिति भासते । एतैः आधारैः भर्तृहरिः पञ्चमशतमानस्य मध्यभागे उत्तरभागे वा आसीत् इति भासते ।

अनेन कविना नीतिशतकम्, शृङ्गारशतकम्, वैराग्यशतकम् च इति शतकत्रयं रचितम् इत्येतस्मिन् विषये विभिन्नाः विविधान् अभिप्रायान् सूचयत्नि । किन्तु अयम् अभिप्रायः आधाररहितः इति भाति । यतः भर्तृहरेः विषये एते उल्लेखाः उपलभ्यन्ते - 

अस्मिन् शतके स्त्रीसौन्दर्यम्, प्रणयलीला, पुरुषहृदयवशीकरणम्, अनुभवदिविषये लिखितवान् अस्ति । इदं सः स्वस्य यौवने लिखितवान् स्यात् ।

अस्मिन् शतके विवेकः, हितचिन्तनम्, ज्ञानसाधनम्, शौर्यधैर्यविवरणम्, शान्तत्वम्, सौशील्यादिविषयेषु लिखितवान् अस्ति । इदं स्वस्य वानप्रस्थदशायां लिखितवान् स्यात् ।

अस्मिन् शतके आशापाशविमुखता, उच्चनीचतारतम्यनिरसनम्, लाभालाभनिवृत्तिः, मनोस्थैर्यम्, ईश्वरसेवा, अवधूतचर्या, मोक्षमार्गादिषु विषयेषु बोधनं लभ्यते । इदं सः स्वस्य वृद्धाप्ये लिखितवान् स्यात् इति भाति ।

अत्रत्या शैली सुलभा, मञ्जुला, अर्थगौरवयुक्ता, आकर्षिका च वर्तते । संस्कृतस्य सामान्यज्ञानवन्तः अपि इदं पठित्वा अवगन्तुं शक्नुवन्ति । अत्र उपयुक्तं वृत्तं सुलभं लघु च विद्यते । अत्रत्याः उपमानोपमेयादयः स्वाभाविकाः इत्यतः पठितृषु नूतनभावोत्पादकाः सन्ति । 




#Article 162: शिवः (275 words)


शिवः(shiva)  प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य  सती, पार्वती  द्वे भार्ये। सः भस्मेन अवलिप्तः। नीलकण्ठः सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। त्रिशूलः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः पञ्चाननः इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवः साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते।  ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः।

'शिवम्' इति विशेषणवाचकशब्दस्य अर्थः शुभं मङ्गलं च ।(आप्ते, पृ. ९१९., म्याक्डोनेल्, पृ:. ३१४) नामरूपेण 'शिवः' इत्यस्य अर्थः मङ्गलमयः इति । विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीनां अभिधारूपेण व्यवहृतः आसीत्।(चक्रवर्तिः,पृ: २८) ऋग्वेदे इन्द्रः एकाधिकस्थले स्ववर्णनायाम् अस्य शब्दस्य(शिवः इति) प्रयोगं कृतवान्।(२:२०:३, ६:४५:१७, ८:९३:३)
विष्णुसहस्रनामस्तोत्रे  २७ च ६००तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- पवित्रपुरुषः, प्रकृते: त्रिगुणातीतः(सत्त्व-रज-तमः) य:, यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्तिः भवति।(श्री विष्णुसहस्रनाम,रामकृष्णमठसंस्करणम्, पृ.४७ एवं  पृ. १२२.) शिवनामसम्बलित-शिवसहस्रनामस्तोत्रस्य  पाठान्तरमपि लभ्यते।(शर्मा, रामकरण,१९९६)  महाभारतस्य त्रयोदशपर्वणि(अनुशासनम्)शिवसहस्रनामस्तोत्रस्य मूलमिति विवेचितास्ति।(चिद्भवानन्द: पृ- ५) महान्यासे शिवस्य दशसहस्रनामस्तोत्रमपि  लब्धम् अस्ति। शतरुद्रीयम् इति श्री रुद्रचमकस्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते। ('शतरुद्रीयम्-शिवराममूर्तिः,१९७६)

शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति तृतीयनयनम्। एतेन कामदेव: भस्मीभूतः अभवत् ।(फ्लाड् ,१९९६,पृ: १५१.) शिवस्य त्र्यम्बकमिति नाम्नः अपि त्रिनयनसमन्वितः इत्येवार्थः।(चक्रवर्तिः,पृ।-३७-३९)

शिव अर्धचन्द्रं शिरसि धरति। अतः तस्य अपरनाम चन्द्रशेखरः इति।(आप्टे, पृ:९२६) रुद्रस्य शिवरुपे विवर्तनस्यादियुगतः एव अर्धश्चन्द्र: शिवस्य एकः वैशिष्टः।(चक्रवर्तिः,पृ : ५८) सम्भवतः वैदिकसाहित्ये तथा परवर्तीसाहित्येऽपि चन्द्रदेवता सोमः तथा रुद्रयोः एकीकरनसूत्रैव शिवस्य अस्य वैशिष्टस्योत्पत्तिः स्यात्।

शिवस्य केशराशिजटाबद्धः। एतस्मात् शिवः जटी,कपर्दी (कपर्द्वत् केशयुक्तः) इत्यपि उच्यते। (चिद्भवनन्दः,पृ : २२, म्याक्डोनेल्, पृ: ६२.)      

समुद्रमन्थनकाले उत्थित-हलाहलविषं पीत्वा शिवः नीलकण्ठः सञ्जातः।(फ़्लाड् ,१९९६.पृ: ९८| चिद्भवनन्द:,पृ :३१) अपरपक्षे, हरिवंशपुराणे अस्ति विष्णुः एकदा शिवस्य कण्ठाऽवरोधं कृतवान्। शिवः पलायने सक्षमोऽभूत्। किन्तु तस्य कण्ठः नीलवर्णोऽभूत्।(Ziegenbalg, Bartholomaeus; Germann ,Wilhelm एवं Metzger, G.J. (८६९)।

हिन्दुविश्वासानुसारेण गङ्गायाः उत्पत्तिस्स्थलं शिवस्य जटैव। एतस्मात् शिवः गङ्गाधरः इति ख्यातः।(शिवराममूर्तिः,१९७६ ,पृ: ८)

शिवस्य सर्वपेक्षापवित्रानि मन्दिरानि द्वादशज्योतिर्लिङ्गानि भवन्ति। एतानि यथा-
   

.




#Article 163: भासः (1281 words)


भासः कश्चन प्रसिद्धः संस्कृतनाटककारः । तेन रचितानि रूपकानि सरलभाषया निबद्धानि मनोहराणि च वर्तन्ते । तदीयानि त्रयोदश नाटकानि उपलभ्यन्ते ।

गीतगोविन्दकारः जयदेवः भासं स्तौति यथा-भासो हासः  कविकुलगुरुः कालिदासो विलासः इति । 
महाकविः भासः (Bhaasa) कश्चित् महान् संस्कृतनाटककारः। भासस्य त्रयोदशनाटकानि उपलभ्यन्ते । १९०९ क्रिस्ताब्दौ त्रिवेन्द्रम् निवासी महामहोपाध्याय: टी० गणपतिशास्त्रीमहोदयः तिरुवाङ्कोर राज्यात् तालपत्रलिखितानि एतानि प्राप्तवान् । तेषां नाटकानांं नामानि सन्ति अधोलिखितानि। एतेषां त्रयोदशानामपि नाटकानां कर्ता भास इति लब्धयशसः टि.गणपतिशास्त्रिणः निरणयन् । प्राचीनः नोनराजस्य पुत्रः जोनराजः स्वग्रन्थे सोऽग्निरपि भासमुनेः काव्यं विष्णुधर्मान्मुखात्त्यक्तवान् । नादहदित्यर्र्थः इत्युक्तवान् । लाक्षणिकग्रन्थकारः रामचन्द्रगुणचन्द्रः नाट्यदर्पणे यथा भासकृते स्वप्नवासवदत्ते इत्येव वदति । किन्तु अन्ये विद्वांसः सर्वेषाम् एककर्तृत्वं पूर्वं नाङ्गीकृतवन्तः । ततः एतेषु स्वप्नवासवदत्तम् नाम्नि नाटके भासस्य नाम कर्तृत्वेन प्रस्तुतम् । अन्यत्र कुत्रापि नाटके कर्तुः नाम न गोचरति । तथा च एतेषु सर्वेषु नाटकेष्वपि नान्द्यन्ते ततः प्रविशति सूत्रधारः इति एकरीत्या प्रारम्भः भवति । प्रस्तावना इत्यस्मिन् स्थाने स्थापना इति निहितम् । अपि च सर्वेषु नाटकेष्वपि भरतवाक्यानि समानानि वर्तन्ते । एतदतिरिच्य आपञ्चदशशतकपर्यन्तं यावत्, संस्कृतकवयः स्वीयासु कृतिषु भासं तस्य ग्रन्थाणां वाक्यानि च समुदाहरन् । अपि च एतानि सर्वाण्यपि नाटकानि एकत्रैव प्राप्तानि । अतः एतानि सर्वाण्यपि रूपकाणि प्रायशः भासकृतानीति विद्वद्भिः सिद्धान्तितमस्ति । किन्तु एतस्मिन् विषये ऐकमत्यं न सिद्धम् । इमं कविं महाकविः कालिदासः मालविकाग्निमित्रम्इति नामके स्वस्य नाटके ’प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः क्रियायां कथं परिषदो बहुमानः?’ इति सबहुमानं भासम् अश्लाघत । बाणोऽपि स्वकाव्ये हर्षचरितम् नाम्नि काव्ये सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेभे भासो देवकुलैरिव इति भासकविम् अस्तौत् । कविः राजशेखरः अपि भासो रामिलसोमिलौइति, भासो हासः इति जयदेवःमुरारिश्च भासम् अस्तुवन् ।

अनेके कवयः भासं प्राशंसन् । काव्यशास्त्रकाराः भासकृतान् श्लोकान् स्वग्रन्थेषु समुदाहरन् । एतेन ज्ञायते यत् भासः कालिदासादपि प्राक्तनः तदर्वाचीनकवीनाम् आत्मीयश्च स्यादिति । अनेकेषां कवीनाम् यथा तथैव भासस्यापि देश-कालयोः विषये कोऽपि निश्चयः नास्ति । तथापि विमर्शकानाम् अभिप्रायानुसारं क्रि.पू.१थमे शतमाने भास आसीदिति निर्णेतुं शक्यते । शार्ङधरपद्धतिः, सूक्तिमुक्तावलिः, सदुक्तिकर्णामृतम्, सुभाषितावलिः, इत्यादिषु प्राचीनेषु सुभाषितग्रन्थेषु भासाङ्कितानि पद्यानि लभ्यन्ते । एतादृशानि सर्वाणि साक्ष्याणि उद्धृत्य भासः क्रिस्तात् पूर्वं सप्तमे शतके आसीदित्यपि विमर्शकाः निर्णीतवन्तः । केचन विपश्चितः भासः क्रि.श.२तीये शतके आसीदित्यपि अभिप्रयन्ति । गते शतके समुपलब्धम् यज्ञफलम्  नाम रामायणकथावस्तु नाटकमपि भासकविकृतमेवेति तस्य अध्येतारः दोषज्ञाः निरचिन्वन् । भासस्य देशविषये, मातापित्रोः विचारे च कापि कथा नोपलभ्यते । अयं दाक्षिणात्यः इति केचन साधारं प्रतिपादयन्ति । 

  
प्रतिज्ञायौगन्धरायणस्वप्नवासवदत्ताऽविमारकाणि त्रीणि बृहत्कथाऽऽधाराणि । प्रतिमानाटकभिषेकश्चेति द्वे रामायणमूले । मध्यमव्यायोगपञ्चरात्रदूतघटोत्कचकर्णभारोरुभङ्गयज्ञफलदूतवाक्यानि सप्त महाभारताश्रयाणि, बालचरितं भागवताश्रयम् दरिद्रचारुदत्तं च कल्पितकथमिति विवेकः ।।

१. मध्यमव्यायोगे – हिडिम्बानामकराक्षस्या सह भीमस्य प्रणयः, घटोत्कचनामकपुत्रद्वारा चिरविरहितयोस्तयोः सङ्गश्च वर्णितः ।
२. दूतघटोत्कचे –हिडिम्बाभीमयोरात्मजस्य घटोत्कचस्य महाभारतीयं चरितम् ।
३. कर्णभारे –कर्णस्योदात्तं चरितम्, तेन हीन्द्राय कवचकुण्डले दत्ते ।
४. ऊरुभङ्गे –भीमेन प्रियापरिभवप्रतप्तेन दुर्योधनस्य जङ्घे भग्ने । संस्कृतसाहित्ये शोकान्तनाटकस्येदमेकं निदर्शनम् ।
५. दूतवाक्ये –दूतभूतस्य श्रीकृष्णस्य सदाशयतया सहैव दुर्योधनस्याभिमानित्वं वर्णितम् ।
६. पञ्चरात्रे –कल्पिता कथा । द्रोणेन कौरवाणां यज्ञे आचार्यकत्वं कृतम्, दक्षिणायां स पाण्डवानां राज्यं याचितवान् । पञ्चदिनाभ्यन्तरेऽन्वेषणेक्रियमाणे लभ्यं तदिति दुर्योधनस्याश्वासने द्रोणेन तथा कृतम् ।
७. बालचरिते –कृष्णस्य बाललीला भागवताधारेणा कृता ।
८. अविमारके –या कथा सा सम्भवतो गुणाढ्यकृतबृहत्कथातो गृहीता राजकुमारस्याविमारकस्य कुन्तिभोजकुमार्या कुरङ्ग्या सह प्रणयोऽत्र वर्णितः ।
९. स्वप्नवासवदत्तम् – मन्त्री यौगन्धरायणं पद्मावत्या मगधराजभगिन्या सहोदयनस्य विवाहं कारयित्वा राजशक्तिं वर्ध्दयिउमैच्छत् । ध्रियमाणायां च वासवदत्तायां न सम्भवतीदमिति कदाचिदुदयने मृगयार्थं गते मन्त्रिसम्मत्या वासवदत्ता दग्धेति प्रचार्यते । राज्ञा चिरं विषद्यापि न तत्प्रेमणि मालिन्यमानीयते पश्छात् पदमावत्यां परिणीतायां स्वप्नक्रमेणैव वासवदत्ता लभ्यते ।
१०. दरिद्रचारुदत्ते-वसन्तसेनाचारुदत्तयोः प्रणयकथा वर्णिता । अस्य चत्वार एवाङ्का उपलभ्यन्ते ।
११. अभिषेके- रामायणोक्ता वालिवधादारभ्य रामराज्याभिषेकान्ता कथा वर्णिता ।
१२. प्रतिमानाटके – रामायणप्रोक्तं रामस्य पूर्वचरितमुपनिबध्दम् ।
१३. यज्ञफले –कथाभागोऽत्यल्प एव  दशरथ यज्ञफले रामजन्म: , विश्वामित्र यज्ञफले असुरविनाश चापि जनक धनुष: यज्ञफले सीता विवाह भवन्ति।

उपरिदिर्निष्टनामानि रुपकाणि समानकर्तृकाणि यत् एषु आश्चर्यजनकं साम्यं प्रतिभासते ।
यथा –
१. सर्वाण्यपीमानि नाटकानि- ‘नान्द्यन्ते ततः प्रविशति सूत्रधारः’ एभिरेव शब्दैः प्रारभ्यन्ते ।
२. एषु रुपकेषु क्वापि रचयितुर्नाम परिचयादिकं नोपलभ्यते ।
३. प्रायः सर्वत्र प्रस्तावनायाः स्थाने स्थापनाशब्दप्रयोगः कृतः । कर्णभारमात्रे प्रस्तावनाशब्दप्रयोगः ।
४. एषु सर्वत्र भरतवाक्यं समानम् ।
५. एषां रुपकाणां भाषाऽऽश्चर्यजनकं साम्यं वहति ।
६. सर्वेष्वप्येषु रुपकेषु पताकास्थानस्य मुद्रालङ्कारस्य च समानः प्रयोगः ।
७. अप्रधानपात्राणां नामसाम्यम्, व्याकरणलक्षणहीनप्रयोगप्राचुर्यम् समाः वाक्यम्, सर्वत्र बाहुल्येन लभ्यते । 
८. भरतकृतनाट्यशास्त्रीयनियमानां सर्वत्र समभावेनानादरः ।
९. नाट्यनिर्देशस्य अभावः समानः ।
१०. एषां सर्वेषां रुपकाणां नामानि केवलमन्त एव ग्रन्थस्य लभ्यन्ते नान्यत्र क्वापि ।

यद्यपि बहवो विद्वांसो गुणपतिशास्त्रिणा प्र्काशितानि सर्वाण्यपि रुपकाणि प्रचीनभासकृतानीत्युक्तवन्तः प्रमाणानि चोपस्थापितवन्तः, परन्तुजातेन बहुविधानुसन्धानेनेषां कर्त्ता प्राचीनो भासो न सिद्ध्यति, यतो भासकृतत्वेनोदाहृतानि पद्यानि लभ्यमानग्रन्थेषु नासाद्यन्ते, अतः सर्वाण्यपीमानि रुपवाणि केरलदेशीयेन केनचित् कविना कृतानीति सुवचम् । मदृ मदृ रामावतारशर्माऽपि लभ्यमानरुपकाणामंशविशेष एव भासकृता इति मन्यते । अत एव चैषां केरल एवोपलब्धिरिति समुपन्यस्यति तदुपोद्बलकं प्रमाणम् । केरलीया नटा अद्यापि भासनाटकान्यभिनीय लोकान् रञ्जयन्ति ।
	
अस्यां स्थितौ युक्तमिदं यद् भासद्वयं मन्यताम्, तत्रैकः प्राचीनो भासो ये महा रुविकालिदासादिना स्मृतः । अपरश्च केरलीयो नवो द्वादशशताब्दीसमुद्भवो भासो यस्य रुपकाणि  चतुर्दश मदृमगणपतिशास्त्रिभिः प्रकाश्यं नीतानि ।

बहूनां रुपकाणां लेखको भासो जीवनस्य विविधानि क्षेत्राणि दृशोः पात्रतां नित्वानिति वक्तुं सुशकम्, अत एव चास्य रुपकेषु विविधता समायाता । एतदीयकृतिषु कतिचन नाटकानि पूर्णवि कसितानि नाटकानि, यथा- स्वप्नवासवदत्तम्, प्रतिज्ञायौगन्धरायणम्, प्रतिमानाटकञ्च । मध्यमव्याव्योगदूतघटोत्कचद्वतवाक्यकर्णभारोरुभङ्गानि एकाङ्करुपकाणि कथयितुं शक्यन्ते । भासस्य रुपकेषु अभिनययोग्यतैवासाधारमभावेन स्थिता सती तानि प्रख्यापयति । अभिनेयताहेतवश्च –एषां रुपकाणामादितोऽन्तं यावदभिनये सौकर्यम्, सुबोधा सरला संक्षेपवती च वाक्यावलिः, वर्णनविरहः, अविस्तृतानि पात्राणां कथनोपकथनानि, इत्यादिकाः सर्वेषु रुपकेषु दृश्यन्ते । भासः संवादतत्त्वाभिज्ञ इति तदीयाः कृतयः संवादसौष्ठवं बिभ्रति सर्वत्र सुलभम् । भासो व्रिजेषु रुपकेषु स्वाधारभूताः कथास्तयैवोपन्यस्यापि केवलेन सरलत्वकथनोपकथनचातुर्यादियोजनेन तानि स्मवीयतां प्रापयतीति भासस्य नाटकनिर्माणनैपुण्यं सुखमवगन्तुं शक्यम् ।

भासस्य कृतयोऽन्येषां कृतिभिः सह साम्यं बिभ्रति । यथा –शाकुन्तले चर्त्येऽङ्के वृक्षलतादीन् प्रति शकुन्तलाया यः कोमलो मनोभावः –‘पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु य इत्यादिना वर्णितस्तत्तुल्य एव भासस्याभिषेके ‘यस्यां न प्रियमण्डनापि महिषी देवस्यमन्दोदरी’ इत्यादौ मनोभावो वर्ण्यते । यथा शाकुन्तले आश्रमवासिनां पीडनं परिहर्तुमादिश्यते तथैव स्वप्नवासवदत्ते – ‘न परुषमाश्रमवासिषु प्रयोज्यम् ’ इत्यादिश्य समानं दृश्यते । तथैव स्वप्नवासदत्ते- ‘ श्रुतिसुखनिददे कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता’ इति वीणादौर्भाग्यमाक्रुश्यते ।
एवमेव शूद्रकस्य मृच्छकटिकेन सह चारुदत्तस्य सर्वाशगतं सादृश्यमासाद्यते । तदत्र केन कस्याधमर्ण्यं गृहीतमिति विचारे क्रियमाणे कालिदासशुद्रकौ एवोत्तमर्णो भास एव तयोः अधमर्ण इति मम विश्वासस्तत्रायं भासोद् द्वितीयो भास इति च । प्रथमो भासः कालिदासादीनां पाथि प्रदर्शकः सम्भवति, परं तदीयाः कृतयः नोपलभ्यन्ते , यश्चायं केरलीयो रुपकसमूहः स तु नवस्य भासस्य एव हि मन्यमाने सर्वमप्युपपन्नं भवतीति ।

स्वप्नवासवदत्तस्य षष्ठाङ्कस्य अन्ते भरतवाक्यम्, यथा-

चारुदत्तनाटकस्य प्रथमाङ्के १३तमः श्लोकः, यथा-

(महाकवि भासरचितं नाटकं मध्यमव्यायोगात् गृहीतम् )
भासस्य कालः ई०पू०  पञ्चमशताब्दिः इति मन्यन्ते इतिहासकाराः।
तस्य नाटकानि अद्यापि कूडियाट्टेन प्रशासितानि।

(ततः प्रविशति सुतत्रयकलत्रसहितः केशवदासः पृष्ठतः घटोत्कचः च )
घटोत्कचः -- भो वृद्ध । इहैव तिष्ठ।पदम् अपि अग्रे न गन्तव्यम् ।
वृद्धः -- भो पुरुष।किमर्थम् अस्मान् अग्रे गमनात् निवारयसि?
घटोत्कचः -- मम माता उपवास निसर्गार्थम् एकं मानुषं माम् आनेतुम् आदिशत् ।अतः अहं भवत्सु एकं नेष्यामि।
वृद्धः-- प्रिये नास्ति मोक्षः राक्षसात् ।अहमेव अनेन सह गच्छामि। मया सांसारिक भोगाः भुक्ताः।अतः निज शरीर दानेन कुलं रक्षितुम् इच्छामि।
घटोत्कचः -- अपसरतु भवान् ।मम माता वृद्धं नेच्छति।
पत्नी-- आर्य । तर्हि मम शरीरेण रक्षितव्यम् कुलम्।
घटोत्कचः -- नहि नहि स्त्री जनो न अभिमतः तत्रभवत्या।
प्रथमः पुत्रः-- ज्येष्ठोऽहं कुलस्य रक्षणार्थे प्राणान् दातुमिच्छामि।
तृतीयः पुत्रः-- ज्येष्ठः भवान् कुलं पालयतु। अहं प्राणान् ददामि।
द्वितीयः पुत्रः-- त्वं कनिष्ठोऽसि ।तव प्राण त्यागः नोचितः।(घटोत्कचं प्रति) भो पुरुष ।अहं त्वया सह चलामि।
घटोत्कचः -- प्रीतोऽस्मि आगच्छ चलावःद्वितीयः पुत्रः-- क्षणं तिष्ठतु भवान् ।वनान्तरे जलाशयात् अहं पिपासां शमयितुं इच्छामि।
घटोत्कचः -- गत्वा पिपासां शमय। शीघ्रं आगन्तव्यम्।अतिक्रामति मातुः आहारवेला।द्वितीय पुत्रः--भो तात ।एष गच्छामि। (निष्क्रान्तः)
घटोत्कचः -- चिरायते कुमारः ।(ज्येष्ठं प्रति) अयि कुमार ।किं नाम तव भ्रातुः?प्रथम पुत्रः-- तस्य नाम मध्यमः इति।
घटोत्कचः -- भो मध्यम , मध्यम ।शीघ्रं आगच्छ।( ततः प्रविशति भीमसेनः )
भीमसेनः--कोऽयं मध्यम मध्यम इति शब्दैः मम व्यायामविघ्नं उत्पादयति । अस्तु पश्यामि ।(घटोत्कचं दृष्ट्वा ) भो पुरुष ।ब्रुहि किमर्थं माम् आह्वयसि ?अहं अस्मि मध्यमः।
घटोत्कचः -- (आत्मगतम्) न खलु अयं कुमारः।किम् एषः अपि मध्यमः? (प्रकाशम्) अहं मध्यमं शब्दापयामि।
भीमसेनः--अतः खल्वहं प्राप्तः।
घटोत्कचः -- किं भवान् अपि मध्यमः?
भीमसेनः--न तावदपरः। अहमेव भ्रातृणां मध्यमः।
वृद्धः--भो मध्यम।अस्मान् परित्रायस्व ।एष राक्षसः अस्मान् हन्तुमिच्छति'।
भीमसेनः--भो पुरुष। किमर्थं वृद्धस्य परिवारं त्रासयसि ? मुञ्च एनम्।
घटोत्कचः--न मुञ्चामि । मातुराज्ञया गृहीतोऽयम्।भीमसेनः--(आत्मगतम्) कथं मातुराज्ञया इति।
माता किल मनुष्याणां देवतानां च दैवतम्।
मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः।।
(प्रकाशम्)किं नाम भवतः माता?
घटोत्कचः--हिडिम्बा।
भीमसेनः--(आत्मगतम्) एवम् हिडिम्बायाः पुत्रोऽयम्।सदृशो हि अस्य गर्वः।(घटोत्कचं प्रति) आदेशय गृहमार्गम्।
घटोत्कचः--अनुसरतु माम्। (सर्वे परिक्रामन्ति) भोः इदमस्माकम् गृहम्।( गृहं प्रविश्य अम्बां प्रति) अम्ब। आनीतः तब चिराभिलसितः मानुषः।
हिडिम्बा-- (भीमसेनम् अवलोक्य) जयतु आर्यपुत्रः ।
घटोत्कचः--भवति कोऽयम्?
हिडिम्बा-- उन्मत्तक । दैवतम् अस्माकम्।अभिवादय पितरम्।
घटोत्कचः--तात। घटोत्कचोऽहम् अभिवादये।मम चापलं क्षन्तुमर्हसि।
भीमसेनः--एहि पुत्र एहि ।(उभौ परिष्वजतः)वृद्धः-- भो वृकोदर । रक्षितमस्मत्कुलम्, स्वकुलमुद्धृतं च । गच्छामस्तावत्।( निष्क्रान्तः सकलपुत्रः केशवदासः)
भीमसेनः--हिडिम्बे । वत्स घटोत्कच ।इतस्तावत् ।केशवदासं आश्रमपद द्वारमात्रं त्यक्त्वा सम्मावयिष्यामः।( सर्वे निष्क्रान्तः)




#Article 164: कणादः (163 words)


इदानीं न्यायशास्त्रं यत् दृश्यते तत् ११ शताब्दात् पूर्वं न्यायदर्शनं वैशेषिकदर्शनं चेति द्विधा विभक्तम् आसीत् । वैशेषिकदर्शनस्य प्रवर्तकः एव कणादः । कणादेन वैशेषिकसूत्राणि रचितानि । एतेषां वैशेषिकसूत्राणाम् आधारेण एव वैशेषिकदर्शनं प्रवृद्धम् ।
'विशेषः' इति पदार्थः कश्चन अङ्गीकृतः इत्यतः एतत् 'वैशेषिकम्' इति उच्यते । साड्ख्यशास्त्रं प्राचीनम् । ततः एतस्मिन् शास्त्रे विशेषः अस्ति इत्यतः एतत् 'वैशेषिकम्'इति केषाञ्चित् अभिप्रायः ।
कणादः सप्तमशतकात् पूर्वम् आसीत् इति पण्डिताः वदन्ति । क्षेत्रस्थान् कणान् (धान्यानि) सङ्गृह्य एषः अत्ति (खादति)स्म इत्यतः एतस्य् नाम 'क्णादः' इति जातम् इति कथा प्रसिद्धा । कणादस्य तपसा सन्तुष्टः भगवान् ईश्वरः उलूकरूपेण आगत्य शास्त्रम् उपदिष्टवान् इत्यतः कणाददर्शनम् 'औलूक्यदर्शनम्' इत्यपि प्रसिद्धम् अस्ति | परमाणुः, द्व्यणुकम्, त्र्यणुकम् इत्यादीनि निरूपितानि सन्ति कणादेन |

कणाद: - स: कश्यप:, कणाद: तथा काणभुक् इत्यपि नाम्ना परिचित:|स: पुरातन भारतीय प्राकृतिक विज्ञानी तथा तत्वज्ञिनी आसीत्| भारतीय तत्वशास्त्रस्य वैशेषिक विभागस्य शालाम् स्थापितवान् यत् भारतीय भौतशास्त्रस्य प्राथमिकपरिचयम् अभवत्| कणाद महर्षे: कालम् क्रि पू ६ शतमानत: २ शतमान मध्ये इति चिन्तितम्। तस्य जीवन विषये बहु न ज्ञातम्। तस्य साम्प्रदायिक नाम: कणद इति - तदर्थ: परमाणु भक्ष्क: इति। स: भौ




#Article 165: शारदालिपिः (262 words)


शारदालिपिः( Sharada वा Śāradā script) कश्मीरप्रदेशस्य  एका पुरातनी लिपिः । इयं च लिपिः प्राचीनब्राह्मीलिपेः परिवृत्तं रूपम्  ।

शारदालिपेः उपयोगः भारतीय-उपमहाद्वीपस्य उत्तरपश्चिमप्रदेशपर्यन्तं सीमितः आसीत् । शारदालिपेः उद्भवकालः प्रायः क्रैस्तवीय तृतीयशतके अभूत् । क्रैस्तवीय नवशतकतः पञ्चदशशतकपर्यन्तम् अस्याः लिपेः स्वर्णयुगः आसीत् । चीनदेशीयपर्याटकः 'अल् बरुणी' स्वभारतभ्रमणविषयकग्रन्थे अस्याः लिपेर्नाम सिद्धमातृका इति उल्लिखितवान् । अस्य कारणमासीत् शारदावर्णमालायाः प्रारम्भः सर्वदा ओम् स्वस्ति सिद्धम् इति लेखनपश्चात् एव भवति । कश्मीरप्रदेशस्य अधिष्ठात्री देवी 'शारदा' ततः प्रदेशस्य नाम 'शारदादेशः' 'शारदमण्डलम्' वा उच्यते स्म । वस्तुतः शारदादेशे उयुज्यमाना लिपिः 'शारदा' नामप्राप्ता इति विद्वज्जनमतम् । पञ्चदशशतकानन्तरं शारदालिपेः प्रयोगः बहुन्यूनः अभवत् । नागरी-गुरुमुखी-टाकरीलिपीणां जननस्रोतः एषा एव लिपिः । 

दक्षिण-एशियाभूखण्डस्य हिमालयपार्वत्यप्रदेशस्य प्राचीनलिपिषु 'शारदा' अतीव समादृता । उत्तरब्राह्मीलिपितः अस्याः लिपेर्जन्म जातम् इति विदुषां मतम् । एषा लिपिः बहुषु देशेषु (पाकिस्ताने,अफगानिस्ताने, कज़ाकिस्ताने अपि) प्रचलिता आसीत् । शारदालिपिना रचिताः बहुपाण्डुलिपयः विभिन्नदेशेषु विद्यन्ते । शारदालिपिना रचितमातृकानां सम्पादनतः तथा शिलालेखोद्धारतः हिमालयप्रदेशस्य संस्कृतिः इतिहासश्च इतोपि सुस्पष्टतया ज्ञायते । 

काबुलप्रदेशे (वर्तमाने अफगानिस्ताने) प्राप्तशिलालेखतः प्रसिद्धस्य हिन्दुराजवंशस्य विषये ज्ञायते । 'ओहिन्द'-'गिल्गिट्' राजवंशयोः इतिहासोऽपि अस्याः लिपेः आविष्करणानन्तरं ज्ञातः । क्रैस्तवीय नवमशतकानन्तरवर्तीकाले भाषासाहित्ये तथा विविधशास्त्रेषु कश्मीरप्रदेशः मूर्धनीरूपेण स्थितः आसीत् एवं बह्व्यः कृतयः अनया लिपिना रचिताः आसन् । न तु केवलं शास्त्रकृतयः राजाभिलेखा-राजमुद्रास्वपि शारदालिपेः प्रयोगः आसीत् । एतादृशानि गूढकारणानि अस्याः लिपेः सूक्ष्माध्ययनं प्रति शोधकर्तारं प्रेरयति । प्राचीनब्राह्मी तथा खरोष्ठीलिपिसदृशः अस्याः लिपेर्कालः प्रारम्भिकमध्ययुगे आसीत् । प्राचीनयुगतः मध्ययुगीय-सामाजिकपरिवर्तनकाले एषा लिपिः संयोगसूत्ररूपेण स्थिता । तदानीन्तनस्य हिमालयप्रदेशस्य साहित्य-संस्कृतेः वाहिका एषा एव लिपिः आसीत् । दौर्भाग्यवशतः क्रैस्तवीय पञ्चदश-शतकानन्तरवर्तीकाले एषा गुरुत्वपूर्णा लिपिः लुप्ता जाता ।   
 

ब्राह्मीलिपिः प्राचीनभारतस्य राष्ट्रियलिपिरासीत् । एषा लिपिः समयावर्तनेन सह बहुपरिवर्तनस्य स्तराणाम् अतिक्रमणं कृतवती । शारदालिपेरपि विकृतयः आगतासीत् ततः पृथक् लिपीनां जननम् अभवत् । शारदालिपेः प्रतिनिधिलिपयः यथा- नागरीलिपिः, बाङ्गलालिपिः, ओडियालिपिः, माराठीलिपिः इत्याद्याः । वस्तुतः एताः लिपयः उत्तरब्राह्मीतः विकासिताः आसन् । 

 




#Article 166: भरतनाट्यम् (260 words)


एषा भारतस्य शास्त्रीया नृत्यपद्धतिः अस्ति। भरतनाट्यस्य आकर्षकं मनमोहकं पदविन्यासं दृष्ट्वा को वा रसिकः प्रमुदितः न स्यात्? भरतनाट्यम् एतत् स्वयं ब्रह्मणा एव सृष्टम्।

कदाचित् देवाः गन्धर्वाः च ब्रह्मणः समीपं गत्वा निवेदितवन्तः -सर्वाणि अपि इन्द्रियाणि सन्तुष्टानि यथा स्युः तथा कश्चन सुन्दरः पञ्चमः वेदः स्रष्टव्यः इति। तदा ब्रह्मा चतुर्भ्यः अपि वेदेभ्यः एकैकम् अंशम् उद्धृत्य नाट्यवेदं सृष्टवान्। ऋग्वेदात् पाठ्यं, यजुर्वेदतः अभिनयं, सामवेदतः सङ्गीतम्, अथर्ववेदतः रसं च स्वीकृत्य नाट्यवेदं रचितवान् ।
ततः एतं भरतमुनये दत्त्वा सः उक्तवान् -एतत् मानवान् बोधयतु इति। रूपकं नाट्यं सङ्गीतं इत्यादीनि तन्त्राणि च योजयित्वा भरतमुनिः नाट्यशास्त्रं रचितवान्। अतः एतत् नाट्यं भरतनाट्यत्वेन प्रसिद्धम् अभवत् ।

 
भरतनाट्यम् अतीप्राचीनः भारतीयः नृत्यप्रकारः। एतस्य नाट्यस्य विविधाः भङ्ग्यः तमिळ्नाडुकर्णाटकराज्यीयमन्दिरेषु उत्कीर्णानि दृश्यन्ते। 'शिलप्प्दिकारं' 'मणिमेखलै' इत्येतयोः प्राचीनतमिळुकृत्योः एतस्य नाट्यस्य उल्लेखः दृश्यते। एते कृती सङ्गंकालीने। भगवान् शिवः नाट्यशास्त्रस्य अधिदेवः इति तु भारतीयः विश्वासः। शिवः पार्वती च एतस्य नाट्यस्य विविधभङ्गीः रूपितवन्तौ। शीघ्रगत्या शिवेन क्रियमाणं नृत्यं ताण्डवनृत्यम् इति उच्यते। तदेव आनन्देन क्रियमाणम् उच्यते -आनन्दताण्डवम् इति। तदेव रौद्ररसोपेतं सत् निर्दिश्यते -रुद्रतण्डवम् इति। पार्वत्या क्रियमाणं तदेव नाट्यं कोमलं सत् लास्यम् इति उच्यते।

भरतनाट्यवसरे यानि गीतानि गीयन्ते तेषां विषयः पुराणकथादिभ्यः चीयते। यः गीतानि गायति सः उच्यते 'नट्टुवाङ्गः' इति। मृदङ्गः वीणाविशेषः च गानावसरे अन्याभ्यां वाद्यते। प्रायः पूर्वं देवदास्यः भरतनाट्यस्य प्रदर्शनं कुर्वन्ति स्म। राजास्थानेषु राजनृत्याङ्गनाः एतत् नृत्यं दर्शयन्ति स्म। बहवः तमिळुनाडुराजाः एतस्य नृत्यस्य प्रोत्साहनं कृतवन्तः। दौर्भाग्यवशात् क्रिस्तीयविंशतिशतकस्य आरम्भकाले एतस्य नृत्यप्रकारस्य विशेषह्रासः दृष्टः। शासननियमैः देवदासीपद्धत्याः निवारणार्थं प्रयासाः प्रवृत्ताः । किन्तु भरतनाट्यप्रियाणां बहूनां परिश्रमस्य फलरूपेण कालक्रमेण अस्य प्रसारः अधिकः सञ्जातः । भारतस्य स्वातन्त्र्यप्राप्तेः अनन्तरं ई कृष्णाय्यर् बालसरस्वती, रुक्मिणी अरुण्डेल्, कलानिधिः, शान्ताराव् इत्यादयः एतस्य प्रचारार्थं प्रसारार्थं च विशेषं परिश्रमं कृतवन्तः।

भरतनाट्ये यानि अक्षराणि तेषु भावशब्दात् भकारः, रागशब्दात् रकारः, तालशब्दात् तकारः च स्वीकृतः। एवं भरतनाट्ये भावरागतालनृत्यानां सङ्गमः भवति।

भारतीयकलाः
भारतीयनृत्यप्रकाराः
भरतमुनिः




#Article 167: कूचिपुडी (396 words)


आन्ध्रप्रदेशराज्ये कृष्णामण्डले कुचिपुडी इति ग्रामः अस्ति ।

अयं भारतस्य शास्त्रीयनृत्यभेदेषु अन्यतमः। कूचिपुडी पदम् आङ्ग्लम् - Kuchipudi, తెలుగు : కూచిపూడి 
अस्य मूलं तु भारतदेशस्य आन्ध्रप्रदेशः। दक्षिणभारतस्य अन्यराज्येषु अपि अयं नृत्यप्रकारः प्रसिद्धः अस्ति । कूचिपुडी इति आन्ध्रप्रदेशस्य कृष्णाणमण्डले गङ्गासागरस्य (बङ्गालकोल्लि) तटप्रदेशे विद्यमानः कश्चन ग्रामः । तत्र वसन्तः विप्रजनाः एतत् नृत्यम् अभ्यस्यन्ति स्म । अतः अस्य नृत्यस्य कूचिपुडी इति नाम रूढिगतम् । 

कूचिपुडीनृत्यप्रदर्शनं रङ्गमञ्चे कैश्चन कलापैः सह आरभ्यते । प्रत्येकं नृत्यपटुः अपि वेदिकामागत्य गीतनृत्यादिभिः एव स्वपरिचयं श्रावयति । अनेन नृत्यनाटिकायाः कलाकारस्य तस्य पात्रस्य च सन्निवेशानां परिचयः सहृदयाणां भवति । नृत्यार्थं गीतगानेन सह कर्णाटकशास्त्रीयसङ्गीतस्य शैल्या वाद्योपकरणानि नादयन्ति । मृदङ्गम्।मृदङ्गं, बाहुलीना (वयोलिन्), वेणुः, तम्बूरः मन्द्रतन्त्री इत्यादीनां वाद्यानां सहयोगः अपि भवति । कलाविदः बुरुगु  इति काष्टनिर्मिताभरणानि धरन्ति । 

कूचिपुडीनृत्यस्य चलनं वेगगतौ भवति । पृष्टभूमौ कर्णटकसङ्गीतस्य वाद्यानां सहयोगः भवति एव । अस्मिन् नृत्ये भारतस्नाट्यस्य केचन अंशाः सम्मिलिताः । अस्य प्रदर्शनस्य कूचिपुडीगानेषु जतिस्वरः तिल्लानः च भवतः । नृत्यस्य गीतेषु कश्चित् भक्तः भगवति लीनः भवितुम् इच्छति इति भागः भवति । कूचिपुडीभरतनाट्ययोः पादन्यासेषु शैली भिन्ना भवति । कूचिपुडीनृत्यकलायाम् अपूर्वाणि विशिष्टानि नृत्यरूपाणि सन्ति । अत्र विशेषेण ’तरङ्गम्’ इति प्रकारः अस्ति । अत्र नर्तकः/नर्तिका पित्तलस्य स्थालिकायाः धारायां स्थित्वा स्थालिकां भ्रामयन् नृत्यं करोति । एतादृशनृत्यावसरे हस्तयोः तैलदीपौ शिरसि जलकलशः च भवन्ति । उभयरूपस्य नृत्ययोः वस्त्रविन्यासे सूक्ष्मः भेदः अस्ति । सामान्यतः भरतनृत्यस्य वेशभूषायां दीर्घाणि त्रिपुटानि भवन्ति । शाटिकायाः पुटानि वितृतानि इव दृश्यन्ते । किन्तु कूचिपुडीनृत्यप्रकारस्य वेशभूषायां केवलम् एकमेवपुटं दीर्घं च भवति । पौनपौन्येन कूचिपुडीनृत्यप्रकारे विंशतितमं करणम् उपयोजयन्ति । अत्र षट् प्रभेदाः भवन्ति । कूचिपुडी कलाविदः 'चौक' 'कट्टरनडु' 'कुप्पि अडगु' 'ओण्टडवु' 'जरडुवु' 'पक्कनाटु' इत्यादीनाम् उपयोगं कुर्वन्ति । 

कूचिपुडीकलाविदः गीतानाम् अनुगुणम् चित्ताकर्षकेण भावाभिनयेन त्वरितकटाक्षेण मुखविन्यासेन च रसभावान् निरूपयन्ति । तरङ्गे नृत्यकारः जलकलशं शिरसि संस्थाप्य पित्तलस्थालिकायाः धारायां स्थित्वा नृत्यति ।  पृष्ठभूमेः गानं सर्वजनपरिचितस्य कृष्णलीलातरङ्गिणीग्रन्थतः उद्धृतं भवति । इयं सन्निवेशः श्रीकृष्णस्य जीवनम् अवतारान् च निरूपयति । सगाननृत्येषु कलाकारः भामाकलापम् इति नृत्यनाटिकायां श्रीकृष्णस्य राज्ञ्याः सत्यभामायाः पात्रं निरूपयति । सत्यभामा प्रेमालापस्य विविधश्रेणिषु सञ्चलति । कूचिपुडीनृत्यप्रकारे कृष्णशब्दम् इति किञ्चित् गीतम् उल्लेखनीयम् अस्ति यत्र क्षिरविक्रेत्री गोपिका विविधरीत्या कृष्णम् आह्वयति । अत्र नृत्याङ्गनाः अत्याकर्षकं नृत्यं निरूपयन्ति ।

कूचिपुडीनृत्यं न केवलं भारते देशे प्रसृतम् अस्ति किन्तु उत्तर-अमेरिका, युनैटेड् किङ्ग्डम्, आस्ट्रेलिया इत्यादिषु अन्यदेशेषु अपि व्याप्तम् अस्ति । तत्रापि कृतपरिश्रमाः कूचिपुडीनृत्यकलाविदः प्रशिक्षकाः निदेशकाः च सन्ति ।

द्विशताधिकाः नृत्यगुरवः २८००सङ्ख्याकाः कूचिपुडीकलाविदः क्रि.श.२०१०तमे वर्षे डिसेम्बरमासस्य २६दिनाङ्के हैदराबाद् (भाग्यनगरे) जि.एम्.सि.बालयोगी क्रीडाङ्गणे हिन्दोलस्य तथा तिल्लानानामिकायाः नृत्यगतेः प्रदर्शनं कृत्वा विश्वस्तरीयं गिन्निस् अभिलेखं निर्मितवन्तः । कूचिपुडीनृत्यनिदेशकस्य कार्याणि प्रशंसितुम् समग्रभारतस्य सर्वराज्येभ्यः १५देशेभ्यः च आगताः नृत्यकलाविदः उपस्थिताः आसन् । अन्ताराष्ट्रियकूचिपुडीमहासम्मेलनस्य अङ्गतया ११निमेषाणां नृत्यकार्यक्रमः सञ्चालितः । कुचिपुडीनृत्यपरिणताः वेम्पटि चिन्नसत्यम्, यामिनी कृष्णमूर्तिः राजा रेड्डिः राधा रेड्डिः शोभा नायिडु च राष्ट्रपतिपुरस्कारं प्राप्तवन्तः ।




#Article 168: मणिपुरीनृत्यम् (256 words)


इदं भारतस्य शास्त्रीयनृत्येषु अन्यतमा पद्धतिः अस्ति। मणिपुरे नृत्यम् अपि जीवनस्य अविभाज्यम् अङ्गं भवति। मणिपुरम् इति शब्दस्य अर्थः रत्नानां नगरी इति ।पूर्वम् एषः प्रदेशः गन्धर्वाणां विद्याधरादीनां वा वासभूमिः आसीत् इति श्रूयते। तत्कारणतः एव स्यात् मणिपुरीयाणां सर्वेषाम् अपि नृत्ये आसक्तिः अधिका । मणिपुरीनृत्यं मणिपुरराज्यम् इव एव परमसुन्दरम् । भरतस्य उत्तरपूर्वीयभागे पर्वतानां मध्ये स्थितस्य मणिपुरस्य सौन्दर्यं वर्णनातीतम्।
मणिपुरीनृत्ये चीनादेशस्य प्रभावः स्फुटतया दृश्यते। सप्तमे क्रिस्तशके चीनादेशीयाः अत्र आक्रमणं कृत्वा वासं कृतवन्तः। स्थानीयजनाः तैः परिणीताः अपि। तत्कारणतः नूतना इन्डो-मुङ्गोलियन् जनजातिः एव निर्मिता अभवत्।

एषः नृत्यप्रकारः अतिप्राचिनः। विंशतिशतकस्य पूर्वार्धे प्रसिद्धः बङ्गालीयः कविः रवीन्द्रनाथठागोरः समग्रे देशे एतस्य नृत्यप्रकारस्य जनप्रियतां कल्पितवान्।१९२० तमे वर्षे मच्चिमपुरे तेन ऐदम्प्राथम्येन एतत् नृत्यं दृष्टम्। ततः सः नितराम् आकृष्टः।
तदनन्तरकाले कलाशिक्षणार्थम् एव संस्थापितस्य शान्तिनिकेतनस्य पाठ्यक्रमे मणिपुरीनृत्यप्रकारम् अपि सः योजितवान्। 

मणिपुरीनृत्यस्य जानपदीयः साम्प्रदायिकः आधुनिकः च प्रकारः समग्रतया निसर्गसम्बद्धः मणिपुरीनृत्यप्रकारेषु प्रसिद्धेषु अन्यतमः अस्ति 'रासः'। सः राधाकृष्णयोः प्रेमजीवनकथाम् अवलम्बते।
मणिपुरीनृत्यम् एकव्यक्तिप्रदर्शनयोग्यं यथा, तथैव सामूहिकम् अपि । 'दोलयात्रा'  'होलिपर्व' इत्यादिषु प्रसङ्गेषु तत्रत्यैः सामूहिकं नृत्यं क्रियते । एतादृशेषु नृत्येषु महिलाः पुरुषाः चापि सोत्साहं भागं वहन्ति।
'राखुवल्'नामकं नृत्यं पुरुषैः एव प्रदर्श्यते। कृष्णः स्वस्य अनुचरैः सह यत् व्यवहृतवान् तां कथाम् अवलम्बते। वर्णमयः वेषः नृत्यस्य सवेगगतिं भूषयति। 'लै-हरौबा' इत्येतत् अपरं सामूहिकं नृत्यम्। यथा प्रेमसम्बन्धिनी 'लैलामजनूकथा' 'हीरारञ्जाकथा' च सुप्रसिद्धा तथैव 'खम्बा-तोयबि'कथा अत्र प्रसिद्धा। सा एतस्मिन् नृत्ये प्रदर्श्यते।
पुरुषैः प्रदर्श्यमानम् मणिपुरीनृत्यं वेगयुक्तम्, उपवेशनोत्थानादि-अङ्गचालनयुक्तं च। 'खोल'नामकस्य वाद्यस्य ध्वनेः अनुगुणं तेषां नृत्यप्रकाराणां पदानां निवेशः भवति।
एतानि नृत्यानि प्रायः मधुरगानेन सहैव भवन्ति।  'खोल'नामकवाद्यं प्रायः सर्वेषु नृत्येषु उपयुज्यते। 'एकतारा' यथा तथैव एकतन्त्रियुक्तम् अपरं वाद्यम् अपि अत्र उपयुज्यते। एतयोः उपयोगतः तालवैशिष्ट्यम् उत्पद्यते। परमोच्चनीचतालभेदः, तारमन्द्रस्वरभेदः इत्यादयः महता वेगेन यत् परिवर्तन्ते तत् द्रष्टृषु महान्तम् आनन्दम् उत्साहं च जनयति। मणिपुरीयनृत्यकाराः (पुरुषाः) कदाचित् खोलवाद्यं खञ्जरीवाद्यं च स्वयं गृह्णन्ति नृत्यावसरे।




#Article 169: जैमिनिः (307 words)


भगवान् महर्षिर्जैमिनिर्जनिं लब्ध्वा परमकारुणिको श्रुत्यर्थतात्पर्यनिर्णये विभ्रान्तपिपासूनामाकाङ्क्षातृष्णाशान्तये कौत्सकुलमलञ्चकार। महाभागोऽयं भगवत्कृष्णद्वैपायनपाराशर्यव्यासशिष्यः आसीत्। तदुद्धृतं नीलकण्ठशास्त्रिणा ‘Jaimini and Badarayana’ इत्याख्ये निबन्धे− ‘सोऽयं प्राजापत्यो विधिः ताम् इमां प्रजापतिः बृहस्पतये प्रोवाच, बृहस्पतिर्नारदाय, नारदो विश्वकसेनाय, विश्वकसेनो व्यासाय पाराशर्याय, व्यासः पाराशर्यो जैमिनये, जैमिनिः पौष्पिण्ड्याय पाराशर्यायणाय...’ इति। व्यासः स्वशिष्याय जैमिनये सामवेदं प्रददौ इति श्रीमद्भागवताद्विज्ञायते−

	

	अवतीर्णो महाभागो वेदञ्चक्रे चतुर्विधम्॥

	तेषां स चतुरः शिष्यान् उपाहूय महामतिः।

	एकैकां संहितां ब्रह्मन् एकैकस्मै ददौ विभुः॥

	साम्नां जैमिनये प्राह ततः छन्दोगसंहिताम्॥’ (श्रीमद्भागवतम्- २.६.४९,५५) इति।

महर्षिरयं जनमेजयायोजितसर्पसत्रस्योद्गाता आसीदिति भारताज्ज्ञायते−

	                          ‘उद्गाता ब्राह्मणो वृद्धो विद्वान् कौत्सोऽथ जैमिनिः’ (महाभारतम्- १.५३.६) इति।

महर्षिर्जैमिनिः कुत्रत्यः आसीदित्यस्मिन् विषये स्फुटं तथ्यं किमपि नोपलभ्यते।

भारतीयविदुषां समयनिर्धारणतिकष्टसाध्यं, यतस्तैः स्वविषये किमपि न लिखितम्। अस्यां स्थितौ अन्यकृतैरुल्लेखैः अनुमानेन च प्राचां दार्शनिकानां समयो व्यवस्थापनीयो भवति। अस्मादेव हेतोः जैमिनेः समयविषयेऽपि मतभेदा विद्यन्ते−

१) कालिदासः रघुवंशे जैमिनिमुल्लिलेख− ‘महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा’ (रघुवंशम्- १८.३३) इति। अतःचतुर्थपञ्चमशतकीयात् कालिदासात् प्राचीनो जैमिनिरिति सिद्ध्यति।

२) जैमिनसूत्रभाष्यं विरचयता शबरेण पाणिनिकात्यायनौ स्मृतौ− ‘सद्वादित्वाच्च पाणिनेर्वचनं प्रमाणम्, असद्वादित्वान्न कात्यायनस्य’ (शाबरभाष्यम्- १०.८.१) इति। पी. वी. काणेमहोदयः पाणिनेः क्रिस्तपूर्वषष्ठशतकोत्पन्नत्वं मनुते, ततः अपि प्राक्तनो जैमिनिरिति सिध्यति।

३) आश्वलायनगृह्यसूत्रे जैमिनेरुल्लेखो वर्तते− ‘प्राचीनावीतिसुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारत-धर्माचार्या इति’ (आश्वलायनगृह्यसूत्रम्- ३.४.५) इति। आश्वलायनश्च पाणिनेरपि प्राचीनः। यतोहि आश्वलायनशब्दव्युत्पादनाय अश्वलशब्दात्फक्प्रत्ययविधानाय पाणिनिना नडादिगणे अश्वलशब्दस्य ग्रहणं कृतम्।

४) किञ्च पाणिनेर्गुरुः आसीदुपवर्षः इति प्रसिद्धिः। सोऽपि जैमिन्यपेक्षया अर्वाचीनः। यतोहि शबरेण मीमांसासूत्रभाष्ये  वृत्तिकारः भगवान् इत्याद्युपाधिना उपवर्षः सम्बोध्यते− ‘अथ गौरित्यत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवानुपवर्षः’ (शाबरभाष्यम्- १.१.५) इति। एवञ्च उपवर्षादपि जैमिनिः प्राचीनः।

एवं समीक्षया जैमिनिः ख्रीष्टपूर्वदशमशतकात् पूर्वमेव आसीत् न परतः इति सिद्ध्यति। गजाननमहोदयस्तु ५००० ई. पू. समये जैमिनिरासीदित्यभिप्रैति।

भगवता जैमिनिना द्वादशाध्यायात्मिका शताधिकाधिकरणोपेता सप्तविंशतिशतसूत्रात्मिका द्वादशलक्षणी निरमायि। ‘अत उपपन्नं जैमिनिवचनमाकृतिः शब्दार्थः’ (शाबरभाष्यम्- १.१.५) इति शबरवचनेन जैमिनेः सूत्रकर्तृकत्वं निर्विवादसिद्धम्। तत्र प्रथमेऽध्याये विध्यादेः प्रामाण्यं निरूपितं, द्वितीये तद्विधेयकर्मभेदः प्रपञ्चितः, तृतीये विहितानां शेषशेषिभावः, चतुर्थे क्रतुप्रयुक्तानुष्ठेयानां पुरुषार्थप्रयुक्तानुष्ठेयानां च पदार्थानां परिमाणं चिन्तितं, पञ्चमे अनुष्ठानक्रमचिन्ता, षष्ठे विहितकर्मफलभोक्तृत्वरूपाधिकरणनिरूपणं, सप्तमे प्रत्यक्षवचनातिदेशशेषनामलिङ्गातिदेशविचारः, अष्टमे स्पष्टास्पष्टप्रबललिङ्गा-तिदेशापवादविचारः, नवमे ऊहविचारारम्भसामोहमन्त्रोहतत्प्रसङ्गविचारः, दशमे बाधहेतुद्वारलोपविस्तारबाधकारणकार्यैकत्व-समुच्चयग्रहादिविचारः, एकादशे तन्त्रादिचिन्ता, द्वादशे प्रसङ्गतन्त्रिनिर्णयसमुच्चयविकल्पविचारः। जैमिनीयश्रौतसूत्रम्, जैमिनीयगृह्यसूत्रम् इत्यपि जैमिनेः कृतिरिति विद्वांसो वदन्ति। ज्यौतिषशास्त्रज्ञोऽयं ‘जैमिनीयसूत्रम्’ इति ग्रन्थं विरचयाञ्चक्रे इति सम्प्रदायः। अयञ्च ग्रन्थः काशीहिन्दुविश्वविद्यालयस्य भूतपूर्वज्यौतिषाध्यापकेन रामयत्न-ओझामहोदयेन चौखम्बाप्रकाशनतः प्रकाशितः।

अयञ्च गजेन मारितः इति पञ्चतन्त्रोपाख्यानाद्विज्ञायते− ‘मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम्’ इति।




#Article 170: आदिशङ्कराचार्यः (463 words)


शङ्कराचार्यः (मलयाळम्: ശങ്കരാചാര്യൻ,शङ्कराचार्यन्) (क्रिस्ताब्दम् ७८८ - क्रिस्ताब्दम् ८२०), यस्यान्ये अभिधाने शङ्करभगवत्पादाचार्यः तथा च आदिशङ्कराचार्यः इति । आदिशङ्कराचार्यः कश्चन भारतीयः दार्शनिकः आसीत्, येन अद्वैतवेदान्तस्य सिद्धान्तः दृढतया प्रोद्बलितः । अद्वैतवेदान्तः वेदान्तस्य उपसंप्रदायः वर्तते । पूर्वमीमांसा इत्यपि एतस्य अपरं नाम । अद्वैतवेदान्तानुसारं जीवब्रह्मणोः अभेदः ब्रह्मणः निर्गुणत्वञ्च उच्यते । शङ्करः समग्रभारतवर्षस्य यात्रां कृत्वा स्वकीयं दर्शनं प्रवचनेभ्यः  शास्त्रार्थेभ्यश्च प्रसारितवान् । सः दशनामी इति अद्वैतसंप्रदायस्य संघटनकर्ता मन्यते, तथा च षण्मत इति पूजनपरम्परायाः संस्थापकः मन्यते ।

संस्कृतेन रचिताः तस्य कृतयः, याः सर्वाः अपि अद्यापि प्राप्यमानाः, अद्वैतवेदान्तसिद्धान्तस्थापनविषयकाः सन्ति । सः उपनिषद्ब्रह्मसूत्रसम्मतस्य संन्यासस्य महत्तामपि प्रतिपादितवान्, यस्मिन् काले मीमांसा संप्रदायेन दृढं कर्मकाण्डं स्थापितमासीत् संन्यासश्च निन्दित: आसीत् । शङ्करः ब्रह्मविषये  उपनिषदः प्रामाण्यं प्रोक्तवान् । तथा च ब्रह्मसूत्राणाम्, उपनिषदां, भगवद्गीतायाः च भाष्यं लिखितवान् ।  कर्मवादस्स्य प्रवर्तकेन मण्डनमिश्रेण सह ज्ञानवादं मण्डयित्वा जितवान् ।

आचार्यशङ्करः अनेकान् ग्रन्थानपि लिखितवान् तेषु विवेकचूडामणिः, उपदेशसहस्री प्रपञ्चसारश्च प्रमुुुुुखाः सन्ति

केरळेषु पूर्णानद्यास्तीरे विद्यमाने कालटि ग्रामे स जज्ञे । सस्य शैशवे एव पिता शिवगुरुः दिवं प्रपेदे । अतः माता आर्यादेवी रक्षाधुरं वहन्ती शिशुं पोषयामास । असाधारणया मेधाशक्त्या स बालः सर्वान् अत्यवर्तत । पञ्चमे वयसि उपनीतः साङ्गान् वेदान् अधीते स्म । संन्यासाश्रमं प्रवेष्टुम् उत्कटेच्छा समजनि। परन्तु, माता नान्वमोदत ॥

एकस्मिन् दिने मात्रा सह पूर्णानदीं प्राप्य स्नानार्थम् अवतीर्णः । एकः ग्राहः तस्य पादं जग्राह । निनाय च नदीमध्यम् । तदवलोक्य तारं क्रन्दन्तीं मातरं स ऊचे । यदि सन्यासानुज्ञां मे दास्यसि तर्हि नूनं ग्राहो मोक्ष्यति इति । पुत्रं जीवन्तमिच्छन्ती सा कथञ्चित् अनुमेने ।  झटिति ग्राहशिशुं तीरोपकण्ठमानीय अमुञ्चत् ।

अथ विलम्बं विनैव स प्रव्रजितुं निरणौषीत् । यदा मां स्मरिष्यसि, तदा त्वामुपस्थास्यामि इति प्रतिश्रुत्य मातरं समाश्वासयन् गृहान्निरगाच्च ॥

स देशाद्देशं परिक्रममाणः नर्मदारोधसि स्थितं गौडपादाशिष्यं गोविन्दगुरुं प्रपेदे । परावरज्ञात् तस्मात् सकलाः विद्याः संन्यासञ्च जग्राह । तदनु तस्य गुरोः आज्ञया उपनिषदां ब्रह्मसूत्राणां गीतायाश्च भाष्याणि निर्ममे । अन्यानपि बहून् ग्रन्थान् निबबन्ध । तदनु गुरुणा अनुज्ञातः गौडपादेन चानुमोदितः कैश्चित् कुतार्किकैः कदर्थितं श्रौतं मतं सुप्रतिष्ठां नेतुं प्रायतत । प्रतिदेशं भ्रममाणः  विपक्षवादान् तिलशः खण्डयामास । वैदिकमद्वैतमतं सुदृढं समर्थयामास च । तत्र तत्रानेके शिष्याश्च तस्याभूवन् ॥

अनन्तरं स्वेन समर्थितं मतं प्रचारयन् शिष्यैः सह कञ्चन कालं श्रीकाशीमध्युवास । तस्य यशः दिक्षु विदिक्षु च विससार । अस्मिन् अवसरे गयायामासन्नमृत्योः कुमारिलभट्टस्य अनुज्ञानुगुणम् अयमाचार्यः माहिष्मतीमेत्य मीमांसकानामग्रगण्यस्य मण्डनमिश्रस्य सकाशे वादभिक्षामयाचत । याचनामङ्गीकृत्य मिश्रः वादाय सज्जः अभवत् । तेन सह सुदीर्घवादः प्रावर्तत । अन्ते आचार्यः मिश्रं जिगाय । पराजितो मिश्रः सबहुमानं  सभक्तिकञ्च आचार्यस्य शिष्यतां वव्रे । स एव सुरेश्वराचार्य इति प्रख्यातः ॥

एवमद्वैतमतं प्रतिष्ठापयन्  आचार्यः बदरिकाश्रमं गत्वा नारायणं समाराध्य तत्र कञ्चन मठं स्थापयामास । तथैव पश्चिमतः द्वारकायां, पूर्वतः पुर्यां दक्षिणतः शृङ्गगिरौ तुङ्गायास्तीरे च । तेषु चतुर्षु मठेषु यथाक्रमं स्वशिष्यान् तोटकं, हस्तामलकं, पद्मपादं, सुरेश्वरञ्च पीठाधिपतिरूपेण न्ययोजयत् । उपनिषदां सम्मतस्य अद्वैतमतस्य रक्षणे पोषणे च तानादिदेश च ॥

अत्रान्तरे आतुरया मात्रा स्मृतः योगशक्त्या तस्याः पुरस्तादाविरासीत् । उचिताभिः परिचर्याभिस्तां प्रातोषयत् । प्रत्यासन्नायां तस्याः प्राणानामुत्क्रान्तौ नूतनाभिः नूतिभिः प्रसादितदैवतैस्तामनुगृहीतां सुगतिञ्च वितेने । पारत्रिकाणि कृत्यानि च यथाविधि वितेने ॥

अथ स्वकृत्यं सर्वं कृतं मन्यमानः स काश्मीरदेशं प्रययौ । तत्र महाजनानां मनोरथं मानयन् सर्वज्ञपीठमधिष्ठानं भूषयामास । तदनु हिमालयस्थां दत्तात्रेयगुहां जगाह । ततस्सत्ये शिवे शाश्वते पदे तिरोदधे च ॥

आदिशङ्कराचार्यः (चलच्चित्रम्)




#Article 171: सरस्वती देवी (358 words)


ऋग्वेदे उल्लिखिता काचित् नदी एषा । सरः(जलम्) अस्त्यस्याः  इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या वाक् उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि शारदा, वागीश्वरी, ब्राह्मी, महाविद्या इत्यादीनि । सृष्टिकर्तुः ब्रह्मणः पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव ।  पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।

एषा देवी सर्वस्य ज्ञानस्य, कलानां, विज्ञानस्य च मूर्तं रूपम् उच्यते । अज्ञानम् अन्धकार इव कृष्णवर्णं ज्ञानं तु शुक्लवर्णम् । ज्ञानदायिनी सरस्वती शुक्लवर्णा शुक्लवस्त्रधारिणी च । अस्याः वाहनद्वयं हंसः मयूरश्च । चित्रेण पिच्छकलापेन मयूरः विचित्राणि प्रापञ्चिकसुखानि मानवं कथं मुक्तिपथात् दूरं विकृष्य अविद्यायाः कारणं भवेयुः इति सूचयतीव । नीरक्षीरविवेकवान् हंसस्तु परविद्यया एव मोक्षः इति वदतीव । परमात्मप्राप्तये स्वतन्त्रौ द्वौ मार्गौ स्तः – ‘ज्ञानमार्गः’ ‘भक्तिमार्गः’ चेति । अनयोः हस्तेन धृतेन पुस्तकेन ज्ञानमार्गं दर्शयति देवी । तथैव च वीणया भक्तिमार्गं दर्शयति । भक्तिमार्गेण आत्मदर्शनं भवति । भजनेन कीर्तनेन वा एकाग्रभक्तिः जायते तद्द्वारा परमात्मनि लीनो भवति पुरुषः ।

नवरात्रोत्सवे आदौ दिनत्रयं दुर्गापूजा भवति । अनन्तरं दिनत्रयं यावत्  लक्ष्मीपूजा भवति । अन्ते दिनत्रयं देव्याः सरस्वत्याः पूजा भवति । दुर्गापूजया दुर्गुणान् जित्वा लक्ष्मीपूजया च शमदमक्षमावात्सल्यादीन् अन्तस्सत्त्वगुणान् प्राप्य अन्ते शुद्धेन मनसा सरस्वतीं संपूज्य आत्मज्ञानं प्राप्नोति मनुष्यः । दशमे दिने अहङ्कारस्य प्रतिकृतेः दहनेन सह उत्सवः समाप्तिम् एष्यति । तदैव च विद्यारम्भः च भवति । मन्दबुद्धीनां सरस्वत्याः तत्त्वानि अधिकहितकराणि भवन्ति । बौद्धिकक्षमतायाः विकासनार्थं चित्तस्य चञ्चलतां दूरयितुं सरस्वतीसाधना विशेषतया प्रयोजनकारिणी वर्तते । मस्तिष्कतन्त्रसम्बद्धेषु अनिद्रा, शिरोवेदना, आयासः, पीनसः इत्यादिषु रोगेषु सरस्वतीसाधना प्रभावशालिनी भवति । चिन्तनशक्तेः अभावः, निर्णये द्वैविध्यम्, विस्मरणम्, दीर्घसूत्रता, सर्वविषयेषु अरुचिः, इत्यादीनि शमयितुम् अपि सरस्वत्याः आराधनम् आवश्यकं भवति । शिक्षायाः विषये जनमानसेषु अधिकोत्साहं जागरयितुम्, अध्यात्मिकस्वाध्यायस्य गम्भीरतायाः ज्ञापनार्थं सरस्वत्याः पुजनं भवति ।  धनार्जनस् , बलवर्धनस्य, साधनसङ्ग्रहस्य, आमोदप्रमोदस्य, च अपेक्षया बुद्धिशक्तिः अमूल्यं सम्पत् ।

सरस्वत्याः एकं मुखं चत्वारः बाहवः सन्ति । हस्तद्वये वीणा कलात्मकतायाः सञ्चारस्य च प्रतीका । एकेन हस्तेन ज्ञानस्य प्रतीकं पुस्तकं धरति । अपरेण हस्तेन  ईशनिष्ठायाः सात्त्विकतायाः च प्रतीकाम् अक्षमालां धरति । सौन्दर्यस्य मधुरस्वरस्य च प्रतीकः मयूरः अस्याः वाहनम् । सनातनधर्मानुयायिनः सर्वे अध्ययनस्य आरम्भात् पूर्वं सरस्वत्याः पूजां कुर्वन्ति ।




#Article 172: ब्रह्मा (240 words)


  

ब्रह्मा जगतः प्रवर्तकः । जगतः पालनकर्ता विष्णुः,संहारकर्ता शिवः तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते। किन्तु वेदान्तदर्शनस्य सर्वोच्चदिव्यसत्त्वा ब्रह्मोऽपलब्धिः योऽस्ति स तु भिन्नविषयः। ब्रह्मा अर्थात् प्रजापतिः ऋग्वेदे प्रधानदेवतात्वेन महिमामण्डितः। परन्तु संहिताकालस्य मुख्यदेवता अस्मिन् युगे गौणोऽभवत् । तथा गौणदेवता मुख्योऽभवत् । क्वचित् नवीनदेवतायाः परिकल्पनाऽप्यस्ति । ऋग्वेदस्य गौणदेवतासु प्रजापतिः अग्रगण्योऽस्ति । ऐतरेयब्राह्मणस्यारम्भे एव विष्णोः परमदेवत्वस्य सूचना प्राप्यते - 'अग्निर्वे देवानामवमो विष्णुः परमः। रुद्राय महादेवशब्दस्य प्रयोगः ब्राह्मणग्रन्थेषु स्पष्टतया उल्लिखितोऽअस्ति। प्रजापतेः पदं तु देवानाम् अग्रस्थानीयमस्ति । प्रजापतिरेव जगतः स्रष्टा अस्ति । प्रजापतिः देवानामपि स्रष्टाऽस्ति । प्रजापतिरेवास्य भूतलस्य सकलपदार्थानां सृष्टिकर्ताऽस्ति। स एव देवताः उत्पन्नं कृत्वा तासु बलस्य विभाजनं करोति । अनेन एव उर्जाविभागेन उदुम्बरवृक्षस्य जन्म बभूव । अतः प्रजापतेः महिमा ब्राह्मणग्रन्थेषु सर्वतो महीयानस्ति । 

संस्कृतव्याकरणदृष्ट्या 'ब्रह्मन्' इति प्रातिपदिकस्य पृथक् द्वे शब्दरूपे प्रचलतः। एकं रूपं 'ब्रह्मन्' इति नपुंसकलिङ्गे प्रचलति। यस्य कर्तरि प्रथमाया एकवचनर रूपं भवति ' ब्रह्म'। अस्य विशेष्यस्य साधारण-विमूर्तश्च द्वौ अर्थौ स्तः।
अपरपक्षे पुं-लिङ्गे ' ब्रह्मन् ' इति  शब्दरूपस्य प्रथमाएकवचनरूपं ' ब्रह्मा ' भवति। अस्य प्रयोगः जगतः प्रवर्तकरूपेण एव प्रसिद्ध:। अस्य विषयैव अस्माकं निबन्धः।

सृष्टेः प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते प्रजापतय एव मानवानाम् आदिपितरः भवन्ति। मनुस्मृतौ एतेषां नामानि वर्तन्ते।(मारीचि, अत्रिः, अङ्गिरसः, पुलस्तः, पुलहः, क्रतुजः, वशिष्टः, प्रचेतसः वा दक्षः, भृगुः, नारदश्च ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा अत्रि-धर्मयोः पितारूपेऽपि स्थितः।

ब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। सः एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा वेदाः इतरहस्तौ भवन्ति।       




#Article 173: शतरूपा (615 words)


शतरूपा मानवकुलस्य सर्वप्रथमा माता अदिदेवी अस्ति । एषा स्वयम्भुवमनोः पत्नी । मनुशतरूपाभ्याम् एव मनवस्य सृष्ठिः आरब्धा । ततो मनुष्या अजायन्त इति श्रुतिवाक्यम् । स्वयम्भुवमनुः शतरूपा च ब्रह्मणः शरिरात् सञ्जातौ । तस्य वामभागत् मनुः दक्षिणभागात् शररूपा उद्भूतौ । न केवलं मानवाः नैके सहस्रशः प्राणिनः अपि एतेयोः सन्तानानि एव इति बृहदारण्यकोपनिषत् वदति । 

शतरूपा अतीव लज्जावती बालिका असीत् । अग्रे जगति स्त्रीः नाम कथं भूयात् इति दर्शितवती आदर्शा नारी एषा । शतरूपा स्वेच्छानुसारं यत्किमपि रूपं धर्तुं शक्नोति स्म । मनोः प्रथमसन्दर्शनावसरे तस्य दृष्टेः गोपयितुं शतधा रूपाणि धृतवती । तथापि सः स्वयम्भूमनुः शतरूपेषु अपि ताम् अभिज्ञातवान् । सा तत् रूपं धरति तेनैव रूपेण मनुः तां सन्दृष्टवान् । एवं सा शतशः रुपाणि प्राप्तवती इति तस्याः शातरूपा इति नाम । सा यस्य यस्य प्राणिनः रूपं धृतवती तस्य तस्य सन्तानमपि लोकाय अर्पितवती । स्वसन्तानेषु प्राणिषु दायां प्रीतिं च दर्शयन्ती इयं मानवस्त्रीः पशवः कथं दृष्टव्याः इत्यपि बोधितवती । 

स्वयम्भवः मनुः ब्रह्मावर्तस्य राजा अभवत् । सकलाभिः सम्पद्भिः समृद्धा बहिर्ष्मती नगरम् अस्य रजधानी आसीत् । श्रीमन्नारायणः यदा वराहरुपेण भूमिमातरं रसातलात् उन्नीतवान् ततः तस्य शीरीरात् उन्मूलाः केशाः भूमौ अपतन् । ते एव अग्रे कुशकाशाः अभवन् । कुशस्य अपरं नाम बर्हिष् इति । अस्य प्रथमदर्शनम् अस्मिन् स्थाने अभवत् इति अस्य नगरस्य बाहिर्ष्मती इति नाम प्राप्तम् । अस्मिन्नेव नगरे शतरूपा स्वभर्त्रा स्वम्भुवमनुना सह अवसत् । शतरूपा पत्निधर्मं सुचारुरूपेण पालितवती । पत्या पर्मानुरक्ता सा स्वदेशस्य नगराणि प्रजाः पशुसम्पदः वृक्षसम्पदः आदरेण पश्यति स्म । महाराज्ञी शतरूपा  प्रतिदिनं प्रेमपूर्णहृदयेन भगवतः पुण्यकथाः कथनम्, तस्य नामसङ्कीर्तनम्, पूजाचरणम् इत्यदिभिः धार्मिककार्यैः कालं यापयति स्म । एवं भारतीय़ा नारी सन्मार्गे कथं वर्तयेत्  इति प्रदर्शयन्ती लोकादर्शा असीत् ।  स्वभर्त्रा सह सद्धर्मपालनम् अकरोत् । अतः अद्यापि वेदाः एतां बहुमानयन्ति । 

स्वायम्भुवमनुः शतरूपा च दम्पत्योः पुत्रौ तिस्रः पुत्र्यः अभवन् । पुत्रयोः नामनि उत्तानपादः प्रियव्रतः च । पित्रीणां नामानि आकूतिः, प्रसूतिः देवहूति च इति । अस्य उत्तनपादस्य पुत्रः एव प्रसिद्धः भक्तबालः ध्रुवः ।                                                                                                 मनोः द्वितीयः पुत्रः प्रियव्रतः एतत् भूमण्डलं सप्त खण्डरुपेण विभज्य उत्तमां प्रशासनव्यवस्थाम् अकल्पयत् । पुत्रिषु प्रथमा आकूतिः रुचिप्रजापतिं पतिम् अभजत । द्वितीया पुत्री प्रसूतिः दक्षप्रजापतिम् ऊढवती । स्वायम्भुमन्वन्तरस्य अयं दक्षः पत्न्या प्रसूत्या २४पुत्रीरत्नानि प्राप्य अग्रे ऋषिसन्तानार्थमपि कारणिकः अभवत् । मनोः तृतीयां पुत्रीं देवहूतिं कर्दममहर्षिः परिणीतवान् । अनयोः धर्मदाम्पत्यफलस्वरूपेण देवहूत्याः गर्भात् साङ्ख्याशास्त्रस्य प्रणेता भगवत्स्वरूपी कपिलमहर्षिः अवतीर्णः । स्वपुत्रिभिः पतिगृहे कथं वर्तनीयम् इति शातरूपा सम्यक् उपदिष्टवती । भर्तृगृहे कर्तव्यपालनम्, नियमानुसरणम्, कार्यनिष्ठा इत्यादयः नीतिसंहिताः बोधितवती । स्वायम्भुमनुः बहुकालं स्वराज्यं धर्मेमार्गेण परिपालितवान् । भगवतः नियमानुसारं शास्त्रोक्तरीत्या राज्यं प्रशासितुं शतरूपा स्वपतेः सर्वविधसहाय्यं कृतवती । अनेकवर्षाणि राज्यं प्रशासति तस्मिन् वैराग्योदयः नाभवत् । एतत् दृष्ट्वा पत्नी शतरूपा पतिं जागरितवती । तदनन्तरं स्वपुत्रम् उत्तानपादं आग्रहपूर्वकं सिंहासने उपावेश्य शतरूपया सह वानप्रस्थं स्वीकृत्य अरण्यम् अगच्छत् । स्वायम्भुमनुः पत्न्या सह सहस्राधिकवर्षाणि उग्रं तपः आचरन् भगवतः दर्शनं प्राप्तवान् । तस्य भगवतः मनोहरं रूपं लीलामोहनकृपाकटाक्षं मणिमयाभूषणं च दृष्ट्वा आत्मानं कृतार्थम् अमन्यत । आनन्दतुन्दिलौ तौ दम्पती तस्य परमात्मनः चरणं संस्पृश्य अनमताम् । तयोः मस्तके स्पृशन् भगवान् वरं वरयताम् इति अवदत् । तदा मनुः. हे प्राणदातः भवतः दर्शनमात्रेणैव अस्माकम् सर्वाभिलाषाः सम्पूरिताः किन्तु हृदयस्य कोणे काचिदेका आशा अस्ति भवतः समानं कञ्चन पुत्रम् अनुगृह्णातु इति प्रार्थयत् । मत्सदृशपुत्रं कुतः अन्विष्य आनयामि अतः अहमेव तव पुत्रत्वेन जनिष्यामि इत्यवदत् । भवत्याः इष्टानुसारं वरं वरय इति भगवान् शतरूपाम् अवदत् । तदा साध्वी सा मम पत्युः अपेक्षा एव मम अतीव प्रिया तथापि कञ्चन अन्यं वरं प्रार्थये। यथाहं पत्या सह पतिव्रताजीवनं यापितवती तथैव भविष्यति काले लोकस्य सर्वाः पतिव्रतानार्यः सुखजीवनं यापयन्तु, बुद्धिमतिषु स्त्रीषु सर्वकालेषु सद्विवेकः तिष्ठतु, तासां भवति उत्तमा भक्तिः भवतु एवं भवान् अनुगृह्णातु इति वरम् अयाचत् । तदा भगवान् तथास्तु मातः इति उक्त्वा तां मातृरूपेण स्वीकृत्य अन्तर्धानमगच्छत् । माता स्वार्थं विहाय परार्थे जीवन्ती कथं जीवनस्य सार्थक्यं पश्येत् इति शातरूपा स्वजीवनम् एव दृष्टन्तीकृतवती । इयं महापतिव्रता शातरूपा भूमण्डलस्य जनानाम् एवम् आदर्शप्राया अभवत् । अलौकिकश्रद्धाभक्तितपोभिः भगवन्तम् एव पुत्ररूपेण प्राप्तवती । भगवतः आज्ञानुसारं कञित्कालम् एतौ दम्पती ऎन्द्रलोके अवसताम् । कालक्रमेण स्वायम्भुमनुः अयोध्यायाः दशरथचक्रवर्ती अभवत् । शतरूपा तस्य पत्न्याः कौसल्यायाः रुपेण आगता परमात्मरूपिणं श्रीरामम् असूत । एवं शतरूपा लोकमाङ्गल्यार्थम् अविरता परिश्रान्ता जगतः प्रथमा महिलेति प्रथिता । मातुः वात्सल्यस्य पत्युः कर्तव्यस्य प्रतीका अभवत् ।




#Article 174: सुभद्रा कुमारी चौहान (1602 words)


सुभद्रा कुमारी चौहान ( ) (, )हिन्दीभाषासाहित्यस्य एका सुप्रसिद्धा कवयित्री, लेखिका च । तया काव्यसङ्ग्रहद्वयं, कथासङ्ग्रहत्रयं च लिखितम् । किन्तु ’झांसी की रानी’ इत्यस्मै काव्याय सा जनेषु प्रसिद्धा जाता । तया भारतदेशस्य स्वतन्त्रतायाः आन्दोलने अपि भागः गृहीतः । आन्दोलनसमये कारावासस्य यातनाः अपि तया असह्यन्त । तदनन्तरं तया तासां यातनानाम् अनुभूतयः अपि स्वेन रचितासु कथासु वर्णिताः । तस्याः भाषाशैली सरला काव्यात्मिका च अस्ति । अतः तस्याः काव्यानि कथाः च हृदयङ्गमाः सन्ति ।

सुभद्रा कुमारी चौहान इत्यस्याः जन्म १९०४ तमस्य वर्षस्य अगस्त-मासस्य १६ तमे दिनाङ्के (१६/०८/१९०४) उत्तरप्रदेशराज्यस्य इलाहाबादमण्डलस्य निहालपुर-ग्रामे अभवत् । तस्मिन् दिवसे नागपञ्चमी-उत्सवः आसीत् । तस्याः  पितुः नाम रामनाथसिंह आसीत् । सः भूमिपतिः (ज़मीनदार) आसीत् । तस्याः तिस्रः भगिन्यः, द्वौ भ्रातरौ च आस्ताम् ।

शिक्षणप्रेमिणः पितुः मार्गदर्शने सुभद्रायाः प्रारम्भिकं शिक्षणं सम्पन्नम् । तया क्रास्थवेट् गर्ल्स् कॉलेज् इत्यत्र शिक्षणं प्राप्तम् । नवमीं कक्षां यावत् एव तया शिक्षणं प्राप्तम् । काव्यरचनायां तस्याः अभिरुचिः आसीत्,अतः बाल्यकालादेव तया अनेकानि काव्यानि रचितानि । तेषु काव्येषु ’सुभद्राकुंवरी’ नामकं प्रथमं काव्यं सुभद्रया १९१३ तमे वर्षे रचितम् । ’मर्यादा’ नामिकायां साप्ताहिक्यां तस्य काव्यस्य प्रकाशनम् अभवत् । तदा सा नववर्षीया एव आसीत् । सुभद्रा चञ्चला कुशाग्रबुद्धिमती आसीत् । तस्मात् हेतोः कक्षायां छात्रेषु प्रथमं क्रमाङ्कं प्राप्नोति स्म । तीक्ष्णबुद्धिबलेन तया पुरस्काराः अपि प्राप्ताः । तीक्ष्णबुद्धियुता सुभद्रा द्रुततरं न्यूनप्रयासेन एव काव्यानि रचयितुं शक्नोति स्म । विद्यालयस्य गृहकार्ये यदि काव्यलेखनस्य कार्यं भवति तर्हि विद्यालयात् गृहपर्यन्ते मार्गे एव सा काव्यरचनां करोति स्म ।

१९१९ तमे वर्षे खण्डवा-नगरस्य ठाकुर लक्ष्मणसिंह इत्यनेन सह सुभद्रायाः विवाहः अभवत् । जबलपुर-नगरे माखनलाल चतुर्वेदी नामकः सम्पादकः ’कर्मवीर’ नामकस्य पत्रस्य प्रकाशनं करोति स्म । तस्यां संस्थायाम् एव लक्ष्मणसिंहः वृत्तिं (job) प्राप्तवान् । अतः लक्ष्मणसिंहः मध्यप्रदेशराज्यस्य जबलपुर-नगरे निवसाय आगतवन्तौ । श्वश्रोः अनुशासने सुभद्रा केवलं गृहिणी इव निवसितुं नेच्छति स्म । तस्याः हृदये  समाजाय देशाय च कार्याणाम् उत्साहः, तेजः च आसीत् । किन्तु श्वसुरालये किमपि सम्भवं नासीत् । सुभद्रायाः लेखनस्य प्रतिभां दृष्ट्वा लक्ष्मणसिंहः अपि अस्मिन् कार्ये साहाय्यं करोति स्म । लक्ष्मणसिंहः सुभद्रायाः सफलतायै बहून् प्रयत्नान् करोति स्म । अतः सा पत्या सह जबलपुर-नगरम् आगतवती । तत्र सा पुत्रीद्वयं, पुत्रत्रयं च अजीजनत् । १ सुधा चौहान, २ अजय चौहान, ३ विजय चौहान, ४ अशोक चौहान, ५ ममता चौहान च । तेषु सुधा, अजयः, विजयः, अशोकः च मृतः । किन्तु ममता चौहान वर्तमाने न्युयॉर्क-नगरे निवसति । अजय-विजय इत्येतयोः पत्न्यौ वर्तमाने मध्यप्रदेशराज्यस्य जबलपुर-नगरे निवसतः ।

सुभद्रा बाल्याकालादेव निर्भया, साहसी, विद्रोहिणी च आसीत् । सा बाल्यकालादेव अशिक्षा- अन्धविश्वासेत्यादीनां विरोधं कृतवती । विवाहानन्तरम् अपि समाजसेवायै, देशसेवायै च कार्यरता आसीत् । स्वस्याः व्यक्तिगतस्वार्थं विहाय देशसेवायै संलग्ना अभवत् । माखनलालचतुर्वेदिनः मार्गदर्शने सुभद्रा स्वतन्त्रतायाः राष्ट्रिये आन्दोलने कार्यरता आसीत् । विवाहस्य सार्धवर्षानन्तरं सुभद्रा महात्मगान्धीमहोदयस्य असहयोगान्दोलने भागं गृहीतवती । तस्मिन् आन्दोलने तस्याः महद् योगदानम् आसीत् । सा तस्मिन् आन्दोलने प्रथमा महिला क्रान्तिकारिणी आसीत् । द्विवारं सा कारागारम् अपि गतवती । सा स्वकाव्यैः स्वतन्त्रतायाः आन्दोलनस्य नेतृत्वम् उद्दीपितवती ।

१९२०-२१ तमे वर्षे सुभद्रा लक्षमण सिंह इति इमौ अखिल भारतीय कॉङ्ग्रेस कमेटी इत्यस्य पक्षस्य सदस्यौ अभवताम् । नागपुर कॉङ्ग्रेस अधिवेशन इत्यस्मिन् अपि तौ भागं गृहीतवन्तौ । तौ प्रतिगृहे कॉङ्ग्रेस-पक्षस्य प्रचारं कुरुतः स्म । इमां समाजसेवां कर्तुं सामान्यव्यक्तित्वस्य आवश्यकता वर्तते । किन्तु सुभद्रायाः जीवनं सामान्यम् एव आसीत् । अतः सा श्वेतखादी इत्यस्य शाटिका धरति स्म । एकदा साधारणवेशाभूषायां दृष्ट्वा महात्मा गान्धी सुभद्रां पृष्टवान् – भगिनि ! भवत्याः विवाहः अभवत् ? सुभद्रा अकथयत् – आम् । तदा महात्मा खिन्नः जातः । महात्मा उक्तवान् – किमर्थं भवती श्वेतवस्त्रं धरति ? हस्ते कङ्कणानि अपि न सन्ति ? मस्तके सिन्दूरम् अपि नास्ति ? खिन्नः सन् महात्मा अवदत् – श्वः तान् अलङ्कारान्, शाटिकां च धृत्वा एव आगच्छतु इति । सुभद्रायाः मनः स्नेहि, स्वभावेन निश्छलञ्च आसीत् । अतः सर्वे तस्याम् अस्निह्यन् । स्वतन्त्रायाः कार्ये अपि जनाः तस्याः सम्माननं कुर्वन्ति स्म ।

१९२२ तमे वर्षे जबलपुर-नगरे झण्डासत्याग्रहनामकः भारतदेशस्य प्रथमः सत्याग्रहः अभवत् । तस्मिन् सत्याग्रहे सुभद्रा प्रथमा महिला सत्याग्रहिणी आसीत् । सत्याग्रहे प्रतिदिनं गोष्ठ्यः भवन्ति स्म । गोष्ठीसु क्रान्तिकारिणः स्वतन्त्रतायै जनान् बोधयितुं भाषणं कुर्वन्ति स्म । सुभद्रा अपि गोष्ठीसु भाषणं करोति स्म । तेन कारणेन टाईम्स् ऑफ् इण्डिया इत्यस्य समाचारपत्रस्य वृत्तान्तलेखकेन स्वस्य लेखे ’लोकल सरोजिनी’ इति नाम्ना सुभद्रायाः उल्लेखः कृतः ।

१९१७ तमे वर्षे अमृतसर-नगरे जलियावाला नामके उद्याने हत्याकाण्डः अभवत् । अस्य हत्याकाण्डस्य प्रभावः सुभद्रायाः मनसि अभवत् । तेन कारणेन तया त्रीणि आग्नेयकाव्यानि लिखितानि । तेषु काव्येषु ’जलियावाला बाग में वसन्त’ इत्यस्मिन् काव्ये तया लिखितं यत् –

भारतदेशाय प्रेम सुभद्रायाः मनसि तु अस्ति किन्तु काव्ये अपि प्राप्यते । १९२० तमे वर्षे यदा महात्म गान्धीमहोदयस्य नेतृत्वे आन्दोलनानि चलन्ति आसन्, तदा सुभद्रा लक्ष्मणसिंहः इत्येतौ द्वौ स्वतन्त्रता-आन्दोलने जागरूकौ आस्ताम् । देशसेवायै द्वाभ्यां महान्ति कार्याणि कृतानि ।

सुभद्रा कुमारी चौहान इत्यनया स्वस्य जीवने ८८ काव्यानि, ४६ कथाः च रचिताः सन्ति । ’झांसी की रानी’ नामकं तस्याः एकं सुप्रसिद्धं काव्यम् अस्ति । तेन कारणेन सा प्रख्याता जाता । किन्तु तेन काव्येन तस्याः अन्याः रचनाः गौणाः अभवन् ।यतः
कस्यापि लेखकस्य एका रचना यदि बहुचर्चिता भवेत् तर्हि शेषाः रचनाः प्रायः गौणाः भवन्ति इति बहुमतम् । यथा चलचित्रजगति प्रसिद्धेन अभिनेत्रा अमिताभबच्चन इत्यनेन अपि नैकानि काव्यानि रचितानि सन्ति । किन्तु तस्य ’मधुशाला’ नामकं काव्यं जनेषु बहुप्रसिद्धम् अस्ति । अतः तस्य अन्यानि काव्यानि गौणानि अभवन् ।

सुभद्रा हिन्दीसाहित्यजगति लोकप्रिया सुप्रतिष्ठिता व्यापृता च वर्तते । १९३० तमे वर्षे तया ’मुकुल’ नामकः काव्यसङ्ग्रहः रचितः आसीत् । तस्याः लोकप्रियता बहु आसीत् । अतः तस्य काव्यसङ्ग्रहस्य षष्ठसंस्करणं तस्याः जीवनकाले एव प्रकाशितम् । तया विशिष्टानि चयनीयानि काव्यानि ’त्रिधारा’ नामके काव्यसङ्ग्रहे प्रकाशितानि । तेषु ’झांसी की रानी’ वर्तमाने अपि जनेषु बहुप्रसिद्धम् अस्ति । राष्ट्रियान्दोलने संलग्ना सती सा बहुवारं कारागारं गतवती । किन्तु तथापि तया त्रयः कथासङ्ग्रहाः रचिताः ।

१९३२ तमे वर्षे सुभद्रा कुमारी चौहान इत्यनया रचितः ’बिखरे मोती’ नामकः प्रथमः कथासङ्ग्रहः प्रकाशितो जातः । तस्मिन् कथासङ्ग्रहे (१)भग्नावशेष, (२)होली, (३)पापी पेट, (४)मंझली रानी, (५)परिवर्तन, (६)दृष्टिकोण, (७)कदम के फूल, (८)किस्मत, (९)मछुये की बेटी, (१०)एकादशी, (११)आहुति, (१२)थाती, (१३)अमराई, (१४)अनुरोध, (१५)ग्रामीणा च एताः पञ्चदश-कथाः सन्ति । एतासां कथानां भाषा सरला, व्यावहारिकी च वर्तते । एतासु अधिकतमाः कथाः नारीविमर्शे आधारिताः सन्ति ।

१९३४ तमे वर्षे तस्याः ’उन्मादिनी’ नामकः द्वितीयः कथासङ्ग्रहः प्रकाशितो जातः । तस्मिन् (१)उन्मादिनी, (२)असमञ्जस, (३)अभियुक्त, (४)सोने की कण्ठी, (५)नारी हृदय, (६)पवित्र ईर्ष्या, (७)अङ्गुठी की खोज, (८)चढा दिमाग, (९)वेश्या की लडकी इत्येताः नव-कथाः सन्ति । एतासु कथासु पारिवारिकाणि सामजिकानि च परिदृश्यानि वर्तन्ते ।

१९४७ तमे वर्षे ’सीधे-सादे चित्र’ नामकः तृतीयः कथासङ्ग्रहः प्रकाशितो जातः । अयं तस्याः अन्तिमः कथासङ्ग्रहः आसीत् । रूपा, कैलाशी नानी, बिआल्हा, कल्याणी, दो साथी, प्रोफेसर मित्रा, दुराचारी, मङ्गला च इत्येतासु कथासु स्त्रीणां कुटुम्बस्य, समाजस्य च समस्याः सन्ति । हीङ्गवाला, राही, ताङ्गे वाला, गुलाबसिंह इत्येताः कथाः राष्ट्रियविषयेषु आधारिताः सन्ति ।

सुभद्रया स्वस्याः काव्येषु भारतीयसंस्कृतेः प्राणतत्वानां, धर्मनिरपेक्षसमाजस्य निर्माणाय, साम्प्रदायिकस्य सद्भावस्य वातावरणस्य निर्माणाय अपि प्रयत्नाः कृताः सन्ति –

सुभद्रया रचितं ’वीरों का कैसा हो वसन्त’ नामकं काव्यं प्रसिद्धम् अस्ति । तस्मिन् काव्ये देशाय जोषः दृश्यते । तस्य काव्यस्य शब्दरचना, भावगाम्भीर्यं च अद्भुतम् अस्ति । स्वदेश के प्रति, विजयादशमी, विदाई, सेनानी का स्वागत, झांसी की रानी की सधि मापर, जलियांवाले बाग में बसन्त इत्यादिषु काव्येषु अपि देशप्रेम दृश्यते ।

राष्ट्रभाषायै अपि तस्याः मनसि प्रेम आसीत् । अतः तया राष्ट्रभाषायाः महत्त्वम् अपि स्वकाव्येषु  प्रदर्शितम् अस्ति । ’मातृ मन्दिर में’ इति नामके काव्ये तस्याः विचाराः दृश्यते –

सुभद्रायाः जीवनं सरलम् आसीत् । प्रेम एव सुभद्रायाः काव्यानां द्वितीयः आधारस्तम्भः आसीत् । इदं प्रेम द्विमुखि अस्ति । बाल्यप्रेम दाम्पत्यप्रेम च । तृतीयप्रेम्णे तस्याः जीवने स्थानमेव नासीत् ।

बाल्यप्रेमाधारितानि तया अनेकानि काव्यानि रचितानि सन्ति । तासु कवितासु बाल्यजीवनस्य स्मृतयः मधुरतापूर्वकं वर्णिताः सन्ति । 

तानि रचितानि काव्यानि शैशवसम्बन्धीनि सन्ति । तेषु काव्येषु पुत्र्याः अपि प्राधान्यं वर्तते । अतः सुभद्रया एतेषां काव्यानां माध्यमेन भ्रूणहत्यायाः विरोधः कृतः । उच्यते यत् – यदा तस्याः पुत्र्याः विवाहः अभवत्, तदा तया स्वस्याः पुत्र्याः कन्यादानं न कृतम् । सा उक्तवती- ’कन्या काऽपि वस्तु नास्ति’ इति । अतः तस्याः दानं कथं कर्तुं शक्नुमः । एतादृशः विचाराः तस्याः काव्येषु अपि उल्लिखिताः सन्ति ।

दाम्पत्यप्रेमविषयकानि अनेकानि प्रेम-काव्यानि अपि तया रचितानि सन्ति । तेषु” आहत की अभिलाषा, प्रेम शृङ्खला, अपराधी है कौन, दण्ड का भागी बनता कौन” इत्यादीनि दाम्पत्यप्रेम-काव्यानि सन्ति । तेषु ’प्रियतम से’ नामके काव्ये दाम्पत्यजीवनस्य कश्चित् अंशः दृश्यते –

सा प्रकृतिप्रिया अपि आसीत् । “ नीम, फूल के प्रति, मुरझाया फूल” इत्यादिषु काव्येषु तया प्रकृतेः विशिष्टवर्णनं कृतम् अस्ति । अतः एव सुभद्रा कुमारी चौहान इत्यस्याः काव्यानि व्यापकानि सन्ति ।

सुभद्रायाः हृदये निस्सीमं मातृत्वम् आसीत् । बालकैः प्रेरितया सुभद्रया अनेकानि बालकाव्यानि रचितानि सन्ति । एतेषु काव्येषु राष्ट्रभावः अपि वर्तते । ’सभा का खेल’ अस्मिन् काव्ये अपि क्रीडाभिः राष्ट्रियभावनायाः सा प्रयासं कृतवती -

अस्मिन् काव्ये बालकानां क्रीडा, गान्धीमहोदयस्य सन्देशः, नेहरुमहोदयस्य च मनसि गान्धीमहोदयाय प्रेम, साम्प्रदायिकैकतायाः विचारः इत्यादीनां विषये सुवर्णितम् अस्ति ।

प्रसिद्धेन हिन्दीभाषायाः कविना गजाननमाधवमुक्तिबोध इत्यनेन सुभद्रायाः प्रशंसा कृता । राष्ट्रियकाव्ये तस्य ख्यातिः विशिष्टा वर्तते ।

प्रसिद्धसाहित्यकारस्य प्रेमचन्द्रस्य पुत्रेण अमृतराय इत्यनेन सह सुभद्रायाः पुत्र्याः सुधा चौहान इत्यस्याः विवाहः अभवत् । अमृतराय स्वयम् एकः सुलेखकः आसीत् । सुधा अपि एका लेखिका आसीत् । तया एव सुभद्रायाः जीवनचरित्रं ’मिला तेज से तेज’ इत्यस्यां रचनायां लिखितम् अस्ति । सुभद्रायाः अधिकतमं जीवनं राजनीतिकार्ये व्यतीतम् । सा नगरस्य पुरातनी कार्यकर्त्री आसीत् ।

१९३०-३१, १९४१-४२ तमे वर्षे जबलपुर-नगरस्य सभासु अनेकाः स्त्रियः सम्मिलिताः अभवन् । तेन कारणेन स्त्रियः जागृताः जाताः । तस्य सम्पूर्णं श्रेयः सुभद्रायाः आसीत् । १९२० तमात् वर्षात् एव सा समाजस्य अनेकेषु कार्येषु संलग्ना अभवत् । तेन कारणेन सा नारीसमाजस्य पूर्णविश्वासं प्राप्तवती ।

यदा सुभद्रा काव्यानि लिखति स्म, तदा सम्पादकः तेषां काव्यानां धनं न ददाति स्म । सम्पादकः कथानाम् अपेक्षां करोति स्म । अतः सुभद्रया कथालेखनस्य आरम्भः कृतः । सम्पादकः तासां कथानां धनम् अपि ददाति स्म । समाजस्य अनीतिनां वेदनानाम् अभिव्यक्तिः गद्येषु एव भवितुं शक्नोति स्म । अतः सुभद्रा कथाः अलिखत् । तस्याः कथासु देशप्रेम्णा सह समाजस्य विद्रूपता, सङ्घर्षरतायाः नार्याः पीडा च दृश्यते । एकस्मिन् वर्षे एव तया ’बिखरे मोती’ नामकः कथा-सङ्ग्रहः निर्मितः । तस्य सङ्ग्रहस्य प्रकाशनार्थं सा इलाहाबाद-नगरं गतवती । ’बिखरे मोती’ नामकेन कथा-सङ्ग्रहेण सा सेकसरिया-पुरस्कारं प्राप्तवती । तस्याः अधिकतमाः कथाः सत्यघटनाधारिताः सन्ति ।

इदं काव्यं सुभद्रायाः अन्तिमं काव्यम् आसीत् ।

१९४८ तमस्य वर्षस्य फरवरी-मासस्य चतुर्दशे(१४) दिनाङ्के (१४/०२/१९४८) नागपुर-नगरे शिक्षाविभागे एका गोष्ठी आसीत् । सा रेल-यानेन गन्तुम् इच्छति स्म । किन्तु नागपुर-नगरस्थः अधिकारी तां कार-यानेन आगन्तुम् उपदिष्टवान् । गोष्ठ्यानन्तरं १९४८ तमे वर्षे फरवरी-मासस्य पञ्चदशे(१५) दिनाङ्के(१५/०२/१९४८) सा जबलपुर-नगरम् आगन्तुं नागपुरनगरं त्यक्तवती । तस्याः पुत्रः अपि तया सह एव आसीत् । सः कार-यानं चालयति स्म । सहसा कार-यानस्य अग्रे कुक्कुटशावाः आगतवन्तः । सुभद्रा कुक्कुटशावकानां रक्षणार्थं पुत्रम् आदिष्टवती । तेन कारणेन कार-यानस्य एकेन वृक्षेण सह संघट्टः जातः । तस्मिन् दिवसे सुभद्रायाः मृत्युः अभवत् । तदा सा ४४ वर्षीया एव आसीत् ।




#Article 175: कर्णाटकसङ्गीतम् (491 words)


भारतीयसाम्प्रदायिकसङ्गीतस्य प्रकारद्वयम् -कर्णाटकसङ्गीतं,हिन्दुस्थानीसङ्गीतम् । कर्णाटकशास्त्रीयसङ्गीतं (Carnatic Classical Music) दक्षिणभारते विद्यमान: प्रकार:।  उत्तरभारतस्य सङ्गीतप्रकार: हिन्दुस्थानीसङ्गीतं इति प्रसिद्धम् ।

संस्कृतवाङ्मये विद्यमानौ ज्ञानराशौ सङ्गीतशास्त्रमपि अन्यतमम् । भारतीयसङ्गीतशास्त्रस्य विषये सामवेदे छान्दोग्योपनिषदि बृहदारण्यकोपनिषदि च विवरणानि उपलभ्यन्ते । अतः सङ्गीतशास्त्रस्य विकासः क्रि. पू. द्वितीयशतमानतः पूर्वादेव दृश्यते । अस्याः पुरातनकलायाः विषये उल्लेखः विविधदेवानां कथासु बहुधा दृश्यते । श्वेतकमलासना वीणापाणी धृतपुस्तका धृतजपमाला सरस्वती देवी सङ्गीतकलायाः आराध्यदेवता अस्ति । सङ्गीतशास्त्रस्य मूलऋषिः अस्ति भरतमुनिः । एतां गन्धर्वविद्यां भरतमुनिः अप्सरसाः अपाठयत् । नारदमुनिः मानवान् अपाठयत् इति पुराणेषु उल्लेखः लभ्यते ।

वेदोपनिषत्सु पुराणेषु च सङ्गीतशास्त्रस्य उल्लेखः आसीत् इत्येतस्य प्रमाणम् उपलभ्यते पाणिनेः (क्रि.पू. ३७६) ग्रन्थेषु । अयम् अंशः रामायणे (क्रि.पू. ४००) महाभारते  च उल्लिखितः अस्ति । 
सङ्गीतशास्त्रस्य आकरग्रन्थः वर्तते - शाङ्ञदेवेन विरचितः सङ्गीतरत्नाकरः (१३ शतमानम्) । अयं ग्रन्थः वाग्गेयकाराणां सङ्गीतज्ञानां सङ्गीतजिज्ञासूनाञ्च परमसाहायकः ग्रन्थः वर्तते ।
कर्णाटकसङ्गीतं प्रमुखतः दक्षिण भारतस्य कर्णाटक-तमिळनाडु-केरळ-आन्ध्रप्रदेशेषु दृश्यते । अस्मिन् प्रकारे गायनस्य, अभिगीतसङ्गीतस्य च प्रामुख्यं भवति । यदा वाद्येभ्य: वादितं, तदापि 'गायकी'रीत्या (यथा अभिगीतं तथा) वादितं भवति ।
हिन्दुस्थानी, कर्णाटकीयप्रकारौ श्रुति-स्वर-ताल-रागाधारितौ । हिन्दुस्थानी सङ्गीतॆ रागस्य विस्तारण गायनस्य प्रामुख्यं भवति । परन्तु कर्णाटक सङ्गीतॆ भक्ति, विद्या, एवं तत्व बोधन साहित्य कृतीनाम् अथवा कीर्तनानां प्रामुख्यं भवति । साहित्यस्य उपयोगेन रागभावविस्तृतगानं 'नेरवल्' इति प्रसिद्धम् । एषा कीर्तनशैली १६ तथा २० तमशतकयो: मध्ये पुरन्दरदास:-त्यागराजस्वामिन:-मुद्दुस्वामिदीक्षितवर्य:-श्यामशास्त्रि: -इत्यादिभि: विकासिता । पुरन्दरदास: सङ्गितपितामह: अस्ति इति मान्यतॆ । त्यागराजस्वामिन: , मुद्दुस्वामिदीक्षितवर्य: , एवं श्यामशास्त्रि: कर्णाटकसङ्गीतत्रयं, एवं त्रिमूर्ती इति नाम्ना बहवा मान्यतॆ । एतॆ समकालिका: अपि - तेषां जननं तमिळनाडु राज्यॆ तञ्जावूर् जिल्लाया: तिरुवारूर् ग्रामॆ आसीत् ।  साधारणत: गान / वादक कचेरि इति बहु प्रसिद्धम् । एतस्मिन् गान / वादक शृङ्खला एवम् भवति :- रागविस्तारणम् - कीर्तनगानम् - नेरवल् - कल्पनस्वरगानम् - ताळवाद्य विस्तृतावर्तनम् । एका अन्य प्रक्रिया रागं-तानं-पल्लवी इत्यपि प्रसिद्धम् । एषायां प्रक्रियायां रागविस्तारणं - ताळजतिसहितगानं तानं - एका पल्लवी स्वीकृत्य रागभाव विस्तृतगानं -  ताळवाद्य विस्तृतावर्तनम् इति पद्धति प्रसिद्धम् । 

सामान्यत: कर्णाटकसङ्गीतं गायक-वादक-वाद्ययो:  लघुसमाहारेण समुत्पाद्यते, यस्मिन् एक: मुख्यसङ्गीतकार: (सामान्यत: गायक: / गायिका, वीणा / वेणु / जलतरङ्गं वादक: ), एकं स्वरवाद्यं (सामान्यत: बाहुलीना 'Violin' - केवलं गात्रसङ्गीतं कृतॆ एव ), एकं ताळवाद्यं (सामान्यत: मृदङ्गं) तथा एका श्रुतिवाद्यं 'तम्बुरा' च भवन्ति । आधुनिकदिनेषु सामान्यत: तम्बुराया: स्थाने विद्युत् श्रुतिपेटिका उपयुज्यते ।

बाहुलीना पाश्चात्यदेशवादयमासीत् । एषाया: कर्णाटकसङ्गीतॆ प्रवेश: रामस्वामिदीक्षितवर्येन कृतम् । तस्य द्वितीय पुत्र: बालुस्वामिदीक्षितवर्य: बाहुलीनाया: प्रप्रथम विद्वान् आसीत् । अन्यानि सामान्यत: प्रयुज्यमानानि स्वर-ताल-वाद्यानि नादस्वरं, क्लारिनेट् , मद्दळ: , घटं, कञ्जीरा, मोहरसिङ्ग् च भवन्ति। इदानीं माण्डोलिन् , साक्सोफोन् ,'गिटार्' (Guitar) तथा संगीतसंज्ञाफलक: (Synthesizer keyboard) अपि कर्णाटकसङ्गीते उपयुज्यमाना: विद्यन्ते । नादस्वर, क्लारिनेट् एवं साक्सोफोन् कृतॆ केवलं मद्दळ वाद्यं ( एकं वा द्वयं वा ) भवति ।

कर्णाटकसङ्गीतकाराणाम् अधिकतमा उपस्थितिः, तत्सङ्गीतस्य उत्कृष्टप्रदर्शनानि च भारतस्य तमिऴ्नाडु राज्ये विद्यमाने चेन्नैमहानगरे भवन्ति । मार्गशीर्षमासे (तमिऴभाषायाम् सौरमानपञ्चाङ्ग प्रकारॆ 'मार्गऴि - Mārgazhi', as per the solar calender from  December, 15 to January,14 approximately) चेन्नैमहानगरे भूयमान: षड्सप्ताहात्मकः सङ्गीतोत्सव: (December Music Season ) जगत: महतमः सांस्कृतिकः उत्सव: इति प्रसिद्धः। अस्मिन् उत्सवे प्राधान्यत: कर्णाटकशास्त्रीयसङ्गीतस्य एव गानं-भाषणं-नृत्यं-प्रदर्शनानि भवन्ति । 

तिरुवैय्यार् ग्रामॆ प्रतिवर्षॆ जनवरि मासॆ शुद्ध बहुळ पञ्चम्यां तिथ्याम् बहुजनविद्वत्समूहेन (लक्षाधिकेन ) त्यागराज पञ्चरत्नकीर्तनगानं अञ्जलिप्रदानं इति लोकप्रसिद्धा सन्दर्शनीया संघटना ।

१३ शतकात् आरभ्य भारतीयशास्त्रीयसङ्गीतं द्विविधं जातम् । उत्तरभारते इस्लाम् तथा पारसीक प्रभावात् 'हिन्दुस्थानी' संगीतम् कर्नाटकसंगीतात् भिन्नम् अभवत् ।

ग्रन्था:

स्वरार्णवम्
चतुर्दण्डिप्रकाशिका
स्वरमेळकलानिधि:
दीक्षित कीर्तन प्रकाशिका




#Article 176: वास्तुशास्त्रम् (313 words)


सहस्रसहस्रवर्षेभ्यः प्राक्तनाः देवालयाः राजमन्दिराणि गृहाणि चास्मिन् भारते देशे बहोः कालादविनष्टा एव विलसन्तीत्यानुभविकम् । न चैतद् यादृच्छिकं भवतुमर्हति । अत्र वास्तुतत्त्वशास्त्रानुसारेण निबध्दानि गृहाणि देवालयाश्च भूकम्पादावप्रणष्टाः वास्तुविज्ञानस्य सार्वकालिकतामावेदयन्ति । वास्तुशास्त्रमवश्याध्येयं, विज्ञेयं च सर्वैरपि । वास्तुशास्त्रग्रन्थाः सन्त्यनेकेऽस्मिन् देशे । अत्र तु प्राधान्येन सनत्कुमारप्रणीतगृहवास्तुग्रन्थमवलम्ब्य विशयवैमर्शः कृतः ।

चैत्रमासे गृहनिर्माणे द्रव्यनाशः भयं च । वैशाखे शुभम् । ज्येष्ठे मृतिः । आषाढे पशुनाशः । श्रावणे पुत्रर्ध्दिः । भाद्रपदे पुत्रादीनां रोगभीः । आश्वयुजे कलहः । कार्तिके द्रव्यलाभः । मार्गशीर्षे भयम् । पुष्ये अग्निदाहः । माघे सन्ततिवृध्दिः । फाल्गुने रत्नलाभः । तदुक्तम् –

न यस्मिन् कस्मिन् वासरे गृहनिर्माणं कर्तव्यम्, अपि तु प्रशस्त एव । तथा हि- भानुवासरे गृहारम्भे अह्निदाहः शुक्लपक्षे सोमवासरे गृहारम्भे वृध्दिः । कृष्णपक्षे सोमवासरे कलहः नाशश्च । कुजवासरे तदंशे, तल्लग्ने स्तम्भप्रतिष्ठादिकरणे गृहदाहः यजमानस्य मृतिश्च । बुधवासरे ऎश्वर्यवृध्दिः । गुरुवासरे सवार्थसिध्दिः । शुक्रे बहुसुखम् । मन्दवासरे चोरभयम् । तस्मात् विहितदिने विहितवासर एव गृहारम्भः कार्यः । तदुक्तम् –

मृगशीर्षक- हस्ता –रेवती-चित्ता अनुराधा –उत्तराषाढा – उत्तराभाद्रा –श्रवण पुनर्वसु –शतभिषा- धनिष्ठा –अश्विनीनक्षत्राणि गृहारम्भाय सुखदानि च । तदुक्तम्

शैववैष्णवतन्त्रागमग्रन्थेषु वास्तुपुरुषकथा भिन्नैव श्रूयते  । वैष्णवतन्त्ररीत्या वास्तुर्वराहरुपिणो हरेः सुतः । देवतैः भूमौ पातितः । चतुरस्राकृतिः स्थितश्च । तदुपरि ब्रह्मादयः देवाः सन्निहिताः । तान् यथाविधि सम्पूज्य गृहादि निर्मेयम् । तदुक्तम् – 
 
शैवग्रन्थेष्वन्यैव कथा श्रूयते –
अन्धकासुरसंहारे क्रुध्दस्य शूलिनः स्वेदबिन्दुः भूमौ पतितः । स्वेदबिन्दुरेव द्यावापृथिवीमभिव्याप्य वास्तुपुरुषरुपेणोदतिष्ठत् सर्वभयङ्करः । ततश्च देवतैर्भूमौ पातितः । मन्दिरादिनिर्माणकाले तत्पूजनाय वरश्च देवैः प्रदत्तः । तदुक्तम् –

भूपरीक्षां कृत्वा सार्धपुंमानतस्त्वधः भुवं संशोध्य लोष्टाश्मास्थिविवर्जिते देशे गृहं निर्मेयम् । पूर्वस्यां दिशि स्नानगृहं कार्यम् ।
आग्नेये पाकशाला विधेया । दक्षिणस्यां दिशि स्वापशाला । नैऋत्यां दिशि आयुधशाला । पश्चिमे भोजनशाला । वायव्ये पशुशाला । उत्तरस्यां दिशि द्रव्यनिक्षेपगृहं कार्यम् । ईशान्ये देवमन्दिरम् । तदुक्तम् –
 
उक्तं चान्यत्र –

कूपादिनिर्माणं उत्तरस्यां पूर्वपश्चिमदिशि च प्रशस्तम् । द्वारहीनो जलाशयः कूपशब्देन व्यपदिश्यते । द्वारेणैकेन भूषितः वापिसंज्ञकः । अनेकद्वारविशिष्टा पुष्कलजलाधारा पुष्करिणीत्युच्यते । तदुक्तम् –

कूपादिनिर्माणम् आग्नेय नैऋत्य-वायव्यदिशि परित्याज्यम् । उत्तर –पूर्व –पश्चिमदिशि शस्तम् । तदुक्तं वराहमिहिरेण

एवं अन्यत्र च –

भूपरीक्षां कृत्वा सार्धपुंमानतस्त्वधः भुवं संशोध्य शुचिप्रदेशे गृहादिकं निर्मेयम् । सनत्कुमारवास्तुशास्त्रोक्तदिशा वक्ष्यमाणक्रमानुरोधेन गृहं निर्मेयं भवति ।




#Article 177: चिदम्बरम् सुब्रह्मण्यम् (614 words)


चिदम्बरम् सुब्रह्मण्यम् हरितक्रान्तेः जनकः कथ्यते । यदा भारतेन स्वातन्त्र्यं प्राप्तम् आसीत्, तदा खाद्योत्पादनस्य स्थितिः अत्यन्तं चिन्तनीयम् आसीत् । बहुत्र अनावृष्टिः अभवत् । तेन वङ्गबिहारोडिशाक्षेत्रेषु जनाः क्षुधार्ततायां मृतङ्गताः । यदा “सी. सुब्रह्मण्यम्” इत्याख्यः कृषिमन्त्रिपदं प्राप्तवान्, तदा तेन खाद्यान्नसमस्याः निवारयितुं बह्व्यः योजनाः प्रचालिताः । कृषिक्षेत्रे तस्य नीतिः उत्कृष्टा वर्तते स्म । “सी. सुब्रह्मणयम्” इत्यस्य प्रयासैः भारतदेशस्य खाद्यान्नोप्तादने विकासः अभवत् । साम्प्रतं भारतदेशः कृषिक्षेत्रे आत्मनिर्भरः अस्ति ।

ई. स. १९३६ तमवर्षात् तेन वृत्त्या सह स्वातन्त्र्यान्दोलनेषु भागः अपि गृहीतः आसीत् । आन्दोलनेषु अपि तस्य अभिरूचिः वर्तते स्म । सः भारतस्य स्थितिः दृष्टवान् आसीत् । अतः सः अपि योगदानं दातुमिच्छति स्म । सः कॉङ्ग्रेस-पक्षस्य नेता आसीत् । अन्यैः राजनेतृभिः सह आन्दोलनेषु “सी. सुब्रह्मणयम्” इत्याख्येन अपि बहूनि कार्याणि कृतानि आसन् । ई. स. १९४२ तमे वर्षे “भारत छोडो” इत्यस्मिन् आन्दोलने कॉङ्ग्रेस्-पक्षस्य महत्तमाः राजनेतारः कारागारं गतवन्तः आसन् । तेषु “सी. सुब्रह्मण्यम्” इत्याख्यः अपि अन्यतमः आसीत् । अतः तस्मिन्समये कोयम्बतूर-मण्डलस्य प्रमुखेषु नेतृषु तस्य स्थानम् आसीत् । समयान्तरे तेन कॉङ्ग्रेस-समितौ अपि अध्यक्षत्वेन स्थानं प्राप्तम् आसीत् । तमिलनाडू-राज्ये कॉङ्ग्रे-पक्षस्य कार्यसमितौ अपि “सी. सुब्रह्मण्यम्” इत्याख्यः महत्त्वपूर्णं स्थानं प्राप्तवान् आसीत् । ई. स. १९४६ तमे वर्षे सः संविधानसभायाः सदस्यतां प्रापत् । ई. स. १९५२ तमवर्षपर्यन्तं सः संविधानसभायाः सदस्यः आसीत् । ई. स. १९५२ तमे वर्षे सः तमिळनाडू-राज्यस्य विधानसभायाः सदस्यत्वेन चितः । सदस्यतां प्राप्ते सति सः प्रदेशस्य मन्त्रिमण्डले स्थानं प्राप्तवान् । ई. स. १९५२ तः १९६२ तमवर्षपर्यन्तं सः राज्यसर्वकारस्य विभिन्नेषु महत्त्वपूर्णपदेषु कार्यं कृतवान् आसीत् । सः राज्यस्य वित्तमन्त्री, शिक्षणमन्त्री, विधिमन्त्री इत्यादिषु पदेषु अपि कार्यम् अकरोत् । तेन दशवर्षेषु शिक्षणक्षेत्रे शिक्षणस्य विस्ताराय, विकासाय च अपि महत्त्वपूर्णानि कार्याणि कृतानि आसन् । 

ई. स. १९६२ तमे वर्षे निर्वाचने विजयं प्राप्ते सति अयं केन्द्रियमन्त्रिमण्डलस्य मन्त्रित्वेन चितः । तदा सर्वकारेण तस्मै लोहखानिजमन्त्रालयस्य (Ministry of Steel and Mins) दायित्त्वं प्रदत्तम् आसीत् । ई. स. १९६२ तः १९६४ तमवर्षं यावत् अस्य मन्त्रालयस्य एव मन्त्री आसीत् । अनन्तरम् ई. स. १९६४ तः १९६५ तमवर्षं यावत् सर्वकारेण तस्मै खाद्यकृषिमन्त्रालयस्य दायित्त्वं प्रदत्तम् आसीत् । ई. स. १९६६ तः १९६७ तमवर्षं यावत् खाद्यकृषिमन्त्रायेन सह विकासविभागस्य दायित्त्वं अपि संयोजितः । अस्मिन् पदे तेन कृषिक्षेत्रे बहूनि सफलानि कार्याणि कृतानि । तेन उत्तमानाम् अङ्कुराणाम्, उर्वरकाणां च प्रयोगाय अपि कृषकाः प्रेरिताः । तेन फलस्वरूपं १९६० तमे दशके भारतदेशः खाद्योत्पादने सक्षमः जातः । अनेन प्रकारेण तस्य कार्याणां चर्चा अन्ताराष्ट्रियस्तरे विस्तृता । ई. स. १९९० तमे वर्षे सः महाराष्ट्र-राज्यस्य राज्यपालत्वेन नियुक्तः जातः । वर्षत्रयं यावत् सः अस्मिन् पदे कार्यरतः आसीत् । अनन्तरं “सी. सुब्रह्मण्यम्” इत्याख्यः “भारतीयविद्याभवनम्” इत्यस्याः संस्थायाः अध्यक्षपदं प्रापत् । अस्मिन् पदे कार्यरते सति “सी. सुब्रह्मण्यम्” इत्याख्येन बहूनि महत्त्वपूर्णानि पुस्तकानि रचितानि । 

भारतस्य स्वान्त्र्यसमये खाद्यान्नविषये देशस्य स्थितिः दयनीया आसीत् । किन्तु साम्प्रतं भारतदेशः कृषिक्षेत्रे सम्पूर्णतया आत्मनिर्भरः अस्ति । भारतदेशस्य स्वतन्त्रतायाः प्राग् बहुषु स्थानेषु जनाः अनावृष्ट्या पीडिताः आसन् । वङ्ग-बिहार-ओडिशाक्षेत्रेषु  बहवः जनाः क्षुधया पीडिताः सन्तः मृतङ्गताः । किन्तु स्वातन्त्र्यानन्तरं कदापि तादृशी स्थितिः न सर्जिता । यदा “सी. सुब्रह्मण्यम्” इत्याख्यः केन्द्रसर्वकारस्य कृषिमन्त्रिपदं प्रापत्, तदा तेन खाद्यान्नोत्पादने विकासाय योजनाः प्रचालिताः । ताभिः प्रचालिताभिः योजनाभिः कृषकाः जागृताः अभवन् । तावदेव कृषकाः उत्तमानाम् अङ्कुराणाम्, उर्वरकाणां च उपयोगं कुर्वन्तः सन्ति । “सी. सुब्रह्मण्यम्” इत्याख्येन भारतदेशे अधिकमात्रायां खाद्योत्पादनं कर्तुं शक्यते । “सी. सुब्रह्मण्यम्” इत्याख्यस्य कृषिनीतिभ्यः ई. स. १९७२ तमे वर्षे खाद्यान्नोत्पादने नामाङ्कनम् अभवत् । तावदेव इयं घटना “हरितक्रान्तिः” इति नाम्ना संज्ञायते । “डॉ. बोरलाग” इत्याख्यः नोबेल-पुरस्कारभाक् आसीत् । “बोरलाग” इत्याख्येन अपि “सी. सुब्रह्मण्यम्” इत्याख्यस्य अस्मै कार्याय प्रशंसा कृता आसीत् ।

ई. स. १९९८ तमे वर्षे सर्वकारेण “सी. सुब्रह्मण्यम्” इत्याख्यः सर्वोच्चनागरिकत्वेन “भारतरत्नपुरस्कारेण” सम्मानितः ।

ई. स. १९८८ तमे वर्षे सः अनुव्रत-पुरस्कारं प्राप्तवान् आसीत् । ई. स. १९९६ तमे वर्षे तेन “नोर्मन बोरलाग” इत्ययं पुरस्कारः प्राप्तः । तस्मिन्नैव वर्षे सः “ऊ थांट शान्ति” इत्यनेन पुरस्कारेण अपि सम्मानितः । राष्ट्रियैकतायै तस्मै “वाय्. एस्, चौहान” इतीमं पुरस्कारं प्रदत्तम् आसीत् । ई. स. २०१० तमे वर्षे “सी. चिदम्बर” इत्याख्यस्य स्मृतौ भारतसर्वकारेण भारतीयमुद्रासु (Coins) तस्य चित्रं मुद्रितम् आसीत् । तस्मिन्नैव वर्षे सन्देशालयचीटिकासु अपि “सी. सुब्रह्मण्यम्” इत्याख्यस्य चित्रं प्रकाशितम् आसीत् ।

ई. स. २००० तमस्य वर्षस्य नवम्बर-मासस्य ७ दिनाङ्के (७ नवम्बर २०००) “सी. सुब्रह्मण्यम्” इत्याख्यः मृतङ्गतः ।




#Article 178: सुवर्णम् (210 words)


सुवर्णम् एकं मरालं गुरुभारिकं पीतं प्रदीप्तं धातुः। अनेन आभरणानि नाणकानि विद्युतयन्त्राणि चित्रपलकानि इत्यादि वस्तूनि निर्माणन्ति। औषधानि च सिद्धं कुर्वन्ति । सुवर्णम् महार्घम् अस्ति।

इत्युक्तत्वात् सुवर्णं जनानाम् अत्युत्तमं धनं भवति । अनेन कटकमकुटादिभूषणादिकं क्रियते । तद्धारणं परमं मङ्गलमिति मन्यन्ते आर्याः ।

तथा च श्रुतिः - 

अत्र अग्नेरपत्यमित्यनेन सुवर्णादिकं पृथ्वीगर्भे विशेषतः अग्निकार्येण जायत इत्युक्तं भवति । अत एव केचित् तार्किकाः सुवर्णरजतादिकं तैजसमिति मन्यन्ते । अन्ये तु पार्थिवमिति । वस्तुतत्त्वं तु मृत्पाषाणादिपार्थिवद्रव्यमेव जलसंसर्गेण अग्निपाकेन सूर्यरश्मिकृतप्रकाशापादनेन वायुसहायेन आकाशादृतावकाशेन च सुवर्णरत्नादिरूपेण जायते ।

सुवर्णं जाम्बूनदम्, इन्द्रगोपसन्निभं चन्द्ररश्म्याभम्, शबरोपमं शुकाभं पीतम् इति अनेकधा भवति ।
सुवर्णं पञ्चविधम् इत्यन्यत्र - प्राकृतं सहजं वह्निसम्भूतं खनिसम्भूतं रसेन्द्रवेधसञ्जातं चेति । तेषु रजोगुणसमुद्भवं प्राकृतम् । मेरूद्भवं सहजम् । वह्निसम्भूतम् - त्रिविधमेतत्सुवर्णं षोडशवर्णयुतम् ।

गिरिसम्भूतं खनिसम्भूतं च सुवर्णं चतुर्दशवर्णाढ्यम् । रसेन्द्रवेधसम्भूतं वेधजम् । सुवर्णं स्निग्धं (Beautiful) मेध्यं (Precious and valuable) विषगदहरं (kills poison) बृंहणं (contribute greatly to growth) वृष्यं (gives energy) च । सुवर्णभस्मविधयः रसरत्नसमुच्चये लोहनिरूपणे दर्शिताः ।

सुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानाम् असम्बन्धावेशनचतुश्शालाम् एकद्वारम् अक्षशालां (Laboratory) कारयेत् । विशिखामध्ये सौवर्णिकं शिल्पवन्तमभिज्ञानं प्रत्येकं च स्थापयेत् । इत्युक्त्वा सुवर्णप्रभेदविषये जाम्बूनदं शातकुम्भं हाटकं वैष्णवं शृङ्गशुक्तिजं जातरूपं रसविद्धमाकरोद्गतं च सुवर्णमिति दर्शयित्वा तस्य गौरववर्णादिकं (weight and carats) च निर्दिष्टम् । तद्विशेषविज्ञानाय शास्त्रान्तराणि विशेषतः वैद्यशास्त्राणि द्रष्टव्यानि ।

सुवर्णं नवसप्ततितमं तत्त्वम् अस्ति। सुवर्णाणोः घनः १९९.९६ amu अस्ति। अस्य चिह्नम् Au अस्ति। सुवर्णम् उर्द्वतनीयम् आनत्यम् च अस्ति। अस्य सन्ततिः १३९०० kg/m
]




#Article 179: आगमः (408 words)


सगुणोपासनस्य निर्गुणोपासनस्य च क्रमं यत् शास्त्रं बोधयति तच्च शास्त्रम् आगमः इति कथ्यते । आ समन्ताद्गमयति ।

तन्त्रसारे एवं कथितमस्ति - :आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः । न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः ।
तत्त्वं मन्त्रार्थं च इदं शास्त्रं बोधयति इत्यनेन तन्त्रम् इत्यपि निर्दिश्यते इदं शास्त्रम् ।

उपासनाविधानं, साधनामार्गः, आचारविचाराः, उपास्यदेवताः इत्यादयः भिद्यन्ते इत्यतः विविधाः आगमाः उपलभ्यन्ते ।

अस्मिन् परशिवः एव उपास्यदेवता । अस्मिन् चत्वारः सम्प्रदायाः विद्यन्ते । ते -

अयं वरुणपद्धतिः, महेन्द्रपद्धतिः, ईशानशिवगुरुदेवपद्धतिः, सोमशम्भुपद्धतिः इत्यादिभिः अष्टादश पद्धतिभिः युक्ता अस्ति । अयं परमेश्वरस्य सद्योजात-वामदेव-अघोर-तत्पुरुष-ईशानादिभिः पञ्चमुखैः उपदिष्टमस्ति । कामिकादि वातुळान्त अष्टाविंशतिसंहितारूपः अस्ति । एतेषु १० संहिताः सदाशिवेन दशशिः बोधिताः । अयं शैवागमः इति प्रसिद्धः अस्ति । अन्ये अष्टादश संहिताः अष्टादशरुद्राय उपदिष्टम् इत्यतः रौद्रागमः इति प्रसिद्धः अस्ति । रौद्रागमस्य प्रमुखसंहितायाः वातुळागमस्य उत्तरभागः वीरशैवसम्प्रदायस्य अनुष्ठानस्य आधारभूतः अस्ति ।

कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा। 

दीप्तं सूक्ष्मं सहस्रं च अंशुमान् सुप्रभेदकम्।

विजयं चैव निश्वासं स्वायम्भुवमथानलम्।

वीरं च रौरवं चैव मकुटं विमलं तथा।

चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा।

सिद्धं सन्तानसर्वोक्तं पारमेश्वरमेव च। 

किरणं वातुळं चैव अष्टाविंशति संख्यया।।

रौद्रागमः

अस्मिन् परशिवस्य शक्तिः एव उपास्यदेवता । शक्तेः एव प्राधान्यम् इत्यतः देव्यागमः इत्यपि उच्यते । शाक्तग्रन्थाः शाक्ततन्त्राणि इत्यपि निर्दिश्यन्ते । श्रीविद्योपासनादि समस्तमन्त्रशास्त्राणां शाक्ततन्त्रमेव आधारभूतम् ।

अस्मिन् भेदद्वयम् -
१ पाञ्चरात्रागमः २ वैखानसागमः चेति ।

भगवता पञ्च देवताः उद्दिश्य पञ्चसु रात्रिषु अयम् आगमः बोधितः इत्यतः पाञ्चरात्रागमः इति प्रसिद्धः जातः । अनन्तः, गरुडः, विष्वक्सेनः, ब्रह्म, इन्द्रश्च भगवता बोधिताः । अत्र विष्णुः एव आराध्यदेवः । इदं भगवच्छास्त्रम् इत्यपि कथ्यते । अस्मिन् दिव्यसिद्धान्तः, आगमसिद्धान्तः, तन्त्रसिद्धान्तः, तन्त्रान्तरसिद्धान्त च इति चत्वारः भेदाः वर्तन्ते । अयम् आगमः ज्ञान-योग-क्रिया-चर्यापादैः युक्तः अस्ति । श्रीमदानन्दतीर्थाचार्यः पाद्मसंहितां सङ्गृह्य माध्वसम्प्रदाययुतेषु देवालयेषु पूजार्थम् आनुकूल्यं यथा स्यात् तथा योजितवान् अस्ति । पाञ्चरात्रागमस्य सः भागः तन्त्रसारागमः इति प्रसिद्धः अस्ति । 

लोकोद्धाराय परमात्मनः अंशात् अवतारं प्राप्तवता श्रीविखनसमहर्षिणा भृगु-अत्रि -मरीचि-कश्यपाः उपदिष्टाः । अयम् आगमः संहितारूपेण तेन उपदिष्टम् । अस्मिन् चत्वारः भागाः सन्ति - 

द्वादशाङ्गात्मकस्य जैनागमस्य स्वरूपम् एवं वर्तते - सर्वज्ञैः तीर्थङ्करैः समवसरणसभायां गणधरादीन् श्रेष्ठान् उद्दिश्य कृतं बोधनम् एव जैनागमः, जैनसिद्धान्तः, द्वादशाङ्गश्रुतः इत्यादिभिः नामभिः निर्दिश्यते । अयं जैनागमः सर्वज्ञैः तीर्थङ्करैः अनादिकालतः अनन्तकालपर्यन्तम् उपदिश्यमानमेव भवति इत्यतः अयं सादिः अनादिः इत्यपि कथ्यते । जैनागमः द्विविधं वर्तते - अङ्गबाह्यम् अङ्गप्रविष्टम् इति ।
अङ्गप्रविष्टम् द्वादशभिः अङ्गैः युक्तं वर्तते । ते - आचाराङ्ग, सूत्रकृताङ्ग, स्थानाङ्ग, समवायाङ्ग, व्याख्याप्रज्ञप्ति, ज्ञातृकथा, उपासकाध्ययन, अनुत्तरोपपादिक, अन्तकृद्दशाङ्ग, प्रश्नव्याकरण, विपाकसूत्र, दृष्टिवाददशाङ्गेति च ।
उपासकाध्ययनाङ्गे देवप्रतिष्ठा, पूजाक्रमः श्रावकाचारः, यत्याचारः च प्रतिपादिताः सन्ति ।
जैनागमे त्रयः आराध्यदेवताः - देवः, गुरुः, शास्त्रञ्च ।

अर्हन्ताः सिद्धाः च । अर्हन्तेषु भूतभविष्यद्वर्तमानस्य ७२ तीर्थङ्कराः, पञ्चविदेहेषु वर्तमानाः सीमन्धर-युगमन्धरादि २० तीर्थङ्कराः च अन्तर्भवन्ति ।

चतुरशीतिलक्षगुणसम्पन्नाः गणधर आचार्यपरमेष्ठीवर्याः, द्वादशाङ्गपाठकाः उपाध्यायपरमेष्ठिवर्याः, ज्ञानध्यानतपोरक्ताः सर्वसाधुपरमेष्ठिवर्याः च ।

जिनमुखोद्भूत-स्याद्वादनयगर्भित-द्वादशाङ्गरूपा जिनभारतिप्रतिष्ठा पूजाक्रमाः च अधः लिखितेषु ग्रन्थेषु बोधिताः सन्ति - 




#Article 180: हिन्दूधर्मः (314 words)


सनातनधर्मः हिन्दुधर्मस्य निजनाम वर्तते । वेदान् अवलम्बते अयं धर्मः इत्यनेन वैदिकधर्मः इत्यपि उच्यते । आर्यसन्ततेः धर्मः इति कारणतः आर्यधर्मः इति नाम्ना अपि अयं धर्मः निर्दिश्यते । 

सिन्धूनद्याः तीरे विद्यमानानां धर्मः आसीत् अयम् । प्राचीनपर्षियन्-जनाः 'स'कारोच्चारणस्थाने 'ह'कारस्य उच्चारणम् अकुर्वन् । तस्मात् हिन्दुसंस्कृतिः हिन्दुराष्ट्रम् हिन्दुधर्मः इति जातम् ।
केचन वदन्ति यत् हिन्दु इत्येतदपि अस्मदीयः एव प्राचीनः शब्दः इति ।
ऋग्वेदस्य बृहस्पत्यागमे उल्लिखितम् अस्ति—

अर्थात् हिमालयात् समुद्रपर्यन्तं देवैः स्थापितं देशं हिन्दुस्थानं कथ्यते।

मेरुतन्त्रे(शैवग्रन्थे) कथितं यत्—

अर्थात् यः अज्ञानतां हीनतां च त्यक्तः सः हिन्दुः उच्यते।
इदं शब्दकल्पद्रुमेणापि प्रोक्तम्—

माधवदिग्विजये अस्ति—

अर्थात् यः ओंकारम् ऐश्वरीयध्वनिं मन्यते कर्म विश्वसिति गौपालकः हिंसायाः दूरः भवति सः हिन्दुः।

जगतः अन्यानि मतानि यथा केनचित् संस्थापितानि इति निर्दिश्यते तथा सनातनधर्मस्य कश्चन संस्थापकः इति न विद्यते । इदम् अस्य धर्मस्य वैशिष्ट्यं वर्तते । एकस्य जनस्य अध्यात्मानुभवम् अनुसृत्य अयं धर्मः न प्रवर्तते । अयं धर्मः बहूनां ज्ञानिनां योगिनां महात्मनाम् ऋषीणाम् अतीन्द्रियदर्शनानि अध्यात्मानुभवान् च आधारीकृत्य सुभद्रपृष्ठभूमौ स्थितः वर्तते । एते ऋषिमुनयः अपि अस्य सनातनधर्मस्य प्रवर्तकाः एव, न तु तस्य संस्थापकाः । तेषाम् अनुभवाः आचार-तत्त्व-उपदेशरूपेण व्यवस्थिततया सङ्कलिताः सन्ति । सहस्रशः सन्तः महात्मनः अस्य सत्यत्वं स्वस्य जीवनस्य आचरणद्वारा द्रढीकृतवन्तः सन्ति । विज्ञानपुस्तकेषु उल्लिखिताः नियमाः प्रयोगशालासु यथा द्रढीकर्तुं शक्याः तथैव एते अध्यात्मनियमाः अन्तरात्मनः प्रयोगशालायां द्रढीकर्तुं शक्याः सन्ति अद्यत्वे अपि ।

सनातनधर्मः अपौरुषेयः दैवप्रेरितश्च । अध्यात्मसत्यानाम् आविष्कारः पूर्वमिव अद्यत्वे अपि शक्यः अग्रे अपि शक्यः इति दृढं विश्वसिति अयं धर्मः । सत्यम्इत्येतत् अनन्तं बहुमुखञ्च वर्तते । कस्यचित् एकस्य जनस्य अनुभवेन तत् सम्पूर्णतया प्रकटितः न भवेदेव । अतः अद्यत्वे अग्रे च नूतनावृत्तयः नूतनधर्मशास्त्राणि नूतनधर्मग्रन्थाश्च सृष्टाः भवेयुः एव इति निश्चिता मतिः अस्य धर्मस्य ।

सनातनधर्मः प्रामुख्येन वेदान् अवलम्बते । वेदः नाम ज्ञानमिति । ऋषयः ध्यानानन्दे लीनाः सन्तः श्रुतवन्तः इत्यनेन शिष्याः गुरुमुखेन इदम् अभ्यस्यन्ति स्म इत्यनेन च अस्य श्रुतिः इति नाम प्रसिद्धम् अस्ति । इदं स्मरणीयमस्ति इत्यनेन स्मृतिः इत्यनेन सर्वव्यापकशब्देन अपि निर्दिश्यते । इदम् अपौरुषेयं दैवदत्तम् इत्यनेन अस्य उल्लङ्घनं न कर्तव्यम् इति भाव्यते । 
दैवदत्तम् इदं ज्ञानं कस्यचित् सन्ततेः कस्यचित् देशस्य कस्यचित् कालस्य परिधौ विद्यमानं न । युक्तसाधनेन यःकोपि यदा कदापि इदं ज्ञानं प्राप्तुम् अर्हति ।




#Article 181: वेदान्तः (2463 words)


वेदान्तदर्शनम् अथवा उत्तरमीमांसा मुख्यतः उपनिषदां तत्त्वज्ञानं प्रतिपादयति । जगत् प्रतिक्षणं परिवर्तनशीलम् अस्ति । तस्य आधारभूतं यथार्थतत्त्वं ब्रह्मास्ति । ब्रह्म अखण्डम् एकरसम् अद्वैतं च वर्तते । प्रत्येकस्य प्राणिनः अन्तरात्मनि तस्य निवासोऽस्ति तदेव विश्वस्य निमित्तम् उपादानं च कारणं वर्तते । इदं मुख्यं सिद्धान्तम् आधारीकृत्य महर्षिणा बादरायणेन ब्रह्मसूत्रस्य रचना कृता । ब्रह्मसूत्राणि उपनिषदां वाक्यार्थानां संगत्या सह उदात्तदार्शनिकविचारान् प्रस्तुवन्ति ।
	
वेदान्तमतानुसारं निःश्रेयस् परं प्रयोजनमस्ति । निःश्रेयसः तात्पर्यं वर्तते संसारात् अविद्यातो वा पृथग्भूय ब्रह्मसामीप्यस्य लाभः । एतत्कृते आत्मज्ञानं परमावश्यकम् अस्ति । अयमेव प्रवृत्तिलक्षणो धर्मः कथितः । यस्य ज्ञानं शुद्धमस्ति स एव निः श्रेयसः सान्निध्यं प्राप्नोति । अनेन सकलपुरुषार्थानां प्राप्तिर्भवति । संसारे यत्किमपि वर्तते तद् ब्रह्म परमात्मावैवास्ति, तदेव चैतन्यरुपे एकमात्रं ज्ञानमस्ति ।

ब्रह्म निर्गुणमस्ति किन्तु ज्ञानं तस्य स्वरुपं वर्तते । तस्य पूर्णता मायया जायते । माया एव जगदुत्पत्तेः कार्यं करोति । माया न सत् अस्ति, न चासत् एव वर्तते । इयं सदसद्विलक्षणा सत्तात्मिका चास्ति । माया ईश्वरस्य आज्ञया भेदं प्रकटयति परिणामतः नामरुपात्मकताया उदयो भवति । अनेन संसारः उत्पद्यते । माययैव वस्तुनः उपाधिः गृह्यते । यद्यपि ब्रह्म सर्वत्र व्याप्तमस्ति तथापि माययैव सर्वेषु पदार्थेषु ब्रह्मणः पृथक् पृथक् प्रतीतिर्जायते । जीवानाम् अनेकताया अपि इदमेव रहस्यमस्ति । प्रत्येकस्मिन् जीवे ब्रह्मैव सत्यमस्ति, यः भेदोऽस्ति सः मायाया एव परिणामो विद्यते ।
	
सांसारिकरुपे जीवा बहवः सन्ति, किन्तु तेषु अवस्थितं ब्रह्म एकमेवास्ति । अज्ञानी जीवो मायाया आवरणम् उच्छिद्य तद् स्प्रष्टुम असमर्थो भवति, अतः ब्रह्मणोऽदर्शनाम् जीवो मायाकृते अपाधौ मनसा रमते । शरीरे च सत् अन्विष्यति । मायाया आवरणप्रभावात् आत्मा सीमितः प्रतीयते । तस्य शक्तिज्ञानादीनि सर्वाणि कार्यजातानि सीमितानि भवन्ति । सः पापपुण्याभ्यां आबद्धो भवति तत्फलभोगाय च विवशो जायते । पूर्वजन्मनः कृत्यानां फलोपभोगं कुर्वाणो जीवः ईश्वरेच्छया कर्मफलान्यपि भुङ्क्ते । इदं अनन्तम् अनादिचक्रम् अनवरतं सक्रियं भवति ।
	
उपनिषदां प्रतिपाद्यं वेदान्तमते विविधप्रकारेण समालोचितम् । अतएव वेदान्तस्य पञ्च सम्प्रदायाः प्रादुरभूवन्-
	

अथैषां क्रमेण स्वरुपनिरुपणं विधीयते-
	
अद्वैतवादः –अयं सिद्धान्तः आचार्यशङ्करेण प्रतिष्ठापितः । तन्मतेन जीवो ब्रह्मैवास्ति न च् ब्रह्मातिरिक्तः अतएव उभयोः द्वैतभावः स्वीकार्यो नास्ति । शांकरवेदान्ते त्रीणि प्रमुखानि तत्त्वानि स्वीकृतानि सन्ति जीवः जगत् आत्मा च । आत्मन एवापरा संज्ञा ब्रह्मेत्यस्ति । “ ब्रह्म सत्यं जगन्मिथ्या” इति सिद्धान्तः शाङ्करमायावादस्य मूलाधारो वर्तते । वेदान्ते ब्रह्मणः त्रीणि स्वरुपाणि स्वीकृतानि निर्गुणं ब्रह्म, सगुणं ब्रह्म, जीवशरीरस्थं ब्रह्म चेति । यद्यपि ब्रह्मणः किमपि स्वरूपं नास्ति, तथापि उपाधिभेदात् तस्य त्रैविध्यं वर्तते । तत् सत्स्वरुपं चित्स्वरुपम् आनन्दस्वरुपं चास्ति ।
	
दृश्यादृश्यजगतः कारणमात्रमपि ब्रह्मैवास्तो । तत् परिवर्तनशीलं चास्ति । मायया युक्तं ब्रह्मैव जगतः मूलकारणमस्ति । सृष्टेः सर्वेषु पदार्थेषु स्वसत्तां उपस्थाप्य अपि ब्रह्म तेभ्यः परे तिष्ठति । सृष्टिः मायायाः उपादानमस्ति । मायया आबद्धो जीवः ब्रह्मसाक्षात्कारं कर्तुं न क्षमते । रज्जौ सर्पस्य भ्रान्तिरत्रैव भवति । यथा रज्जुं विना सर्पस्य भ्रान्तिः सम्भवा नास्ति, तथा ब्रह्म विना जगतो भ्रान्तिरपि नैव सम्भवति । अतो ब्रह्मणः सत्ता अवश्यमेव स्वीकार्या । जीवब्रह्मणोर्मध्ये यद् अज्ञानं विद्यते तदेव ‘अविद्या’ इति संज्ञां लभते । ब्रह्म जीवजगतोरपेक्षया परे वर्तते, तदेव जगतः एकमात्रं कारणम् अस्ति ।
	
अस्या अद्भुतसृष्टेरधिष्ठानं ब्रह्मैवास्ति यतोहि सृष्टेः सत्ता तस्याः स्वकारणात् नास्ति । कारणन्तु ब्रह्मैवास्ति । तत् सदस्ति ज्ञानमस्ति श्रेयोऽस्ति अद्वैतम् अखण्डञ्चास्ति । तत् सूक्ष्मातिसूक्ष्मं तत्त्वं च विद्यते । तदेव सच्चिदानन्दमित्युच्यते । सर्वेषां सत्तात्मकपदार्थानां मूलाधारतया तद् ब्रह्मापि सत् अस्ति । चेतनमयत्वात् चित अस्ति । आनन्दभयत्वात् आनन्दोऽस्ति । तत् समभावेन सर्वत्र व्याप्तमस्ति । तद् अमृतम् अक्षरम् अध्यात्मं च वर्तते । संपूर्णं जगत् तेनैव भासते ।
 	
माया ईश्वरस्य शक्तिविशेषो वर्तते । सा त्रिगुणात्मिका प्रकृतिरेवास्ति । तस्याः शुद्धं सत्त्वं च रुपं ईश्वरोऽस्ति । जीवो मलिनसत्त्वप्रधानो भवति । अनयोरुभयोः सम्बन्धात् जगतः प्रादुर्भावः सम्भवति । माया अनिर्वचनीया शक्तिरस्ति । स्ववस्वरुपे माया उपाधिपूर्णा भवति । ईश्वरेण सह सा सृष्टिकर्त्री अस्ति, किन्तु आवरण-विक्षेप-शक्तिभ्यां साऽपि ब्रह्मवत् सर्वत्र व्याप्ता वर्तते । माया स्वयं स्वतन्त्रा नास्ति किन्तु सा दृश्यरुपेण असद् रुपा विद्यते । चिदाभासेन सा अविद्यमानमपि विद्यमानमिव भासयति । तस्यां दुर्घटत्वशक्तिर्भवति । जगत् तस्या इन्द्रजाल मस्ति । सा वस्तुतः अचिन्त्यस्वरुपा वर्तते । ईश्वरोऽपि मायायाः सम्बन्धात् एव प्रकटीभवति । माया वस्तुतः एकं दीर्धस्वप्नमस्ति ।
	
अद्वैतमते ज्ञानं द्विधा विभाजितं वर्तते –अनात्मजडम आत्मेचेतनं च । ज्ञानस्य कृते ज्ञाता ज्ञेयश्य परमावश्कौ स्तः । अनात्मा आत्मा चैव उपनिषत्सु उच्च-निम्नं संज्ञया व्यवहृते । तत्रोल्लेखोस्ति । यत् ब्रह्ममूलम् उर्ध्वमस्ति तच्छाखाप्रशाखाश्च अधस्तिष्ठन्ति । अद्वैतमतानुसारं जगदपि द्विधा वर्गीक्रियते-जडजगत्, चेतनजगत् चेति । यद्यपि जगत् असत् अस्ति, तथापि व्यावहारिकसत्ताया तद् विद्यमानमस्ति । ब्रह्मजिज्ञासार्थं विवेक-विराग-षट्क् सम्पत्ति –शम-दम-उपरति-तितिक्षा –श्रद्धा –समाधीनाम् क्रमेणाश्यकता विनिर्दिष्टा । एभिरेवात्मज्ञानं भवति शरीरे चिदाभासयुक्तम् अन्तः करणं कूटस्थचैतन्यं आवरणशक्तिश्च विद्यन्ते । अहङ्कारवशात् जीवः आत्मानं कर्ता भोक्ता चावगच्छति । अहन्तां, ममता, परता च तस्मिन् प्रविष्टा भवति । मनुष्या अपि त्रिधा अर्गीकृताः पामरा विषयिणो मुमुक्षवश्चेति । कर्मणा मुक्तिर्जायते । सम्यग् दर्शनेन जीवजन्तूनां परमार्थं सत् विज्ञायते ।
	
जीवः चैतन्यस्वरुपः अधिष्ठानभूतः लिङ्गशरीरम् चिच्छायायाः एकत्रिकरणमात्रमस्ति । प्रत्यगात्मा आत्मनः आलोके एव दीप्तो भवति । आत्मनः प्रकाशेन प्रतिबिम्बितम् अन्तरिन्द्रियं अन्तः करणमित्युच्यते । अत्रैव अहंभावस्य अवस्थानं भवति । जीवस्य पूर्णरुपता देहेन्द्रियमनोबुद्धीनां संघाते दृश्यते । शरीराणि त्रीणि सन्ति –स्थूलशरीराणि, सूक्ष्मशरीराणि कारणशरीराणि चेति । तुरीया सुषुप्त्याख्या अवस्था अज्ञानेन जीवं विपरीतं भासयति । परिणामस्वरुपं अज्ञानी जीवः परमात्मानमेव लिङ्ग् देहमात्रं वाऽवगच्छति । किन्तु वस्तुत ईश्वरः आत्मा वा तस्मात् लिङ्गदेहात् नितान्तं पृथग्भूतो भवति । अस्य कृते विवेकस्य आवश्यकता वर्तते । विवेके सति जीवो ब्रह्मण् आत्मनोऽभेदताया ज्ञानं कर्त्तुं पार्यते । विवेकप्राप्त्यै उपायद्वयमाचष्टे –निदिध्यासनं समाधिश्च । विवेकादेव दुःखानाम् आत्यन्तिकी निवृत्तिर्जायते । तत्त्वमसीत्याकारकोऽनुभवोऽपि सम्भवति । यथोक्तमाचार्यशंकरेण-
			
दृष्टिं ज्ञानमयीं कृत्वा पश्येद् ब्रह्ममयं जगत्
विशिष्टाद्वैतवादः –रामानुजमतानुसारं चेतनो जीवो जड जगच्चेति उभयमेव ब्रह्मणः प्रजायते । ब्रह्म तयोर्निमित्तं उपादानं चेति द्विविधं कारणं वर्तते । अतः केवलं ब्रह्मैव अद्वौत तत्त्वमस्ति । जीवो जगच्चेति उभावपि यद्यपि ब्रह्मणः समुत्पन्नौ तथापि असद्रूपौ न वर्तेते । उभौ ईश्वरतुल्यौ स्तः । यथा जीवात्मनः स्थूलशरीरं असत्यम् नास्ति । पुनरपि उभौ ब्रह्मणः उत्पन्नौ भूत्वापि तस्मात् भिन्नावेव स्तः । यथा शरीरम् आत्मा न भवितुम् अर्हति तथैव तावुभौ ब्रह्म न भवितुं शक्नुतः । स्पष्टमस्ति यत् ईश्वरो आत्मा वा अद्वैतरुपेण जीवजगतोर्द्वैतापेक्षया विशिष्यते । अतः अयं सिद्धान्तो विशिष्टाद्वैत इति कथ्यते । अत्र द्वैताद्वैतयोरुभयोश्चिन्तनयोः समावेशो दृश्यते ।
	रामानुजाचार्यः शाङ्करमायावादं न स्वीकृतवान् अपितु भक्तिमार्गं सविशेषं प्रतिपादितवान् । अस्य परिणामोऽयमभवत् यत् अवैदिकस्य पाञ्चरात्रस्यापि वैदिकसाहित्ये प्रवेशः संजातः । रामानुजस्य विशिष्टाद्वैते ब्रह्म एकमेवास्त् । तद अनेकगुणैः परिपूर्णं वर्तते । तदेव ईश्वरः पुरुषोत्तमो वा । तस्य कुत्रापि अभावो नास्ति । तत् अद्वितीयं वर्तते, स्वलीलया एव च सृष्टिं करोति । तत् शून्येन सृष्टिं न करोति, सृष्टिस्तु तस्य स्वरुपभेदमात्रमस्ति । कारणस्वरुपेणैव तत् कार्यरुपमाप्नोति । आदावीश्वर एकमात्रं ब्रह्मरुपम् आसीत्, कालान्तरे तस्याङ्करुपेण प्रकृतेः जीवानां च आविर्भावः संजातः । प्रकृतिः जीवाश्च सर्वे ते मिथ्या नावर्तन्त् । ते ईश्वरमया ईश्वरानुशासिताश्चाभवन् । जीवः स्थूलतत्त्वमासीत्, प्रकृतिश्च सूक्ष्मम् । कल्पान्ते यदा स्थूलतत्त्वस्य लयःसूक्ष्मतत्त्वे भवति तदा तमस् मात्रम् अवशिष्टं भवति । तदेव ब्रह्मरुपं विज्ञेयं । तत् एकं भवति स्वेच्छया च अनेकं जायते ।

विशिष्टाद्वैतमतानुसारेण आराधनायाः कृते ईश्वरस्य पञ्च अवस्थाः भवन्ति-

ईश्वरवत् जीवोऽपि पञ्चधा प्रतिपादितः –(१) नित्यो जीवः (जन्ममृत्योः परे स्थितः (२) मुक्तो जीवः (बन्धनहीनः ईश्वर सान्निध्यं गतः) (३) केवली जीवः (बन्धनमुक्तः ईश्वरत्वं गतः ) (४) मुमुक्षर्जीवः (मोक्षाय तत्परः) (५) बद्धो जीवः ( बन्धनयुक्तः)
	बद्धजीवस्य कृते ईश्वरप्राप्तेस्त्रय उपायाः सन्ति –(१) कर्म (२) ज्ञानं (३) भक्तिश्च । त्रयाणां द्विजातीनां कृते भक्तिर्विशिष्टाऽस्ति । शूद्रस्य कृते आत्मसमर्पणरुपायाः प्रपत्तेरेव औचित्यं प्रतिपादितम् ।
	
विशिष्टाद्वैतस्य सम्प्रदायाचार्याणां मतानुसारेण प्रमाणानि त्रीणि आसन्-प्रत्यक्षप्रमाणम्, अनुमानप्रमाणम्, श्रुतिप्रमाणं चेति । जीवस्य प्रमेय ईश्वरः साध्योऽथवा लक्ष्यभूतोऽस्ति ईश्वर एव अन्तन्तः सर्वशक्तिमान् चास्ति । जीवः चेतनोवर्तते । अचेतनस्तु जडो भवति । आरम्भत एव त्रयाणां भेदः । अत्रापि मायायाः अथवा अविद्यायाः कारणता क्वापि नास्ति । अविद्या सर्वशक्तिमन्तं   
	ब्रह्माणं कथं आवृणोतुं क्षमते । सा कथं सृष्टिञ्चापि कर्त्तुं क्षमते । सृष्टौ यत्किञ्चिदपि दृश्यमाणं भवति तद् ब्रह्म जीवजगतोर्मध्ये विद्यमानं स्वगतं स्वजातीयं विजातीयं च भेदमात्रं वर्तते । ब्रह्मण इच्छाशक्त्या सक्रियं सृष्टिचक्रं अविद्या कथमात्मनोऽनुकूलं ब्रह्मणः प्रतिकूलं च कर्तुं शक्नोति । प्रलये एकमात्रं ब्रह्मैव अवशिष्यते । प्रकृतिः तस्मिन्नेव अव्यक्तभावेन सुप्ता भवति । एवं चेत् ब्रह्म जीव-प्रकृतीनां पार्थक्यं नैव आभासते । इयमेव तस्य ब्रह्मणः कारणावस्था । कल्पान्ते सृष्टिरचनाकाले तस्य कार्यावस्था भवति । कार्यावस्थायां तद् ब्रह्म नानाभावेन नामरुपात्मकं भवति ।
	विशिष्टाद्वैरमते ब्रह्म ईश्वरात् पृथक् न मन्यते । अत्र ब्रह्म चैतन्यमात्रमपि नास्ति । अस्मिन् ज्ञानं शक्तिः बलम् ऐश्वर्यं वीर्यं वात्सल्यं माधुर्यं च वर्तन्ते । ब्रह्मैव निमित्तं उपादानं च कारणमस्ति । जीवः स्वयं ब्रह्मरुपो भवति, किन्तु स आत्मनो ब्रह्मत्वज्ञानरहितो भवति । अयमेव विशिष्टाद्वैतमतस्य सारः ।
	
द्वैताद्वैतवादः-रामानुजमतमिव निम्बार्कमतेऽपि त्रीणि परमतत्त्वानि स्वीकृतानि-चित्तत्वम्, अचित तत्त्वम्, ईश्वर तत्त्वं च । चित्तस्य तात्पर्यं जीवेनैवास्ति । तत् च ज्ञानस्वरुपं । ज्ञानमयत्वाज्जीवो भोक्ताऽपि वर्तते । ज्ञानमस्य आश्रयो ज्ञाता चेति उभयरुपतामपि स आदत्ते । तस्य स्वरुपं ज्ञातव्यम् अस्ति । इन्द्रियाणां साहाय्यं विना जीवो विषयस्य ज्ञानं प्राप्तुम् अक्षयो भवति । जीवस्य एककाले ज्ञानरुपता ज्ञानाश्रयता च तथैव सिद्धा यथा सूर्यः स्वयं प्रकाशरुपोऽपि प्रकाशस्याश्रयो भवति । जीवस्य ज्ञानमपि द्विधा भवति-स्वरुपगतम् गुणगतं चेति । यद्यपि अभयोः प्रकारयोः ज्ञानाकारत्वेन अभिन्नता अस्ति तथापि धर्मधर्मिभाववशात् भिन्नताऽपि भासते ।
	जीवः केवलं  भोक्ता नास्ति सः स्वयं कर्त्तापि वर्तते । यतोहि कर्त्तव्यं विना भोक्तृत्वस्य सिद्धिर्न भवति । निम्बार्कमतानुसारेणा जीवः प्रत्येकदशायां कर्त्ता भवति । संसारिणि जीवे कर्त्तृत्वम् अनुभवसिद्धं भवति किन्तु मुक्तजीवे कर्त्तृत्वं संस्कारवशात् संभवति । “मुमुक्षर्ब्रह्मोपासीत्”। “शान्त उपासीत्” इत्यादि श्रुतिवचनानुसारेण जीवस्य मुक्तावस्थायामपि उपासनायाः क्रियारुपता सिद्यति । अचित जडं जगत् चास्ति, तस्य सृष्टिकर्त्री प्रकृतिरस्ति । कर्त्तृत्वाभिमानी आत्मा प्रकृतिगुणैः विमूढो भूत्वा जीवः सांसारिकतां प्रति प्रेरयति । इन्द्रियाधीशत्वाज्जीवः इन्द्रियाणां विषयान् भुंक्ते । जीवजगतोर्मध्ये इन्द्रियाणि कारणमात्राणि वर्तन्ते । यानि जगद्रूपिणि कर्मक्षेत्रे जीवं कर्त्तृत्वभोक्तृत्वयोरधिष्ठतारं कुर्वन्ति ।
	जडं जगत् प्रकृत्या समुत्पन्नं भवति, अतः प्राकृतमुच्यते । प्राकृते जगति महत आरभ्य महाभूतपर्यन्तं सम्पूर्णा सृष्टिः समाहिताऽस्ति । प्रकृतिसाम्राज्यात् बहिर्भूतम् एकम् अप्राकृतं जगत् अन्यदप्यस्ति । तदस्ति स्वर्लोकः । जगतोऽतिरिक्तं कालोऽपि अचितो जडतत्त्वस्यान्तर्गतं समाहितो वर्तते । कालः अचेतनोऽस्ति, तथापि सम्पूर्णं चित् अचित् स्वसम्पृक्तं कुर्वाणोऽस्ति । जगन्नियामको भूत्वाऽपि काल ईश्वराधीनो विद्यते । स अखण्डो नित्यश्च भवति । कार्यरुपेण यद्यपि तस्य नित्यता न भासते तथापि औपाधिकं तदीयं कार्यत्वं मन्यते ।
	निबार्क मते सगुणो ब्रह्मैव ईश्वरोऽभिमतः । सः सकलविद्यादिदोषरहितः अशेषकल्याणगुणानां निधानश्च कथितः ।ज्ञानं शक्तिः बलं ऐश्वर्यं, तेजः वीर्यं सौशील्यं वात्सल्यं कारुण्यं ईश्वरस्य नैष्ठिका गुणाः सन्ति । कल्याण्गुणास्तु अनन्ताः सन्ति, तेषु जगत् मोक्षश्च प्रधानभूतो वर्तेताम् । विश्वस्याधारभूतः परमात्मा सर्वव्यापकः, सर्वनियन्ता, निरतिशयः सूक्ष्मः, महान् चास्ति । सः अनन्तशक्तिसम्पन्नोऽस्ति । सः स्वेच्छया जगत् सृजति । चिदचिदीश्वराणां पारस्परिकं सम्बन्धं स्पष्टीकुर्वाणः प्रो. धर्मेन्द्रनाथः शास्त्री लिखति—
	“चिदचिदीश्वरेषु न तु सर्वथा तादात्म्यम् अभेदसम्बन्धो वाऽस्ति । यतो हि तादृशेऽभिमते तस्मिन् गुणस्वभावयोरन्तरं कथं भविष्यति ? एवमेव तेथां सम्बन्धः सर्वथा भेदसम्बन्धोऽपि नैव स्वीकर्त्तुं शक्यते, यतोहि यदि ईश्वरः जीवेभ्यः जडजगतश्च सर्वथा भिन्नोऽभविष्यत् तर्हि अनन्तः सर्वव्यापकश्च कथमभविष्यत् । तस्यां दशायां तु सः ससीमो भविष्यति । भेदस्य तात्पर्यमस्ति जीवजगतोः पृथक् सत्ता तु वर्तते, किन्तु ते उभे एव ईश्वराधीने स्तः । एवञ्चेत् परतन्त्रसत्ताभावोऽस्ति । अभेदस्यार्थोऽस्ति यत् तयोः ईश्वरात् पृथक् स्वतंत्रा सत्ता नास्ति । स्वतंत्रसत्ताभावस्तत्र दृश्यते ।
	निम्बार्कमते प्रपत्तिरेव साधनाया मार्गोऽस्ति । यावत् ईश्वरं प्रति जीवस्य प्रपन्नभावो न भवति, तावत् जीवस्य यथार्थतः कल्याणं न सम्भवति । प्रपन्नभावे एव जीवो भगवदनुग्रहस्य भाजनं भवति । अनुग्रहे रागात्मिका भक्तिः उत्पद्यते । रागात्मिकाया भक्तेरुदयं विना भगवत्कृपा न संभवति । रागात्मिका भक्तिरेव प्रेमाभक्तिऽस्ति । भगवत्साक्षात्कार एव तस्याः परिणामो वर्तते । भगवत्साक्शात्कारस्य स्थितौ जीवः ईश्वरभावैः स्वतः व्याप्तो भवति । सर्वेभ्यः दुःखद्वन्द्वेभ्यश्च विमुच्यते । भगवत्तत्वावाप्तिरपि शरीरविच्छेदोपरन्तमेव जायते । एवं निम्बार्कमते विदेहमुक्तिरेव यथार्थमुक्तिरस्ति । जीवन्मुक्तेः परिकल्पना अत्र न विहिता ।
	
द्वैतवादः- माध्वसम्प्रदायः स्पष्टरुपेण द्वैतवादी अस्ति । सः अद्वैतवादस्य खण्डनं करोति । माध्वमतानुसारेण ब्रह्म, जीवः, जडश्चेति त्रयः स्वतंत्राः पदार्थाः सन्ति जीवो जडश्च ब्रह्मणो नैव उत्पद्यते । पदार्थमीमांसायाः क्षेत्रे माध्वमतेन दशपदार्थानां सत्ता अभिमता । ते दश् पदार्थाः एवमुक्ताः-
(१)	द्र्व्यम् (२) गुणाः, (३) कर्माणि, (४) सामान्यं (५) विशेषः (६) विशिष्टः, (७) अंशी, (८) शक्तिः (९) सादृश्यं (१०) अभावश्च ।
एषु द्रव्यं विंशतिधा अभिहितम्-
(१)	परमात्मा, (२) लक्ष्मीः (३) जीवः (४) अव्याकृत –आकाशः (५) प्रकृतिः(६) गुणत्रयम् (७) महत् तत्त्वं (८) अहंकारतत्त्वम् (९) बुद्धिः (१०) मनः (११) इन्द्रियं, (१२) मात्रा (१३) भूतानि (१४) ब्रह्माण्डम् (१५) अविद्या (१६) वर्णः (१७) अन्धकारः (१८) वासना (१९) कालः (२०) प्रतिबिम्बः ।
गुणेषु वैशेषिकोक्तेभ्यः चतुर्विंशतिगुणेभ्योऽतिरिक्तं शम-दम कृपा –तितिक्षासौन्दर्याणां गणनाऽपि कृता । कर्म त्रिविधम्ं निरुपितम् (१) विहितं कर्म (२) निषिद्धं कर्म (३) उदासीनं कर्म चेति । एषु उदासीनं कर्म परिस्पन्दात्मकम् अस्ति । यत्र उत्क्षेपणापक्षेपणयोरन्तर्भावो जायते । समान्यमपि द्विधा स्वीकृतम् –(१) नित्यानित्यभेदकम् (२) जात्युपाधिभेदकम् च । यः अभेदस्थितौ भेदव्यवहारस्य निर्वाहको भवति स विशेष इत्युच्यते । विशेषणेन संयुक्तः पदार्थो विशिष्टो भवति । अतएव नामरुपात्मकतया संसक्त् ईश्वरोऽपि विशिष्टो वर्तते । पदार्थः समग्ररुपेंऽशी उच्यते । शक्तिश्चतुर्धाऽस्ति –
(१)	अचिन्त्या शक्तिः (२) आधेया शक्तिः (३) सहजा शक्तिः (४) पद्शक्तिश्च । अचिन्त्या शक्तिः अघटितघटनायां निहिता भवति । आधेया शक्तिः अन्याहिता भवति । सहज शक्तिः कार्ये स्वभावतो विद्यमाना भवति । पदशक्तिश्च पदार्थे वाच्यवाचकसम्बन्धेन तिष्ठति ।

माध्वमते साधनायाः पञ्च अवयवाः सन्ति –(१) श्रवणं (२) मननं (३) ध्यानं (४) तारतम्यं (२) ईश्वरस्य जडापेक्षया भेदः (३) जीवस्य जडापेक्षया भेदः (४) जीवानां पारस्परिको भेदः (५) जडपदार्थानां पारस्परिको भेदः । उक्तानां पञ्चविधभेदानां परिज्ञानमेव मुक्तेः साधकमस्ति ।
	
मध्वाचार्येण उपासनापि द्विविधा प्रतिपादिता-(१) सततशास्त्राभ्यासरुपा (२) ध्यानरुपा च । उपासनायोगः अधिकारिभेदात् स्वीकृतः अस्ति । भगवदविषयिणि अखण्डस्मृतिरेव ध्यानमस्ति । साधनायाः क्रमे सर्वप्रथमम् अपरोक्षज्ञानेन परमा भक्तिर्जायते, पत्पश्चात् परमानुग्रहो भवति, तदनन्तरं मोक्षस्य लाभः संभवति । मोक्षोऽपि चतुर्धा मतः –(१) कर्मक्षयरुपः (२) उत्क्रान्तिरुपः (३) अविरादिमार्गरुपः (४) भोगरुपः । एत एव क्रमशः सालोक्यं, सामीप्यं सारुप्यं, सायुज्यं उच्यन्ते ।
	
शुद्धाद्वैतः-शुद्धाद्वैतस्य प्रवर्तक आचार्यो वल्लभाचार्य आसीत् । वल्लभाचार्यस्य मतेन ब्रह्म मायया निर्लिप्तमस्ति, अतएव च पूर्णतया विशुद्धं वर्तते । मायायाः सम्बन्धात् रहितं ब्रह्मैव एकमात्रम् अद्वैततत्त्वम् अस्ति । शुद्धे अद्वैतरुपे च ब्रह्मणः परिकल्पनया वल्लभाचार्यस्येदं मतं शुद्धाद्वैतम् इत्युच्यते । शुद्धाद्वैतमते जीवो जडश्च ब्रह्मणः भिन्नौ न स्तः, अतः उभयोः ब्रह्मरुपता सिद्ध्यति । जडजीवयोः ब्रह्मणा सह ऐक्यभावं स्वतः सारुप्यम् अस्ति, अतः तयोरैक्यमिदं शुद्धम् अद्वैतरुपमस्ति । तत्र मायायाः सम्पर्को न स्यात् । यतोहि मायायाः किमपि अस्तित्वं न भवति । ब्रह्मणो महिम्नैव यथा समानधर्मणां सत्ता पदार्थेषु दृष्टिभूता भवति, तथैव विरुद्धधर्माणां सत्ताऽपि प्रति भासते । संसारस्य सर्वेषु पदार्थेषु प्राणिषु च दृश्यमाणे साधर्म्यवैधर्म्ये ब्रह्मणो लीलायाः विकासस्य परिणाममात्रे स्तः ।
वल्लभमते ब्रह्मणः कोटित्रयं विनिर्दिष्टम्-
(१)	अधिदैविकं –परं ब्रह्म
(२)	आध्यात्मिकम्- अक्षरं ब्रह्म
(३)	 आधिभौतिकम्- दृश्यमाणं जगत्

कार्यकारणयोः वस्तुतो भेदाभावात् कार्यरुपं जगत् कारणरुपाद् ब्रह्मणो भिन्नो नास्ति । इदमेव यथार्थं सत् वर्तते । यथा वेल्लितं वस्त्रं आस्तीर्णमपि तदेव भवति तथैव आविर्भावदशायां जगत्, तिरोभावस्वरुपे ब्रह्म च एकस्या एव सत्तायाः बोधकौ स्तः । जगतः आविर्भावस्तु तस्य ब्रह्मणो लीलामात्रम् अस्ति । ब्रह्म स्वेच्छया जगतः पालनं सहारं च करोति । अत्रापि ब्रह्मणो लीलैव एकमात्रं कारणं वर्तते । अस्मदेव कारणात् ब्रह्मारुपतया सदैव ब्रह्मापि नित्यमस्ति । अद्वैतवेदान्तिभिरिवान्यैरस्मदादिभिः जगत् मायिकं असत्यं वा नैवाभिमन्तुं शक्यते ।
	
वल्लभाचार्यस्य मते लीला विलासस्य् इच्छा अस्ति । एषा इच्छा ब्रह्मणः स्वाभाविको धर्मास्ति । अतएव एतन्निमित्तं किमपि कार्यव्यापारं ब्रह्मन आचरति । सर्ग-विसर्गादिवत् भक्तिरनुग्रहः पुष्टिर्वा ब्रह्मणो लीलैवास्ति । मर्यादावशात् ब्रह्म साधनपरतन्त्रं भवति । अतः आत्मनो मर्यादानां रक्षा तस्याभीष्टा भवति । पुष्टिमार्गे ब्रह्म साधनपरतन्त्रं नाभिमतम्, अपितु जीवानुग्रहनिमित्तमेव ब्रह्मणः सगुणावतारस्य समर्थनं विहितम् । अद्वयब्रह्मणो निर्गुणत्वेऽपि सगुणत्वाप्तौ सांसारिकजीवस्य कृते साधननिरपेक्षाया मुक्तेदर्शनमेकमात्रं कारणमस्ति । भगवत्शरणागतेः प्रपन्नभावस्य वा परिणामस्वरुपं जीवे ब्रह्मणः कारण्यम् उत्पद्यते ।
	
अक्षरं ब्रह्म क्षरपुरुषापेक्षया अर्थात् प्रकृत्यपेक्षया श्रेष्ठमस्ति, किन्तु परं ब्रह्म ततोऽपि श्रेष्ठं वर्तते । अक्षरब्रह्माणि आनन्दांशस्य किञ्चिन्पात्रे तिरोधानं भवति, पुरुषोत्तमस्तु आनन्देन परिपूर्णो भवति । क्षरातीतोऽक्षर उत्तमतया पुरुषोत्तम इति कथ्यते । एवं ब्रह्मण एव पुरुषोत्तमसंज्ञा जायते । सः पुरुषोत्तमः भक्तयैव गम्यः । क्षरपुरुषः (प्रकृतिरथवा जडं जगत । यद्यपि ब्रह्मरुपतया नित्यमस्ति तथापि विशुद्धज्ञानेनैव स बोध्यो भवति । यद्यपि ज्ञानी जनो ज्ञानबलेन अक्षरं ब्रह्मापि अधिगच्छति तथापि पुरुषोत्तमस्य परब्रह्मणः प्राप्तिस्तु अनन्य शरणागतिस्वरुपया भक्तयैव सम्भाव्यते ।
	
ब्रह्म स्वेच्छया जगदुत्पत्तेरन्तरं स्वकीयानाम् आनन्दादिगुणानां अंशान् तिरोहितान् विधाय स्वयं  जीवरुपतां गृह्णाति । ब्रह्मणो जीवोत्पत्तिरग्निस्फुलिंगसदृशी अभिमता । यथा अग्निस्फुलिङ्गम् अग्निना उत्पन्नमपि अग्न्यपेक्षया भिन्नं प्रति भाति, तथैव ब्रह्मापेक्षया जीवः पृथक् विभाति किन्तु यथार्थतः यथा अग्निस्फुलिङ्गम् अग्नेः पृथक् न भवति तथैव जीवब्रह्मणोर्मध्येऽपि पार्थक्यं न भवति । वल्लभमतेन जीवो ज्ञाता ज्ञानम् अणुरुपं चास्ति । ब्रह्मणोऽविकृतात् संदशात् जडस्य निर्गमनं जायते, अविकृतचिदंशाच्च जीवस्य निर्गमनं सम्भवति । जडस्य निर्गमनकाले यथा चिदंशः आनन्दांशश्च तिरोदधतः तथैव जीवस्य निर्गमनकाले केवलम् आनन्दांश एव तिरोहितो भवति । इयमेव ब्रह्मणः सृष्टिप्रक्रिया सम्प्रोक्ता ।
	
वल्लभमतानुसारेण जगत् संसारश्च् पृथक्-पृथक् स्तः । ईश्वरेच्छायाः विकासेन संदशात् प्रादुर्भूतः पदार्थः जगदित्युत्यते, किन्तु पञ्चपर्वाया अविद्यायाः परिणामस्वरुपं जीवेन उपकल्पितानां मोहममतादिपदार्थानां संघातः “ संसारः” इति संज्ञां लभते ।अविद्यायाः सत्त्वादेव लोकस्य सत्त्वं सिद्ध्यति । ज्ञाने सति संसारो नश्यति, तथापि ब्रह्मरुपतया जगतः सत्त्वं सार्वकालिकं भवति । तस्य न कदापि विनाशो भवति । जगति विद्यमानो जीवो भक्तयैव केवलं ब्रह्माप्तुं क्षमते । भक्तयैव च भगवदनुग्रहः सम्भवति । श्रीमदभागवते प्रोक्तस्य “पोषणं तदुनग्रहः” इत्यस्य कथनस्यानुसारं भगवदनुग्रह एव पुष्टिसंज्ञकोऽस्ति । अस्यैव प्राधान्येन प्रतिपादनात् इदं मतं पुष्टिमार्गीय मित्यपि कथितम् ।	
वल्लभाचार्यस्य पुष्टिमार्गे भक्तिद्विधा स्वीकृता-

भगवच्चरणारविन्दयोर्भक्तिः मर्यादा भक्तिरस्ति किन्तु भगवन्मुखारविन्दस्य भक्तिः पुष्टिभक्तिः कथिता । मर्यादाभक्तौ फलाकांक्षा निगूढा भवति, किन्तु पुष्टिभक्तौ फलाकांक्षाया लेशोऽपि न भवति । मर्यादाभक्त्या सायुज्यं प्राप्यते, किन्तु पुष्टिभक्त्या ब्रह्मणोभेदताया याथार्थ्येन बोधो भवति । इदमेव पुष्टिमार्गस्य मूलभूतं रहस्यं भवति । भगवदनुग्रहस्य परिणामस्वरुपं स्व स्वरुपापत्तेः प्राप्तिरपि वल्लभमते मुक्तिरेवोद्दिष्टा ।




#Article 182: कविः (325 words)


कविः दार्शनिकः भवति । काव्यस्य प्रणेता भवति । वाल्मीकिः आदिकविः इति प्रसिद्धः । जयन्तु ते सुकृतिनो रससिद्धाः कवीश्वराः। नास्ति एषां यशः काये जरामरणजं भयम्॥ इति उक्तिः प्रसिद्धा एव ।

एकदा वृद्धो विद्वान् पृष्ठः - “कान् ग्रन्थान् पठित्वा एतादृशं ज्ञानं प्राप्यते भवता” इति । सोऽपि विद्वान् “मेघे माघे गतं वयः” इति प्रत्यवदत्। अर्थात् कालिदासस्य मेघदूतखण्डकाव्यं तथा माघस्य शिशुपालवधमहाकाव्यं च पठनेन तस्य सम्पूर्णवयः समाप्तम्। तस्य ज्ञानं च तावेव ग्रन्थौ पठित्वा वर्धितम्।
कालिदाससदृशं हि गण्यते माघः पण्डितैः। अस्ति च अपरा उक्तिः माघस्य प्रशस्तिप्रकटने।

उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।

कालिदासस्य उपमाप्रयोगे कौशलं, भारवेः अर्थगौरवं तथा कवेः दण्डिनः पदलालित्यं च इति एते त्रयः विद्यन्ते माघे इति श्लोकार्थः । ये अपरिमितागणितगुणाः कालिदासभारविदण्डिषु विद्यन्ते ते सर्वे गुणाः एकत्र सन्ति माघे।

कविकुलकमलदिवाकरमहाकविमाघस्य पितुः नाम दत्तकः आसीत्। पितामहस्य नाम सुप्रभदेवः तथा च अयं राज्ञः श्रीवर्मलस्य धर्मसचिवः आसीत् । महाकविमाघस्य जन्म गुजरातप्रदेशस्य ‘श्रीमाल’ इति नगरे अभवत्। महाकविमाघस्य स्वचरितकविवंशवर्णनात् एतत् हि ज्ञायते ।
अनेन कविना प्रणीतं शिशुपालवधं नाम महाकाव्यं महाभारतस्य सभापर्वताधारेण अस्ति। इदं विंशस्सर्गयुक्तं महाकाव्यम् । युधिष्ठिरेण कृते राजसूययज्ञे कस्य प्रथमपूजा कर्तव्या इति चर्चायां, सहदेवेन भगवतः श्रीकृष्णस्यैव प्रथमपूजा इति उच्यते । एतत् तु सर्वैः सभाङ्गनैः अङ्गीक्रियते। परन्तु तत्रत्यः शिशुपालः एतन्नाङ्गीकरोत्। सः शिशुपालः भगवन्तं श्रीकृष्णं निन्दितवान् । सभायामुपस्थिताः सर्वे ताः निन्दाः असहमानाः स्वीयान् अस्त्रान् स्वीकुर्वन्। एतान् सर्वान् दृष्ट्वा अन्ते भगवान् श्रीकृष्णः स्वयं शिशुपालं हन्ति।
भासः

संस्कृतसाहित्ये कवेः भासस्य प्रशस्तिप्रकटने कालिदासादिकवीनां प्रशंसापूर्वकवचनान्येव साधु। अलमतिप्रसङ्गेन। कालिदासः स्वस्य मालविकाग्निमित्रनाटकस्य प्रस्तावनायां कविभासमधिकृत्य एवं वर्णयति-

अत्र वर्ण्यमाणानां भाससौमिल्लकविपुत्रादीनां त्रयाणां कवीनां मध्ये कविभासस्यैव प्रथमं स्थानं दत्तं कविश्रेष्ठैः कालिदासैः ।

सपातकैर्यशो लेभे भासो देवकुलैरिव ॥ ‘

नानाप्रकारकथाभिः तथा बहुपात्रयुक्तानि नाटकानि कविभासैः विरचितानि इति अस्मात् श्लोकात् ज्ञायते। यद्यपि बहुभिः कविभिः भासस्य यशः प्रकटितं तथापि दौर्भाग्यवशात् एतादृशस्य महाकवेः जन्मादिविषये यु्क्तिपूर्वकविषयाः अनुपलब्धाः। भासः इति शब्दोऽपि तस्य गोत्रनाम एव न तु यथार्थनाम।

संस्कृतसाहित्ये भासकृतानि त्रयोदशनाटकानि प्रसिद्धानि वर्तन्ते। तानि च

स्वप्नवासवदत्तम् , प्रतिज्ञायौगन्धरायणम् , अविमारकम्, चारुदत्तम् , बालचरितम्, मध्यमव्यायोगम् , पञ्चरात्रम्, दूतवाक्यम् , दूतघटोत्कचम् , कर्णभारम् , ऊरुभङ्गम् , प्रतिमानाटकम्, अभिषेकनाटकम् ।

एतेषां नाटकानां संख्याः, मूलानि, अनन्तानि तथा विविधानि पात्रकल्पनानि च भासस्य विषये कालिदासबाणभट्टादीनां प्रशंसावाक्यानि समर्थयन्ति ।

सौजन्यम् - संस्कृते लिखामः ब्लागः ।




#Article 183: उपसर्गाः (101 words)


श्र्लोकेऽस्मिन् निस् दुस् च परित्यक्ते । निर् दुर् अनयोः सादृश्यात् । ते च प्रादयः क्रियायोगे उपसर्गसंज्ञां लभन्ते । तेषाम् योगात् परिवतनं स्यात् । तदुक्तम् – 

उपसर्गः धातोः अर्थ बलादन्यत्र नयति । यथा ’हृञ् हरणे’ धातोः उपसर्गयोगात् प्रहारादयः अर्थाः । यथा वा उपचयः वृद्धिः, अपचयः क्षयः । किन्तु उपसर्गयोगे अन्यः एव अर्थः भासते इति नियमः न विद्यते । उपसर्गवशात् त्रिधा अर्थगतिः सम्भवति । तदुक्तम् – 

कदाचित् उपसर्गः धात्वर्थं बाधते । तथा चयनार्थकचिञ्धातोः उपोपसर्गयोगात् वृध्यर्थः उपचयः इत्यत्र । कदाचित् धात्वर्थमेव अनुवर्तते । यथा सूते प्रसूते । कदाचित् तमेवार्थं विशेषयति । यथा सरति अनुसरति । अनुसृत्य सरति इति धात्वर्थं विशेषयति ।

उपसर्गाः २२ सन्ति।




#Article 184: सम् (उपसर्गः) (201 words)


सम्सम्यक्त्वे समन्तत्वे श्लेषे कूजनवर्तने । 
         सहभावे स्मृतौ क्रोधे वृद्धिवाचिकढौकने ॥
अनिश्चये गुणाधानप्रतिज्ञात्यागसेवने । 
           क्रियान्तोद्योगनियमे विमर्शगणनाक्षये ॥
नैकट्येऽनुकृतौ प्रीतौ स्वीकारोत्पत्तिवर्जने । 
           आभिमुख्ये परिचये कालेऽल्पपरिहारयोः ॥ 




#Article 185: अनु (उपसर्गः) (124 words)


अनु पश्चात्कृपाज्ञानसान्त्वने सेवनेच्छ्योः । 
            सादृश्याचरणप्रश्र्नादेशाङ्गीकृतमार्गणे ॥
प्रोत्साहने चानुकूम्ये पश्चात्तापानुपूर्वयोः । 
            प्रसाधने चोपकारे सातत्यालोचनान्वये ॥ 



#Article 186: अव (उपसर्गः) (129 words)


अव क्रोधे बोधरोधे धैर्यालम्बनभूषणे । 
          न्यग्भावाभिभवादानभोजने श्लेषधर्षणे ॥ 
दयैकाग्र्यक्लृप्तसेवाप्रहासालोकशुद्धिषु । 
         अनुत्साहप्रसाराज्ञावेलाशङ्कनमिश्रणे ॥ 

#Article 187: वि (उपसर्गः) (236 words)


वि विशेषेऽत्यये व्याप्तौ परिवर्ते विपर्यये ।
निवृत्तिपृथुताव्याजव्याख्यायानाश्वाभोजने ॥
विरोधे प्रैषपर्यायक्रियाक्रीडनवण्टने ।
रोधोद्वाहक्लेशदूरशौर्योद्योगनिशामने ॥
दानेऽन्यथात्वे नानात्वे नाशाश्चर्योक्तिमिश्रणे ।
भेदशिक्षामोहमुख्यविचारासम्मुखे व्यये ॥ 



#Article 188: अत्र तत्र (110 words)


सदृशं त्रिषु लिङगेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥

त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु सर्वेषु वचनेषु च यद् न व्येति=विकारं न प्राप्नोति, किन्तु सदृशम्=एकप्रकारमेव भवति, तत् अव्ययम् इति आथर्वणश्रुतिः ।

अत्र इत्यव्ययम् अस्मिन् इत्यर्थे प्रयुज्यते । इदं हि विभक्तिप्रतिरूपकम् अव्ययम् । एतत् अव्ययम्, 'इदम्' शब्दात् सप्तम्यास्त्रल् इति सूत्रेण त्रल् प्रत्यये कृते इदम् + त्रल् इति स्थिते इत्संज्ञायां लोपे च इदम् + त्र इति जाते त्यदादीनामः इति सूत्रेण मकारस्य स्थाने अकारादेशे इद अ + त्र इति दशायाम् अतो गुणे इति सूत्रेण पररूपे इद + त्र इति जाते हलि लोपः इति सूत्रेण इद् इत्यस्य लोपे अ + त्र इत्यवस्थायां संयोगे अत्र इति रूपं सिद्ध्यति । 

उदाहरणानि - 
 




#Article 189: होलीपर्व (515 words)


होलिकोत्सवाख्यं पर्व होलाकः, होलीकः, होली, फाल्गुनिका, वसन्तोत्सवः, कामपर्व इत्यादिभिः नामभिः निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धाः बह्व्यः कथाः सन्ति पुराणेषु ।

होलिकानामिका हिरण्याक्ष-हिरण्यकशिपोः सोदरी । महामायाविनी सा अग्निसिद्धिम् अपि प्राप्तवती आसीत् । यद्यपि दैत्यराजः हिरण्यकशिपुः परमविष्णुभक्तं स्वपुत्रं प्रह्लादं मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि सः सफलः नाभवत् । तस्मात् कुपितः हिरण्यकशिपुः सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्याः किमपि न भवति । प्रह्लादम् अग्निः दहति इति । अतः राक्षसाः होलिकायाः उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्तः । किन्तु परिणामः तु व्यतिरिक्तः जातः । होलिका तदग्नौ दग्धा सती तत्रैव मरणं प्राप्नोत् । भगवद्भक्तः प्रह्लादः भस्मराशितः बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।

सत्ययुगे ढुण्ढानामिका मालिनामकस्य राक्षसराजस्य पुत्री आसीत् । सा कठोरं तपः आचर्य युवैः वा वृद्धैः वा मनुष्यैः, देवैः केनापि प्राणिना च मम मरणं न भवेत् इति वरं प्राप्तवती । बालाः किं कर्तुं शक्नुयुः इति तेषाम् उपेक्षां कृतवती । सा पृथु अथवा रघु इत्याख्यातस्य राज्ञः काले अहर्निशं सञ्चरन्ती बालान् सर्वान् मारयति स्म । मायाविनीं तां राक्षसीं गृहीतुं केऽपि न शक्तवन्तः । वसिष्ठमहर्षिद्वारा तस्याः रहस्यं ज्ञातवान् राजा तस्याः ग्रहणकार्ये बालान् एव नियुक्तवान् । फाल्गुनमासस्य पूर्णिमायां देशस्य सर्वे बालाः सम्भूय काष्ठकारीषेषु अग्निं प्रज्वाल्य नृत्यन्तः चीत्कुर्वन्तः तस्याः ग्रहणार्थं धावितवन्तः । भीता सा मनुष्यलोकादेव निर्गता । एतस्य स्मरणार्थम् होलीपर्व आचर्यते ।

शिवः समाधिस्थितौ तपः आचरन् आसीत् । तदा तस्य तपः नाशितवान् कामदेवः । तदा तपोभाङ्गात् क्रुद्धः शिवः तृतीयं नेत्रम् उद्घाट्य कामदेवं दहति । तस्य दिनस्य स्मरणार्थं होलीपर्व आचर्यते ।

एतद्दिने कामदेवम् आवह्य षोडशोपचारैः पूजयन्ति च । अस्मिन् दिने होलिका अथवा पोलिका इति विशिष्टं भक्ष्यं समर्पयन्ति देवेभ्यः । तद्दिने देवपितृभ्यः तर्पणं प्रदाय दोषशान्त्यर्थं होलीधूलिं नमस्कुर्वन्ति । गृहस्य अङ्गणं शुद्धीकृत्य अक्षतारङ्गवल्लीभिः अलङ्कृत्य मध्यभागे श्वेतवस्त्रयुक्तं पीठं स्थापयन्ति । तत्पुरतः श्वेतचन्दन-रक्तवस्त्र-पल्लवैः युक्तं कलशं प्रतिष्ठापयन्ति । तदुपरि रतीदेवीसहितं कामदेवं प्रतिष्ठाप्य अर्घ्य-पाद्य-गन्ध-दीप-धूप-पुष्प-नैवेद्यानि समर्पयन्ति । महिलाः रक्तवर्णस्य वस्त्रम् आभूषणानि च धृत्वा चन्दनवृक्षं पूजयन्ति । तेन आयुरारोग्यवृद्धिः भवति इति । पञ्चमीतः आरभ्य दश दिनानि विनोदार्थं चोरितानि काष्ठानि सङ्गृह्य होलिकादहनं कुर्वन्ति । पूर्णिमादिने अग्निप्रदीपनं कुर्वन्ति । ग्रामात् बहिः मध्ये वा होलिकादहनम् आचरन्ति । चण्डालगृहात् वा सूतिकागृहात् वा बालानां द्वारा अग्निम् आनाययन्ति होलिकादहनार्थम् । राजा एव स्वयं स्नानादिना शुद्धः सन् स्वस्तिवाचनं कारयित्वा तूर्यनादसहितः आगत्य दानधर्मादिकम् आचर्य अग्निज्वालनं कुर्यात् । अग्नये घृतं दुग्धं च समर्पयन्ति । अनन्तरं जलेन अग्निकेन्द्रं शान्तं क्रुत्वा एकान्तस्थाने स्थापयन्ति । नारिकेलस्य दाडिमस्य बीजपूरस्य च दानं कृत्वा रात्रिं गीतवाद्यनृत्यैः यापयन्ति । त्रिवारम् अग्नेः प्रदक्षिणं कृत्वा गृहमानयन्ति तम् अग्निम् । अपरस्मिन् दिने प्रातःकाले तेन अग्निना एव जलम् उष्णीकृत्य स्नानं कुर्वन्ति ।

एवं रात्रौ होलिकोत्सवम् आचर्य अपरस्मिन् दिने प्रातःकाले सर्ववर्गीयाः अपि जनाः मिलित्वा आमोदप्रमोदम् आचरन्ति । पाटलवर्णस्य जलं प्रथमं देवेभ्यः ज्येष्ठेभ्यः च समर्प्य प्रसादरूपेण परस्परं सिञ्चन्ति ।
वङ्गदेशे तद्दिने श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । तत्र त्रीणि वा पञ्च वा दिनानि पर्व आचरन्ति । फाल्गुनशुद्धचतुर्दश्यां रात्रौ मण्डपस्य पूर्वभागे अग्निदेवस्य आराधनं कुर्वन्ति । गोविन्दस्य विग्रहं कृत्वा १६ स्तम्भैः युक्तस्य मण्डपस्य वेदिकायां प्रतिष्ठापयन्ति । पञ्चामृताद्यैः अभिषेकं कृत्वा देवस्य अलङ्कारं कुर्वन्ति । अनन्तरं सम्यगलङ्कृतायाम् आन्दोलिकायां देवम् उपवेश्य सप्तवारं आन्दोलयन्ति । उत्सवस्य प्रथमदिने ज्वालितम् अग्निम् अन्तिमदिनपर्यन्तमपि रक्षन्ति । अन्तिमदिने देवम् २१ वारम् आन्दोलयन्ति । इन्द्रद्युम्नमहाराजः वृन्दावने एतत् पर्व आरब्धवान् इति विश्वसन्ति जनाः ।




#Article 190: मकरसङ्क्रमणम् (426 words)


मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम् । अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः । इदं पर्व तिलपर्व इत्यपि निर्दिश्यते । तमिळुनाडुराज्ये पोङ्ग्ल इति वदन्ति । एतत् सूर्यस्य चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम् ।

एवंक्रमेण वर्षे १२ सङ्क्रमणानि भवन्ति । तत्र प्रमुखं सङ्क्रमणद्वयम् । कर्काटकसङ्क्रमणं (दक्षिणायनस्य आरम्भ:) मकरसङ्क्रमणं (उत्तरायनस्य आरम्भ:) चेति । कर्काटकमकरसङ्क्रमणे अयनसङ्क्रमणे, मेषतुलासङ्क्रमणे विषुवसङ्क्रमणे, कन्या-मिथुन-धनु-मीनसङ्क्रमणानि षडशीतिमुखसङ्क्रमणानि, वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रमणानि विष्णुपदसङ्क्रमणानि इति विभाग: कृत: अस्ति । मकरसङ्क्रमणदिनत: आरभ्य रात्रिकालस्य अवधि: न्यून: भवति । एतद्दिने एव स्वर्गस्य द्वारोद्घाटनं क्रियते इति । परमपवित्रे अस्मिन् सङ्क्रमणदिने क्रियमाणं स्नान-दान-जप-तप-हवन-पूजा-तर्पण-श्राद्धादिकम् अधिकं फलप्रदम् इति वदन्ति शास्त्रपुराणानि । तद्दिने य: पापाचरणं करोति, य: पवित्रकर्माणि न आचरति स: पापभाक् भवति इत्यपि वदन्ति ज्ञानिन: । अन्यानि सङ्क्रमणानि आचरितुम् अशक्त: एतदेकं सङ्क्रमणं वा आचरेत् इति वदति शास्त्रम् ।
  

सूर्य: अस्मिन् दिने दक्षिणत: उत्तरदिशि सञ्चारस्य आरम्भं करोति । अत: एव उत्तरायणस्य आरम्भ: अस्मात् दिनात् इति उच्यते । सूर्यस्य एकस्मात् राशित: अन्यराशिं प्रति प्रवेशकाल: अत्यन्तं सूक्ष्म: । सामान्यै: स: काल: क: इति न ज्ञायते । तदर्थं तत्पूर्वं परं चेति कश्चन काल: पुण्यकाल: इति निर्णीत: अस्ति । मेषतुलासङ्क्रान्तौ राशिप्रवेशात् पूर्वं प्रवेशानन्तरं च १५ घटिका: यावत् पुण्यकाल: । वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रान्तिषु प्रवेशपूर्वं १६ घटिका: यावत्, मिथुन-कन्या-धनु-मीनसङ्क्रान्तिषु प्रवेशात् परं १६ घटिका: यावत्, कर्काटकसङ्क्रमणे प्रवेशपूर्वं ३० घटिका: यावत्, मकरसङ्क्रमणे च प्रवेशानन्तरं ४० घटिका: यावत् पुण्यकाल: इति उच्यते । अस्मिन् पुण्यकाले स्नान-जप-तप-ध्यान-श्राद्ध-तर्पणादिकं कुर्वन्ति । तद्दिने पुण्यतीर्थस्नानेन पुण्यपुरुषार्था: सिध्यन्ति इति । गङ्गास्नानेन ब्रह्मलोक: प्राप्यते । विशेषतया मकरसङ्क्रमणदिने शीतलजलेन एव स्नानं कुर्वन्ति । अशक्ता: केवलम् उष्णजलेन स्नानं कुर्वन्ति । तिलपर्व इत्येव प्रसिद्धे अस्मिन् पर्वणि विभिन्नै: प्रकारकै: तिलस्य उपयोगं कुर्वन्ति । तिलतैलं लेपयित्वा स्नानं कुर्वन्ति । तिलेन तर्पणं यच्छन्ति । तिलनिर्मैत दानं कुर्वन्ति । तिलस्य, गुड-नारिकेल-कलायमिश्रितस्य तिलस्य दानं कुर्वन्ति । पीडापरिहरार्थं बालानां तिलाभिषेकं कुर्वन्ति । देवानां पूजां कृत्वा विशेषतया मुद्गमिश्रितस्य अन्नस्य (पोङ्ग्ल) नैवेद्यं कुर्वन्ति ।

एतद्दिने एव वाताटानाम् उड्डयनम् अपि कुर्वन्ति महता प्रमाणेन भारतस्य केषुचित् राज्येषु । एतद्दिने गोपूजामपि कुर्वन्ति । ता: स्नापयित्वा श्रृङ्गे विविधवर्णै: अलङ्कुर्वन्ति । तासां प्रियं तृणं, धान्यं, गुडं, नारिकेलं च ताभ्य: यच्छन्ति । पीडापरिहारार्थं ता: ज्वलत:  उपरिष्टात् गमयन्ति । गोमाता अष्टमङ्गलेषु एका इति परिगण्यते । तस्या: दर्शनं, नमस्कार:, पूजा, प्रदक्षिणं च अनिष्टपरिहारकम् इति मन्यते । तस्या: अवयवेषु १४ लोका: सन्ति । समस्तदेवता: तस्या: अङ्गेषु निवसन्ति इति वदन्ति शास्त्राणि ।

एतदृशी गोमाता प्रतिदिनम् अपि पूजनीया । य: प्रतिदिनं न श्क्नोति स: सङ्क्रमणदिने वा गोपूजां कुर्यात् । शुभकर्मणि, अपरकर्मणि, श्राद्धकर्मणि एवं सर्वत्रापि गोपूजा श्रेयस्करी । गोमातु: श्रृङ्गद्वये अयनद्वयस्य अधिदेवता: निवसन्ति । अयनद्वयस्य सन्धिकाले मकरसङ्क्रमणदिने गोपूजा अत्यन्तं श्रेयस्करी ।

तद्दिने मध्याह्नभोजनानन्तरं नारिकेल-गुड-कलायमिश्रितं तिलम्, इक्षुदण्डं, शर्करानिर्मितं विग्रहं च प्रतिगृहं गत्वा वितरन्ति । रात्रौ देवतापूजाया: अनन्तरं ज्योतिष्कान् सगौरवम् आह्वयन्ति । ज्योतिष्का: सङ्कान्तिमूर्ते: स्वरूपं, तस्य वर्षस्य सङ्क्रमणफलं प्ञ्चाङ्घानुसारं वदन्ति ।

तमिळुनाडुराज्ये, आन्ध्रपदेशे, , कर्णटके एवं कुत्रचित् सङ्क्रमणस्य आचरणे प्रादेशिकानि वैशिष्ट्यानि सन्ति ।




#Article 191: ओणम् (308 words)


ओणम् ( ) (, ) उत्सवः भूलोकं प्रति महाबलिनः आगमनं निमित्तीकृत्य आचर्यते । ओणं-पर्वकाले महाबलिनः, तथा तं पातालं प्रति प्रेषितवतः वामनस्य च पूजा क्रियते। चतुरस्राकारके मृत्पिण्डे महाबलिनः विष्णोः च आवाहनं कृत्वा पुष्पादिभिः अलङ्कृत्य पूजा क्रियते। प्राचीनकाले वामनस्य पूजनं न आसीत्। ओणंकाले महाबली दशदिनाभ्यन्तरे प्रतिगृहम् आगत्य योगक्षेमादिकं परिशीलयति इति केरलीयाः भावयन्ति। अतः ते तस्य स्वागतार्थं विशेषव्यवस्थां कुर्वन्ति। प्रतिगृहं स्वच्छीक्रियते, अलङ्क्रीयते च । उषसि एव देहल्याः पुरतः पर्ण-पुष्प-वर्णचूर्णादिभिः आकर्षकतया रङ्गवली विरच्यते। पुष्पाकारकाः ताः 'पूक्कळम्' इति  मलयाळभाषया निर्दिश्यन्ते। जनाः नूतनानि वस्त्राणि धृत्वा परस्परम् उपायनानि यच्छन्ति। नृत्यादिभिः चक्रवर्तिनः स्वागतं कुर्वन्ति।
दशदिनात्मके एतस्मिन् उत्सवकाले रुचिकराणि खाद्यानि सज्जीक्रियन्ते। ओणं-सम्बद्ध्ं 'कैकोट्टिक्कळि' नामकं नृत्यप्रकारम् अवलम्ब्य महिलाः नृत्यन्ति।

एतस्य उत्सवकालस्य प्रमुखम् आकर्षणं नाम-अनतिगम्भीरे जले नौकास्पर्धायाः आयोजनम्। एताः काष्ठनिर्मिताः नौकाः फणाः उन्नीतवतः सर्पस्य आकारेण भवन्ति। स्पर्धादिने एतासु नौकासु शताधिकाः नौकाचालकाः उपविश्य समूहशक्त्या नौकां चालयन्ति। तदवसरे न केवलम्  एताः दीर्घनौकाः अपि तु लघुनौकाः, बालैः चाल्यमानाः उडुपाः चापि दृश्यन्ते नदीषु। एवम् अयम् उत्सवः केरळीयेषु आनन्दम् उत्साहं च महता प्रमाणेन पूरयति।

प्राचीनकाले असुरकुलोत्पन्नः महाबली केरळराज्यं पालयति स्म । सः न्यायपरः प्रजावत्सलः समर्थः च आसीत्। तस्य शासनकाले प्रजाः सुखेन जीवन्ति स्म। सः शौर्येण असदृशः आसीत्। अतः न केवलं भूलोकम् अपि तु स्वर्गादीन्लोकान् अपि पालयति स्म सः। तस्य कीर्तेः विस्तारं देवाः सोढुं न शक्तवन्तः। सर्वे सम्भूय निर्णीतवन्तः यत् 'स्वर्गः स्वयत्तीकृतः तेन तदर्थं महाबली दण्डनीयः' इति। एतदर्थं विष्णोः साहाय्यं प्रार्थितम्। विष्णुः अवकाशं प्रतीक्षमाणः आसीत् । कदाचित् महाबली अश्वमेधयागम् आरब्धवान्। तदा विष्णुः वामनवेषं धृत्वा यागमन्डपम् आगतवान्। याचकेन यद् याच्यते तत् दातव्यम् एव इति तु यागनियमः। अतः वामनः यत् याचेत तत् दातुं सिद्धः आसीत् महाबली। वामनः त्रिपादपरिमितां भूमिं याचितवान्। महाबली दानम् अङ्गीकृत्वान्। त्रिपादपरिमितायाः भूमेः दाने आक्षेपार्हः अंशः कोऽपि नासीत्। तथापि गुरुः शुक्राचार्यः आतङ्कयुक्तः जातः। वामनः त्रिविक्रमः जातः। सः एकेन पादेन भूमिम्, अपरेण च स्वर्गलोकं च आक्रान्तवान्। 'मया तृतीयः पादः कुत्र स्थापनीयः?' इति वामनः महाबलिनं पृष्टवान्। वचनपालने बद्धादरः असुरचक्रवर्ती विनयेन शिरः अवनमितवान्। वामनः तृतीयं पादं महाबलिनः शिरसि संस्थाप्य तं पातालं प्रति प्रेषितवान्। वामनस्य अदृश्यतातः पूर्वं महाबली वरं याचितवान्-वर्षे एकवारम् अहं मम साम्राज्यं द्रष्टुम् इच्छामि इति। विष्णुः अङ्गीकृतवान्।



#Article 193: पुरूरवाः (208 words)


अनेकानि यागयज्ञादीनि कृत्वा देवताः तोषितवान् पुरूरवाः कश्चित् महान् राजा आसीत्।  सः तदा तदा देवलोकम् अपि गत्वा आगच्छति स्म। कदाचित् प्रयाणकाले तेन कस्याश्चित् स्त्रियाः आर्तनादः श्रुतः। केशी नाम कश्चित् राक्षसः ऊर्वशी-चित्रलेखानामनी द्वे देवकन्ये बलात् अपहृत्य नयन् आसीत्। पुरूरवाः तं राक्षसं जित्वा ते देवकन्ये सुरक्षिततया स्वर्गं प्रापितवान्।

कानिचन दिनानि अतीतानि।  कस्यचित् ऋषेः शापकारणतः ऊर्वशी भूलोके नरजन्म प्राप्तवती। सा भूलोके पुरूरवसम् इष्टवती। ऊर्वश्याः असदृशं सौन्दर्यं दृष्ट्वा पुरूरवाः अपि आकृष्टः अभवत्। अहं भवतीं परिणेतुम् इच्छामि इति पुरूरवाः स्वेच्छां प्रकटितवान्। तस्य वचनं श्रुत्वा ऊर्वशी निर्बन्धसहितं परिणयम् अङ्गीकृतवती। तस्याः प्रधानः निर्बन्धः आसीत् यत्-'मम समीपे एकं हरिणयुगलम् अस्ति यावत् तत् सुरक्षितं स्थास्यति तावत् अहं भवता सह जीवनं करिष्यामि इति। पुरूरवाः एतत् अङ्गीकृतवान्।
तौ द्वौ अपि कञ्चित् कालं यावत् गार्हस्थ्यजीवनं कृतवन्तौ।

ऊर्वश्याः शापविमोचनकालः सन्निहितः। स्वर्गे तस्याः अभावेन नीरसताम् अनुभवन् इन्द्रः तस्याः शोधनार्थं गन्धर्वान् प्रेषितवान्। एकस्यां रात्रौ महती वृष्टिः आसीत्। तदा गन्धर्वाः आगत्य हरिणद्वयमपि चोरयित्वा नीतवन्तः। निद्रातः अकस्मात् जागरितः पुरुरवाः तं विषयं ज्ञात्वा अनुक्षणं तान् अनुसृतवान् । किन्तु तान् ग्रहीतुं सः न शक्तः। एवं नियमभङ्गः जातः इत्यतः ऊर्वशी अनुक्षणं पुरूरवसं परित्यज्य स्वर्गं गतवती। ऊर्वश्याः वियोगं सोढुम् अशक्तः पुरूरवाः उन्मत्तः इव अभवत्। तस्य तादृशीं स्थितिं दृष्ट्वा उत्पन्नकरुणाः देवताः वर्षे एकवारं कुरुक्षेत्रे तयोः मेलनार्थं व्यवस्थां कृतवन्तः। तेन पुरूरवसः जीवने चैतन्यं दृष्टम्।
ऊर्वशी-पुरूरवसोः कथायां बहु रहस्यानि सन्ति इति पौराणिकाः वदन्ति। एतां कथाम् आधारीकृत्य अनेके कवयः काव्यानि नाटकानि च रचितवन्तः सन्ति।




#Article 194: कंसः (256 words)


कंसः यदुवंशस्य उग्रसेनस्य पत्न्यां कालनेमिः इति राक्षस्य अंशेन जातः । मगधदेशस्य राज्ञः जरासध्य पुत्र्यौ अस्तिः प्रास्तिः च अस्य भार्ये । उग्रसेनस्य राज्ञी कदाचित् सखिभिः सह स्नातुं यमुनानदीं गता कामपरवशा पत्युः स्मरणं कृतवती । सहसा द्रुमिलः इति राक्षसः उग्रसेनस्य रूपेण आगत्य रतिसुखमनुभूतवान् । रतिलक्षणेन एषः उग्रसेनः न इति शङ्किता तेन वास्तववृत्तान्तं प्राप्तवती । तदा रोषात् भवतः दुर्वीर्येणः जातः यदुवंशजेन एव मृत्युं प्राप्नोतु इति शप्तवती । अनेन कारणेन कंसे आसुरी स्वभावः संवृद्धः । प्रप्ते तारुणेय कंसः उग्रसेनं कारावारे अस्थापयत् । स्वयं राज्यं दौष्ट्येन प्रशासितुम् आरब्धवान् ।

पितृव्यस्य पुत्र्याः देवक्याः विवाहं वसुदेवेन सह वैभवेन अकरोत् । नवदम्पतयौ सम्प्रेषणावसरे कंसः  ’ अस्याः गर्भजः शिशुः ते मृत्युः भविष्यति ’ इति अशीरवाणीं श्रुतवान् । भीतः कंसः देवकीवसुदेवौ कारावारे स्थापितवान् । तयोः जाते सन्ताने कंसः मारयति स्म । एवं तयोः सप्तापत्यानि मारितवान् । वसुदेवदेवक्योः अष्टमे गर्भे श्रीकृष्णः अजायत । देववाणीम् अनुसरन् वसुदेवः तं शिशुं नन्दगोकुलस्य नन्दगोपस्य पत्न्याःयशोदायाः निकटं त्यक्त्वा तया प्रसूतां कन्याम् आनीय देवक्याः समीपम् अस्थापयत् । देवक्याः स्त्रीजननम् अभवत् इति ज्ञात्वा कंसः खड्गपाणि तत्रागतः । शिशुम् उपरि क्षिप्त्वा खड्गं प्रसारितवान् । किन्तु शिशुः तव मृत्युः नन्दगोकुले वर्धते इति उक्त्वा अदृश्यः अभवत् । अनेन कंसस्य भयं तापः कोपः च शतगुणिताः अभवन् ।

कथञ्चिदपि कृष्णस्य हननं भवेदेव इति विचित्नयन् कंसः बालकृष्णं मारयितुं पूतना, शकटः, धेनुकः, यमलार्जुनः केशी, इत्यादीन् चित्रविचित्रान् मायाविराक्षसान् सम्प्रेषितवान् । ते सर्वेऽपि क्षुद्राः बालकृष्णेन हताः । कृष्णे तारुण्ये आगते मन्तिणा अक्रूरेण बलरामं श्रीकृष्णः।श्रीकृष्णं च मथुराम् आनायितवान् । कंसस्य राजभवनस्य प्रवेशद्वारे एव कुवलयपीडः इति मत्तगजं कृष्णबलरामयोः वधार्थम् अत्यजत् । कृष्णः गजं हत्वा बलरामेण सह कंससभा प्राविशत् । तत्र बलरामकृष्णवधार्थं सिद्धौ चाणूरमुष्टिकौ मल्लयुद्धेन संहार्य कंसवधं कृतवन्तौ । पश्चात्  श्रीकृष्णः उग्रसेन पुनः सिंहासने उपावेशितवान् ।




#Article 195: कृष्णः (308 words)


कृष्णः  भारतीयसम्प्रदाये सनातनधर्मे च वासुदेवः श्रीकृष्णः स्वयं भगवान् परमतत्त्वं च ।। कृष्णो श्रीभगवतो लीलावताररूपः।। कृष्णस्तु स्वयं भगवान् इति कथ्यते। कर्षति आकर्षति इति कृष्णः, मेघश्यामवर्णीयः इति तस्य नामस्य अर्थः।  मृत्युलोके इह श्रीकृष्णः द्वापरयुगे पाश्चैमिकवर्षे ३१०२ ईसापूर्वे मथुरानगरस्य कारागृहे ऽवतृतः। तस्य माता देवकी पिता वसुदेवश्च ।।

तदा कंसः देवक्या: भ्राता मथुरानरेश: आसीत् । कंसपितोग्रसेनः कृष्णस्य मातामहः। दुष्टेन कंसेन भगिनी देवकी आवुत्त: वसुदेव: च स्वकारागृहे बद्धौ।। कंसमतिबलवन्तं कश्चित् ऋषिः देवकीवसुदेवविवाहावसरे तयोरष्टमपुत्रः कंसमर्दनकारणं भविष्यतीति कथितवान्। तस्मात्तौ कंसेनातिचिन्तितेन कारागृहे बद्धौ आस्ताम्। वसुदेवदेवक्योः सप्तपुत्रान् क्रूर:कंसः हतवान्।अष्टमपुत्रः कृष्णः जनितः इति विदित्वा आगच्छति |किन्तु तदन्तरॆ कृष्णस्य स्थाने नन्दगोपतनया आगत्य तस्याः स्थाने गोकुले कृष्णः रक्षितवान्। एतद्विषयं तत्स्त्रीकन्यया विदितः कंसः श्रीकृष्णस्य अन्वेषणे सर्वत्र स्वसैन्यं प्रेषितवान्। तद्व्याजया आगतान् शकटासुर तृणावर्तादीन् संहरति। अर्जुनवृक्षछेदव्याजया धुनि,चमु इति असुरौ संहरति। एवं लोकपालः कृष्णः गोकुलं त्यक्त्वा वृंदावनं प्रति आगत्य तत्र बक-उग्र-वत्सासुरादीन् संहरति। तत्रैव कालीयमर्धनं कृत्वा लोकरक्षणार्थं कालीयं मारयति। तत्सप्तवयसि एव कालनेमिपुत्रान् वेषभस्वरूपान् सप्तदैत्यान् मारितस्य कृष्णस्य नीला इति कन्यया साकं विवाहं भवति। एकदा एषः वृन्दावने इन्द्रयज्ञं न्यवारयति। तदा कृद्धः इन्द्रः बृहद्वर्षधारां निरंतरं वर्षति। तदा कृष्णः गोवर्धनगिरिं धृत्वा वृन्दावनजनान् रक्षति।तद्दृष्ट्वा इन्द्रोपि कृष्णस्य समीपे शरणागतिं प्राप्नोति। एतद्गोवर्धनगिरिप्रसंगेन सर्वे जनाः श्रीकृष्णं स्वयं भगवान् इति जानन्ति। एवं शंखचूड-अरिष्टासुर-रजक- पूतनी-कुवलयापीड-चाणूर-मुष्टिकासीन् हत्वा स्वमातुलं कंसं च मारितः श्रीकृष्णः देवकी वसुदेवयोः बन्धनं निस्सारितवान्। 
१६१०८ पत्नीन् प्राप्तः कृष्णः नरकासुरसंहारानंतरं स्त्रीसंरक्षणार्थं १६००० कन्यान् उद्वहति। यतः नरकासुरः तान् कन्यान् स्वबंधने वनिहितव्वन्। यदा कृष्णः नरकासुरं हत्वा तान् कन्यान् विमोचति। तदा ते प्रार्थयंति। नरकासुरात् बन्धितान् अस्मान् कोपि नेछति। अतः अस्माकं तावत् त्वमेव गतिः पतिः इति। तेषां प्रार्थनानुसारेण कृष्णः तान् उद्वहति।अन्ये लक्ष्मीस्वरूपाःअष्टमहिष्स्तावत् सन्दर्भानुसारेण कृष्णं प्राप्नुवन्ति।
कृष्ण: यादवकुलस्य राजा आसीत्। तेन भगवद्गीता संवाद: प्रदत्तः।

गीतायाम् अष्टादश अध्यायाः सन्ति। दशमे अध्याये श्रीकृष्णः स्वदिव्यस्वरूपं वर्णयति। एकादशे अध्याये सः अर्जुनाय स्वस्य विश्वरूपं दर्शयति। द्वादशे अध्याये भक्तस्य दिव्यगुणाः वर्णिताः।
कृष्णः इति नामं तावत् भगवद्मूलरूपेषु चतुर्विंशतिरूपेषु अंतिमः। महाभारतस्य विष्णुसहस्रनामे ५७  ५५० तमे नामे प्रसिद्धः। कृष्णस्य इतिहासस्तु महाभारतॆ,भागवतमहापुराणे, विष्णुपुराणे, हरिवंशे गीयते। एषः कृष्णः एव ओडिशा मध्ये जगन्नाथ, महाराष्ट्रे विठोबा,विठ्ठ्ल, राजस्थानमध्ये श्रीनाथ इति प्रसिद्धः।
उत्तरप्रदेश, बिहार्, हरियाण, गुजरात्, डेल्ली मध्येषु कृष्णस्य संचलनमासीत् इति प्रथा।

श्री  परमात्मने ।




#Article 196: जनमेजयः (195 words)


जनमेजयः पौरवकुलस्य राजा आसीत्। महाभारतानुसारं कुरुवंशस्य राजा । महाभारते युद्धे अभिमन्योः मरणकाले उत्तरा गर्भवती आसीत् । अस्याः गर्भात् यस्य जन्म अभवत् सः अग्रे परीक्षितमहाराजः इति ख्यातः यः महाभारतयुद्धस्य पश्चात् हस्तिनापुरस्य राजा अभवत् । अस्य एव पुत्रः जनमेजहयः । जनमेजयस्य मातुः नाम मद्रावती इति । महाभारतकथानुसारम् इयं जनमेजयस्य माता । किन्तु भागवतानुगुणम् इरावती या उत्तरकुमारस्य पुत्री । 

महाभारते अस्य जनमेजयस्य कक्षसेनः, उग्रसेनः, चित्रसेनः, इन्द्रसेनः, सुषेणः नख्यसेनः इति षट् सोदराः आसन्  इति उक्तम् । 

महाकाव्यस्य आरम्भे एव जनमेजयस्य सर्पराजं तक्षकं विरुद्ध्य विजयस्य विषयः अस्ति । जनमेजयः स्वपितुः परीक्षितस्य  मृत्योः पश्चात्  हस्तिनापुरस्य सिंहासने आरूढः अभवत् । परीक्षितः पाण्डुवंशस्य एकमात्रं सन्तानम् आसीत् । परीक्षितः सर्पदशनेन मरणं गमिष्यति इति केनचित् महर्षिणा शप्तः । अने सर्पराजस्य तक्षकस्य कारणेन एव अस्य मृत्युः अभवत् । जनमेजयः अनेन प्रकरणेन अतीव खिन्नः आसीत् । अतः सः अमग्रस्य सर्पकुलस्य विनाशं कर्तुं निश्चित्य सर्पयज्ञम् अयोजितवान् । एतत् यज्ञम् अतिभयङ्करं भवति यस्मिन् विश्वस्य सर्वेऽपि सर्पाः विनष्टाः भवन्ति । तदा काश्चित् बालृर्षिः आस्तिकः इति तस्मिन् यज्ञपरिसरे आगतः यस्य माता मानसा इति नागस्त्रीः पिता कश्चित् ब्राह्मणः । तदा वेदव्यासस्य प्रियतमः शिष्यः वैशम्पायनः तत्रागतवान् । जनमेजयः एतस्मात् स्वपूर्वजानां वृत्तान्तं ज्ञातुम् इच्छति स्म । तदा वैशम्पायनमहर्षिः जक्रवर्तिनः भरतात् आरभ्य कुरुक्षेत्रमहासङ्ग्रामपर्यन्तं वंशगाथाम् अकथयत् । उग्रश्रवस्रौती अपि कथां श्रुत्वा नैमिषारण्यं गत्वा शौनकादिमुनीन् श्रावितवान् । 




#Article 197: इक्ष्वाकुः (136 words)


सूर्यवंशस्य मूलपुरुषः इक्ष्वाकुः

भारतीयस्य जनजीवनस्य संस्कृतेः च विकासस्य कारणीभूताः सन्ति प्राचीनाः ॠषयः, राजर्षयः, राजानः च । वसिष्ठविश्वामित्रादीन् मुनीन् अधिकृत्य, श्रीराम-जनकादीन् राज्ञः अधिकृत्य च सर्वेऽपि भारतीयाः यत्किञ्चित् जानन्ति एव ।

विश्वामित्रः राज्यसम्पदं परित्यज्य ऋषिः जातः । जनकः तु राजा सन् अपि ऋषिजीवनं यापितवान् । अस्माकं राजसु बहवः वीराः, प्रजापालनदक्षाः, त्यागशीलाः, राष्ट्रप्रवर्धकाः च सन्तः कीर्तिं प्राप्तवन्तः आसन् । अनुकरणीयेषु राजासु अग्रगण्यः अस्ति श्रीरामः । तस्य राज्यपालनं तावत् श्रेष्ठम् आसीत् यत् उत्तमं राज्यं ’रामराज्यम्’ इति उच्यते लोके ।

श्रीरामः इक्ष्वाकुकुलतिलकः इति क्यातः अस्ति । श्रीरामस्य वंशः सूर्यवंशः । सूर्यवंशस्य मूलपुरुषः एव इक्ष्वाकुः । इक्ष्वाकोः पिता वैवस्वतमनुः । माता च श्रद्धादेवी । ’वैवस्वत’ पदस्य अर्थः - विवस्वतः = भगवतः सूर्यस्य अपत्यं पुमान् इति ।

इक्ष्वाकुविषये पुराणेषु अधिकविवरणं न प्राप्यते । तथापि हरिश्चन्द्रः, सगरः, भगीरथः इत्यादयः यस्मिन् वंशे जाताः तस्य वंशस्य आद्यपुरुषः इक्ष्वाकुः एव इत्यतः तस्य महती कीर्तिः अस्ति लोके ।




#Article 198: द्रौपदी (1672 words)


 
सनातनधर्मानुसारः प्रातस्स्मरणासु पञ्चकन्यासु अन्यतमा द्रौपदी भवति । भारतस्य सारस्वतलोके द्वे महाकाव्ये विश्वप्रसिद्धे रामायणम्, महाभारतम् चेति । महाभारतेतियास्य प्रधानभूमिकासु एषा द्रौपदी अगच्छति । द्रौपदी नाम द्रुपदस्य अपत्यं स्त्रीः इत्युक्ते दुपदमाहाजस्य पुत्री । अस्याः मूलं नाम कृष्णा इति । पाञ्चालस्य राजकन्या इति पाञ्चाली इत्यपि कथयन्ति । यज्ञमुखात् उद्भूताम् एतां यज्ञसेना, अग्निकन्या इत्यपि सम्बोधयन्ति । द्रौपद्याः विवाहः पञ्चपाण्डवैः सह अभवत्।

द्रौपदी पाञ्चालनरेज्ञास्य राजाद्रुपदस्य पुत्री । एषा अयोनिजा । साक्षात् यज्ञवेदिकातः एषा आगतवती । एतादृशी सुन्दरी तस्मिन् समये प्रपञ्चे कापि नासीत् । एतस्याः शरीरतः तदा एव प्रफुल्लितकमलपुष्पस्य सुवासना उत्पद्य मैलिह्वय पैरिमितं प्रसरति स्म । एतस्याः जन्मसमये अशरीरवाण्या उत्तम आसीत् यद् देवानां कार्याणां सफलतायै क्षत्रियसंहरस्य उद्देशेन एतस्य रमणीयरत्नस्य जन्म अभवत् इति । कृष्ण वर्णस्याः एतां जनाः कृष्णा इति आहवयन्ति स्म । पूर्वजन्मनि भावनः शङकरस्य वरदानेन अस्मिन् जन्मनि पञ्च पतयः प्राप्तवन्तः । अर्जुनः एकः एव स्वयंवरे एतां जितवान् चेदपि मातुः आज्ञया पञ्च सहोदराः अपि एतया सह विवाहिताः आसन् ।
	द्रौपदी उच्छश्रेण्याः पतिव्रता भगवद्भक्ता च आसीत् । श्रीकृष्णस्य पदतले एतस्याः अविचल विश्वासः आसीत् । तम एषा स्वस्व रक्षकः हितैषिः परम आत्मीयः इति चिन्तितवती आसीत् । तस्य सर्वव्यापकत्वे सर्वशक्त्यां च एतस्याः पूर्णः विश्वासः आसीत् कौरव सशायां दुष्टः दुःश्शासनः एतस्याः अमानुषम् अत्याचारं कृतवान् । सभायाः सदस्याः केऽपि तस्याः रक्षणार्थं न आगतवन्तः । तदा सा स्वस्य मानस्य संरक्षणार्थे अन्य मार्गेन विना श्रीकृष्णम् एव अत्यन्तन शक्तिभावेन प्रार्थितवती ।
	शुद्धस्य हृदयस्य करुणापूरितां प्रार्थनां भगवान् बहुशीघ्रं शृणोति । तदा श्रीकृष्णः द्वारकायाम् आसीत् । ततः धौत्वा आगत्य धर्मरुपेण रहसि स्थित्वा । तस्याः मानस्य संरक्षणां कृतवान् । भगवतः कृपया द्रौपद्याः शाटिका अनन्तम् अभवत् । दुःश्शासनेन यावत् आकृष्टं चेदपि तावत् शाटिकायाः बर्धनम् भवति स्म । वस्त्रस्य राशिः एव पतितम् । दुःशशसनः श्रान्तः चेदपि शाटिकायाः अन्तं अन्त्यं न प्राप्तवान् । सम्मिलिताः सर्वे जनाः अपि भगवदभक्त्याः प्रतिव्रत्यस्य अद्भुतं चमत्कारं दृष्टवन्तः । अन्ते श्रान्तः दुःशशासनः लज्जया उपविष्टवान् । भक्तवत्सलः प्रभुः स्वस्य भक्त्याः गौरवं रक्षितवान् ।
	कदाचित् पाण्डवाः काम्यकवने आसन् । तदा दुर्योधनेन प्रेषितः महर्षिः दूर्वासः स्वस्य दश सहस्रान् शिष्यान् स्वीकृत्य पाण्डवानां कुटीरम् आगतवान् । एतेषां भोजनं समाप्तम् आसीत् । अथितिसत्काराय एव महराजः युधिष्ठिरः सूर्यदेवेन पात्रमेकं प्राप्तवान् आसीत् । तत्र निर्मितं किञ्चित् पाकमपि अक्षयः भवति स्म । किन्तु तत्र् एकः नियमः आसीत् । इत्युक्ते द्रौपद्याः भोजनपर्यन्तं तस्मिन् पात्रे यथेष्टम् अन्नं लभ्यते स्म् । युधिष्ठिरः शिष्यैः सह दूर्वासं भोजनार्थम् आहूतवान् । सः स्नान सन्ध्यावन्दनं समापयितुं गङ्गनदीं गतवान् ।
	धर्मराजा भोजनार्थम् आहवानं दत्तवान् । किन्तु द्रौपद्याः भोजनं समाप्तम् आसीत् सूर्येण दत्त्वपात्रेण भोजनव्यवस्था न भवति इति विचारं केऽपि न चिन्तितवन्तः । द्रौपद्याः चिन्ता आरब्धा । दूर्वासः तु कोपेन एव जगद्विख्यातः आसीत् भोजनं नास्ति चेत् सः शापं ददाति एव । किङ्कर्तव्यमूढा सा श्रीकृष्णमेव मनसि प्रार्थितवती ।
	श्रीकृष्णः अनुक्षणं तत्र आगतवान् । तं दृष्टवा द्रौपद्या प्राणाः आगताः इव अभवत् । सा संक्षेपेण तस्मै सर्वं विवृतवति श्रीकृष्णः सम्भ्रान्त्या सम्भाषणम् अनन्तरम् । बहुदूरतः आगतवान् अस्मि । बुभुक्षा अस्ति । शीघ्रं किमपि खादितुं ददातु । इति पृष्टवान् । द्रौपदी लज्जया 'मम भोजनम् इदानीमेव अभवत् । पात्रे किमपि न अवशिष्टम इति अवदत् । श्रीकृष्णः पात्रं दृष्ट्वा तस्मिन एकं पर्णं प्राप्तवान् । तं पर्णमेव मुखे स्थापयित्वा श्रीकृष्णः एतेन पर्णेन पर्णजगताम् आत्मयज्ञभोक्ता परमेश्वरः तृप्तः भवतु इत्युक्त्वा सहदेवं सूचयति गङ्गातारं गत्वा मुनीश्वरं भोजनार्थम् आहवयतु इति । किन्तु यदा सहदेव गङ्गातीरं गतवान् तत्र कोऽपि नासीत् । यदा श्रीकृष्णः मुखे पर्णं स्थार्पायत्वा सङ्कल्प पठितवान् तदा चूर्वासस्य शिष्याणां च आहारेण उदरपूर्णमिव अनुभवमभवत् । इदानीं तत्र गत्वा किं खादामः? पलायनमेव वरमिति दूर्वासः चिन्तितवान् । यतः पाण्डावाः भगवदभक्ताः इति सः जानाति स्म आम्बरीषस्य धटनानन्तरं भगवदभक्ताः इत्युक्ते दूर्वासस्य बहुभयं भवति स्म । अतः सर्वे ततः पलायितवन्तः । एवं भक्त्या एव द्रौपदि पाण्डवानां समस्यां दूरिकृतवती । दूर्वासस्य कोपेन अपि रक्षितवती ।

	कदाचित् श्रीकृष्णपरमात्मः सत्यभामया सह पाण्डवान द्रष्टुं बनम् आगतवान । तदा सम्भाषणसमये सत्यभामा द्रौपदीं पृच्छति अनुजेः अहं पश्यन्ती अस्मि भवात्याः वीराः शूराः पतयः सर्वदा भवत्याः अधीनाः एव तिष्ठन्ति । कारणं किम् ? भवति किमपि यन्त्र मन्त्रं औषधं किमपि जानाति वा ? अथवा जपः तपः होमः व्रतः अथवा विद्यया तान् वशीकृतवति वा ? तथा किमपि उपायमस्ति चेत् माम् अपि पाठयतु । येन भगवान् श्यामसुन्दरः अपि मम वशः भवेत् । इति । तदा द्रौपदी वदति यत् 'भवत्याः एतादृशाः अनुमानाः सम्यक् न । यतः भवति बुध्दिमती श्रीकृष्णस्य राज्ञी च अस्ति । पत्नी स्वं वशीकर्तुं यन्त्र मन्त्रस्य प्रयोगान् करोति इति यदा पतिः जानाति सः तया सह इतोऽपि दूरः एव भवति । एतेन अनर्थः एव भवति । अतः कदापि पत्न्या पत्युः अप्रियं न करणीयम् इति अनन्तरं स्वस्य पतीनां सन्तोषार्थं सा किं किं करोति इत्यपि द्रौपदी विवृतवती । सा वदति यत् अहम् अहङ्कारस्य कामक्रोधस्य परित्यागं कृत्वा जागरुकतया सर्वेषां पाण्डवानां तेषां पत्नीनां च सेवां करोमि  । असूयातः सर्वदा दूरे तिष्ठामि । कठोराणि वचनानि न वदामि । असभ्यतां न दर्शयामि, असत्यं न वदामि । दुःस्थाने न उपविशामि । अनुचितानि आचरणानि न आचरामि । पतीनां अभिप्रायं ज्ञात्वा तम् अनुसरामि । देवः मनुष्यः, गन्धर्वः युवकः धनिकः रुपवान् कोऽपि पुरुषः भवतु, मम मनः पाण्डवान् विहाय अन्यत्र न् गच्छति । पतीनां भोजनस्य विना अहं भोजनं न करोमि । तेषां स्नानपर्यन्तम् अहम् स्नानं अ करोमि तेषाम् उपवेशनं विना अहं न उपविशामि । पतयः यदा गृहम् आगच्छान्ति तदा अहं स्थित्वा एव आसन्दं जलं च ददामि । गृहस्य पात्राणि स्वच्छं स्थापयामि । रुचिकरं पाकं करोमि । समये भोजनं ददामि । गृहे धान्यानां रक्षणां करोमि । गृहस्य स्वच्छतां सर्वदा रक्षयामि । अहं सम्भाषणे कस्यापि तिरस्कारं न करोमि । व्यभिचारीस्त्रीणां समीपं न गच्छामि । पत्युः अनुकूला सती आलस्येन दूरे एव भवामि । वारं वारं गत्वा द्वारे न तिष्ठामि । यत्रकुत्रापि अवकरं न क्षिपामि । सर्वदा सत्यं वदामि । पतिं विहाय एकाकिनी स्थातुं नितरां न इच्छामि । कौटुम्बिककारणतः यदा पतिः बहिः गच्छति तदा अहं पुष्पं चन्दनं च त्यक्त्वा नियमान् व्रतान् पालयन्ती समयं यापयामि । यं पदार्थं मम पतिः न खादति, न पिबति तं पदार्थं अहमपि त्यजामि । स्त्रीणां निमित्तं शास्त्रं यं विषयं ज्ञापयति तं सर्वम् अहं पालयामि । प्राप्तेन वस्त्रालङ्कारेण शरीरं सुन्दरं स्थापयामि । सर्वदा जागरुका भूत्वा पत्युः प्रीतिं करोमि ।

	कुटुम्बसम्बन्धे श्वश्रूः यं धर्मं सूचितवती अस्ति तं सर्वं पालयामि भिक्षादानं पूजा, श्राध्दः पर्वेषु धृतेन खाद्यनिर्माणं, नारी सम्माननं मम याः धर्माः सन्ति तान जागरुकतया दिनरात्रौ आचरामि । मम दृष्टया पत्युः अधिनमेव रत्रीणां योग्यम् । सः एव तस्याः इष्टदैवः । अहं कदापि पतीनाम् अपेक्ष्या  श्रेष्ठा न भवामि । तेषाम् अपेक्ष्या उत्तमं भोजनं न करोमि । तेषाम् अपेक्षया उत्तमं वस्त्रं न धरामि । कदापि श्वश्रवा सह वादविवादं न करोत्मि । सर्वदा संयमं पालयामि । अहं सर्वदा मम पतीनाम् अपेक्षया शीघ्रम् उत्तिष्ठामि । ज्येष्ठानां सेवां करोमि । वस्त्राभूषणे वा भोजने वा कदापि मम निमित्तं किमपि विशेषं न स्थापयामि । पूर्वं महाराजः युधिष्ठिरस्य समीपे दशसहस्त्राः सेविकाः आसन् महयम् सर्वा परिचिताः आसन्  । कः किं कुर्वन् अस्ति इति ध्यानं भवति स्म । तदा एकलक्षम् अश्वाः, गजाः आसन् । तेषां व्यवस्याम् आवश्यकताम् अहमेव पश्यामि स्म । अन्तः पुरस्य गोपानां मेषपालानां सेवकानां कार्यविचारणाम् अहमेव करोमि स्म ।

महाराजस्य आयव्ययस्य विवरणम् अहमेव स्थापयामि स्म । पाण्डवाः कुटुम्बदायित्वं मम उपरि त्यक्त्वा पूजायां पाठने, अतिथि सत्कारे भवन्ति स्म । तेषां अखण्ड कोषस्य परिचयः केवलं महयम् आसीत् । पिपासां बुभुक्षां निद्रां त्यक्त्वा कार्येमग्नाः भवामि स्म । सत्यभामा । पतिं गृहीतुं अहं एतम् उपायमेव कृतवती इति वदति । आदर्श पत्नी कथं भवेत् इति द्रौपद्याः जीवनेन पठितुं शक्यते ।

	द्रौपद्यां क्षत्रियोचितः तेजः भक्तोचिता क्षमा एतयोः च अभूतपूर्वं सम्मिश्रणमासीत् । एषा बहु बुध्दिमती विदुषी च आसीत् । श्रेष्ठ पतिव्रतायाः द्रौपद्याः त्यागः अपि अदभुतमासीत् । यदा दुःश्शसनः एतस्याः केशान् गृहीत्वा आकृष्य सभाम् आनीतवान् तदा एषा स्वस्य पतीनां कोपं दर्शयित्वा तं भायितवती । द्रोणं भीष्मं विदुरादयः गुरुजनान स्वस्य साहाय्यार्थं न्यायार्थं च प्रार्थितवती । महाराजः युधिष्ठिरः स्वस्य पराजयानन्तरं माम् पन्धे पणे स्थापितवान अस्ति स्वतः पराजितैः तस्मै एषः अधिकारः कुतः आगतः ? इति पृष्टवती । सर्वे सभासदस्याः मौनमेव आश्रितवन्तः । अन्ते दुर्योधनस्य अनुजः विकर्णः उत्याय,मौनं त्यक्त्वाअ सम्भाषणं कुर्वन्तु । द्रौपदी तु पञ्चपाण्डवानां पत्नी अस्ति । युधिष्ठिरस्य एकाकी एव तां पणाय स्थापयितुं अधिकारः नास्ति एव द्वितीयं एषः स्वस्य पराजयानन्तर द्रौपदीं पणाय स्थापितवान् अस्ति । अत्रापि तस्य अधिकारः नासीत् इति विकर्णः बादं कृतवान् । विदुरः अन्यसभासदाः अपि एतस्य समर्थनं कृतवन्तः । किन्तु कर्णः कोपेन सर्वान् उपवेशितवान् । अन्ते विदुरस्य बुध्दिवचनं श्रुत्वा धृतराष्ट्रः दुर्योधनं तर्जियित्वा द्रौपद्याः प्रसन्नतार्ये तस्य पतीनां दास्यमोचनं कृतवान् । अन्यद किमपि वरं पृच्छ्तु इति धृतराष्ट्रः द्रौपदीं यदा वदति तदा तस्याः अत्तरं तु योग्यमेव आसीत् । सा वदति यत् दुराशा उत्तमं न । इतोऽपि पृष्टुम अहं नितरं न इच्छामि । दास्ययुक्ताः मम पतयः अवशिष्टं सर्वं ते स्वयं कर्तुं समर्याः सन्ति इति । एवं अपमानिता चेदपि स्वस्य पातिबत्यबलेन नैतिकविजयं प्राप्य पतीनामपि दास्यमोचनं कृतवती ।

किञ्चित् कालपूर्व्ं राजसूययागे अवभृय स्नानसमये मन्त्रोक्तेन पवित्रजलेन अभिषेकः कृतः स्वस्य धीर्घं केशराशिं दुष्टः दुःश्यासनः पूर्णसभायां आकृष्टवान् । एतां घटनां द्रौपदी कदापि न विस्मृतवती । अपमानस्य ज्वाला तस्याः ह्रुदये सर्वदा ज्वलति स्म । अग्रे यदा यदा कौरवैः सह सन्धिप्रसङ्गम् आगच्छति तदा तदा एषा स्वस्य अपमानस्य स्मरणं कारयित्वा युध्दाय प्रोत्साहं कुर्वती आसीत् । अन्ते एकवारं श्रीकृष्णपरमात्मः एव सन्धितिमित्तं हस्तिनापुरं गच्छेत् इति यदा तीर्मानं कृतवन्तः तदापि एषा स्वस्य दीर्धान् केशान् ह्स्ते स्वीकृत्य दर्शयन्ती श्री कृष्णं वदति यन् भवान् सन्धिकार्यमध्ये मम केशान् न विस्मरतु । पाण्डवाः युध्दं कर्तुं न इच्छन्ति चेत न कुर्वन्तु । किन्तु स्वस्य महारथी पुत्रैः सह मम पिता कौरवाणां विरुध्दं युध्दं करोति । मम पञ्चपुत्राः अभिमन्युः अपि युध्दं कुर्वन्ति इति ।

	काम्यकवने जयद्रथः द्रौपदीं बलात् नेतुं यदा यत्नं कृतवान् तदा एतस्याः ताडनेन सः पतितवान् एव आसीत् । पुनः उत्याय एतां रथे उपवेश्य नयन् आसीत् । तावता भीमार्जुनौ आगत्य जयद्रथं ताडयित्वा बन्धितवन्तः । किन्तु द्रौपदी दयया तं मोचितवती । एवम् एषा क्षमामयी अपि आसीत् । किन्तु दुर्योधनः दुःशसन, कर्णः जयद्रथः कीचकादि ये ये एतां पीडितवन्तः तेषां सर्वेषां नाशम् अभवत् । महाभार्त युध्दे कौरवाणां नाशस्य मूलकारणमेव पतिव्रतासाध्वीद्रौपद्याः अपमाननम् ।

पूर्वं यदा कौरवपाण्डवानां बाल्ये द्रोणाचर्यस्य गुरुकुले शिक्षा प्रचलति स्म । शिक्षायाः प्राप्तेः पश्चात् ते गुरुदक्षिणां दातुम् उद्यताः । द्रोणाचार्यस्य पूर्वसखेन द्रुपदमहाराजेन कृतस्य अवमानस्य स्मरणम् अभवत् । अतः राजकुमारान् आदिशत् गुरुदक्षिणारूपेण पाञ्चालरजं द्रुपदं बन्धिनं कृत्वा मे पुरतः आनयन्तु  सा एव मम गुरुदक्षिणा भविष्यति इति । गुरो आदेशं शिरसा धृत्वा शिष्यराजकुमाराः स्व स्वशस्त्राणि गृहीत्वा पाञ्चालदेशं गतवन्तः । द्रोणाचार्यः प्रथमं युद्धावकाशं कौरवेभ्यः दत्तवान् । दुर्योधनादयः द्रुपदसैन्येन परास्ताः अभवन् । पश्चात् पण्डावाः द्रुपदसेनायाम् आक्रमणम् अकुर्वन् । भिमसेनस्य अर्जुनस्य च पराक्रमस्य पुरतः पाञ्चालसेना स्थातुम् अशक्ता अभवत् । अर्युनः अग्रे गत्वा द्रुपदं बन्धिनं कृत्वा द्रोणाचर्यस्य पुरतः समानयत् । द्रुपदः लज्जया अधोमुखः सन् स्वापराधम् अङ्गीकृतवान् । स्वस्य राज्यसर्वस्वं द्रोणाय समर्पितवान् । द्रोणः स्नेहः समानेषु भवति किल अतः अर्धराज्यं ते ददामि अर्धम् अहम् अनुभवानि इति उक्त्वा गङ्गायाः दक्षिण तटस्य राज्यभागं द्रुपदाय समर्पितावान् । द्रोणेन परास्तः द्रुपदः अत्यन्तम् अवमानितः येन केनापि प्रकारेण द्रोणम् अवमानयितुम् उपायं चिन्तितुम् आरभत । तदर्थमटन् कल्याणनगरस्य ब्रह्मणाग्रहारम् आगच्छत् । तत्र याजः उपयाजः इति कर्मकाण्डिनोः ब्राह्मणयोः दर्शनम् अभवत् । तेषां सूचनानुसारं ताभ्याम् एव यज्ञमेकम् अन्वतिष्ठत् । यज्ञेन प्रसन्नः अग्निदेवः कवचकुण्डलयुतं सायुधं सुन्दरं पुत्रम् अनुगृहीतवान् । पश्चात् तस्मात् यज्ञकुण्डात् प्रफुल्लायतक्षी देदीप्यमानवदना, श्यामलवर्णा कन्या उद्गता । तदा कौरवाणां विनाशाय एव अस्याः जन्म अभवत् इति काचित् अशीरवाणि अपि श्रुता । बालकस्य धृष्टद्युम्नः बालिकायाः नाम कृष्णा इति अकुर्वन् ।





#Article 200: लकाराः (235 words)


वाक्ये क्रियाबोधकं पदं क्रियापदम् इति उच्यते । उदा - बालकः पाठं पठति । अत्र पठनक्रियां सूचयति 'पठति' इत्येतद् क्रियापदम् । संस्कृते क्रियापदं मूलरूपेण न भवति । क्रियापदस्य मूलरूपं धातुः इति उच्यते । पठति इत्येतस्य क्रियापदस्य मूलरूपम्/धातुः अस्ति पठ् । यथा प्रातिपदिकानां कृते विभक्तिप्रत्ययान् संयोज्य शब्दरूपाणि प्राप्नुमः तथा धातूनां कृते आख्यातप्रत्ययान् संयोज्य क्रियापदानि प्राप्नुमः । पठति इत्यत्र पठ-धातोः कृते 'ति' इयेषः आख्यातप्रत्ययः योजितः अस्ति ।

संस्कृते धातवः द्विविधम् 

मूलधातवः सर्वे सिद्धधातवः । उदा - पठ्, लिख्, नी, पा ।
साधितधातवः - मोचय्, जिज्ञास्, जाज्वल्, बाष्पाय् ।

संस्कृते २२०० धातवः सन्ति ।
एतैः धातुभिः सह ये आख्यातप्रत्ययाः योज्यन्ते ते द्विविधम् - 'परस्मैपद'  'आत्मनेपद' च । 
यैः धातुभिः सह आत्मनेपद-आख्यातप्रत्ययाः मात्रं योज्यन्ते ते आत्मनेपदिनः इति उच्यन्ते ।
यैः धातुभिः सह परस्मैपद-आख्यातप्रत्ययाः मात्रं योज्यन्ते ते परस्मैपदिनः इति उच्यन्ते ।
यैः धातुभिः सह द्विविध-आख्यातप्रत्ययाः अपि योज्यन्ते ते उभयपदिनः इति उच्यन्ते ।

धातुभिः सह आख्यातप्रत्ययानां योजनावसरे क्रियापदं कस्य सम्बद्धम् इति ज्ञात्वा योजनीयं भवति । 
स्वस्य सम्बद्धं चेत् - उत्तमपुरुषः।
पुरतः विद्यमानस्य सम्बद्धः चेत् मध्यमपुरुषः ।
अन्यस्य सम्बद्धः चेत् प्रथमपुरुषः भवति । 

संस्कृतभाषायां विभिन्नकालस्य अर्थस्य च सूचनार्थं दश विधाः आख्यातप्रत्ययाः संयोज्य क्रियापदानि रचयन्ति ।
सामान्यतः कालः त्रिधा विभज्यते ।
क्रियमाणं कार्यं सूचयितुं वर्तमानकालस्य क्रियापदानि उपयुज्यन्ते । 
कृतं कार्यं सूचयितुं भूतकालस्य क्रियापदानि उपयुज्यन्ते । 
करिष्यमाणं कार्यं सूचयितुं भविष्यत्कालस्य क्रियापदानि उपयुज्यन्ते ।
किन्तु संस्कृते कालः षोढा (६) विभज्यते ।

षट्-लकाराः इव चत्वारः अर्थाः सन्ति - 

एते सर्वे लकारतः आरब्धाः इत्यतः एते दश लकाराः इति उच्यन्ते । तान् सुलभतया स्मर्तुं संस्कृते कश्चन श्लोकः विद्यते - 




#Article 201: अश्विनी (269 words)


रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते अश्विनी । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् अश्विनी भवति प्रथमं नक्षत्रम् । अश्विनी इति नाम वराहमिहिरेण ऐदम्प्राथम्येन उपयुक्तम् ।  
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

तुरगमुखाश्विनी त्रीणि - अश्वमुखस्य आकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

चू चे चो ला -अश्विनीनक्षत्रसम्बद्धानि अक्षराणि ।

अश्विनीनक्षत्रस्य अधिपतिः अश्वीनीकुमारौ । एतौ देवानां वैदौ स्तः । 

अश्विनीकुमारः सुनियन्त्रितैः अश्वैः सह अश्विनीनक्षत्रेण सह आगच्छन् अस्ति । इदमस्ति शुभम् । भवतः नक्षत्रस्य हविषा यजन् अस्ति । मधुना युक्तः अस्ति । यजुषा प्रकाशितः अस्ति । देववैद्यः, हव्यवाहः, विश्वदूतः, अमृतस्य संरक्षकः, कर्मफलदाता अस्ति । तस्मै नमः । सः अश्विन्यां वसति ।

अश्वहरा अश्वग्राहकाः । सेनापतयश्चमृनाथाः । वैद्याः कायचिकित्सकाः । सेवकाः सेवानिरताः । तुरगा अश्वाः । तुरगारोहा अश्वगामिनः । वणिजः किराताः क्रयविक्रयनिरताः । रूपोपेताः रूपसम्पनाः सुरूपाः । तुरगरक्षा अश्वपतयः । एते सर्व एवाऽश्विन्याम् ।

अश्विनीनक्षत्रे यात्रा, औषधम्, आभूषणम्, विद्या, अश्व-गजारोहम्, शिल्पकर्म, वस्त्रम्, उत्सवादिमङ्गलकार्याणि कर्तुं शक्यते ।

अथ क्षिप्राणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह -
हस्तः प्रसिद्धः । आश्विनमश्विनी । पुष्यस्तिष्यः । केचिदभिजिदत्रेच्छन्ति । एतन्नक्षत्रत्रयं चतुष्टयं वा लघु क्षिप्रमित्यर्थः । एतानि पण्ये विक्रये । रतौ पुंरतौ । ज्ञाने शास्त्रारम्भे । भूषणे अलङ्करणे । कलासु चित्रगीतवाद्यनृत्यादिषु । शिल्पकर्मणि तक्षककर्मलोहकारकर्मादौ । औषधे द्रव्यप्रयोगे । याने यात्रायाम् । आदिग्रहणादृणग्रहणे धनप्रयोगे च । एतेषु कार्येषु सिद्धिकराण्युक्तानि । 




#Article 202: भरणी (288 words)


रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते भरणी । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् भरणी भवति द्वितीयं नक्षत्रम् । 
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

भरणी योनि त्रीणि - योनि-आकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

ली लू ले लो - भरणीनक्षत्रसम्बद्धानि अक्षराणि ।

भरणीनक्षत्रस्य अधिपतिः यमः । वैदिकसाहित्ये यमः न्यायाधीशः, नियन्ता, संयमी, परमात्मा, वायुः, सूर्यपुत्रः वैवस्वतः इति च निर्दिष्टः अस्ति । तैत्तरीयब्राह्मणे एवं कथ्यते यत् यमः महान्, महत्सु महान् अस्ति । राजा अस्ति । अस्माकं मार्गं निरापदं करोति । अभयदाता अस्ति । तस्य प्रिया भरणी विश्वस्य भरणं करोति । अस्मिन् नक्षत्रे यमराजस्य राज्याभिषेकः कृतः । सः तस्मिन् नक्षत्रे आगमिष्यति । वयं भरणीनक्षत्रस्य उपासनां कुर्मः । ततः वयं कष्टेभ्यः पापेभ्यश्च मुक्ताः भवाम । 

असृग्रक्तं पिशितं मांसं तद्भुञ्जते ये तेऽसृक्पिशितभुजो रक्तमांसादाः । क्रूराः उग्राः । वधे मारणे बन्धे ताडने कुट्टने चासक्ताः रताः । तुषधान्यं शालयः । नीचजुलोद्भवा निकृष्टवंशजाताः । ये च सत्त्वेनौदार्येण विहीना रहिताः । एते सर्वं एव याम्ये भरण्याम् ।

भरणीनक्षत्रे साहसकर्म, दारुणकर्म, शत्रुसंहारः, कूपखननम्, कृषिकर्म, विष-वध-बन्धन-अग्निस्थापनकार्याणि कर्तुं शक्यते ।

अथोग्राणि नक्षत्राणि तैश्च यत् कर्म कर्तव्यं तच्चाह -
पूर्वत्रयं पूर्वफाल्गुनी पूर्वाषाढा पूर्वभाद्रपदा इति । प्रित्र्यं मघा । एतानि पञ्च नक्षत्राण्युग्राणि भवन्ति । तानि चोत्सादे उत्सादने । परस्यार्थादीनां नाशे । शाठ्ये शठभावे च । एतेषु कार्येषु योज्यानि । तथा बन्धे बन्धने । विषे शत्रूणां विषप्रयोगे । दहनेऽग्निदाहे । शस्त्रे शस्त्रप्रहरणे । घाते मारणे । आदिग्रहणादन्येषूपद्रवकरणेषु ज्वरातीसारोत्पादनेषु सर्वकर्मसु सिद्ध्यै सिद्ध्यर्थं योज्यानि प्रयोक्तव्यानि । 




#Total Article count: 201
#Total Word count: 199732